कालिकापुराणम्/अध्यायः ३३

विकिस्रोतः तः

कालिकापुराणम् त्रयस्त्रिंशोऽध्यायः अकालप्रलय कथनम्
अथ कालिका पुराण अध्याय ३३
।। मार्कण्डेय उवाच ।।
तं तथा पीवरतनुं दृष्टा मात्स्यं मनुः स्वयम् ।
गृहीत्वा पाणिना फुल्लनलिनीं सरसीं ययौ ।। १ ।।
तत्सरस्तत्र विपुलं पुण्ये नारायणाश्रमे ।
एकयोजनविस्तीर्णं सार्धयोजनमायतम् ।
नानामीनगणोपेतं शीतामलजलोत्करम् ।।२।।
तदासाद्य सरो मत्स्यं विनिधाय मनुस्तदा ।
पालयामास सुतवत् कृपया परया युतः ।।३।।
सोऽचिरेणैव कालेन पीनो वैसारिणोऽभवत् ।
न ममौ तत्र सरसि बृहत्त्वात् द्विजसत्तमाः ।। ४।।
स एकदा महामत्स्यः पूर्वापरतरद्वये ।।५।।
शिरः पुच्छे निधायाशु तुङ्गदेहः समुच्छ्रितः ।
स्वायम्भुवं महात्मानं चुक्रोश त्राहि मामिति ।। ६ ।।
तं तथा च मनुर्ज्ञात्वा क्रोशन्तं स्थूलपुच्छकम् ।
आससाद तदा मत्स्यं जग्राह च करेण तम् ।।७।।
न शक्नोम्यहमुद्धर्तुं पृथरोमाणमद्भुतम् ।
इति संचिन्तयन्नेव प्रोद्दधार करेण तम् ।।८।।
भगवानपि विश्वात्मा मत्स्यरूपी जनार्दनः ।
स्वायम्भुवकरं प्राप्य लघिमानमुपाश्रयत् ।।९।।
ततः कराभ्यामुद्धृत्य स्कन्धे कृत्वा द्रुतं मनुः ।
निनाय सागरं तत्र तोये च निदधे ततः ।। १० ।।
यथेच्छमत्र वर्धस्व न कोऽपि त्वां वधिष्यति ।
अचिरेणैव सम्पूर्णदेहं त्वं समवाप्नुहि ।।११।।
इत्युक्त्वा स महाभागः सर्वप्राणभृतां वरः ।
लघुत्वं चिन्तयंस्तस्य विस्मयं परमं गतः ।। १२ ।।
मत्स्योsपि नचिरादेव पूर्णकायस्तदा महान् ।
सर्वतः पूरयामास देहाभोगेन सागरम् ।।१३।
तं पूर्णकायमालोक्य व्यतीत्याम्भः समुच्छ्रितम् ।
शिलाभिर्निचितं स्फीतं मानसाचलसंनिभम् ।। १४ ।।
रुन्धन्तं सागरं सर्वं देहाभोगाचलीकृतम् ।
स्वायम्भुवो मनुर्धीमान् मेने मात्स्यं न तं तदा ।। १५ ।।
ततः पप्रच्छ तं साम्ना मत्स्यं स्वाय्भुवो मनुः ।
विचिन्त्य लघिमानं च पश्यन् मूर्तिं तदाद्भुतम् ।। १६ ।।
।। मनुरुवाच ।।
न त्वां मत्स्यमहं मन्ये कस्त्वं मे वद सत्तम ।
महत्वं लघिमानं चिन्तयन् सुमहत्तर ।। १७ ।।
त्वं ब्रह्माप्यथवा विष्णुः शम्भुर्वा मीनरूपधृक् ।
न चेद्गुह्य महाभाग तन्मे वद महामते ।। १८ ।।
।। मत्स्य उवाच ।।
आराध्योऽहं त्वयानित्यं यो हरिः सः सनातनः ।
तवेष्टकामसिद्ध्यर्थं प्रादुर्भूतः समाहितः ।। १९।।
यत् त्वमिच्छसि भूतेश मत्तस्त्वं मीनमूर्तितः ।
तत् करिष्येऽद्य तां मूर्तिमिमां विद्धि मनो मम ।। २० ।।
।। मार्कण्डेय उवाच ।।
इति तस्य वचः श्रुत्वा विष्णोरमिततेजसः ।
ज्ञात्वा प्रत्यक्षतो विष्णुं मनुस्तुष्टाव केशवम् ।। २१ ।।
।। मनुरुवाच ।।
नमस्ते जगदव्यक्तपरापरपते हरे ।
पावकादित्यशीतांशु नेत्रत्रयधराव्यय ।। २२।।
जगत्कारण सर्वज्ञ जगद्धाम हरे पर ।
परापरात्मरूपात्मन् पारिणां पारकारण ।। २३ ।।
आत्मानमात्मना धृत्वा धरारूपधरो हरे ।
विभर्षि सकलान् लोकानाधारात्मंस्त्रिविक्रम ।। २४ ।।
सर्ववेदमय श्रेष्ठ धामधारणकारण ।
सुरौधपरमेशान नारायण सुरेश्वर ।। २५ ।।
अयोनिस्त्वं जगद्योनिरपादस्त्वं सदागतिः ।
त्वं तेज: स्पर्शहीनश्च सर्वेशस्त्वमनीश्वर ।। २६ ।।
त्वमनादिः समस्तादिस्त्वं नित्यानन्तरोऽन्तरः ।
यद्वैममण्डं जगतां बीजं ब्रह्माण्डसंज्ञितम् ।। २७ ।।
तद्वीजं भवतस्तेजस्त्वयोक्तं सलिलेषु च ।
सर्वाधारो निराधारो निर्हेतुः सर्वकारणम् ।। २८ ।।
नमो नमस्ते विश्वेश लोकानां प्रभव प्रभो ।
सृष्टिस्थित्यन्तहेतुस्त्वं विधिविष्णुहरात्मधृक् ।। २९ ।।
यस्य ते दशधा मूर्तिरूर्मिषट्कादिवर्जिता ।
ज्योतिः पतिस्त्वमम्भोधिस्तस्मै तुभ्यं नमो नमः ।। ३० ।।
कस्ते भावं वक्तुमीशः परेश स्थूलात्स्थूलो योऽरूपोर्थवर्गात् ।
तस्मै नित्यं मे नमोऽस्त्वद्य योऽभूदादित्यवर्णं तमसः परस्तात् ।। ३१ ।।
सहस्रशीर्षा पुरुष: सहस्रपात् सहस्रचक्षुः पृथिवीं समन्ततः ।
दशाङ्गुलं यो हि समत्यतिष्ठत् स मे प्रसीदत्विह विष्णुरुग्र: ।। ३२ ।।
नमस्ते मीनमूर्ते हे नमस्ते भगवन् हरे ।
नमस्ते जगदानन्द नमस्ते भक्तवत्सल ।।३३।।
।। मार्कण्डेय उवाच ।।
स्वायम्भुवेन मनुना संस्तुतो मत्स्यरूपधृक् ।
वासुदेवस्तदा प्राह मेघगम्भीरनिःस्वनः ॥३४॥
।। श्रीभगवानुवाच ।।
तुष्टोऽस्मि तपसा तेऽद्य भक्त्या चापि स्तुतो मुहुः ।
सपर्यया च दानेन वरं वरय सुव्रत ।। ३५।।
इष्टार्थं सम्प्रदास्यामि तुभ्यं नात्र विचारणा ।
वरयस्वेप्सितान् कामान् लोकानां वा हितं च यत् ।। ३६ ।।
।। मनुरुवाच ।।
यदि देयो वरोमेऽद्य लोकानां यो हितो भवेत् ।
तन्मे देहि वरं विष्णो तं वक्ष्यामि शृणुष्व मे ।। ३७ ।।
शशाप कपिल: पूर्वं मदर्थे भुवनत्रयम् ।
हतप्रहतविध्वस्तं सकलं ते भवेदिति ।।३८।।
येनेयमुद्धृता पृथ्वी येनेयं प्रतिपालिता ।
संहरिष्यति यस्त्वेनां तेऽधुना प्लावयन्त्विमाम् ।। ३९ ।।
ततोऽहं दीनहृदयस्त्वामेव शरणं गतः ।
न यथेदं त्रिभुवनं भविष्यति जलप्लुतम् ।
हतप्रहतविध्वस्तं तथा त्वं देहि मे वरम् ।।४०।।
।। श्रीभगवानुवाच ।।
न मत्तः कपिलो भिन्नस्तथा न कपिलादहम् ।
यदुक्तं तेन मुनिना मयोक्तं विद्धि तन्मनो ।। ४१ ।।
तस्माद् यदुदितं तेन तत्सत्यं नान्यथा भवेत् ।
करिष्ये तत्र साहाय्यं स्वायम्भुव निबोध तत् ।। ४२ ।।
हतप्रहतविध्वस्ते तोयमग्ने जगत्त्रये ।
श्यामलेनाथ शृङ्गेण त्वं मां ज्ञास्यसि वै तदा ।। ४३ ।।
यावज्जलप्लवस्तावद्यथा कार्यं त्वया मनो ।
तन्मे निगदतः पथ्यं शृणुष्वावहितोऽधुना ।। ४४ ।।
सर्वयज्ञियकाष्ठौघैरेका नौका विधीयताम् ।
तामहं द्रढ़यिष्यामि यथा नो भिद्यते जलैः ।।४५।।
दशयोजनविस्तीर्णां त्रिंशद्योजनमायताम् ।
धारिणीं सर्वबीजानां भुवनत्रयवर्धिनीम् ।। ४६ ।।
सर्वयज्ञियवृक्षाणां भूरिवल्वलतन्तुभिः ।
नवयोजन दीर्घां तु व्यामत्रय- सुविस्तृताम् ।। ४७ ।।
कुरुष्व त्वं मनो तूर्णं बृहतीमीरिकां वटीम् ।
जगद्धात्री जगन्माया लोकमाता जगन्मयी ।
द्रढयिष्यति तां रज्जुं न त्रुट्त्यति यथा तथा ।।४८ ।।
सर्वाणि बीजान्यादाय सवेदान् सप्त वै ऋषीन् ।
तस्यां नावि निषण्णस्त्वं वर्तमाने जलप्लवे ।
दक्षेण सह संगम्य स्मरिष्यसि मनो मम ।। ४९ ।।
स्मृतोऽहं तूर्णमायास्ये भवतो निकटं प्रति ।
श्यामलेनाथ शृङ्गेण त्वं मां ज्ञास्यसि वै तदा ।। ५० ।।
यावत् प्रहतविध्वस्त- हतं स्याद्भुवनत्रयम् ।
तावत् पृष्ठेन तां नावं वोढाहं नात्र संशयः ।। ५१ ।।
जलप्लुते तु सम्पूर्णे शृङ्गे मम च तां तरीम् ।
त्वं तदा वटीरिकया सन्धानिष्यसि वै दृढम् ।।५२।।
बद्धायां नावि मे शृङ्गे देवमानेन वत्सरान् ।
सहस्रं प्रेरयिष्यामि तां नावं शोषयन् जलम् ।।५३।।
ततः शुष्केषु तोयेषु प्रोत्तुङ्गे शिखरे गिरेः ।
हिमाचलस्य बद्वाहं तस्मिन्नावमहं मनो ।। ५४ ।।
अहमाराधितो येन जप्येन भवता मनो ।
सर्वसिद्धिर्भवेत्तस्य यस्तोषयति तेन माम् ।। ५५ ।।
।। मार्कण्डेय उवाच ।।
इति दत्वा वरं तस्मै मत्स्यस्तेन नमस्कृतः ।
अन्तर्दधे जगन्नाथो लोकानुग्रहकारकः ।।५६।।
स्वायम्भुवोऽपि भगवानन्तर्धानं गते हरौ ।
यथोक्तं हरिणा पूर्वं नावं रज्जुं तथाकरोत् ।।५७ ।।
सर्वयज्ञियवृक्षौघा छित्वा स्वायम्भुवस्तदा ।
उद्धृत्य कारयामास वास्यादिभिरसौ तरिम् ।। ५८ ।।
तेषां वल्कसमुद्भूतसूत्रसङ्घैर्वटीरिकाम् ।
पूर्वोक्तेन प्रमाणेन कारयामास वै मनुः ।। ५९ ।।
ततः कालेन महता वृत्तं युद्धं महाद्भुतम् ।
विष्णोर्यज्ञवराहस्य शरभस्य हरस्य च ।। ६० ।।
ततो जलप्लवे जाते विध्वस्ते भुवनत्रये ।
तथा रज्ज्वा तरिं बध्वा बीजान्यादाय सर्वशः ।। ६१ ।।
वेदानृषींस्तदा सप्तदशञ्चादाय वै मनुः ।
तस्यां नावि समाधाय तोयमग्रे चराचरे ।
स्वायम्भुवस्तदा मत्स्यं हरिं सस्मार नौगतः ।।६२।।
ततो जलानामुपरि सशृङ्ग इव पर्वतः ।। ६३ ।।
उदितश्चैकशृङ्गेण विष्णुर्मत्स्यस्वरूपधृक् ।
आगतस्तत्र नचिराद्यत्रास्ते तरिणा मनुः ।। ६४ ।।
तरिमारुह्य विपुले तोयराशौ भयङ्करे ।
यावच्चलाचलं तोयं तावत् पृष्ठे तरिं न्यधात् ।। ६५ ।।
जले प्रकृतिमापन्ने शृङ्गे बध्वा वटीरिकाम् ।
तां नावं नोदयामास सहस्रं दैववत्सरान् ।।६६।।
स्वं नावं च अवष्टभ्य दधार परमेश्वरः ।
योगनिद्रा जगद्धात्री समासीदतद्वटीरिकाम् ।।६७।।
ततः शनैः शनैस्तोये शोषं गच्छति वै चिरात् ।
पश्चिमं हिमवच्छङ्ग सुमग्नं तोयमध्यतः ।। ६८ ।।
द्वे सहस्त्रे योजनानामुच्छ्रितस्य हिमप्रभोः ।
पञ्चाशत्तु सहस्राणि शृङ्गं तत्तस्य चोच्छ्रितम् ।। ६९ ।।
तस्मिन् शृङ्गे ततो नावं बध्वा मत्स्यात्मधृग् हरिः ।
जगाम शोषणायाशु जलानां जगतां पतिः ।।७० ।।
एवं हि मत्स्यरूपेण वेदास्त्राताश्च शार्ङ्गिणा ।। ७१ ।।
।। मार्कण्डेय उवाच ।।
कपिलस्य तु शापेन कृत आकालिको लयः ।।७२।।
अकालिकोऽयं प्रलयो यतो भगवता कृतः ।
इति वः कथितं सर्वं यथावद् द्विजसत्तमाः ।।७३।।
।। इति श्रीकालिकापुराणे अकालप्रलयकथने त्रयस्त्रिंशोऽध्यायः ।।३३।।
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand