श्रीरामाष्टकम्

विकिस्रोतः तः
श्रीरामाष्टकम्
रामस्तोत्राणि
[[लेखकः :|]]

कृतार्तदेववन्दनं दिनेशवंशनन्दनम् ।
सुशोभिभालचन्दनं नमामि राममीश्वरम् ॥ १॥

मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम् ।
महाधनुर्विदारकं नमामि राममीश्वरम् ॥ २॥

स्वतातवाक्यकारिणं तपोवने विहारिणम् ।
करे सुचापधारिणं नमामि राममीश्वरम् ॥ ३॥

कुरङ्गमुक्तसायकं जटायुमोक्षदायकम् ।
प्रविद्धकीशनायकं नमामि राममीश्वरम् ॥ ४॥

प्लवङ्गसङ्गसम्मतिं निबद्धनिम्नगापतिम् ।
दशास्यवंशसङ्क्षतिं नमामि राममीश्वरम् ॥ ५॥

विदीनदेवहर्षणं कपीप्सितार्थवर्षणम् ।
स्वबन्धुशोककर्षणं नमामि राममीश्वरम् ॥ ६॥

गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम् ।
कृतास्तमोहलक्षणं नमामि राममीश्वरम् ॥ ७॥

हृताखिलाचलाभरं स्वधामनीतनागरम् ।
जगत्तमोदिवाकरं नमामि राममीश्वरम् ॥ ८॥

इदं समाहितात्मना नरो रघूत्तमाष्टकम् ।
पठन्निरन्तरं भयं भवोद्भवं न विन्दते ॥ ९॥

॥ इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीरामाष्टकं सम्पूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=श्रीरामाष्टकम्&oldid=32610" इत्यस्माद् प्रतिप्राप्तम्