सामग्री पर जाएँ

भावनासारसङ्ग्रह/प्रथमः

विकिस्रोतः तः
भावनासारसङ्ग्रह
प्रथमः
[[लेखकः :|]]
द्वितीयः →

१.१:

अज्ञानतिमिरान्धस्य
ज्ञानाञ्जनशलाकया
चक्षुरुन्मीलितं येन
तस्मै श्रीगुरवे नमः



१.२:

सिंहस्कन्धं मधुरमधुरस्मेरगण्डस्थलान्तं
दुर्विज्ञेयोज्ज्वलरसमयाश्चर्यनानाविकारम्
विभ्रत्कान्तिं विकचकनकाम्भोजगर्भाभिरामाम्
एकीभूतं वपुरवतु वो राधया माधवस्य
(चैतन्यचन्द्रामृतं १३)



१.३:

शोणस्निग्धाङ्गुलिदलकुलं जातरागं परागैः
श्रीराधायाः स्तनमुकुलयोः कुङ्कुमक्षोदरूपैः
भक्तश्रद्धामधुनखमहःपुञ्जकिञ्जल्कजालं
जङ्घानालं चरणकमलं पातु नः पूतनारेः
(आनन्दवृन्दावनचम्पूः १.२)



१.४:

भक्तिरसामृतसिन्धौ
चरतः परिभूतकालजालभियः
भक्तमकरानशीलित
मुक्तिनदीकान्नमस्यामि
(भक्तिरसामृतसिन्धु १.१.४)

श्री गौरचन्द्र



१.५:

प्रगे श्रीवासस्य द्विजकुलरवैर्निष्कु अवरे
श्रुतिध्वानप्रख्यैः सपदि गतनिद्रं पुलकितम्
हरेः पार्श्वे राधास्थितिं अनुभवन्तं नयनजैर्
जलैः संसिक्ताङ्गं वरकनकगौरं भज मनः



१.६:

मूलसूत्र

रात्र्यन्ते त्रस्तवृन्देरितबहुविरवैर्बोधितौ कीरशारी
पद्यैर्हृद्यैरहृद्यैरपि सुखशयनादुत्थितौ तौ सखीभिः
दृष्टौ हृष्टौ तदात्वोदितरतिललितौ कक्ख ईगीः सशङ्कौ
राधाकृष्णौ सतृष्णावपि निजनिजधाम्न्याप्ततल्पौ स्मरामि
 (गोविन्दलीलामृतं १.१०)



१.७:

प्रतिस्वसेवावसरप्रबोधिता
सदातनाभ्यासजुषोऽथ किङ्करीः
निद्रैव रात्र्यन्तं अवेत्य ता जहौ
सैव स्वयं जागरयाञ्चकार किम्?
(कृष्णभावनामृतं १.४)



१.८:

उत्थाय तल्पाच्चकितेक्षणाः क्षणान्
दुहानयोर्नागरचक्रवर्तिनोः
स्वापं रहःस्वापं अभङ्गं अङ्गना
आलक्ष्य तूष्णीं अधिशयं आसत
 (कृष्णभावनामृतं १.५)



१.९:

पप्रच्छुरन्योन्यं इमा मिमानया
रसं परीहासभृतं सजृम्भया
गिरा चिराज्जागरमूढघूर्णन
स्वस्वाक्षिभृङ्गीततिलीढवक्षसः
 (कृष्णभावनामृतं १.६)



१.१०:

निशान्तसेवोचितमाल्यवीटिका
कृत्यात्तचित्ता अथ काचिदाह ताः
अनङ्गबद्धाङ्गयुवद्वयोच्छलत्
सौरभ्यसौलभ्यवती रसोच्चला
 (कृष्णभावनामृतं १.७)



१.११:

जानीत जालाध्वगतास्यपद्माः
सद्मान्तराल्यः स्वदृशः प्रहित्य
कान्तौ नितान्तातनुलास्यचुञ्चु
धिनोति सुप्तिः परिरभ्य कीदृक्?
 (कृष्णभावनामृतं १.८)



१.१२:

इतस्ततो न्यस्तमणिप्रदीपान्
अफुल्लनीलोत्पलचम्पकाभान्
विधत्त एतौ स्वमयूखवृन्दैर्
अनावृतैर्मण्डनमाल्यचेलैः
 (कृष्णभावनामृतं १.९)



१.१३:

स कृष्णमेघः स्थिरचञ्चलाली
वृतोऽतिमाधुर्यरसैरमूः किम्?
आस्नापयत्स्वार्हणकृत्यवृत्ताः
प्रत्यर्हणेनादित एव धिन्वन्
(कृष्णभावनामृतं १.१५)



१.१४:

ताम्बूलमालाविविधानुलेपैर्
अङ्गारधान्यागुरुवैश्च धूपैः
कालोचितैस्तैः प्रतिपाद्यमानैः
कतिक्षणांस्ता गमयां बभूवुः
(कृष्णभावनामृतं १.१६)



१.१५:

प्रभञ्जनो रञ्जयितुं निकुञ्ज
राजौ व्यराजिष्ट मुदा तदानीम्
मन्ये प्रबुध्य श्लथदुर्बलाङ्गो
द्रुतं प्रयातुं नतरां शशाक
(कृष्णभावनामृतं १.१७)



१.१६:

या वृक्षवल्ल्यो व्यकसंस्तदैव ताश्
चुम्बंस्तदामोदभरैर्दिशो दश
प्रसारितैः श्वासपथप्रवेशितैर्
भृङ्गावलीर्जागरयाञ्चकार सः
(कृष्णभावनामृतं १.१८)



१.१७:

तद्गुञ्जितै रञ्जितसुस्वरैर्भृशं
प्रबुध्य वृन्दाऽथ विलोक्य सर्वतः
स्वनाथयोर्जागरणे पतत्रिणो
न्ययुङ्क्त कालज्ञतया रयादियम्



१.१८:

आसन्यदर्थं प्रथमं द्विजेन्द्राः
सेवासमुत्कण्ठधियोऽपि मूकाः
वृन्दानिदेशं तं अवाप्य हर्षात्
क्रीडानिकुञ्जं परितश्चुकूजुः
 (गोविन्दलीलामृतं १.१२)



१.१९:

अथालिवृन्दं मकरन्दलुब्धं
रतीशितुर्मङ्गलकम्बुतुल्यम्
प्रफुल्लवल्लीचयमञ्जुकुञ्जे
जुगुञ्ज तल्पीकृतकञ्जपुञ्जे
(गोविन्दलीलामृतं १.१४)



१.२०:

झङ्कृतिं अङ्गीकुरुते
रतिमङ्गलझल्लरीव गोविन्दम्
बोधयितुं मधुमत्ता
मधुपीततिरुद्भ आनन्दा
(गोविन्दलीलामृतं १.१५)



१.२१:

पिकश्रेणी मनोजस्य
वीणेव व्यक्तपञ्चमम्

आललाप स्वरं तारं
कुहूरिति मुहुर्मुहुः
(गोविन्दलीलामृतं १.१६)



१.२२:

रतिमधुरविपञ्चीनादभङ्गीं दधाना
मदनमदविकूजत्कान्तपार्श्वे निषण्णा
मृदुलमुकुलजालास्वादविस्पष्टकण्ठी
कलयति सहकारे काकलीं कोकिलाली
(गोविन्दलीलामृतं १.१७)



१.२३:

विद्राव्य गोपीधृतिधर्मचर्या
लज्जामृगीर्मानवृकेष्वमर्षी
कपोतघूत्कारमिषेण शङ्के
गर्जत्ययं कामतरक्षुराजः
(गोविन्दलीलामृतं १.१८)



१.२४:

राधाधैर्यधराधरोद्धृतिविधौ केऽन्ये समर्था विना
कृष्णं कृष्णसुमत्तकुञ्जरवशीकारेऽप्यलं शृङ्खलाः
अन्याः का वृषभानुजां इह विना धन्यां अतीवादृताः
केकाः किं समुदीरयन्ति शिखिनस्तौ बोधयन्तः प्रगे
(गोविन्दलीलामृतं १.१९)



१.२५:

ह्रस्वदीर्घप्लुतैर्युक्तं
कुकूकूकू इति स्वरम्
कुक्कुटोऽप्यप हत्प्रातर्
वेदाभ्यासी बटुर्यथा
(गोविन्दलीलामृतं १.२०)



१.२६:

अथ पक्षिणां कलकलैः प्रबोधिताव्
अपि तौ मिथोऽविदितजागरौ तदा
निबिडोपगूहणविभङ्गकातरौ
कप एन मीलितदृशावतिष्ठताम्
(गोविन्दलीलामृतं १.२१)



१.२७:

वृन्देङ्गितज्ञः स विचक्षणः शुकः
शुको यथा भागवतार्थकोविदः
दक्षः प्रबोधे जगतां प्रभोरति
प्रेमास्पदत्वानुपमः समभ्यधात्
(कृष्णभावनामृतं १.२८)



१.२८:

जय स्मराशेषविलासवैदुषी
निष्णातगोपीजनलोचनामृत!
प्राणप्रियाप्रेमधुनीमतङ्गज!
स्वमाधुरीप्लावितलोकसंहते
(कृष्णभावनामृतं १.२९)



१.२९:

प्रियाधरास्वादसुखे निमज्जसि
प्रबुध्यसे नेत्युचितं रसाम्बुधे!
रिरंसुतायां विरिरंसुरेव ते
किञ्चाधुनेयं क्षणदा क्षणं द्यति
(कृष्णभावनामृतं १.३०)



१.३०:

जहीहि निद्रां श्लथयोपगूहनं
व्रजं प्रतिष्ठासुररं प्रभो! भव
प्रातर्बभूवानुसर स्वचातुरीं
प्रच्छन्नकामत्वं अथोररीकुरु
(कृष्णभावनामृतं १.३१)



१.३१:

जय व्रजानन्दन! नन्दचेतः
पयोधिपीयूषमयूख! देव!
गोष्ठेश्वरीपुण्यलताप्रसून!
प्रयाहि गेहाय धिनु स्वबन्धून्
(कृष्णभावनामृतं १.३२)



१.३२:

गोकुलबन्धो! जय रससिन्धो!
जागृहि तल्पं त्यज शशिकल्पम्
प्रीत्यनुकूलां श्रितभुजमूलां
बोधय कान्तां रतिभरतान्ताम्
(गोविन्दलीलामृतं १.२३)



१.३३:

उदयं प्रजवादयं एत्यरुणस्
तरुणीनिचये सहजाकरुणः
निभृतं निलयं व्रजनाथ! ततस्
त्वरितोऽ अ कलिन्दसुतात अतः
(गोविन्दलीलामृतं १.२४)



१.३४:

शारी शुभा साऽथ जगाद सूक्ष्मधीः
शारी यथा देवनसम्मतस्थितिः
जयेश्वरि! स्वीयविलाससौभग
श्रीतर्षितश्रीमुखमुख्ययौवते
(कृष्णभावनामृतं १.३३)



१.३५:

कमलमुखि! विलासायासगाढालसाङ्गी
स्वपिषि सखि! निशान्ते यत्तवायं न दोषः
दिगियं अरुणितैन्द्री किन्तु पश्याविरासीत्
तव सुखं असहिष्णुः साध्वि! चन्द्रासखीव
(गोविन्दलीलामृतं १.२५)



१.३६:

शेषेऽधुना यद्रतिवल्लभास्य
राजीवराजन्मधुपानमत्ता
असाम्प्रतं तत्खलु साम्प्रतं ते
प्रातस्ततो जागरयाम्यहं त्वाम्
(कृष्णभावनामृतं १.३४)



१.३७:

कृष्णोऽप्यनिद्रः प्रिययोपगूढः
कान्ताऽप्यनिद्राऽप्यमुनोपगूढा
तल्पात्प्रभाताकुलं अप्यनल्पान्
नोत्थातुं एतन्मिथुनं शशाक
(गोविन्दलीलामृतं १.३८)



१.३८:

कृष्णस्य जानूपरियन्त्रितसन्नितम्बा
वक्षःस्थले धृतकुचा वदनेऽर्पितास्या
कण्ठे निवेशितभुजाऽस्य भुजोपधाना
कान्ता न हीङ्गति मनागपि लब्धबोधा



१.३९:

श्रीकृष्णलीलारचनासु दक्षस्
तत्प्रेमजानन्दविफुल्लपक्षः
दक्षाख्य आह श्रितकुञ्जकक्षः
शुकः समध्यापितकीरलक्षः
(गोविन्दलीलामृतं १.४१)



१.४०:

एकं प्राच्यां अरुणकिरणापा अलायां विधत्ते
चक्षुः कान्ते त्वरितं अपरं दूरगे चक्रवाकी
शङ्काक्रान्तास्तरुकुहरगा मूकतां यान्ति घूकाः
शङ्के भास्वानुदयं उदगात्कृष्ण! निद्रां जहीहि
(गोविन्दलीलामृतं १.३२)



१.४१:

जय जय गुणसिन्धो! प्रेयसीप्राणबन्धो!
व्रजसरसिजभानो! सत्कलारत्नसानो!
इह हि रजनीशेषे किं मना नाथ! शेषे
समयं अवकलयापीष्यते कुञ्जसय्या?
(कृष्णाह्निककौमुदी १.१९)



१.४२:

अयं अपि च शिखण्डी जागरित्वैव खण्डी
कृतसुललितकेकः कालनिष्ठाविवेकः
प्रमिलति तव निद्राहानयेऽधीदरिद्राः
शिव शिव निजसेवाकालं उज्झन्ति के वा?
(कृष्णाह्निककौमुदी १.२४)



१.४३:

वृन्दावक्त्रादधिगतविद्या
सारी हारीकृतबहुपद्या
राधास्नेहोच्चयमधुमत्ता
तस्या निद्रापनयनयत्ता
(गोविन्दलीलामृतं १.३३)



१.४४:

निद्रां जहीहि विजहीहि निकुञ्जशय्यां
वासं प्रयाहि सखि! नालसतां प्रयाहि
कान्तं च बोधय न बोधय लोकलज्जां
कालोचितां हि कृतिनः कृतिं उन्नयन्ति
(गोविन्दलीलामृतं १.३७)



१.४५:

व्रजपतितनयाङ्कासङ्गतो वीतशङ्का
विधुमुखि! किमु शेषे निर्भरं रात्रिशेषे?
प्रमदमधुपपुञ्जे मा परं तिष्ठ कुञ्जे
न गणयसि विगर्हां किं गुरुणां अनर्हाम्?
(कृष्णाह्निककौमुदी १.३)



१.४६:

सुदति! कुमुदिनीनां अङ्कं आसाद्य लीना
मदमधुकरमाला कालं आसाद्य लोला
सरति कमलिनीनां राजिं एतां अदीनां
भवति समय एव ग्लानिहर्षादिदेवः
(कृष्णाह्निककौमुदी १.७)



१.४७:

वियदतिलघुतारं त्वद्वपुः क्षुण्णहारं
विगलितकुसुमानां वर्ष्म शेफालिकानाम्
त्रितयं इदं इदानीं एकरूपं तदानीम्
अपि यदपि तथापि त्वद्वपुः श्रीभिरापि
(कृष्णाह्निककौमुदी १.१०)



१.४८:

त्रु इतपतितमुक्ताहारवत्ते वियुक्ता
भवदुडुततिरेषा स्वल्पमात्रावशेषा
चिरशयनं अवेक्ष्यारुन्धती ते विलक्ष्या
भवदिव परिवक्रे पश्य सप्तर्षिचक्रे
(कृष्णाह्निककौमुदी १.११)



१.४९:

इति कलवचनानां शारिकाणां शुकानां
रुतं अतिशयरम्यं श्रोत्रपेयं निशम्य
विहितशयनबाधा सा जजागार राधा
प्रथमं अथ स कृष्णः स्वापलीलावितृष्णः
(कृष्णाह्निककौमुदी १.२८)



१.५०:

युगपदुभयनिद्राभङ्गविध्वस्तमुद्रा
युगपदुभयनेत्रापाङ्गभङ्गी विचित्रा
युगपदुभयघूर्णाजातसंक्लेशपूर्णा
भवदुभयविलोकाभावतः प्राप्तशोका
(कृष्णाह्निककौमुदी १.२९)



१.५१:

कलक्वणत्कङ्कङनूपुरं जबाद्
अत्युच्छलद्गात्रयुगच्छविच्छटाम्
व्यस्तालकाग्रावलिवेष्टनोन्नमत्
ता अङ्कहारद्युतिदीपिताननम्
(कृष्णभावनामृतं १.३६)



१.५२:

स्रस्तांशुकान्वेषणसंभ्रमोदयाद्
इतस्ततो न्यस्तकराब्जमञ्जुलम्
शय्योत्थितं केलिविलासिनोस्तयोस्
त्रैलोक्यलक्ष्मीं इव सञ्चिकाय तम्
(कृष्णभावनामृतं १.३७)
                                                                                                                        
(५३)

घूर्णालसाक्षं श्लथसर्वगात्रं
विश्रस्तकेशं रसिकद्वयं तत्
भुग्नोपवेशं स्खलने कथं चिद्
अन्योन्यं आलम्बनतां प्रपेदे
(कृष्णभावनामृतं १.३८)



१.५४:


अन्योन्यग्रथिताङ्गुलीकिसलयां उन्नीय बाहुद्वयीं
जृम्भारम्भपुरःसरं विदधती गात्रस्य संमो अनम्
मीलन्नेत्रं उरोजयोर्नखपदव्यादानदीनानना
नानानेति पुनर्नखक्षतधिया सा कृष्णपाणी दधे
(अलङ्कारकौस्तुभः ५.२३६)



१.५५:

सङ्गोपाय प आञ्चलेन तनुना निःसारिदन्तावली
ज्योत्स्नाभिः स्नपितेन दक्षिणकराकृष्टेन वक्त्राम्बुजम्
लीलोल्लासितकन्धरं मृदुकलैर्वामाङ्गुलिच्छो इका
निःस्वानैश्चलकङ्कणस्वनसखैः श्रीराधिकाऽजृम्भत
(अलङ्कारकौस्तुभः ५.२३७)



१.५६:

अलसवलितं ऊर्ध्वीकृत्य मूर्धोपकण्ठे
वलयितं इदं अन्योन्येन संसक्तपाणि
त्रिकविचलनभङ्गिसङ्गि मो आयितायाः
परिधिरिव मुखेन्दोर्भाति दोर्द्वन्द्वं अस्याः
(अलङ्कारकौस्तुभः ५.२३८)



१.५७:

उत्थायेशः सन्निविष्टोऽथ तल्पे
व्याजान्निद्राशालिनीं मीलिताक्षीम्
दोर्भ्यां कान्तां स्वाङ्कं आनीय तान्तां
पश्यत्यस्या माधुरीं साधुरीति
(गोविन्दलीलामृतं १.५१)



१.५८:

घूर्णायमानेक्षणखञ्जरी अं
लला अलोलालकभृङ्गजालम्
मुखं प्रभाताब्जनिभं प्रियायाः
पपौ दृशेषत्स्मितं अच्युतोऽसौ
(गोविन्दलीलामृतं १.५२)



१.५९:

संश्लिष्टसर्वाङ्गुलिबाहुयुग्मम्
उन्मथ्य देहं परिमो अयन्तीम्
उद्बुद्धजृम्भास्फुटदन्तकान्तिम्
आलोक्य कान्तां मुमुदे मुकुन्दः
(गोविन्दलीलामृतं १.५३)



१.६०:

तदैव जृम्भोत्थरदांशुजाल
माणिक्यदीपैर्निरराजयत्किम्
सनिद्रं उन्मुद्रदृगन्तलक्ष्मी
रसज्ञयान्योन्यविलिह्यमानम्
(कृष्णभावनामृतं १.४०)



१.६१:

स्वीयाङ्कोत्तानसुप्तां उषसि मृदु मृषा रोदनेषत्स्मितास्याम्
अर्धोन्मुक्ताग्रकेशां विमृदितकुसुमस्रग्धरां छिन्नहाराम्
उन्मील्योन्मील्य घूर्णालसनयनयुगं स्वाननालोकनोत्कां
कान्तां तां केलितान्तां मुदं अतुलतमां आप पश्यन्व्रजेन्दुः
(गोविन्दलीलामृतं १.५४)



१.६२:

हेमाब्जाङ्ग्याः प्रबलसुरतायासजातालसायाः
कान्तस्याङ्के निहतवपुषः स्निग्धतापिञ्छकान्तेः
शम्पाकम्पा नवजलधरे स्थास्नुतां चेदधास्यत्
श्रीराधायाः स्फुटं इह तदा साम्यकक्षां अवाप्स्यत्
(गोविन्दलीलामृतं १.५५)



१.६३:

स्फुरन्मकरकुण्डलं मधुरमन्दहासोदयं
मदालसविलोचनं कमलगन्धि लोलालकम्
मुखं स्वदशनक्षताञ्जनमलीमसौष्ठं हरेः
समीक्ष्य कमलेक्षणा पुनरभूद्विलासोत्सुका
(गोविन्दलीलामृतं १.५६)



१.६४:

परस्परालोकनजातलज्जा
निवृत्तचञ्चद्दरकुञ्चिताक्षम्
ईषत्स्मितं वीक्ष्य मुखं प्रियाया
उद्दीप्ततृष्णः पुनरास कृष्णः
(गोविन्दलीलामृतं १.५७)



१.६५:

वामेन चाधः शिर उन्नमय्य
करेण तस्याश्चिबुकं परेण
विभुग्नकण्ठः स्मितशोभिगण्डं
मुखं प्रियायाः स मुहुश्चुचुम्ब
(गोविन्दलीलामृतं १.५८)



१.६६:

कान्ताधरस्पर्शसुखाब्धिमग्ना
करं धुनाना दरकुञ्चिताक्षी
मा मेति मन्दाक्षरसन्नकण्ठी
सखीदृशां सा मुदं आततान
(गोविन्दलीलामृतं १.५९)



१.६७:

रूपामृतं मे त्रिजगद्विलक्षणं
निःसीममाधुर्यं इदं च यौवनम्
अद्यैव साफल्यं अवाप सर्वथा
प्रेयानुपाभुङ्क्ततमां मुदा यतः
(कृष्णभावनामृतं २.२०)



१.६८:

सैवं विचिन्त्य क्षणं आह कान्तं
तदक्षिपीताखिलमाधुरीका
स्वान्तर्मुदात्यर्थलसद्दृगन्त
लक्ष्मीविहारायतनास्यपद्मम्
(कृष्णभावनामृतं २.२१)



१.६९:

भो भो विलासिन्नवधेहि यत्त्वया
विस्रस्तवेशाभरणास्म्यहं कृता
यावन्मदाल्योऽनुसरन्ति नोषसि
द्रुतं समाधित्ससि तन्न किं पुनः
(कृष्णभावनामृतं २.२२)



१.७०:

स्वचातुरीं साधय मां प्रसाधय
प्रसादयानङ्गं अभीष्टदैवतम्
योऽस्मन्मनोमन्दिरवर्त्ययं त्वया
बहिष्कृतो लक्ष्मभिरेभिरेव यत्
(कृष्णभावनामृतं २.२३)



१.७१:

सत्यं ब्रवीष्यङ्गजं इष्टदेवं
त्वदङ्गपीठे प्रकटीभवन्तम्
यजामि भूषाम्बरगन्धपुष्पं
स्रक्चन्दनाद्यैरिति तां स ऊचे
(कृष्णभावनामृतं २.२४)



१.७२:
इत्थं ईश्वर्या वाक्यं हि
श्रुत्वा सेवनपेशला
तदुपयोगिवस्तूनि
समर्पयितुं उत्सुका



१.७३:

द्वारं समुन्मुच्य मनागनारवं
शनैः पदन्यासविशेषमञ्जुला
निर्णीत तज्जागरणाथ किङ्करी
ततिर्विशङ्का प्रविवेश वेश्म सा
(कृष्णभावनामृतं १.२६)



१.७४:

इतस्ततो न्यस्तमणिप्रदीपान्
अफुल्लनीलोत्पलचम्पकाभान्
विधत्त एतौ स्वमयूखवृन्दैर्
अनावृतैर्मण्डनमाल्यचेलैः
(कृष्णभावनामृतं १.९)



१.७५:

मिथो दशनविक्षताधरपु औ विलासालसौ
नखाङ्कितकलेवरौ गलितपत्रलेखाश्रियौ
श्लथाम्बरसुकुन्तलौ त्रु इतहारपुष्पस्रजौ
मुहुर्मुमुदिरे पुरः समभिलक्ष्य ताः स्वप्रियौ
(गोविन्दलीलामृतं १.६३)



१.७६:

अथामुना कङ्कतिकां शनैः शनैर्
विकर्षता भानुमतीकरार्पिताम्
कचावली संस्त्रियते स्म मालती
मालोतवेणीरचनापटीयसा
(कृष्णभावनामृतं २.२५)



१.७७:

कस्तूरिकाचन्दनकुङ्कुमद्रवैः
सम्भावितैस्तां अनुरागलेखया
चकार मालाञ्चितचारुचित्रकां
स चित्रचुञ्चुर्धृतनव्यवर्तिकः
(कृष्णभावनामृतं २.२६)



१.७८:

ता अङ्कयुग्मेन लवङ्गमञ्जरी
सम्पादितापूर्वरुचा स चारुणी
आनर्च तस्याः श्रवणे नवाञ्जने
नानञ्जकञ्जप्रतिं एतदक्षिनी
(कृष्णभावनामृतं २.२७)



१.७९:

दधार हारं रुचिमञ्जरीलितं
यदा तदोचे प्रियया मदोद्धुरम्
या खण्डिता चन्दनकञ्चुली त्वया
वक्षोजयोस्तां न कुतश्चिकीर्षसि?
(कृष्णभावनामृतं २.२८)



१.८०:

आलेख्यकर्मण्यतिगर्वधारिणीस्
तास्ता विशाखाप्रभृतीर्भवत्सखीः
विस्मापयाम्यद्य कुचद्वये कृतैश्
चित्रैर्विचित्रैरिति तां जगाद सः
(कृष्णभावनामृतं २.२९)



१.८१:

प्रसाधनार्थप्रतिपादनोन्मुख
श्रीरूपलीलारतिमञ्जरीमुखः
स्तनद्वयं तुलिकयाङ्कयन्हरि
पञ्चेषुपञ्चेषुशरव्यतां अगात्
 (कृष्णभावनामृतं २.३०)



१.८२:

पाणिश्च कम्पे यदि वक्ररेखं
चित्रं विलुम्पन्नुरसा मुहुः सः
मन्ये स्मराग्निं धमति स्म तस्या
धृतीन्धनं दग्धुमना विदग्धः
(कृष्णभावनामृतं २.३१)



१.८३:

कामस्तं अवकल्पं अनल्पवैभवैः
सद्यो विधायानियतस्थलस्थितम्
विमृज्य संसृज्य विखण्ड्य खण्डशस्
तेनैव सोल्लासं उभावभूषयत्
(कृष्णभावनामृतं २.३२)



१.८४:

दास्यश्च ताः फुल्लदृशां कृतार्थतां
मूर्तां चिरायाभिलषन्त्य एव ताम्
पुना रिरंसू समवेत्य तौ ततो
मिषेण सर्वा निरगूहि केनचित्
(कृष्णभावनामृतं २.३३)



१.८५:

पुनरपि घनघूर्ण श्रीमुखद्वन्द्वयोगाद्
अचटुलभुजवल्लीवेष्टनेनेष्टभासौ
क्षणं अपि दरसुप्त्या शं भजावेत्य तस्ताव्
अनृजुकुसुमतल्पे स्रस्तगात्रावभूताम्
(कृष्णभावनामृतं १.४१)



१.८६:

विरहविकलया तच्छय्यया दूनया किं
कथं अपि दरलब्धाश्लेषया निद्रया वा
उषसि न च विहातुं हन्त शक्तौ खगास्तौ
तदपि विदधुराभ्यां विप्रयुक्तौ स्वनन्तः
(कृष्णभावनामृतं १.४२)



१.८७:

अगणितकुलनिष्ठा मा निकुञ्जे शयिष्ठाः
परिहर सुरतघ्नं स्वापं उद्गच्छ शीघ्रम्
समजनि सविशेषः पश्य दोषावशेषः
कुरु न गतसमाधां बन्धुवर्गस्य बाधाम्
(कृष्णाह्निककौमुदी १.४)



१.८८:

इयं अजनि दिगैन्द्री दृश्यतां देवि! सान्द्री
भवदरुणिमधारा त्वत्पादाब्जानुकारा
इयं अपि च वराकी सत्वरा चक्रवाकी
परिमिलित रथाङ्गे जातविच्छेदभङ्गे
(कृष्णाह्निककौमुदी १.५)



१.८९:

अपि तव मुखशोभां आप्तुकामोऽतिलोभाद्
अपरिकलितकामः स्वं वपुस्त्यक्तुकामः
चरमशिखरिशृङ्गं प्राप्य पश्यैव तुङ्गं
व्रजति शशधरोऽस्तं वारयेदद्य कस्तम्
(कृष्णाह्निककौमुदी १.६)



१.९०:

सुमुखि! नयनमुद्रां मुञ्च निर्धूय निद्रां
कलय वदनमासां विद्युदुद्द्योतभासाम्
रतिविगलितभूषां व्यस्तपर्यस्तवेषां
विलुलिततनुं एतास्त्वां भजन्तां समेताः
(कृष्णाह्निककौमुदी १.९)



१.९१:

निजकरपरिपुष्टा पश्य सेयं प्रविष्टा
शशिमुखि! ललिताङ्गी सन्निधौ ते कुरङ्गी
कुरु सकृपं अपाङ्गे किञ्चिदञ्चत्तरङ्गे
भवतु बत कृतार्था प्रीतये ते समर्था
(कृष्णाह्निककौमुदी १.१२)



१.९२:

नवकिशलयबुद्ध्या जातितोऽन्तर्विशुद्ध्या
रुणपदकमलं ते स्वादितुं कृष्णकान्ते!
त्वरितं उपसरन्ती त्वत्सखीनां वहन्ती
करसरसिजघातं या विधत्ते प्रयातम्
(कृष्णाह्निककौमुदी १.१३)



१.९३:

शशिमुखि! तव फेलामात्रभोगे सखेला
तव पदजलपानामोदमात्रावधाना
अपि भवदवलोकाभावसञ्जातशोका
तव मुखशशिबिम्बालोकमात्रावलम्बा
(कृष्णाह्निककौमुदी १.१४)



१.९४:

हरिरतिकुतुकी ते नेत्रयुग्मं मिमीते
नयनयुगं अमायप्रेम यस्याः प्रमाय
किं अपि विमलमुक्तामालया चारुवक्ता
नियतं उपमिमानः संशयं निर्धुनानः
(कृष्णाह्निककौमुदी १.१५)



१.९५:

इति निगदितवत्यः शारिकाः प्रेमवत्यः
सुखदपदपदार्थां वाचं उत्थापनार्थाम्
यदि किं अपि विरेमुः पत्रिणस्तं प्रणेमुः
समुपसृतनिकुञ्जाः प्राप्तसम्मोदपुञ्जाः
(कृष्णाह्निककौमुदी १.१६)



१.९६:

अथ शयनसतृष्णं बोधयामास कृष्णं
विततिरपि शुकानां कृष्णहर्षोत्सुकानाम्
श्रवणसुखदस्ॐयैः स्निग्धशब्दार्थरम्यैः
सरसतरं अनल्पैः कूजितैः सीधुकल्पैः
(कृष्णाह्निककौमुदी १.१७)



१.९७:

प्रणयरसगभीराश्चारुशब्दार्थधीराः
कलसुमधुरकण्ठाः प्रेमजल्पेष्वकुण्ठाः
सति समयविवेके बोधयां चक्रुरेके
न खलु बत विदग्धाः कार्यकाले विमुग्धाः
(कृष्णाह्निककौमुदी १.१८)



१.९८:

सुभग! रजनिशेषे स्वापगेहे सुशेषे
त्वं इति हि जननी ते संशयं स्वं धुनीते
समयं अथ विदित्वा जागरार्थं त्वरित्वा
स्वयं इयं उपगन्त्री स्नेह एवात्र मन्त्री
(कृष्णाह्निककौमुदी १.२३)



१.९९:

त्वं असि समयवेत्ता सर्वदुःखैकभेत्ता
भवसि भुवनबन्धुः सद्गुणग्रामसिन्धुः
व्रततिभवनतल्पं मूर्तिमन्मोदकल्पं
यदपि तदपि मुञ्च स्वस्ति तेऽस्मादुदञ्च
कृष्णाह्निककौमुदी १.२२)



१.१००:

मदमधुपयुवानः प्राप्तदोषावसानः
च्युतकुसुमवनान्तः स्वापं उद्यातवन्तः
दधति कतिपयथ्यां केलिं अम्भोजवीथ्यां
सति समयविवेके के विमुह्यन्ति लोके?
(कृष्णाह्निककौमुदी १.२०)



१.१०१:

क्वचन मुखविषादः क्वापि हासप्रसादः
क्व च दयितवियोगः क्वापि कान्तस्य योगः
कुमुदकमलवीथ्योर्वैसदृश्येऽतितथ्ये
भवति किमु न कालः क्षोभशोभाविशालः
(कृष्णाह्निककौमुदी १.२१)



१.१०२:

जय सुभग! नमस्ते श्रूयतां सत्वरस्ते
चिरशयनसपीडः कौत्ययं ताम्रचूडः
उपनतनिजसेवाकालसम्मोदपीवा
नहि समयविदग्धः कार्यकाले विमुग्धः
(कृष्णाह्निककौमुदी १.२७)



१.१०३:

अथ प्रबुध्यैव विधूय पक्षान्
ग्रीवाः समुन्नीय चुकूजुरुच्चैः
यत्कुक्कुटाः पञ्चषवारं आदौ
राधा जजागार तदाप्तबाधा
(कृष्णभावनामृतं १.२०)



१.१०४:

कृष्णाण्गसंश्लेषविशेषवाधिनस्
तानेव मत्वेति शशाप सा रुषा
अरे! परेताशु परेतरा पुरं
तत्रैव किं कूजत नो पदायुधाः?
(कृष्णभावनामृतं १.२१)



१.१०५:

विश्लिष्य किञ्चित्प्रियवक्षसः सा
तूष्णीं स्थितांस्तानुपलभ्य सद्यः
संश्लिष्य कान्तं दरनिद्रयैव
निषेव्यमाणा पुनरप्यराजीत्
(कृष्णभावनामृतं १.२२)



१.१०६:

जालादथो दृक्सफरी तदालयो
लावण्यवन्या भृशं अन्वशीलयन्
क्रीणन्ति याः प्राणपरार्द्धकोटिभिस्
तयोः प्रमोदोत्थरुचिच्छटाकणम्
(कृष्णभावनामृतं २.१)



१.१०७:

ऊचे विशाखा कलयालि! कान्तौ
निरंशुकावंशुकपुञ्जमञ्जू
विहारिणावप्यतिहारिणौ स्वैर्
अङ्गैरनङ्गैरलसौ लसन्तौ
(कृष्णभावनामृतं २.२)



१.१०८:

अनङ्गदौ केलिवशादनङ्गदौ
निरञ्जनौ हन्त मिथो निरञ्जनौ
विस्रस्तरागाधरताभिलक्षितौ
विप्रस्तरागाधरताभिलक्षितौ
(कृष्णभावनामृतं २.३)



१.१०९:

अथावभाषे ललिताऽवधार्यतां
जयः स्मराजौ कतराश्रितो द्वयोः
बभूव दष्टाधरयोः कचग्रह

व्याक्षिप्तमूर्ध्नोर्नखरक्षतोरसोः
(कृष्णभावनामृतं २.४)



१.११०:

हृदोऽनुरागं कुचकुङ्कुमच्छलान्
न्यधत्त राधाच्युतपादपद्मयोः
यावद्रवारक्ततरालको दधौ
मूर्ध्नैव सोऽस्याः पदयोस्तं उज्ज्वलं
(कृष्णभावनामृतं २.५)



१.१११:

इत्थं क्षणं तावदलक्षिताङ्ग्यो
नीचैः स्वरं तावनुवर्णयन्त्यः
भाग्यं स्वं एवातिसभाजयन्त्यो
ममज्जुरानन्दमहोदधौ ताः
(कृष्णभावनामृतं २.६)



१.११२:

ततः पुनस्तानथ इ इभादी
नूत्कूजतः प्राह विधूततन्द्रा
हंहो! क्षमध्वं शयितुं क्षणं मे
दत्तेति सा मो अयदङ्गं ईषत्
(कृष्णभावनामृतं १.२३)



१.११३:

कादम्बकारण्डवहंससारसाः
कपोतशारीशुककेकिकोकिलाः
जगुः कलं केलिवनीजलस्थल
प्रचारिणः कृष्णकथामृतोपमम्
(कृष्णभावनामृतं १.२४)



१.११४:

प्रबुद्ध्य कान्तौ युगपद्यथा रुजं
विश्लेषजां ऊहतुरङ्गमो अनात्
चाम्पेयनीलाब्जधनुस्त्विषौ तथा
सान्द्रोपगूहेन मुदं च वक्षसोः
(कृष्णभावनामृतं १.२५)



१.११५:

अथास्या वयस्याः प्रमोदात्स्मितास्याः
सखीं तां हसन्त्यो मिथः प्रेरयन्त्यः
सशङ्काः समन्तात्प्रभाताद्दुरन्तात्
प्रविष्टा निकुञ्जं सशब्दालिपुञ्जम्
(गोविन्दलीलामृतं १.६०)



१.११६:

अभिलक्ष्य सखीर्विहसद् वदनाः
सविधोपगता विचलन्नयनाः
दयिताय मुदं द्विगुणं ददती
दयितोरुयुगादुदतिष्ठदियम्
(गोविन्दलीलामृतं १.६१)



१.११७:

त्वरोत्थिता सम्भ्रमसंगृहीत
पीतोत्तरीयेण वपुः पिधाय
पार्श्वे प्रियस्योपविवेश राधा
सलज्जं आसां मुखं ईक्षमाणा
(गोविन्दलीलामृतं १.६२)



१.११८:

अथानुरक्ताल्यनुमोदनाञ्चिता
मुदा तयोरैधत रूपमञ्जरी
सैव स्वयं केलिविलासिनोर्द्वयोस्
तदात्वरम्यापचितौ पटीयसी
(कृष्णभावनामृतं २.७)



१.११९:

पृष्ठोपधानं निदधे कयाचन
प्यधादथान्या मृदुलांशुकेन तौ
पीयूषव यार्पितयास्ययोः परा
निरस्य घूर्णां विकसद्दृशौ व्यधात्
(कृष्णभावनामृतं २.९)



१.१२०:

काचित्प्रसूनाम्बुदरार्द्रवाससा
व्यत्यस्तरागाञ्जनयावकादिकम्
मृष्ट्वा प्रतिस्वेक्षणसिद्धये तयोर्
मुखद्वयं दर्पणतां निनाय किम्
(कृष्णभावनामृतं २.१६)



१.१२१:

ताम्बूलवी ईर्निदधे परास्मिन्न्
एका प इम्ना मणिदीपपाल्या
तन्मङ्गलारात्रिकं आशु चक्रे
नीराजयन्त्येव निजासुलक्षैः
(कृष्णभावनामृतं २.१७)



१.१२२:

मध्येऽच्युताङ्गघनकुङ्कुमपङ्कदिग्धं
राधाङ्घ्रियावकविचित्रितपार्श्वयुग्मम्
सिन्दूरचन्दनकणाञ्जनबिन्दुचित्रं
तल्पं तयोर्दिशति केलिविशेषं आभ्यः
(गोविन्दलीलामृतं १.६४)



१.१२३:

प्रम्लिष्टपुष्पोच्चयसन्निवेशां
ताम्बूलरागाञ्जनचित्रिताङ्गीम्
व्यक्तीभवत्कान्तविलासचिह्नां
शय्यां अपश्यन्स्वसखीं इवाल्यः
(गोविन्दलीलामृतं १.६५)



१.१२४:

क्वचन घुसृणपङ्कः क्वापि सिन्दूरजोऽङ्कः
क्षतविरहविपक्षप्रस्नुतासृक्सपक्षः
क्वचन कुसुमदामच्छिन्नकोदण्डधाम
क्व च विलुलितहारश्छिन्नमौर्वीप्रकारः
 (कृष्णाह्निककौमुदी १.३८)



१.१२५:

क्वचन मृगमदाङ्काः कुत्रचित्कज्जलाङ्काः
स्मरनरपतिदन्तिच्छेदकल्पाः स्फुरन्ति
स हि रतिरणरङ्गः कौतुकोद्यत्तरङ्गः
समजनि सुमुखीनां आगतानां सखीनाम्
(कृष्णाह्निककौमुदी १.३९)



१.१२६१२७:

वक्षः स्वं दर्शयंस्ताभ्यो
दृग्भङ्ग्योवाच ता हरिः
दिदृक्षुः स्वप्रियावक्त्र
भावशाबल्यमाधुरीम्

विधुं प्रयास्यन्तं अवेक्ष्य कान्तं
विश्लेषभीतोषसि पश्यताल्यः
दिदृक्षयेवाम्बरचित्रप यां
राधेन्दुलेखाशतं आलिलेख
(गोविन्दलीलामृतं १.६७६८)
                                                            
(१२८)

इति निगदति कृष्णे वीक्ष्य साग्रे वयस्याः
प्रहसितवदनास्ताः सङ्कुचल्लोलनेत्रा
विकसदमलगण्डं दोलितारेचितभ्रूः
प्रियं अनृजुकटाक्षैः पश्यति स्म घ्नतीव
(गोविन्दलीलामृतं १.६९)



१.१२९:
 
हेलोल्लासादरमुकुलिता वास्पसान्द्रारुणान्ता
लज्जाशङ्काचपलचकिता भङ्गुरेर्ष्याभरेण
स्मेरस्मेरा दयितवदनालोकनोत्फुल्लतारा
राधादृष्टिर्दयितनयनानन्दं उच्चैर्व्यतानीत्
(गोविन्दलीलामृतं १.७०)



१.१३०:

इत्थं मिथः प्रेमसुखाब्धिमग्नयोः
प्रगेतनीं विभ्रममाधुरीं तयोः
निपीय सख्यः प्रमदोन्मदास्तदा
तदात्वयोग्याचरणं विसस्मरुः
(गोविन्दलीलामृतं १.७१)



१.१३१:

विलोक्य लीलामृतसिन्धुमग्नौ
तौ ताः सखीश्च प्रणयोन्मदान्धाः
वृन्दा प्रभातोदयजातशङ्का
निजेङ्गितज्ञां निदिदेश सारीम्
(गोविन्दलीलामृतं १.७२)



१.१३२:

गुरुलज्जाभर्तृभीति

लोकहासनिवारिका
शुभाख्या सारिका प्राह
राधिकाबोधसाधिका
(गोविन्दलीलामृतं १.७३)



१.१३३:

आगन्ता ग्राहयित्वा तव पतिरधुना गोष्ठतः क्षीरभारान्
उत्तिष्ठोत्तिष्ठ राधे तदिह कुरु गृहे मङ्गलां वास्तुपूजाम
इत्थं यावद्धवाम्बा तव नहि शयनादुत्थिता वावदीति
तावच्छय्यानिकेतं व्रज सखि निभृतं कुञ्जतः कञ्जनेत्रे!!
(गोविन्दलीलामृतं १.७४)



१.१३४:

शङ्कापङ्काकलितहृदया शङ्कतेऽस्या धवाम्बा
छिद्रान्वेषी पतिरतिक उः सार्थनामाभिमन्युः
रुष्टाभीक्ष्णं परिवदति सा हा ननन्दापि मन्दा
प्रातर्जातं तदपि सरलां कृष्ण नैनां जहासि
(गोविन्दलीलामृतं १.७७)



१.१३५:

सारीवचोमन्दरशैलपात
संक्षुब्धहृद्दुग्धपयोधिरेषा
अथोद्भ्रमन्नेत्रनवीनमीना
वियोगदीना शयनादुदस्थात्
(गोविन्दलीलामृतं १.७८)



१.१३६:

कृष्णोऽपि कान्तं वृषभानुजायाः
पश्यन्मुखं भीतिविलोलनेत्रम्
नीलं सुचीनं दयितानिचोलं
गृह्णन्स्वतल्पात्त्वरयोदतिष्ठत्
(गोविन्दलीलामृतं १.७९)



१.१३७:

परिवर्तितसंव्यानौ
मिथस्तावथ शङ्कितौ
परस्परकरालम्बौ
निरगातां निकुञ्जतः
(गोविन्दलीलामृतं १.८०)



१.१३८:

राधापाणिं सव्येऽसव्ये
पाणौ बिभ्रद्वेणुं कृष्णः
रेजे कुञ्जान्निर्यन्यद्वद्
विद्युन्मालाश्लिष्टाम्भोदः
(गोविन्दलीलामृतं १.८१)



१.१३९:

हैमं भृङ्गारं एका व्यजनं अथ परा स्वर्णदण्डं दधाना
काप्यादर्शं सुदर्शं घुसृणमलयजाऽमत्रं अन्या विचित्रम्
काचित्ताम्बूलपात्रं मणिचितं अपरा सारिकां पञ्जरस्थाम्
इत्थं सख्यः कियत्याः प्रमुदितहृदया निर्ययुः कुञ्जगेहात्
(गोविन्दलीलामृतं १.८२)



१.१४०:

माहेन्द्रकान्तच्छदनं सकाञ्चनं
दान्तं ससिन्दूरसमुद्गकं परा
आपन्नसत्वाकुचकु मलोपमं
कुञ्जाद्गृहीत्वा निरगान्मृदुस्मिता
(गोविन्दलीलामृतं १.८३)



१.१४१:

आश्लेषसञ्छिन्नगुणात्परिच्युतं
हाराल्लसन्मौक्तिकसञ्चयं मुदा
विचित्य काचित्स्वप आञ्चले दृढं
निबध्नती कुञ्जगृहाद्विनिर्ययौ
(गोविन्दलीलामृतं १.८४)



१.१४२:

ता अङ्कं केलिविभ्रष्टं
तल्पादादाय सत्वरा
निर्गत्य स्वेश्वरीकर्णे
युयोज रतिमञ्जरी
(गोविन्दलीलामृतं १.८५)



१.१४३:

तल्पप्रान्तादुपादाय
कञ्चुलीं रूपमञ्जरी
प्रियनर्मसखी सख्यै
निर्गत्य निभृतं ददौ
(गोविन्दलीलामृतं १.८६)



१.१४४:

पतद्ग्राहं उपादाय
दासिका गुणमञ्जरी
ताम्बूलं चर्वितं ताभ्यो
विभजन्ती बहिर्ययौ
(गोविन्दलीलामृतं १.८७)



१.१४५:

मञ्जुलाली तयोरङ्गाच्
च्युतमाल्यानुलेपनम्
तल्पादादाय सर्वाभ्यः
प्रयच्छन्ती विनिर्गता
(गोविन्दलीलामृतं १.८८)



१.१४६:

विलोक्याग्रे मेघाम्बरवृतशरीरं प्रियतमं
वयस्यां तां पीताम्बरपरिवृताङ्गीं प्रमुदिताम्
हसन्त्यस्ताः सख्यः करपिहितमुख्यः प्रतिदिशं
दिशन्त्यश्चान्योन्यं कु इलचलदृग्भिर्मुमुदिरे
(गोविन्दलीलामृतं १.८९)



१.१४७:

समीक्ष्य तासां परिहासभङ्गीम्
अन्योन्यवक्त्रार्पितफुल्लनेत्रौ
समुच्छलत्प्रेमसुखाब्धिमग्नौ
चित्रार्पिताङ्गाविव तावभूताम्
(गोविन्दलीलामृतं १.९०)




१.१४८:

घनश्यामं चीनं वसनं अभिलीनं प्रियतनौ
क्षमा नासीत्कान्ता स्वं अपि परिचेतुं घनरुचौ
स्वं अज्ञासीत्स्फीतं हरिरपि न पीतं प्रियतमा
तनौ लीनं चीनं कनकरुचि कम्बाविव पयः
(गोविन्दलीलामृतं १.९१)



१.१४९:

तयोर्लीलासुधापान
प्रत्यूहामर्षसङ्कुला
निन्दन्त्यरुणं उद्यन्तम्
अथाह ललिता सखीम्
(गोविन्दलीलामृतं १.९२)



१.१५०:

ऊषसि वरवधूनां पश्य राधेऽरुणोऽयं
रमणसहितलीलाभङ्गतः पापरुग्भिः
गलितपदयुगोऽप्यद्यापि तन्नो जहाति
ध्रुवं इति वचनं यद्दुस्त्यजः स्वस्वभावः
(गोविन्दलीलामृतं १.९३)



१.१५११५२:
अरुणारुणे निदधती ततोऽम्बरे
रतिकेलिभङ्गजरुषाऽरुणां दृशम्
ललितोपहासजनितस्मितानना
वृषभानुजाह मृदुमञ्जुभाषिणी

अनूरुरप्यस्तमयन्क्षणार्द्धान्
नभो विलङ्घ्योदयं एति सोऽयम्
चेत्सोरुं एनं स विधिर्व्यधास्यद्
वार्त्तापि रात्रेर्न तदाभविष्यत्
(गोविन्दलीलामृतं १.९४९५)



१.१५३१५४:

मनोरमां वीक्ष्य विभातलक्ष्मीं
निपीय तस्या वचनासवं च
मुदोन्मना विस्मृतगोष्ठयानः
प्राणेश्वरीं तां अवदन्मुकुन्दः

इनं प्रभातोपगतं समीक्ष्य
कान्तेव कान्तान्तरभुक्तकान्तम्
पश्यान्यदिक्सङ्गकषायिताङ्गं
प्राचीयं ईर्ष्यारुणितेव जाता
(गोविन्दलीलामृतं १.९६९७)



१.१५५:

पश्योन्मत्ते द्विजेशोऽप्यखिलजनतमस्तोमहन्तापि शान्तः
कान्तोऽयं ते समन्तात्सपदि निपतितो वारुणीं संनिषेव्य
इत्थं स्वीयेनसङ्गप्रमुदितनलिनीहाससञ्जातलज्जा
शङ्के वक्त्रं पिधत्ते ह्युषसि कुमुदिनी सङ्कुचद्भिर्दलैः स्वैः
 (गोविन्दलीलामृतं १.९८)



१.१५६:

दृष्ट्वा तमःक्षयं अमी विधुनान्यपुष्टा
नक्तं तमश्चयनिभाश्चकिताः प्रभाते
मित्रं तदाश्रयतया तमसा चरन्तीं
ग्रस्तं कुहूरिति कुहूं स्वगिराह्वयन्ति
(गोविन्दलीलामृतं १.९९)



१.१५७:

वसन्तकान्तसंसर्ग
जातानन्दभरा अवी
कपोतीघूत्कृतिमिषात्
शीत्करोतीव सोन्मदा
(गोविन्दलीलामृतं १.१००)



१.१५८:

पश्यानुसरति चञ्चलभृङ्गः
कैरविणीकुलकेलिपिशङ्गः
नलिनीकोषे निशि कृतसङ्गां
भृङ्गीं शशिमुखि! कृतनतिभङ्गाम्
(गोविन्दलीलामृतं १.१०१)



१.१५९:

कान्तं आयान्तं आशङ्क्या
रुणांशुद्विगुणारुणम्
कोकी कोकनदं चञ्च्वा
चुम्बत्यानन्दविह्वला
(गोविन्दलीलामृतं १.१०२)



१.१६०:

कलस्वनाख्यः कलकण्ठि! हंसः
समीक्ष्य नौ सम्मदफुल्लपक्षः
रिरंसुं अप्येष विसृज्य हंसीं
त अं त इन्याः पुरतः समेति
(गोविन्दलीलामृतं १.१०३)



१.१६१:

स्वसहचरविसृष्टं स्वामिभुक्तं मृणालं
मदकलकलकण्ठी विभ्रती पश्य चञ्च्वा
रमणं अनु समेति त्वन्मुखाब्जार्पिताक्षी
सरसिजमुखि नाम्ना तुण्डिकेती मराली
 (गोविन्दलीलामृतं १.१०४)



१.१६२:

मलयशिखरचारी पङ्कजामोदधारी
व्रततिन अकुमारीलास्यशिक्षाधिकारी
वहति जलविहारी वायुरायासदारी
स रमणवरनारीस्वेदजालापहारी
(गोविन्दलीलामृतं १.१०५)



१.१६३:

इतीशयोः सुमधुरवाग्विलासयोः
समीक्ष्य तां स्वभवनयानविस्मृतम्
सखीश्च ताः स्मितरुचिरा मुदोन्मदा
वनेश्वरी दिवसभियास सोन्मनाः
(गोविन्दलीलामृतं १.१०६)



१.१६४:

कान्ता उदीयुर्विकसन्मुखेन्दवो
रात्रिर्गता चास्तं अपास्तचन्द्रिका
विलासभङ्गः कथं अस्तु नास्तु वा
क्षणं हृदैवेति पराममर्श सा
(कृष्णभावनामृतं २.५६)



१.१६५:

तमांस्य नश्यन्नभितो यथा यथा
तदा प्रकाशश्च यथा यथैधत
तथा तथा हृद्रुजं एव सान्वभूद्
व्रजस्य रीतिं श्रुतयोऽपि नो विदुः
(कृष्णभावनामृतं २.५७)



१.१६६:

अथ वृन्देङ्गिताभिज्ञा
समयज्ञा तरुस्थिता
पद्यं उद्योतयामास
कक्ख ई वृद्धमर्क ई
(गोविन्दलीलामृतं १.१०७)



१.१६७:

रक्ताम्बरा सतां वन्द्या
प्रातःसन्ध्या तपस्विनी
ऊर्ध्वप्रसर्पदर्कांशुर्
जटिलेयं उपस्थिता
(गोविन्दलीलामृतं १.१०८)



१.१६८:

आकर्ण्य ताभिर्जटिलेति वर्ण
त्रयीं विवर्णत्वं अधारि सद्यः
विलासरत्नाकरं उद्भवन्ती
शङ्कैव तासां चुलुकीचकार
(कृष्णभावनामृतं २.६०)



१.१६९:

पथि पिशुनमतिभ्यः शङ्कमानौ गुरुभ्यः
चलचकिततरङ्गौ निक्षिपन्तावपाङ्गौ
परमगुणगभीरौ कामसंग्रामधीरौ
ययतू रतिवितन्द्रौ राधिकाकृष्णचन्द्रौ
(कृष्णाह्निककौमुदी १.४२)



१.१७०:

न पथि न भवने वा लक्षितौ तौ वने वा
सहजसदनुरक्त्या स्वीययानन्दशक्त्या
परिजननयनानां उत्सवानादधानाव्
अथ पथि विहरन्तौ रेजतुर्लोककान्तौ
(कृष्णाह्निककौमुदी १.४३)



१.१७१:

भ्रश्यद्दुकूलचिकुरस्रजं उन्नयन्तौ
भीतौ पृथग्गहनवर्त्मनि चापयान्तौ
तौ वीक्ष्य भीतितरलौ जटिलेति नाम्ना
सख्यस्ततस्तत इतश्चकिता निरीयुः
(गोविन्दलीलामृतं १.११०)



१.१७२:

वामे चन्द्रावलिपरिजनान्घोषवृद्धान्पुरस्तात्
कृष्णः पश्चात्कु इलजटिलां आगतां मन्यमानः
यान्तीं कान्तां सभयचटुलां दक्षिणे द्रष्टुं उत्कश्
चञ्चद्ग्रीवं दिशि दिशि दृशौ प्रेरयन्गोष्ठं आयात्
(गोविन्दलीलामृतं १.१११)



१.१७३:

म्लानां उत्क्षिप्य मालां त्रु इतमणिसरः कज्जलं विभ्रदोष्ठे
संकीर्णाङ्गो नखाङ्कैर्दिशि दिशि विकिरन्घूर्णिते नेत्रपद्मे
पश्य म्लानाङ्गयष्टिः स्फुटं अपरिचितो गोपगोष्ठीभिरग्रे
गोष्ठे गोष्ठेन्द्रसूनुः प्रविशति रजनौ ध्वंसं आसादयन्त्याम्
(Sतवमाला, Kउञ्जभङ्ग २)



१.१७४:

अनुगता जटिलेत्यभिशङ्किनी
गुरुनितम्बकुचोद्वहनाकुला
द्रुतविलम्बितवल्गु ययौ व्रजं
करधृताम्बरकेशचयेश्वरी
(गोविन्दलीलामृतं १.११२)



१.१७५:

न व्यालादपि सम्बिभेति पुरतः स्थाणोर्यथा दूरतो
नोद्विग्ना करिगर्जितादपि यथा काकावलीनिस्वनात्
नैवेयं तिमिरेऽपि मुह्यतितरां कामं प्रकाशे यथा
तन्मन्ये विरहेऽपि नैव विधुरा कान्तस्य योगे यथा
(Jअगन्नाथवल्लभनाटकं ५.३४)



१.१७६:

भयानुरागोच्चयधूम्रलोलदृक्
तिरस्करिण्या पिहिते मनोरथे
निजे निवेश्यैव हि रूपमञ्जरी
गृहं निनीषुः पथि तां तदन्वयात्
(गोविन्दलीलामृतं १.११३)



१.१७७:

इतस्ततः क्षिप्तचलेक्षणाशुगैर्
भीदुस्थहृद्वृत्तिचयैर्भ ऐरिव
अग्रेसरैस्तां रतिमञ्जरी च सा
निवारयन्त्यन्यजनांस्तदान्वयात्
(गोविन्दलीलामृतं १.११४)



१.१७८:

ताभिर्वृता व्रजजनैरविलोकितैव
वेश्म प्रविश्य निजतल्पं अथाध्यतिष्ठत्
प्रेयोवियोगविधुरा हि सखीं अथासौ
हृद्वेदनां प्रकटं आह सगद्गदाश्रु
(कृष्णभावनामृतं २.८०)



१.१७९:

निःसार्य गेहाल्ललितेऽधुनैव मां
प्रवेशयस्यप्यधुनैव तत्पुनः
कृष्णाङ्गसङ्गामृतसिन्धुमज्जन
प्रलोभनैवाद्य वृथा कृता त्वया
(कृष्णभावनामृतं २.७६)



१.१८०:

अस्ताचलं यन्नधुना व्यलोकि यः
स तिग्मरश्मिः सखि! पूर्वपर्वतम्
आरोढुं आकाङ्क्षति किं विभावरी
खपुष्पतां अद्यतनी जगाम किम्?
(कृष्णभावनामृतं २.७७)



१.१८१:

धिङ्मे श्रुतिं धिग्रसनां दृशं च धिक्
सदातनौत्कण्ठ्यभरज्वरातुरम्
प्रापुर्न पातुं लवं अप्यमुष्य याः
सौस्वर्यसौरस्यसुरूपतामृतम्
(कृष्णभावनामृतं २.७८)



१.१८२:

निर्वेदपद्धतिं अपीप हदेव पूर्वं
योगोऽधुना तु सरले भवतीं वियोगः
आद्योऽच्युतामृतं अदर्शयदर्थं अस्या
अन्योऽनुभावयति हा क उकालकू अम्
(कृष्णभावनामृतं २.७९)



१.१८३:

इत्थं सखीगिरं अपि प्रतिबोद्धुं एषा
नैवानुरागपरभागवती शशाक
स्वप्ने पुनः कलयितुं हृदयाधिनाथं
सुष्वाप साऽथ शयने वृषभानुपुत्री
(कृष्णभावनामृतं २.८० श्लोकार्धः)



१.१८४:

अनभिसारिकां काञ्चित्पृच्छन्तीं प्रति काचिदाह

स्रस्तं स्रस्तं उदञ्चयत्यधिशिरः श्यामं निचोलाञ्चलं
हस्तेन श्लथदुर्बलेन लुलिताकल्पां वहन्ती तनुम्
मुक्तार्धां अवरुध्य वेणिं अलसस्यन्दे क्षिपन्ती दृशौ
कुञ्जात्पश्य गृहं प्रविश्य निभृतं शेते सखी राधिका
(Sतवमाला, Kउञ्जभङ्ग १)



१.१८५:

निर्वर्त्य विभ्रमभरं समये स्वधाम्नि
सुप्तेऽच्युते प्रतिलयं श्रुतयो यथेशम्
लीलाविताननिपुणाः सगुणाः समीयुः
सख्योऽपलक्ष्यगतयः सदनं यथास्वम्
(गोविन्दलीलामृतं १.११६)

इति श्रीभावनासारसङ्ग्रहे निशान्तलीलासङ्ग्रहो नाम प्रथमसङ्ग्रहः

श्री श्री भावनासारसङ्ग्रहः