पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/14

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
प्रथमः सर्गः ।


मेनां मुनौनामापि माननीया-
मात्मानुरूपां विधिनोपयेमे ॥ १८ ॥
कालक्रमेणाथ तयोः प्रवृत्ते
स्वरूपयोग्ये सुरतप्रसङ्गे ।
मनोरमं यौवनमुद्वहन्त्या
गर्भोऽभवद्भूधरराजपत्न्याः ॥ १९ ॥
असूत सा नागवधूपभग्यं
मैनाकमम्भोनिधिबद्धसख्यम् ।

स्थितिज्ञो मर्यादाभिज्ञः । अनेन श्रुतसम्पत्तिः सूच्यते । स हिमवान् पितॄणां मानसीं मनःसंकल्पजन्यां मुनीनामपि माननीयाम् । योगिब्रह्मवादाभ्यां पूज्यामित्यर्थः । उक्तं च विष्णुपुराणे-- "तेभ्यः शुभास्पदं जज्ञे मेनका हरिणी तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज" इति । आत्मानुररूपां कुलशीलसौन्दर्यादिभिः सदृशीं मेनां मेनकादेवीति नामवतीं कन्यां कुलस्य स्थितये प्रतिष्ठायै विधिना यथाशास्त्रेणोपयेमे परिणीतवान् । "उपाद्यमः स्वकरणे" इत्यात्मनेपदम् । "तेषां तु मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतो यस्याः पुत्रो मैनाक उच्यते" इति ब्रह्माण्डपुराणात् ।। १८ ।।
     कालक्रमेणेति ।। अथ कालक्रमेण । गच्छता कालेनेत्यर्थः । तयोर्मेनकाहिमवतोः स्वरूपयोग्ये सौन्दर्यानुगुणे । यद्वा रूप्यते निश्चीयतेऽनेनेति रूपं ज्ञानं तद्योग्ये । शास्त्रानुसारिणीत्यर्थः । सुरतप्रसङ्गे सुरतकर्मणि प्रवृत्ते सति मनोरमं यौवनमुद्वहन्त्या भूधरराजपत्न्या मेनकाया गर्भोऽभवत् ।। १९ ।।
     असूतेति । सा मेना नागवधूपभोग्यम् । नागकन्यापरिणेतारमित्यर्थः । अम्भोनिधिना बद्धसख्यं समुद्रकृतमैत्रीकम् । सख्यमूलं सूचयति- पक्षच्छिदि पक्षच्छेत्तरि । "सत्सू