सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

APPENDIX संस्कृत्य विधिनाग्निभिरुदधारां ततो हरेत् । शावमाशौचमुक्तं तु यथा संनिहिते तथा ।। १६ ।। नवश्राद्धं दशाहानि नवमिश्रं तु षडृतून् । अतः परं पुराणं वै त्रिविधं श्राद्धमुच्यते || यस्मिन् नवे पुराणे वा विश्वेदेवा न लेभिरे । तदासुरं भवेच्छ्राद्धं वृषलं मन्त्रवर्जितम् ।। अनूदकमधुपं तु गन्धमाल्यविवर्जितम् । [नवश्राद्धममन्तं च पिण्डोदकविवर्जितम् ] । निनयेदश्मनि पूर्वं ततः श्राद्धं प्रवर्तयेत् ॥ पश्चाच्च निनयेत् पिण्डं तस्मिन्नेव यथाविधि । पुत्राभावे तु पत्नी स्यात् पत्न्यभावे सहोदरः । असगोतः सगोत्रो वा यदि स्त्री यदि वा पुमान् प्रथमेऽहनि यो दद्यात् स दशाहं समापयेत् || ततस्त्वेकादशेऽहनि श्राद्धं तस्य विधीयते । ३१५ एकोद्दिष्टं तु तच्छ्राद्धमसंपन्नमिति स्थितिः ।। २० ।। सपिण्डीकरणमकृत्वा त्रिपक्षं परिवेषयेत् । उच्छेषणं भूमिगतं विकिरं लेपमर्दनम् ॥ अनुप्रेतेषु विसृजेदप्रजानां गतायुषाम् । अनूद्दिश्य तु प्रेतस्य सर्वत्रैवं विधीयते ।। एकोद्दिष्टेषु श्राद्धेषु न स्वधा नाभिरम्यताम् । नाग्नौकरणमित्याहुरेकं चात्र तिलोदकम् । एकं पवित्रमेकोsर्घ्य एकः पिण्डो विधीयते ।। अनपत्येषु प्रेतेषु न स्वधा नाभिरम्यताम् ।