गरुडपुराणम्/आचारकाण्डः/अध्यायः १४०

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १३९ गरुडपुराणम्
अध्यायः १४०
वेदव्यासः
आचारकाण्डः, अध्यायः १४१ →

श्रीगरुडमहापुराणम् १४०
हरिरुवाच ।
जनमेजयः पुरोश्चाभून्नमस्युर्जनमेजयात् ।
तस्य पुत्रश्चाभयदः सुद्युश्चाभयदादभूत् ॥ १,१४०.१ ॥

सुद्योर्बहुगतिः पुत्रः संजातिस्तस्य चात्मजः ।
वत्सजातिश्च सञ्जातेः रौद्राश्वश्च तदात्मजः ॥ १,१४०.२ ॥

ऋतेयुः स्थण्डिलेयुश्च कक्षेयुश्च कृतेयुकः ।
जलेयुः सन्ततेयुश्च रोद्राश्वस्य सुता वराः ॥ १,१४०.३ ॥

रतिनार ऋतेयोश्च तस्य प्रतिरथः सुतः ।
तस्य मेधातिथिः पुत्रस्तत्पुत्रश्चैनिलः स्मृतः ॥ १,१४०.४ ॥

ऐनिलस्य तु दुष्यन्तो भरतस्तस्य चात्मजः ।
शकुन्तलायां संजज्ञे वितथो भरतादभूत् ॥ १,१४०.५ ॥

वितथस्य सुतो मन्युर्मन्योश्चैव नरः स्मृतः ।
नरस्य संकृतिः पुत्रो गर्गो वै संकृतेः सुतः ॥ १,१४०.६ ॥

गर्गादमन्युः पुत्रो वै शिनिः पुत्रो व्यजायत ।
मन्युपुत्रान्महावीर्यात्सुतोऽभवदुरुक्षयः ॥ १,१४०.७ ॥

उरुक्षयात्त्रय्यारुणिर्व्यूहक्षत्राच्च मन्युजात् ।
सुहोत्रस्तस्य हस्ती च अजमीढद्विमीढकौ ॥ १,१४०.८ ॥

हस्तिनः पुरुमीढश्च कण्वोऽभूदजमीढतः ।
कण्वान्मेधातिथिर्जज्ञे यतः काण्वायना द्विजाः ॥ १,१४०.९ ॥

अजमीढाद्वृहदिषुस्तत्पुत्रश्च बृहद्धनुः ।
बृहत्कर्मा तस्य पुत्रस्तस्य पुत्रो जयद्रथः ॥ १,१४०.१० ॥

जयद्रथाद्विश्वजिच्च सेनजिच्च तदात्मजः ।
रुचिराश्वः सेनजितः पृथुसेनस्तदात्मजः ॥ १,१४०.११ ॥

पारस्तु पृथुसेनस्य पाराद्द्वीपोऽभवन्नृपः ।
नृपस्य सृमरः पुत्रः सुकृतिश्च पृथोः सुतः ॥ १,१४०.१२ ॥

विभ्राजः सुकृतेः पुत्रो विभ्राजादश्वहोऽभवत् ।
कृत्यां तस्माद्ब्रह्मदत्तो विष्वक्सेनस्तदात्मजः ॥ १,१४०.१३ ॥

यवीनरो द्विमीढस्य धृतिमांश्च यवीनरात् ।
धतिमतः सत्यधृतिर्दृढनेमिस्तदात्मजः ॥ १,१४०.१४ ॥

दृढनेमेः सुपार्श्वोऽभूत्सुपार्श्वात्सन्नतिस्तथा ।
कृस्तु सन्नतेः पुत्रः कृतादुग्रायुधोऽभवत् ॥ १,१४०.१५ ॥

उग्रायुधाच्च क्षेम्यौऽभूत्सुधीरस्तु तदात्मजः ।
पुरञ्जयः सुधीराच्च तस्य पुत्रो विदूरथः ॥ १,१४०.१६ ॥

अजमीढान्नलिन्याञ्च नीलो नाम नृपोऽभवत् ।
नीलाच्छान्तिरभूत्पुत्रः सुशान्तिस्तस्य चात्मजः ॥ १,१४०.१७ ॥

सुशान्तेश्च पुरुर्जातो ह्यर्कस्तस्य सुतोऽभवत् ।
अर्कस्य चैव हर्यश्वो हर्यश्वान्मुकुलोऽभवत् ॥ १,१४०.१८ ॥

यवीनरो बृहद्भानुः कम्पिल्लः सृञ्जयस्तथा ।
पाञ्चालान्मुकुलाज्जज्ञे शरद्वान्वैष्णवो महान् ॥ १,१४०.१९ ॥

दिवोदासो द्वितीयोऽस्य ह्यहल्यायां शरद्वतः ।
शतानन्दोऽभवत्पुत्रस्तस्य सत्यधृतिः सतः ॥ १,१४०.२० ॥

कृपः कृपी सत्यधृतेरुर्वश्यां वीर्यहानितः ।
द्रोणपत्नी कृपी जज्ञे अश्वत्थामानमुत्तमम् ॥ १,१४०.२१ ॥

दिवोदासान्मित्रयुश्च मित्रयोश्च्यवनोऽभवत् ।
सुदासश्च्यवनाज्जज्ञे सौदासस्तस्य जात्मजः ॥ १,१४०.२२ ॥

सहदेवस्तस्य पुत्रः सहदेवात्तु सोमकः ।
जन्तुस्तु सोमकाज्जज्ञे पृषतश्चापरो महान् ॥ १,१४०.२३ ॥

पृषताद्द्रुपदो जज्ञे धृष्टद्युम्नस्ततोऽभवत् ।
धृष्टद्युम्नाद्धृष्टकेतुरृक्षोऽभूतजमीढतः ॥ १,१४०.२४ ॥

ऋक्षात्संवरणो जज्ञे कुरुः संवरणादभूत् ।
सुधनुश्च पीक्षिच्च जह्नुश्चैव कुरोः सुताः ॥ १,१४०.२५ ॥

सुधनुषः सुहोत्रोऽभूच्च्यवनोऽभूत्सुहोत्रतः ।
च्यवनात्कृतको जज्ञे तथोपरिचरो वसुः ॥ १,१४०.२६ ॥

बृहद्रथश्च प्रत्यग्रः सत्याद्याश्च वसोः सुताः ।
बृहद्रथात्कुशाग्रश्च कुशाग्रादृषभोऽभवत् ॥ १,१४०.२७ ॥

ऋषभात्पुष्पवांस्तस्माज्जज्ञे सत्यहितो नृपः ।
सत्यहितात्सुधन्वाभूज्जह्रुश्चव सुधन्वनः ॥ १,१४०.२८ ॥

बृहद्रथाज्जरासन्धः सहदेवस्तदात्मजः ।
सहदेवाच्च च सोमापिः सोमापेः श्रुतवान्सुतः ॥ १,१४०.२९ ॥

भीमसेनोग्रसेनौ च श्रुतसेनोऽपराजितः ।
जनमेजयस्तथान्योऽभूज्जह्नोस्तु सुरथोऽभवत् ॥ १,१४०.३० ॥

विदूरथस्तु सुरथात्सार्वभौमो विदूरथात् ।
जयसेनः सार्वभौमादावधीतस्तदात्मजः ॥ १,१४०.३१ ॥

अयुतायुस्तस्य पुत्रस्तस्य चाक्रोधनः सुतः ।
अक्रोधनस्यातिथिश्च ऋक्षोऽभूदतिथेः सुतः ॥ १,१४०.३२ ॥

ऋक्षाच्च भीमसेनोऽभूद्दिलीपो भीमसेनतः ।
प्रतीपोऽभूद्दिलीपाच्च देवापिस्तु प्रतीपतः ॥ १,१४०.३३ ॥

शन्तनुश्चैव बाह्लीकस्त्रयस्ते भ्रातरो नृपाः ।
बाह्लीकात्सोमदत्तोऽभूद्भूरिर्भूरिश्रवास्ततः ॥ १,१४०.३४ ॥

शलश्च शन्तनोर्भोष्मो गङ्गायां धार्मिको महान् ।
चित्राङ्गदविचित्रौ तु सत्यवत्यान्तु शन्तनोः ॥ १,१४०.३५ ॥

भार्ये विचित्रवीर्यस्य त्वम्बिकाम्बालिके तयोः ।
धृराष्ट्रं च पाण्डुञ्च तद्दास्यां विदुरन्तथा ॥ १,१४०.३६ ॥

व्यास उत्पादयामास गान्धागी धृतराष्ट्रतः ।
शतपुत्रं दुर्योधनाद्यं पाण्डोः पञ्च प्रजज्ञिरे ॥ १,१४०.३७ ॥

प्रतिबिन्ध्यः श्रुतसोमः श्रुतकीर्तिस्तथार्जुनात् ।
शतानीकः श्रुतकर्मा द्रौपद्यां पञ्च वै क्रमात् ॥ १,१४०.३८ ॥

यौधेयी च हिडिम्बा च कौशी चैव सुभद्रिका ।
विजया वै रेणुमती पञ्चभ्यस्तु सुताः क्रमात् ॥ १,१४०.३९ ॥

देवको घचोत्कचश्च ह्यभिमन्युश्च सर्वगः ।
सुहोत्रो निरमित्रश्च परीक्षिदभिमन्युजः ॥ १,१४०.४० ॥

जनमेजयोऽस्य ततो भविष्यांश्च नृपाञ्छृणु ॥ १,१४०.४१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे चन्द्रवंशवर्णनं नाम चत्वारिंशदुत्तरशततमोऽध्यायः