नारदस्मृतिः/मातृकाः/व्यवहारः
धर्मैकतानाः पुरुषा यदासन्सत्यवादिनः । |
नष्टे धर्मे मनुष्येषु व्यवहारः प्रवर्तते । |
लिखितं साक्षिणश्चात्र द्वौ विधी संप्रकीर्तितौ । |
सोत्तरोऽनुत्तरश्चैव स विज्ञेयो द्विलक्षणः । |
विवादे सोत्तरपणे द्वयोर्यस्तत्र हीयते । |
सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता । |
कुलानि श्रेणयश्चैव गणाश्चाधिकृतो नृपः । |
स चतुष्पाच्चतुःस्थानश्चतुःसाधन एव च । |
अष्टाङ्गोऽष्टादशपदः शतशाखस्तथैव च । |
धर्मश्च व्यवहारश्च चरित्रं राजशासनम् । |
तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु । |
सामाद्युपायसाध्यत्वाच्चतुःसाधन उच्यते । |
कर्तॄनथो साक्षिणश्च सभ्यान्राजानं एव च । |
धर्मस्यार्थस्य यशसो लोकपक्तेस्तथैव च । |
राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ । |
ऋणादानं ह्युपनिधिः संभूयोत्थानं एव च । |
वेतनस्यानपाकर्म तथैवास्वामिविक्रयः । |
समयस्यानपाकर्म विवादः क्षेत्रजस्तथा । |
वाक्पारुष्यं तथैवोक्तं दण्डपारुष्यं एव च । |
एषां एव प्रभेदोऽन्यः शतं अष्टोत्तरं स्मृतम् । |
कामात्क्रोधाच्च लोभाच्च त्रिभ्यो यस्मात्प्रवर्तते । |
द्व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । |
पक्षद्वयाभिसंबन्धाद्द्विद्वारः समुदाहृतः । |
भूतच्छलानुसारित्वाद्द्विगतिः स उदाहृतः । |
तत्र शिष्टं छलं राजा मर्षयेद्धर्मसाधनः । |
धर्मेणोद्धरतो राज्ञो व्यवहारान्कृतात्मनः । |
धर्मश्चार्थश्च कीर्तिश्च लोकपक्तिरुपग्रहः । |
तस्माद्धर्मासनं प्राप्य राजा विगतमत्सरः । |
धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः । |
आगमः प्रथमं कार्यो व्यवहारपदं ततः । |
धर्मशास्त्रार्थशास्त्राभ्यां अविरोधेन मार्गतः । |
यथा मृगस्य विद्धस्य व्याधो मृगपदं नयेत् । |
यत्र विप्रतिपत्तिः स्याद्धर्मशास्त्रार्थशास्त्रयोः । |
धर्मशास्त्रविरोधे तु युक्तियुक्तोऽपि धर्मतः । |
सूक्ष्मो हि भगवान्धर्मः परोक्षो दुर्विचारणः । |
यात्यचौरोऽपि चौरत्वं चौरश्चायात्यचौरताम् । |
स्त्रीषु रात्रौ बहिर्ग्रामादन्तर्वेश्मन्यरातिषु । |
गहनत्वाद्विवादानां असामर्थ्यात्स्मृतेरपि । |
गोभूहिरण्यस्त्रीस्तेय पारुष्यात्ययिकेषु च । |
अनावेद्य तु यो राज्ञे संदिग्धेऽर्थे प्रवर्तते । |
वक्तव्येऽर्थे न तिष्ठन्तं उत्क्रामन्तं च तद्वचः । |
स्थानासेधः कालकृतः प्रवासात्कर्मणस्तथा । |
नदीसंतारकान्तार दुर्देशोपप्लवादिषु । |
आसेधकाल आसिद्ध आसेधं यो व्यतिक्रमेत् । |
निर्वेष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थितः । |
गवां प्रचारे गोपालाः सस्यबन्धे कृषीवलाः । |
अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती । |
नाभियुक्तोऽभियुञ्जीत तं अतीर्त्वार्थं अन्यतः । |
यं अर्थं अभियुञ्जीत न तं विप्रकृतिं नयेत् । |
न च मिथ्याभियुञ्जीत दोषो मिथ्याभियोगिनः । |
सापदेशं हरन्कालं अब्रुवंश्चापि संसदि । |
पलायते य आहूतः प्राप्तश्च विवदेन्न यः । |
निर्णिक्तव्यवहारेषु प्रमाणं अफलं भवेत् । |
यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः । |
अभूतं अप्यभिहितं प्राप्तकालं परीक्ष्यते । |
तीरितं चानुशिष्टं च यो मन्येत विधर्मतः । |
दुर्दृष्टे व्यवहारे तु सभ्यास्तं दण्डं आप्नुयुः । |
रागादज्ञानतो वापि लोभाद्वा योऽन्यथा वदेत् । |
किंतु राज्ञा विशेषेण स्वधर्मं अनुरक्षता । |
पुरुषाः सन्ति ये लोभात्प्रब्रूयुः साक्ष्यं अन्यथा । |
अतः परीक्ष्यं उभयं एतद्राज्ञा विशेषतः । |
असत्याः सत्यसंकाशाः सत्याश्चासत्यदर्शनाः । |
तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव । |
तस्मात्प्रत्यक्षदृष्टोऽपि युक्तं अर्थः परीक्षितुम् । |
एवं पश्यन्सदा राजा व्यवहारान्समाहितः । |