बृहस्पतिस्मृतिः/दण्डपारुष्यम्
पीठिका
[सम्पाद्यताम्]हस्तपाषाणलगुडैर्भस्मकर्दमपांसुभिः ।
आयुधैश्च प्रहरणैर्दण्डपारुष्यं उच्यते ।। १,२१.१ ।।
वाक्पारुष्ये कृते यस्य यथा दण्डो विधीयते ।
तस्यैव द्विगुणं दण्डं कारयेन्मरणादृते ।। १,२१.२ ।।
द्वयोः प्रहरतोर्दण्डः समयोस्तु समः स्मृतः ।
आरम्भकोऽनुबन्धी च दाप्यः स्यादधिकं दमम् ।। १,२१.३ ।।
पूर्वाक्रुष्टः समाक्रोशंस्ताडितः प्रतिताडयन् ।
हत्वाततायिनं चैव नापराधी भवेन्नरः ।। १,२१.४ ।।
वाक्पारुष्यादिना नीचो यः सन्तं अभिलङ्घयेत् ।
स एव ताडयंस्तस्य नान्वेष्टव्यो महीभुजा ।। १,२१.५ ।।
प्रथमदण्डपारुष्यम्
[सम्पाद्यताम्]भस्मादीनां प्रक्षिपणं ताडनं च करादिना ।
प्रथमं दण्डपारुष्यं दमः कार्योऽत्र माषिकः ।। १,२१.६ ।।
एष दण्डः समेषूक्तः परस्त्रीष्वधिकेषु च ।
द्विगुणस्त्रिगुणो ज्ञेयः प्राधान्यापेक्षया बुद्धैः ।। १,२१.७ ।।
उद्यतेऽश्मशिलाकाष्ठे कर्तव्यः प्रथमो दमः ।
परस्परं हस्तपादे दशविंशतिकस्तथा ।। १,२१.८ ।।
मध्यमम्
[सम्पाद्यताम्]मध्यमः शस्त्रसंधाने संयोज्यः क्षुब्धयोर्द्वयोः ।
कार्यः कृतानुरूपस्तु लग्ने घाते दमो बुधैः ।। १,२१.९ ।।
इष्टकोपलकाष्ठैश्च ताडने तु द्विमाषिकः ।
द्विगुणः शोणितोद्भेदे दण्डः कार्यो मनीषिभिः ।। १,२१.१० ।।
त्वग्भेदे प्रथमो दण्डो मांसभेदे तु मध्यमः ।
=उत्तमम्
[सम्पाद्यताम्]उत्तमस्त्वस्थिभेदे स्याद्धातेन तु प्रमापणम् ।। १,२१.११ ।।
कर्णनासाकरच्छेदे दन्तभङ्गेऽस्थिभेदने ।
कर्तव्यो मध्यमो दण्डो द्विगुणः पतितेषु तु ।। १,२१.१२ ।।
कर्णौष्ठघ्राणपादाक्षि जिह्वाशिश्नकरस्य च ।
छेदने चोत्तमो दण्डो भेदने मध्यमो गुरुः ।। १,२१.१३ ।।
दण्डस्त्वभिहितायैव दण्डपारुष्यकल्पितः ।
हृते तद्द्विगुणं चान्यद् राजदण्डस्ततोऽधिकः ।। १,२१.१४ ।।
अङ्गावभेदने चैव पीडने छेदने तथा ।
समुत्थानव्ययं दाप्यः कलहापहृतं च यत् ।। १,२१.१५ ।।
विविक्ते ताडितो यस्तु हतो दृश्येत वा भवेत् ।
हन्ता तदनुमानेन विज्ञेयः शपथेन वा ।। १,२१.१६ ।।
अन्तर्वेश्मन्यरण्ये वा निशायां यत्र ताडितः ।
शोणितं तत्र दृश्येत न पृच्छेत्तत्र साक्षिणः ।। १,२१.१७ ।।
कश्चित्कृत्वात्मनश्चिह्नं द्वेषात्परं अभिद्रवेत् ।
हेत्वर्थं अतिसामर्थ्यैस्तत्र युक्तं परीक्षणम् ।। १,२१.१८ ।।
आक्रुष्टस्तु समाक्रोशंस्ताडितः प्रतिताडयन् ।
हत्वापराधिनं चैव नापराधी भवेन्नरः ।। १,२१.१९ ।।
प्रातिलोम्यास्तथा चान्त्याः पुरुषाणां मलाः स्मृताः ।
ब्राह्मणातिक्रमे वध्या न दातव्या धनं क्वचित् ।। १,२१.२० ।।
श्रान्तान्क्षुधार्तान्तृषितानकाले वाहयेत्तु यः ।
स गोघ्नो निष्कृतिं कार्यो दाप्यो वाप्यथवा दमम् ।। १,२१.२१ ।।
समुत्थानव्ययं दाप्यः कलहाय कृतं च यत् ।
येनाङ्गेन द्विजातीनां शूद्रः प्रहरते रुषा ।
छेत्तव्यं तद्भवेत्तस्य मनुना समुदाहृतम् ।। १,२१.२२ ।।