समराङ्गणसूत्रधार अध्याय ४०
अथ पीठमानं नाम चत्वारिंशोऽध्यायः।
देवानां मनुजानां च पीठमानमथोच्यते।
पीठं कनीयो भागं च सार्धभागं तु मध्यमम् ॥१
द्विभागमुत्तमं तत् स्याडेषा पीठसमुच्छ्रितिः।
महेश्वरस्य विष्णोश्च ब्रह्मणश्चोत्तमं भवेत् ॥२
इतरेषां च देवानां कर्तव्यं तन्न धीमता।
ईश्वरस्य यथाकामं पीठं कार्यं विचक्षणैः ॥३
यस्मिन्स्थाने विधातव्यो ब्रह्मा विष्णुस्तथैव च।
ईश्वरः सर्वतः कार्यो न दोषस्तत्र विद्यते ॥४
इतरेषां तु देवानां पीठं भागं समुच्छ्रितम्।
यस्य येन विभागेन वास्तुमानं विधीयते ॥५
तस्य तेनैव भागेन पीठोच्छ्रायो विधीयते।
मनुजानां च पीठानि वेश्मनां देवपीठकैः ॥६
तुल्यानि कुर्यादुपरि कृता वृद्धिकराः सुराः।
पुरमध्ये तु कर्तव्यं ब्रह्मणो गृहमुत्तमम् ॥७
चतुर्मुखं च तत्कार्यं यथा पश्यति तत्पुरम्।
अधिकं सर्ववेश्मभ्यस्तथा राजगृहादपि ॥८
राजवेश्माधिकमपि शस्यतेऽन्यसुरालयात्।
पञ्चमो लोकपालनां राजा श्रेष्ठतमो यतः ॥९
एवमेतानि देवानां पीठान्युक्तान्यशेषतः।
चातुर्वर्ण्यस्य पीठानि ब्रूमो विप्राद्यनुक्रमात् ॥१०
षट्त्रिंशदङ्गुलोत्सेधं पीठं विप्रस्य शस्यते।
इतरेषां तु वर्णानां ह्रस्वं स्याच्चतुरङ्गुलम् ॥११
चातुर्वर्ण्यस्य पीठानि भुङ्क्ते विप्रो गृहाणि च।
त्रयाणां क्षत्रियो वैश्यो द्वयोः शूद्रः क्रमात्स्वकम् ॥१२
एवं विभागं पीठानां स्थपतिः परिकल्पयेत्।
हितं कारयितुर्वाञ्छन् नृपतेश्च समृद्धये ॥१३
प्रमाणे स्थापिता देवाः पूजार्हाश्च भवन्ति हि।
प्रमाणं पीठानामिदमभिहितं ब्रह्ममुरजि-।
त्पुरारीणामत्रापरदिविषदां यच्च नियतम् ।।
ततो विप्रादीनामपि निगदितं यत्तदखिलं।
यथौचित्यायोज्यं श्रियमभिलषद्भिः स्थपतिभिः ॥१४
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे पीठमानं नाम चत्वारिंशोऽध्यायः।