गौरीदशकम्

विकिस्रोतः तः

<poem> .. गौरीदशकम् ..

      .. श्रीः ..
   .. गौरीदशकम् ..

लीलालब्धस्थापितलुप्ताखिललोकां लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् . बालादित्यश्रेणिसमानद्युतिपुञ्जां गौरीममम्बामम्बुरुहाक्षीमहमीडे .. १..

प्रत्याहारध्यानसमाधिस्थितिभाजां नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् . सत्यज्ञानानन्दमयीं तां तनुरूपां गौरीमम्बामम्बुरुहाक्षीमहमीडे .. २..

चन्द्रापीडानन्दितमन्दस्मितवक्त्रां चन्द्रापीडालंकृतनीलालकभाराम् . इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां गौरीमम्बामम्बुरुहाक्षीमहमीडे .. ३..

आदिक्षान्तामक्षरमूर्त्या विलसन्तीं भूते भूते भूतकदम्बप्रसवित्रीम् . शब्दब्रह्मानन्दमयीं तां तटिदाभां गौरीमम्बामम्बुरुहाक्षीमहमीडे .. ४..

मूलाधारादुत्थितवीथ्या विधिरन्ध्रं सौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम् . येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां गौरीमम्बामम्बुरुहाक्षीमहमीडे .. ५..

नित्यः शुद्धो निष्कल एको जगदीशः साक्षी यस्याः सर्गविधौ संहरणे च . विश्वत्राणक्रीडनलोलां शिवपत्नीं गौरीमम्बामम्बुरुहाक्षीमहमीडे .. ६..

यस्याः कुक्षौ लीनमखण्डं जगदण्डं भूयो भूयः प्रादुरभूदुत्थितमेव . पत्या सार्धं तां रजताद्रौ विहरन्तीं गौरीमम्बामम्बुरुहाक्षीमहमीडे .. ७..

यस्यामोतं प्रोतमशेषं मणिमाला- सूत्रे यद्वत्क्कापि चरं चाप्यचरं च . तामध्यात्मज्ञानपदव्या गमनीयां गौरीमम्बामम्बुरुहाक्षीमहमीडे .. ८..

नानाकारैः शक्तिकदम्बैर्भुवनानि व्याप्य स्वैरं क्रीडति येयं स्वयमेका . कल्याणीं तां कल्पलतामानतिभाजां गौरीमम्बामम्बुरुहाक्षीमहमीडे .. ९..

आशापाशक्लेशविनाशं विदधानां पादाम्भोजध्यानपराणां पुरुषाणाम् . ईशामीशार्धाङ्गहरां तामभिरामां गौरीमम्बामम्बुरुहाक्षीमहमीडे .. १०..

प्रातःकाले भावविशुद्धः प्रणिधाना- द्भक्त्या नित्यं जल्पति गौरिदशकं यः . वाचां सिद्धिं संपदमग्रयां शिवभक्तिं तस्यावश्यं पर्वतपुत्री विदधाति .. ११..

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ गौरीदशकम् संपूर्णम् .. <poem>

"https://sa.wikisource.org/w/index.php?title=गौरीदशकम्&oldid=37869" इत्यस्माद् प्रतिप्राप्तम्