सामग्री पर जाएँ

भृगुसंहिता/द्वाविंशोऽध्यायः

विकिस्रोतः तः
← एकविंशोऽध्यायः भृगुसंहिता
द्वाविंशोऽध्यायः
[[लेखकः :|]]
त्रयोविंशोऽध्यायः →

अथ द्वाविंशोऽध्यायः.
स्नपनम्

अथातस्स्नपनागारं प्रमुखे चोत्तरे तथा ।
ऐशान्यां वा विशेषण प्रपां वा मण्डपन्तु वा ।। २२.१ ।।

वितानोपरि संवीतं लंबमानं परिष्कृतं ।
स्तंभान्त्संवेष्ट्य वस्त्रैश्च दुकूलैस्तान्तवैरपि ।। २२.२ ।।

मुक्तादामसमायुक्तं पूर्णकुंभसमन्वितं ।
सत्वं रजस्तमश्चैव ऐश्वर्यं चाधिदैवतं ।। २२.३ ।।

चतुर्वेदादिकैर्मन्त्रैस्तोरणांस्थ्सापयेत्क्रमाथ् ।
उभयोः पार्श्वयोश्चैव कदलीक्रमुकान्वितं ।। २२.४ ।।

पूर्वास्तमुत्तरान्तं च षट्सूत्रं संप्रसार्य च ।
कल्पयेदायतसमं पदानां पञ्च विंशतिं ।। २२.५ ।।

मध्येब्राह्मं पदं हित्वा चर्यार्धं परितोऽष्ट च ।
पूर्वादि चत्वारि पदं द्वारार्थं परिकल्पयेथ् ।। २२.६ ।।

शिष्टांश्च द्वादशपदान्द्रव्यन्यासार्थमाहरेथ् ।
मध्येश्वभ्रन्तु कर्तव्यमौपासनविधानतः ।। २२.७ ।।

मध्येनिम्नं च कृत्वा तु तालमात्रप्रमाणतः ।
श्वभ्रस्य मध्यमे चैव बिल्वजं फलकं न्यसेथ् ।। २२.८ ।।

तत्प्रमाणाधिकं पीठं परितश्चतुरङ्गुलं ।
मध्येहित्वा प्रतिष्ठाप्य द्विवेदिसहितं क्रमाथ् ।। २२.९ ।।

ततःपावनमार्गेण जलं गच्छेदुदङ्मुखं ।
मण्डपात्तु बहिस्थ्साने जलस्थानं तु खानयेथ् ।। २२.१० ।।

आच्छाद्य कदलीपत्रैः पद्मपत्रैरथापि वा ।
हारिद्रैश्चाथ पत्रैर्वापत्रैः क्रमुकजैस्तु वा ।। २२.११ ।।

"अतोदेवाऽदिमन्त्रेण कुशदर्भांन्तु शोधयेथ् ।
यावच्छ्वभ्रप्रमाणन्तु तावत्कृत्वासमाहरेथ् ।। २२.१२ ।।

हस्तमात्रं तथायामे प्रोक्षणार्थं तु कूर्चकं ।
मार्जनार्थन्तु कूर्चं च षडङ्गुलमिति स्मृतं ।। २२.१३ ।।

पञ्चभिर्वात्रिभिर्वाथ द्वादशांगुलमायतं ।
कलशार्थं तु कुर्वीत यथाकलशसंख्ययो ।। २२.१४ ।।

तण्डुलैर्व्रीहिभिश्चैव सतिलैश्चत्रिवेदिकं ।
व्रीह्यर्धं तण्डुलं प्रोक्तं तदर्धं च तिलानपि ।। २२.१५ ।।

उत्तमं द्रोणमित्युक्तं मध्यमं तु तदर्धकं ।
अधमं चाढकं चैव पङ्क्तिं कुर्याद्विचक्षणः, ।। २२.१६ ।।

सम्यक्दग्ध्वातु कलशानभिन्नान्त्संप्रगृह्य च ।
शरावाणां प्रमाणं तु कुडुबं समुदाहृतं ।। २२.१७ ।।

षट्प्रस्थमात्रं करकं कुंभं तु द्रोणमेव च ।
"देवस्यऽत्वेति कलशान्कुंभादीन्त्संप्रगृह्य च ।। २२.१८ ।।

यवान्तरं तु तन्तूनां संवेष्ट्य कलशानपि ।
पूर्वरात्रौ विशेषेण देवेशं संप्रणम्य च ।। २२.१९ ।।

समभ्यर्च्य निवेद्यैव मुखवासं ददेत्ततः ।
पूर्वोक्तेन विधानेन बद्ध्वाप्रतिसरं ततः ।। २२.२० ।।

शयनं सोपधानं च कालयित्वातु पूर्ववथ् ।
शयने शाययेद्देवमुत्तराच्छादनं चरेथ् ।। २२.२१ ।।

नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेत्क्रमाथ् ।
ततः प्रभाते धर्मात्मा यजमानयुतो गुरुः ।। २२.२२ ।।

श्वभ्रमध्ये प्रतिष्ठाप्य कूर्चान्त्सम्यङ्न्यसेत्क्रमाथ् ।
जयादीरपि तत्रैव चैन्द्राद्यैशान्तमर्चयेथ् ।। २२.२३ ।।

पङ्क्तीशमर्चयेत्पूर्वं नीलवारुणमध्यमे ।
विष्वक्चेनं समभ्यर्च्य सोमेशानान्तरेपि च ।। २२.२४ ।।

लोकपालान्त्समभ्यर्च्ये द्विग्रहैर्दशभिस्त्रिभिः प्राग्द्रव्याणि ।
नदीतिरे मृदं गृह्य सस्यङे त्रेतटाकके ।। २२.२५ ।।

दर्भमूले च संगृह्य गजदन्ते तथैवच ।
गोश्रुङ्गे कर्कटावासे वल्मीकस्य तु मध्यमे ।। २२.२६ ।।

महीं देवीमनुज्ञाप्य ताश्चाहृत्य पृथक्पृथक् ।
आतपेनाथ संशोष्य विश्वामित्रान्परिह्रसेथ् ।। २२.२७ ।।

शरावेषु मृदं चैव पूरयित्या पृथक्पृथक् ।
इन्द्रादीशानपर्यन्तं प्रदक्षिणवशेन तु ।। २२.२८ ।।

"उदुत्यऽमिति मन्त्रेण प्रथमं सन्न्यसेन्मृदः ।
मृदुपस्नानमेकं तु ऐशान्यां विप्यसेत्तदा ।। २२.२९ ।।

अश्वद्थेन पलाशेन बिल्वेन खदिरेण वा ।
कुर्यादष्टांगुलोत्सेधं चतुरश्रं समस्ततः ।। २२.३० ।।

मूलं षडङ्गुले चाग्रात्त्षङ्गुलं समुदाहृतं ।
अनेन वा मृदा वापि कुर्याद्वै पर्वतान्क्रमाथ् ।। २२.३१ ।।

हिमवानूर्जवान्विन्ध्यो विदूरो वेदपर्वतः ।
महेन्द्रश्च पुरश्चन्द्रश्शतश्रुङ्गाश्च पर्वताः ।। २२.३२ ।।

एषां वर्णस्तथैवोक्तः कुर्याद्वर्णेन संयुतान् ।
श्वेतं पीतं च कृष्णं च रक्तं वै श्वेतमेव च ।। २२.३३ ।।

पीतं कृष्णं च रक्तं च क्रमाद्वर्ण उदाहृतः ।
प्रागादीशान्त मेतांश्च "इदं विष्णुऽरिति न्यसेथ् ।। २२.३४ ।।

शैलानां चाप्युपस्नामेकमीशान्यगोचरं ।
शालिव्रीहियवा मुद्गतिलमाष प्रियङ्गवः ।। २२.३५ ।।

गोधूमश्चणकस्तिल्वोमसूरश्चाद्थसी तथा ।
कुलुद्धमाषकाश्चैव षष्टिर्निष्पाव एव च ।। २२.३६ ।।

एतान्याहृत्य धान्यानि शरावेषु पृथक्पृथक् ।
प्रक्षिप्य तांश्य संपूर्णान्क्रमाद्द्वौ द्वौन्यकेत्तथा ।। २२.३७ ।।

इन्द्रादीशानपर्यन्तं "शुक्रन्तऽ इति मन्त्रतः ।
न्यसेदेकमुपस्नानं धान्यानामग्निदिश्यपि ।। २२.३८ ।।

शरावाणामलाभे तु कलशेषु पृथक्पृथक् ।
"सोम ओषधीनाऽमुच्छार्य पूर्ववच्चांकुरानपि ।। २२.३९ ।।

यमनीलान्तरे चापि शरावेतु सुविन्यसेथ् ।
अङ्कुराणामुपस्नानमेकमत्रैव विन्यसेथ् ।। २२.४० ।।

पर्वतार्थं समं प्रोक्तवृक्षैर्यत्नेन वा मृदा ।
मङ्गलानि प्रकुर्याच्च दारुपक्षाण्यनुक्रमाथ् ।। २२.४१ ।।

श्रीवत्सं पूर्णकुंभं च भेरीमादर्शनं तथा ।
मत्स्ययुग्मांकुशं शङ्खमावर्तमिति चाष्टवै ।। २२.४२ ।।

श्रीवत्सं तत्तु रुक्माभं घटोरक्ताभ उच्यते ।
रक्तां भेरीं सुवर्णाभं तस्य पार्श्वेऽसितं?तथा ।। २२.४३ ।।

आदर्शनं च श्वेतं स्याद्वृत्तं चन्द्रवदिष्यते ।
मत्स्ययुग्मं तथा श्वेतमूर्ध्वाननमितीरितं ।। २२.४४ ।।

अङ्कुशस्य तु दण्डं च रक्तं कृष्णघृणीयुतं ।
शङ्खं शङ्खनिभं प्रोक्तं रक्तमावर्तमिष्यते ।। २२.४५ ।।

सप्ताङ्गुलसमुत्सेधमेषां पीठं द्विगोलकं ।
यथा वृक्षैस्तथा कुर्यात्पञ्चवर्णैर्मृदा तधा ।। २२.४६ ।।

एवं लक्षणमुद्दिष्टं शेषं युक्त्या समाचरेथ् ।
प्रदक्षिणक्रमेणैव चैन्द्रादीशान्तमर्चयेथ् ।। २२.४७ ।।

दिक्ष्वष्टसु महादिक्षु तत्तद्द्वारस्य दक्षिणे ।
"शं सा नियच्छऽत्वित्युक्त्वामङ्गलान्यत्र विन्यसेथ् ।। २२.४८ ।।

मङ्गलानामुपस्नानमेन्द्राद्येचैकमेवहि ।
एवं प्रकरणं प्रोक्तं कलशानां............ ।। २२.४९ ।।

द्वादश प्रधानद्रव्याणि
पञ्चगव्यक्रमं वक्ष्ये देवस्य स्नपनं प्रति ।
कपिलाया वरं क्षीरं श्वेताया दधि चोच्यते ।। २२.५० ।।

रक्तवर्णाघृतं ग्राह्यं कृष्णाया गोश्शकृद्भवेथ् ।
मूत्रं तु नीलवर्णायाः पञ्चगव्यमिति स्मृतं ।। २२.५१ ।।

प्रस्थपादं घृतं चैव द्विगुणं दधि संयुतं ।
गृहीत्वा त्रिगुणं क्षीरं गोमयन्तु चतुर्गुणं ।। २२.५२ ।।

षड्गुणं चैव गोमूत्रं पञ्चगव्ययुतं क्रमाथ् ।
अपातितं तु गोमूत्रं पतितं गोमयं भवेथ् ।। २२.५३ ।।

धारोष्णं क्षीरमादाय सद्यस्त्सप्तं घृतं भवेथ् ।
अशुक्तं दधि गृह्णीयादेतत्सर्वत्र लक्षणं ।। २२.५४ ।।

"गाङ्गेयंऽ मन्त्रमुच्चार्य गोमूत्रं पूर्वमाहरेथ् ।
तत्परं तु शकृद्ग्राह्य "मीशानऽमिति मन्त्रतः ।। २२.५५ ।।

"हिरण्यपाणिऽमित्युक्त्वा पय आदाय निक्षिपेथ् ।
"इषे त्वेऽति दधि यञ्ज्याद्घृतं "चायन्तऽ इत्यपि ।। २२.५६ ।।

इत्येवं पञ्चभिर्मन्त्रैः पञ्चगव्यं समाहरेथ् ।
एतदाढकपूर्मन्तु कलशेदृश्यते पृथक् ।। २२.५७ ।।

सौवर्णं राजतं ताम्रं कांस्यं मृण्मयमेव वा ।
द्वादशांगुलविस्तारं षोडशांगुलनाहकं ।। २२.५८ ।।

द्व्यङ्गुलं संभरेत्कण्ठं मुखं पञ्चाङ्गुल भवेथ् ।
पक्वबिंब फलाकारं खण्डस्भुटीतवर्जितं ।। २२.५९ ।।

एवं कलशमादाय पञ्चगव्यैःप्रपूर्य च ।
"रुद्रमस्यऽमिति प्रोच्य न्यसेदीशानगोचरे ।। २२.६० ।।

आढकार्धघृतेनैव संपूर्णं कलशं तथा ।
"घृतप्रतीकऽ इत्युक्त्वा इ द्रेशानान्तरेन्यसेथ् ।। २२.६१ ।।

कलशं मधुसंयुक्तं सुकुशैः पूरितं तथा ।
"मधु वाऽतेति मन्त्रेण इन्द्राग्न्योरन्तरे न्यसेथ् ।। २२.६२ ।।

न शुक्तं दधि गव्यं च? संपूर्णकलशं तथा ।
"दधि क्राव्ण्नऽ इत्युक्वा आग्नेय्यां दधि विन्यसेथ् ।। २२.६३ ।।

सद्यो दुग्धं पयोग्राह्य मक्षतैः पूरितन्तथा ।
"अणोरणीयाऽ नित्युक्त्वा यमाग्न्योर्मध्यमे न्यसेथ् ।। २२.६४ ।।

उशीरागरुपर्णैर्वा संयुक्तं चन्दनेन वा ।
शुद्धोकेन संगृह्य कलशं परिपूरितं ।। २२.६५ ।।

यमनीलान्तरे तत्र "अप्सरऽस्स्विति विन्यसेथ् ।
व्रीहिमाषयवैर्युक्तं सर्षपञ्चाक्षतं विदुः ।। २२.६६ ।।

तूर्यघोषसमायुक्तं मिश्रितं चाक्षतोदकं ।
तत्राक्षतोदकेनैव संपूर्णं कलशं ततः ।। २२.६७ ।।

"इमा ओषधयऽ इत्युक्त्वा न्यसेन्नी लेऽक्षतोदकं ।
कदलीमातुलुङ्गाम्र पनसेर्नालिकेरकैः ।। २२.६८ ।।

आर्द्रादिभिः फलैश्चान्यैर्यथालाभं समाहृतैः ।
फलैरर्धांशसंयुक्तं शेषं तोयेन पूरितं ।। २२.६९ ।।

फलोदकमिति प्रोक्तं कलशं संप्रसाथितं ।
नीलवारुणयोर्मध्ये "सोमं राऽजेति विन्यसेत्, ।। २२.७० ।।

कुशाग्रैरथ वा दूर्वैरक्षतैश्च समन्वितं ।
कुशोदकमिति प्रोक्तं कलशं तेन पूरितं ।। २२.७१ ।।

वरुणोदानयोर्मध्ये "यतस्स्वऽमिति विन्यसेथ् ।
वज्रं नीलं प्रवालं च शङ्खजं शुक्तिजं तथा ।। २२.७२ ।।

एतानि पञ्चरत्नानि ततो मरतकं तथा ।
वैडूर्यं पुष्यरागं च गोमेधिकमिति क्रमाथ् ।। २२.७३ ।।

रत्नोदकमिति प्रोक्तं कलशं तेन पूरितं ।
वायव्ये सन्न्यसेद्विद्वा"नतो देवादिऽमुच्चरन् ।। २२.७४ ।।

यथालाभं तथा रत्नसुवर्णसहितं क्रमाथ् ।
वैष्णवं विष्णुसूक्तं च पुरुषसूक्तयुतं जपेथ् ।। २२.७५ ।।

तथाभिमन्त्रितं तोयं जप्योदकमिति स्मृतं ।
कुबेरोदानयोर्मध्ये "ब्रह्मा देवानाऽमिति न्यसेथ् ।। २२.७६ ।।

फलान्ते तु वितुन्नास्स्युरोषध्यस्समुदाहृताः ।
सर्वौषधिसमायुक्तं सर्वौषध्युदकं भवेथ् ।। २२.७७ ।।

तर्यांशेषु गृहीतं च कलशं पूर्णमंभसा ।
सोमेशानास्तरेचैव "चित्रं देवानाऽमिति न्यसेथ् ।। २२.७८ ।।

एषां प्रत्येकमेकं तु कलशं शुद्धवारिणा ।
गृहीत्वा तदुपस्नानं वामपार्श्वेतु विन्यसेथ् ।। २२.७९ ।।

उपस्नाने तु कलशा"नतो देवाऽदिना न्यसेथ् ।
एवं प्रधानकलशाश्चतुर्विंशतिरीरिताः ।। २२.८० ।।

अनुद्रव्याणि
नन्द्यावर्तं च पद्मं च तुलसी विष्णुपर्णिका ।
बिल्वं च करवीरं च पद्मं कुमुदमेव च ।। २२.८१ ।।

अष्टवै पुण्यपुष्पाणि ग्राह्याणि तु यथाक्रमं ।
दिवाशुद्धं तु बिल्वं च कपिद्थं बिल्ववन्निशि ।। २२.८२ ।।

करवीरं दिवा शुद्धं निशि सितं? तथा शुचि ।
शरावेषु समाहृत्य पुष्पाणि तु पृथक्पृथक् ।। २२.८३ ।।

"इमास्सुमनसऽ इति मन्त्रेण यमनीलान्तरे न्यसेथ् ।
तस्योपस्नानमेकन्तु तत्पार्श्वे कलशं न्यसेथ् ।। २२.८४ ।।

श्रीवेष्टकं यवं मुद्गमुशीरं चैव रत्नकं ।
तथा मसूरं दमनं जातीफलयुतं तथा ।। २२.८५ ।।

लवङ्गं च समाहृत्य चूर्णयित्वाक्रमेण वै ।
समाराध्यैव तच्चूर्णं शरावेषु च पूरयेथ् ।। २२.८६ ।।

पङ्क्तीशाद्दक्षिणे चूर्णं "वन्द्यो नऽइति विन्यसेथ् ।
एषामलाभे चूर्णानां ग्राह्यमैलादिचूर्णकं ।। २२.८७ ।।

उपस्नानं तु तत्पार्श्वे त्वेकं वै कलशं न्यसेथ् ।
अश्वद्थस्य मधूकस्य खदिरस्य वटस्य च ।। २२.८८ ।।

वञ्जुलासनयोश्चापि चित्रवृक्षस्य च त्वचः ।
हृत्वोलूखलमध्ये च "उदुत्यऽमिति विन्यसेथ् ।। २२.८९ ।।

उक्त चर्मण्यलाभे तु अश्वद्थस्य विधीयते ।
कषायं परिकल्प्यैव "ये ते शतऽमिति ब्रुवन् ।। २२.९० ।।

वरुणोदानयोर्मध्ये कषायकलशं न्यसेथ् ।
उपस्नानं तु तत्पार्श्वे एकं वै कलशं न्यसेथ् ।। २२.९१ ।।

सिंही च नकुलव्याघ्रनन्दादित्यं च पुष्करं ।
दूर्वा च सहदेवी च पाठा साह्वयमेव च ।। २२.९२ ।।

एवं वनौषधीर्गृह्य सोमवाय्वोन्तु मध्यमे ।
उपस्नानं तु तत्पार्श्वे एकं वै कलशं न्यसेथ् ।। २२.९३ ।।

नदीतटाककूपानां पल्वलस्य च वारिभिः ।
पृथक्संपूर्य कलशांश्चतुरस्तु समाहरेथ् ।। २२.९४ ।।

तस्यैकं कलशं पार्श्वे उपस्नानं तु विन्यसेथ् ।
हरेणुकं च स्थौणेयं पत्रं व्याघ्रनखं तथा ।। २२.९५ ।।

पर्णागरुं च द्यामाकं कचोरं चेरुवालकं ।
माञ्ची जातिफलैलांश्च लवङ्गं चन्दनं तथा ।। २२.९६ ।।

कर्पूरं च बलोशीरस्थिरनारदमेव च? ।
कस्तुंबुरुं तथान्यानि सुगन्धीनि शुचीनि च ।। २२.९७ ।।

प्राण्यङ्गं च पुरीषं च वर्जयित्वा समाहरेथ् ।
एतेषामपि यच्चूर्णं सूक्ष्ममुत्पीड्य कल्पितं ।। २२.९८ ।।

सर्वगन्धमिति प्रोक्तं शरावेषु प्रपूरयेथ् ।
न्यसे"त्त्रातारऽमित्येव यक्षराजेशमध्यमे ।। २२.९९ ।।

तत्तत्पार्श्वेन्यसेत्तेषामुपस्नानं तथैव च ।
नवस्य स्निग्धवर्णस्य हारिद्रस्य प्रकल्पयेत्, ।। २२.१०० ।।

चूर्णं तु कलशे क्षिप्त्वा संपूर्णं कलशं चरेथ् ।
पङ्क्तीशस्यैव पार्श्वेतु "सिनी वाऽलीति विन्यसेथ् ।। २२.१०१ ।।

तस्य पार्श्वे न्यसेदेकमुपस्नानन्तु पूर्ववथ् ।
पालाशदूर्वापामार्गनन्द्यावर्तदलानि च ।। २२.१०२ ।।

करवीरस्य पत्राणि कुशपत्राणि चैव हि ।
मूलगन्धार्थमाहृत्य तस्य पार्श्वे न्यसेद्बुधः ।। २२.१०३ ।।

शुद्धोदकलशं स्थाप्येदुपस्नानं च पूर्ववथ् ।
वस्त्रयुग्मं नवं सूक्ष्मं कृतं कार्पासतन्तुना ।। २२.१०४ ।।

प्लोतार्थन्तु समाहृत्य शुद्धपात्रे तु निक्षिपेथ् ।
विष्णुगायत्रिया स्थाप्य यक्षराजेशमध्यमे ।। २२.१०५ ।।

प्लोतपार्श्वेन्यसेत्तानि "ब्रह्मजज्ञानऽमित्यपि ।
जातिं हिङ्गुलिकं चैव अञ्जनं च मनश्शिलां ।। २२.१०६ ।।

गोरोचनं च गिरिकमिति धातून्त्समाहरेथ् ।
एतानि चूर्णयित्वातु शरावेषु पृथक्पृथक् ।। २२.१०७ ।।

प्रक्षिप्य "जातवेऽदेति न्यसेत्तत्रैव पूर्ववथ् ।
एकादशानुकरणे कलशांश्चैव पूरयेथ् ।। २२.१०८ ।।

अहतं च सुमाक्ष्मं च वस्त्रयुग्ममखण्डितं ।
वस्त्रं यज्ञोपवीतं च पवित्रं भूषणादिकं ।। २२.१०९ ।।

एवमादीनि संगृह्य सोमेशानान्तरे न्यसेथ् ।
विन्यस्य कलशांश्चैव तथा चूर्णान्पृथक्पृथक् ।। २२.११० ।।

वस्त्रैरावेष्ट्य तान्त्सर्वान्पुनःकूर्चानि निक्षिपेथ् ।
उत्कूर्चं वाप्यधःकूर्चं प्रागग्रं वोदगग्रकं ।। २२.१११ ।।

विन्यस्य तेषु कूर्चानि शरावे रपिधाय च ।
प्रणम्य देवदेवेशं द्रव्यार्चसमथारभेथ् ।। २२.११२ ।।

ततश्चर्यापदान्तेषु जयाद्यप्सरसोर्ऽचयेथ् ।
जयां च विजयां विन्दांनन्दकां पुष्टिकामपि ।। २२.११३ ।।

कुमुद्वतीमुत्पलकां विशोकां च समर्चयेथ् ।
प्रागादिवेद्याः परितः पङ्क्तौ पङ्क्तीशमर्चयेथ् ।। २२.११४ ।।

विष्वक्सेनं ततः पश्चादिन्द्रादींश्च समर्चयेथ् ।
द्रव्यदेवार्चनम्
मृद्देवता तु भूदेवी पर्वतेशस्तु पावकः ।। २२.११५ ।।

वायुर्वैधान्यदेवस्स्याद्गरुडा ओंकुरदेवता ।
मङ्गलाधिपतिश्शक्रःपञ्चगव्याधिपश्शिवः ।। २२.११६ ।।

तथैव विश्वेदेवाश्च उपस्नानाधिदेवताः ।
सामवेदो घृतेशस्स्यादुपस्नाने तु वत्सराः ।। २२.११७ ।।

ऋग्वेदो मधुदेवस्स्यादुपस्नाने तु वायवः ।
यजुर्वेदो दधीशोऽभूदुपस्ना कपर्दिनः ।। २२.११८ ।।

क्षीरे त्वधर्ववेदश्च उपस्नानेऽश्विनौ तथा ।
गन्धोदके षडृतवो मरुतस्तदनन्तरे ।। २२.११९ ।।

अक्षतोदे विश्वमूर्तिरुपस्नाने बृहस्पतिः ।
सोमः फलोदकेशस्स्यादनन्तस्तदनन्तरे ।। २२.१२० ।।

कुशोदके च मुनय उपस्नाने तु तक्षकः ।
विष्णूरत्नोदकेशस्स्याद्गन्धर्वास्तनदन्तरे ।। २२.१२१ ।।

मन्त्रोरत्नोदकेशस्स्यादुपस्नानेतु पुष्पजाः ।
सर्वौषध्युदके भानुरुपस्नानेऽप्सरोगणाः ।। २२.१२२ ।।

पुण्यपुष्पेषु धातारं चूर्णेष्वप्यनपायिनं ।
वरुणः
कषायदेवस्स्यात्तीर्थे चैव जगद्भुवः ।। २२.१२३ ।।

वनौषधीशो रुद्रोऽभूच्छिनीवाली हरिद्रके ।
उपस्नानि तु राका स्यात्सर्वगन्धे शतक्रतुः ।। २२.१२४ ।।

ब्रह्माणं मूलगन्धेतु प्लोतवस्त्रे पुरन्दरं ।
धातुष्वपि च दुर्गां च तत्तद्द्रव्यधरं स्मरन् ।। २२.१२५ ।।

त्रयोदशोपचारैश्च मूर्तिमन्त्रैरथार्ऽचयेथ् ।
उपस्नानेषु चान्येषु वरुणं च तथार्ऽचयेथ् ।। २२.१२६ ।।

आचार्य पूजयित्वातु वस्त्रैराभरणैस्तथा ।
शिष्यं च पूजयेत्पश्चाद्यजमानस्स्वशक्तितः ।। २२.१२७ ।।

ततो गुरुःप्रसन्नात्मा देवेशं संप्रणम्य च ।
अष्टोपचारैरभ्यर्च्य स्नपनावसरं ततः ।। २२.१२८ ।।

विज्ञाप्य हरये सम्यक्पश्चात्कार्यं समाचरेथ् ।
"रक्षस्व त्वऽमिति प्रोच्य द्रव्यदेवं प्रणम्य च ।। २२.१२९ ।।

शिष्यस्तुनम्रकायस्सन्नाचार्याज्ञां प्रतीक्षते ।
आज्ञापयेद्गुरुश्शिष्यं "हरस्वेदऽमिति ब्रुवन् ।। २२.१३० ।।

तत्तद्द्रव्यं समादाय शिष्यस्तस्मै निवेदयेथ् ।
अद्भिःप्रोक्ष्य समादाय तद्द्रव्यं गुरुरत्वरः ।। २२.१३१ ।।

प्वणवं तु समुच्चार्य तत्र कार्यं समाचरेथ् ।
ललाटान्तं समुद्धृत्य देवदेवं प्रणम्य च ।। २२.१३२ ।।

तद्द्रव्येण सकृत्त्रिर्वा देवेशस्य प्रदक्षिणं ।
तद्द्रव्यनाम संयोज्य तन्मन्त्रान्ते तु कारयेथ् ।। २२.१३३ ।।

"अतो देवाऽदितिमन्त्रेण देवदेवं प्रणम्य च ।
विष्णुं च पुरुषं सत्यमच्युतं चानिरुद्धकं ।। २२.१३४ ।।

एवं मन्त्रं समुच्चार्य तत्र कार्यं समाचरेथ् ।
क्रियान्ते पात्रमादाय पूर्वस्थाने निवेशयेथ् ।। २२.१३५ ।।

स्नपनप्रयोगः "एकाक्षरेणऽ मन्त्रेण प्रोक्ष्यं गृह्य प्रदक्षिणं ।
कूर्चेनादाय संस्राव्य मूर्ध्निवै स्नापयेन्मृदा ।। २२.१३६ ।।

"विश्वे निमग्नऽइत्युक्त्वापर्वतेन प्रदक्षिणं ।
धान्येन स्नापयेच्चैव "प्राणप्रसूतिऽमुच्चरन् ।। २२.१३७ ।।

"वितत्य बाणऽमित्युक्त्वा अङ्कुरैरेव चार्ऽचयेथ् ।
"त्वं यऽज्ञेति च मन्त्रेण मङ्गलैश्च प्रदक्षिणं ।। २२.१३८ ।।

"वसोः पवित्रऽमित्युक्त्वा पञ्चगव्याभिषेचनं ।
"वारीश्चतस्रऽइत्युक्त्वा सर्वोपस्नानमाचरेथ् ।। २२.१३९ ।।

"अग्न आयाहिऽ मन्त्रेण घृतेनैवाभिषे चयेथ् ।
"अग्निमीलेति मन्त्रेण मधुनैवाभिषेचयेथ् ।। २२.१४० ।।

दध्माभिषेचयेत्पश्चा"दिषे त्वेऽति समुच्चरन् ।
"शन्नो देवीरऽभीत्युक्त्वा क्षीरेणैवाभिषेचयेथ् ।। २२.१४१ ।।

"अभि त्वा शूरऽइत्युक्त्वा स्नापयेद्गन्धवारिणा ।
"इमा ओषधयऽइत्युक्त्वा स्नापयेदक्षतोदकैः ।। २२.१४२ ।।

"जपन्दऽत्वेति चोच्छार्य फलोदैश्चाभिषेचयेथ् ।
"चत्वाऽरीति च मन्त्रेण कुशोदैश्चाभिषेचयेथ् ।। २२.१४३ ।।

"तत्पुरुषाऽयेति मन्त्रेण रत्नोदैश्चाभिषेचयेथ् ।
"पूत स्तऽन्येति मन्त्रेण जप्योदैरभिषेचयेथ् ।। २२.१४४ ।।

"चत्वारि श्रुंगेत्युच्चार्य सर्यौषध्युदकैश्चरेथ् ।
"धाता विधाऽतेत्युच्चार्य पुण्यपुष्पैरथार्चयेथ् ।। २२.१४५ ।।

"ऋचो यजूंषिऽ मन्त्रेण चूर्णेन स्नापयेद्गुरुः ।
"स एष देवऽ उच्चार्य उद्वर्तेत कषायकैः ।। २२.१४६ ।।

"स सर्ववेत्ताऽमन्त्रेण तीर्थोदेश्चाभिषेचयेथ् ।
"सामैश्च सांगऽमित्युक्त्वा मार्जयेच्च वनौषधीः ।। २२.१४७ ।।

हारिद्रचूर्णैस्संस्नाप्य "अतो देवाऽ इति ब्रुवन् ।
"त्वं स्त्रीपुमाऽनित्युच्चार्य लेपयेत्सर्वगन्धकैः ।। २२.१४८ ।।

स्नापयेदुष्णतोयेन "आपो हिऽष्ठेति चोच्चरन् ।
नित्यस्नानोक्तमार्गेण शुद्धोदैरभिषेचयेथ् ।। २२.१४९ ।।

तत्तद्द्रव्याभिषेकान्ते स्नानवस्त्रं विसृज्य च ।
धौतं समर्पयेच्चैव पूजयेदष्टविग्रहैः ।। २२.१५० ।।

"मित्रस्सुवर्णऽइत्युक्त्वा प्लोतेन परिमृज्य च ।
वस्त्राद्यैस्समलङ्कृत्य पूर्वोक्तेनैव कारयेथ् ।। २२.१५१ ।।

"त्वं भूर्भुवस्त्वंऽमन्त्रेण मूलगन्धेन मार्जयेथ् ।
"बुद्धिमताऽमित्युच्चार्य चालङ्कुर्याच्च धातुभिः ।। २२.१५२ ।।

पाद्यमाचमनं दद्यादालयस्य प्रदक्षिणं ।
स्वस्तिसूक्तादिसूक्तं च जप्त्वाचैवाथ कारयेथ् ।। २२.१५३ ।।

अर्चास्थाने तु संस्थाप्य पूजयित्वोक्तमार्गतः ।
महाहाविः प्रभूतं वा यथाशक्ति निवेदयेथ् ।। २२.१५४ ।।

निष्काधिकं सुवर्णं च सवत्सामपि गां तथा ।
गुरवे दक्षिणां दद्यात्स्नापकानां तथैव च ।। २२.१५५ ।।

तत्रान्यकर्मकर्तॄणां यथाशक्त्याच दक्षिणां ।
दद्यात्कर्मफलं प्राप्य यजमानोऽथ भक्तिमान् ।। २२.१५६ ।।

स्नपनायत्तमुद्दिष्टधान्यद्रव्यांबराणि च ।
पात्राणि च तथान्यानि स्नपनान्ते धृतानि च ।। २२.१५७ ।।

निवेदयित्वा गुरवे प्रणमेच्च मुहुर्मुहुः ।
ध्रुवार्चना यदि स्यात्तु प्रमुखे स्नपनं चरेथ् ।। २२.१५८ ।।

वितानस्तंभवेष्टादिपूर्ववत्कारयेत्ततः ।
पञ्चहस्ताभेदेषु पङ्क्तिं कुर्याद्विधानतः ।। २२.१५९ ।।

मध्ये कुभं च स्न्यस्य अर्चयित्वा च पूर्ववथ् ।
ध्रुवपीठस्य परितः कूर्चयुक्तं चतुर्दिशं ।। २२.१६० ।।

जयादीरर्चयित्वातु मृदादीन्पूर्ववत्क्रमाथ् ।
तत्पात्रं संप्रगृह्यैव पाणिभ्यां क्षालनं चरेथ् ।। २२.१६१ ।।

अथ वा पात्रमादाय पूरयित्वातु सन्न्यसेथ् ।
द्रव्यं प्रति विशेषेण पूरयित्वार्ऽचयेत्क्रमाथ् ।। २२.१६२ ।।

पाद्यं चाचमनं पुष्पं गन्धं धूपं तथैव च ।
दीपमर्घ्यं तथाचाममर्चयित्वाष्टविग्रहैः ।। २२.१६३ ।।

देवदेवं नमस्कृत्य प्रदक्षिणमथाचरेथ् ।
देवस्य पुरतस्तिष्ठेद्द्रव्यमादाय पाणिना ।। २२.१६४ ।।

गौशृङ्गाग्रं समुद्धृत्य पूर्वोक्तविधिना क्रमाथ् ।
पुनः प्रदक्षिणं कृत्वा पूर्वस्थाने तु विन्यसेथ् ।। २२.१६५ ।।

ध्रुवेणाभ्यस्तरे चैव बिंबैरन्यैस्सहैवतु ।
पूर्वमुक्तं ध्रुवार्चा चेत्स्नपनं सम्यगाचरेथ् ।। २२.१६६ ।।

यथोक्तेनैव मार्गेण यथाविधि समर्चयेत्चत्वारिंशथ् ।। २२.१६७ ।।

गव्यं श्रुतं दधि मधु क्षीरे स्याद्रत्न तोयकं ।। २२.१६८ ।।

जप्यं द्वादशैतान्समाहृत्य ।। २२.१६९ ।।

न्तु उपस्नानमेकं हारिद्र मध्यमोत्तमं ।। २२.१७० ।।

उपस्नानवि माधमं चैव स्नपनं तु विधीयते ।। २२.१७१ ।।

स्तथा कुर्यात्कलशैस्तु चतुर्दशैः ।। २२.१७२ ।।

मध्यमे मध्यमं चैव मध्यमाधम विधीयते ।। २२.१७३ ।।

सप्तभिः कलशैः मध्यमं तेषां षड्भिः कल ।। २२.१७४ ।।

धममुच्यते चतुर्दशैः ।। २२.१७५ ।।

गव्यं घृतं क्षीरमक्ष पस्नानं तथैव च ।। २२.१७६ ।।

एतै दशैतान्कलस्याचेत्क्र? त ।। २२.१७७ ।।

पूर्वोक्तेनैव कलशस्यचेथ् ।। २२.१७८ ।।

दिक्षष्ट गव्यैस्तु ऐन्द्रे घृतमि ।। २२.१७९ ।।

म्येगन्धोदकं तथा पयो त्यां वारुण्यामक्षतोदकं ।। २२.१८० ।।

स्ॐये जप्योदकं क्रमात्व्यस्तुसप्तभिः कलशैः ।। २२.१८१ ।।

चत्रिषट्योणस्थलं सप्तभिः कलशोक्तवथ् ।। २२.१८२ ।।

नवकोष्ठन्तु तत्र वै म भश्च कुशांभसा ।। २२.१८३ ।।

जप्या विन्यसेतेवमेवं येथ् ।। २२.१८४ ।।

दक्षिणायनकालेतु उत्तरायणकालेतु पश्चाथ् ।। २२.१८५ ।।

ये तु संप्राप्ते तत्सूर्येंदूपरागेषु स्नपनं देवदेवस्य कृत्वा त ।। २२.१८६ ।।


इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे द्वाविंशोऽध्यायः.