सांख्यतत्वकौमुदी
- अजामेकां लोहितशुक्लकृष्णां
- बह्वीः प्रजाः सृजमानां नमामः।
- अजा ये तां जुषमाणां भजन्ते
- जहत्येनां भुक्तभोगां नुमस्तान्।।
- कपिलाय महामुनये मुनये शिष्याय तस्य चासुरये।
- पञ्चशिखाय तथेश्वरकृष्णायैते नमस्यामः।।
इह खलु प्रतिपित्सितमर्थं प्रतिपादयन् प्रतिपादयिता अवधेयवचनो भवति प्रेक्षताम्। अप्रतिपित्सितमर्थं तु प्रतिपादयन् न अयं लौकिको नापि परीक्षक इति प्रेक्षावद्भिरुन्मत्तवदुपेक्ष्येत। (पञ्चमकारिकायाः भाष्यम् इतः परम्) तत्राप्तवचनमिति लक्ष्यनिर्देशः, परिशिष्टं लक्षणम्। आप्ता प्राप्ता युक्तेति यावत्। आप्ता चाऽसौ श्रुतिश्चेति आप्तश्रुतिः। श्रुतिः- वाक्यजनितं वाक्यार्थज्ञानम्। तच्च स्वतः प्रमाणम्। अपौरुषेयवेदवाक्यजनितत्वेन सकलदोषाशङ्काविनिर्मुक्तेर्युक्तं भवति।
आदिविदुषश्च कपिलस्य कल्पादौ कल्पान्तराधीतशुतिस्मरणसम्भवः, सुप्तप्रबुद्धस्येव पूर्वेद्युरवगतानामर्थानामपरेद्युः। तथा च आवट्यजैगीषव्यसंवादे भगवान् जैगीषव्यो दशमहाकल्पवर्त्तिजातजन्मस्मरणमात्मन उवाच- “दशसु महाकल्पेषु विपरिवर्तमानेनानभिभूतबुद्धिसत्त्वेन मया” इत्यादिना ग्रन्थसन्दर्भेण।
आप्तग्रहणेनाऽयुक्ताः शाक्यभिक्षुनिर्गन्थकसंसारमोचकादीनामागमाभासाः परिहृता भवन्ति। अयुक्तत्वं चैतेषां विगानात्, विच्छिन्नमूलत्वात् प्रमाणविरुद्धार्थाभिधानाच्च कैश्चिदेव म्लेच्छादिभिः पुरुषापसदैः पशुप्रायैः परिग्रहो बोद्धव्यम्। तु शब्देनाऽनुमानाद् व्यवच्छिनत्ति। वाक्यार्थो हि प्रमेयः, न तु तद्धर्मो वाक्यम्, येन तत्र लिङ्गं भवेत्। न च वाक्यं वाक्यार्थं बोधयत् सम्बन्धग्रहणमपेक्षते, अभिनवकविविरचितस्य वाक्यस्याऽदृष्टपूर्वस्याऽनुभूतचरवाक्यार्थबोधकत्वादिति।