श्रीलक्ष्मणकवचम्

विकिस्रोतः तः
श्रीलक्ष्मणकवचम्
[[लेखकः :|]]

॥ अथ श्रीमदानन्दरामायणांतर्गत श्री लक्ष्मण कवचं ॥

अगस्तिरुवाच
सौमित्रिं रघुनायकस्य चरण द्वन्द्वेक्षणं श्यामळं ।
बिभ्रण्तं स्वकरेण रामशिरसि छत्रं विचित्रं वरं।
बिभ्रन्तं रघुनायकस्य सुमहत् कोदण्ड बाणासने
तं वन्दे कमलेक्षणं जनकजा वाक्ये सदा तत्परं ॥

अस्य श्री लक्ष्मणकवच मन्त्रस्य अगस्त्य ऋषिः ।
अनुष्टुप् छन्दः ।
श्री लक्ष्मणो देवता ।
शेष इति बीजं ।
सुमित्रा नन्दनः इति शक्तिः ।
रामानुज इति कीलकं ।
रामदास इत्यस्त्रं ।
रघुवंशज इति कवचं ।
सौमित्रिरिति मन्त्रः ।
श्रीलक्ष्मण प्रीत्यर्थं सकलमनोभिलषित सिद्ध्यर्थं जपे विनियोगः ॥

अथ अङ्गुळी न्यासः ॥
ॐ लक्ष्मणाय अङ्गुष्ठाभ्यां नमः ।
ॐ शेषाय तर्जनीभ्यां नमः ।
ॐ सुमित्रानन्दनाय मध्यमाभ्यां नमः ।
ॐ रामानुजाय अनामिकाभ्यां नमः ।
ॐ रामदासाय कनिष्ठिकाभ्यां नमः ।
ॐ रघुवंशजाय करतल करपृष्ठाभ्यां नमः ॥

हृदयादिन्यासः ॥
ॐ लक्ष्मणाय हृदयाय नमः ।
ॐ शेषाय शिरसे स्वाहा ।
ॐ सुमित्रानन्दनाय शिकायै वषट् ।
ॐ रामानुजाय कवचाय हुं ।
ॐ रामदासाय नेत्रत्रयाय वौषट् ।
ॐ रघुवंशजाय अस्त्राय फट् ।
ॐ सौमित्रये इति दिग्बन्धः ॥

अथ ध्यानम् ॥
रामपृष्ठ स्थितं रम्यं रत्नकुण्डल धारिणं ।
नीलोत्पल दळश्यामं रत्नकङ्कण मण्डितं ॥ १॥

रामस्य मस्तके दिव्यं बिभ्रन्तं छत्रमुत्तमं ।
वर पीताम्बरधरं मुकुटेनादि शोभितं ॥ २॥

तूणीरे कार्मुके चापि बिभ्रन्तं च स्मिताननं ।
रत्नमालाधरं दिव्यं पुष्पमाला विराजितं ॥ ३॥

एवं ध्यात्वा लक्ष्मणंच राघव न्यस्त लोचनं ।
कवचं जपनीयं हि ततो भक्त्यात्र मानवैः ॥ ४॥

ॐ ॥ लक्ष्मणः पातु मे पूर्वे दक्षिणे राघवानुजः ।
प्रतीच्यां पातुः सौमित्रिः पातुदीच्यां रघूत्तमः ॥ ५॥

अधः पातु महावीरः चोर्ध्वं पातु नृपात्मजः ।
मध्ये पातु रामदासः सर्वतः सत्यपालकः ॥ ६॥

स्मिताननः शिरः पातु भालं पातूर्मिला धवः ।
भृवोर् मध्ये धनुर्धारी सुमित्रा नन्दनोक्षिणी ॥ ७॥

कपोले रममन्त्रीच सर्वदा पातु वै मम ।
कर्णमूले सदा पातु कबन्ध भुज गण्डनः ॥ ८॥

नासाग्रं मे सदा पातु सुमित्रा नन्दवर्धनः ।
राम न्यस्तेक्षणः पातु सदा मेत्र मुखं भुवि ॥ ९॥

सीतावाक्यकरः पातु मम वाणीं सदात्र हि ।
सौम्यरूपः पातु जिह्वां अनन्तः पातु मे द्विजान् ॥ १०॥

चिबुकं पातु रक्षोघ्नः कण्ठं पात्वसुरार्दनः ।
स्कन्धौ पातु जितारातिः भुजौ पङ्कजलोचनः ॥ ११॥

करौ कङ्कणधारी च नखान् रक्तनखो वतु ।
कुक्षिं पातु विनिद्रो मे वक्षः पातु जितेन्द्रियः ॥ १२॥

पार्श्वे राघव पृष्ठिस्थ पृष्ठदेशं मनोरमः ।
नाभिं गंभीर नाभिस्तु कटिं च ऋक्ममेखलः ॥ १३॥

गुह्यं पातु सहस्रास्यः पातु लिङ्गं हरिप्रियः ।
ऊरू पातु विष्णुतल्पः सुमुखोवतु जानुनी ॥ १४॥

नागेन्द्रः पातु मे जङ्घे गुल्फौ नूपुरवान् मम ।
पादावङ्गद तातोव्यात् पात्वङ्गानि सुलोचनः ॥ १५॥

इति श्री शतकोटिरामचरितांतर्गत श्रीमदानन्दरामायणे
वाल्मिकीये मनोहरकाण्डे श्री लक्ष्मणकवचं संपूर्णं ॥

"https://sa.wikisource.org/w/index.php?title=श्रीलक्ष्मणकवचम्&oldid=32703" इत्यस्माद् प्रतिप्राप्तम्