याज्ञवल्क्यस्मृतिः/आचाराध्यायः/श्राद्धप्रकरणम्
← दानप्रकरणम् | याज्ञवल्क्यस्मृतिः श्राद्धप्रकरणम् याज्ञवल्क्यः |
गणपतिकल्पप्रकरणम् → |
अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । |
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । |
अग्र्यः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा । |
स्वस्रीयर्त्विज्जामातृ याज्यश्वशुरमातुलाः । |
कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निर्ब्रह्मचारिणः । |
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा । |
भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः । |
मातापितृगुरुत्यागी कुण्डाशी वृषलात्मजः । |
निमन्त्रयेत पूर्वेद्युर्ब्राह्मणानात्मवान्शुचिः । |
अपराह्णे समभ्यर्च्य स्वागतेनागतांस्तु तान् । |
युग्मान्दैवे यथाशक्ति पित्र्येऽयुग्मांस्तथैव च । |
द्वौ दैवे प्राक्त्रयः पित्र्य उदगेकैकं एव वा । |
पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि । |
यवैरन्ववकीर्याथ भाजने सपवित्रके । |
या दिव्या इति मन्त्रेण हस्तेष्वर्घ्यं विनिक्षिपेत् । |
तथाच्छादनदानं च करशौचार्थं अम्बु च । |
द्विगुणांस्तु कुशान्दत्त्वा ह्युषन्तस्त्वेत्यृचा पितॄन् । |
अपहता इति तिलान्विकीर्य च समन्ततः । |
दत्त्वा अर्घ्यं संस्रवांस्तेषां पात्रे कृत्वा विधानतः । |
अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् । |
हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः । |
दत्त्वान्नं पृथिवीपात्रं इति पात्राभिमन्त्रणम् । |
सव्याहृतिकां गायत्रीं मधु वाता इति त्र्यृचम् । |
अन्नं इष्तं हविष्यं च दद्यादक्रोधनोऽत्वरः । |
अन्नं आदाय तृप्ताः स्थ शेषं चैवानुमान्य च । |
सर्वं अन्नं उपादाय सतिलं दक्षिणामुखः । |
मातामहानां अप्येवं दद्यादाचमनं ततः । |
दत्त्वा तु दक्षिणां शक्त्या स्वधाकारं उदाहरेत् । |
ब्रूयुरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलम् । |
दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च । |
इत्युक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् । |
यस्मिंस्तु संस्रवाः पूर्वं अर्घ्यपात्रे निवेशिताः । |
प्रदक्षिणं अनुव्रज्य भुञ्जीत पितृसेवितम् । |
एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान्पितॄन् । |
एकोद्दिष्टं देवहीनं एकार्घ्यैकपवित्रकम् । |
उपतिष्ठतां अक्षय्य स्थाने विप्रविसर्जने । |
गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् । |
ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् । |
अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् । |
मृतेऽहनि प्रकर्तव्यं प्रतिमासं तु वत्सरम् । |
पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा । |
हविष्यान्नेन वै मासं पायसेन तु वत्सरम् । |
ऐणरौरववाराह शाशैर्मांसैर्यथाक्रमम् । |
खड्दामिषं महाशल्कं मधु मुन्यन्नं एव वा । |
यद्ददाति गयास्थश्च सर्वं आनन्त्यं अश्नुते । |
कन्यां कन्यावेदिनश्च पशून्वै सत्सुतानपि । |
ब्रह्मवर्चस्विनः पुत्रान्स्वर्णरूप्ये सकुप्यके । |
प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् । |
स्वर्गं ह्यपत्यं ओजश्च शौर्यं क्षेत्रं बलं तथा । |
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि । |
धनं वेदान्भिषक्सिद्धिं कुप्यं गा अप्यजाविकम् । |
कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान् । |
वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । |
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । |