चन्द्रालोकः/सप्तमो मयूखः
← षष्ठो मयूखः | चन्द्रालोकः सप्तमो मयूखः जयदेवः |
अष्टमो मयूखः → |
वृत्तिभेदैस्त्रिभिर्युक्ता स्रोतोभिरिव जाह्नवी ।
भारती भाति गम्भीरा कुटिला सरला क्वचित् ।। ७.१ ।।
सांमुख्यं विदधानायाः स्फुटं अर्थान्तरे गिरः ।
कटाक्ष इव लोलाक्ष्या व्यापारो व्यञ्जनात्मकः ।। ७.२ ।।
अविवक्षितवाच्यस्य द्वौ भेदौ वाच्यं एव चेत् ।
अर्थान्तिरे संक्रमितं अत्यन्तं वा तिरस्कृतम् ।। ७.३ ।।
द्वौ विवक्षितवाच्यस्य लक्ष्यालक्ष्यक्रमात्मकौ ।
चत्वारिंशद्युतैकेन भेदाः षट्चानयोः क्रमात् ।। ७.४ ।।
त्रिधा शब्दार्थतद्युग्म-शक्तिजन्मा स्फुटक्रमात् ।
रसभावतदाभास-प्रमुखस्त्वस्फुटक्रमात् ।। ७.५ ।।
वस्त्वलङ्कारयोर्व्यक्तेर्भेदौ द्वौ शब्दशक्तिजौ ।
अर्थशक्तिसमुत्थस्य भेदा द्वादश तद्यथा ।। ७.६ ।।
चत्वारो वस्त्वलंकारं अलंकारस्तु वस्तु यत् ।
अलंकारं अलंकारो वस्तु वस्तु व्यनक्ति तत् ।। ७.७ ।।
वक्तुः कविनिबद्धस्य कवेर्वा प्रौढिनिर्मितः ।
स्वसिद्धो वा व्यञ्जकोऽर्थश्चत्वारस्त्रिगुणास्ततः ।। ७.८ ।।
शब्दार्थोभयभूरेकः स च वाक्यैकसंश्रयः ।
पदैकदेशे रचना-वर्णवाक्यपदेष्वपि ।। ७.९ ।।
प्रबन्धे चेति षोढासौ रसाद्याख्योऽस्फुटक्रमः ।
एषु सप्तदशस्वेकं परित्यज्यास्फुटक्रमम् ।। ७.१० ।।
ये षोडशाद्या द्विगुणास्ते स्युर्वाक्यपदाश्रयात् ।
प्रबन्धेऽपि द्वादश स्युरर्थशक्तिभुवो भिदः ।। ७.११ ।।
द्वात्रिंशद्द्वादशैकः षट्सर्वसंकलितध्वनेः ।
भेदाः स्युरेकपञ्चाशत्संभिन्नास्तु सहस्रशः ।। ७.१२ ।।
वक्तृस्यूतं बोधयितुं व्यङ्ग्यं वक्तुरभीप्सितम् ।
स्वाङ्कुरितं अतद्रूपं स्वयं उल्लसितं गिरः ।। ७.१३ ।।
कश्चित्साधारणः कश्चिदामन्त्र्य प्रतिबोधितः ।
कश्चित्तटस्थः कश्चिच्च बोधितप्रतिबोधितः ।। ७.१४ ।।
इत्येवं बोद्धृवैचित्र्याद्वक्तृस्यूतं चतुर्विधम् ।
उपेक्षानिह्नवाभ्यां च द्विधा स्वाङ्कुरितं मतम् ।। ७.१५ ।।
भूतादिकालभेदेन निह्नवः स्यादनेकधा ।
अनेनापि प्रभेदेन व्यक्तिवल्ली विजृम्भते ।। ७.१६ ।।
नानाप्रभेदा नियता क्वचित्प्रकरणादिना ।
अर्थेऽर्थं अन्यं यं वक्ति तद्वाच्यव्यङ्ग्यं इष्यते ।। ७.१७ ।।
महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु महति मुनिसंख्यः ।। ७.१८ ।।