विष्णुस्मृतिः/अशीतितमोऽध्यायः
दिखावट
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैः शाकैः श्यामाकैः प्रियङ्गुभिर्नीवारैर्मुद्गैर्गोधूमैश्च मासं प्रीयन्ते । । ८०.१ । ।
द्वौ मासौ मत्स्यमांसेन । । ८०.२ । ।
त्रीन्हारिणेन । । ८०.३ । ।
चतुरश्चौरभ्रेण । । ८०.४ । ।
पञ्च शाकुनेन । । ८०.५ । ।
षट्छागेन । । ८०.६ । ।
सप्त रौरवेण । । ८०.७ । ।
अष्टौ पार्षतेन । । ८०.८ । ।
नव गावयेन । । ८०.९ । ।
दश माहिषेण । । ८०.१० । ।
एकादश तूपरेणाजेन । । ८०.११ । ।
संवत्सरं गव्येन पयसा तद्विकारैर्वा । । ८०.१२ । ।
अत्र पितृगीता गाथा भवति । । ८०.१३ । ।
कालशाकं महाशल्कं मांसं वार्ध्रीणसस्य च ।
विषाणवर्ज्या ये खड्गा आसूर्यं तांस्तु भुङ्क्ष्महे । । ८०.१४ । ।