सौन्दरनन्दकाव्यम्/अष्ठमः सर्गः
← सप्तमः सर्गः | सौन्दरनन्दकाव्यम् अष्टमः सर्गः [[लेखकः :|]] |
नवमः सर्गः → |
सर्ग ८
अथ नन्दं अधीरलोचनं गृहयानोत्सुकं उत्सुकोतुस्कं ।
अभिगम्य शिवेन चक्षुषा श्रमणः कश्चिदुवाच मैत्रया ।। ८.१ ।।
किं इदं मुखं अश्रुदुरिनं हृदयस्थं विवृणोति ते तमः ।
धृतिं एहि नियच्छ विक्रियां न हि बाष्पश्च शमश्च शोभते ।। ८.२ ।।
द्विविधा समुदेति वेदना नियतं चेतसि देह एव च ।
श्रुतविध्युपचारकोविदा द्विविधा एव तयोश्चिकित्सकाः ।। ८.३ ।।
तदियं यदि कायिकी रुजा भिषजे तूर्णं अनूनं उच्यतां ।
विनिगुह्य हि रोगं आतुरो नचिरात्तीव्रं अनर्थं ऋच्छति ।। ८.४ ।।
अथ दुःखं इदं मन्ॐअयं वद वक्ष्यामि यदत्र भेषजं ।
मनसो हि रजस्तमस्विनो भिषजोऽध्यात्मविदः परीक्षकाः ।। ८.५ ।।
निखिलेन च सत्यं उच्यतां यदि वाच्यं मयि स्ॐय मन्यस्ते ।
गतयो विविधा हि चेतसां बहुगुह्यानि मदाकुलानि च ।। ८.६ ।।
इति तेन स चोदितस्तदा व्यवसायं प्रविवक्षुरात्मनः ।
अवलम्ब्य करे करेण तं प्रविवक्षुरात्मनः ।। ८.७ ।।
अथ तत्र शुचौ लतागृहे कुसुमोद्गारिणि तौ निषेदतुः ।
मृदुभिर्मृदुमारुतेरितैरुपगूधाविव बालपल्लवैः ।। ८.८ ।।
स जगाद ततश्चिकीषितं घननिश्वासगृहीतं अन्तरा ।
श्रुतवाग्विशदाय भिक्षवे विदुषा प्रव्रजितेन दुर्वचं ।। ८.९ ।।
सदृशं यदि धर्मचारिणः सततं प्राणिषु मैत्रचेतसः ।
अधृतौ यदियं हितैषिता मयि ते स्यात्करुणात्मनः सतः ।। ८.१० ।।
अत एव च मे विशेषतः प्रविवक्षा क्षमवादिनि त्वयि ।
न हि भावं इमं चलात्मने कथयेयं ब्रुवतेऽप्यसाधवे ।। ८.११ ।।
तदिदं शृणु मे समासतो न रमे धरविधावृते प्रियां ।
गिरिसानुषु कामिनीं ऋते कृतरेता इव किंनरश्चरन् ।। ८.१२ ।।
वनवाससुखात्पराङ्मुखः प्रयियासा गृहं एव येन मे ।
न हि शर्म लभे तया विना नृपतिर्हीन इवोत्तमश्रिया ।। ८.१३ ।।
अथ तस्य निशम्य तद्वचः प्रियभार्याभिमुखस्य शोचतः ।
श्रमणः स शिरः प्रकम्पयन्निजगादात्मगतं शनैरिदं ।। ८.१४ ।।
कृपणं बत यूथलालसो महतो व्याधभयाद्विनिःसृतः ।
प्रविविक्षति वागुरां मृगश्चपलो गीतरवेण वञ्चितः ।। ८.१५ ।।
विहगः खलु जालसंवृतो हितकामेन जनेन मोक्षितः ।
विचरन्फलपुष्पवद्वनं प्रविविक्षुः स्वयं एव पञ्जरं ।। ८.१६ ।।
कलभः करिणा खलूद्धृतो बहुपङ्काद्विषमान्नदीतलात् ।
जलतर्षवशेन तां पुनः सरितं ग्राहवती तितीर्षति ।। ८.१७ ।।
शरणे सभुजङ्गमे स्वपन्प्रतिबुद्धेन परेञ बोधितः ।
तरुणः खलु जातविभ्रमः स्वयं उग्रं भुजगं जिघृक्षति ।। ८.१८ ।।
महता खलु जातवेदसा ज्वलितादुत्पतितो वनद्रुमात् ।
पुनरिच्छति नीडतृष्णया पतितुं तत्र गतव्यथो द्विजः ।। ८.१९ ।।
अवशः खलु काममूर्छया प्रियया श्येनभयाद्विनाकृतः ।
न धृतिं समुपैति न ह्रियं करुणं जीवति जीवजीवकः ।। ८.२० ।।
अकृतात्मतया तृषान्वितो घृणया चैव धिया च वर्जितः ।
अशनं खलु वान्तं आत्मना कृपञः श्वा पुनरत्तुं इच्छति ।। ८.२१ ।।
इति मन्मथशोककर्षितं तं अनुध्याय मुहुर्निरीक्ष्य च ।
श्रमणः स हिताभिकाङ्क्षया गुणवद्वाक्यं उवाच विप्रियं ।। ८.२२ ।।
अविचारयतः शुभाशुभं विषयेष्वेव निविष्टचेतसः ।
उपपन्नं अलब्धचकुसुषो न रतिः श्रेयसि चेद्भवेत्तव ।। ८.२३ ।।
श्रवणे ग्रहणेऽथ धारणे परमार्थावगमे मनःशमे ।
अविषक्तमतेश्चलात्मनो न हि धर्मेऽभिरतिर्विधीयते ।। ८.२४ ।।
विषयेषु तु दोषदर्शिनः परितुष्टस्य शुचेरमानिनः ।
शमकर्मसु युक्तचेतसः कृतबुद्धेर्न रतिर्न विद्यते ।। ८.२५ ।।
रमते तृषितो धनश्रिया रमते कामसुखेन्बालिशः ।
रमते प्रशमेन सज्जनः परिभोगान्परिभूय विद्यया ।। ८.२६ ।।
अपि च प्रथितस्य धीमतः कुलजस्यार्चितलिङ्गधारिणः ।
सदृशी न गृहाय चेतना प्रणतिर्वायुवशाद्गिरेरिव ।। ८.२७ ।।
स्पृह्येत्परसंश्रिताय यः परिभूयात्मवशां स्वतन्त्रतां ।
उपशान्तिपथे शिवे स्थितः स्पृहयेद्दोषवते गृहाय सः ।। ८.२८ ।।
व्यसनाभिहतो यथा विशेत्पर्मुक्तः पुनरेव बन्धनं ।
समुपेत्य वनं तथा पुनर्गृहसंज्ञं मृगयेत बन्धनं ।। ८.२९ ।।
पुरुषश्च विहाय यः कलिं पुनरिच्छेत्कलिं एव सेवितुं ।
स विहाय भजेत बालिषः कलिभूतां अजितेन्द्रियः प्रियां ।। ८.३० ।।
सविषा इव संश्रिता लताः परिमृष्टा इव सोरगा गुहाः ।
विवृता इव चासयो धृता व्यसनान्ता हि भवन्ति योषितः ।। ८.३१ ।।
प्रमदाः समदा मदप्रदाः प्रमदा वीतमदा भयप्रदाः ।
इति दोषभयावहाश्च ताः कथं अर्हन्ति निषेवनं नु ताः ।। ८.३२ ।।
स्वजनः स्वजनेन भिद्यते सुहृदश्चापि सुहृज्जनेन यत् ।
परदोषविक्षणाः शठास्तदनार्याः प्रचरन्ति योषितः ।। ८.३३ ।।
कुलजाः कृपणीभवन्ति यद्यदयुक्तं प्रचरन्ति साहसं ।
प्रविशन्ति च यच्चमूमुखं रभसास्तत्र निमित्तं अङ्गनाः ।। ८.३४ ।।
वचनेन हरनति वल्गुना निशितेन प्रहरन्ति चेतसा ।
मधु तिष्ठति वाचि योषितां हृदये हालहलं महद्विषं ।। ८.३५ ।।
प्रदहन्दहनोऽपि गृह्यते विशरीरः पवनोऽपि गृह्यते ।
कुपितो भुजगोऽपि गृह्यते प्रदानां तु मनो न गृह्यते ।। ८.३६ ।।
न वपुर्विमृशन्ति न श्रियं न मतिं नापि कुलं न विक्रमं ।
प्रहरन्त्यविशेषतः स्त्रियः सरितो ग्राहकुलाकुला इव ।। ८.३७ ।।
न वचो मधुरं न लालनं स्मरति स्त्री न च सुअहृदं क्व चित् ।
कलिता वनितैव चञ्चला तदिहारिष्विव नावलम्ब्यते ।। ८.३८ ।।
अददत्सु भवन्ति नर्मदाः प्रददत्सु प्रविशन्ति विभ्रमं ।
प्रणतेषु भवन्ति गर्विताः प्रमदास्तृप्ततराश्च मानिषु ।। ८.३९ ।।
गुणवत्सु चरन्ति भर्तृवद्गुणहीनेषु चरन्ति पुत्रवत् ।
धनवत्सु चरन्ति तृष्णया धनहीनेषु चरन्त्यवज्ञया ।। ८.४० ।।
विषयाद्विषयान्तरं गता प्रचरत्येव यथा हृतापि गौः ।
अनवेक्षितपूर्वसौहृदा रमतेऽन्यत्र गता तथाङ्गना ।। ८.४१ ।।
प्रविशन्त्यपि हि स्त्रियश्चितां अनुभध्नन्त्यपि मुक्तजीव्ताः ।
अपि बिभ्रति नैव यन्त्रणा न तु भावेन वहन्ति साहृदं ।। ८.४२ ।।
रमयन्ति पतीन्कथं चन प्रमदा याः पतिदेवताः क्व चित् ।
चलचित्ततया सहस्रशो रमयन्ते हृदयं स्वनेव ताः ।। ८.४३ ।।
श्वपचं किल सेनजित्सुता चकमे मीनरिपुं कुमुद्वती ।
मृगराजं अथो बृहद्रथा प्रमदानां अगतिर्न विद्यते ।। ८.४४ ।।
कुरुहैहयवृष्णिवंशजा बहुमायाकवचोऽथ शम्बरः ।
मुनिरुग्रतपाश्च गौतमः समवापुर्वनितोद्धतं रजः ।। ८.४५ ।।
अकृतज्ञं अनार्यं अस्थिरं वनितानां इद ईदृशं मनः ।
कथं अर्हति तासु पण्डितो हृदयं सञ्जयितुं चलात्मसु ।। ८.४६ ।।
अथ सूक्ष्ममति द्वयाशिवं लघु तासां हृदयं न पश्यसि ।
किमु कायं असद्गृहं स्रवद्वैन्तानां अशुचिं न पश्यसि ।। ८.४७ ।।
अनुलेपनं अञ्जनं स्रजो मणिमुक्तातपनीयं अंशुकं ।
यदहन्यहनि प्रधावनैर्वसनैश्चाभरणैश्च संस्कृतं ।
अशुभं तमसावृतेक्षणः शुभतो गच्छसि नावगच्छसि ।। ८.४८ ।।
अथ वा समवैषि तत्तनूं अशुभां त्वं न तु संविदस्ति ते ।
सुरभिं विदधासि हि क्रियां अशुचेस्तत्प्रभवस्य शान्तये ।। ८.४९ ।।
मलपञ्कधरा दिगम्बरा प्रकृतिस्थैर्नखदन्तर्ॐअभिः ।
यदि साधु किं अत्र योषितां सहजं तासु विचीयतां शुचि ।। ८.५० ।।
मलपङ्कधरा दिगम्बरा प्रकृतिस्थैर्नखदन्तर्ॐअभिः ।
यदि सा तव सुन्दरी भवेन्नियतं तेऽद्य न सुन्दरी भवेत् ।। ८.५१ ।।
स्रवतीं अशुचिं स्पृशेच्च कः सघुणो जर्जरभाण्डवत्स्त्रियं ।
यदि केवलया त्वचावृता न भवेन्मक्षिकपत्त्रमात्रया ।। ८.५२ ।।
त्वचवेष्ठितं अस्तिपञ्जरं यदि कायं समवैषि योषितां ।
मदनेन च कृष्यसे बलादघृणः कायं सम्वैषि योषितां ।। ८.५३ ।।
शुभतां अशुभेषु कल्पयन्नखदन्तत्वचकेशर्ॐअसु ।
अविचक्षण किं न पश्यसि प्रकृतिं च प्रभवं च योषितां ।। ८.५४ ।।
तदवेत्य मनःशरीरयोर्वनिता दोषवतीर्विशेषतः ।
चपलं भवनोत्सुकं मनः प्रतिसंख्यानबलेन वार्यतां ।। ८.५५ ।।
श्रुतवान्मतिमान्कुलोद्गतः परमस्य प्रशमस्य भाजनं ।
उपगम्य यथा तथा पुनर्न हि बेह्त्तुं नियमं त्वं अर्हसि ।। ८.५६ ।।
अभिजनमहतो मनस्विनः प्रिययशसो बहुमानं इच्छतः ।
निधनं अपि वरं स्थिरात्मनश्च्युतविनयस्य न चैव जीवितं ।। ८.५७ ।।
बद्ध्वा यथा हि कवचं प्रगृहीतचापो निन्द्यो भवत्यपसृतः समराद्रथस्थः ।
भैक्षाकं अभ्युपगतः परिगृह्य लिङ्गं निन्द्यस्तथा भवति कामर्हृतेन्द्रियाश्वः ।। ८.५८ ।।
हास्यो यथा च परमाभरणाम्बरस्रग्भैक्षं चरन्धृतधनुश्चलचित्रमौलिः ।
वैरूप्यं अभ्युपगतः परैण्डभोजी हास्यस्तथा गृहसुखाभिमुखः सतृष्णः ।। ८.५९ ।।
यथा स्वन्नं भुक्त्वा परमश्यनीयेऽपि शयितो वराहो निर्मुक्तः पुनरशुचि धावेत्परिचितं ।
तथा श्रेयः शृण्वन्प्रशमसुखं आस्वाद्य गुणवद्वनं शान्तं हित्वा गृहं अभिलषेत्कामतृषितः ।। ८.६० ।।
यथोल्का हस्तस्था दहति पवनप्रेरितशिखा यथा पादाक्रान्तो दशति भुजगः क्रोधरभसः ।
यथा हन्ति व्याघ्रः शिशुरपि गृहीतो गृहगतः तथा स्त्रीसंसर्गो भुविधं अनर्थाय भवति ।। ८.६१ ।।
तद्विज्ञाय मनःशरीरनियतान्नारिषु दोषानिमान्मत्वा कामसुखं नदीजलचलं क्लेशाय शोकाय च ।
दृष्ट्वा दुर्बलं आमपत्रसदृशं मृत्यूपसृष्टं जगन्निर्मोक्षाय कुरुष्व बुद्धिं अतुलां उत्कण्ठितुं नार्हसि ।। ८.६२ ।।
Sउन्दरनन्दे महाकाव्ये स्त्रीविघातो नामाष्टमः सर्गः ।