गरुडपुराणम्/आचारकाण्डः/अध्यायः १७४

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १७३ गरुडपुराणम्
अध्यायः १७४
वेदव्यासः
आचारकाण्डः, अध्यायः १७५ →

श्रीगरुडमहापुराणम् १७४
धन्वतरिरुवाच ।
घृततैलादि वक्ष्यामि शृणु सुश्रुत रोगनुत् ।
शङ्खपुष्पी वचा सोमा ब्राह्मी ब्रह्मसुवर्चला ॥ १,१७४.१ ॥

अभया च गुडूची च अटरूपकवागुजी ।
एतैरक्षसमैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ १,१७४.२ ॥

कण्टकार्या रसप्रस्थक्षीरप्रस्थममन्वितम् ।
एतद्ब्राह्मीघृतं नाम श्रुतिमेधाकरं परम् ॥ १,१७४.३ ॥

त्रिफलाचित्रकबलानिर्गुण्डी निम्बवासकाः ।
पुनर्नवा गुडूची च बृहती च शतावरी ॥ १,१७४.४ ॥

एतैर्घृतं यथालाभं सर्वरोगविमर्दनम् ।
बलाशतकषाये तु तैलस्यार्धाढकं पचेत् ।
कल्कैर्मधूकमञ्जिष्ठाचन्दनोत्पलपद्मकैः ॥ १,१७४.५ ॥

सूक्ष्मैलापिप्पलीकुष्ठत्वगेलागुरुकेसरैः ।
गन्धाश्वजीवनीयैश्च क्षीराढकसमाश्रितम् ॥ १,१७४.६ ॥

एतन्मृद्वग्निना पक्वं स्थापयेद्राजते शुभे ।
सर्ववातविकारांस्तु सर्वधात्वन्तराश्रयान् ॥ १,१७४.७ ॥

तैलमेतत्प्रशमयेद्वल्याक्यं राजवल्लभम् ।
शतावरीरसप्रस्थं क्षीरप्रस्थं तथैव च ॥ १,१७४.८ ॥

शतपुष्पं देवदारु मांसी शैलेयकं बला ।
चन्दनं तगरं कुष्टं मनः शिला ज्योतिष्मती ॥ १,१७४.९ ॥

एतैः कर्षसमैः कल्कैः घृतप्रस्थं विपाचयेत् ।
कुव्जवामनपङ्गूनां बधिरव्यङ्गकुष्ठिनाम् ॥ १,१७४.१० ॥

वायुना भग्नगात्राणां ये च सीदन्ति मैथुने ।
जराजर्जरगात्राणां चाध्मानमुख शोषिणाम् ॥ १,१७४.११ ॥

त्वग्गताश्चापि ये वाता शिरास्नायुगताश्च ये ।
सर्वांस्तान्नाशयत्याशु तैलं रोगकुलान्तकम् ॥ १,१७४.१२ ॥

नारायणमिदं तैलं विष्णुनोक्तं रुगर्दनम् ।
पृथक्तैलं घृतं कुर्यात्समस्तैरौषधैः पृथक् ॥ १,१७४.१३ ॥

शतावर्या गुडूच्या वा चित्रकै गोचनान्वितैः ।
निर्गुण्ड्या वा प्रसारः स्यात्कण्टकार्या रसादिभिः ॥ १,१७४.१४ ॥

वर्षाभूवालया वापि वासकन फलत्रिकैः ।
ब्राहया चैग्ण्डकेनापि भृङ्गराजेन कुष्टिना ॥ १,१७४.१५ ॥

मुसल्या दशमूलेन खदिरेण वटादिभिः ।
वटिका मोदको वापि चूर्ण स्यात्सर्वरोगनुत् ॥ १,१७४.१६ ॥

घृतेन मधुना वापि अद्भिः खण्डगुडादिभिः ।
लवणैः कटुकैर्युक्तं यथालाभं च गेगनुत् ॥ १,१७४.१७ ॥

चित्रकार्कत्रिवृद्वापि यवानीहयमारकम् ।
सुधां च बालां गणिकां सप्तपर्णसुवर्चिकाम् ॥ १,१७४.१८ ॥

ज्योतिष्मतीञ्च संभृत्य तैलं धीरो विपाचयेत् ।
एतन्निष्यन्दनं तैलं भृशं दद्याद्भगन्दरे ॥ १,१७४.१९ ॥

शोधनं गेपणं चैव सर्ववर्णकरं परम् ।
चित्रकाद्यं महातैलं सर्वरोगप्रभञ्जनम् ॥ १,१७४.२० ॥

अजमोदं ससिन्दूरं हरितालं निशाद्वयम् ।
क्षारद्वयं फेनयुतमार्द्रक सर (शवः लोद्भवम् ॥ १,१७४.२१ ॥

इन्द्रवारुण्यपामार्गकदलैः स्यन्दनैः समम् ।
एभिः सर्षपजं तैलमजामूत्रैश्चयोजितम् ॥ १,१७४.२२ ॥

मृद्वग्निना पचेदेत्गव्यक्षीरेण संयुतम् ।
अजमोदादिकं तैलं गण्डमालां व्यपोहति ॥ १,१७४.२३ ॥

विदग्धस्तु पचेत्पक्वं चैव विशोधयेत् ।
रोपणं मृदुभावं च तैलेनानेन कारयेत् ॥ १,१७४.२४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्राह्मीघृतादिवर्णनं नाम चतुः सप्तत्युत्तरशततमोऽध्यायः