सामग्री पर जाएँ

वायु मन्त्र घनपाठ

विकिस्रोतः तः

तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत ।
अवां॒स्या वृ॑णीमहे ॥

तव वायो वायो तव तव वायवृतस्पत ऋतस्पते वायो तव तव वायवृतस्पते ॥
वायवृतस्पत ऋतस्पते वायो वायवृतस्पते त्वष्टुस्त्वष्टुरृतस्पते वायो वायवृतस्पते त्वष्टुः ॥
वाय इति वायो ॥
ऋतस्पते त्वष्टुस्त्वष्टुरृतस्पत ऋतस्पते त्वष्टुर्जामातर्जामातस्त्वष्टुरृतस्पत ऋतस्पते त्वष्टुर्जामातः ॥
ऋतस्पत इति ऋतः - पते ॥
त्वष्टुर्जामातर्जामातस्त्वष्टुस्त्वष्टुर्जामातरद्भुताद्भुत जामातस्त्वष्टुस्त्वष्टुर्जामातरद्भुत ॥
जामातरद्भुताद्भुत जामातर्जामातरद्भुत ॥
अद्भुतेत्यद्भुत ॥
अवांस्यावांस्यवांस्या वृणीमहे वृणीमह आवांस्यवांस्या वृणीमहे ॥
आ वृणीमहे वृणीमह आ वृणीमहे ॥
वृणीमह इति वृणीमहे ॥

वाय॑ उ॒क्थेभि॑र्जरन्ते॒ त्वामच्छा॑ जरि॒तारः॑ ।
सु॒तसो॑मा अह॒र्विदः॑ ॥

वाय उक्थेभिरुक्थेभिर्वायो वाय उक्थेभिर्जरन्ते जरन्त उक्थेभिर्वायो वाय उक्थेभिर्जरन्ते
वाय इति‌ वायो
उक्थेभिर्जरन्ते जरन्त उक्थेभिरुक्थेभिर्जरन्ते त्वां त्वां जरन्त उक्थेभिरुक्थेभिर्जरन्ते त्वाम्
उक्थेभिरित्युक्थे - भिः
जरन्ते त्वां त्वां जरन्ते जरन्ते त्वामच्छाच्छ त्वां जरन्ते जरन्ते त्वामच्छ
त्वामच्छाच्छ त्वां त्वामच्छा जरितारो जरितारो अच्छ त्वां त्वामच्छा जरितारः
अच्छा जरितारो जरितारो अच्छाच्छा जरितारः
जरितार इति जरितारः
सुतसोमा अहर्विदो अहर्विदः सुतसोमाः सुतसोमा अहर्विदः
सुतसोमा इति सुत - सोमाः
अहर्विद इत्यहः - विदः

"https://sa.wikisource.org/w/index.php?title=वायु_मन्त्र_घनपाठ&oldid=403896" इत्यस्माद् प्रतिप्राप्तम्