कौपीनपञ्चकम्

विकिस्रोतः तः

॥कौपीन पंचकं ( शंकराचार्य) ||

          कौपीन पंचकम्

वेदान्तवाक्येषु सदा रमन्तो
भिक्षान्नमात्रेण च तुष्टिमन्तः |
विशोकमन्तःकरणे चरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||१||


मूलं तरोः केवलमाश्रयन्तः
पाणिद्वयं भोक्तुममन्त्रयन्तः |
कन्थामिव श्रीमपि कुत्सयन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||२||


स्वानन्दभावे परितुष्टिमन्तः
सुशान्तसर्वेन्द्रियवृत्तिमन्तः |
अहर्निशं ब्रह्मसुखे रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||३||


देहादिभावं परिवर्तयन्तः
स्वात्मानमात्मन्यवलोकयन्तः |
नान्तं न मध्यं न बहिः स्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||४||


ब्रह्माक्षरं पावनमुच्चरन्तो
ब्रह्माहमस्मीति विभावयन्तः |
भिक्षाशिनो दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ||५||


||इति श्रीमद् शङ्कराचार्यकृत कौपीन पञ्चकं संपूर्णम् ||

"https://sa.wikisource.org/w/index.php?title=कौपीनपञ्चकम्&oldid=329122" इत्यस्माद् प्रतिप्राप्तम्