भेलसंहिता निदानस्थानम्
निदानस्थानम्
॥द्वितीयोऽध्यायः॥
[सम्पाद्यताम्].......................................
.......................................
भेस२.२.१
उरोविघातात्तस्याथ ज्वरः कासश्च जायते।
स्वरः सीदति चाप्यस्य निष्ठीवति सशोणितम्॥
भेस२.२.२
अथवाप्यवशो जन्तुः शश्वत्स परिहीयते।
इत्येतैर्लक्षणैर्विद्यात्साहसप्रभवं क्षयम्॥
भेस२.२.३
यावत्स बलवानेव बृंहयेत्तावदेव तम्।
यस्माद् बलसमावेशं पुरुषस्येह जीवितम्॥
भेस२.२.४
स यदा गुरुमध्ये वाप्यथवा राजसंसदि।
गोष्ठे स्त्रीद्यूतमध्ये वा हस्तिपृष्ठेऽथवा रथे॥
भेस२.२.५
भयात्प्रसङ्गाच्च ह्रिया घृणित्वाद्वापि मानवः।
प्राप्तपातं पुरीषं वा मूत्रं वापि रुणद्धि यः॥
भेस२.२.६
तस्य सन्धारणाद्वायुरूर्ध्वभागे समीरितः।
उरःशूलं पार्श्वशूलं गुल्मं च जनयत्यथ॥
भेस२.२.७
गुल्मजन्मनिमित्तश्च ज्वरः कासश्च जायते।
स्वरः प्रभिद्यते चास्य निष्ठीवति सपूतिकम्॥
भेस२.२.८
अथवाप्यवशो जन्तुः शश्वत्स परिहीयते।
इत्येभिर्लक्षणैर्विद्यात्सन्धारणकृतं क्षयम्॥
भेस२.२.९
आत्मार्थं लज्जते जन्तुर्गुरोर्वा स्त्रीजनस्य च।
तस्मादात्मार्थमेवेह प्राप्तं वेगं न धारयेत्॥
भेस२.२.१०
स यदा दुर्बलो जन्तुः स्वल्पाहारः कृशोऽपि वा।
रूक्षभोजी विशेषेण स्त्रियो यश्चातिसेवते॥
भेस२.२.११
सरक्तं कुरुते मूत्रं जन्तुः शुक्लपरिक्षयात्।
रेतःस्थानं च सुषिरं वायुरस्य प्रधावति॥
भेस२.२.१२
तस्य वाताभिभूतस्य ज्वरः कासश्च जायते।
स्वरः सीदति चाप्यस्य निष्ठीवति सशोणितम्॥
भेस२.२.१३
अथवाप्यवशो जन्तुः शश्वत्स परिहीयते।
इत्येभिर्लक्षशैर्विद्यादतिमैथुनजं क्षयम्॥
भेस२.२.१४
रतिमूलं शरीरं हि शरीरस्य रतिः फलम्।
तस्मात्फलार्थी मूलार्थं स्त्रियः सेवेत युक्तितः॥
भेस२.२.१५
स यदा दुर्बलो जन्तुः सेवते विषमाशनम्।
भुञ्जानस्यास्य विषमं वैषम्यं यान्ति धातवः॥
भेस२.२.१६
ततः पुरीषमेवेह वर्धयत्यस्य भोजनम्।
नावाप्नोति रसं देहे विकृतस्येव देहिनः॥
भेस२.२.१७
रसे निवृत्ते तस्याथ ज्वरः कासश्च जायते।
स्वरः सीदति चाप्यस्य निष्ठीवति सशोणितम्॥
भेस२.२.१८
अथवाप्यवशो जन्तुः शश्वत्स परिहीयते।
इत्येभिर्लक्षणैर्विद्याद्विषमाशनजं क्षयम्॥
भेस२.२.१९
यस्मादर्थी शरीरार्थं रसभोजनमिच्छति।
शरीरापेक्षया तस्मादाहारं सुसमाचरेत्॥
भेस२.२.२०
इति चत्वारि शोषाणामुक्तान्यायतनानि मे।
यानि बुद्ध्वा परिहरेदारोग्यार्थी पुमानिह।
बुद्धौ चारोग्यमायत्तमिदमुक्तं महर्षिणा॥
इत्याह भगवानात्रेयः।
इति भेले निदाने द्वितीयोऽध्यायः॥
॥तृतीयोऽध्यायः॥
[सम्पाद्यताम्]अथातो गुल्मनिदानं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस२.३.१
वातात्पित्तात्कफाच्चैव निचयादथ लोहितात्।
पञ्च गुल्मा भवन्तीह तेषां वक्ष्यामि लक्षणम्॥
भेस२.३.२
स यदा वातलो जन्तुर्वातलं भजतेऽशनम्।
धावति प्लवते वापि रात्रौ जागर्ति वा पुनः॥
भेस२.३.३
अतिब्रूतेऽतिहसति स्त्रियो वातिनिषेवते।
उदावर्तयते वापि कर्म चातिनिषेवते॥
भेस२.३.४
वृक्षप्रपतनाद्वापि छर्दयत्यथवा बलात्।
तस्यैवं कुपितो वायुरामाशयमुपागतः॥
भेस२.३.५
पार्श्वयोर्हृदि कुक्षौ वा गुल्मं संजनयत्यथ।
स सकृद्भवति स्थूलः पुनर्भवति वाप्यणुः॥
भेस२.३.६
तोदस्फुरणसंयुक्तो विध्यते च विधावति।
वेदनां जनयत्येष ज्वरं सञ्जनयत्यपि॥
भेस२.३.७
वस्तिशीर्षं च संगृह्य दारयन्निव तिष्ठति।
विषं भवति चाहारो मूर्धानं प्रतिपद्यते॥
भेस२.३.८
पुनश्च दृश्यते व्यक्तं पुनर्नश्यति चाप्यथ।
करोति गाढं दुःखेन पुरीषं वा सशोणितम्॥
भेस२.३.९
कृष्णाभासश्च पुरुषो वातगुल्मी स दृश्यते।
यस्सदा पित्तलो जन्तुः पित्तलं भजतेऽशनम्॥
भेस२.३.१०
अप्रमाणेन दुर्मेधाः सेवते पानमीदृशम्।
तस्यैवं कुपितं पित्तमामाशयमुपागतम्॥
भेस२.३.११
पार्श्वयोर्हृदि कुक्षौ वा गुल्मं सञ्जनयत्यथ।
उष्यते दूयते चापि दह्यते धूप्यते तथा॥
भेस२.३.१२
नित्यं तप्तश्च रक्तं च स्वेदं मुञ्चत्यभीक्ष्णशः।
अयोगोलो यथा तप्तस्तथा स्थानगते दहेत्॥
भेस२.३.१३
तृष्णां मूर्च्छां च जनयेत्स्थानादपि विसर्पति।
वेदना परमा चैव तस्मिन् स्थाने प्रजायते॥
भेस२.३.१४
पुरा जातानि लोमानि तस्माद्गुल्मपरिग्रहात्।
च्यवन्ते न च जायन्ते यावद्व्याधिर्न शाम्यति॥
भेस२.३.१५
पित्तगुल्मेन पुरुषः पीताभासश्च लक्ष्यते।
यस्सदा श्लेष्मलो जन्तुः श्लेष्मलं भजतेऽशनम्॥
भेस२.३.१६
अप्रमाणेन दुर्मेधा दिवास्वप्नरतस्तथा।
तस्यैवं कुपितः श्लेष्मा ह्यामाशयमुपागतः॥
भेस२.३.१७
पार्श्वयोर्हृदि कुक्षौ वा गुल्मं सञ्जनयत्यथ।
न चास्य स्वदते भोज्यं भुक्तं न च विपच्यते॥
भेस२.३.१८
श्लेष्मणा सह भुक्तं च मुहुरूर्ध्वं प्रपद्यते।
शुक्लमूत्रपुरीषश्च शुक्लाभासस्तथैव च॥
भेस२.३.१९
शुक्लनेत्रश्च भवति गुल्मे श्लेष्मसमुद्भवे।
यस्सदा कर्शितो जन्तुर्व्याधिना भेषजेन वा॥
भेस२.३.२०
असञ्जातबलाग्निश्च दोषलान्युपसेवते।
तस्य सन्निचिता दोषा गुल्मं कुर्वन्ति दारुणम्॥
भेस२.३.२१
तत्र सर्वाणि रूपाणि दृश्यन्ते सान्निपातिके।
अथ लोहितगुल्मस्तु स्त्रीणामेव प्रजायते॥
भेस२.३.२२
नासौ भवति नृऋणां तु तस्य वक्ष्यामि लक्षणम्।
अचिरप्रच्युते गर्भे सूतिकायास्तथाऽचिरात्॥
भेस२.३.२३
अतिप्रजननाद्वापि तथाऽप्रजननेन वा।
सन्धारणाद्वा भारस्य रक्तमाध्मापयेत्ततः॥
भेस२.३.२४
सा शोणिते स्थिते नारी गर्भिणी स्त्रीति मन्यते।
समयादथ शूलानि तस्याः कुक्षौ भवत्यथ॥
भेस२.३.२५
कोष्ठे गुल्मोदरं तच्च गर्भोऽयमिति मन्यते।
गर्भोऽयमिति च व्याधिर्वर्षमेकं बहून्यपि॥
भेस२.३.२६
धारयत्यथ निर्भेदं कथञ्चित्सन्नियच्छति।
अथास्याः कालपर्यायात्सक्षीरौ भवतः स्तनौ॥
भेस२.३.२७
कृशा भवति सा पाण्डुर्दोहदं चाभिनन्दति।
छर्दिर्निष्ठीविका चैव तन्द्रा चैवं प्रबाधते॥
भेस२.३.२८
पादयोः श्वयथुश्च स्याद्रक्तगुल्मे प्रदुष्यति।
एषां तु खलु पञ्चानां गुल्मानां समुदाहृतम्।
विद्यादसाध्यं निचयं यत्नसाध्यांस्तथेतरान्॥
इत्याह भगवानात्रेयः।
इति भेले निदाने तृतीयोऽध्यायः॥
॥चतुर्थोऽध्यायः॥
[सम्पाद्यताम्]अथातः कासनिदानं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस२.४.१
वातात्पित्तात्कफाच्चैव क्षताद्वाथ क्षयादपि।
पञ्च कासा भवन्तीह तेषां वक्ष्यामि लक्षणम्॥
भेस२.४.२
यस्सदा वातलो जन्तुरसात्म्यं वै निषेवते।
रूक्षमश्नाति पिबति रूक्षं हि बहु खादति॥
भेस२.४.३
तस्य वातः प्रकुपितो गृहीत्वा हृदयं ततः।
ऊर्ध्वं सम्प्राप्य धमनीरथ कासाय कल्पते॥
भेस२.४.४
उरःशूलं पार्श्वशूलं पृष्ठस्तम्भश्च जायते।
आटोप्यतेऽस्योदरं च शिरश्चास्यातिमन्थ्यते॥
भेस२.४.५
उरोऽभिघातात्पार्श्वे च गृह्येते इव देहिनः।
कफः प्रकासमानस्य ससंरम्भः प्रवर्तते।
भेस२.४.६
प्रततं कासमानस्य मूत्रं वातो रुणद्धि हि।
इत्येभिर्लक्षणैर्विद्याद्वातकासं शरीरिणाम्॥
भेस२.४.७
यस्सदा पित्तलो जन्तुरसात्म्यं वै निषेवते।
अम्लमश्नाति पिबति खादत्यास्वादयत्यपि॥
भेस२.४.८
तस्य पित्तं प्रकुपितं गृहीत्वा हृदयं ततः।
ऊर्ध्वं सम्प्राप्य धमनीस्ततः कासाय कल्पते॥
भेस२.४.९
उरो विदह्यते चास्य तथैवाप्यभितप्यते।
सोष्मनासश्च भवति दह्येते चाक्षिणी ततः॥
भेस२.४.१०
निष्ठीवति सपित्तं च रक्तं वा ना कदाचन।
मुखं भवति वा पीतं पित्तकासेन देहिनः॥
भेस२.४.११
यस्सदा श्लेष्मलो जन्तुः श्लेष्मलं भजतेऽशनम्।
पिबत्यश्नाति मधुरं मधुरं वापि खादति॥
भेस२.४.१२
अव्यायाम रतश्चापि दिवास्वप्नं च सेवते।
तस्य श्लेष्मा प्रकुपितो गृहीत्वा हृदयं ततः॥
भेस२.४.१३
ऊर्ध्वं सम्प्राप्य धमनीस्ततः कासाय कल्पते।
ग्रथितं श्लेष्मणा कासं निष्ठीवति सपूतिकम्॥
भेस२.४.१४
दुष्टश्लेष्मप्रतिश्यायः श्लेष्मकासेन जायते।
साहसं कर्म यः कृत्वा विक्षतं खेदयत्युरः॥
भेस२.४.१५
निष्ठीवति सरक्तं च कासे क्षतसमुद्भवे।
स्त्रीषु सक्तश्च यो जन्तुस्तस्य शुक्लपरिक्षयात्॥
भेस२.४.१६
लिङ्गं वाताभिभूतत्वात्सूचीभिरिव तुद्यते।
सरक्तं कुरुते मूत्रं तथा शुक्लं च लोहितम्॥
भेस२.४.१७
सर्व एते समुद्दिष्टाः कासा लक्षणतो मया।
तानवेक्ष्य भिषग् बुद्ध्या ततः कुर्याच्चिकित्सितम्॥
इत्याह भगवानात्रेयः।
इति भेले निदाने चतुर्थोऽध्यायः॥
॥पञ्चमोऽध्यायः॥
[सम्पाद्यताम्]अथातः कुष्ठनिदानं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस२.५.१
पिप्पलीं काकमाचीं च लिकुचं दधिसर्पिषा।
वातायुं पयसा सार्धं गुडेन सह मूलकम्॥
भेस२.५.२
अन्यदेवंविधं यच्च विरुद्धं तत्समश्नतः।
छर्दिं प्रतिघ्नतश्चापि मिथ्यासंसर्गसेवनात्॥
भेस२.५.३
अनुल्लिख्य विदग्धं च विदाहि च समश्नतः।
पथि चाराद्विरिक्तस्य श्रान्तस्योदकसेवनात्॥
भेस२.५.४
मत्स्यान् पयश्च निम्बूंश्च तथैकध्यं समश्नतः।
जन्तोस्सञ्जायते कुष्ठं तद्विधानां च सेवनात्॥
भेस२.५.५
यस्सदा श्लेष्मलो जन्तुः श्लेष्मलं भजतेऽशनम्।
सेवते च दिवास्वप्नं तस्य श्लेष्मा प्रवर्धते॥
भेस२.५.६
स वृद्धो दूषयत्यस्य मांसं त्वग्रुधिरं तथा।
उत्साद्यते त्वग्दोषेण स्विद्यते तेन चाप्यथ॥
भेस२.५.७
तत्र कुष्ठानि जायन्ते दद्रु सिध्मानि वै पुनः।
मण्डलानि च चित्राणि तेषां वक्ष्यामि लक्षणम्॥
भेस२.५.८
मण्डलानि घनानीह पिटकाभानि सर्वशः।
सकण्डूनि विसर्पीणि दद्रुकुष्ठानि निर्दिशेत्॥
भेस२.५.९
प्रस्रवन्ति यदा तानि दोषोत्सन्नानि देहिनः।
तदास्य कीलं कोषं च पिच्छिलं संस्रवन्ति च॥
भेस२.५.१०
संहतानि विपाण्डूनि पङ्किलोष्ठचितानि च।
त्वगुत्थानि तु रूक्साणि मण्डलानि तनून्यपि॥
भेस२.५.११
सिध्मकुष्ठानि जानीयात्तथा तानि भवन्ति वै।
पिच्छिलं मधुवर्णं च यदा दोषाः स्रवन्ति च॥
भेस२.५.१२
मण्डलानि च शुक्लानि घनोत्सन्नानि सर्वशः।
विद्यान्मण्डलकुष्ठानि चिरभेदीनि देहिनाम्॥
भेस२.५.१३
यदा तु तानि भिद्यन्ते तदा श्वेतं स्रवन्ति हि।
इति श्लेष्मसमुत्थानि त्रीणि कुष्ठानि निर्दिशेत्॥
भेस२.५.१४
यस्सदा वातलो जन्तुर्वातलं भजतेऽशनम्।
वातातपौ सेवते च तस्य वातः प्रवर्धते॥
भेस२.५.१५
स वृद्धो दूषयत्यस्य त्वङ्मांसरुधिरं तथा।
उत्साद्यते त्वग्दोषेण स्विद्यते तेन चाप्यथ॥
भेस२.५.१६
कपालकुष्ठं तेनास्य प्रदुष्टे मांसशोणिते।
जन्तोर्विवृद्धवातस्य तस्य वक्ष्यामि लक्षणम्॥
भेस२.५.१७
परुषाण्यरुणाभानि मण्डलानि समानि च।
विद्यात्कपालकुष्ठानि चिरभेदीनि देहिनाम्॥
भेस२.५.१८
यस्सदा पित्तलो जन्तुः पित्तलं भजतेऽशनम्।
वातातपौ सेवते च तस्य पित्तं प्रकुप्यति॥
भेस२.५.१९
तद् वृद्धं दूषयत्यस्य त्वङ्मांसरुधिरं तदा।
उत्साद्यते त्वग्दोषेण स्विद्यते तेन चाप्यथ॥
भेस२.५.२०
ततः कुष्ठानि जायन्ते प्रदुष्टे मांसशोणिते।
पित्तस्य परिकोपे वा तेषां वक्ष्यामि लक्षणम्॥
भेस२.५.२१
पक्वोदुम्बरवर्णानि मण्डलानीह यानि तु।
विद्यादौदुम्बराण्यत्र तान्यसाध्यानि देहिनाम्॥
भेस२.५.२२
प्राप्नुवन्ति यदा भेदं कुष्ठान्यौदुम्बराणि च।
मण्डलीकानि कुष्ठानि तदा तानि भवन्ति वै॥
भेस२.५.२३
मण्डलानि च यानीह पुण्डरीकनिभानि वै।
पुण्डरीकाणि साध्यानि तानि विद्याद्विचक्षणः॥
भेस२.५.२४
प्राप्नुवन्ति यदा भेदं पुण्डरीकाणि यानि वै।
ऋश्यजिह्वानि कुष्ठानि तदा तानि विनिर्दिशेत्॥
भेस२.५.२५
नीलोत्पलसवर्णानि मण्डलानीह रूपतः।
ऋश्यजिह्वानि कुष्ठानि तान्यसाध्यानि निर्दिशेत्॥
भेस२.५.२६
प्राप्नुवन्ति यदा भेदमृश्यजिह्वान्यशेषतः।
काकणानीति मतिमांस्तदा तानि विनिर्दिशेत्॥
भेस२.५.२७
काकणन्तिकवर्णानि मण्डलानीह यानि तु।
काकणानीति तान्याहुः प्रत्याख्येयानि देहिनाम्॥
भेस२.५.२८
इति कुष्ठनिदानं वै व्याख्यातमनुपूर्वशः।
तन्निशम्येह मतिमान् हितजीर्णाशनो भवेत्॥
इत्याह भगवानात्रेयः।
इति भेले निदाने पञ्चमोऽध्यायः॥
॥षष्ठोऽध्यायः॥
[सम्पाद्यताम्]अथातः प्रमेहनिदानं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस२.६.१
प्रकृतिप्रभवश्चैव नरस्य स्वकृतस्तथा।
ज्ञेयः प्रमेहो द्विविधस्तस्य वक्ष्यामि लक्षणम्॥
भेस२.६.२
श्लक्ष्णाङ्गा मृदवः स्निग्धा भृशं श्लेष्मलमेदुराः।
जातप्रमेहा नर्दन्ति मत्स्यमांसोचिता नराः॥
भेस२.६.३
मातापितृभ्यामीदृग्भ्यां जनितो यस्तु मानवः।
मेदःशिथिलनात्तस्य प्रकृत्या स तु मेहति॥
भेस२.६.४
अनूपजानां सुस्निग्धैर्विविधैश्चापि वारिजैः।
गव्याजौरभ्रमांसैश्च सद्यो दध्ना घृतेन वा॥
भेस२.६.५
गुडप्रकारैः पयसा पललेनौदकैः खगैः।
अव्यायामाद्दिवास्वप्नात्सुखशय्यासनात्तथा॥
भेस२.६.६
इत्येभिरीदृशैश्चान्यैर्मेदः स्निग्धैः प्रवर्धते।
मेदः प्रवृद्धं देहं च वस्तिं च क्लेदयत्यपि॥
भेस२.६.७
यस्सदा मेदसा क्लिन्नः श्लेष्मलं भजतेऽशनम्।
तस्य प्रकुपितः श्लेष्मा प्रमेहान् कुरुते दश॥
भेस२.६.८
तद्यथोदकमेहं च पिष्टमेहं तथैव च।
एवमादींस्तथान्यांश्च तेषां वक्ष्यामि लक्षणम्॥
भेस२.६.९
स्फटिकाम्बुनिभं मूत्रमुदमेही प्रमेहति।
शुक्लपिष्टनिभं चापि पिष्टमेही प्रमेहति॥
भेस२.६.१०
काण्डेक्षुरसमेही च मेहतीक्षुरसोपमम्।
मूत्रं शुक्लोपमं चापि शुक्लमेही तु मेहति॥
भेस२.६.११
इत्येतांश्चतुरो मेहाञ्जानीयात्केवलात्कफात्।
श्लेष्मण्यनुबले पित्ते ये मेहन्ति तु ताञ्छृणु॥
भेस२.६.१२
लवणाम्बुनिभं मूत्रं विद्याल्लवणमेहिनः।
प्रमेहति तथा जन्तुस्सुरामेही सुराकृति॥
मूत्रं सान्द्रं प्रसन्नं तु दृश्यते सान्द्रमेहिनः।
.................................................
.................................................
इति भेले निदाने षष्ठोऽध्यायः॥
॥सप्तमोऽध्यायः॥
[सम्पाद्यताम्]...................................................
...................................................
गीतानि भजते नित्यं पित्तोन्मादनिपीडितः॥
भेस२.७.१
यस्सदा श्लेष्मलो जन्तुः श्लेष्मलं भजतेऽशनम्।
सेवते च दिवास्वप्नं तस्य श्लेष्मा प्रवर्धते॥
भेस२.७.२
स वृद्ध ऊर्ध्वं हृदयाद् गृहीत्वा धमनीर्दश।
रुद्ध्वा चेतोवहं मार्गं संज्ञां भ्रंशयते ततः॥
भेस२.७.३
स भ्रष्टसंज्ञः पुरुषस्तानि तानि विचेष्टते।
गायन्नृत्यति चैकत्र हसत्यथ च रोदिति॥
भेस२.७.४
एकत्रास्ते विना लोकं शेते चापि जडो यथा।
जनं भीषयते चापि श्लेष्मोन्मादी पुमानिह॥
भेस२.७.५
यस्त्वेतत् सर्वमश्नाति यथोक्तं दोषकोपनम्।
सन्निपातात्तथोन्मादं सर्वलिङ्गं स ऋच्छति॥
भेस२.७.६
स यदा धननाशेन मरणेन प्रियस्य वा।
अथ चिन्तयते, तस्य संज्ञा भ्रश्यति चिन्तया॥
भेस२.७.७
स चिन्तयति यान् भावांस्तानेव प्रलपत्यथ।
आगन्तुं पञ्चमं विद्यादित्युन्मादं शरीरिणाम्॥
भेस२.७.८
सर्वानेतान् विजानीयादुन्मादान्वै चिकित्सितात्।
दुःखेन संज्ञाभ्रष्टो हि प्रकृतिं पुनर् ऋच्छति॥
भेस२.७.९
एवं शरीरजा दोषाः शरीरे पर्यवस्थिताः।
शरीरमेव हिंसन्ति पावकः स्वमिवाश्रयम्॥
भेस२.७.१०
न हि सत्वानि हिंसन्ति न पिशाचा न राक्षसाः।
देवास्तथा धर्मशीलाः मध्यस्था मनुजान्प्रति॥
भेस२.७.११
वमने रेचने युक्तो निरूहे चानुवासने।
न जातु दारुणान् रोगानुन्मादान् प्राप्नुयान्नरः॥
इत्याह भगवानात्रेयः।
इति भेले निदाने सप्तमोऽध्यायः॥
॥अष्टमोऽध्यायः॥
[सम्पाद्यताम्]अथातोऽपस्मारनिदानं व्याख्यास्याम इति ह स्माह भगवानात्रेयः।
भेस२.८.१
वातात्पित्तात्कफाच्चैव सन्निपातात्तथैव च।
अपस्मारा भवन्तीह तेषां वक्ष्यामि लक्षणम्॥
भेस२.८.२
यस्सदा वातलो जन्तुर्वातलं भजतेऽशनम्।
व्यायामं सेवते चापि तस्य वातः प्रकुप्यति॥
भेस२.८.३
स वृद्ध ऊर्ध्वं हृदयाद् गृहीत्वा धमनीर्दश।
रुद्ध्वा चेतोवहं मार्गं संज्ञां भ्रंशयते ततः॥
भेस२.८.४
स भ्रष्टसंज्ञः पतति दन्तान्कटकटायते।
उत्फालयति नेत्रे च भ्रुवौ प्रक्षिपते तथा॥
भेस२.८.५
स चेत्प्रत्यागतो ब्रूयात्तमसः परतो गतः।
प्रतिभाति च मे कृष्णा जगती खण्डशस्तथा॥
भेस२.८.६
तदोर्ध्वमेवं हृदयं वायुर्वर्चोपधावति।
इत्येतैर्लक्षणैर्विद्यादपस्मारं तु वातजम्॥
भेस२.८.७
यस्सदा पित्तलो जन्तुः पित्तलं भजतेऽशनम्।
अग्न्यातपौ सेवते च तस्य पित्तं प्रवर्धते॥
भेस२.८.८
तद् वृद्धमूर्ध्वं हृदयाद् गृहीत्वा धमनीर्दश।
रुद्ध्वा चेतोवहं मार्गं संज्ञां भ्रंशयते ततः॥
भेस२.८.९
स भ्रष्टसंज्ञः पतति दन्तान्कटकटायते।
उत्फालयति नेत्रे च भ्रुवावुत्क्षिपते तथा॥
भेस२.८.१०
स चेत्प्रत्यागतो ब्रूयात्तमसः परतो गतः।
प्रतिभाति च मे शुक्ला जगती खण्डशस्तथा॥
भेस२.८.११
तदोर्ध्वमेवं हृदयं कफो वर्चोपधावति।
इत्येतैर्लक्षणैर्विद्यादपस्मारं कफात्मकम्॥
भेस२.८.१२
यस्त्वेतत्सर्वमश्नाति यथोक्तं दोषकोपनम्।
सन्निपातादपस्मारं सर्वलिङ्गं स ऋच्छति॥
भेस२.८.१३
एवं रसैरिहापथ्यैर्विवृद्धेष्वनिलादिषु।
नाऽपस्मारयते प्राणी न सत्वैरुपहन्यते॥
भेस२.८.१४
यदा यदाभिवर्धन्ते दोषाः पर्वस्विवोदधिः।
तदा तदापस्मरति नैष क्लिश्यति सन्ततम्॥
भेस२.८.१५
ज्वरस्य शोषगुल्मानां कासिनामथ कुष्ठिनाम्।
प्रमेहोन्मादिनां चैव तथापस्मारिणामपि॥
भेस२.८.१६
इत्यष्टौ वै प्रदिष्टानि निदानानि शरीरिणाम्।
विमानानि प्रवक्ष्यामि यथावदनुपूर्वशः॥
इत्याह भगवानात्रेयः।
इति भेले अष्टमोऽध्यायः॥
इति भेलसंहितायां निदानस्थानं समाप्तम्॥