गरुडपुराणम्/आचारकाण्डः/अध्यायः ७६

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ७५ गरुडपुराणम्
अध्यायः ७६
वेदव्यासः
आचारकाण्डः, अध्यायः ७७ →

सूत उवाच ॥
हिमवत्युत्तरदेशे वीर्य्यं पतितं सुरद्विषस्तस्य ॥
संप्राप्तमुत्तमानामाकरतां भीष्मरत्नानाम् ॥ 76.1 ॥

शुक्लाः शङ्खाब्जनिभाः स्योनाकसन्निभाः प्रभावन्तः ॥
प्रभवन्ति ततस्तरुणा वज्रनिभा भीष्मपाषाणाः ॥ 76.2 ॥

हेमादिप्रतिबद्धाः शुद्धमपि श्रद्धया विधत्ते यः ॥
भीष्ममणिं ग्रीवादिषु सुसम्पदं स सर्वदा लभते ॥ 76.3 ॥

निरीक्ष्य पलायन्ते यं तमरण्यनिवासिनः समीपेऽपि ॥
द्वीपिवृकशरभकुञ्जरसिंहव्याघ्रादयो हिंस्राः ॥ 76.4 ॥

तसोयत्कलतष्टतरोर्भवति भयं न चास्तीशमुपहसन्ति ॥
भीष्ममणिर्गुणयुक्तो सम्यक्प्राप्ताङ्गुलीकलत्रत्वः ॥ 76.5 ॥

पितॄतर्पणे पितॄणां तृप्तिर्बहुवार्षिकी भवति ॥
शाम्यन्त्यद्भुतान्यपि सर्पाण्डजाखुवृश्चिकविषाणि ॥
सलिलाग्निवैरितस्करभयानि भीमानि नश्यन्ति ॥ 76.6 ॥

शैवलबलाहकाभं पुरुषं पीतप्रभं प्रभाहीनम् ॥
मलिनद्युति च विवर्णं दूरात्परिवर्जयेत्प्राज्ञः ॥ 76.7 ॥

मूल्यं प्रकल्प्यमेषां विबुधवरैर्दैशकालविज्ञानात् ॥
दूरे भूतानां बहु किञ्चिन्निकटप्रसूतानाम् ॥ 76.8 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैदूर्य्यपरीक्षणं नाम षट्सप्ततितमोऽध्यायः ॥ 76 ॥