गरुडपुराणम्/आचारकाण्डः/अध्यायः ७५

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ७४ गरुडपुराणम्
अध्यायः ७५
वेदव्यासः
आचारकाण्डः, अध्यायः ७६ →

                 ॥सूत उवाच ॥
वायुर्नखान्दैत्यपतेर्गृहीत्वा चिक्षेप सत्पद्मवनेषु हृष्टः ॥
ततः प्रसूतं पवनोपपन्नं कर्केतनं पूजयतमं पृथिव्याम् ॥ 75.1 ॥

वर्णेन तद्रुधिरसोममधुप्रकाशमाताम्रपीतदहनोज्ज्वलितं विभाति ॥
नीलं पुनः खलु सितं परुषं विभिन्नं व्याध्यादिदोषकरणेन च तद्विभाति ॥ 75.2 ॥

स्निग्धा विशुद्धाः समरागिणश्च आपीतवर्णा गुरवो विचित्राः ॥
त्रासव्रणव्यालविवर्जिताश्च कर्केतनास्ते परमं पवित्राः ॥ 75.3 ॥

पात्रेण काञ्चनमयेन तु वेष्टयित्वा तप्तं यदा हुतवहे भवति प्रकाशम् ॥
रोगप्रणाशनकरं कलिनाशनं तदायुष्करं कुलकरं च सुखप्रदं च ॥ 75.4 ॥

एवंविधं बहुगुणं मणिमावहन्ति कर्केतनं शुभलङ्कृतये नरा ये ॥
ते पूजिता बहुधना बहुबान्धवाश्च नित्योज्ज्वलाः प्रमुदिता अपिते भवन्ति ॥ 75.5 ॥

एकेऽपनह्य विकृताकुलनीलभासः प्रम्लानरागलुलिताः कलुषा विरूपाः ॥
तेजोऽतिदीप्ति कुलपुष्टिविहीनवर्णाः कर्केतनस्य सदृशं वपुरुद्वहन्ति ॥ 75.6 ॥

कर्केतनं यदि परीक्षितवर्णरूपं प्रत्यग्रभास्वरदिवाकरसुप्रकाशम् ॥
तस्योत्तमस्य मणि शास्त्रविदां महिम्ना तुल्यं तु मूल्यमुदितं तुलितस्य कार्य्यम् ॥ 75.7 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कर्केतनपरीक्षणं नाम पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥