कुमारसम्भवम्/षोडशः सर्गः
← पञ्चदशः सर्गः | कुमारसम्भवम् षोडशः सर्गः कालिदासः |
सप्तदशः सर्गः → |
अथान्योन्यं विमुक्तास्त्रशस्त्रजालैर्भयंकरैः ।
युद्धमासीत्सुनासीरसुरारिबलयोर्महत् ।। १६.१ ।।
पत्तिः पत्तिमभीयाय रणाय रथिनं रथी ।
तुरङ्गस्थं तुरड्गस्थो दन्तिस्थं दन्तिनि स्थितः ।। १६.२ ।।
युद्धाय धावतां धीरं वीराणामितरेतरम् ।
वैतालिकाः कुलाधीशा नामान्यलमुदाहरन् ।। १६.३ ।।
पठतां वन्दिवृन्दानां प्रवीरा विक्रमावलीम् ।
क्षणं विलम्ब्य चित्तानि ददुर्युद्धोत्सुकाः पुरः ।। १६.४ ।।
सङ्ग्रामानन्दवर्धिष्णौ विग्रहे पुलकाञ्चिते ।
आसीत्कवचविच्छेदो वीराणां मिलतां मिथः ।। १६.५ ।।
निर्दयं खड्गभिन्नेभ्यः कवचेभ्यः समुत्थितैः ।
आसन्ध्योमदिशस्तूलैः पलितैरिव पाण्डुराः ।। १६.६ ।।
खड्गा रुधिरसंलिप्ताश्चण्डांशुकरभासुराः ।
इतस्ततोऽपि वीराणां विद्युतां वैभवं दधुः ।। १६.७ ।।
विसृजन्तो मुखैर्ज्वाला भीमा इव भुजंगमाः ।
विसृष्टाः सुभटै रुष्टैर्व्योम व्यानशिरे शराः ।। १६.८ ।।
बाढं वपूंषि निर्भिद्य धन्विनां निघ्नतां मिथः ।
अशोणितमुखा भूमिं प्राविशन्दूरमाशुगाः ।। १६.९ ।।
निर्भिद्य दन्तिनः पूर्वं पातयामासुराशुगाः ।
पेतुः प्रवरयोधानां प्रीतानामाहवोत्सवे ।। १६.१० ।।
ज्वलदग्निमुखैर्वाणैर्नीरन्ध्रैरितरेतरम् ।
उच्चैर्वैमानिका व्योम्नि कीर्णे दूरमपासरन् ।। १६.११ ।।
विभिन्नं धन्विनां बाणैर्व्यथार्तमिव विह्वलम् ।
ररास विरसं व्योम श्येनप्रतिरवच्छलात् ।। १६.१२ ।।
चापैराकर्णमाकृष्टैर्विमुक्ता दूरमाशुगाः ।
अधाबन्रुधिरास्वादलुब्धा इव रणैषिणाम् ।। १६.१३ ।।
गृहीताः पाणिभिर्वीरैर्विकोशाः खङ्गराजयः ।
कान्तिजालच्छलादाजौ व्यहसन्संमदादिव ।। १६.१४ ।।
खड्गाः शोणितसंदिग्धा नृत्यन्तो वीरपाणिषु ।
रजोघने रणेऽनन्ते विद्युतां वैभवं दधुः ।। १६.१५ ।।
कुन्ताश्चकाशिरे चण्डमुल्लसन्तो रणार्थिनाम् ।
जिह्वाभोगा यमस्येव लेलिहाना रणाङ्गणे ।। १६.१६ ।।
प्रज्वलत्कान्तिचक्राणि चक्राणि वरचक्रिणाम् ।
चण्डांशुमण्डलश्रीणि रणव्योमनि बभ्रमुः ।। १६.१७ ।।
केचिद्धीरैः प्रणादैश्च वीराणामभ्युपेयुषाम् ।
निपेतुः क्षोभतो वाहादपरे मुमुहुर्मदात् ।। १६.१८ ।।
कश्चिदभ्यागते वीरे जिघांसौ मुदमादधौ
परावृत्य गते क्षुब्धे विषसादाहवप्रियः ।। १६.१९ ।।
बहुभिः सह युद्ध्वा वा परिभ्रम्य रणोल्बणाः ।
उद्दिश्य तानुपेयुः केऽपि ये पूर्ववृता रणे ।। १६.२० ।।
अभितोऽभ्यागतान्योद्धुं वीरान्रणमदोद्धतान् ।
प्रत्यनन्दन्भुजादण्डरोमोद्गमभृतो भटाः ।। १६.२१ ।।
शस्त्रभिन्नेभकुम्भेभ्यो मौक्तिकानि च्युतान्यधः ।
अध्याहवक्षेत्रमुप्तकीर्तिबीजाङ्कुरश्रियम् ।। १६.२२ ।।
वीराणां विषमैर्घोषूर्विद्रुता वारणा रणे ।
शास्यमाना अपि त्रासाद्भेजुर्धूताङ्कुशा दिशः १६.२३ ।।
रणे वाणगणैर्भिन्ना भ्रमन्तो भिन्नयोधिनः ।
निममज्जुर्मिलद्रक्तनिम्नगासु महागजाः ।। १६.२४ ।।
अपारेऽसृक्सरित्पूरे रथेषूच्चैस्तरेष्वपि ।
रथिनोऽभिरिपुं क्रुद्धा हुंकृतैर्व्यसृजञ्शरान् ।। १६.२५ ।।
खड्गनिर्लूनमूर्धानो व्यापतन्तोऽपि वाजिनः ।
प्रथमं पातयामासुरसिना दारितानरीन् ।। १६.२६ ।।
वीराणां शस्त्रभिन्नानि शिरांसि निपतन्त्यपि ।
अधावन्दन्तदष्टोष्ठभीमान्यभिरिपुं क्रुधा ।। १६.२७ ।।
शिरांसि वरयोधानामर्धचन्द्रहृतान्यलम् ।
आदधाना भृशं पादैः श्येना व्यानशिरे नभः ।। १६.२८ ।।
क्रोधादभ्यापतद्दन्तिदन्तारुढाः पदातयः ।
अश्वारोहा गजारोहप्राणान्प्रासैरपाहरन् ।। १६.२९ ।।
शस्त्रच्छिन्नगजारोहा विभ्रमन्त इतस्ततः ।
युगान्तवातचलिताः शैला इव गजा बभुः ।। १६.३० ।।
मिलितेषु मिथो योद्धुं दन्तिषु प्रसभं भटाः ।
अगृह्णन्युद्ध्यमानाश्च शस्त्रैः प्राणान्परस्परम् ।। १६.३१ ।।
रुषा मिथो मिलद्दन्तिदन्तसंघर्षजोऽनलः ।
योधाञ्शस्त्रहृतप्राणानदहत्सहसारिभिः ।। १६.३२ ।।
आक्षिप्ता अपि दन्तीन्द्राः कोपनैः पत्तयः परम् ।
तदसूनहरन्खड्गघातैः स्वस्य पुरः प्रभोः ।। १६.३३ ।।
उत्क्षिप्य करिभिर्दूरान्मुक्तानां योधिनां दिवि ।
प्रापि जीवात्मभिर्दिव्या गतिर्वा विग्रहैर्मही ।। १६.३४ ।।
खड्गैर्धवलधारालैर्निहत्य करिणां करान् ।
तैर्भुवापि समं विद्धान्संतोषं न भटा ययुः ।। १६.३५ ।।
आक्षिप्याभिदिवं नीताः पत्तयः करिभिः करः ।
दिव्याङ्गनाभिरादातुं रक्ताभिर्द्रुतमीषिरे ।। १६.३६ ।।
धन्विनस्तुरगारुढा गजारोहाञ्शरैः क्षतान् ।
प्रत्यैच्छन्मूर्च्छितान्भूयो योद्धुमाश्वसतश्चिरम् ।। १६.३७ ।।
क्रुद्धस्य दन्तिनः पत्तिर्जिघृक्षोरसिना करम् ।
निर्भिद्य दन्तमुसलावारुरोह जिघृक्षया ।। १६.३८ ।।
खड्गेन मूलतो हत्वा दन्तिनो रदनद्वयम् ।
प्रातिपक्ष्ये प्रविष्टोऽपि पदातिर्निरगाद्द्रुतम् ।। १६.३९ ।।
करेण करिणा वीरः सुगृहीतोऽपि कोपिना ।
असिनासूञ्जहाराशु तस्यैव स्वयमक्षतः ।। १६.४० ।।
तुरङ्गी तुरगारुढं प्रासेनाहत्य वक्षसि ।
पततस्तस्य नाज्ञासीत्प्रसघातं स्वके हृदि ।। १६.४१ ।।
द्विषा प्रासहृतप्राणो वाजिपृष्ठदृढासनः ।
हस्तोद्धृतमहाप्रासो भुवि जीवन्निवाभ्रमत् ।। १६.४२ ।।
तुरङ्गसादिनं शस्त्रहृतप्राणं मतं भुवि ।
अबद्धोऽपि महावाजी न साश्रुनयनोऽत्यजत् ।। १६.४३ ।।
भल्लेन शितधारेण भिन्नोऽपि रिपुणाश्वगः ।
नामूर्च्छत्कोपतो हन्तुमियेष प्रपतन्नपि ।। १६.४४ ।।
मिथः प्रासाहतौ वाजिच्युतौ भूमिगतौ रुषा ।
शस्त्र्या युयुधतुः कौचित्कोशाकेशि भुजाभुजि ।। १६.४५ ।।
रथिनो रथिभिर्बाणैर्हृतप्राणा दृढासनाः ।
क्षतकार्मुकसंधानाः सप्राणा इव मेनिरे ।। १६.४६ ।।
न रथी रथिनं भूयः प्राहरच्छस्त्रमूर्च्छितम् ।
प्रत्याश्वसन्तमन्विच्छन्नातिष्ठद्युधि लोभतः ।। १६.४७ ।।
अन्योन्यं रथिनौ कौचिद्गतप्राणौ दिवं गतौ ।
एकामप्सरसं प्राप्य युयुधाते वरायुधौ ।। १६.४८ ।।
मिथोऽर्धचन्द्रनिर्लूनमूर्धानौ रथिनौ रुचा ।
खेचरौ भुवि नृत्यन्तौ स्वकबन्धावपश्यताम् ।। १६.४९ ।।
रणाङ्गणे शोणितपङ्कपिच्छिले कथं कथं चिन्ननृतुर्धृतायुधाः ।
नदत्सु तुर्येषु परेतयोषितां गणेषु गायत्सु कबन्धराजयः ।। १६.५० ।।
इति सुररिपुर्वृत्ते युद्धे सुरासुरसैन्ययो
रुधिरसरितां मज्जद्दन्तिव्रजेषु तटेष्वलम् ।
अरुणनयनः क्रोधाद्भीमभ्रमद्भृकुटीमुखः
सपदि ककुभामीशानभ्यागमत्सयुयुत्सया ।। १६.५१ ।।
इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसम्भव-
श्रीसीतारामकविविरचितया संजीविनीसमाख्यया व्याख्यया
समेतः श्रीकालिदासकृतौ कुमारसम्भवे-महाकाव्ये
सुरासुरसैन्यसंग्रामवर्णनं नाम षोडशः सर्गः ।।