गरुडपुराणम्/आचारकाण्डः/अध्यायः १५

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १४ गरुडपुराणम्
अध्यायः १५
वेदव्यासः
आचारकाण्डः, अध्यायः १६ →

॥रुद्र उवाच ॥
संसारसागराद्धोरान्मुच्यते किं जपन्प्रभो ॥
नरस्तन्मे परं जप्यं कथय त्वं जनार्द्दन ॥ 15.1 ॥
॥हरिरुवाच ॥
परेश्वरं परं ब्रह्म परमात्मानमव्ययम् ॥
[१]विष्णुं नामसहस्त्रेण स्तुवन्मुक्तो भवेन्नरः ॥ 15.2 ॥
यत्पवित्रं परं जप्यं कथयामि वृषध्वज ! ॥
श्रृणुष्वावहितो भूत्वा सर्वपापविनाशनम् ॥ 15.3 ॥
ॐ वासुदेवो महाविष्णुर्वामनो वासवो वसुः ॥
बालचन्द्र निभो बालो बलभद्रो बलाधिपः ॥ 15.4 ॥
बलिबन्धनकृद्वेधा वरेण्यो वेदवित्किविः ॥
वेदकर्त्ता वेदरूपो वेद्यो वेदपरिप्लुतः ॥ 15.5 ॥
वेदाङ्गवेत्ता वेदेशो बलाधारो बलार्दनः ॥
अविकारो वरेशश्च वरुणो वरुणाधिपः ॥ 15.6 ॥
वीरहा च बृहद्वीरो वन्दितः परमेश्वरः ॥
आत्मा च परमात्मा च प्रत्यगात्मा वियत्परः ॥ 15.7 ॥
पद्मनाभः पद्मनिधिः पद्महस्तो गदाधरः ॥
परमः परभूतश्च पुरुषोत्तम ईश्वरः ॥ 15.8 ॥
पद्मजङ्घः पुण्डरीकः पद्ममालाधरः प्रियः ॥
पद्माक्षः पद्मगर्भश्च पर्जन्यः पद्मसंस्थितः ॥ 15.9 ॥
अपारः परमार्थश्च पराणां च परः प्रभुः ॥
पण्डितः पण्डितेड्यश्च पवित्रः पापमर्दकः ॥ 15.10 ॥
शुद्धः प्रकाशरूपश्च पवित्रः परिरक्षकः ॥
पिपासावर्जितः पाद्यः पुरुषः प्रकृतिस्तथाः ॥ 15.11 ॥
प्रधानं पृथिवीपद्मं पद्मनाभः प्रियप्रदः ॥
सर्वेशः सर्वगः सर्वः सर्ववित्सर्वदः सुरः ॥ 15.12 ॥
सर्वस्य जगतो धाम सर्वदर्शो च सर्वभृत् ॥
सर्वानुग्रहकृद्देवः सर्वभूतहृदि स्थितः ॥ 15.13 ॥
सर्वपूज्यश्च सर्वाद्यः सर्वदेवनमस्कृतः ॥
सर्वस्य जगतो मूलं सकलो निष्कलोऽनलः ॥ 15.14 ॥
सर्वगोप्ता सर्वनिष्ठः सर्वकारणकारणम् ॥
सर्वध्येयः सर्वमित्रः सर्वदेस्ववरूपधृक् ॥ 15.15 ॥
सर्वाध्यक्षः सुराऽध्यक्ष सुरासुरनमस्कृतः ॥
दुष्टानां च सुराणां च सर्वदा घातकोऽन्तकः ॥ 15.16 ॥
सत्यपालश्च सन्नाभः सिद्धेशः सिद्धवन्दितः ॥
सिद्धसाध्यः सिद्धसिद्धः साध्यसिद्धो (सिद्धिसिद्ध) हृदीश्वरः ॥ 15.17 ॥
शरणं जगतश्चैव श्रेयः क्षेमस्तथैव च ॥
शुभकृच्छोभनः सौम्यः सत्यः सत्यपराक्रमः ॥ 15.18 ॥
सत्यस्थः सत्यसङ्कल्पः सत्यवित्सत्य (त्प) दस्तथ ॥
धर्मो धर्म्मी च कर्मी च सर्वकर्म्मविवर्जितः ॥ 15.19 ॥
कर्म्मकर्त्ता च कर्मैव क्रिया कार्य्यं तथैव च ॥
श्रीपतिर्नृपतिः श्रीमान्सर्वस्य पतिरूर्जितः ॥ 15.20 ॥
सदेवानां पतिश्चैव वृष्णीनां पतिरीडितः ॥
पतिर्हिरण्यगर्भस्य त्रिपुरान्तपतिस्तथा ॥ 15.21 ॥
पशूनां च पतिः प्रायो वसूनां पतिरेव च ॥
पतिराखण्डलस्यैव वरूणस्य पतिस्तथा ॥ 15.22 ॥
वनस्पतीनां च पतिरनिलस्य पतिस्तथा ॥
अनलस्य पतिश्चैव यमस्य पतिरेव च ॥ 15.23 ॥
कुबेरस्य पतिश्चैव नक्षत्राणां पतिस्तथा ॥
ओषधीनां पतिश्चैव वृक्षाणां च पतिस्तथा ॥ 15.24 ॥
नागानां पतिरर्कस्य दक्षस्य पतिरेव च ॥
सुहृदां च पतिश्चैव नृपाणां च पतिस्तथा ॥ 15.25 ॥
गन्धर्वाणां पतिश्चैव असूनां पतिरुत्तमः ॥
पर्वतानां पतिश्चैव निम्नगानां पतिस्तथा ॥ 15.26 ॥
सुराणां च पतिः श्रेष्ठः कपिलस्य पतिस्तथा ॥
लतानां च पतिश्चैव वीरुधां च पतिस्तथा ॥ 15.27 ॥
मुनीनां च पतिश्चैव सूर्य्यस्य पतिरुत्तमः ॥
पतिश्चन्द्रमसः श्रेष्ठः सुक्रस्य पतिरेव च ॥ 15.28 ॥
ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा ॥
किन्नराणां पतिश्चैव द्विजानां पतिरुत्तमः ॥ 15.29 ॥
सरितां च पतिश्चैव समुद्राणां पतिस्तथा ॥
सरसां च पतिश्चैव भूतानां च पतिस्तथा ॥ 15.30 ॥
वेतालानां पतिश्चैव कूष्माण्डानां पतिस्तथा ॥
पक्षिणां च पतिः श्रेष्ठः पशूनां पतिरेव च ॥ 15.31 ॥
महात्मा मंगलो मेयो मन्दरो मन्दरेश्वरः ॥
मेरुर्माता प्रमाणं च माधवो मलवर्जितः ॥ 15.32 ॥
मालाधरो महादेवो महादेवेन पूजितः ॥
महाशान्तो महाभागो मधुसूदन एव च ॥ 15.33 ॥
महावीर्य्यो महाप्राणो मार्कण्डेयर्षिवन्दितः ॥
मायात्मा मायया बद्धो मायया तु विवर्जितः ॥ 15.34 ॥
मुनिस्तुतो मुनिर्मैत्रो महाना (रा) सो महाहनुः ॥
महाबाहुर्महादान्तो मरणेन विवर्जितः ॥ 15.35 ॥
महावक्त्रो महात्मा च महाकायो महोदरः ॥
महापादो महाग्रीवो महामानी महामनाः ॥ 15.36 ॥
महागतिर्महाकीर्त्तिर्महारूपो महासुरः ॥
मधुश्च माधवश्चैव महादेवो महेश्वरः ॥ 15.37 ॥
मखेज्यो मखरूपी च माननीयो मखेश्वरः ॥
महावातो महाभागो महेशोऽतीतमानुषः ॥ 15.38 ॥
मानवश्च मनुश्चैव मानवानां प्रियंकरः ॥
मृगश्च मृगपूज्यश्च मृगाणां च पतिस्तथा ॥ 15.39 ॥
बुधस्य च पतिश्चैव पतिश्चैव बृहस्पतेः ॥
पतिः शनैश्चरस्यैव राहोः केतोः पतिस्तथा ॥ 15.40 ॥
लक्ष्मणो लक्षणश्चैव लम्बौष्ठो ललितस्तथा ॥
नानालंकारसंयुक्तो नानाचन्दनचर्च्चितः ॥ 15.41 ॥
नानारसोज्जवलद्वक्त्रो नानापुष्पोपशोभितः ॥
रामो रमापतिश्चैव सभार्य्यः परमेश्वरः ॥ 15.42 ॥
रत्नदो रत्नहर्त्ता च रूपी रूपविवर्जितः ॥
महारूपोग्ररूपश्च सौम्यरूपस्तथैव च ॥ 15.43 ॥
नीलमेघनिभः शुद्धः कालमेघनिभस्तथा ॥
धूमवर्णः पतिवर्णो नानारूपो ह्यवर्णकः ॥ 15.44
विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च ॥
सर्ववर्णो महायोगी यज्ञो (याज्यो) यज्ञकृदेव च ॥ 15.45 ॥
सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च सुवर्णावयवश्चैव सुवर्णः स्वर्णमेखलः ॥ 15.46 ॥
सुवर्णस्य प्रदाता च सुवर्णांशस्तथैव च ॥
सुवर्णस्य प्रियश्चैव सुवर्णाढ्यस्तथैव च ॥ 15.47 ॥
सुपर्णी च महापर्णी सुपर्णस्य च कारणम् ॥
वैनतेयस्तथादित्य आदिरादिकरः शिवः ॥ 15.48 ॥
कारणं महतश्चैव प्रधानस्य च कारणम् ॥
बुद्धीनां कारणं चैव कारणं मनसस्तथा ॥ 15.49 ॥
कारणं चैतसश्चैव अहंकारस्य कारणम् ॥
भूतानां कारणं तद्वत्कारणं च विभावसोः ॥ 15.50 ॥
आकाशकारणं तद्वत्पृथिव्याः कारणं परम् ॥
अण्डस्य कारणं चैव प्रकृतेः कारणं तथा ॥ 15.51 ॥
देहस्य कारणं चैव चक्षुषश्चैव कारणम् ॥
श्रोत्रस्य कारणं तद्वत्कारणं च त्वचस्तथा ॥ 15.52 ॥
जिह्वायाः कारणं चैव प्राणस्यैव च कारणम् ॥
हस्तयोः कारणं तद्वत्पादयोः कारणं तथा ॥ 15.53 ॥
वाचश्चकारणं तद्वत्पायोश्चैव तु कारणम् ॥
इन्द्रस्य कारणं चैव कुबेरस्य च कारणम् ॥ 15.54 ॥
यमस्य कारणं चैव ईशानस्य च कारणम् ॥
यक्षाणां कारणं चैव रक्षसां कारणं परम् ॥ 15.55 ॥
नृपाणां कारणं श्रेष्ठं धर्म्‌मस्यैव तु कारणम् ॥
जन्तूनां कारणं चैव वसूनां कारणं परम् ॥ 15.56 ॥
मनूनां कारणं चैव पक्षिणां कारणं परम् ॥
मुनीनां कारणं श्रेष्ठ योगिनां कारणं परम् ॥ 15.57 ॥
सिद्धानां कारणं चैव यक्षाणां कारणं परम् ॥
कारणं किन्नराणां च गन्धर्वाणां च कारणम् ॥ 15.58 ॥
नदानां कारणं चैव नदीनां कारणं परम् ॥
कारणं च समुद्राणां वृक्षाणां कारणं तथा ॥ 15.59 ॥
कारणं वीरुधां चैव लोकानां कारणं तथा ॥
पाताल कारणं चैव देवानां कारणं तथा ॥ 15.60 ॥
सर्पाणां कारणं चैव श्रेयसां कारणं तथा ॥
पशूनां कारणं चैव सर्वेषां कारणं तथा ॥ 15.61 ॥
देहात्मा चेन्द्रियात्मा च आत्मा बुद्धिस्तथैव च ॥
मनसश्च तथैवात्मा चात्माहंकारचेतसः ॥ 15.62 ॥
जाग्रतः स्वपतश्चात्मा महदात्मा परस्तथा ॥
प्रधानस्य परात्मा च आकाशात्मा ह्यपां तथा ॥ 15.63 ॥
पृथिव्याः परमात्मा च रसस्यात्मा तथैव च ॥
गन्धस्य परमात्मा च रूपस्यात्मा परस्तथा ॥ 15.64 ॥
शब्दात्मा चैव वागात्मा स्पर्शात्मा पुरुषस्तथा ॥
श्रोत्रात्मा च त्वगात्मा च जिह्वायाः परमस्तथा ॥ 15.65 ॥
घ्राणात्मा चैव हस्तात्मा पादात्मा परमस्तथा ॥
उपस्थस्य तथैवात्मा पाय्वात्मा परमस्तथा ॥ 15.66 ॥
इन्द्रात्मा चैव ब्रह्मात्मा रुद्रा(शान्ता)त्मा च मनोस्तथा ॥
दक्षप्रजापतेरात्मा सत्या (स्त्रष्टा)त्मा परमस्तथा ॥ 15.67 ॥
ईशात्मा परमात्मा च रौद्रात्मा मोक्षविद्यतिः ॥
यत्नवांश्च तथा यत्नश्चर्म्मो खड्गीसुरान्तकः ॥ 15.68 ॥
ह्रीप्रवर्त्तनशीलश्च यतीनां च हिते रतः ॥
यतिरूपी च योगी च योगिध्येयो हरिः शितिः ॥ 15.69 ॥
संविन्मेधा च कालश्च उष्मा वर्षा म(न) तिस्तथा ॥
संवत्सरो मोक्षकरो मोहप्रध्वंसकस्तथा ॥ 15.70 ॥
मोहकर्त्ता च दुष्टानां माण्डव्यो वडवामुखः ॥
संवर्त्तकः कालकर्त्ता च गौतमो भृगुरंगिराः ॥ 15.71 ॥
अत्रिर्वसिष्ठः पुलहः पुलस्त्यः कुत्स एव च ।
याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशरः ॥ 15.72 ॥
शर्म्मदश्चैव गांगेयो हृषीकेशो बृहच्छ्रवाः ॥
केशवः क्लेशहन्ता च सुकर्णः कर्णवर्जितः ॥ 15.73 ॥
नारायणो महाभागः प्राणस्य पतिरेव च ॥
अपानस्य पतिश्चैव व्यानस्य पतिरेव च ॥ 15.74 ॥
उदानस्य पतिः श्रेष्ठः समानस्य पतिस्तथा ॥
शब्दस्य च पतिः श्रेष्ठः स्पर्शस्य पतिरेव च ॥ 15.75 ॥
रूपाणां च पतिश्चाद्यः खङ्गपाणिर्हलायुधः ॥
चक्रपाणिः कुण्डली च श्रीवत्सांकस्तथैव च ॥ 15.76 ॥
प्रकृतिः कौस्तुभग्रीवः पीताम्बरधरस्तथा ॥
सुमुखो दुर्मुखश्चैव नखेन तु विवर्जितः ॥ 15.77 ॥
अनन्तोऽनन्तरूपश्च सुनखः सुरसुन्दरः ॥
सुकलापो विभुर्जिष्णुर्भ्राजिष्णुश्चैषुधीस्तथा ॥ 15.78 ॥
हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दकः ॥
निहन्ता पूतनायाश्च भास्करान्तविनाशनः ॥ 15.79 ॥
केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः ॥
कंसदानवभेत्ता च चाणूरस्य प्रमर्दकः ॥ 15.80 ॥
अरिष्टस्य निहंता च अक्रूरप्रिय एव च ॥
अक्रूरः क्रूररूपश्च अक्रूरप्रियवन्दितः ॥ 15.81 ॥
भगहा भगवान् भानुस्तथा भागवतः स्वयम् ॥
उद्धवश्चोद्धवस्येशो ह्युद्धेवन विचिन्तितः ॥ 15.82 ॥
चक्रधृक् चञ्चलश्चैव चलाचलविवर्जितः ॥
अहं कारोपमाश्चित्तं गगनं पृथिवी जलम् ॥ 15.83 ॥
वायुश्चक्षुस्तथा श्रोत्रं जिह्वा च घ्राणमेव च ॥
वाक्पाणिपादजवनः पायूपस्थस्तथैव च ॥ 15.84 ॥
शंकरश्चैव सर्वश्च क्षान्तिदः क्षान्तिकृन्नरः ॥
भक्तप्रियस्तता भर्त्ता भक्तिमान् भक्तिवर्द्धनः ॥ 15.85 ॥
भक्तस्तुतो भक्तपरः कीर्त्तिदः कीर्त्तिवर्द्धनः ॥
कीर्त्तिर्दीप्तिः क्षमाकांतिर्भक्तश्चैव दया परा ॥ 15.86 ॥
दानं दाता च कर्त्ता च देवदेवप्रियः शुचिः ॥
शुचिमान्सुखदो मोक्षः कामश्चार्थः सहस्त्रपात् ॥ 15.87 ॥
सहस्त्रशीर्षा वैद्यश्च मोक्षद्वारं तथैव च ॥
प्रजाद्वारं सहस्त्राक्षः सहस्त्रकर एव च ॥ 15.88 ॥
शुक्रश्च सुकिरीटी च सुग्रीवः कौस्तुभस्तथा ॥
प्रद्युम्नश्चानिरुद्धश्च हयग्रीवश्च शूकरः ॥ 15.89 ॥
मत्स्यः परशुरामश्च प्रह्रादो बलिरेवच ॥
शरण्यश्चैव नित्यश्च बुद्धो मुक्तः शरीरभृत् ॥ 15.90 ॥
खरदूषणहन्ता च रावणस्य प्रमर्दनः ॥
सीतापतिश्च वर्द्धिष्णुर्भरतश्च तथैव च ॥ 15.91 ॥
कुम्भेंद्रजिन्निहन्ता च कुम्भकर्णप्रमर्दनः ॥
नरांतकांतकश्चैव देवांतकविनाशनः ॥ 15.92 ॥
दुष्टासुरनिहंता च शम्बरारिस्तथैव च ॥
नरकस्य निहन्ता च त्रिशीर्षस्य विनाशनः ॥ 15.93 ॥
यमलार्जनभेत्ता च तपोहितकरस्तथा ॥
वादित्रं चैव वाद्यं च बुद्धश्चैव वरप्रदः ॥ 15.94 ॥
सारः सारप्रियः सौरः कालहन्तानिकृन्तनः ॥
अगस्त्यो देवलश्चैव नारदो नारदप्रियः ॥ 15.95 ॥
प्राणोऽपानस्तथा व्यानो रजः सत्त्वं तमः शरत् ॥
उदानश्च समानश्च भेषजं च भिषक् तथा ॥ 15.96 ॥
कूटस्थः स्वच्छरूपश्च सर्वदेहविवर्जितः ॥
चक्षुरिन्द्रियहीनश्च वागिंद्रियविवर्जितः ॥ 15.97 ॥
हस्तेंद्रियविहीनश्च पादाभ्यां च विवर्जितः ॥
पायूपस्थविहीनश्च महातपविवर्जितः ॥ 15.98 ॥
प्रबोधेन विहीनश्च बुद्ध्या चैव विवर्जितः ॥
चेतसा विगतश्चैव प्राणेन च विवर्जितः ॥ 15.99 ॥
अपानेन विहीनश्च व्यानेन च विवर्जितः ॥
उदानेन विहीनश्च समानेन विवर्जितः ॥ 15.100 ॥
आकाशेन विहीनश्च वायुना परिवर्जितः ॥
अग्निना च विहीनश्च उदकेन विवर्जितः ॥ 15.101 ॥
पृथिव्या च विहीनश्च शब्देन च विवर्जितः ॥
स्पर्शेन च विहीनश्च सर्वरूपविवर्जितः ॥ 15.102 ॥
रागेण विगतश्चैव अघेन परिवर्जितः ॥
शोकेन रहितश्चैव वचसा परिवर्जितः ॥ 15.103 ॥
रजो विवर्जितश्चैव विकारैः षड्‌भिरेव च ॥
कामेन वर्जितश्चैव क्रोधेन परिवर्जितः ॥ 15.104 ॥
लोभेन विगतश्चैव दम्भेन च विवर्जितः ॥
सूक्ष्मश्चैव सुसूक्ष्मश्च स्थूलात्स्थूलतरस्तथा ॥ 15.105 ॥
विशारदो बलाध्यक्षः सर्वस्य क्षोभकस्तथा ॥
प्रकृतेः क्षोभकश्चैव महतः क्षोभकस्तथा ॥ 15.106 ॥
भूतानां क्षोभकश्चैव बुद्धेश्च क्षोमकस्तथा ॥
इन्द्रियाणां क्षोभकश्च विषयक्षोभकस्तथा ॥ 15.107 ॥
ब्रह्मणः क्षोभकश्चैव रुद्रस्य क्षोभकस्तथा ॥
अगम्यश्चक्षुरादेश्च श्रोत्रागम्यस्तथैव च ॥ 15.108 ॥
त्वचा न गम्यः कूर्म्मश्च जिह्वाऽग्राह्यस्तथैव च ॥
घ्राणोन्द्रियागम्य एव वाचाऽग्राह्यस्तथैव च ॥ 15.109 ॥
अगम्यश्चैव पाणिभ्यां पदागम्यस्तथैव च ॥
अग्राह्यो मनसश्चैव बुद्ध्याऽग्राह्यो हरिस्तथा ॥ 15.110 ॥
अहं बुद्ध्या तथा ग्राह्यश्चेतसा ग्राह्या एव च ॥
शंखपाणिश्चाव्ययश्च गदापाणिस्तथैव च ॥ 15.111 ॥
शार्ङ्गपाणिश्च कृष्णश्च ज्ञानमूर्त्तिः परन्तपः ॥
तपस्वी ज्ञानगम्यो हि ज्ञानी ज्ञानविदेव च ॥ 15.112 ॥
ज्ञेयश्च ज्ञेयहीनश्च ज्ञप्तिश्चैतन्यरूपकः ॥
भावो भाव्यो भवकरो भावनो भवनाशनः ॥ 15.113 ॥
गोविन्दो गोपतिर्गोपः सर्वगोपीसुखप्रदः ॥
गोपालो गोगतिश्चैव गोमतिर्गोधरस्तथा ॥ 15.114 ॥
उपेन्द्रश्च नृसिंहश्च शौरिश्चैव जनार्दनः ॥
आरणेयो बृहद्भानुर्बृहद्दीप्तिस्तथैव च ॥ 15.115 ॥
दामोदरस्त्रिकालश्च कालज्ञः कालवर्जितः ॥
त्रिसन्ध्यो द्वापरं त्रेता प्रजाद्वारं त्रिविक्रमः ॥ 15.116 ॥
विक्रमो दण्ड(र) हस्तश्च ह्येकदण्डी त्रिदण्डधृक् ॥
सामभेदस्तथोपायः सामरूपी च सामगः ॥ 15.117 ॥
सामवेदोः ह्यथर्वश्च सुकृतः सुतरूपणः ॥
अथर्ववेदविच्चैव ह्यथर्वाचार्य्य एव च ॥ 15.118 ॥
ऋग्रूपी चैव ऋग्वेद ऋग्वेदेषु प्रतिष्ठितः ॥
यजुर्वेत्ता यजुर्वेदो यजुर्वेदविदेकपात् ॥ 15.119 ॥
बहुपाच्च सुपाच्चैव तथैव च सहस्त्रपात् ॥
चतुष्पाच्च द्विपाच्चैव स्मृतिर्न्यायो यमो बली ॥ 15.120 ॥
सन्न्यासी चैव सन्नयासश्चतुराश्रम एव च ॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ॥ 15.121 ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वर्णस्तथैव च ॥
शीलदः शीलसम्पन्नो दुः शीलपरिवर्जितः ॥ 15.122 ॥
मोक्षोऽध्यात्मसमाविष्टः स्तुतिः स्तोता च पूजकः ॥
पूज्यो वाक् करणं चैव वाच्यं चैव तु वाचकः ॥ 15.123 ॥
वेत्ता व्याकरणं चैव वाक्यं चैव च वाक्यवित् ॥
वाक्यगम्यस्तीर्थवासी तीर्थस्तीर्थो च तीर्थवित् ॥ 15.124 ॥
तीर्थादिभूतः सांख्यश्च निरुक्तं त्वधिदैवतम् ॥
प्रणवः प्रणवेशश्च प्रणवेन प्रवन्दितः ॥ 15.125 ॥
प्रणवेन च लक्ष्यो वै गायत्री च गदाधरः ॥
शालग्रामनिवासी च शालग्रामस्तथैव च ॥ 15.126 ॥
जलशायी योगशायी शेषशायी कुशेशयः ॥
महीभर्त्ता च कार्य्यं च कारणं पृथिवीधरः ॥ 15.127 ॥
प्रजापतिः शाश्वतश्च काम्यः कामयिता विराट् ॥
सम्राट् पूषा तथा स्वर्गो रथस्थः सारथिर्बलम् ॥ 15.128 ॥
धनी धनप्रदो धन्यो यादवानां हिते रतः ॥
अर्जुनस्य प्रियश्चैव ह्यर्जुनो भीम एव च ॥ 15.129 ॥
पराक्रमो दुर्विषहः सर्वशास्त्रविशारदः ॥
सारस्वतो महाभीष्मः पारिजातहरस्तथा ॥ 15.130 ॥
अमृतस्य प्रदाता च क्षीरोदः क्षीरमेव च ॥
इन्द्रात्मजस्तस्य गोप्ता गोवर्द्धनधरस्तथा ॥ 15.131 ॥
कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः ॥
शिपिविष्टः प्रसन्नश्च सर्वलोकार्त्तिनाशनः ॥ 15.132 ॥
मुद्रो मुद्रा करश्चैव सर्वमुद्राविवर्जितः ॥
देही देहस्थितश्चैव देहस्य च नियामकः ॥ 15.133 ॥
श्रोत्रा श्रोत्रनियन्ता च श्रोतव्यः श्रवणं तथा ॥
त्वक्‌स्थितश्च स्पर्शयित्वा स्पृश्यं च स्पर्शनं तथा ॥ 15.134 ॥
रूपद्रष्टा च चक्षुः स्थो नियन्ता चक्षुषस्तथा ॥
दृश्यं चैवतु जिह्वास्थो रसज्ञश्च नियामकः ॥ 15.135 ॥
घ्राणस्थो घ्राणकृद्‌ घ्राता घ्राणेन्द्रियनियामकः ॥
वाक्‌स्थो वक्ता च वक्तव्यो वचनं वाङ्‌नियामकः ॥ 15.136 ॥
प्राणिस्थः शिल्प कृच्छिल्पो हस्तयोश्च नियामकः ॥
पदव्यश्चैव गन्ता च गन्तव्यं गमनं तथा ॥ 15.137 ॥
नियन्ता पादयोश्चैव पाद्यभाक्च विसर्गकृत् ॥
विसर्गस्य नियन्ता च ह्युपस्थस्थः सुखं तथा ॥ 15.138 ॥
उपस्थस्य नियंता च तदानन्दकरश्च ह ॥
शत्रुघ्नः कार्त्तवीर्य्यश्च दत्तात्रेयस्तथैव च ॥ 15.139 ॥
अलर्कस्य हितश्चैव कार्त्तवीर्य्यनिकृन्तनः ॥
कालनेमिर्महानेमिर्मेघो मेघपतिस्तथा ॥ 15.140 ॥
अन्नप्रदोऽन्नरूपी च ह्यन्नादोऽन्नप्रवर्तकः ॥
धूमकृद्धूमरूपश्च देवकीपुत्र उत्तमः ॥ 15.141 ॥
देवक्यानन्दनो नन्दो रोहिण्याः प्रिय एव च ॥
वसुदेवप्रियश्चैव वसुदेवसुतस्तथा ॥ 15.142 ॥
दुन्दुभिर्हासरूपश्च पुष्पहासस्तथैव च ॥
अट्टहासप्रियश्चैव सर्वाध्यक्षः क्षरोऽक्षरः ॥ 15.143 ॥
अच्युतश्चैव सत्येशः सत्यायाश्च प्रियो वरः ॥
रुक्मिण्याश्च पतिश्चैव रुक्मिण्या वल्लभस्तथा ॥ 15.144 ॥
गोपीनां वल्लभश्चैव पुण्यश्लोकश्च विश्रुतः ॥
वृषाकपिर्यमो गुह्यो मङ्गलश्च बुधस्तथा ॥ 15.145 ॥
राहुः केतुर्ग्रहो ग्राहो गजेन्द्रमुखमेलकः ॥
ग्राहस्य विनिहन्ता च ग्रामणी रक्षकस्तथा ॥ 15.146 ॥
किन्नरश्चैव सिद्धश्च छन्दः स्वच्छन्द एव च ॥
विश्वरूपो विशालाक्षो दैत्यसूदन एव च ॥ 15.147 ॥
अनन्तरूपो भूतस्थो देवदानवसंस्थितः ॥
सुषुप्तिस्थः सुषुप्तिश्च स्थानं स्थानान्त एव च ॥ 15.148 ॥
जगत्स्थश्चैव जागर्त्ता स्थानं जागरितं तथा ॥
स्वप्रस्थः स्वप्रवित्स्वप्नस्थानं स्वप्नस्तथैव च ॥ 15.149 ॥
जाग्रत्स्वप्नसुषुप्तैश्च विहीनो वै चतुर्थकः ॥
विज्ञानं वेद्यरूपं च जीवो जीवयिता तथा ॥ 15.150 ॥
भुवनाधिपतिश्चैव भुवनानां नियामकः ॥
पातालवासी पातालं सर्वज्वरविनाशनः ॥ 15.151 ॥
परमानन्दरूपी च धर्म्माणां च प्रवर्त्तकः ॥
सुलभो दुर्लभश्चैव प्राणायामपरस्तथा ॥ 15.152 ॥
प्रत्याहारो धारकश्च प्रत्याहारकरस्तथा ॥
प्रभा कान्तिस्तथा ह्यर्च्चिः शुद्धस्फटिकसन्निभः ॥ 15.153 ॥
अग्राहश्चैव गौरश्च सर्वः शुचिरभिष्टुतः ॥
वषट्‌कारो वषड्‌ वौषट् स्वधा स्वाहा रतिस्तथा ॥ 15.154 ॥
पक्ता नन्दयिता भोक्ता बोद्धा भावयिता तथा ॥
ज्ञानात्मा चैव देहात्मा भू(उ) मा सर्वेश्वरेश्वरः ॥ 15.155 ॥
नदी नन्दी च नन्दीशो भारतस्तरुनाशनः ॥
चक्रपः श्रीपतिश्चैव नृपाणां चक्रवर्त्तिनाम् ॥ 15.156 ॥
ईशश्च सर्वदेवानां द्वारकासंस्थितस्तथा ॥
पुष्करः पुष्कराध्यक्षः पुष्करद्वीप एव च ॥ 15.157 ॥
भरतो जनको जन्यः सर्वाकारवि वर्जितः ॥
निराकारो निर्निमित्तो निरातंको निराश्रयः ॥ 15.158 ॥
इति नामसहस्त्रं ते वृषभध्वज कीर्त्तितम् ॥
देवस्य विष्णोरीशस्य सर्वपापविनाशनम् ॥ 15.159 ॥
पठन्द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात् ॥
वैश्यो धनं सुखं शूद्रो विष्णुभक्तिसमन्वितः ॥ 15.160 ॥
॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीविष्णुसहस्त्रनामस्तोत्रनिरूपणं नाम पंचदशोऽध्यायः ॥ 15 ॥

  1. विष्णु उपरि टिप्पणी