नारदस्मृतिः/मातृकाः/सभा
नियुक्तेन तु वक्तव्यं अपक्षपतितं वचः ।। ३.१ ।। |
ब्रुवाणस्त्वन्यथा सभ्यस्तदेवोभयं आप्नुयात् ।। ३.२ ।। |
व्यवहारधुरं वोढुं ये शक्ताः सद्गवा इव ।। ३.३ ।। |
समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ।। ३.४ ।। |
सह सद्भिरतो राजा व्यवहारान्विशोधयेत् ।। ३.५ ।। |
शुद्धिश्च तेषां धर्माद्धि धर्मं एव वदेत्ततः ।। ३.६ ।। |
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ।। ३.७ ।। |
न चेद्विशल्यः क्रियते विद्धास्तत्र सभासदः ।। ३.८ ।। |
अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी ।। ३.९ ।। |
यथाप्राप्तं न ब्रुवते सर्वे तेऽनृतवादिनः ।। ३.१० ।। |
पादः सभासदः सर्वान्पादो राजानं ऋच्छति ।। ३.११ ।। |
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ।। ३.१२ ।। |
परोक्षं अर्थवैकल्याद्भाषते यः सभां गतः ।। ३.१३ ।। |
वचस्तथाविधं ब्रूयाद्यथा न नरकं पतेत् ।। ३.१४ ।। |
प्राड्विवाकस्तथा शल्यं उद्धरेद्व्यवहारतः ।। ३.१५ ।। |
स निःशल्यो विवादः स्यात्सशल्यः स्यादतोऽन्यथा ।। ३.१६ ।। |
नासौ धर्मो यत्र न सत्यं अस्ति न तत्सत्यं यच्छलेनानुविद्धम् ।। ३.१७ ।। |