पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/27

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
कुमारसम्भवे


मध्ये यथा श्याममुखस्य तस्य
मृणालसूत्रान्तरमप्यलभ्यम् ॥ ४० ॥
शिरीषपुष्पाधिकसौकुमार्यौ
बाहू तदीयाविति मे वितर्कः ।
पराजितेनापि कृतौ हरस्य
यौ कण्ठपाशौ मकरध्वजेन ॥ ४१ ॥
कण्ठस्य तस्याः स्तनबन्धुरस्य
मुक्ताकलापस्य च निस्तलस्य ।

प्रकारेण प्रवृद्धम् । कर्तरि क्तः । श्याममुखस्य कृष्णचूचुकस्येति स्वरुपवर्णनं तस्य स्तनव्दयस्य मध्ये यथा येन प्रकारेण मृणालसूत्रान्तरं बिसतन्तुमात्रावकाशोऽप्यलभ्यं लब्धुमशक्यम् । "अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये" इत्यमरः । अत्र संबन्धेऽसंबन्धरुपातिशयोक्त्यलंकारः । कुचयोः पीवरत्वातिशयार्थमवकाशसंबन्धेऽप्यसंबन्धाभिधानादिति ॥ ४० ॥
     शिरीषेति ॥ तस्या इमौ तदीयौ बाहू शिरीषपुष्पादधिकं सौकुमार्यं मार्दवं ययोस्तथोक्ताविति मे वितर्क ऊहः । कुतः । यौ बाहू परजितंन अपि पूर्वं निर्जितेनापि मकरध्वजेन कामेन हरस्य कण्ठपाशौ कण्ठबन्धनरज्जूकृतौ । कण्ठालिङ्गनं प्रापितावित्यर्थः । तदसाध्यसाधनात्तत आधिक्यमिति भावः । अत्र बाह्वोरारोपितकण्ठपाशत्वस्य प्रकृतवैरनिर्यातनोपयागात्परिणामालंकारः ॥ ४१ ॥
     कण्ठस्येति ॥ स्तनाभ्यां बन्धुरस्योन्नतस्य तस्याः पार्वत्याः


४१ - ४२ क्ष्लोकयोर्मध्येऽयं क्ष्लोकां ट्टश्यते ---
निर्भर्त्सिताशोकदलग्रसूंति पाणिद्वखं चारुनखं तदौयम् ।
नवोदितेन्दुप्रतिमस्य शोभां व्योम्नः प्रदोषे विफलीचकार ॥