कालिकापुराणम्/अध्यायः ४१

विकिस्रोतः तः

कालिकापुराणम् एकचत्वारिंशोऽध्यायः नारदागमनम्
अथ श्रीकालिका पुराण अध्याय ४१
।। ऋषयः ऊचुः ।।
कथं गिरिसुता काली बभूव जगतां प्रसूः ।
दाक्षायणी त्यक्ततनुः कथमाप हरं पतिम् ।। १ ।।
कथमर्धशरीरं सा जहार च पिनाकिनः ।
एतन्नः पृच्छतां सम्यक् कथयस्व महामते ॥२॥
।। मार्कण्डेय उवाच ।।
शृणुध्वं मुनिशार्दूलाः यथा दाक्षायणी सती ।
भूता गिरिसुता पूर्वं यथार्धमहरत्तनुम् ।।३।।
यदाऽत्यजत्तनुं देवी पूर्वं दाक्षायणी सती ।
तदैव मनसागच्छन् मेनकां हिमवद्गिरिम् ॥४॥
यदा हरेण सहिता दक्षकन्या हिमाचले ।
चिक्रीड च तदा तस्या मेनकाऽभूद् हितैषिणी ॥५॥
तस्याः सुतास्यामिति च आधाय मनसि द्विजाः ।
त्यक्तप्राणा तदा देवी भूता हिमवतः सुता ।। ६ ।।
यदा दाक्षायणी प्राणान् दक्षकोपाज्जहौ पुरा ।
तदैव मेनका देवी आरिराधयिषुः शिवाम् ।।७।।
महामायां जगद्धात्रीं योगनिद्रां सनातनीम् ।
मोहिनी सर्वभूतानां शरणं सर्वनाकिनाम् ॥८॥
मेनका कृताराधन
अष्टम्यामुपवासं तु कृत्वा सा नवमीतिथौ ।
मोदकैर्बलिभिः पिष्टैः पायसैर्गन्धपुष्पकैः ।। ९।।
चैत्रे मासि समारभ्य सप्तविंशतिवत्सरान् ।
यावत् सम्पूजयामास पुत्रार्थिन्यन्वहं शुचिः ।। १० ।।
गङ्गायामोषधिप्रस्थे कृत्वा मूर्तिं महीमयीम् ।
कदाचित् सा निराहारा कदाचित् सा धृतव्रता ।। ११ ।।
शिवाविन्यस्तमनसा सप्तविंशतिवत्सरान् ।
निनाय मेनका देवी परमां भूतिमिच्छती ।।१२।।
सप्तविंशतिवर्षान्ते जगन्माता जगन्मयी ।
सुप्रीताऽभवदत्यर्थं प्राह प्रत्यक्षतां गता ।। १३ ।।
।। देव्युवाच ।।
यत् प्रार्थितं त्वया देवि मत्तस्तत्प्रार्थयाधुना ।
दास्ये तवाहं तत्सर्वं वाञ्छितं यद् हृदा भवेत् ।। १४ ।।
।। मार्कण्डेय बोले ।।
ततः सा मेनका देवी प्रत्यक्षं कालिकां गताम् ।
दृष्ट्वैव प्रणनामाथ वचनं चेदमब्रवीत् ।। १५ ।।
।। मेनकोवाच ।।
देवी प्रत्यक्षतो रूपं तव दृष्टं मयाऽधुना ।
त्वामहं स्तोतुमिच्छामि प्रसन्ना यदि मे शिवे ।। १६ ।।
।। मार्कण्डेय उवाच ।।
ततः सा मातरित्युक्त्वा कालिका सर्वमोहिनी ।
बाहुभ्यां चारुवृत्ताभ्यां मेनकां परिषस्वजे ।।१७।।
ततः सा मेनका देवी कालिकां परमेश्वरीम् ।
तुष्टाव वाग्भिरिष्टाभिः शिवां प्रत्यक्षतः स्थिताम् ।। १८ ।।
।। मेनकोवाच ।।
प्रेरयन्तीं जगद्धाम चण्डिकां लोकधारिणीम् ।
प्रणमामि जगद्धात्रीं सर्वकामार्थसाधिनीम् ।। १९ ।।
नित्यानन्दां ज्ञानमयीं योगनिद्रां जगत्प्रसूम् ।
प्रणमामि शिवां शुद्धां विधिशौरिशिवात्मिकाम् ।। २० ।।
मायामयीं महामायां भक्तशोकविनाशिनीम् ।
कामस्यवनितां भद्रां त्वां चितिं शिवाम् ।। २१ ।।
सत्त्वोद्रेकाद् या भवित्रीह नित्या नित्या चापि प्राणिनां बुद्धिरूपा ।
सा त्वं बन्धच्छेदहेतुर्यतीनां कस्ते गद्यो मादृशीभिः प्रभावः ।। २२।।
या त्वं साम्नां सिद्धिरुक्तिस्तथार्चा या वृत्तिर्या यजुषां दीर्घरूपा ।
हिंसाचैवाथर्ववेदस्य सा त्वं नित्यं कामं त्वं ममेष्टं विधेहि ॥२३॥
नित्यानित्यैर्भागहीनैः पुरस्थै: स्तन्मात्रैयैर्यत्यते भूतवर्ग: ।
तेषां शक्तिस्त्वं सदा नित्यरूपा का ते योषा योग्यं वक्तुं समर्था ।। २४ ।।
क्षितिर्धरित्री जगतां त्वमेव त्वमेव नित्या प्रकृतिस्वरूपा ।
यया वशः क्रियते ब्रह्मरूपः सा त्वं नित्या मे प्रसीदास्तु मातः ।। २५ ।।
त्वं जातवेदोगतशक्तिरूपा त्वं दाहिका सूर्यकरस्य शक्तिः ।
आह्लादिका त्वं बहु चन्द्रिकायास्तां त्वामहं स्तौमि नमामि चाम्बिकाम् ।। २६ ।।
योषा योषित्प्रियाणां त्वं विद्या त्वं चोर्ध्वरेतसाम् ।
वाञ्छा त्वं सर्वजगतां माया च त्वं तथा हरेः ।। २७ ।।
याऽनेकरूपाणि विधाय नित्यं सृष्टिं स्थितिं हानिमपीह कर्त्री ।
ब्रह्माच्युतस्थाणुशरीरहेतुः सा त्वं प्रसीदाद्य पुनर्नमस्ते ।। २८ ।।
।। मार्कण्डेय उवाच ।।
ततः सा जगतां माता कालिका पुनरेव हि ।
उवाच मेनकां देवीं वाञ्छितं वरयेत्युत ।। २९ ।।
ततः सा प्रथमं पुत्रशतं वने यशस्विनी ।
वीर्यवञ्चायुषायुक्तमृद्धिसिद्धिसमन्वितम् ।।३० ।।
पश्चात् तथैकां तनयां सुरूषां गुणशालिनीम् ।
कुलद्वयानन्दकरीं भुवनत्रयदुर्लभाम् ।। ३१ ।।
ततो भगवती प्राह मेनकां मुनिसन्निभाम् ।
स्मितपूर्वं तदा तस्याः पूरयन्ती मनोरथम् ।।३२।।
।। देव्युवाच ।।
शतं पुत्राः सम्भवन्तु भवत्या वीर्यसंयुताः ।
तत्रैको बलवान्मुख्यः प्रथमं सम्भविष्यति ।। ३३ ।।
सुता च तव देवानां मानुषाणां च रक्षसाम् ।
हिताय सर्वजगतां भविष्याम्यहमेव ते ।। ३४ ।।
त्वं सुखप्रसवा नित्यं तथा नित्यं पतिव्रता ।
अम्लाना रूपसम्पन्ना सुभगा च भविष्यसि ।। ३५ ।।
।। मार्कण्डेय उवाच ।।
एवमुक्ता जगद्धात्री तत्रैवान्तरधीयत ।
मेनका च मुदं लब्धा स्वस्थानं प्रविवेश ह ।। ३६ ।।
ततः काले तु सम्प्राप्ते मैनाकमचलोत्तमम् ।
पक्षेण सह योऽद्यापि सिन्धुमध्ये प्रवर्तते ।
मेनका सुषुवे देवी देवेन्द्रं स्पर्धयागतम् । । ३७।।
अन्यानूनशतं पुत्रान् क्रमात् सा सुषुवे सती ।
महावीर्यान् महासत्त्वान् सम्पन्नान् सर्वतो गुणैः ।। ३८ ।।
ततः सा कालिका देवी योगनिद्रा जगन्मयी ।
पूर्वत्यक्तसतीरूपा जन्मार्थं मेनकां ययौ ।। ३९ ।।
समयस्यानुरूपेण मेनका जठरे शिवा ।
समुद्धृय समुत्पन्ना सा लक्ष्मीरिव सागरात् ।।४०।।
॥ पार्वती - जन्म ।
वसन्तसमये देवी नवम्यामृक्षयोगतः ।
अर्धरात्रे समुत्पन्ना गङ्गेव शशिमण्डलात् ।। ४१ ।।
ततस्तस्यां तु जातायां प्रसन्ना अभवन् दिशः ।। ४२ ।।
अनुकूलो ववौ वायुर्गम्भीरो गन्धवाञ् शुभः ।
बभूव पुष्पवृष्टिश्च तोयवृष्टिस्तथापरा ।। ४३ ।।
जज्वलुश्चाग्नयः शान्ता जगर्जुश्च घनाघनम् ।
तस्यां तु जातमात्रायां सर्वं स्वास्थ्यमपद्यत ।। ४४ ।।
तां तु दृष्ट्वा तथा जातां नीलोत्पलदलानुगाम् ।
श्यामां सा मेनका देवी मुदमापातिहर्षिता ।। ४५ ।।
देवाश्च हर्षमतुलं प्रापुस्तत्र मुहुर्मुहुः ।
तुष्टुवुश्चान्तरिक्षस्था गन्धर्वाप्सरसां गणाः ।।४६ ॥
तां तु नीलोत्पलदलश्यामां हिमवतः सुताम् ।
कालीति नाम्ना हिमवानाजुहाव कृतोदने ।। ४७ ।।
बान्धवैस्तु समस्तैस्तन्नाम्ना सा पार्वतीति च ।
कालिकेति तथा नाम्ना कीर्तिता गिरिनन्दिनी ॥४८॥
ततः सा ववृधे देवी गिरिराजगृहे शुभा ।
गङ्गेव वर्षासमये शरदीवाथ चन्द्रिका ।।४९।।
एधमानानुदिवसं चार्वङ्गी चारुतां मुहुः ।
दध्रे सानुदिनं काली चन्द्रबिम्बं कलामिव ।। ५० ।।
सा बालभावमापन्ना क्रीडन्ती कालिका मुदम् ।
सखीभिः प्राप विपुलां कालिन्दीव सरिद् व्रजैः ।। ५१ ।।
षड्गुणास्तां स्वयं देवी पूर्वजन्मवशीकृताः ।
स्वयमीयुर्द्विजश्रेष्ठाः प्रावृषं कालिका यथा ।। ५२।।
अतिचक्राम स्वगुणैः सा देवी देवकन्यकाः ।
रूपैरप्सरसः सर्वा गीतैर्गन्धर्व कन्यकाः ।। ५३ ।।
सा बाल्य एव सततं बन्धुवर्गप्रिया शुभा ।
गुणैः स्वबन्धून् पितरं मातरं चाप्यतोषयत् ।। ५४ ।।
मातुः स्तुतिकरी नित्यं पितृपूजनतत्परा ।
सर्वदा भ्रातृसहिता जगन्माताऽभवत्तदा ।। ५५ ।।
सर्वदा सा जगन्माता कन्या सा समुपस्थिता ।
पितुः समीपे वसति कालिन्दीव विभावसोः ।। ५६ ।।
अथैकदा तां निकटे निधाय हिमवद्गिरिः ।
तनयैः सह सङ्गम्य स्थितः परमकौतुकात् ।।५७।।
अथागतस्तत्र मुनिर्नारदो देवलोकतः ।
हिमवन्तं सुखासीनं सुतैः सार्धं ददर्श सः ।। ५८ ।।
अपश्यन्निकटे कालीं कालिकामिव सूर्यतः ।
ज्योत्स्नामिव सुधांशोस्तु सम्यग्वृद्धा शरन्निशि ।। ५९ ।।
पूजितस्तेन गिरिणा कृतासन - परिग्रहः ।
नारदः प्रथमं शैलं वृत्तान्तं पर्यपृच्छत ।। ६० ।।
ततो विदितवृत्तान्तो नारदो मेनकां प्रति ।
उवाच हर्षयन् वाक्यं मुनिर्वाक्यविशारदः ।। ६१ ।।
।। नारद उवाच ।।
एषा ते तनया रुच्या शुद्धांशोरिव वर्धिता ।
आद्या कला शैलराज सर्वलक्षणशालिनी ।।६२।।
शम्भोर्भवित्री दयिता सानुकूला सदा हरे ।
तस्य चित्तं वशे चैषा करिष्यति तपस्विनी ।।६३॥
स चाप्येनामृ जायां नान्यामुद्वाहयिष्यति ।
एतयोर्यादृशः प्रेम कयोश्चिन्नैव तादृशः ।। ६४ ।।
भूतो वा भविता वापि नाधुना च प्रवर्तते ।
अनया सुरकार्याणि कर्तव्यानि बहूनि च ।। ६५ ।।
अनयैव गिरिश्रेष्ठ अर्धनारीश्वरो हरः ।
भविष्यति च सौहार्दोज्योत्स्नयैवामृतात्मनः ।। ६६ ।।
शरीरार्ध हरस्यैषा करिष्यति निजास्पदे ।
स्वर्णगौरी सुवर्णाभा तपसा तोषिते हरे ।। ६७ ।।
विद्युद्गौरी त्वियं काली तव पुत्री भविष्यति ।
गौरीति नाम्ना पश्चात्तु ख्यातिमेषा गमिष्यति ।। ६८ ।।
नान्यस्मै त्वमिमां दातुं मनः कर्तुमिहार्हसि ।
इदं चोपांशु देवानां न प्रकाशं करिष्यसि ।। ६९ ।।
।। मार्कण्डेय उवाच ।।
इति तस्य वचः श्रुत्वा देवर्षेर्नारदस्य च ।
उवाच हिमवान् वाक्यं मुनिं प्रति विशारदः ।।७० ।।
।। हिमवान् उवाच ।।
श्रूयते त्यक्तसङ्गः स महादेवो यतात्मवान् ।
तपश्चोपांशु तपति देवानामप्यगोचरः ।।७१ ।।
स कथं ध्यानमार्गस्थः परब्रह्मार्पितं मनः ।
प्रभ्रंषिष्यति देवर्षे तत्र मे संशयो महान् ।। ७२ ।।
अक्षरं परमं ब्रह्म प्रदीपकलिकोपमम् ।
सोऽन्तः पश्यति सर्वत्र न तु बाह्यं निरीक्षते ।। ७३ ।।
इति स्म श्रूयते नित्यं किन्नराणां मुखाद् द्विज ।
स कथं तादृशं स्वान्तं शक्तो भ्रंशयितुं हरः ॥७४ ॥
विशेषतः श्रूयते स्म दाक्षायण्या समं हरः ।
समयं ज्ञातवान् पूर्वं तन्मे निगदतः शृणु ।। ७५ ।।
त्वामृतेऽन्यां न वनितां दाक्षायणि सति प्रिये ।
भार्यार्थ संग्रहीष्यामि सत्यमेतद् ब्रवीमि ते ।। ७६ ।।
इति सत्या समं तेन पुरैव समयः कृतः ।
तस्यां मृतायां स कथं स्त्रियमन्यां ग्रहीष्यति ।।७७ ॥
।। नारदोवाच ।।
नात्र कार्या त्वया चिन्ता गिरिराज भवत्सुता ।
एषा सती समुत्पन्ना हरायैव न संशयः ।।७८ ।।
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा स तु देवर्षिर्नारदस्तु यथा सती ।
मेनकायां समुत्पन्ना सर्वं तत् प्रोक्तवान् गिरौ ।।७९।।
तत्सर्वं पूर्ववृत्तान्तं नारदस्य मुखाद् गिरिः ।
श्रुत्वा सपुत्रदार: स तदा निःसंशयोऽभवत् ॥८०॥
ततः काली कथां श्रुत्वा नारदस्य मुखात् तदा ।
लज्जया धोमुखी भूत्वा स्मितविस्तारितानना ।। ८१ ।।
करेण तां तु संगृह्य प्रोन्नमय्य मुखं गिरिः ।
मूर्ध्नि सम्यगुपाघ्राय स्वासने संन्यवेशयत् ।।८२।।
ततस्तां पुनरेवाह नारदः शैलपुत्रिकाम् ।
हर्षयन् गिरिराजं तु मेनकां तनयैः सह ।। ८३ ।।
।। नारद उवाच ।।
सिंहासनेन किं स्वस्याः शैलराज भवेत् तव ।
शम्भोरुरु: सदैवास्या आसनं तु भविष्यति ।। ८४ ।।
हरोरुमासनं प्राप्य तनया तव संततम् ।
नान्यत्र कुत्रचित्तुष्टिमासने प्राप्यते गिरे ।।८५।।
।। मार्कण्डेय उवाच ।।
इति वचनमुदारं नारदः शैलराजं त्रिदिवमगमदुक्त्वा तत्क्षणाद् देवयानैः ।
गिरिपतिरपि चिन्ताहर्षसन्मोहयुक्तः प्रविशदचलयासौ स्वान्तरं पद्मगर्भम् ।।८६ ।।
॥ इति श्रीकालिकापुराणे नारदागमने एकचत्वारिंशोऽध्यायः ॥४१॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand