सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
[ आदितस्तरङ्गः २५
कथासरित्सागरः ।

कन्यायां मयेि चाभ्यागादेकस्तत्रातिथिमुनिः । मातृस्वसा च मां तस्य शुश्रूषायै समादिशत् ॥ १०४
स च कुन्त्येव दुर्वासा यत्नेनाराधितो मया । तद्वराच मया प्राप्तो धार्मिकस्त्वं पतिः प्रभो ॥ १०५
एवं भवन्ति भद्राणि धर्मादेव यदादरात् । पितृभ्यां सह संप्राप्य राज्यं जातिरपि स्मृता ॥ १०६
एतत्स तारादत्ताया देव्याः श्रुत्वा वचो नृपः । कलिङ्गदत्तो धर्मकसादरो निजगाद ताम् ॥ १०७
सत्यं सम्यक्कृतोऽल्पोऽपि धर्मो भूरिफलो भवेत् । तथा च प्राक्तनीं देवि सप्तद्विजकथां शृणु ॥ १०८
कुण्डिनाख्ये पुरे पूर्वमुपाध्यायस्य कस्यचित् । ब्राह्मणस्याभवञ्शिष्याः सप्त ब्राह्मणपुत्रकाः॥ १०९
स ताञ्शिष्यानुपाध्यायो धेरै दुभिक्षदोषतः । गोमतः श्वशुरादेकां याचितुं प्राहिणोत्ततः ॥ ११०
ते च गत्वान्यदेशस्थं दुर्भिक्षक्षामकुक्षयः । तं तद्राि तच्छूशुरं तच्छिष्या गां ययाचिरे ॥ १११
सोऽपि वृत्तिकरीमेकां घेर्नु तेभ्यः समर्पयत् । कृपणः क्षुधितेभ्योऽपि न तु तेभ्योऽशनं ददौ ॥ ११२
ततस्ते तां गृहीत्वा गामायान्तोऽर्धपथे क्षुधा। उद्ढपीडिताः शान्ता निपेतुर्धरणीतले ॥ ११३
उपाध्यायगृहं दूरं दूरे चापलूता वयम् । दुर्लभं सर्वत श्वानं तत्प्राणैर्गतमेव नः॥ ११४
एवं च धेनुरप्येषा निस्तोयवनमानुषे । अरण्येऽस्मिन्विपन्नैव गुर्वर्थाऽल्पोऽपि कस्ततः ॥ ११५
तदस्याः पिशितैः प्राणान्संधार्याशु गुरूनपि । संभावयामस्तच्छे उपैरापत्कालो हि वर्तते ॥ ११६
इति संमत्रय सप्तापि जत्रुः सत्रह्मचारिणः । शास्त्रोक्तविधिना धेडं तां पशुकृत्य तत्र ते ॥ ११७
इष्ट्वा देवान्पितृन्भुक्त्वा तन्मांसं विधिवच्च तत् । जग्मुरादाय तच्छेषमुपाध्यायस्य चान्तिकम् ॥ ११८
तस्मै प्रणम्य सर्वे ते शसंसुस्तद्यथा कृतम् । स तेभ्यः सापराधेभ्योऽप्यतुष्यत्सत्यभाषणात् ॥ ११९
दिनैः सप्तापि दुर्भिक्षदोषात्ते च विपेदिरे। जातिस्मराश्च भूयोऽपि तेन सत्येन जज्ञिरे ॥ १२०
इत्थं फलति शुद्धेन सिक्तं संकल्पवारिणा। पुण्यबीजमपि स्वल्पं पुंसां कृषिकृतामिव ॥ १२१
तदेव दूषितं देवि दुष्टसंकल्पपाथसा । फळत्यनिष्टमत्रेदं वच्म्यन्यदपि तच्छुणु ॥ १२२
गङ्गायां तुल्यकालैौ द्वौ तपस्यनशने जनौ । एको विप्रो द्वितीयश्च चण्डालतस्थतुः पुरा ॥ १२३
तयोर्विप्रः क्षुधाक्रान्तो निषादान्वीक्ष्य तत्रगान् । मत्स्यानादाय भुञ्जानानेवं मूढो व्यचिन्तयत् ॥ १२४
अहो दास्याः सुता एते धन्या जगति धीवराः। ये यथाकाममश्नन्ति प्रत्यहं शफरामिषम् ॥ १२५
द्वितीयस्तु स चाण्डालो दृष्ट्वा तानेव धीवरान् । अचिन्तयद्विगस्त्वेतान्क्रव्यादान्प्राणिघातिनः॥ १२६
तत्किमेवं स्थितस्येह दृष्णैरेषां मुखैर्मम । इति संमील्य नेत्रे स तत्रासीत्स्वात्मनि स्थितः ॥ १२७
क्रमाश्चानशनेनोभौ विपन्नौ तौ द्विजान्यौ। द्विजस्तत्र श्वभिर्युक्तः शीर्णा गङ्गाजलेऽन्त्यजः ॥ १२८
ततोऽकृतात्मा कैवर्तकुल एवात्र स द्विजः । अभ्यजायत तीर्थस्य गुणाज्जातिस्मरस्त्वभूत् ॥ १२९
चण्डालोऽपि स तत्रैव गङ्गातीरे महीभुजः। गृहे जातिस्मरो जज्ञे धीरोऽनुपहतात्मकः॥ १३०
जातयोश्च तयोरेवं प्राग्जन्म स्मरतोड्डयोः। एकोऽनुतेपे दशः सन्राजा सन्मुमुदेऽपरः ॥ १३१
इति धर्मतरोर्मूलमशुदं यस्य मानसम् । शुद्धे यस्य च तदूर्ष फडं तस्य न संशयः ॥ १३२
इत्येतदुक्त्वा देवीं र्ती तारादत्त स भूपतिः । कलिङ्गदत्तः पुनरप्युवाचैनां प्रसङ्गतः ॥ १३३
किंच सर्वाधिकं कर्म देवि यन्नाम यादृशम् । फलाय तद्यतः सत्त्वमनुधावन्ति संपदः ॥ १३४
तथने च कथयाम्यत्र मृणु चित्रामिमां कथाम् । अस्तीह भुवनख्यातावन्तीपूजयिनी पुरी ॥ १३५
राजते tसीग्तहस्थैर्या मह्कालनिवासभूः । तत्सेवारससंप्राप्तकैलासशिखरैरिव ॥ १३६
सचक्रवर्तिपान्तीयः प्रविशद्वाहिनीशतः। यदाभोगोऽब्धिगम्भीरः सपक्षक्ष्माभृदाश्रितः॥ १३७
तस्यां विक्रमासिंह को बभूवान्वर्थयाख्यया । राजा वैरिमृगा यस्य नैवासन्संमुखाः कचित् ॥ १३८
स च निष्प्रतिपक्षत्वादलब्ध्समरोत्सवः। अनेषु बाहुवीर्यं च सावज्ञोऽन्तरतप्यत ॥ १३९
अथ सोऽमरगुप्तेन तदभिप्रायवेदिना । कथान्तरे प्रसन्नेन मत्रिणा जगदे नृपः ॥ १४०
देवदोर्दण्डदर्पण शस्त्रविद्यमदेन च । आशंसतामपि रिपून्राज्ञां दोषो न दुर्लभः ॥ १४१
तथा च पूर्व बाणेन युद्धयोग्यमरिं हरः । दर्पङ्कजसहस्रस्य तावदाराध्य याचितः ॥ १४२