पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/12

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
प्रथमः सर्गः।


दरीगृह(२)[१]द्वारविलम्बिम्बिम्बा
स्तिरस्करिण्यो जलदा भवन्ति ॥ १४ ॥
भागीरथीनिर्झरसीकराणां
वोढा मुहुः कम्पितदेवदारुः ।
यद्वायुरन्विष्टमृगैः किरातै-
रासेव्यते भिन्नशिखण्डिबर्हः ॥ १५ ॥
सप्तर्षिहस्ता(३)[२]वचितावशेषा-
ण्यधो विवस्वान् परिवर्तमानः ।

निका स्यात्तिरस्करिणी च सा" इत्यमरः । "तिरसोऽन्यतरस्याम्" इति सत्वम् । अत्र जलदेष्वारोप्यमाणस्य तिरस्करिणीत्वस्य प्रकृतोपयोगित्वात्परिणामालङ्कारः ॥ १४ ॥
     भागीरथीति । भागीरथीनिर्झरसीकराणां गङ्गाप्रवाहपाथ:कणानाम् । कर्मणि षष्ठी । वोढा प्रापकः । वहेस्तृच् । मुहुः पुनः पुनः सद्यो वा । "पौनःपुन्ये भृशार्थे च सद्यो वा स्यान्मुहुःपदम्" इति वैजयन्ती । कम्पिता देवदारवो येन स तथोक्तः । भिन्नानि विश्लेषितानि शिखण्डिनां बर्हाणि गतिलाघवार्थं किरातकटिबद्धानि येन स तथोक्तः । क्रमाद्विशेषणत्रयेण शैत्यसौरभ्यमान्द्यान्युक्तानि । यस्य हिमाद्रेर्वायुः । अन्विष्टमृगैर्मार्गितमृगैः । श्रान्तैरिति भावः । "अन्विष्टं मार्गितं मृगितम्" इत्यमरः । किरातैरासेव्यते ॥ १५ ॥
     सप्तर्षोति । सप्त च ते ऋषयश्च सप्तर्षयः । "दिक्संख्ये संज्ञायाम्" इति समासः । तेषां हस्तैरवचितेभ्यो लूनेभ्योऽवशेषाण्यवशिष्टानि । "शेषाऽप्रधाने सन्तापे त्रिष्वन्यत्रोपयुज्यते" इति केशवः । कर्मण्यण्प्रत्ययः । अनेन पद्मानां साफल्यं सूचितम् । यस्य हिमाद्रेः | रोहन्तीति रुहाणि ।


  1. हारि
  2. आचरिताव