शंपाकगीता

विकिस्रोतः तः

.. शंपाकगीता ..

अध्यायः १७६

युधिष्ठिर उवाच

धनिनश्चाधना ये च वर्तयन्ते स्वतन्त्रिणः .

सुखदुःखागमस्तेषां कः कथं वा पितामह .. १..

भीष्म उवाच

अत्राप्युदाहरन्तीममितिहासं पुरातनम् .

शंपाकेनेह मुक्तेन गीतं शान्तिगतेन च .. २..

अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमाश्रितः .

क्लिश्यमानः कुदारेण कुचैलेन बुभुक्षया .. ३..

उत्पन्नमिह लोके वै जन्मप्रभृति मानवम् .

विविधान्युपवर्तन्ते दुःखानि च सुखानि च .. ४..

तयोरेकतरे मार्गे यदेनमभिसन्नयेत् .

न सुखं प्राप्य संहृष्येन्नासुःखं प्राप्य सञ्ज्वरेत् .. ५..

न वै चरसि यच्छ्रेय आत्मनो वा यदीशिषे .

अकामात्मापि हि सदा धुरमुद्यम्य चैव ह .. ६..

अकिञ्चनः परिपतन्सुखमास्वादयिष्यसि .

अकिञ्चनः सुखं शेते समुत्तिष्ठति चैव ह .. ७..

आकिञ्चन्यं सुखं लोके पथ्यं शिवमनामयम् .

अनमित्रपथो ह्येष दुर्लभः सुलभो मतः .. ८..

अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वतः .

अवेक्षमाणस्त्रीँल्लोकान्न तुल्यमिह लक्षये .. ९..

आकिञ्चन्यं च राज्यं च तुलया समतोलयम् .

अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम् .. १०..

आकिञ्चन्ये च राज्ये च विशेषः सुमहानयम् .

नित्योद्विग्नो हि धनवान्मृत्योरास्य गतो यथा .. ११..

नैवास्याग्निर्न चारिष्टो न मृत्युर्न च दस्यवः .

प्रभवन्ति धनत्यागाद्विमुक्तस्य निराशिषः .. १२..

तं वै सदा कामचरमनुपस्तीर्णशायिनम् .

बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः .. १३..

धनवान्क्रोधलोभाभ्यामाविष्टो नष्ट चेतनः .

तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः .. १४..

निर्दशन्नधरोष्ठं च क्रुद्धो दारुणभाषिता .

कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम् .. १५..

श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम् .

सा तस्य चित्तं हरति शारदाभ्रमिवानिलः .. १६..

अथैनं रूपमानश्च धनमानश्च विन्दति .

अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः .. १७

इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रमाद्यति .

संप्रसक्तमना भोगान्विसृज्य पितृसञ्चितान् .

परिक्षीणः परस्वानामादानं साधु मन्यते .. १८..

तमतिक्रान्तमर्यादमाददानं ततस्ततः .

प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः .. १९..

एवमेतानि दुःखानि तानि तानीह मानवम् .

विविधान्युपपान्ते गात्रसंस्पर्शजान्यपि .. २०..

तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत् .

लोकधर्ममवज्ञाय ध्रुवाणामध्रुवैः सह .. २१..

नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम् .

नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव .. २२..

इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम् .

शंपाकेन पुरा मह्यं तस्मात्त्यागः परो मतः .. २३..

इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि शंपाकगीतायां षट्सप्त्यत्यधिकशततमोऽध्यायः

"https://sa.wikisource.org/w/index.php?title=शंपाकगीता&oldid=37675" इत्यस्माद् प्रतिप्राप्तम्