शरणागतिगद्यम्

विकिस्रोतः तः
शरणागतिगद्यम्
रामस्तोत्राणि
[[लेखकः :|]]

॥ श्रीमते रामानुजाय नमः ॥

यो नित्यमच्युतपदाम्बुजयुग्मरुक्म
व्यामोहतस्तदितराणि तृणाय मेने ।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥

वन्दे वेदान्त कर्पूर चामीकरकरण्डकम्
रामानुजार्यमार्याणां चूडामणि महर्निशम् ॥

श्री रङ्गनायिका रामानुज संवादः ॥
श्री रामानुजः

भगवन्नारायणाभिमतानुरूप स्वरूपरूप गुणविभव ऐश्वर्य
शीलाद्यनवधिकातिशय असंख्येय कल्याणगुणगणां पद्मवनालयां भगवतीं
श्रियं देवीं नित्यानपायिनीं निरवद्यां देवदेवदिव्यमहिषीम्
अखिलजगन्मातरम् अस्मन्मातरम् अशरण्यशरण्याम् अनन्यशरणः
शरणमहं प्रपद्ये ॥

पारमार्थिक भगवच्चरणारविन्दयुगळ ऐकान्तिकात्यन्तिक परभक्ति परङ्य़ान
परमभक्तिकृत परिपूर्णानवरत नित्यविशदतम अनन्यप्रयोजन
अनवधिकातिशयप्रिय भगवदनुभवजनित अनवधिकातिशय प्रीतिकारित
अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकैङ्कर्यप्राप्त्यपेक्षया
पारमार्थिकी भगवच्चरणारविन्द शरणागतिः यथावस्थिता अविरताऽस्तु मे ॥

श्री रङ्गनायिका

अस्तु ते । तयैव सर्वं संपत्स्यते ॥

॥ श्री रङ्गनाथ रामानुज संवादः ॥

श्री रामानुजः

अखिलहेयप्रत्यनीक कल्याणैकतान ! स्वेतर समस्तवस्तुविलक्षण
अनन्तङ्य़ानानन्दैकस्वरूप ! स्वाभिमतानुरूप एकरूप अचिन्त्य दिव्याद्भुत
नित्यनिरवद्य निरतिशय औज्ज्वल्य सौन्दर्य सौगन्ध्य सौकुमार्य लावण्य
यौवनाद्यनन्तगुणनिधिदिव्यरूप !

स्वाभाविकानवधिकातिशय ङ्य़ानबलैश्वर्य वीर्यशक्ति तेजस्सौशील्य
वात्सल्य मार्दव आर्जव सौहार्द साम्य कारुण्य माधुर्य गाम्भीर्य औदार्य
चातुर्य स्थैर्य धैर्य शौर्य पराक्रम सत्यकाम सत्यसङ्कल्प कृतित्व
कृतङ्य़ताद्यसंख्येय कल्याणगुणगणौघमहार्णव !

स्वोचितविविधविचित्र अनन्ताश्चर्य नित्य निरवद्य निरतिशयसुगन्ध
निरतिशयसुखस्पर्श निरतिशयौज्ज्वल्य किरीट मकुट चूडावतंस
मकरमुण्डल ग्रैवेयक हार केयूर कटक श्रीवत्स कौस्तुभ मुक्तादाम
उदरबन्धन पीताम्बर काJण्चीगुण नूपुराद्यपरिमित दिव्यभूषण ! स्वानुरूप
अचिन्त्यशक्ति शङ्खचक्र गदासि शार्ङ्गद्यसंख्येय नित्यनिरवद्य निरतिशय
कल्याणदिव्यायुध !

स्वाभिमत नित्यनिरवद्यानुरूप स्वरूप रूप गुण विभव ऐश्वर्य
शीलाद्यनवधिकातिशय असंख्येय कल्याणगुणगणश्रीवल्लभ !
एवंभूतभूमिनीळानायक !

स्वच्छन्दानुवर्ति स्वरूपस्थितिप्रवृत्तिभेद अशेषशेषतैकरतिरूप
नित्यनिरवद्यनिरतिशय ङ्य़ानक्रियैश्चर्याद्यनन्त कल्याणगुणगण शेष शेषाशन
गरुडप्रमुख नानाविध अनन्तपरिजन परिचारिका परिचरित चरणयुगळ !

परमयोगिवाङ्मनसाऽपरिच्छेद्य स्वरूपस्वभाव स्वाभिमत
विविधविचित्रानन्त भोग्य भोगोपकरण भोगस्थानसमृद्ध अनन्ताश्चर्य
अनन्तमहाविभव अनन्तपरिमाण नित्य निरवद्य निरतिशय श्रीवैकुण्ठनाथ !

स्वसङ्कल्पानुविधायि स्वरूपस्थितिप्रवृत्ति स्वशेषतैकस्वभाव प्रकृति पुरुष
कालात्मक विविध विचित्रानन्त भोग्य भोक्तृवर्ग भोगोपकरण भोगस्थानरूप
निखिलजगदुदय विभव लयलील !

सत्यकाम! सत्यसङ्कल्प ! परब्रह्मभूत ! पुरुषोत्तम महाविबूते ! श्रीमन्!
नारायण! वैकुण्ठनाथ !

अपार कारुण्य सौशील्य वात्सल्य औदार्य ऐश्वर्य सौन्दर्य महोदधे !
अनालोचितविशेष अशेषलोकशरण्य ! प्रणतार्तिहर !
आश्रितवात्सल्यैकजलधे! अनवरतविदित निखिलभूतजातयाथात्म्य!
अशेषचराचरभूत निखिलनियमननिरत! अशेषचिदचिद्वस्तु शेषिभूत!
निखिलजगदाधार! अखिलजगत्स्वामिन्! अस्मत्स्वामिन्! सत्यकाम!
सत्यसङ्कल्प! सकलेतरविलक्षण! अर्थिकल्पक! आपत्सख! श्रीमन्!
नारायण! अशरण्यशरण्य! अनन्यशरणः त्वत्पादारविन्दयुगळं शरणमहं प्रपद्ये ॥

अत्र द्वय(मनुसन्देय)म् ।

"पितरं मातरं दारान् पुत्रान् बन्धून् सखीन् गुरून् ।
रत्नानि धनधान्यानि क्षेत्राणि च गृहाणि च ॥

सर्वधर्माश्च संत्यज्य सर्वकामांश्च साक्षरान् ।
लोकविक्रान्तचरणौ शरणं तेऽव्रजं विभो! ॥ "

"त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च गुरुस्त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥

पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्र येऽप्यप्रतिमप्रभाव ! ॥ "


"तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥ "


मनोवाक्कायैरनादिकालप्रवृत्त अनन्त अकृत्यकरण कृत्याकरण भगवदपचार
भागवतापचार असह्यापचाररूप नानाविध अनन्तापचारान्
आरब्धकार्यान् , अनारब्धकार्यान् , कृतान् , क्रियमाणान् , करिष्यमाणांश्च
सर्वान् अशेषतः क्षमस्व ।

अनादिकालप्रवृत्तविपरीतङ्य़ानं , आत्मविषयं कृत्स्नजगद्विषयं च ,
विपरीतवृत्तं च अशेषविषयं , अद्यापि वर्तमानं वर्तिष्यमाणं च सर्वं क्षमस्व ॥

मदीयानादिकर्मप्रवाहप्रवृत्तां , भगवत्स्वरूपतिरोधानकरीं ,
विपरीतङ्य़ानजननीं , स्वविषयायाश्च भोग्यबुद्धेर्जननीं , देहेन्द्रियत्वेन
भोग्यत्वेन सूक्ष्मरूपेण च अवस्थितां , दैवीं गुणमयीं मायाम् ,
" दासभूतः शरणागतोऽस्मि तवास्मि दासः, "
इति वक्तारं मां तारय ।

"तेषां ङ्य़ानी नित्ययुक्तः एकभक्तिर्विशिष्यते ।
प्रियो हि ङ्य़ानिनोऽत्यर्थमहं स च मम प्रियः ॥

उदाराः सर्व एवैते ङ्य़ानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥

बहूनां जन्मनामस्ते ङ्य़ानवान् मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः " ॥


इति श्लोकत्रयोदितङ्य़ानिनं मां कुरुष्व ।


" पुरुषः स परः पार्थ ! भक्त्या लभ्यस्त्वनन्यया " , "भक्त्या
त्वनन्यया शक्यः", "मद्भक्तिं लभते पराम्"


इति स्थानत्रयोदितपरभक्तियुक्तं मां कुरुष्व ।

परभक्तिपरङ्य़ानपरमभक्त्येकस्वभावं मां कुरुष्व ।


परभक्ति परङ्य़ान परमभक्तिकृत परिपूर्णानवरत नित्यविशदतम
अनन्यप्रयोजन अनवधिकातिशयप्रिय भगवदनुभवोऽहं , तथाविध
भगवदनुभवजनित अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित
अशेषशेषतैकरतिरूप नित्यकिङ्करो भवानि ।

श्री रङ्गनाथः
एवंभूत मत्कैङ्कर्यप्राप्त्युपायतया अवक्ळिप्तसमस्तवस्तुविहीनोऽपि , अनन्त
तद्विरोधिपापाक्रान्तोऽपि , अनन्त मदपचारयुक्तोऽपि , अनन्त
मदीयापचारयुक्तोऽपि , अनन्त असह्यापचारयुक्तोऽपि , एतत्कर्यकारणभूत
अनादि विपरीताहङ्कार विमूढात्मस्वभावोऽपि , एतदुभयकार्यकारणभूत
अनादि विपरीतवासनासंबद्धोऽपि , एतदनुगुण प्रकृतिविशेषसंबद्धोऽपि ,
एतन्मूल आध्यात्मिक आधिभौतिक आधिदैविक सुखदुःख तद्धेतु
तदितरोपेक्षणीय विषयानुभव ङ्य़ानसंकोचरूप मच्चरणारविन्दयुगळ
एकान्तिकात्यन्तिक परभक्ति परङ्य़ान परमभक्तिविघ्नप्रतिहतोऽपि ,
येनकेनापि प्रकारेण द्वयवक्ता त्वम् , केवलं मदीययैव दयया , निश्शेषविनष्ट
सहेतुक मच्चरणारविन्दयुगळ एकान्तिकत्यन्तिक परभक्ति परङ्य़ान
परमभक्तिविघ्नः , मत्प्रसादलब्ध मच्चरणारविन्दयुगळ एकान्तिकात्यन्तिक
परभक्ति परङ्य़ान परमभक्तिः , मत्प्रसादादेव साक्षात्कृत यथावस्थित
मत्स्वरूपरूपगुणविभूति लीलोपकरणविस्तारः , अपरोक्षसिद्ध मन्नियाम्यता
मद्दास्यैकरसात्मस्वभावात्मस्वरूपः , मदेकानुभवः , मद्दास्यैकप्रियः ,
परिपूर्णानवरत नित्यविशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय
मदनुभवस्त्वं तथाविध मदनुभवजनित अनवधिकातिशय प्रीतिकारित
अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकिंकरो भव ।

एवंभूतोऽसि ।

आध्यात्मिक आधिभौतिक आधिदैविक दुःखविघ्नगन्धरहितस्त्वं
द्वयमर्थानुसन्धानेन सह सदैवं वक्ता यावच्छ रीरपातं अत्रैव श्रीरङ्गे
सुखमास्व ॥

शरीरपातसमये तु केवलं मदीययैव दयया अतिप्रबुद्धः , मामेवावलोकयन् ,
अप्रच्युत पूर्वसंस्कारमनोरथः , जीर्णमिव वस्त्रं सुखेन इमां प्रकृतिं

स्थूलसूक्ष्मरूपां विसृज्य , तदानीमेव मत्प्रसादलब्ध मच्चरणारविन्दयुगळ
एकान्तिकात्यन्तिक परभक्ति परङ्य़ान परमभक्तिकृत परिपूर्णानवरत नित्य
विशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय मदनुभवस्त्वं तथाविध
मदनुभवजनित अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित
अशेषशेषतैकरतिरूप नित्यकिङ्करो भविष्यसि ॥

मातेऽभूदत्र संशयः ।
"अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।"
" रामो द्विर्नाभिभाषते ।"
" सकृदेव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥"
" सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥"
इति मयैव ह्युक्तम् ।

अतस्त्वं तव तत्त्वतो मद्ङ्य़ानदर्शन प्राप्तिषु निस्संशयः सुखमास्व ॥

अन्त्यकाले स्मृतिर्यातु तव कैङ्कर्यकारिता ।
तामेनां भगवन्नद्य क्रियामाणां कुरुष्व मे ॥

इति श्री भगवद्रामानुज विरचिते गद्यत्रय प्रबन्धे
शरणागति गद्यम् सर्वं श्री कृष्णार्पणमस्तु

"https://sa.wikisource.org/w/index.php?title=शरणागतिगद्यम्&oldid=32563" इत्यस्माद् प्रतिप्राप्तम्