गरुडपुराणम्/आचारकाण्डः/अध्यायः १७८

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १७७ गरुडपुराणम्
अध्यायः १७८
वेदव्यासः
आचारकाण्डः, अध्यायः १७९ →

श्रीगरुडमहापुराणम् १७८
हरिरुवाच ।
ब्रह्मदण्डीवचाकुष्ठं प्रियङ्गर्नागकेशरम् ।
दद्यात्ताम्बूलसंयुक्तं स्त्रीणां मन्त्रेण तद्वशम् ।
ओं नारायण्यै स्वाहा ॥ १,१७८.१ ॥

ताम्बूलं यस्य दीयेत स वशी स्यात्सुमन्त्रतः ।
ओं हरिः हरिः स्वाहा ॥ १,१७८.२ ॥

गोदन्तं हरितालञ्च संयुक्तं काकजिह्वया ।
चूर्णोकृत्य यस्य शिरे दीयते स वशी भवेत् ।
श्वेतसर्षपनिर्माल्यं यद्गृहे तद्विनाशकृत् ॥ १,१७८.३ ॥

वैभी तकं शाखोटकं मूलं पत्रेण संयुतम् ।
स्थाप्यते यद्गृहद्वारे तत्र वै कलहो भवेत् ॥ १,१७८.४ ॥

खञ्जरीटस्य मांसं तु मधुना सह पेषयेत् ।
ऋतुकालेयोनिलेपात्पुरुषो दासतामियात् ॥ १,१७८.५ ॥

अगुरुं गुग्गुलुं चैव नीलोत्पलसमन्वितम् ।
गुडेन धूपयित्वा तु राजद्वारे प्रियो भवेत् ॥ १,१७८.६ ॥

श्वेताप राजितामूलं पिष्टं रोचनया युतम् ।
यं पश्येत्तिलकेनैव वशी कर्यान्नृपालये ॥ १,१७८.७ ॥

काकजङ्घा वचा कुष्ठं निम्बपत्रं सुकुङ्कुमम् ।
आत्मरक्तसमायुक्तं वशी भवति मानवः ॥ १,१७८.८ ॥

आरण्यस्य बिडालस्य गृहित्वा रुधिरं शुभम् ।
करञ्जतैले तद्भाव्यं रुद्राग्नौ कज्जलं ततः ।
पातयेत्पद्मपत्रेण हादृश्यः स्यात्तदञ्जनात् ॥ १,१७८.९ ॥

ओं नमः खड्गवज्रपाणये महायक्षसेनापतये स्वाहा ।
ओं रुद्रं ह्रां ह्रीं वरशक्ता त्वरिताविद्या ।
ओं मातरः स्तम्भयस्वाहा ।
सहस्रं परिजप्यात्तु विद्येयं चौरवारिणी ।
महासुगन्धिकामूलं शुक्रं स्तम्भेत्कटौ स्थितम् ॥ १,१७८.१० ॥

ओं नमः सर्वसत्त्वेभ्यो नमः सिद्धिं कुरु कुरु स्वाहा ।
सप्ताभिमन्त्रितं कृत्वा करवीरस्य पुष्पकम् ।
स्त्रीणामग्रे भ्रामयच्च क्षणाद्वै सा वशे भवेत् ॥ १,१७८.११ ॥

ब्रह्मदण्डीं वचां पत्रं मधुना सह पेषयेत् ।
अङ्गलेपाच्च वनिता नान्यं भर्तारमिच्छति ॥ १,१७८.१२ ॥

ब्रह्मदण्डीशिखा वक्त्रे क्षिप्ता शुक्रस्य स्तम्भनम् ।
मूलं जयन्त्या वक्त्रस्थं व्यवहारे जयप्रदम् ॥ १,१७८.१३ ॥

भृङ्गराजस्य मूलं तु पिष्टं शुक्रेण संयुतम् ।
अक्षिणी चाञ्जयित्वा तु वशी कर्यान्नरं किल ॥ १,१७८.१४ ॥

अपराजिताशिखान्तु नीलोत्पलसमन्विताम् ।
ताम्बूलेन प्र (दाना) दद्याच्च वशीकरणमुत्तमम् ॥ १,१७८.१५ ॥

अङ्गुष्ठे च पदे गुल्फे जानौ च जघने तथा ।
नाभौ वक्षसि कुक्षौ च कक्षे कण्ठे कपोलके ॥ १,१७८.१६ ॥

ओष्ठे नेत्रे ललाटे च मूर्ध्नि चन्द्रकलाः स्थिताः ।
स्त्रीणां पक्षे सिते कृष्णे ऊर्ध्वाधः संस्थिता नृणाम् ॥ १,१७८.१७ ॥

वामाङ्गे दक्षिणाङ्गे च क्रमाद्रुद्र द्रवादिकृत् ।
चतुः षष्टि कलाः प्रोक्ताः कामशास्त्रे वशीकराः ।
आलिङ्गनाद्या नारीणां कमारीणां वशीकराः ॥ १,१७८.१८ ॥

रोचनागन्धुपुष्पाणि निम्बपुष्पं प्रियङ्गवः ।
कुङ्कमं चन्दनञ्चैव तिलकेन जगद्वशेत् ॥ १,१७८.१९ ॥

ओं ह्रीं गौरि देवि सौभाग्यं पुत्रवशादि देहि मे ।
ओं ह्रीं लक्ष्मि ! देवि सौभाग्यं सर्वं त्रैलोक्यमोहनम् ॥ १,१७८.२० ॥

सगन्धस्य हरिद्रायाः कुङ्कमानां च लेपतः ।
वशयेद्रुद्र धूपश्च तथापुष्पसुगन्धयोः ॥ १,१७८.२१ ॥

दुरालभा वचा कुष्ठं कुङ्कुमञ्च शतावरी ।
तिलतैलेन संयुक्तं योनिलेपाद्वशी नरः ॥ १,१७८.२२ ॥

निम्बकाष्ठस्य धूमेन धूपयित्वा भगं वधूः ।
सुभगास्यात्साति रुद्र पतिर्दासो भविष्यति ॥ १,१७८.२३ ॥

माहिषं नवनीतञ्च कष्टञ्च मधुयष्टिका ।
सौभाग्यं भगलेपात्स्यात्पतिर्दासो भवेत्तथा ॥ १,१७८.२४ ॥

मधुयष्टिश्च गोक्षीरं तथा च कण्टकारिका ।
एतानि समभागानि पिबेदुष्णेन वारिणा ।
चतुर्भागावशेषेण गर्भसम्भवमुत्तमम् ॥ १,१७८.२५ ॥

मातुलुङ्गस्य बीजानि क्षीरेण सह भावयेत् ।
तत्पीत्वा लभते गर्भं नात्र कार्या विचारणा ॥ १,१७८.२६ ॥

मातुलुङ्गस्य बीजानि मूलान्येरण्डकस्य च ।
घृतेन सह संयोज्य पाययेत्पुत्रकाक्षिणी ॥ १,१७८.२७ ॥

पश्वगन्धा मृत दुग्ध क्वथितं मुत्रकारकम् ।
पलाशस्य तु बीजानि क्षौद्रेण सह पेषयेत् ।
रजस्वला तु पीत्वा स्यात्मुष्पगर्भविवर्जिता ॥ १,१७८.२८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ह्यष्टसप्तत्यधिकशततमोऽध्यायः