याज्ञवल्क्यस्मृतिः/आचाराध्यायः/गणपतिकल्पप्रकरणम्
← श्राद्धप्रकरणम् | याज्ञवल्क्यस्मृतिः गणपतिकल्पप्रकरणम् याज्ञवल्क्यः |
ग्रहशान्तिप्रकरणम् → |
विनायकः कर्मविघ्न सिद्ध्यर्थं विनियोजितः । |
तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत । |
काषायवाससश्चैव क्रव्यादांश्चाधिरोहति । |
व्रजन्नपि तथात्मानं मन्यतेऽनुगतं परैः । |
तेनोपसृष्टो लभते न राज्यं राजनन्दनः । |
आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा । |
स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् । |
सर्वाउषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा । |
अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्ह्रदात् । |
या आहृता ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात् । |
सहस्राक्षं शतधारं ऋषिभिः पावनं कृतम् । |
भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः । |
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि । |
स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु । |
मितश्च सम्मितश्चैव तथा शालकटङ्कटौ । |
नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः । |
कृताकृतांस्तण्डुलांश्च पललौदनं एव च । |
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधां अपि । |
दध्यन्नं पायसं चैव गुडपिष्टं समोदकम् । |
विनायकस्य जननीं उपतिष्ठेत्ततोऽम्बिकाम् । |
रूपं देहि यशो देहि भगं भवति देहि मे । |
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः । |
एवं विनायकं पूज्य ग्रहांश्चैव विधानतः । |
आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा । |