गरुडपुराणम्/आचारकाण्डः/अध्यायः २२८
← आचारकाण्डः, अध्यायः २२७ | गरुडपुराणम् अध्यायः २२८ वेदव्यासः |
आचारकाण्डः, अध्यायः २२९ → |
श्रीगरुडमहापुराणम् २२८
सूत उवाच ।
मुक्तिहेतुमनाद्यन्तमजमव्ययमक्षयम् ।
यो नमेत्सर्वलोकस्य नमस्यो जायते नरः ॥ १ ॥
विष्णुमानन्दमद्वैतं विज्ञानं सर्वगं प्रभुम् ।
प्रणमामि सदा भक्त्या चेतसा हृदयालयम् ॥ २ ॥
योऽन्तस्तिष्ठन्नशेषस्य पश्यतीशः शुभाशुभम् ।
तं सर्वसाक्षिणं विष्णुं नमस्ये परमेश्वरम् ॥ ३ ॥
शक्तेनापि नमस्कारः प्रयुक्तश्चक्रपाणये ।
संसारतृणवर्गाणामुद्वेजनकरो हि सः ॥ ४ ॥
कृष्णे स्फुरज्जलधरोदरचारुकृष्णे लोकाधिकारपुरुषे परमप्रमेये ।
एको हि भावगुणमात्रदृढप्रणामः सद्यः श्वपाकमपि साधयितुं सशक्तः ॥ ५ ॥
प्रणम्य दण्डबद्भूमौ नमस्कारेण योर्ऽचयेत् ।
स यां गतिमवाप्नोति न तां क्रतुशतैरपि ॥ ६ ॥
दुर्गसंसारकान्ताराकूपारेऽपि प्रधावताम् ।
एकः कृष्णे नमस्कारो मुक्त्या तांस्तारयिष्यति ॥ ७ ॥
आसीनो वा शयानो वातिष्ठन् वा यत्र तत्र वा ।
नमो नारायणायेति मन्त्रैकशरणो भवेत् ॥ ८ ॥
नारायणेति शब्दोऽस्ति वागस्ति वशवर्तिनी ।
तथापि नरके मूढाः पतन्तीति किमद्भुतम् ॥ ९ ॥
चतुर्मुखो वा यदि कोटिवक्त्रो भवेन्नरः कोपि विशुद्धचेताः ।
स वै गुणानामयुतैकदेशं वदेन्न वा देववरस्य विष्णोः ॥ १० ॥
व्यासाद्या मुनयः सर्वे स्तुवन्तो मधुसूदनम् ।
मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयात् ॥ ११ ॥
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः ।
पुमान् विमुच्यते सद्यः सिंहत्रस्तो मृगा यथा ।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ १२ ॥
स्वप्नेऽपि नाम स्पृशतोऽपि पुंसः क्षयं करोत्यक्षयपापराशिम् ।
प्रत्यक्षतः किं पुनरत्र पुंसा प्रकीर्तिते नाम्नि जनार्दनस्य ॥ १३ ॥
नमः कृष्णाच्युतानन्तवासुदेवेत्युदीरितम् ।
यैर्भावभावितैर्विप्रन ते यमपुरं ययुः ॥ १४ ॥
क्षयो भवेद्यथा वह्नेस्तमसो भास्करोदये ।
तथैव कलुषौघस्य नामसंकीर्तनाद्धरेः ॥ १५ ॥
क्व नाकपृष्ठगमनं पुनरायाति न क्षयम् ।
गच्छतां दूरमध्वानं कृष्णमूर्छितचेतसाम् ॥ १६ ॥
पाथेयं पुण्डरीकाक्षनामसंकीर्तनं हरेः ।
संसारसर्पसंदष्टविषचेष्टैकभेषजम् ।
कृष्णेति वैष्णवं क्षान्तं जप्त्वा मुक्तो भवेन्नरः ॥ १७ ॥
ध्यायन् कृते जपेन्मन्त्रैस्त्रेतायां द्वापरेर्ऽचयन् ।
यदाप्नोति तदाप्नोति तदाप्नोति कलौ संस्मृत्यकेशवम् ॥ १८ ॥
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ।
संसारसागरं तीर्त्वा स गच्छेद्वैष्णवं पदम् ॥ १९ ॥
विज्ञातदुष्कृतिसहस्रसमावृतोऽपिश्रेयः परन्तु परिशुद्धिम भीप्समानः ।
स्पप्नान्तरे न हि पुनश्च भवं स पश्येन्नारायणस्तुतिकथापरमो मनुष्यः ॥ २० ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुभक्तिविवरणं नामाष्टाविंशत्युत्तरद्विशततमोऽध्यायः