पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/17

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
कुमारसम्भवे


तया दुहित्रा सुतरां (६)[१]सविवी
स्फुरत्प्रभामण्डलया चकासे ।
(७)उद्धरणे दोषः : समाप्तिः </ref> <ref> शृङ्खला लुप्ताशब्दा
दुद्भिन्नया रत्नशलाकयेव ॥ २४ ॥
दिने दिने सा परिवर्धमाना
लब्धोदया चान्द्रमसीव लेखा ।
पुपोष लावण्यमयान्विशेषान्
ज्योत्स्नान्तराणौव कलान्तराणि ॥ २५ ॥

       जङ्गमाश्च तेषां हयानामपि शरीरिणां सुखायानन्दाय बभूव ॥ २३ ॥
     तयेति ॥ स्फुरत्प्रभामण्डलया तया दुहित्रा सविवी जनयित्री ॥ "स्वरतिसूतिसूयतिधूञूदितो वा" इतीडागमः । विदूरस्याद्रेः प्रान्तभूमिः विदूरभूमिः । "अविदूरे विदूरस्य गिरेरुत्तुङ्गरोधसः । काकतालीयसीमान्ते मणीनामाकरो भवेत् " इति बुद्धः । नवमेघशब्दादुद्भिन्नया रत्नशलाकया रत्नाङ्कुरेणेव सुतरां चकासे रराज ॥ २४ ॥
     दिन इति ॥ लब्ध उदयो यया सा लब्धोदया । उत्पन्नेत्यर्थः । अभ्युदितेत्वन्यत्र | दिने दिने प्रतिदिनम् । "नित्यवौप्मयो:" इति वीप्सायां द्विरुक्तिः । परिवर्धमाना । उभयत्र ममानमेतत् । सा बाला । चन्द्रमस इयं चान्द्रमसी लेखेव लावण्यमयान् कान्तिविशेषप्रचुरान् । "मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते" इति भूपालः । विशेषानवयवान् । "विशेषांऽवयवे व्यक्तौ" इत्युत्पलमालायाम् || ज्योत्स्नायामन्तरमन्तर्धानं येषां तानि ज्योत्स्नान्तराणि ज्योत्स्नयान्तर्हितानि । तन्मया-


  1. धरित्री