रसरत्नसमुच्चय : अध्याय 17
- अथ मूत्रकृच्छ्राश्मर्यादिचिकित्सनम्
कटौ कुक्षिप्रदेशे च शूलं प्रथमतो भवेत् ।
पश्चाद्रोधो ज्वलन्मूत्रम् अश्मरीरोगलक्षणम् ।। रस-१७.१ ।।
- पाषाणभेदीरसः
रसं द्विगुणगंधेन मर्दयित्वा प्रयत्नतः ।
वसुः पुनर्नवा वासा श्वेता ग्राह्या प्रयत्नतः ।। रस-१७.२ ।।
तद्द्रवैर्भावयेदेनं प्रत्येकं तु दिनत्रयम् ।
पक्वं मूषागतं शुष्कं स्वेदयेज्जलयन्त्रतः ।। रस-१७.३ ।।
पाषाणभेदी नामायं नियुञ्जीतास्य वल्लयुक् ।
गोपालकर्कटीदुग्धं भूम्यामलकमूलिका ।
कुलत्थक्वाथतोयेन पिष्ट्वा तदनुपाययेत् ।। रस-१७.४ ।।
- द्वितीयः पाषाणभेदीरसः
रसेन सितवर्षाभ्वा रसं द्विगुणगंधकम् ।
घृष्टं पचेच्च मूषायां द्वौ माषौ तस्य भक्षयेत् ।। रस-१७.५ ।।
पातालकर्कटीमूलं कुलत्थोदैः पिबेदनु ।
गोकण्टकसदाभद्रामूलक्वाथं पिबेन्निशि ।
अयं पाषाणभिन्नाम्ना रसः पाषाणभेदकः ।। रस-१७.६ ।।
गोक्षुरबीजसमुत्थं चूर्णमविक्षीरसंयुक्तम् ।
रसवरमिश्रं पिबतश्चूर्णीभूत्वाश्मरी पतति ।। रस-१७.७ ।।
- त्रिविक्रमरसः
मृतताम्रमजाक्षीरैः पाच्यं तुल्यं गते द्रवे ।
तत्ताम्रं शुद्धसूतं च गंधकं च समं समम् ।। रस-१७.८ ।।
निर्गुण्ड्युत्थद्रवैर्मर्द्यं दिनं तद्गोलम् अन्ध्रयेत् ।
यामैकं वालुकायंत्रे पाच्यं योज्यं द्विगुञ्जकम् ।। रस-१७.९ ।।
बीजपूरस्य मूलं तु सजलं चानुपाययेत् ।
रसस्त्रिविक्रमो नाम्ना मासैकेनाश्मरीप्रणुत् ।। रस-१७.१० ।।
- आनन्दभैरवीवटी
तिलापामार्गकाण्डं च कारवेल्ल्या यवस्य च ।
पलाशकाष्ठसंयुक्तं सर्वं तुल्यं दहेत्पुटे ।। रस-१७.११ ।।
तन्निष्कैकमजामूत्रैर्वटीं चानन्दभैरवीम् ।
पाययेदश्मरीं हन्ति सप्ताहान्नात्र संशयः ।। रस-१७.१२ ।।
- सामान्योपायः
पाण्डुरं फलिकामूलं जलेनैवाश्मरीहरम् ।। रस-१७.१३ ।।
मधुना च यवक्षारं लीढं स्याद् अश्मरीहरम् ।। रस-१७.१४ ।।
हरिद्रागुडकर्षैकं चारनालेन वा पिबेत् ।। रस-१७.१५ ।।
वन्ध्याकर्कोटकीकन्दं भक्ष्य क्षौद्रं सितायुतम् ।
अश्मरीं हन्ति नो चित्रं कर्षमात्रं शिवोदितम् ।। रस-१७.१६ ।।
- प्रमेह
शोषस्तापोऽङ्गकार्श्यं च बहुमूत्रत्वम् एव च ।
अस्वास्थ्यं सर्वगात्रेषु मूत्रमेहस्य लक्षणम् ।। रस-१७.१७ ।।
- गुडमार्कण्डी
मार्कण्डीचूर्णमादाय सगुडं खादयेन्निशि ।। रस-१७.१८ ।।
- लघुलोकेश्वररसः
मृतसूतस्य भागैकं चत्वारः शुद्धगन्धकात् ।
पिष्ट्वा वराटकं तेन रसपादं च टंकणम् ।। रस-१७.१९ ।।
क्षीरैः पिष्ट्वा मुखं रुद्ध्वा वराटांश्चान्ध्रयेत्पुटेत् ।
स्वांगशीतं विचूर्ण्याथ लघुलोकेश्वरो रसः ।। रस-१७.२० ।।
चतुर्गुंजारसश्चायं मरिचैकोनविंशतिः ।
जातिमूलपलैकं तु अजाक्षीरेण पेषयेत् ।
शर्कराभावितं चानु पीत्वा कृच्छ्रहरं परम् ।। रस-१७.२१ ।।