गरुडपुराणम्/आचारकाण्डः/अध्यायः १८३

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १८२ गरुडपुराणम्
अध्यायः १८३
वेदव्यासः
आचारकाण्डः, अध्यायः १८४ →

श्रीगरुडमहापुराणम् १८३
हरिरुवाच ।
मरिचं शृङ्गवेरं च कुटजत्वचमेव च ।
पानाच्च ग्रहणी नश्येच्छशाङ्काङ्कितशेखर ! ॥ १,१८३.१ ॥

पिप्पली पिप्पलीमूलं मरिचं तगरं वचा ।
देवदारुरसं पाठां क्षीरेण सह पेषयेत् ॥ १,१८३.२ ॥

अनेनैव प्रयोगेण ह्यतिसारो विनश्यति ।
मरीचतिलपुष्पाभ्या मञ्जनं कामलापहम् ॥ १,१८३.३ ॥

हरीतकी समगुडा मधुना सह योजिता ।
विरेचनकरी रुद्र ! भवतीति न संशयः ॥ १,१८३.४ ॥

त्रिफला चित्रकं चित्रं तथा कटुकरोहिणी ।
उरुस्तम्भहरं ह्येतदुत्तमन्तु विरेचनम् ॥ १,१८३.५ ॥

हरीतकी शृङ्गवेरं देवदारु च चन्दनम् ।
क्वाथयेच्छागदुग्धेन अपामार्गस्य मूलकम् ।
ऊरुस्तम्भं जयन्त्या वा सप्तरात्रेण नाशयेत् ॥ १,१८३.६ ॥

अनन्ताशृङ्गवेरस्य सूक्ष्मचूर्णानि कारयेत् ।
गुग्गुलं गुडतुल्यं च गुटिकामुपयुज्यच ।
वायुः स्नायुगतं चैव अग्निमान्द्यं च नाशयेत् ॥ १,१८३.७ ॥

सङ्खपुष्पीन्तु पुष्पेण समुद्धृत्य सपत्रिकाम् ।
समूलां छागदुग्धेन अपस्मारहरं पिबेत् ॥ १,१८३.८ ॥

अश्वगन्धाभये चैव उदकेन समं पिबेत् ।
रक्तपित्तं विनश्येत्तु नात्र कार्या विचारणा ॥ १,१८३.९ ॥

हरीतकीकुष्ठचूर्णं कृत्वा आस्यं च पूरयेत् ।
शीतं पीत्वाथ पानीयं सर्वच्छर्दिनिवारणम् ॥ १,१८३.१० ॥

गडूचीपद्मकारिष्टधान्याकं रक्तचंन्दनम् ।
पित्तश्लेष्मज्वरच्छर्दिदाहतृष्णाघ्नमग्निकृत् ।
ओं हुं नम इति ॥ १,१८३.११ ॥

श्रोत्रे बद्ध्वा शङ्खपुष्पीं ज्वरं मन्त्रेण वै हरेत् ।
ओं जम्भिनी स्तम्भिनी मोहय सर्वव्याधीन्मे वज्रेण ठः ठः सर्वव्याधीन्मे वज्रेण फटिति ॥ १,१८३.१२ ॥

पुष्पमष्टशतं जप्त्वा हस्ते दत्त्वा नखं स्पृशेत् ।
चातुर्थिको ज्वरो रुद्र अन्ये चैव ज्वरास्तथा ॥ १,१८३.१३ ॥

ज्म्बूफलं हरिद्रा च सर्पस्यैव तु कञ्चुकम् ।
सर्वज्वराणां धूपोऽयं हरश्चातुर्थिकस्य च ॥ १,१८३.१४ ॥

करवीरं भृङ्गपत्रं लवणं कुष्ठकर्कटे ।
चतुर्गुणेन मूत्रेण पचेत्तैलं हरेच्च तत् ।
पामां विचर्चिकां कुष्ठमभ्यङ्गाद्धि व्रणानि वै ॥ १,१८३.१५ ॥

पिप्पलीमधुपानाच्च तथा मधुरभोजनात् ।
प्लीहा विनश्यते रुद्र तथा सूरणसेवनात् ॥ १,१८३.१६ ॥

पिप्पलीञ्च हरिद्राञ्च गोमूत्रेण समन्विताम् ।
प्रक्षिपेच्च गुदद्वारे अर्शांसि विनिवारयेत् ॥ १,१८३.१७ ॥

अजादुग्धमार्द्रकञ्च पीतं प्लीहादिनाशनम् ।
सैन्धवञ्च विडङ्गानि सोमराजी तु सर्षपाः ॥ १,१८३.१८ ॥

रजनी द्वे विषञ्चैव गोमूत्रेणैव पेषयेत् ।
कुष्ठनाशश्च तल्लेपान्निम्बपत्रादिना तथा ॥ १,१८३.१९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे त्र्यशीत्यधिकशततमोऽध्यायः