साधारणव्यवहारमातृकाप्रकरणम्

विकिस्रोतः तः

व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः । । २.१ । ।

श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः ।
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः । । २.२ । ।

अपश्यता कार्यवशाद्व्यवहारान्नृपेण तु ।
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् । । २.३ । ।

रागाल्लोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः ।
सभ्याः पृथक्पृथग्दण्ड्या विवादाद्द्विगुणं दमम् । । २.४ । ।

स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् । । २.५ । ।

प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितं अर्थिना ।
समामासतदर्धाहर् नामजात्यादिचिह्नितम् । । २.६ । ।

श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ ।
ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् । । २.७ । ।

तत्सिद्धौ सिद्धिं आप्नोति विपरीतं अतोऽन्यथा ।
चतुष्पाद्व्यवहारोऽयं विवादेषूपदर्शितः । । २.८ । ।