गरुडपुराणम्/आचारकाण्डः/अध्यायः १५०
← आचारकाण्डः, अध्यायः १४९ | गरुडपुराणम् अध्यायः १५० वेदव्यासः |
आचारकाण्डः, अध्यायः १५१ → |
श्रीगरुडमहापुराणम् १५०
धन्वन्तरिरुवाच ।
अथातः श्वासरोगस्य निदानं प्रवदाम्यहम् ।
कासवृद्ध्या भवेच्छ्वासः पूर्वैर्वा दोषकोपनैः ॥ १,१५०.१ ॥
आमातिसारवमथुविषपाण्डुज्वरैरपि ।
रजोधूमानिलैर्मर्मघातादपि हिमाम्बुना ॥ १,१५०.२ ॥
क्षुद्रकस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चमः ।
कफोपरुद्धगमनपवनो विष्वगास्थितः ॥ १,१५०.३ ॥
प्राणोदकान्नवाहीनि दुष्टस्रोतांसि दूषयन् ।
उरः स्थः कुरुते श्वासमामाशयसमुद्भवम् ॥ १,१५०.४ ॥
प्राग्रूपं तस्य हृत्पार्श्वशूलं प्राणविलोमता ।
आनाहः शङ्खभेदश्च तत्रायासोऽतिभोजनैः ॥ १,१५०.५ ॥
प्रेरितः प्रेरयन्क्षुद्रं स्वयं स समलं मरुत् ।
प्रतिलोमं शिरा गच्छेदुदीर्य पवनः कफम् ॥ १,१५०.६ ॥
परिगृह्यशिरोग्रीवमुरः पार्श्वे च पीडयन् ।
कासं घुर्घुरकं मोहमरुचिम्पीनसं भृशम् ॥ १,१५०.७ ॥
करोति तीव्रवेगञ्च श्वासं प्राणोपतापिनम् ।
प्रताम्येत्तस्य वेगेनष्ठीवनान्ते क्षणं सुखी ॥ १,१५०.८ ॥
कृच्छ्राच्छयानः श्वसिति निषण्णः स्वास्थ्यमर्हति ।
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमार्तिमान् ॥ १,१५०.९ ॥
विशुष्कास्यो मुहुः श्वासः काङ्क्षत्युष्णं सवेपथुः ।
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्धते ॥ १,१५०.१० ॥
स याप्यस्तमकः साध्यो नरस्य बलिनो भवेत् ।
ज्वरमूर्छावतः सीतैर्न शाम्येत्प्रथमस्तु सः ॥ १,१५०.११ ॥
कासश्वसितवच्छीर्णमर्मच्छेदरुजार्दितः ।
सस्वेदमूर्छः सानाहो बस्तिदाहविबोधवान् ॥ १,१५०.१२ ॥
अधोदृष्टिः शुताक्षस्तु स्निह्यद्रक्तैकलोचनः ।
शुष्कास्यः प्रलपन्दीनो नष्टच्छायो विचेतनः ॥ १,१५०.१३ ॥
महातामहता दीनो नादेन श्वसिति क्रथन् ।
उद्धूयमानः संरब्धो मत्तर्षभ इवानिशम् ॥ १,१५०.१४ ॥
प्रनष्टज्ञानविज्ञानो विभ्रान्तनयनाननः ।
नेत्रे समाक्षिपन्बद्धमूत्रवर्चा विशीर्णवाक् ॥ १,१५०.१५ ॥
शुष्ककण्ठो मुहुश्चैव कर्णशङ्खाशिरोऽतिरुक् ।
यो दीर्घमुच्छ्वसित्यूर्ध्वं न च प्रत्याहरत्यधः ॥ १,१५०.१६ ॥
श्लेष्मावृतमुखश्रोत्रः क्रुद्धगन्धवहार्दितः ।
ऊर्ध्वं समीक्षते भ्रान्तमक्षिणी परितः क्षिपन् ॥ १,१५०.१७ ॥
मर्मसु च्छिद्यमानेषु परिदेवी निरुद्धवाक् ।
एते सिध्येयुरव्यक्ताः व्यक्ताः प्राणहरा ध्रुवम् ॥ १,१५०.१८ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्वासनिदाना नाम पञ्चाशदुत्तरशततमोऽध्यायः