बृहस्पतिस्मृतिः/भुक्तिः
पीठिका
[सम्पाद्यताम्]
धनमूलाः क्रियाः सर्वा यत्नास्तत्साधने मताः । |
धनप्रभेदाः
[सम्पाद्यताम्]
तत्पुनस्त्रिविधं ज्ञेयं शुक्लं शबलं एव च । |
श्रुतशौर्यतपः कन्या शिष्ययाज्यान्वयागतम् । |
कुसीदकृषिवाणिज्य शुल्कशिल्पानुवृत्तिभिः । |
पाशकद्यूतदूतार्थ प्रतिरूपकसाहसैः । |
तेन क्रयो विक्रयश्च दानं ग्रहणं एव च । |
यथाविधेन द्रव्येण यत्किञ् चित्कुरुते नरः । |
तत्पुनर्द्वादशविधं प्रतिवर्णाश्रयं स्मृतम् । |
क्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया । |
वैशेषिकं धनं ज्ञेयं ब्राह्मणस्य त्रिलक्षणं [पृष्ठ ७१] । |
त्रिविधं क्षत्रियस्यापि प्राहुर्वैशेषिकं धनम् । |
वैशेषिकं धनं ज्ञेयं वैश्यस्यापि त्रिलक्षणम् । |
सर्वेषां एव वर्णानां एवं धर्म्यो धनागमः । |
आपत्स्वनन्तरावृत्तिर्ब्राह्मणस्य विधीयते । |
कथं चन न कुर्वीत ब्राह्मणः कर्म वार्षलम् । |
उत्कृष्टं चापकृष्टं तयोः कर्म न विद्यते । |
आपदं ब्राह्मणस्तीर्त्वा क्षत्रवृत्त्या भृते जने । |
तस्यां एव तु यो भुक्तौ ब्राह्मणो रमते रसात् । |
स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् । |
दिवाकृते कार्यविधौ ग्रामेषु नगरेषु च । |
द्वारमार्गक्रियाभोग जलवाहादिके तथा । |
एतद्विधानं आख्यातं साक्षिणां लिखितस्य च । |
विद्यया क्रयबन्धेन शौर्यभागान्वयागतम् । |
भोगाः सप्तविधः
[सम्पाद्यताम्]
पित्र्ये लभ्दक्रयाधाने रिक्थशौर्यप्रवेदनात् । |
क्रमागतः शासनिकः क्रयाधानसमन्वितः । |
संविभागक्रयप्राप्तं पित्र्यं लब्धं च राजतः [पृष्ठ ७३] । |
प्राप्तमात्रं येन भुक्तं स्वीकृत्यापरिपन्थितम् । |
अध्यासनात्समारभ्य भुक्तिर्यस्याविघातिनी । |
न स्त्रीणां उपभोगः स्याद्विना लेख्यं कथं चन । |
भुक्त्या केवलया नैव भुक्तिः सिद्धिं अवाप्नुयात् । |
बालश्रोत्रियवित्ते च प्राप्ते च पितृतः क्रमात् । |
पशुस्त्रीपुरुषादीनां इति धर्मो व्यवस्थितः । |
एकदेशोपभोगेऽपि सर्वे भुक्ता भवन्ति ते । |
अनुमानाद्वरः साक्षी साक्षिभ्यो लिखितं गुरु । |
अनुमानं वसत्यत्र साक्षी चामरणाद्भवेत् । |
पितापितामहो यस्य जीवेच्च प्रपितामहः । |
भुक्तिः सा पौरुषी ज्ञेया द्विगुणा च द्विपुरुषी । |
यत्राहर्ताभियुक्तः स्याल्लेख्यं साक्षी तदा गुरुः । |
आहर्ता शोधयेद्भुक्तिं आगमं वापि संसदि [पृष्ठ ७५] । |
रिक्थभिर्वा परैर्द्रव्यं समक्षं यस्य दीयते । |
पश्यन्नन्यस्य ददतः क्षितिं यो न निवारयेत् । |
ऋक्थिभिर्वापरैर्वापि दत्तं तेनैव तद्भृगुः ।। १,७.४२ ।। |
भुक्तिस्त्रिपुरुषी सिध्येत्परेषां नात्र संशयः । |
अस्वामिना तु यद्भुक्तं गृहक्षेत्रापणादिकम् । |
धर्मोऽक्षयः श्रोत्रियस्य अभयं राजपूरुषे । |
वैवाह्य श्रोत्रियैर्भुक्तं राज्ञामात्यैस्तथैव च । |
अशक्तालसरोगार्त बालभीतप्रवासिनाम् । |
छिन्नभोगे गृहे क्षेत्रे संदिग्धं यत्र जायते । |
नामघाटागमं संख्यां कालं दिग्भागं एव च । |
उत्पन्नाश्चात्यासन्ना ये ये च देशान्तरस्थिताः । |
अदुष्टास्ते तु यद्ब्रूयुः संदिग्धे समदृष्टयः । |
स्थावरेषु तदाख्यातं लाभभोगप्रसाधनम् । |
राजान्तरैस्त्रिभिर्भुक्तं प्रमाणेन विनापि यत् । |
भुक्तिस्त्रैपुरुषी यत्र चतुर्थे संप्रवर्तिता । |
अनिषिद्धेन यद्भुक्तं पुरुषैस्त्रिभिरेव तु । |
स्थावरेषु विवादेषु भुक्तिस्त्रिपुरुषी च या । |
यस्य त्रिपुरुषा भुक्तिः सम्यग्लेख्यसमन्विता । |
यस्य त्रिपुरुषा भुक्तिः पारंपर्यक्रमागता । |
त्रिपुरुषं भुज्यते येन समक्षं भूरवारिता । |
भुक्तिर्बलवती शास्त्रे ह्यविच्छिन्ना चिरन्तनी । |
पित्रा भुक्तं तु यद्द्रव्यं भुक्त्याचारेण धर्मतः । |
त्रिभिरेव तु या भुक्ता पुरुषैर्भूर्यथाविधि । |
सनाभिभिर्बान्धवैश्च भुक्तं यत्स्वजनैस्तथा । |
सागमो दीर्घकालश्च निच्छिद्रोपरवो धनम् । |
चतुष्पाद्धनधान्यादि वर्षाद्धानिं अवाप्नुयात् ।। १,७.६५ ।। |
भूमेरभुक्तिर्लेख्यस्य यथाकालं अदर्शनम् । |
तस्माद्यत्नेन कर्तव्यं प्रमाणपरिपालनम् । |
असाक्षिके चिरकृते पृच्छेदुत्तरसाक्षिणः । |
देशनाप्रतिघातं च युक्तिलेशस्तथैव च ।। १,७.६९ ।। |
चोरापहृतं तु सर्वेभ्योऽन्विष्य अर्पणीयम् । |