समास:०७ युगधर्म:

विकिस्रोतः तः

नाना वेषाः सन्ति, नाना आश्रमाः सन्ति परं तेषां मूलं गृहस्थाश्रमः।अत्र त्रैलोक्यवासिनः जनाः विश्रमं प्राप्नुवन्ति। १४.७.१
देवाः, ऋषयः, मुनयः नाना तापसाः, वीतरागिणः अभ्यागताः, अतिथयः पितरः इति एते सर्वे गृहस्थस्य भागिनः सन्ति।१४.७.२
एते गृहस्थाश्रमे जाताः परं गृहस्थाश्रमं त्यक्त्वा प्रव्रजिताः। परन्तु कीर्तियुतानि गृहस्थगृहाणि एव अटन्ति।१४.७.३
अतः गृहस्थाश्रमः सर्वेषु आश्रमेषु उत्तमः।तथापि तत्र स्वधर्मः, भूतदया च इति आवश्यकम्।१४.७.४
यत्र षट् कर्माणि अनुष्ठीयन्ते, यथाविधि क्रिया आचर्यते, प्राणिमात्रेण सह मधुरवाण्या भाष्यते, (सः उत्तमः गृहस्थाश्रमः)१४.७.५
शास्त्रोक्तकर्मणां नियमेन अनुष्ठानं सर्वथा उत्तमं,तत्रापि अलौकिकः अस्ति अयं भक्तिमार्गः।१४.७.६
पुरश्चरणी, कायक्लेशी, दृढव्रती, परमायासी, जगदीशाद् अपरं न मन्यमानः (गृहस्थः अलौकिकः) १४.७.७
सः कायेन वाचा जीवेन प्राणैः भगवदर्थं कष्टम् उद्वहति। भजनमार्गस्य निश्चयः तेन मनसा कृतः।१४.७.८
ईदृशः अस्ति भगवद्भक्तः,यः विशेषत्वेन अन्तःकरणे विरक्तः।यः देवार्थं संसारं त्यक्त्वा मुक्तः भवति।१४.७.९
अन्तःकरणे यद् वैराग्यं, तदेव महद्भाग्यम् इति अवगन्तव्यम्। लोलुप्त्वसदृशं दुर्भाग्यम् अन्यत् नास्ति।१४.७.१०

दासबोधः
"https://sa.wikisource.org/w/index.php?title=समास:०७_युगधर्म:&oldid=131247" इत्यस्माद् प्रतिप्राप्तम्