वेदाङ्गज्योतिषम्
वेदाङ्गज्योतिषम्।
आर्चज्याेतिषम्
[सम्पाद्यताम्]
ऋक्पाठः
पञ्चसम्वत्सरमयम्युगाध्यक्षम्प्रजापतिम्।
दिनर्त्वयनमासाङ्गम्प्रणम्यशिरसाशुचिः॥१॥
प्रणम्यशिरसाकालमभिवाद्यसरस्वतीम्।
कालज्ञानम्प्रवक्ष्यामिलगधस्यमहात्मनः॥२॥
ज्योतिषामयनम्कृत्सनम्प्रवक्ष्यामनुपूर्वशः।
विप्राणाम्सम्मतम्लोकेयज्ञकालार्थसिद्धये॥३॥
निरेकम्द्वादशार्धाब्दम्द्विगुणम्गतसञ्ज्ञिकम्।
षष्ट्याषष्ट्यायुतम्द्वाभ्याम्पर्वणाम्राशिरुच्यते॥४॥
स्वरार्कमेकेसोमार्कौयदासाकम्सवासवौ।
स्यात्तदादियुगम्माघस्तपःशुक्लोदिनम्त्यजः॥५॥
प्रपद्येतेश्रविष्ठादौसूर्याचान्द्रमसावुदक्।
सार्पार्धेदक्षिणार्कस्तुमाघश्रावणयोःसदा॥६॥
धर्मवृद्धिरपाम्प्रस्थःक्षपाहासउदग्गतौ।
दक्षिणेतौविपर्यस्तौषण्मुहूर्त्ययनेनतु॥७॥
द्विगुणम्सप्तमम्चाहुरयनाद्यम्त्रयोदश।
चतुर्थम्दशमम्चैवद्विर्युग्माद्यम्बहुलेप्यृतौ॥८॥
वसुस्त्वष्टाभगोजश्चमित्रःसर्पाश्विनौजलम्।
धाताकश्चायनाद्याश्चार्धपञ्चनभस्त्वृतुः॥९॥
भाम्शाःस्युरष्टकाःकार्याःपक्षाद्वादशचोद्गताः।
एकादशगुणस्योनःशुक्लेर्धम्चैन्दवायदि॥१०॥
कार्याभाम्शाष्टकास्थानेकलाएकान्नविम्शतिः।
ऊनस्थानेद्विसप्ततीरुद्वपेदूनसम्मिताः॥११॥
त्र्यहम्शीभशेषोदिवसाम्शभागश्चतुर्दशस्याप्युपनीतभिन्नम्।
भार्धेधिकेचाधिगतेपरेम्शेद्वावुत्तमैकम्नवकैरवेद्यम्॥१२॥
पक्षात्पञ्चदशाच्चोर्ध्वम्तद्भुक्तमितिनिर्दिशेत्।
नवभिस्तूद्गतोम्शःस्यादूनाम्शद्व्यधिकेनतु॥१३॥
जौद्राघःखेश्वेहीरोषाचिन्मूषण्यःसोमाधानः।
रेमृघ्राश्वाओजस्तृष्वोहर्येष्टाइत्यृक्षालिङ्गैः॥१४॥
जावाद्यम्शैःसमम्विद्यात्पूर्वार्धेपार्वसूत्तरे।
भादानाम्शाच्चतुर्दशीकाष्ठानाम्देविनाकलाः॥१५॥
कलादशचविम्शास्याद्द्विमुहूर्तस्तुनाडिके।
द्वित्रिम्शस्तत्कलानाम्तुषट्शतीत्र्यधिकम्भवेत्॥१६॥
नाडिकेद्वेमुहूर्तस्तुपञ्चाशत्पलमाषकम्।
माषकात्कुम्भकोद्रोणःकुटपैर्वर्धतेत्रिभिः॥१७॥
ससप्तकुम्भयुक्स्योनःसूर्याद्योनिम्त्रयोदश।
नवमानिचपञ्चाह्नःकाष्ठापञ्चाक्षराःस्मृताः॥१८॥
श्रविष्ठाभ्याम्गुणाभ्यस्तान्प्राग्विलग्नान्विनिर्दिशेत्।
सूर्यान्मासान्षळभ्यस्तान्विद्याच्चान्द्रमसान्ऋतून्॥१९॥
अतीतपर्वभागेषुशोधयेद्द्विगुणाम्तिथिम्।
तेषुमण्डलभागेषुतिथिनिष्ठाम्गतोरविः॥२०॥
याःपर्वभादानकलास्तासुसप्तगुणाम्तिथिम्।
प्रक्षिपेत्कलासमूहस्तुविद्यादादानकीःकलाः॥२१॥
यदुत्तरस्यायनतोयनम्स्याच्छेषम्तुयद्दक्षिणतोयनस्य।
तदेवषष्ट्याद्विगुणम्द्विभक्तम्सद्वादशम्स्याद्दिवसप्रमाणम्॥२२॥
तदर्धम्दिनभागानाम्सदापर्वणिपर्वणि।
ऋतुशेषम्तुतद्विद्यात्सङ्ख्यायसहपर्वणाम्॥२३॥
इत्युपायसमुद्देशोभूयोप्येनम्प्रकल्पयेत्।
ज्ञेयराशिम्गताभ्यस्तान्विभजेज्ज्ञानराशिषु॥२४॥
अग्निःप्रजापतिःसोमोरुद्रोदितिर्बृहस्पतिः।
सर्पाश्चपितरश्चैवभगश्चैवार्यमापिच॥२५॥
सवितात्वष्टाथवायुश्चेन्द्राग्नीमित्रएवच।
इन्द्रोनिर्ऋतिरापोवैविश्वेदेवास्तथैवच॥२६॥
विष्णुर्वसवोवरुणोजएकपात्तथैवच।
अहिर्बुध्न्यस्तथापूषाश्विनौयमएवच॥२७॥
नक्षत्रदेवताएताएताभिर्यज्ञकर्मणि।
यजमानस्यशास्त्रज्ञैर्नामनक्षत्रजम्स्मृतम्॥२८॥
इत्येतन्मासवर्षाणाम्मुहूर्तोदयपर्वणाम्।
दिनर्त्वयनमासाङ्गम्व्याख्यातम्लगधोऽब्रवीत्॥२९॥
सोमसूर्यस्रिचरितोलोकाँल्लोकेचसम्मितम्।
सोमसूर्यस्रिचरितोविद्वान्वेदविदस्नुते॥३०॥
विषुवम्तद्गुणम्द्वाभ्याम्रूपहीनम्तुषड्गुणम्।
यल्लब्धम्तानिपर्वाणितथोर्ध्वम्सातिथिर्भवेत्॥३१॥
माघशुक्लप्रवृत्तस्तुपौषकृष्णसमापिनः।
युगस्यपञ्चवर्षाणिकालज्ञानम्प्रचक्षते॥३२॥
तृतीयाम्नवमीम्चैवपौर्णमासीम्त्रयोदशीम्।
षष्ठीम्चविषुवाम्प्रोक्तोद्वादश्याम्चसमम्भवेत्॥३३॥
चतुर्दशीमुपवसथस्तथाभवेद्यथोदितोदिनमुपैतिचन्द्रमाः।
माघशुक्लाह्निकोयुङ्क्तेश्रविष्ठायाम्वार्षिकीम्॥३४॥
यथाशिखामयूराणाम्नागानाम्मणयोयथा।
तद्वद्वेदाङ्गशास्त्राणाम्ज्योतिषम्मूर्धनिस्थितम्॥३५॥
वेदाहियज्ञार्थमभिप्रवृत्ताःकालानुपूर्वाविहिताश्चयज्ञाः।
तस्मादिदम्कालविधानशास्त्रम्योज्योतिषम्वेदसवेदयज्ञान्योज्योतिषम्वेदसवेदयज्ञानिति॥३६॥
पञ्चसम्वत्सरम्प्रपद्येतेकार्याःकलादशचयाःपर्वसम्विताविषुवम्सप्त॥
इतिवेदाङ्गज्योतिषम्समाप्तम्॥
याजुषज्योतिषम्
[सम्पाद्यताम्]अथयाजुषज्योतिषंप्रारभ्यते।
पञ्चसंवत्सरमयंयुगाध्यक्षंप्रजापतिम्।
दिनर्त्वयनमासाङ्गंप्रणम्यशिरसाशुचिः॥१॥
ज्योतिषामयनंपुण्यंप्रवक्ष्याम्यनुपूर्वशः।
संमतंब्राह्मणेन्द्राणांयज्ञकालार्थसिद्धये॥२॥
वेदाहियज्ञार्थमभिप्रवृत्ताःकालानुपूर्ण्याविहिताश्चयज्ञाः।
तस्मादिदंकालविधानशास्त्रंयोज्योतिषंवेदसवेदयज्ञम्॥३॥
यथाशिखामयूराणांनागानांमणयोयथा।
तद्वद्वेदाङ्गशास्त्राणांगणितंमूर्धनिस्थितम्॥४॥
येबृहस्पतिनाभुक्तामीनान्प्रभृतिराशयः।
त्रिवृताःपञ्चभिर्ऋतायःशेषःसपरिग्रहः॥४।०॥
माघशुक्लप्रपन्नस्यपौषकृष्णसमापिनः।
युगस्यपञ्चवर्षस्यकालज्ञानंप्रचक्षते॥५॥
स्वराक्रमेतेसोमार्कौयदासाकंसवासवौ।
स्यात्तदादियुगंमाघस्तपःशुक्लोऽयनंह्युदक्॥६॥
प्रपद्येतेश्रविष्ठादौसूर्याचन्द्रमसावुदक्।
सार्पार्धेदक्षिणार्कस्तुमाघश्रावणयोःसदा॥७॥
धर्मवृद्धिरपांप्रस्थःक्षपाह्लासउदग्गतौ।
दक्षिणेतौविपर्यस्तौषण्मुहूर्त्ययनेनतु॥८॥
प्रथमंसप्तमंचाहुरयनाद्यंत्रयोदशम्।
चतुर्थंदशमंचैवद्विर्युग्माद्यंबहुलेऽप्यृतौ॥९॥
वसुत्वष्टाभवोऽजश्चमित्रःसर्पोऽश्विनौजलम्।
धाताकश्चायनाद्याःस्युरर्धपञ्चमभस्त्वृतुः॥१०॥
एकान्तरेऽह्निमासेचपूर्वान्कृत्वादिरुत्तरः।
अर्धयोःपञ्चपर्वाणांमृदूपञ्चदशाष्टमौ॥११॥
दुहेयंपर्वचेत्पादेपादस्त्रिंशत्तुसैकिका।
भागात्मनापवृज्यांशांनिर्दिशेंशोऽधिकोयदि॥१२॥
निरेकंद्वादशाभ्यस्तंद्विगुणंगतसंयुतम्।
षष्ट्याषष्ट्यायुतंद्वाभ्यांपर्वणांराशिरुच्यते॥१३॥
स्युःपदोऽर्धंत्रिपाद्यायात्रिदव्यैकेऽह्नःकृतेस्थितिम्।
साम्येनेन्दोःस्तृणोऽन्येषुपर्वकाःपञ्चसंमिताः॥१४॥
भांशाःस्युरष्टकाःकार्याःपक्षाद्वादशकोद्गताः।
एकादशगुणश्चोनःशुक्लेऽर्धंचैन्दवायदि॥१५॥
नवकैरुद्गतोंऽशःस्यादूनःसप्तगुणोभवेत्।
आवापस्त्वयुजेऽर्धंस्यात्पौलस्त्येऽस्तंगतेऽपरम्॥१६॥
जावाद्यंशैःसमंविद्यात्पूर्वार्धेपर्वसूत्तराः।
भादानंस्याच्चतुर्दश्यांद्विभागेभ्योऽधिकोयदि॥१७॥
जौद्रागःखेश्वेऽहीरोशाचिन्मूषण्यःसूमाधानः।
रेमृघास्वाऽपोऽजःकृष्यहज्येष्ठाइत्यृक्षालिङ्गैः॥१८॥
कार्याभांशाष्टकस्थानेकलाएकान्नविंशतिः।
ऊनस्थानेद्विसप्ततिमुद्वपेद्युक्तसंभवे॥१९॥
तिथिमेकादशाभ्यस्तांपर्वभांशसमन्विताम्।
विभज्यभसमूहेनतिथिनक्षत्रमादिशेत्॥२०॥
याःपर्वभादानकलास्तासुसप्तगुणांतिथिम्।
उक्तास्तासांविजानीयात्तिथिभादानिकाःकलाः॥२१॥
अतीतपर्वभागेभ्यःशोधयेद्द्विगुणांतिथिम्।
तेषुमण्डलभागेषुतिथिनिष्ठांगतोरविः॥२२॥
विषुवन्तंद्विरभ्यस्तंरूपोनंषड्गुणीकृतम्।
पक्षायदर्धंपक्षाणांतिथिःसविषुवान्स्मृतः॥२३॥
पलानिपञ्चाशदपांधृतानितदाढकंद्रोणमतःप्रमेयम्।
त्रिभिर्विहीनंकुडवैस्तुकार्यंतन्नाडिकायास्तुभवेत्प्रमाणम्॥२४॥
एकादशभिरभ्यस्यपर्वाणिनवभिस्तिथिम्।
युगलब्धंसपर्वस्याद्वर्तमानार्कभक्रमात्॥२५॥
सूर्यर्क्षभागान्निवभिर्विभज्यशेषंद्विरभ्यस्यदिनोपभुक्तिः।
तिथियुक्ताभुक्तिदिनेषुकालोयोगंदिनैकादशकेनतद्भम्॥२६॥
त्रियंशोभशेषोदिवसांशभागश्चतुर्दशश्चाप्यनीयभिन्नम्।
भार्धेऽधिकेचापिगतेपरोंऽशोद्वावुत्तमेतन्नवकैरवेद्यम्॥२७॥
त्रिंशत्यह्नांसषट्षष्टिरब्दःषट्चर्तवोऽयने।
मासाद्वादशसूर्याःस्युरेतत्पञ्चगुणंयुगम्॥२८॥
उदयावासवस्यस्युर्दिनराशिःस्वपञ्चकः।
ऋषेर्द्विषष्टिहीनंस्याद्विंशत्याचैकयास्तृणाम्॥२९॥
पञ्चत्रिंशंशतंपौष्णमेकोनमयनान्यृषेः।
पर्वणांस्याच्चतुष्पादीकाष्ठानांचैवताःकलाः॥३०॥
सावनेन्दुस्त्रिमासानांषष्टिश्चैकाद्विसप्तिका।
द्वित्रिंशतम्सावनस्यार्धःसूर्यःस्तृणांसपर्ययः॥३१॥
अग्निःप्रजापतिःसोमोरुद्रोऽदितिर्बृहस्पतिः।
सर्पाश्चपितरश्चैवभगश्चैवाऽर्यमाऽपिच॥३२॥
सवितात्वष्टाऽथवायुश्चेन्द्राग्नीमित्रएवच।
इन्द्रोनिर्ऋतिरापोवैविश्वेदेवास्तथैवच॥३३॥
विष्णुर्वसवोवरुणोऽजएकपात्तथैवच।
अहिर्बुधन्यस्तथापूषाअश्विनौयमएवच॥३४॥
नक्षत्रदेवताह्येताएताभिर्यज्ञकर्मणि।
यजमानस्यशास्त्रज्ञैर्नामनक्षत्रजंस्मृतम्॥३५॥
उग्राण्यार्द्राचचित्राचविशाखाश्रवणाऽश्वयुक्।
क्रूराणितुमघास्वातिर्ज्येष्ठामूलंयमस्ययत्॥३६॥
द्वयूनंद्विषष्टिभागेनहेयंसौर्यात्सपार्वणम्।
यत्कृतावुपयुज्येतेमध्येऽन्तंचाधिमासकौ॥३७॥
कलादशसविंशास्याद्द्वेमुहूर्तस्यनाडिके।
द्वित्रिंशत्तत्कलानांतुषट्छतीत्र्यधिकाभवेत्॥३८॥
ससप्तकंभयुक्सोमःसूर्योद्यूनित्रयोदश।
उत्तमानितुपञ्चाह्नःकाष्ठापञ्चाक्षराभवेत्॥३९॥
यदुत्तरस्यायनतोगतंस्याच्छेषंतथादक्षिणतोऽयनस्य।
तदेवषष्ट्याद्विगुणंद्विभक्तंसद्वादशंस्याद्दिवसप्रमाणम्॥४०॥
यदर्धंदिनभागानांसदापर्वणिपर्वणि।
ऋतुशेषंतुतद्विद्यात्संख्यायसहपर्वणाम्॥४१॥
इत्युपायसमुद्देशोभूयोऽप्यह्नःप्रकल्पयेत्।
ज्ञेयराशिगतान्व्यस्तान्विभजेज्ज्ञानराशिना॥४२॥
इत्येवंमासवर्षाणांमुहूर्तोदयपर्वणाम्।
दिनर्त्वयनमासाङ्गंव्याख्यानंलगतोऽब्रवीत्॥४२॥०॥
सोमसूर्यस्रिचरितंविद्वान्वेदविदश्नुते।
सोयसूर्यस्त्रिचरितंलोकंलोकेचसंततिंलोकंलोकेचसंततिम्॥४३॥
इतियाजुषज्योतिषंसमाप्तम्॥