सिद्धसिद्धान्तपद्धतिः
- श्रीगोरक्षनाथकृतसिद्धसिद्धान्तपद्धतिः
प्रथमोपदेशः
[सम्पाद्यताम्]आदिनाथं नमस्कृत्य शक्तियुक्तं जगद्गुरुम्।
वक्ष्ये गोरक्षनाथोऽहं सिद्धसिद्धान्तपद्धतिम्॥ १॥
नास्ति सत्यविचारेऽस्मिन्नुत्पत्तिश्चाण्डपिण्डयोः।
तथापि लोकवृत्त्यर्थं वक्ष्ये सत्सम्प्रदायतः॥ २॥
सा पिण्डोत्पत्त्यादिः सिद्धमते सम्यक् प्रसिद्धा पिण्डोत्पत्तिः पिण्डविचारः पिण्डसंवित्तिः पिण्डाधारः पिण्डपदसमरसभावः श्रीनित्यावधूतः॥ ३॥
यदा नास्ति स्वयं कर्ता कारणं न कुलाकुलम्।
अव्यक्तञ्च परं ब्रह्म अनामा विद्यते तदा॥ ४॥
अनामेति स्वयमनादिसिद्ध एकमेवानादिनिधनं सिद्धसिद्धान्तप्रसिद्धं तस्येच्छमात्रधर्माधर्मिणी निजा शक्तिः प्रसिद्धा॥ ५॥
तस्योन्मुखत्वमात्रेण पराशक्तिरुत्थिता॥ ६॥
तस्य स्पन्दनमात्रेण अपराशक्तिरुत्थिता॥ ७॥
ततोऽहंतार्थमात्रेण सूक्ष्मशक्तिरुत्पन्ना॥ ८॥
ततो वेदनशीला कुण्डलिनी शक्तिरुद्गता॥ ९॥
नित्यता निरञ्जनता निष्पन्दतानिराभासता निरुत्थान्ता इति पञ्चगुणा निजाशक्तिः॥ १०॥
अस्तिता अप्रमेयता अभिन्नता अनन्तता अव्यक्ता इति पञ्चगुणा पराशक्तिः॥ ११॥
स्फुरता स्फुटता स्फारता स्फोटता स्फूर्तितेति पञ्चगुणाऽपरा शक्तिः॥११॥
निरंशता निरन्तरता निश्चलता निश्चयता निर्विकल्पतेति पञ्चगुणा सूक्ष्माशक्तिः॥ १३॥
पूर्णता प्रतिबिम्बता प्रबलता प्रोच्चलता प्रत्यङ्मुखतेति कुण्डलिनी शक्तिः॥१४॥
एवं शक्तितत्त्वे पञ्च पञ्च गुणयोगात् परपिण्डोत्पत्तिः॥ १५॥
उक्तञ्च-
निजापराऽपरासूक्ष्माकुण्डलिन्यासु पञ्चधा।
शक्तिचक्रक्रमेणोत्थो जातः पिण्डपरः शिवः॥ १६॥
अपरम्परं परमपदं शून्यं निरञ्जनं परमोत्मेति॥ १७॥
अपरम्परात् स्फुरतामात्रमुत्पन्नं परमपदाद् भावनामात्रमुत्पन्नं शून्यात्स्वसत्तामात्रमुत्पन्नं निरञ्जनात् स्वसाक्षात्कारमात्रमुत्पन्नं परमात्मनः परमात्मोत्पन्नः॥ १८॥
अकलंकत्वमनुपमत्वमपारत्वममूर्तत्वमनुदयत्वमिति पञ्चगुणमपरम्परम्॥ १९॥
निष्कलत्वमणुतरत्वमचलत्वमसंख्यत्वमनाधारत्वमिति पञ्चगुणं परमपदम्॥। २०॥
लीनता पुर्णतोन्मनी लोलता मुर्च्छतेति पञ्चगुणं शून्यम्॥ २१॥
सत्यत्वं सहजत्वं समरसत्वं सावधानत्वं सर्वगतत्वमिति पञ्चगुणंनिरञ्जनम्॥ २२॥
अक्षयत्वमभेद्यत्वमच्छेद्यत्वमविनाशत्वमदाह्यत्वमिति पञ्चगुणः परमात्मा इत्यनादिपिण्डस्य पञ्चतत्वं पञ्चविंशति गुणाः॥ २३॥
उक्तञ्च-
अपरम्परं परमपदं शून्यं निरञ्जनपरमात्मानौ पञ्चभिरेतै सगुणैरनाद्यपिण्दः समुत्पन्नः॥ २४॥
अनाद्यात् परमानन्दः परमानन्दात् प्रबोधः प्रबोधाच्चिदुदयश्चदुदयात्चित्प्रकाशः चित्प्रकाशात् सोऽहं भावः॥ २५॥
उदय उल्लासोऽवभासो विकासः प्रभा इति पंचगुणः प्रबोधः॥ २७॥
सद्भावो विचारः कर्तृत्वं ज्ञातृत्वं स्वतन्त्रत्वमिति पंचगुणश्चिदुदयः॥२८॥
निर्विकारत्वं निष्कलत्वं निर्विकल्पत्वं समता विश्रान्तिरिति पञ्चगुणः चित्प्रकाशः॥२९॥
अहन्ताऽखण्डैश्वर्यं स्वात्मता विश्वानुभवसामर्थ्यं सर्वज्ञत्वमिति पञ्चगुणः सोऽहंभावः। इत्याद्यपिण्डस्य पञ्चतत्त्वं पञ्चविंशति गुणाः। परमानन्दः प्रबोधश्चिदुदयश्चित्प्रकाशः सोऽहंभाव इत्यन्त आद्यपिण्दो महातत्त्वयुक्तः समुत्थितः॥ ३०॥
आद्यान्महाकाशो महाकाशान्महावायुर्महावायोर्महातेजो महातेजसो महासलिलं महासलिलान्महापृथ्वी॥३१॥
अवाकाशोऽच्छिद्रमस्पृशत्वं नीलवर्णत्वं शब्दत्वमिति पञ्चगुण अवकाशः॥३२॥
सञ्चारः सञ्चालनं स्पर्शनं शोषनं धूम्रवर्णत्वमिति पञ्चगुणो महवायुः॥३३॥
दाहकत्वं पाचकत्वमुष्णत्वं प्रकाशत्वं रक्तवर्णत्वमिति पञ्चगुणं महातेजः॥३४॥
महाप्रवाह अप्यायनं द्रवो रसः श्वेतवर्णत्वमिति पञ्चगुणं सलिलम्॥३५॥
स्थूलता नानाकारता काठिन्यं गन्धः पीतवर्णत्वमिति पञ्चगुणामहापृथ्वी।
इति महासाकारपिण्डस्य पञ्चविंशति गुणाः॥३६॥
तद् ब्रह्मणः सकाशादवलोकनेन नरनारीरूपप्रकृतिपिण्डः समुत्पन्नस्तच्च पञ्चपञ्चात्मक शरीरम्॥३८॥
अस्थिमांसत्वङ् नाड़ीरोमाणीति पञ्चगुणा भूमिः॥३९॥
लाला मुत्रं शुक्रं शोणितं स्वेद इतिपञ्चगुणा आपः॥४०॥
क्षुधा तृषा निद्रा कान्तिरालस्यमिति पञ्चगुणं तेजः॥४१॥
धावनं भ्रमणं प्रसारणमाकुञ्चनं निरोधनमिति पञ्चगुणो वायुः॥४२॥
रागो द्वेषो भयं लज्जा मोह इति पञ्चगुन आकाशः इति पञ्चविंशति गुणानां भूतानां पिण्डः॥४३॥
मनो बुद्धिरहंकारश्चित्तं चैतन्यमित्यन्तःकरणः पञ्चकम्॥४४॥
संकल्पो विकल्पो मूर्च्छा जड़ता मननमिति पञ्चगुनं मनः॥४५॥
विवेको वैराग्यं शान्तिः संतोषः क्षमेति पंचगुणा बुद्धि॥४६॥
अभिमानं मदीयं मम सुखं मम दुःखं ममेदमिति पञ्चगुणोऽहंकारः॥४७॥
मतिर्धृतिस्मृतिस्त्यागः स्वीकार इति पञ्चगुणं चित्तम्॥४८॥
विमर्शः शीलनं धैर्यं चिन्तनं निःस्पृहत्वमिति पञ्चगुणं चैतयमेवमन्तःकरणगुणाः॥४९॥
सत्त्वं रजस्तमः कालो जीव इति कुलपञ्चकम्॥५०॥
दया धर्मः क्रियाभक्तिः श्रद्धेति पञ्चगुणं सत्त्वम्॥५१॥
दानं भोगः शृङ्गारो वस्तुग्रहणं स्वार्थसंग्रहणमिति पञ्चगुणं रजः॥५२॥
विवादः कलहः शोको वधो वञ्चनमिति पञ्चगुणं तमः॥५३॥
कलना कल्पना भ्रान्तिः प्रमादः अनर्थ इति पञ्चगुणः कालः॥५४॥
जाग्रत् स्वप्नः सुषुप्तिस्तुरीयातुर्यातीतमिति पञ्चगुण जीवः॥५५॥
इच्छा क्रिया माया प्रकृतिर्वागिति व्यक्तिपञ्चकम्॥५६॥
उन्मादो वासना वाञ्छा चिन्ता चेष्टेति पञ्चगुणेच्छा ५७॥
स्मरणं उद्योगः कार्यं निश्चयः स्वकुलाचार इति पञ्चगुणा क्रिया॥५८॥
मदो मात्सर्यं दम्भः कृत्रिमत्त्वमसत्यमिति पञ्चगुणा माया॥५९॥
आशा तृष्णा स्पृहा काङ्क्षामिथ्येति पञ्चगुणा प्रकृतिः॥६०॥
परा पश्यन्ती मध्यमा वैखरी मातृकेति पञगुणा वाक् इति व्यक्तिपञ्चकः पञ्चर्विशति गुणा॥६१॥
कर्म कामश्चन्द्रः सूर्योऽग्निरिति प्रत्यक्षकरणपञ्चकम्॥६२॥
शुभमशुभं यशोऽपकीर्तिरदृष्टफलसाधनमिति पञ्चगुणं कर्म॥६३॥
रतिः प्रीतिः क्रीडा कामना आतुरतेति पञगुणः कामः॥६४॥
उल्लोला कल्लोलिनी उच्चलन्ती उन्मादिनी तरङ्गिणी शोषिणी लम्पटा प्रवृत्ति लहरी लोला लेलिहाना प्रसरन्ती प्रवाहा सौम्या प्रसन्नता प्लवन्ती एवं चन्द्रस्य षोडशकला सप्तदशीकला निवृत्ति साऽमृतकला॥६५॥
तापिनी ग्रासिका उग्रा आकुञ्चनी शोषिणी प्रबोधिनी स्मरा आकर्षिणी तुष्टवर्धनी ऊर्मीरेखा किरणवती प्रभावतीति द्वादशकला सूर्यस्य त्रयोदशी स्वप्रकाशता निजकला॥६६॥
दीपका राजिका ज्वलिनी विस्फुलिङ्गिनी प्रचण्डा पाचिका रौद्री दाहिका रागिणी शिखावती इत्यग्नेर्दशकला एकादशी कला ज्योतिरिति प्रत्यक्षकरणगुणकलासमूहः॥६७॥
अथ नाडीनां दश द्वाराणि। इडापिङ्गला नासाद्वरयोर्वहतः सुषुम्णा नाडी तु ब्रह्मदण्डामार्गेण ब्रह्मरन्ध्रपर्यन्तं वहति सरस्वती मुखद्वारे वहति पूषाऽलम्बुषा चक्षुर्द्वारयोर्वहतो गान्धारी हस्तिजिह्विका च कर्णद्वारयोवहतः कुहूर्गुदाद्वारे वहति शंखिनी लिङ्गद्वारे वहति एवं दशद्वारेषु वहन्ति॥६८॥
अथ दशवायवः। हृदये प्राणवायुरूच्छ्वासनिःश्वासकारो हकारसकारात्मकश्चास्यैवावस्थाभेदे हठयोग इति सज्ञा हकारः कीर्तितः सूर्यष्ठकारश्चन्द्र उच्यते। सूर्याचन्द्रमसोर्योगाद् हठयोगो निगद्यते॥ गुदेत्वपानवायू रेचककुम्भकपूरकश्च नाभौ समानवायुर्दीपकः पाचकश्च सर्वाङ्ग व्यापकश्चालकश्च कूर्मवायुः
कम्पकश्चक्षरुन्मेषकारकश्च कृकल उद्गारकः क्षुत्कारकश्चदेवदत्तो मुखविजम्भकः धनञ्जयो नादघोषक इति दशवाय्ववलोकनेन पिण्डोत्पत्तिर्नरनारीरूपः॥६९॥
अथ गर्भोली पिण्डोत्पत्तिर्भवति नरनारीसंयोगे ऋतुकाले रजोविन्दुसंयोरे जीवः॥ ७०॥
प्रथमदिने कललं भवति सप्तरात्रे बुद्बुदाकारं भवति। अर्धमासे गोलाकारं भवति। मासमात्रेण कठिनं मासद्वयेन शिरो भवति। तृतीयामासि हस्तपादादिक भवति। चर्तुर्थे मासि चक्षुःकर्णादिनासिकामुखमेढ्रगुदं भवति। पञ्चमे मासि पृष्ठोदरौ भवतः। षष्ठे मासि नखकेशादिकं भवति। सप्तमे मासे सर्वचेतन्युक्तो भवति। अष्टमे मासि सर्वलक्षणयुक्तो भवति । नवमे मासि सत्यज़्ञानयुक्तो भवति। दशमे मासि योनिसंस्पर्शादज्ञानी बालको भवति॥७१॥
शुक्राधिकेषु पुरुषो रक्ताधिका कन्यका समशुक्ररक्ताभ्यां नपुंसकः परस्परं चिन्ताव्याकुलत्वादन्धः कुब्जो वामनः पङ्गु रङ्गहीनश्च भवति। परस्परं रतिकालेऽङ्गनिःपीडनकरगुणौः शुक्रो द्वस्त्रिवारं पतति येन द्वितीयो बालको भवति॥ ७२॥
सार्धपलत्रयं शुक्रं विंशतिपलं रक्तं द्वादशपलं मेदः दशपलं मज्जा शतपलं मांसं दशपलं पित्तं विंशतिपलं श्लेष्मा तद्वद्वातः स्यात् षष्टयधिकशतत्रयमस्थीन्यस्थिमात्रं सन्धयः सार्धत्रयकोटिरोमाकूपाणि पितृमातृवीर्यं भवति वातपित्तश्लेष्मधातुत्रयं दशधातुमयं शरीरमिति गर्भोत्थपिण्डोत्पत्तिः॥ ७३॥
इति शिवगोरक्षविरचितसिद्धसिद्धान्तपद्धतौ प्रथमोपदेशः॥
द्वितीयोपदेशः
[सम्पाद्यताम्]अत पिण्डविचारः कथ्यते॥
पिण्डे नवचक्राणि। आधारे ब्रह्मचक्रं त्रिधावर्तं भगमण्डलाकारं तत्र मूलकन्दस्तत्र शक्तिं पावकाकारां ध्यायेत् तत्रैव कामरूपपीठं सर्वकामप्रदं भवति॥१॥
द्वितीयं स्वाधिष्ठानं चक्रं तन्मध्ये पश्चिमाभिमुखलिङ्गं प्रवालाङ्कुरसदृशं ध्यायेत् तत्रैवोड्डीयानपीठं जगदाकर्षणं भवति॥२॥
तृतीयं नाभिचक्रं पञ्चावर्तं सर्पवत् कुण्डलाकारं तन्मध्ये कुण्डलिनीं शक्तिं बालार्ककोटिसदृशीं ध्यायेत् सा मध्यमा शक्तिः सर्वसिद्धिदा भवति॥३॥
चतुर्थं हृदयाधारमष्टदलकमलमधोमुखं तन्मध्ये कर्णिकायां लिङ्गाकारां ज्योतिरूपां ध्यायेत्। सैव हंसकला सर्वेन्द्रियाणि वश्यानि भवन्ति॥४॥
पञ्चमं कण्ठचक्रं चतुरङ्गुलं तत्र वाम इदा चन्द्रनाडी दक्षिणे पिङ्गला सूर्यनाडी तन्मध्ये सुषुम्णा ध्यायेत् सैवानाहतकलाऽनाहतसिद्धिर्भवति॥५॥
षष्ठं तालुचक्रं तत्रामृतधाराप्रवाहः घण्टिकालिङ्गमूलरन्ध्रराजदन्तं शंखिनीविवरं दशमद्वारं तत्र शून्यं धयायेत् चित्तलयो भवति॥६॥
सप्तमं भ्रूचक्रं मध्यमंगुष्ठमात्रं ज्ञाननेत्रं दीपशिखाकारं ध्यायेद् वाचां सिद्धिर्भवति॥७॥
अष्टमं ब्रह्मरन्ध्रं निर्वणचक्रं सूचिकाग्रभेद्यं धूमशिखाकारं ध्यायेत् तत्र जालन्धरपीठं मोक्षप्रदं भवति॥८॥
नवममाकाशचक्रं षोडशदलकमलमूर्ध्वमुखं तन्मध्ये कर्णिकायां त्रिकूटाकारां तदूर्ध्वशक्तिं तां परमशून्यां ध्यायेत् तत्रैव पूर्णगिरिपीठं सर्वेच्छसिद्धिर्भवति। इति नवचक्रस्य विचारः॥९॥
अथ षोदशाधारः क्थ्यते तत्र प्रथमं पदाङ्गुष्ठाधारं तत्राग्रस्तेजोमयं ध्यायेत्। दृष्टिः स्थिरा भवति॥१०॥
द्वितीयं मूलाधारसूत्रं वामपार्ष्णिना निःपीडयितव्यम्। तत्राग्निदीपनं भवति॥११॥
तृतीयं गुदाधारं विकाससंकोचनेन निराकुञ्चयेत्। अपानवायुः स्थिरो भवति॥१२॥
चतुर्थं मेढ्राधारं लिङ्गसंकोचनेन ब्रह्मग्रन्थित्रयं भित्त्वा भ्रमणगुहायां विश्रम्य तत ऊर्ध्वमुखे विन्दुस्तम्भनं भवति। एषा वज्रोली प्रसिद्धा॥१३॥
पञ्चममोड्याणाधारयोर्बन्धनान्मलमूत्रसंकोचनं भवति॥१४॥
षष्ठे नाभ्याधार ओङ्कारमेकचित्तेनोच्चारिते नादलयो भवति॥१५॥
सप्तमे हृदयाधारे प्राणं निरोधयेत् कमलविकासो भवति॥१६॥
अष्टमे कण्ठाधारे कण्ठमूलं चिबुकेन निरोधयेत् इडापिङ्गलयोर्वायुः स्थिरो भवति॥१७॥
नवमे घण्टिकाधारे जिह्वाग्रं धारयेदमृतकला स्रवति॥१८॥
दशमे ताल्वाधारे ताल्वन्तर्गर्भे लम्बिकां चालनदोहनाम्यां दीर्धीकृत्वा विपरीतेन प्रवेशयेत् काष्ठी भवति॥१९॥
एकादशमथ जिह्वाधारं तत्र जिह्वाग्रं धारयेत् सर्वरोगनाशो भवति॥२०॥
द्वादशं भ्रूमाध्याधारं तत्र चन्द्रमण्डलं धारयेत् शीतलतां याती॥२१॥
त्रयोदशं नासाधारं तस्याग्रं लक्ष्येन्मनः स्थिरं भवेत्॥२२॥
चतुर्दशं नासामूलक कपाटाधारं तत्र दृष्टिं धारयेत् षण्मासाज्ज्योतिः पुञ्जं पश्यति॥२३॥
पञ्चदशं ललाटाधारं तत्र ज्योतिःपुञ्जं लक्षयेत् तेजस्वी भवति॥२४॥
अवशिष्टे षोडशे ब्रह्मरन्ध्र आकाशचक्रं तत्र श्रीगुरुचरणाम्बुजयुग्मं सदावलोकयेदाकाशवत्पूर्णो भवति। इति षोडशाधारः॥२५॥
अथ लक्ष्यत्रयन्तत्रतावदन्तर्लक्ष्यं कथ्यते। मूलकन्दाद् दण्डलग्नां ब्रह्मनाडीं श्वेतवर्णां ब्रह्मरन्ध्रपर्यन्तं गतां संस्मरेत् तन्मध्ये कमलतन्तुनिभां विद्युत्कोटिप्रभामूर्ध्वगामिनीं तां मूर्ति मनसा ध्यायेत् तत्र सर्वसिद्धिदा भवति॥२६॥
अथवा ललाटोर्ध्वे गोल्लाटमण्डपे स्फुरदाकारं लक्षयेदथवा भ्रमरगुहामध्य आरक्तभ्रमराकारं लक्षयेदथवा कर्णद्वयं तर्जनीभ्यां निरोधयेत् ततः शिरोमध्ये धूं धूं कारं नादं शृणोत्यथवा चक्षुर्मध्ये नीलज्योतिरूपं पुतल्याकारं लक्षयेदित्यन्तर्लक्ष्यम् ॥२७॥
बहिर्लक्ष्यं कथ्यते नासाग्राद् बहिरङ्गुलद्वयमारक्तं तेजस्तत्वं लक्षयेदथवा दशाङ्गुले कल्लोलवदप्तत्वं लक्षयेदथवा नासाग्राद् वा दशाङ्गुले पीतवर्णं पार्थिवतत्वं लक्षयेदथवाकाशमुखं दृष्ट्वाऽवलोकयेत् किरणानाकुलितं पश्यति सर्वं निर्मलीकरणमथवोर्ध्वदृष्ष्ट्यन्तरालं लक्षयेज्ज्योतिर्मुखानि पश्यत्यथवा तदभुन्तरं तत्राकाशं लक्षयेदाकाशसदृशचित्तं मुक्तिप्रदं भवत्यथवा दृष्ट्यन्तस्तप्तकाञ्चनसन्निभां भूमिं लक्षयेद् दृष्टिः स्थिरा भवति। इत्यनेकविध बहिर्लक्ष्यम्॥२८॥
बहिर्लक्ष्यं कथ्यते॥ नासाग्राद् बहिरङ्गुलचतुष्टये नीलज्योतिः संकाशं लक्षयेत्। अतवा नासाग्रात् षडण्गुल अधोवायुतत्वं धूम्रवर्णं लक्षयेदथवा अष्टांगुले आरक्तं तेजस्तत्वं लक्षयेदथवा दशाङ्गुले कल्लोलवदप्तत्वं लक्षयेदथवा नासाग्रात् द्वादशाङ्गुले पीतवर्णं पार्थिवतत्वं लक्षयेत्। अथवाकाशमुखं दृष्ट्वाऽवलोकयेत् किरणानाकुलितं पश्यति सर्वं निर्मलीकरणमथवोर्ध्वदृष्ष्ट्यन्तरालं लक्षयेज्ज्योतिर्मुखानि पश्यत्यथवा तदभ्यन्तरं तत्राकाशं लक्षयेदाकाशसदृशचित्तं मुक्तिप्रदं भवत्यथवा दृष्ट्यन्तस्तप्तकाञ्चनसन्निभां भूमिं लक्षयेद् दृष्टिः स्थिरा भवति। इत्यनेकविध बहिर्लक्ष्यम्॥२८॥
अथ मध्यमं लक्ष्यं कथ्यते श्वेतवर्णं वा रक्तवर्णं वा कृष्णवर्णं वाग्निशिखाकारं वा ज्योतीरूपं वा विद्युदाकारं वा सूर्यमण्डलाकारं वाऽर्धचन्द्राकारं वा यथेष्ट स्वपिण्डमात्रं स्थानवर्जितं मनसा लक्षयेदित्यनेकविधं मध्यमं लक्ष्यम्॥२९॥
अथ व्योमपञ्चकं लक्षयेदाकाशं पराकाशं महाकाशं तत्त्वाकाशं सूर्याकाशमिति व्योमपञ्चकं बाह्याभ्यन्तरेऽत्यन्तं निर्मलं निराकारमाकाशं लक्षयेदथवा बाह्याभ्यन्तरेऽत्यन्तान्धकारनिभं परकाशमवलोकयेत् अथवाबाह्याभ्यन्तरे कालानलसंकाशं महाकाशमवलोकयेत् अथवा बाह्याभ्यन्तरे निजतत्वस्वरुपं तत्वाकाशवलोकयेत् अथवा वाह्याभ्यन्तरे सूर्यंकोटिनिभं सूर्याकाशमवलोकयेत् स्वयं व्योमपञ्चकावलोकनेन व्योमसदृशो भवति॥३०॥
उक्तञ्च
नवचक्रं कलाधारम् त्रिलक्ष्यं व्योमपञ्चकम्।
सम्यगेतन्न जानाति स योगी नामधारकः॥३१॥
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि। यम इति उपशमः सर्वेद्रियजयाहारनिद्राशीतवातातपजयश्चैवं शनैः शनैः साधयेत्॥३२॥
नियम इति मनीवृत्तिनां नियमनमित्येकान्तवासो निःसङ्गतौ दासीन्यं यथाप्राप्तिसन्तुष्टिर्वैरस्यं गुरुचरणावरूढत्वमितिनियमलक्षनम्॥३३॥
आसनमिति स्वस्वरूपे समासन्नता स्वस्तिकासनं पद्मासनं सिद्धासनमेतेषां मध्ये यथेष्टमेकं विधाय सावधानेन स्थातव्यम्। इत्यासनलक्षणम्॥३४॥
प्राणायाम इति प्राणस्य स्थिरता। रेचकपूरककुम्भक संघटकरणानि चत्वारि प्राणायामलक्षणानि॥३५॥
प्रत्याहारमिति चैतन्यतुरङ्गाणां प्रत्याहरणं विकारग्रसन उत्पन्नविकारस्यापि निवृत्तिर्निर्भातीति प्रत्याहारलक्षणम्॥३६॥
धारणेति सा बाह्याभ्यन्तर एकमेवनिजतत्वस्वरूपमेवान्तः करणेन साधयेत् यथा यद्यदुत्पद्यते तत्तन्निराकारे धारयेत् स्वात्मानं निर्वांतदीपमिव संधारयेदिति धारणालक्षणं॥३७॥
अथ ध्यानमिति कश्चन परमाद्वैतस्य भावः स एवात्मति यथा यद्यत्स्फुरति तत्तत्स्वरूपमेवेति भावयेत् सर्वभूतेषु समदृष्टिश्च इति ध्यानलक्षणम्॥३८॥
अथ समाधिलक्षणं सर्वतत्त्वानां समावस्था निरुद्यमत्त्वमनायासस्थितिमत्त्वमिति समाधिलक्षणम्। इत्यष्टाङ्गयोगलक्षणम्॥३९॥
॥ इति श्रीगोरक्षनाथकृतौ सिद्धसिद्धान्तपद्धतौ पिण्डविचारो नाम द्वितीयोपदेशः॥
तृतीयोपदेशः
[सम्पाद्यताम्]अथ पिण्ड संवित्तिः कथ्यते।
पिण्डमध्ये चराचरौ यो जानाति स योगी पिण्डसंवित्तिर्भवति॥ १॥
कूर्म पादतले वस्ति पातालं पादाङ्गुष्ठे तलातलमङ्गुष्ठाग्रे महातलं पादपृष्ठे रसातलं गुल्फे सुतलं जङ्घायां वितलं जान्वोरतलमूर्वेरेव सप्तपातालां रुद्रदेवाधिपतये तिष्ठति पिण्डमध्ये क्रोधरूपी भावः स एव कालाग्निरुद्रः॥ २॥
भुर्लोकं गुह्यस्थाने भुवर्लोकं लिङ्गस्थाने स्वर्लोकं नाभिस्थाने। एवं लोकत्रय इन्द्रो देवता पिण्डमध्ये सर्वेन्द्रियनियामकः स एवेन्द्रः। ३॥
दण्डाङ्कुरे महर्लिको दण्डकुहरे जनोलोको दण्डनाले तपो लोको मूलकमले सत्यलोक एवं लोकचतुष्टये ब्रह्मादिदेवता पिण्डमध्येऽनेकमानाभिमानस्वरूपो तिष्ठति॥ ४॥
विष्णुलोकः कुक्षौ तिष्ठति तत्र विष्णुर्देवता पिण्डमध्येऽनेकव्यापारको भवति। हृदये रुद्रलोकस्तत्र रुद्रो देवता पिण्डमध्ये उग्रस्वरूपी तिष्ठति। वक्षः स्थल इश्वरलोकस्तत्रेश्वरो देवता पिण्डमध्ये तृप्तिस्वरूपी तिष्ठति। कण्ठमध्ये नीलकण्ठलोकस्तत्र नीलकण्ठो देवता पिण्डमध्ये नित्यं तिष्ठति। तालुद्वारे शिवलोकस्तत्र शिवो देवता पिण्डमध्येऽनुपमस्वरूपी तिष्ठति। लम्बिकामूले भैरवलोकस्तत्र भैरवो देवता पिण्डमध्ये सर्वोत्तमस्वरूपी तिष्ठति। ललाटमध्येऽनादिलोकस्तत्रानादि देवता पिण्डमध्ये आनन्द पराहंतास्वरूपी तिष्ठति। शृंङ्गाटे कुललोकस्तत्रकुलेश्वरो देवता पिण्डमध्ये आनन्दस्वरूपी तिष्ठति। शङ्खमध्ये नलिनीस्थानेऽकुलेश्वरो देवता पिण्डमध्ये निरभिमानावस्था तिष्ठति। ब्रह्मरन्ध्रे परब्रह्मलोकस्तत्र परब्रह्म देवता पिण्डमध्ये परिपूर्णदशा तिष्ठति। ऊर्ध्वकमले लोकस्तत्र परमेश्वरो देवता पिण्डमध्ये परापरभावस्तिष्ठति। त्रिकूटस्थाने शक्तिलोकस्तत्र पराशक्तिर्देवता पिण्डमध्ये ऽस्तित्वावस्था सर्वासाण् सर्वासां सर्वकर्त्तृत्वावस्था तिष्ठति। एवं पिण्डमध्ये सप्तपातालसहितैकविंशति ब्रह्माण्डस्थानविचारः॥ ५॥
सदाचारतत्त्वे ब्राह्मणास्तिष्ठन्ति। शौर्ये क्षत्रिया व्यव्साये वैश्याः सेवाभावे शूद्राश्चतुष्षष्ठिकलास्वपि चतुष्षष्ठि वर्णाः॥ ६॥
अथ सप्तसमुद्राः सप्तद्वीपाश्च कथ्यन्ते। मज्जायां जम्बूद्वीपोऽस्थिषु शकद्वीपः शिरासु सुक्ष्मद्वीपश्चत्वक्षु क्रौञ्च द्वीपो रोमसु गोमय द्वीपो नखेषु श्वेतद्वीपो मांसे प्लक्षद्वीप एवं सप्तद्वीपाः॥ ७॥
मूत्रे क्षारसमुद्रो लालायां क्षीरसमुद्रः कफे दधिसमुद्रो मेदसि घृतसमुद्रो वसायां मधुसमुद्रो रक्ते इक्षुसमुद्रः शुक्रेऽमृत समुद्र एवं सप्तसमुद्राः॥ ८॥
नवखण्डा नवद्वारेषु वसन्ति। भारतखण्डः कर्परखण्डः काश्मीरखण्डः श्रीखण्ड शङ्खखण्ड एकपादखण्डो गान्धार खण्डः कैवर्त्तखण्डो महामेरुखण्ड एवं नवखण्डाः॥ ९॥
मेरुपर्वतो मेरुदण्ड तिष्ठति कैलासो ब्रह्मकपाटे वसति हिमालयः पृष्ठे मलयो वामकन्धरे मन्दरो दक्षिणकन्धरे विन्ध्याद्रिर्दक्षिणकर्णे मैनाको वामकर्णे श्रीपर्वतो ललाट एवमष्तकुलपर्वताः अन्य उपपर्वताः सर्वाङ्गुलिषु वसन्ति॥ १०॥
पीनसा यमुना गङ्गा चन्द्रभागा सरस्वति पिपासा शतरुद्रा श्रीरात्रिर्श्रीनर्मदा एवं नवनेद्यो नवनाडीषु वसन्ति। अन्य उपनद्यः कुल्योपकुल्याः द्विसप्ततिसहस्रनाडीषु वसन्ति॥ ११॥
सप्तविंशति नक्षत्राणि द्वादशराशयो नवग्रहाः पञ्चदशतिथय एतेऽन्तर्वलये द्विसप्ततिसहस्रकोष्ठेषु वसन्ति। अनेकतारामण्डलमूर्मिपुञ्जे वसति। त्रयस्त्रिंशत् कोटिदेवता बहुरोमकूपेषु वसन्ति। दानवयक्षराक्षसपिशाचभूतप्रेता अस्थिसन्धिषु वसन्ति। अनेकपीठोपपीठका रोमकूपेषु वसन्ति। अन्ये पर्वता उदरलोमसु वसन्ति। गन्धर्वकिंनरकिंपुरुषा अप्सरोगणा उदरे वसन्ति। अन्ये खेचरीलीलामातरः शक्तयः उग्रदेवता वायुवेगे वसन्ति। अनेकमेघा अश्रुपाते वसन्ति अनान्तसिद्धा मतिप्रकाशे वसन्ति। चन्द्रसूर्यौ नेत्रद्वये वसतः। अनेकवृक्षलता गुल्मतृणानि जङ्गारोमकस्थाने वसन्ति अनेककृमिकीटपतङ्गा पुरिषे वसन्ति॥ १२॥
यत्सुखं तत्स्वर्गं यद्दुःखं तन्नरकं यत्कर्मतद्बन्धनं यन्निर्विकल्पं तन्मुक्तिः स्वरूपदशायां निद्रादौ स्वात्मजागरः शान्तिर्भवति। एवं सर्वदेहेषु विश्वरूपपरमेश्वरः परमात्माऽखण्डस्वभावेन घटे ग़्हटे चित्स्वरूपो तिष्ठति। एवं पिण्डसंवित्तिर्भवति॥ १३॥
इतिश्रीगोरक्षरचितसिद्धसिद्धान्तपद्धतौ तृतीयोपदेशः।
चतुर्थोपदेशः
[सम्पाद्यताम्]अथपिण्डाधारः कथ्यते॥
अस्ति काचिदपरंपरा संवित्स्वरुपा
सर्वपिण्डाधारत्वेन नित्यप्रबुद्धा निजा शक्तिः प्रसिद्धा कार्यकारणकर्तृणामुत्थानदशाङ्कुरोन्मीलनेन कर्त्तारं करोतीत्यनन्तरावाधारशक्तिरिति कथ्यते। अत्यन्तनिजप्रकाशस्वसंवेद्यानुभवैकगम्यमाना शास्त्रलौकिकसाक्षात्कारसाक्षिणी सा परा चिद्रूपिणी शक्तिर्गीयते। सैव शक्तिर्यदा सहजेन स्वस्मिन्नुन्मीलिन्यां वर्तते तदा शिव स एव भवति। १।
अतएव कुलाकुलस्वरूपा सामरस्यनिजभूमिका निगद्यते। २।
कुलमिति परा सत्ताऽहंता स्फुरता कलास्वरूपेण सैव पञ्चधाविश्वस्याधारत्वेन तिष्ठति। ३।
अतएव परापरा निराभासावभासकान् प्रकाशस्वरूपा या सा परा ।४।
अनादिसंसिद्धं पारमाद्वैतपरमेकमेवास्तीति याऽङ्गीकारं करोति स सत्ता।५।
अनादिनिधनोऽप्रमेयः स्वभावकिरणानन्दोऽहमस्मीत्यहं सूचनशीला या सा पराऽहंता। ६।
स्वानुभवचित्तचमत्कारनिरूत्थानदशां प्रस्फुटी करोति या सा स्फुरता। ७।
नित्यशुद्धबुद्धस्वरूपस्वयंप्रकाशत्वमाकलयतीति या सा पराकलेत्युच्यते। ८।
अकुलमिति जातिवर्णगोत्राद्यखिलनिमित्तत्वेनैकमेवास्तीति प्रसिद्धं तथा चोक्तमुमामहेशरसंवादेः
निरुत्तरेऽनन्यत्वादखण्डत्वादद्वयत्वादनन्य त्वान्निर्धर्मत्वादनामत्वादकुलस्यनिरुत्तरमिति। ९।
एवं कुलाकुलरूपा समरस्यप्रकाशभूमिकास्फुटीकरण एकैवमर्था या साऽपरंपरा शक्तिरेवावशिष्यते अपरंपरं निखिलविश्वप्रपञ्चजालं परतत्त्वं सम्पादयत्येकीकरोतीत्यपराशक्तिराज्ञवती प्रसिद्धा। १०।
अकुलकुलमाधत्ते कुलण्चकुलमिच्छति जलबुद्बुद्वन्न्यायादेकाकारः परः शिवः॥ ११॥
अतएवैकाकारोऽनन्तशक्तिमान् निजानान्दतयावस्थितोऽपि नानाकारत्वेन विलसन् स्वप्र्तिष्ठं स्वप्रतिष्ठां स्वयमेव भजतीति व्यव्हारः। अलुप्तशक्तिमान्नित्यं सर्वाकारतया स्फुरन्पुनः स्वेनैव रूपेण एकएवावशिष्यते॥ १२॥
अतएव परमकारणं परमेश्वरः परात्परः शिवः स्वस्वरूपतया सर्वतोमुखः सर्वाकारतया स्फुरितुं शक्नीतीत्यतः शक्तिमान् शिवोऽपि शक्तिरहितः शक्तः कर्तु न किञ्चन। स्वशक्त्यासाहित सोऽपि सर्वस्याभासका भवेत्॥ १३॥
अतएवानन्तशक्तिमान् परमेश्वरः स विश्वरूपीविश्वमयो भवतीति प्रसिद्धं सिद्धानां च परापरस्वरूपा कुण्डलिनी वर्तते । अतस्ते पिण्डसिद्धाः प्रसिद्ध सा कुण्डलिनी प्रबुद्धा अप्रबुद्धा चेति द्विधा। अप्रबुद्धेति तत्रपिण्डचेतनारूपा स्वभावेन नानाचिन्ताव्यापारोद्यमप्रपञ्चरूपा कुटिलस्वभावा कुण्डलिनी रव्याता सैव योगिनां तत्तद्विलसित विकाराणां निवारणोद्यमस्वरूपा कुण्डलिन्यूर्ध्वगामिनी प्रसिद्धा भवति॥ १४॥
ऊर्ध्वमिति सर्वतत्वान्यपि स्वस्वरूपमेवेत्यूर्ध्वे वर्तते अतएव सा विमर्शरूपिणि योगिनः स्वस्वरूपमवगच्छन्तीति सुप्रसिद्धा॥ १५॥
मध्यशक्तिप्रबोधेन अधःशक्तिनिकुञ्चनात्।
ऊर्ध्वशक्तिनिपातेन प्राप्यते परमं पदम्॥ १६॥
एकैवा सा मध्योधोर्ध्वाधः प्रभेदेन त्रिधा भिन्ना शक्तिरभिधीयते॥ १७॥
बाह्येन्द्रियव्यापारनानचिन्तामया सैवाधः शक्तिरि त्युच्यते। अतएव योगिनस्तस्या आकुञ्चने रता यस्या आकुञ्चन मूलाधारबन्धनात्सिद्धं स्यात्॥ १८॥
यस्माच्चराचरं जगदिदं चिदचिदात्मकं प्रभवति तदेव मूलाधारं संवित्प्रसरं प्रसिद्धम्॥ १९॥
सर्वशक्तिप्रसरसंकोचाभ्यां जगत्सृष्टिः संहृतिश्चभवत्येव न सन्देहस्तस्मात्सा मूलमित्युच्यते। अतः प्रायेण सर्वे सिद्धा मूलाधाररता भवन्ति॥ २०॥
तरङ्गितस्वभावं जीवात्मानं वृथाभ्रमनतमपि स्वप्रकाश मध्ये स्वस्वरूपतया सदा धारयितुं समर्था या सा कुण्डलिनी मध्याशक्तिर्गीयते स्थूलसूक्ष्मरूपेण महासिद्धानां प्रतीयत इति निश्चयः॥ २१॥
स्थूलेति निखिलग्राह्याधारविग्राह्य स्वरूपापि पदार्थन्तरे भ्राम्यमाणा चिद्रूपा या वर्तते सा कुण्डलिनी साकारास्थूलापुनस्त्वियमेव स्वप्रसारचातुर्यतया वर्तमाना योगिनां परमानन्दतया कुण्डलिनी या निश्चयभूता वर्तते सा सुक्ष्मा निराकारा प्रबुद्धा महासिद्धानां मते प्रसिद्धा॥ २२॥
सृष्टिकुण्डलिनी ख्याता द्विधा भागवती तु सा। एकधा स्थूलरूपा च लोकानां प्रत्यगात्मिका। अपरा सर्वगा सूक्ष्मा व्याप्ति व्यापकवर्जिता। तस्या भेदं न जानाति मोहिता प्रत्ययेन तु॥ २३॥
तस्मात् सूक्ष्मापरा संवित्स्वरूपा मध्या शक्ति कुण्डलिनी योगिभिर्देहसिद्ध्यर्थ सद्गुरुमुखाज्ज्ञात्वा स्वस्वरूपदशायां प्रबोधनीया॥ २४॥
अथ ऊर्ध्वशक्तिनिपातः कथ्यते सर्वेषां तत्त्वानामुपरिवर्तमानत्वान्निर्नाम परमं पदमेवमूर्ध्वप्र्सिद्धं तस्याः स्वसंवेदन नानासाक्षात्कारसूचनशीलाया सोर्ध्वशक्तिरभिधीयते तस्या निपातममिति स्वस्वरूपद्विधाभासनिरासः किन्तु स्वस्वरूपाखण्डत्वेन भवति॥ २५॥
शिवस्याभ्यन्तरे शक्ति शक्तेराभ्यतरः शिवः।
अन्तरं नैव जानीयाच्चन्द्रचन्द्रिकयोरिव॥ २६॥
अत ऊर्ध्वशक्तिनिपातेन योगिभिः परमं पदं प्राप्यत इति सिद्धम्॥ २७॥
सत्त्वे सत्त्वे सकलरचना राजते संविदेका
तत्त्वे तत्त्वे परममहिमा संविदेवावभाति।
भावे भावे बहुलतरला लम्पटा संविदेषा
भासे भासे भजनचतुरा बृंहिता संविदेव॥ २८॥
किमुक्तं भवति परावरविमर्शरूपिणी संविन्नानाशक्तिरूपेण निखिलपिण्डाधारत्वेन वर्त्तते इति सिद्धान्तः॥ २९॥
इति शिवगोराक्षविरचितसिद्धसिद्धान्तपद्धतौ चतुर्थोपदेशः॥
पञ्चमोपदेशः
[सम्पाद्यताम्]अथ पिण्डपदयोः समरसकरणं कथ्यते-
महासिद्धयोगिभिः पूर्वोक्तक्रमेण परपिण्डादिस्वपिण्डान्तं ज्ञात्वा परमपदे समरसं कूर्यात्॥१॥
परमपदमिति स्वसंवेद्यं अत्यन्ताभासाभासकमयं॥२॥
उक्तं तत्त्वसंहितायामः-
यत्र बुद्धिर्मनो नास्ति तत्त्वविन्नापरा कला।
ऊहापोहौ न कर्तव्यौ वाचा तत्र करोति किम्॥
वाग्मिना गुरूणा सम्यक् कथं तत्पदमियते ।
तस्मादुक्तं शिवेनैव स्वसंवेद्यं परंपदम्॥३॥
अतएव नानाविधि- विचारचातुर्य-चर्चा विस्मयां गत्वा कृपातत्वमात्रेण निर्णीतत्वात् स्वसंवेद्यमेव परमं पदम् प्रसिद्धमिति सिद्धान्तः॥४॥
गुरुरत्र सम्यक् सन्मार्गदर्शनशीलो भवति।
सन्मार्गो योगमार्गस्तदितरः पाषंडमार्गः।
तदुक्तमादिनाथेनः-
योगमार्गेषु तंत्रेषु दीक्षितास्तांश्च दूषकाः।
ते हि पाषंडिनः प्रोक्ताः तथा तैः सहवासिनः॥५॥
यस्मिन् दर्शोते सति तत्क्षणात् स्वसंवेद्यसाक्षात्कारः
समुत्पद्यते। ततो गुरुरेवात्र कारणमुच्यते॥ ६॥
तस्माद्गुरुकटाक्षपातात् स्वसंवेद्यतया च महासिद्धयोगिभिः स्वकीयं पिण्डं निरुत्थानानुभवेन समरसं क्रियते इति सिद्धान्तः ॥ ७॥
तद्यथा-निरुत्थानप्राप्त्युपायः कथ्यते।
महासिद्धयोगिनः स्वस्वरूपतयानुसन्धानेन निजावेशो भवाति
निजावेशान्निपीदित- निरुत्थान- दशा- महोदयः कश्चिज्जायते।
ततः सच्चिदानन्द- चमत्कारात् अद्भुताकारप्रकाशप्रबोधो जायते।
प्रबोधादखिलमेतद् द्वयाद्वय्- प्रक्टतया चैतन्यभासाभासकं परात्परं पदमेव प्रस्फुटं भवतीति सत्यं॥ ८॥
अत एव महासिद्धयोगिभिः सम्यक्।उक्त। गुरुप्रसादं लब्ध्वाऽवधान- बलेनैक्यं भजमानैस्तत्क्षणात् परमं पदमेवानुभुयते॥ ९॥
तदनुभवबलेन स्वकीयं सिद्धं सम्यक् निजपिण्डं परिज्ञात्वा तमेव परमपदे एकीकृत्य तस्मिन् प्रत्यावृत्यारूढेवाभ्यन्तरे स्वपिण्ड सिद्ध्यर्थं महत्त्वमनुभूयते॥ १०॥
निजपिण्डमिति स्वरूपकिरणानन्दोन्मेषमात्रं यस्योन्मेषस्य प्रत्याहरणमेव समरसकरणं भवति॥ ११॥
अतएव स्वकीयं पिण्डं महारश्मिपुंजं स्वेनैवाकारेण प्रतीयमानं स्वानुसन्धानेन स्वस्मिन्नुररीकृत्य महासिद्धयोगिनः पिण्डसिद्ध्यर्थं तिष्ठन्तीति प्रसिद्धम्॥ १२॥
अथ पिण्डसिद्धौ वेषः कथ्यते-
शंखमुद्राधारणञ्च केशरोमप्रधारणम्।
अमरीपानममलं तथा मर्दनमुत्तमम्॥ १३॥
एकान्तवासो दीक्षा च सन्ध्या जपमाश्रया।
झानभैरवमूर्तेस्तु तत्पूजा च सुरादिभिः॥ १४।
शंखाध्मातं सिंहनादं कौपीनं पादुका तथा।
अङ्गवस्त्रं बहिर्वस्त्रं कम्बलं छत्रमद्भुतम्॥ १५॥
वेत्रं कमंडलुञ्चैव भस्मना च त्रिपुण्डूकम् ।
कूर्यादेतान् प्रयत्नेन गुरुवन्दनपूर्वकम्।
तेषां पिण्डसिद्धौ सत्यां सर्वसिद्धयः सन्निधाना भवन्ति॥ १७॥
उक्तञ्चः-
यस्मिन् ज्ञाते जगत्सर्वं सिद्धं भवति लीलया।
सिद्धयः स्वयमायान्ति तस्माद् ज्ञेयं परमं पदम्॥ १८॥
परं पदं न वेषेण प्राप्यते परमार्थतः।
देहमूलं हि वेषं स्याल्लोकप्रत्ययहेतुकम्॥ १९॥
लोके निकृष्टमुत्कृष्टं परिगृह्य पृथक् कृतम्।
तत्स्वधर्म इति प्रोक्तो योगमार्गे विशेषतः॥ २०॥
योगमार्गात्परो मार्गो नास्ति नास्ति श्रुतौ स्मृतौ॥ २१॥
शास्त्रेष्वन्येषु सर्वेषु शिवेन कथितः पुरा।
योगः सन्नहनोपायो ज्ञानसंगतियुक्तिषु॥२२॥
लोके निकृष्टं सततं यं वा यं वा प्रकुर्वतो।
तं वा तं वा वर्जयन्ति लोकज्ञानबलेन तु॥ २३॥
मनुष्याणां च सर्वेषां प्राक्संस्कारवशादिह।
शास्त्र-युक्ति-समाचारः क्रमेण भवति स्फुटम्॥ २४॥
एवं पिण्डे संसिद्धे ज्ञानप्राप्त्यर्थं तच्च परमपदं महासिद्धानां मतं परिज्ञाय तस्मिन्नहंभावे जीवात्मा च सहजसंयम-सोपायाद्वैतक्रमेणोपलक्ष्यते॥ २५॥
तत्र सहजमिति।
विश्वातीतं परमेश्वरं विश्वरूपेणावभासमानमिति
एकमेवस्तीति स्वस्वभावेन यद् ज्ञानं तत्सहजं प्रसिद्धम्॥ २६॥
संयम इति। सावधानानां प्रस्फुरद्-व्यापाराणां निजवृत्तीनां
संयमनं कृत्वा आत्मनि धीयते इति संयमः॥ २७॥
सोपायमिति। स्वयमेव प्रकाशमयं स्वेनैव स्वात्मन्येकी
कृत्य सदा तत्त्वेन स्थातव्यम्॥ २८॥
अद्वैतमिति। अकर्तृतयैव योगी नित्यतृप्तो निर्विकल्पः सदा
निरुथानत्वेन तिष्टति॥२९॥
उक्तञ्चः-
सहजं स्वात्मसंवित्तिः संयमः स्वात्मनिग्रहः।
सोपायः स्वस्य विश्रान्तिरद्वैतं परमं पदम्॥ ३०॥
तज्ज्ञेयं सद्गुरोर्वक्त्रात् नान्यथा शास्त्रकोटिभिः।
न तर्कशब्दविज्ञानान्नाचारद्वेदपाठनात्॥३१॥
वेदान्तश्रवणान्नैव तत्त्वमस्यादिबोधनात्।
न हंसोच्चारणाज्जीवब्रह्मणोरैक्यभावनात्॥ ३२॥
न ध्यानान्न लयाल्लीनः सर्वज्ञः सिद्धिपारगः
स्वेच्छो योगी स्वयंकर्ता लीलया चाजरोऽमरः॥ ३३॥
अवध्यो देवदैत्यानां क्रीडते भैरवो यथा।
इत्येवं निश्चलो योऽसौ क्रमादाग्नोति लीलया॥ ३४॥
असाध्याः सिद्धयः सर्वाः सद्गुरोः करुणां विना।
प्रथमे त्वरोगतासिद्धिः सर्वलोकप्रियो भवेत्।
कांक्षते दर्शनं तस्य स्वात्मारूढस्य नित्यशः॥ ३५॥
कृतार्थः स्याद्वितीये तु कुरुते सर्वभाषया।
तृतिये दिव्यदेहस्तु व्यालैर्व्याघ्रैर्न बध्यते॥३६॥
चतुर्थे क्षुत्तृषानिद्राशीततापविवर्जितः।
जायते दिव्ययोगीशो दूरश्रावी न संशयः॥ ३७॥
वाक्सिद्धिः पण्चमे वर्षे पुरकयप्रवेशनम्।
षष्ठे न छिद्यते शस्तैर्वज्रपातैर्न वाध्यते॥ ३८ ॥
वयुवेगी क्षितित्यागी दूर्दर्शी च सप्तमे।
अणिमादिगुणोपेतस्त्वष्टमे वत्सरे भवेत्॥ ३९॥
नवमे वज्रकायः स्यात् खेचरो दिक्चरो भवेत्।
दशमे पवनाद वेगी यत्रेच्छा तत्र धावति॥ ४०॥
सम्यगेकादशे वर्षे सर्वज्ञः सिद्धिभाग्भवेत्।
द्वादशे शिवतुल्योऽसौ कर्ता हर्ता स्वयं भवेत्॥ ४१॥
त्रैलोक्ये पूज्यते सिद्धः सत्यं श्रीभैरवो यथा।
एवं द्वादशवर्षेषु सिद्धयोगी महाबलः॥
जायते सद्गुरोः पादप्रभावान्नात्र संशयः॥ ४२॥
अनुवुभूषितयोनिजविश्रमं स गुरूपादसरोरुहमाश्रयेत्।
तदनुससरणात्परमं पदं समरसीकरणं न च दूरतः॥ ४५॥
गुरुकुलसन्तानं पञ्चधा प्रोक्तम्।
आईसन्तानं विलेश्वर सन्तानं विभूतिसन्तानं नाथसन्तानं योगीश्वरसन्तानञ्चेति एषामपि सन्तानानां पृथक् पृथक् वैशिष्ट्यं वर्तते॥ ४३॥
परमार्थतः सर्व पाञ्चभौतिकं न जाताः पुरुषाः सम्बोधमत्रैकरूपः शिवस्तदितरत्सर्वमज्ञानमव्यक्तं भवति तत्र शिवस्तु ज्ञानं॥ ४४॥
एतेषामपि सन्तानानां केचित्स्वरूपपरङ्मुखाः वेशमात्रसम्पन्नाः क्रयविक्रयादिकं कुर्वन्ति सन्तानभेदं प्रत्यन्योऽन्यमधः कुर्वन्ति योगमार्गं द्वेषयान्ति॥ ४५॥
रजसा घोरसंकल्पाः कामुकाः अतिमन्यवः।
दाम्भिकाः मानिनः पापाः धिक्कुर्वन्त्यीश्वरप्रियान्॥ ४६॥
सधुसङ्गमसच्छास्त्रपरमानन्दलक्षितान्।
स्वेच्छाचारविहारैकज्ञानविज्ञानसंयुतान्॥ ४७॥
यूयं दुष्टा वयं शिष्टा भ्रष्टा यूयं वयं तथा।
इत्ययेवं परिवदन्ति संप्रमोहे निरन्तरम्॥ ४८॥
पृत्वी जलं तथा वह्निः वायुराकाशमेव च
एते सन्तानोदयास्यु सम्यगेव प्रकीर्तिताः॥ ४९॥
काठिन्यञ्चार्द्रता तेजो धावनं स्थिरता खलु।
गुणान्येतानि पञ्चैव सन्तानानां क्रमात्स्मृताः॥ ५०॥
ब्रह्मा विष्णुश्च रुद्रश्च इश्वरश्च सदाशिवः
एताश्च देवताः प्रोक्ताः सन्तानानां क्रमेण तु॥ ५१॥
स्थूलसुक्ष्मकारणतुर्यं तुर्यातीतमिति पञ्चावस्थाः क्रमेण लक्ष्यन्ते। एतेषामपि सर्वेषां विज्ञाता यः स योगी स सिद्धपुरुषः स योगीश्वरेश्वर इति परमरहस्यं प्रकाशितम्॥ ५२॥
अतव सम्यक् निजविश्रान्तिकारकं महासिद्धयोगिनं सद्गुरुं सेवयित्वा सम्यक् सावधानेन परमं पदं सम्पाद्य तस्मिन्निजपिण्डे च समरसभावं कृत्वाऽत्यन्तनिरुत्थानेन सर्वानन्दतत्त्वे निश्चलं स्थातव्यं। ततः स्वयमेव महासिद्धो भवतीति सत्यम्॥ ५३॥
न विधिर्नैव वर्णश्च न वर्ज्यावर्ज्यकल्पना।
न भदोनिधनं किञ्चिन्नाशौचं नोदकक्रिया॥ ५४॥
योगीश्वरेश्वरस्यैवं नित्यतृप्तस्य योगिनः।
चित्स्वात्मसुखविश्रान्तिभावलब्धस्य पुण्यतः॥ ५५॥
सम्यक् स्वभावविज्ञानात् क्रमाभ्यासान्न चासनात्।
न वैराग्यान्न नैराश्यान्नाहारात्प्राण धारणात्॥ ५६॥
न मुद्राधारणाद्योगान्मौनकर्मसमाश्रयात्।
न विरक्तौ वृथायासान्न कायक्लेशधारणात्॥ ५७॥
न देवार्चनाश्रयाद्भक्त्या नाश्रमाणाञ्च पालनात्।
न षड्दर्शनकेशादिधारणान्न च मुण्डनात्॥ ५८॥
न जपान्न तपोध्यानान्न यज्ञतीर्थसेवनात्।
नानन्तोपययत्नेभ्यः प्राप्यते परम पदम्॥ ५९॥
एतानि साधनानि सर्वाणि दैहिकानि परित्यज्य परमपदेऽदैहिके स्थीयते सिद्धपुरुषैरिति॥ ६०॥
तत्कथं। गुरुदृक्पातनात् प्रायो दृढानां सत्यवादिनां सा स्थितिर्जायते॥ ६१॥
कथनाच्छक्तिपातद्वा यद्वापदवलोकनात्।
प्रसादात्स्वगुरोः सम्यक् प्राप्यते परमं पदम्॥ ६२॥
अतएव शिवेनोक्तम्।
न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः॥ ६३॥
वाङ्मात्राद्वाथदृक्पाताद् य करोति च तत्क्षणात्।
प्रस्फुटं शाम्भवं वेद्यं स्वसंवेद्यं परं पदम्॥ ६४॥
करुणाखण्डपातेनच्छित्त्वा पाशाष्टकं शिशोः।
सम्यगनन्दजनकः सद्गुरुः सोऽभिधीयते॥ ६५॥
निमिषार्धर्धपाताद् वा यद्वापादावलोकनात्।
स्वात्मानां स्थिरमाधत्ते तस्मै श्रीगुरवे नमः॥ ६६॥
नानाविकल्पविश्रान्तिं कथया कुरुते तु यः।
सद्गुरुः स तु विज्ञेयो न तु मिथ्याविडम्बकः॥
अतएव परमपदप्राप्त्यर्थं स सद्गुरुः सदा वन्दनीयः॥ ६७॥
गुरुरिति गृणाति शं सम्यक् चैतन्यविश्रान्तिमुपदिशति विश्रान्त्या स्वयमेव परात्परं परमपदमेव प्रस्फुटं भवति तत्क्षणात् साक्षात्कारो भवति॥ ७१॥
अतएव महासिद्धानं मते प्रोक्तं वाङ्मात्रेण सम्यग्वलोकनेन वा तत्क्षणान्मुहूर्विश्रान्तियुक्तं करोतीति यः स सद्गुरुर्भवति।
नोचेन्निजविश्रान्ति विना पिण्डपदयोः समरसकरणं न भवतीति सिद्धान्तस्तस्मान्निजविश्रान्तिकारकः सद्गुरुर्भिधीयते नान्यः।
पुनर्वागादिशस्त्रदृष्ट्यनुमानतर्कमुद्रया भ्रामको गुरुस्त्याज्यः॥ ७२॥
उक्तञ्चः-
ज्ञानहीनो गुरुस्त्याज्यो मिथ्यावादीविडम्बकः।
स्वविश्रान्तिं न जानाति परेषां स करोति किम्॥ ७३॥
शिलया किं परं पारं शिलासंघः प्रतार्यते।
स्वयंतीर्णो भवेद्योऽसौ परान्निस्तारयत्यलम्॥ ७४॥
विकल्पसागराद् घोराच्चिन्ताकल्लोलदुस्तरात्।
प्रपञ्चवासनादुष्टग्रहजालसमाकुलात्॥ ७५॥
वासनालहरीवेगाम्न स्वं तारयितुं क्षमः।
स्वस्थेनैवोपदेशेन निरुत्थानेन तत्क्षणात्॥ ७६॥
तारयत्येवदृक्पातात् कथनाद्वा विलोकनात्।
तारिते स्वपदं धत्ते स्वस्वमध्ये स्थिरो भवेत्॥ ७७॥
ततः स मुच्यते शिष्यो जन्मसंसारबन्धनात्।
परानन्दमयोभूत्वा निष्कलः शिवतां व्रजेत्॥ ७८॥
कुलानां कोटिकोटीनां तारयत्येवा तत्क्षणात्।
अतस्तु सद्गुरुं साक्षात् त्रिकालमभिवन्दयेत्॥ ७९॥
सर्वाङ्गप्रणिपातेन स्तुवन्नित्यं गुरुं भजेत्।
स जनः स्थैर्यमाप्नोति स्वस्वरूपमयो भवेत्॥ ८०॥
किमत्र बहुनोक्तेन शास्त्रकोटिशतेन च।
दुर्लभा चित्तविश्रान्तिर्विना गुरुकृपां पराम्॥ ८१॥
चित्तविश्रान्तिलब्धानां योगिनां दृढचेतसाम्।
स्वस्वमध्ये निमग्नानां निरुत्थानं विशेषतः॥ ८२॥
निमिषात् प्रस्फुटं भाति दुर्लभं परमं पदम्।
यस्मिन् पिण्डो भवेल्लीनः सहसा नात्र संशयः॥ ८३॥
संवित्क्रियाविकरणोदयचिद्विलासो
विश्रान्तिमेव भजतां स्वयमेव भाति।
ग्रस्ते स्ववेगनिचये पदपिण्डमैक्यं
सत्यं भवेत्समरसं गुरुवत्सलानाम्॥ ८४॥
इति श्रीगोरक्षनाथकृतौ सिद्धसिद्धान्तपद्धतौ पिण्डपदयोः समरसकरणं नाम पञ्चमोपदेशः॥ ५॥
षष्ठोपदेशः
[सम्पाद्यताम्]अथ कोऽवधूतयोगीनामेत्यपेक्षायामाह।
यः सर्वान् प्रकृतिविकारानववधुनोतीत्यवधूतः योगी। योगोऽस्यास्तीति योगी। धूञ्कम्पने धूञिति धातुः कम्पनार्थे वर्तते। कम्पनं चालनं देह दैहिक प्रतंचादिषु विषयेषु संगतं मनः परिगृह्य तेभ्यः प्रत्याहृत्य स्वधाममहिम्नि परिलीन चेताः प्रपञ्चशून्य आदिमध्यान्तनिधनभेदवर्जितः॥ १॥
यकारो वायुबीजं स्याद्रकारो वह्निबीजकम्।
तयोरभेदओंकारश्चिदाकारः प्रकिर्तितः॥ २॥
तदेतद् व्यक्तमुच्यते
क्लेशपाशतरङ्गाणां कृन्तनेन विमुण्डनम्।
सर्वावास्थाविनिर्मुक्तः सोऽवधूतोऽभिधीयते॥ ३॥
निजस्मरविभूतिर्यो योगी स्वाङ्गे विभूषितः।
आधारे यस्य वा रूढिः सोऽवधूतोऽभिधीयते॥ ४॥
लोकमध्ये स्थिरासीनः समस्तकलनोज्झितः।
कौपीनं खर्परोऽदैन्यं सोऽवधूतोऽभिधीयते॥ ५॥
शं सुखं खं परं ब्रह्म शंखं सङ्घट्टनाद् भवेत्
सिद्धान्तो धारितो येन सोऽवधूतोऽभिधीयते॥ ६॥
पादुका पदसंवित्तिर्मृगत्वक् स्यादनाहतम्।
शेली यस्य परासंवित् सोऽवधूतोऽभिधीयते॥ ७॥
मेखला निवृत्तिर्नित्यं स्वस्वरूपं कटासनम्।
निवृत्तिः षड्विकारेभ्यः सोऽवधूतोऽभिधीयते॥ ८॥
चित्प्रकाशपरानन्दौ यस्य वै कुण्डलद्वयम्।
जपमालाक्षविश्रान्ति सोऽवधूतोऽभिधीयते॥ ९॥
यस्य धैर्यमयोदण्डः पराकाशञ्च खर्परम्।
योगपट्टो निजा शक्तिः सोऽवधूतोऽभिधीयते॥ १०॥
भेदभेदौ स्वयं भिक्षां कृत्वा स्वास्वादने रतः।
जारणातन्मयो भावः सोऽवधूतोऽभिधीयते॥ ११॥
अचिन्त्ये निजदिग्देशे स्वान्तरं वस्तु गच्छति।
एकदेशान्तरीयो यः सोऽवधूतोऽभिधीयते॥ १२॥
स्वपिण्डममरीकर्तुमनन्ताममरीं च यः।
स्वयमेवपिवेदेतां सोऽवधूतोऽभिधीयते॥ १३॥
अचिन्त्यावज्रवद्गाढ़ा वासनामलसंकुला।
सा वज्री भक्षिता येन सोऽवधूतोऽभिधीयते॥ १४॥
आवर्तयति यः सम्यक् स्वस्वमध्ये स्वयं सदा।
समत्वेन जगद् वेत्ति सोऽवधूतोऽभिधीयते॥ १५॥
स्वात्मानमवगच्छेद्यः स्वात्मन्येवावतिष्ठते।
अनुत्थानमयः सम्यक् सोऽवधूतोऽभिधीयते॥ १६॥
अनुत्थाधारसम्पन्नः परविश्रान्तिपारगः।
धृतिचिन्मयतत्वज्ञः सोऽवधूतोऽभिधीयते॥ १७॥
अव्यक्तं व्यक्तमाधत्ते व्यक्तं सर्वं ग्रसत्यलम्।
स सत्यं स्वान्तरे सन्न सोऽवधूतोऽभिधीयते॥ १८॥
अवभासात्मको भासः प्रकाशे सुखसंस्थितः।
लीलयारमते लोके सोऽवधूतोऽभिधीयते॥
क्वचिद्भोगी क्वचित्त्यागी क्वचिन्नग्नोदिगम्बरः।
क्वचिद्राजा क्वचाचारी सोऽवधूतोऽभिधीयते॥ १९॥
एवंविध नानासंकेतसूचको नित्यप्रकाशे वस्तुनि निजस्वरूपी सर्वेषां सिद्धान्तदर्शनानां स्वस्वरूपदर्शने सम्यक् सद्बोधकोऽवधूत योगीत्यभिधीत्ये स सद्गुरुर्भवति। यतः सर्वदर्शनानं स्वस्वरूपदर्शने समन्वयं करोति सोऽवदूतयोगी स्यात्॥ २०॥
अत्याश्रमी च योगी च ज्ञानी सिद्धश्च सुव्रतः।
इश्वरश्च तथा स्वामी धन्यः श्रीसाधुरेव च॥ २१॥
जितेन्द्रियश्च भगवान् स सुधी कोविदो बुधः।
चार्वाक्श्चार्हतश्चेति तथा बौद्धः प्रकाशवित्॥ २२॥
तार्किकश्चेति सांख्यश्च तथा मीमांसको विदुः।
देवतेत्यादिविद्वद्भिः कीर्तितः शस्त्रकोटिभिः॥ २३॥
आत्मेति परमात्मेति जीवात्मेति पुनः स्वयं।
अस्तितत्त्वं परं साक्षाच्छिवरुद्रादिसंज्ञितम्॥ २४॥
शरीरपद्मकुहरे यत्सर्वेषामवस्थितम्।
तदवश्यं महापाशच्छेदितव्यं मुमुक्षुभिः॥ २५॥
ब्रह्मा विष्णुश्च रुद्रश्च सोऽक्षरः परमस्वराट्।
स एवेन्द्रः स च प्राणः कालाग्निः स च चन्द्रमाः॥ २६॥
स एव सूर्यः स शिवः स एव परमः शिवः।
स एव योगगम्यश्च सांख्यशास्त्रपरायणैः ॥ २७॥
स एव कर्म इत्युक्तः कर्ममीमांसकौरपि।
सर्वत्र सत्परानन्द इत्युक्तो वैदिकैरपि॥ २८॥
व्यवहारैरयं भेदस्तस्मादेकस्य नान्यथा॥ २९॥
मुद मोदे तु र देने जीवात्मरमात्मनोः।
उभयोरेकसंवित्तिर्मुद्रेति परिकीर्तिता॥ ३०॥
मोदन्ते देवसङ्घाश्च द्रवन्तेऽसुरराशयः।
मुद्रेति कथिता साक्षात् सदा भद्रार्थदायिनी॥ ३१॥
अस्मिन्मार्गेऽदीक्षिता ये सदा संसाररागिणः।
तेहि पाखण्डिनः प्रोक्ताः संसारपरिपेलवाः॥ ३२॥
अवधूततनुर्योगी निराकारपदे स्थितः।
सर्वेषां दर्शनानञ्च स्वस्वरूपं प्रकाशते॥ ३३॥
तत्र ब्राह्मणेषु ब्रह्मचर्याश्रममाहः
सर्वतो भरिताकारं निजबोधेम बृंहितम्।
चरते ब्रह्मविद्यस्तु ब्रह्मचारी स कथ्यते॥ ३४॥
ग्रृहिणी पूर्णता नित्या गेहं व्योमं सदा बलम्।
यस्तया निवसत्यत्र गृहस्थः सअभिधीयते॥ ३५॥
तदान्तः प्रस्थितो योऽसौ स्वप्रकाशमये वने।
वानप्रस्थः स विज्ञेयो न वने मृगवच्चरन्॥ ३६॥
परमात्माऽथ जीवात्मा आत्मन्येव स्फुरत्यलम्।
तस्मिन्न्यस्त सदा येन संन्यासीसोऽभिधीयते॥ ३७॥
मायाकर्मकलाजालमनिशं येन दण्डितम्।
अचलो नगवद्भाति त्रिदण्डी सोऽभिधीयते॥ ३८॥
एकं नानाविधाकारं चञ्चलन्तु सदा तु यत्।
तच्चित्तं दण्डतं येन एकदण्डी स कथ्यते॥ ३९॥
शुद्धं शान्तं निराकारं परानन्दं सदोदितम्।
तं शिवं यो विजानाति शुद्ध शैवो भवेत्तु सः॥ ४०॥
सन्तापयति दीप्तानि स्वेन्द्रियाणि च यः सदा।
तापसः स तु विज्ञेयो न च गोभस्मधारकः॥ ४१॥
क्रियाजालं पशुं हत्वा पतित्वं पूर्णतां गतम्।
यस्तिष्टेत्पशुभावेना स वै पाशुपतो भवेत्॥ ४२॥
परानन्दमयं लिङ्गं निजपीठे सदाऽचले।
तल्लिङ्गं पूजतं येन स वै कालमुखो भवेत्॥ ४३॥
विलयं सर्वतात्वानां कृत्वा संधार्यते स्थिरम्।
सर्वदा येन वीरेण लिङ्गदारी भवेत्तु सः॥ ४४॥
अन्तकादीनि तत्त्वानि त्यक्त्वा नग्नो दिगम्बरः।
यो निर्वाणपदे लीनः स निर्वाणपरो भवेत्॥ ४५॥
स्वस्वरूपात्मकं ज्ञानं समन्त्रं तत्प्रपालितम्।
अनन्यत्वं सदा येन स वै कापालिको भवेत्॥ ४६॥
महाव्याप्तिपरं तत्त्वमाधाराधेयवर्जितम्।
तद् व्रतं धारितं येन स भवेद् वै महाव्रतः॥ ४७॥
कुलं सर्वात्मकं पिण्डमकुलं सर्वतोमुखम्।
तयोरैक्यपदं शक्तिर्यस्तां वेद स शक्तिभाक्॥ ४८॥
कौलं सर्वकलाग्रासः सकृतः सततं यया।
तां शक्तिंयो विजानाति शक्त्ज्ञानी स कथ्यते।
ज्ञात्वा कुलाकुलं तत्वं सक्रमेण क्रमेण तु।
स्वप्रकाशमहाशक्त्या ततः शक्तिपदं लभेत्॥ ४९॥
मदो मद्यं मतिर्मुद्रा माया मीनं मनः पलम्।
मूर्च्छनं मैथुनं यस्य तेनाऽसौ शाक्त उच्यते॥ ५०॥
यया भासस्फुरद्रूपण् कृतं चैव स्फुटं बलात्।
तां शक्तिं यो विजानाति शाक्तः सोऽत्राभिधीयते॥ ५१॥
यः करोति निरुत्थानं कर्तृचित्प्रसरेत्सदा।
तद्विश्रान्तिस्तया शक्त्या शाक्तः सोऽत्राभिधीयते॥ ५२॥
व्यापकत्वे परं सारं यद्विष्णोराद्यमव्ययम्।
विश्रान्तिदायकं देहे तज्ज्ञात्वा वैष्णवो भवेत्॥ ५३॥
भास्वत्स्वरूपो यो भेदात् भेदभावोज्झितः खलु।
भाति देहे सदा यस्य स वै भागवतो भवेत्॥ ५४॥
यो वेत्ति वैष्णवं भेदं सर्वासर्वमयं निजम्।
प्रबुद्धं सर्वदेहस्थं भेदवादी भवेत्तु सः ॥ ५५॥
पञ्चानामक्षया हानिः पञ्चत्वं रात्रिरुच्यते।
तां रात्रिं यो विजानाति स भवेत्पञ्चरात्रिकः॥ ५६॥
येन जीवन्ति जीवा वै मुक्तिं यान्ति च तत्क्षणात्।
स जीवो विदितो येन सदाजीवी स कथ्यते॥ ५७॥
यः करोति सदा प्रीतिं प्रसन्ने पुरुषे परे।
शसितानीन्द्रियाण्येव सात्त्विकः सैऽभिधीयते॥ ५८॥
सर्वाकारं निराकारं निर्निमित्तं निरञ्जनम्।
सूक्ष्मं हंसं च यो वेत्ति स भवेत्सूक्ष्मसात्त्विकः॥ ५९॥
सत्यमेकमजं नित्यमनन्तं चाक्षयं ध्रुवम्।
ज्ञात्वा यस्तु वदेद्धीरः सत्यवादी स कथ्यते॥ ६०॥
ज्ञानज्ञेयमयाभ्यां तु योगिनः स्वस्वभावतः।
कलङ्की स तु विज्ञेयो व्यापकः पुरुषोत्तमः॥६१॥
मुक्तिचारे मतिर्या वै व्यापिका स्वप्रकाशिका।
एषा ज्ञानवती येन ज्ञाऽतासौ सत्विको भवेत्॥ ६२॥
क्षपणं चित्तवृत्तीनां रागद्वेषविलुण्ठनम्।
कुरुते व्योमवन्नग्नो योऽसौ क्षपणको भवेत्।
प्रसरं भासते शक्तिः सङ्कोचं भासते शिवः।
तयोर्योगस्य कर्ता यः स भवेत्सिद्धयोगिराट्॥ ६३॥
विश्वातीतं यथा विश्वमेकमेव विराजते।
संयोगेन सदा यस्तु सिद्धयोगी भवेत्तु सः॥६४॥
सर्वासां निजवृत्तिनां प्रसृतिर्भजते लयम्।
स भवेत्सिद्धसिद्धान्ते सिद्धयोगी महाबलः॥ ६५॥
उदासीनः सदा शान्तः स्वस्थोऽन्तर्निजभासकः।
महानन्दमयो धीरः स भवेत् सिद्धयोगिराट्॥ ६६॥
परिपूर्णः प्रसन्नात्मा सर्वासर्वपदोदितः।
विशुद्धो निर्भरानन्दः स भवेत् सिद्धयोगिराट्॥ ६७॥
गते न शोकं विभवे न वाञ्च्छा प्राप्ते न हर्षं स करोति योगी।
आनन्दपूर्णो निजबोधलीनो न वाध्यते कालपथेन नित्यम्॥ ६८॥
एवं तु सर्वसिद्धान्तदर्शनानां पृथक् पृथक् भूतानामपि ब्रह्मणि समन्वयसूचनशीलोपदेशकर्ताऽवधूत एवं कर्ता सद्गुरुः प्रशस्यत्। एषामुपदेशानां पृथक् पृथक् सूचितानां जायते यत्र विश्रान्तिः सा विश्रान्तिर्भिधीयते॥ ६९॥
लीनतां च स्वयं याति निरुत्थानचमत्कृतेः।
यतो निरुत्थानमयात् सोऽयं स्यादवधूतराट्॥ ७०॥
तस्मात्तं सद्गुरुं साक्षात् वन्दयेत् पूजयेत्सदा।
सम्यक् सिद्धपदं धत्ते तत्क्षणात्स्वात्मभाषितम्॥७१॥
न वन्दनीयास्ते काष्ठाः दर्शनभ्रान्तिकारकाः।
वर्जयेत्तान् गुरून् दूराद् धीरः सिद्धमताश्रयः॥ ७२॥
परपक्षं निरासं करोतिः।
वेदान्ती बहुतर्ककर्कशमतिर्ग्रस्तः परं मायया।
भाट्टाः कर्मफलाकुला हतधितो द्वैतेनवैशेषिकाः॥
अन्ते भेदरताः विवादविकलाः सत्तत्त्वतो वञ्चिताः
तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत्॥ ७३॥
सांख्या वैष्णववैदिकाविधिपराः संन्यासिनस्तापसः
सौरा वीरपराः प्रपञ्चनिरता बौद्धा जिनाः श्रावकाः।
एते कष्टरता वृथा पथगताः सत्तत्त्वतौ वञ्चिताः
तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत्॥ ७४॥
आचार्या बहुदीक्षिता हुतिरता नग्नव्रतास्तापसाः
ननतीर्थनिषेवका जपपरा मौनेस्थिता नित्यशः
एते ते खलु दुःखभारनिरताः सत्तत्त्वतौ वञ्चिताः
तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत्॥ ७५॥
आदौ रेचकपूरकुम्भकविधौ नाड़ी यथाशोधितं
कृत्वा हृत्कमलोदरे तु सहसा चित्तं महामूर्च्छितम्।
पञ्चाक्षरमव्ययं परकुले चोङ्कार्दीपाङ्कुरे
तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत्॥ ७६॥
चार्वाकाश्चतुराश्च तर्कनिपुणा देहात्मवादे रताः
ते सर्वे न तरन्ति दुःसहतरं ये ते परं सात्विकाः।
ते सर्वे प्रभवन्ति ये च यवनाः पापे रतानिर्दयाः
तेषामैहिककल्पमेव फलदं तत्वं न मोक्षं पदम्॥ ७७॥
श्रीहट्टे मस्तकान्ते त्रिपुटपुटविले ब्रह्मरन्ध्रे ललाटे।
भ्रूनेत्रे नासिकाग्रे श्रवणपथरवे घण्टिकाराजदन्ते॥
कण्ठे हृन्नाभिमध्ये त्रिकमलकुहरे चोड्डियाणे च पीठे।
एवं ये स्थानलग्नाः परमपदमहो नास्ति तेषां निरुत्थम्॥ ७८॥
गोल्लाटे दीप्तिपुञ्जे प्रलयशिखिनिभे सिद्धजालन्धरे वा।
शृङ्गाटेज्योतिरेकं तडिदिवतरलं ब्रह्मनाड्यन्तराले॥
भालान्ते विद्यदाभे तदुर्परि शिखरे कोटिमार्तण्डचण्डे।
ये नित्यं भावयन्ते परमपदमहो नास्ति तेषां निरुत्थम्॥ ७८॥
लिङ्गाद्दण्डाङ्कुरान्तर्मनः पवनगमात् ब्रह्मनाड्यादिभेदम्।
कृत्वा बिन्दुं नयन्तः परमपदगुहां शङ्खगर्भोदरोर्ध्वम्॥
तत्रान्तर्नादघोषं गगनगुणमयं वज्रदण्डोक्रमेण।
ये कुर्वन्तीहकष्टान् परमपदमहो नास्ति तेषां निरुत्थम्॥ ७९॥
सम्यक् चालनदोहनेन सततं दीर्धीकृतां लम्बिकां।
तां ताल्वन्तखेशितां च दशमद्वारोदरे सन्धिनीम्॥
नीत्वा मध्यमसन्धिसंघटघटात् प्राप्तां शिरोदेशतः।
पीत्वा षड्विधपानकाष्ठभजनं वाञ्च्छन्ति ये मोहिताः॥ ८१॥
गुह्यात्पश्चिमपुर्वमार्गमुभयं रुध्वानिलं मध्यमं।
नीत्वा ध्यानसमाधिलक्ष्यकरणैर्नानासमाभ्यासनैः॥
प्राणापानगमागमेन सततं हंसोदरे संघटा।
एवं येऽपि भजन्ति ते भवजले मज्जन्त्यहो दुःखिताः॥ ८२॥
शक्त्याकुञ्चनमग्निदीप्तिकरणं त्वाधारसंपेडनात्।
स्थानात्कुण्डलिनीप्रबोधनमतः कृत्वा ततो मूर्धनि॥
नीत्वा पुर्णगिरिं निपावनमधः कुर्वन्ति तस्याश्च ये।
खण्डज्ञानरतास्तु ते निजपदं तेषां हि दूरं मतम्॥ ८३॥
बन्धं भेदञ्च मुद्रां गलबिलचिबुकाबद्धमर्गेषु वह्नि।
चन्द्रार्कासामरस्यं शमदमनियमानादबिन्दुं कलान्ते॥
ये नित्यं मेलयन्ते ह्यनुभवमनसाप्युन्मनीयोगयिक्तास्ते।
लोकान्भ्रामयन्ते निजसुखविमुखाः कर्मदुःखाध्वभजः॥ ८४॥
अष्टाङ्गं योगमार्गं कुलपुरुषमतं षण्मुखीचक्रभेदं।
उर्ध्वाधो वायुमध्ये रविकिरणनिभं सर्वतोव्याप्तिसारम्॥
दृष्ट्या ये विक्षयन्ते तरलजलसमं नीलवर्णं नभो व।
एवं ये भावयन्ते निगदितमतयस्तेऽपि हा कष्टभाजः॥ ८५॥
आदौ धारणशङ्खधारणमतः कृत्वा महाधारणम्।
सम्पूर्णं प्रतिधारणं विधिबलात् दृष्टिस्तथा निर्मलां॥
अर्धोली बहुलीहवासनमथो घण्टावसन्नौलिका।
ये कुर्वन्ति च कारयन्ति च सदा भ्राम्यन्ति खिद्यन्ति ते॥ ८६॥
शङ्खक्षालनमन्तरं रसनया ताल्वोष्ठनासारसं।
वान्तेरुल्लुठनं कपाटममरीपानं तथा खर्परी॥
वीर्यद्रावितमात्मजं पुनरहो ग्रासं प्रलेपञ्च वा।
ये कुत्वन्ति जडास्तु ते नहि फलं तेषां तु सिद्धान्तजम्॥ ८७॥
घण्टाकोहलकालमादुलमहाभेरीनिनादं यदा।
सम्यङ्नादमनाहतध्वनिमयं शृण्वन्ति चैतादृशम्॥
पिण्डं सर्वगतं निरन्तरतया ब्रह्माण्डमध्येऽपो वा।
तेषां सिद्धपदं ततः समुचितं नैवं परं लभ्यते॥ ८८॥
वैराग्यात् तृणशाकपल्वलजल कन्दं फलं मुलकं।
भक्त्वा यो वनवासमेवभजते चान्ये च देशान्तरे॥।
बालोन्मत्तपिशाचमूकजडवच्चेष्टाश्च नानाविधाः।
ये कुर्वन्ति पदं विना मतिबल भ्रष्टा विमुह्यन्ति ते॥ ८९॥
कन्थादर्शनमद्भुतं बहुविधं भिक्षाटनं नाटकं।
भस्मोद्धूलनमङ्गंकर्कशतरं धृत्वा च वर्षम् त्वरेत्।
क्षेत्रं क्षेत्रमटन्ति दुर्गमतरे स्थित्वाऽयं सर्वेन्द्रियं
नो विन्दन्ति परं पदं गुरुमुखाद् गर्वेण कष्टाश्च ते॥ ९०॥
वाणीं ये च चतुर्विधां स्वरचितां सिद्धैश्च वा निर्मितां
गायत्रींचतुराश्च पाठनिरता विद्याविवादे रताः
नो विन्दन्ति तदर्थमात्मसदृशं खिद्यन्ति मोहाच्छलात्
दण्डैः कर्तरिशूलचक्रलगुडैर्भाण्डाश्च दुष्टाश्च ते॥ ९१॥
एवं शून्यातिशुन्यम् परमपरपदं पञ्चशून्यादिशून्यं
व्योमातीतं ह्यनाद्यं निजकुलमकुलं चाद्भुतं विश्वरूपम्।
अव्यक्तं चान्तरालं नुरुदयमपरं भासनिर्नाममैक्यं
वाङ्मात्राद्भासयन्तो बहुविधमनसो व्याकुला भ्रामितास्ते॥ ९२॥
आज्ञासिद्धिकरं सदा समुचितं सम्पूर्णमाभासकं
पिण्डे सर्वगतं विधानममलं सिद्धान्तसारं वरम्।
भ्रान्तेर्निर्हरणं सुखातिसुखदं कालान्तकं शाश्वतं
तन्नित्यं कलनोज्झितं गुरुमयं ज्ञेयं निरुत्थं पदम्॥ ९३॥
आत्मेति परमात्मेति जीवात्मेति विचारणे।
त्रयाणामैक्यसंभूतिः आदेश इति कीर्तितः॥ ९४॥
आदेश ति सद्वाणीं सर्वद्वन्द्वक्षयापहाम्।
यो योगिनं प्रति वदेत् स यात्यात्मानमैश्वरम्॥ ९५॥
आशादहनं भसितं कुण्डलयुगलं विचारसन्तोषः।
कौपीनं स्थिरचित्तं खर्परमाकाशमात्मनो भजनम्॥ ९६॥
एतच्छास्त्रं महादिव्यं रहस्यं पारमेश्वरम्।
सिद्धान्तं सर्वसारस्य नानासङ्केतनिर्णयम्॥ ९७॥
सिद्धानां प्रकटं सिद्धं सद्यः प्रत्ययकारकम्।
आत्मानंदकरं नित्यं सर्वसन्देहनाशनम्॥ ९८॥
न देयं परशिष्येभ्यो नान्येषां सन्निधौ पठेत्।
न स्नेहान्न वलाल्लोभान्न मोहान्नताच्छलात्॥ ९९॥
न मैत्री भावनाद्दानान्नसौन्दर्यान्न चासनात्।
पुत्रस्यापि न दातव्यं गुरुशिष्यक्रमं विना॥ १००॥
सत्यवन्तो दयाचित्ता दृढ़भक्ताः सदाचलाः।
निस्तरङ्गां महाशान्ताः सदा ज्ञानप्रबोधकाः॥ १०१॥
भयदैन्यघृणालज्जातृष्णाशोकविवर्जिताः।
आलस्यमदमात्सर्यदम्भमायाच्छलोज्झिताः॥ १०२॥
अहंकारमहामोहरागद्वेषपराङ्मुखाः।
क्रोधेच्छाकामुकासूयाभ्रान्तिलोभविवर्जिताः॥ १०३॥
निस्पृहा निर्मला धीराः सदाऽद्वैतपदेरताः।
तेभ्यो देयं प्रयत्नेन धूर्तानां गोपयेत्सदा॥ १०४॥
निन्दका ये दुराचारश्चुभ्बका गुरुतल्पगाः।
नास्तिका ये शठाः क्रूरा विद्यावादरतास्तथा॥ १०५॥
योगाचारपरिभ्रष्टाः ते निद्राकालहयोः प्रियाः।
स्वस्वकार्ये परानिष्ठाः गुरुकर्येषु निस्पृहाः॥ १०६॥
एतान् विवर्जयेद् दूरे शिष्यत्वेन गतानपि॥ १०७॥
सच्छास्त्रं सद्धमार्गञ्च सिद्धसिद्धान्तपद्धतिः।
न देयं सर्वदा तेभ्यो यदीच्छेच्चिरजीवनम्॥ १०८॥
गोपनीयं प्रयत्नेन तस्करेभ्यो धनं यथा।
तपां यो बोधयेत् मोहादपरीक्षितमन्दधीः॥ १०९॥
नहि मुक्तिर्भवेत्तस्य सदा दुःखेन सीदतः।
खेचरी भूचरी चैव शाकिनी च निशाचरी॥ ११०॥
एतासामद्भुतं शापः सिद्धानां भैरवस्य च।
मस्तके तस्य पतति तस्माद् यत्नेन रक्षयेत्॥ ११२॥
गुरुपादाम्बुजस्थाय परीक्ष्य प्रवदेत्सदा।
कुतो दुखःञ्च भीतिश्च तत्वज्ञस्य महात्मनः॥ ११२॥
कृपयैव प्रदातव्यं सम्प्रदायप्रवृत्तये।
सम्प्रदायप्रवृत्तिर्हि सर्वेषां सम्मता यतः॥ ११३॥
मायाशङ्करनाथाय सिद्धसिद्धान्तपद्धतिम्।
लिखित्वा यः पठेद्भक्त्या स याति परमां गतिम्॥११४॥
विद्धात्वर्थनिश्चय भक्तानुग्रहमूर्तिमत्।
स्मरानन्दभरं चेतो गणपत्यभिधं महः॥ ११५॥
इति श्रीगोरक्षनाथकृतौ सिद्धसिद्धान्तपद्धतौ अवधूतयोगिलक्षणं नाम षष्ठोपदेशः॥ ६॥
स्रोतः
[सम्पाद्यताम्]इदमपि दर्शनीयम्
[सम्पाद्यताम्]- Siddha-Siddhānta-Paddhati and Other Works of the Nātha Yogīs (by KalyaNI malika, 1954)