सामग्री पर जाएँ

मिताक्षरा/प्रायश्चित्ताध्यायः

विकिस्रोतः तः

अथ प्रायश्चित्ताध्यायः ।
अथाशौचप्रकरणम्

गृहस्थाश्रमिणां नित्यनैमित्तका धर्मा उक्ताः । अभिषेकादिगुणयुक्तस्य गृहस्थविशेषस्य गुणधर्माश् च प्रदर्शिताः । अधुना तदधिकारसंकोचहेतुभूताशौचप्रतिपादनमुखेन तेषाम् अपवादः प्रतिपाद्यते । आशौचशब्देन च कालस्नानाद्यपनोद्यः पिण्डोदकदानादिविधेर् अध्ययनादिपर्युदासस्य च निमित्तभूतः पुरुषगतः कश्चनातिशयः कथ्यते, न पुनः कर्मानधिकारमात्रम्, "अशुद्धा बान्धवाः सर्वे" (मा०ध० ५.५८) इत्यादाव् अशुद्धत्वाभिधानात्, अशुद्धशब्दस्य च वृद्धव्यवहारेऽनाहिताग्निदीक्षितादाव् अनधिकारिमात्रे प्रयोगाभावात्, वृद्द्धव्यवहारव्युत्पत्तिनिबन्धनत्वाच् च शब्दार्थावग्ःतेः । किं च यद्य् आशौचिनां दानादिनिषेधदर्शनात् तदयोग्यत्वम् अशौचशब्दाभिधेयं कल्प्यते, तर्हि उदकदानादिविधिदर्शनात् तद्योग्यत्वम् अप्य् आशौचशब्दाभिधेयं स्यात् । तत्रानेकार्थकल्पनादोषप्रसङ्गं इत्य् उपेक्षणीयोऽयं पक्षः ॥

तत्राशौचिभिः सपिण्डाद्यैर् यत् कर्तव्यं तत् तावद् आह ।

ऊनद्विवर्षं निखनेन् न कुर्याद् उदकं ततः ।
आ श्मशानाद् अनुव्रज्य इतरो ज्ञातिभिर् वृतः ॥ या०ध०३.१

यमसूक्तं तथा गाथा जपद्भिर् लौकिकाग्निना ।
स दग्धव्य उपेतश् चेद् आहिताग्न्यावृतार्थवत् ॥ या०ध०३.२

ऊने अपरिपूर्णे द्वे वर्षे यस्यासाव् ऊनद्विवर्षस् तं प्रेतं निखनेत् भूमाव् अवटं कृत्वा निदध्यान् न पुनर् दहेद् इत्य् अर्थः । न च "सकृत् प्रसिंचन्त्य् उदकम्" (या०ध० ३.५) इत्यादिभिः प्रेतोद्देशेन विहितम् उदकदानाद्यौर्ध्वदेहिकं कुर्यात् । अयं च गन्धमाल्यानुपलेपनादिभिर् अलंकृत्य शुचौ भूमौ श्मशानाद् अन्यत्रास्थिनिचयरहितायां बहिर्ग्रामान् निखननीयः । यथाह मनुः ।

"ऊनद्विवार्षिकं प्रेतं निदध्युर् बान्धवा बहिः ।
अलंकृत्य शुचौ भूमाव् अस्थिसंचयनाद् ऋते ॥
नास्य कार्योऽग्निसंस्कारो नापि कार्योदकक्रिया ।
अरण्ये काष्ठवत् त्यक्त्वा क्षिपेयुस् त्र्यहम् एव तु ॥" इति । (मा०ध० ५.६८–६९)

"अरण्ये काष्ठवत् त्यक्त्वा" इत्यस्यायमर्थः । यथारण्ये काष्ठं त्यक्त्वोदासीनास् तद्विषये भवन्ति तथोनद्विवार्षिकम् अपि खातायां भूमौ परित्यज्य तद्विषये श्राद्धाद्यौर्ध्वदेहिकेषु उदासीनैर् भवितव्यम् इत्य् आचारादिप्राप्तश्राद्धाद्यभावोऽनेन दृष्तान्तेन सूच्यते । स च घृतेनाभ्यज्य यमगाथाः पठद्भिर् निधातव्यः,

"ऊनद्विवार्षिकं प्रेतं घृताक्तं निखनेद् भुवि ।
यमगाथा गायमानो यमसूक्तम् अनुस्मरन् ॥"

इति यमस्मरणात् ॥ ततस् तस्माद् ऊनद्विवार्षिकाद् इतरपूर्णद्विवर्षो यो मृतोऽसौ श्मशानपर्यन्तं ज्ञातिभिः सपिण्डैः समानोदकैश् च ज्येष्ठपुरःसरैर्NSP and Pandeya read : ज्येष्ठः ; ई fओल्लोw Seltur. ठे चोम्पोउन्द् is the ओन्ल्य् ग्रम्मतिचल् पोस्सिबिलित्य्. अनुव्रज्योऽनुगन्तव्यः । अस्माद् एव वचनाद् ऊनद्विवर्षस्यानुगमनम् अनियतम् इति गम्यते । अनुगम्य च "परेयिवांसम्" (ऋ०वे० १०.१४.१) इत्यादियमसूक्तं यमदैवत्या गाथाश् च जपद्भिर् लौकिकेनासंस्कृतेनाग्निना दग्धव्यो यदि जातारणिर् नास्ति । तत्सद्भावे तु तन्मथितेन दग्धव्यो न लौकिकेन, तस्याग्निसंपाद्यकार्यमात्रार्थत्वेनोत्पत्तेः । लौकिकाग्निश् च चण्डालादिव्यतिरिक्तो ग्राह्यः,

"चण्डालाग्निर् अमेध्याग्निः सूतिकाग्निश् च कर्हिचित् ।
पतिताग्निश् चिताग्निश् च न शिष्टग्रहणोचिताः ॥"

इति देवलस्मरणात् । लौगाक्षिणा चात्र विशेष उक्तः ।

"तूष्णीम् एवोदकं कुर्यात् तूष्णीं संस्कारम् एव च ।
सर्वेषां कृतचूडानाम् अन्यत्रापीच्छया द्वयम् ॥" इति ।

अयम् अर्थः : चौलकर्मानन्तरकाले नियमेनाग्न्युदकदानं कार्यम् । अन्यत्रापि नामकरणाद् ऊर्ध्वं अकृतचूडेऽपीच्छया प्रेताभ्युदयकामनया द्वयं अग्न्युदकदानात्मकं तूष्णीं कार्यं न नियमेनेति विकल्पः । मनुनाप्य् अत्र विशेषो दर्शितः ।

"नात्रिवर्षस्य कर्तव्या बान्धवैर् उदकक्रिया ।
जातदन्तस्य वा कुर्युर् नाम्नि वापि कृते सति ॥" इति । (मा०ध० ५.७०)

उदकग्रहणं साहचर्याद् अग्निसंस्कारस्याप्य् उपलक्षणार्थम्, "नात्रिवर्षस्य" इति वचनात् । कुलधर्मापेक्षया चूडोत्कर्षेऽपि वर्षत्रयाद् ऊर्ध्वम् अग्न्युदकदानादिनियमोऽवगम्यते । लौगाक्षिवचनाद् वर्षत्रयात् प्राग् अपि कृतचूडस्य तयोर् नियम इति विवेचनीयम् । उपेतश् चेद् यद्य् उपनीतस् तर्ह्य् आहिताग्न्यावृता आहिताग्नेर् दाहप्रक्रियया स्वगृह्यादिप्रसिद्धया लौकिकाग्निनैव दग्धव्यः । अर्थवत् प्रयोजनवत् । अयम् अर्थः : यद्य् अस्य कॢप्तं दाहद्वारं कार्यरूपं प्रयोजनं संभवति भूमिजोषणप्रोक्षणादि तद् उपादेयम् । यत् पुनर् लुप्तप्रयोजनं पात्रयोजनादि तन् निवर्तते । तथा लौकिकाग्निविधानेनोपनीतस्य अनाहिताग्नेर् गृह्याग्निना दाहविधानेन च अपहृतप्रयोजनत्वाद् आहवनीयादेर् अपि निवृत्तिर् इति ॥ अग्न्यन्तरविधानं च वृद्धयाज्ञवल्क्येनोक्तम् ।

"आहिताग्निर् यथान्यायं दद्घव्यस् त्रिभिर् अग्निभिः ।
अनाहिताग्निर् एकेन लौकिकेनापरो जनः ॥" इति ।

न च शूद्रेण श्मशानं प्रत्य् अग्निकाष्ट्ःादिनयनं कार्यम्,

"यस्यानयति शूद्रोऽग्निं तृणं काष्ठं हवींषि च ।
प्रेतत्वं हि सदा तस्य स चाधर्मेण लिप्यते ॥"

इति यमस्मरणात् ॥ तथा दाहश् च स्नपनानन्तरं कार्यः,

"प्रेतं दहेच् छुभैर् गन्धैः स्नापितं स्रग्विभूषितम् ।"

इति स्मरणात् । प्रचेतसा अप्य् उक्तम् ।

"स्नानं प्रेतस्य पुत्राद्यैर् वस्त्राद्यैः पूजनं तथा ।
नग्नदेहं दहेन् नैव किंचिद् देयं परित्यजेत् ॥" इति ।

"किंचिद् देयम्" इति शववस्त्रैकदेशं श्मशानवास्यर्थं देयं परित्यजेद् इत्य् अर्थः ॥ तथा प्रेतनिर्हरणेऽपि मनुना विशेषो दर्शितः ।

"न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण हारयेत् ।
अस्वर्ग्या ह्य् आहुतिः सा स्याच् छूद्रसंपर्कदूषिता ॥" (मा०ध० ५.१०४)

अत्र च "स्वेषु तिष्ठत्सु" इत्य् अविवक्ष्तम्, अस्वर्ग्यत्वादिदोषश्रवणात् ॥

"दक्षिणेन मृतं शूद्रं परद्वारेण निर्हरेत् ।
पश्चिमोत्तरपूर्वैस् तु यथा संख्यं द्विजातयः ॥" (मा०ध० ५.९२)

तथा हारीतोऽपि "न ग्रामाभिमुखं प्रेतं हरेयुः" इति । यदा तु प्रोषितमरणे शरीरं न लभ्यते तदास्थिभिः प्रतिकृतिं कृत्वा तेषाम् अप्य् अलाभे पर्णशरैः शौनकादिगृह्योक्तमार्गेण प्रतिकृतिं कृत्वा संस्कारः कार्यः । आशौचं चात्र दशाहादिकम् एव, "आहिताग्निश् चेत् प्रवसन् म्रियेत पुनःसंस्कारं कृत्वा शववद् आशौचम्" इति (व०ध० ४.३७) वसिष्ठस्मरणात् ॥ अनाहिताग्निस् तु त्रिरात्रम्,

"सुपिष्टैर् जलसंमिश्रैर् दग्धव्यश् च तथाग्निना ।
असौ स्वर्गाय लोकाय स्वाहेत्य् उक्त्वा स बान्धवैः ॥
एवं पर्णशरं दग्ध्वा त्रिरात्रम् अशुचिर् भवेत् ॥"

इति वचनात् । ततश् चायम् अर्थः : नामकरणाद् अर्वाङ् निखननम् एव न चोदकदानादि । तत ऊर्ध्वं यावत् त्रिवर्षं वैकल्पिकम् अग्न्युदकदानम् । ततः परं यावद् उपनयनं तूष्णीम् एवाग्न्युदकदानं नियतम् । वर्षत्रयात् प्राग् अपि कृतचूडस्य । उपनयनाद् ऊर्ध्वं पुनर् आहिताग्न्यावृता दाहं कृत्वा सर्वम् और्ध्वदेहिकं कार्यम् । अयं तु विशेषः । उपनीतस्य लौकिकाग्निना दाहः कार्यः । अनाहिताग्नेर् गृह्याग्निना दाहो यथासंभवं पात्रयोजनं च कार्यम् ॥ ३.१ ॥ ३.२ ॥

संस्कारानतरं किं कर्तव्यम् इत्य् अत आह ।

सप्तमाद् दशमाद् वापि ज्ञातयोऽभ्युपयन्त्य् अपः ।
अप नः शोशुचद् अघम् अनेन पितृदिङ्मुखाः ॥ या०ध०३.३

सप्तमाद् दिवसाद् अर्वाग् दशमदिवसाद् वा ज्ञातय्ः समानगोत्राः सपिण्डाः समानोदकाश् च "अप नः शोशुचद् अघम्" (ऋ०वे० १.९७.१–८) इत्य् अनेन मन्त्रेण दक्षिणामुखा अपोऽभ्युपनयन्ति । अभ्युपगमनेन तत्प्रयोजनभूतोदकदानविशिष्टम् अभ्युपगमनं लक्ष्यते, "एवं मातामहाचार्येष्व्" इत्य् अनन्तरम् उदकदानस्यातिदेशदर्शनात् । एतच् चायुग्मासु तिथिषु कार्यम्, "प्रथमतृतीयपञ्चमसप्तमनवमेषूदकक्रिया" (गौ०ध० १४.४०) इति गौतमस्मरणात् । एतच् च स्नानानन्तरं कार्यं । "शरीरम् अग्नौ संयोज्यानवेक्षमाणा अपोऽभ्युपयन्ति" इति शातातपस्मरणात् । तथा प्रचेतसाप्य् अत्र विशेषो दर्शितः : "प्रेतस्य बान्धवा यथावृद्धम् उदकम् अवतीर्य नोद्धर्षयेयुर् उदकान्ते प्रसिञ्चेयुर् अपसव्ययज्ञोपवीतवाससो दक्षिणाभिमुखा ब्राह्मणस्योदङ्मुखाः प्रत्यङ्मुखाश् च राजन्यवैश्ययोः" इति । स्मृत्यन्तरे तु यावन्त्य् आशौचदिनानि तावद् उदकदानस्यावृत्तिर् उक्ता । यथाह विष्णुः : "यावद् आशौचं तावत् प्रेतस्योदकं पिण्डं च दद्युः" (वि०ध० १९.१३) इति ॥ तथा च प्रचेतसाप्य् उक्तम् ।

"दिने दिनेऽञ्जलीन् पूर्णान् प्रदद्यात् प्रेतकारणात् ।
तावद् वृद्धिः प्रकर्तव्या यावत् पिण्डः समाप्यते ॥" इति ।

प्रतिदिनम् अञ्जलीनां वृद्धिः कार्या यावद् दशमः पिण्डः समाप्यत इत्य् अर्थः ॥ यद्य् अप्य् अनयोर् गुरुलघुकल्पयोर् अन्यतरानुष्ठानेनापि शास्त्रार्थः सिद्धस् तथापि बहुक्लेशावहत्वेन गुरुतरकल्पे प्रवृत्त्यनुपपत्तेः प्रेतस्योपकारातिशयो भविष्यतीति कल्पनीयम्, अन्यथा गुरुतरकल्पाम्नायस्यानर्थक्यप्रसङ्गात् । वसिष्ठेनापि विशेषोऽभिहितः : "सव्योत्तराभ्यां पाणिभ्याम् उदकक्रियां कुर्वीरन्" (व०ध० ४.१२) इति ॥ ३.३ ॥

वक्ष्यमाणसकृत्प्रसेकस्य नामगोत्रादिभिर् गुणैर् विशिष्टस्योदकदानस्यासमानगोत्रेषु मातामहादिष्व् अतिदेशम् आह ।

एवं मातामहाचार्यप्रेतानाम् उदकक्रिया ।
कामोदकं सखिप्रत्तास्वस्रीयश्वशुरर्त्विजाम् ॥ या०ध०३.४

यथा सगोत्रसपिण्डानां प्रेतानाम् उदकं दीयते तथा मातामहानाम् आचार्याणां च प्रेतानां नित्यम् उदकक्रिया कार्या । सखा मित्रं, प्रत्तः परिणीता दुहितृभगिन्यादयः, स्वस्त्रीयो भागिनेयः, श्वशुरः प्रसिद्धः, ऋत्विजो याजकाः एषां सख्यादिनां प्रेतानां कामोदकं कार्यं । काम इच्छा । कामेनोदकदानं कामोदकं प्रेताभ्युदयकामनायां सत्याम् उदकं देयम् असत्यां न देयम् इत्य् अकरणे प्रत्यवायो नास्तीत्य् अर्थः ॥ ३.४ ॥

उदकदाने गुणविधिम् आह ।

सकृत् प्रसिञ्चन्त्य् उदकं नामगोत्रेण वाग्यताः । या०ध०३.५अब्

तच् चोदकदानम् इत्थं कर्तव्यम् । सपिण्डाः समानोदकाश् च मौनिनो भूत्वा प्रेतस्य नामगोत्रे उच्चार्य अमुकनामा प्रेतोऽमुकगोत्रस् तृप्यत्व् इति सकृद् एवोदकं प्रसिञ्चेयुः त्रिर् वा, "त्रिः प्रसेकं कुर्युः प्रेतस् तृप्यत्व् इति" इति प्रचेतसः स्मरणात् । प्रतिदिनम् अञ्जलिवृद्धिस् तु प्रतिपादितैव । तथा अयम् अपि विशेषस् तेनैवोक्तः ।

"नदीकूलं ततो गत्वा शौचं कृत्वा यथार्थवत् ।
वस्त्रं संशोधयेद् आदौ ततः स्नानं समाचरेत् ॥
सचैलस् तु ततः स्नात्वा शुचिः प्रयतमानसः ।
पाषाणं तत आदाय विपेर् दद्याद् दशाञ्जलीन् ॥
द्वादश क्षत्रिये दद्याद् वैश्ये पञ्चदश स्मृताः ।
त्रिंशच् छूद्राय दातव्यास् ततः संप्रविशेद् गृहम् ।
ततः स्नानं पुनः कार्यं गृहशौचं च कारयेत् ॥" इति ॥

सपिण्डानां मध्ये केषांचिद् उदकदानप्रतिषेधम् आह ।

न ब्रह्मचारिणः कुर्युर् उदकं पतितास् तथा ॥ या०ध०३.५च्द्

ज्ञातित्वे सत्य् अपि ब्रह्मचारिणः समावर्तनपर्यन्तं पतिताश् च प्रच्युतद्विजातिकर्माधिकारा उदकादिदानं न कुर्युः । ब्रह्मचर्योत्तरकालं पूर्वमृतानां सपिण्डादीनाम् उदकदानम् अशौचं च कुर्याद् एव । यथाह मनुः ।

"आदिष्टी नोदकं कुर्याद् आ व्रतस्य समापनात् ।
समाप्ते तूदकं कृत्वा त्रिरात्रम् अशुचिर् भवेत् ॥" इति । (मा०ध० ५.८८)

आदिष्टी "ब्रह्मचार्य् NSP reads : कस्य ब्रह्मचार्य्. अस्य् अपोऽशान कर्म कुरु दिवा मा स्वाप्सीः" (आश्व०गृ०ृ १.२२.२) इत्यादिव्रतादेशयोगाद् ब्रह्मयचार्य् उच्यते । एतच् च पित्रादिव्यतिरेकेणेति वक्ष्यति, "आचार्यपित्रुपाध्यायान्" इति (या०ध० ३.१५) । आत्राचार्यः पुनर् एवं मन्यते "आदिष्टीति प्रकान्तप्रायश्चित्तः कथ्यते तस्यैवायम् उदकदानादिनिषेधः प्रायश्चित्तरूपव्रतस्य समाप्त्युत्तरकालम् उदकदानाशौचविधिर्" इति । तथा क्लीबादीनां चोदकदायित्वं निषिद्धम्,

"क्लीबाद्या नोदकं कुर्युः स्तेना व्रात्या विधर्मिणः ।
गर्भभर्तृद्रुहश् चैव सुराप्यश् चैव योषितः ॥"

इति वृधमनुस्मरणात् ॥ ३.५ ॥

एवम् उदकदाने कर्तृविशेषप्रतिषेधम् उक्त्वा संप्रदानविशेषेण प्रतिषेधम् आह ।

पाखण्ड्यनाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः ।
सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥ या०ध०३.६

नरशिरःकपालादि श्रुतिबाह्यलिङ्गधारणं पाखण्डं, तद् विद्यते येषां ते पाखण्डिनः । अनाश्रिता अधिकारे सत्य् अप्य् अकृताश्रमविशेषपरिग्रहाः । स्तेनाः सुवर्णाद्युत्तमद्रव्यहारिणः । भर्तृघ्न्यः प्रतिघातिन्यः । कामगाः कुलटाः । आदिग्रहणात् स्वगर्भब्राह्मणघातिन्यो गृह्यन्ते । सुराप्यो यासां या सुरा प्रतिषिद्धा तत्पानरताः । आत्मत्यागिन्यः विषाग्न्युदकोद्बन्धनाद्यैर् आत्मानं यास् त्यजन्ति । एते पाखण्ड्यादयः "त्रिरात्रं दशरात्रम्" (या०ध० ३.१८) वा इति वक्ष्यमाणस्याशौचस्योदकदानाद्यौर्ध्वदेहिकस्य च भाजना न भवन्ति । भाजयन्तीति भाजनाः सपिण्डादीनाम् आशौचादिनिमित्तभूता न भवन्ति । अतस् तन्मरणे सपिण्डैर् उदकदानादि न कार्यम् इत्य् एतत् प्रतिपादनपरं वचनम् । अत्र च सुराप्य इत्यादिषु लिङ्गम् अविवक्षितम्, NSP : लिङ्गविवक्षितम्

"लिङ्गं च वचनं देशः कालोऽयं कर्मणः फलम् ।
मीमांसाकुशलाः प्राहुर् अनुपादेयपञ्चकम् ॥"

इत्यनुपादेयगतत्वात् । एतच् च बुद्धिपूर्वविषयम् । यथाह गौतमः : "प्रायोऽनाशकशस्त्रग्निविषोदकोद्बन्धनप्रपतनैश् चेच्छताम्" (गौ०ध० १४.१२) इति । प्रायो महाप्रस्थानम् । अनाशकम् अनशनम् । गिरिशिखराद् अवपातः प्रपतनम् । अत्र "चेच्छताम्" इति विशेषणोपादानात् प्रमादकृत्ये दोषो नास्तीत्य् अवगन्तव्यम्,

"अथ कश्चित् प्रमादेन म्रियेताग्न्युदकादिभिः ।
तस्याशौचं विधातव्यं कर्तव्या चोदकक्रिया ॥"

इत्य् अङ्गिरःस्मरणात् ॥ तथा मृत्युविशेषाद् अप्य् आशौचादिनिषेधः ।

"चाण्डालाद् उदकात् सर्पाद् ब्राह्मणाद् वैद्युताद् अपि ।
दंष्ट्रिभ्यश् च पशुभ्यश् च मरणं पापकर्मिणाम् ॥
उदकं पिण्डदानं च प्रेतेभ्यो यत् प्रदीयते ।
नोपतिष्ठति तत् सर्वम् अन्तरिक्षे विनश्यति ॥"

इति एतद् अपीच्छापूर्वम् आत्महननविषयम्, गौतमवचनेनेच्छापूर्वकम् एवोदकेन हतस्याशौचादिनिषेधस्योक्तत्वात् । अत्रापि "चण्डालाद् उदकात् सर्पाद्" इति तत्साहचर्यदर्शनाद् बुद्धिपूर्वविषयत्वनिश्चयः । अतो दर्पादिना चण्डालादीन् हन्तुं गतो यस् तैर् मारितस् तस्यायं सर्वत एवात्मानं गोपायेद् इति विध्यतिक्रमनिमित्तः पिण्डदानादिनिषेधः एवं दुष्टदंष्ट्र्यादिग्रहणार्थम् आभिमुख्येन दर्पाद् गच्छतो मरणेऽप्य् अयं निषेध इत्य् अनुसंधेयम् । अयं चाशौचप्रतिषेधो दशाहादिकालावच्छिन्नस्य,

हतानां नृपगोविप्रैर् अन्वक्षं चात्मघातिनाम् । (या०ध० ३.२१)

इति सद्यःशौचस्य वक्ष्यमाणत्वात् । तथा दाहादिकम् अप्य् एषां न कार्यम्,

"नाशौचं नोदकं नाश्रु न दाहाद्यन्त्यकर्म च ।
ब्रह्मदण्डहतानां च न कुर्यात् कटधारणम् ॥"

इति यमस्मरणात् । ब्रह्मदण्डहता ब्राह्मणदण्डहता । प्रेतवहनसाधनं खट्वादि कटशब्देनोच्यते । न चाहिताग्निम् अग्निभिर् दहन्ति यज्ञपात्रैश् चेत्य् एतत् श्रुतिविहिताग्नियज्ञपात्रादिप्रतिपत्तिलोपप्रसङ्गाद् अयं स्मार्तो दाहादिनिषेधो विप्रादिहताहिताग्निविषयं नास्कन्दतीत्य् आशङ्कनीयम् । यतश् चण्डालादिहताहिताग्निसंबन्धिनाम् अग्नियज्ञपात्राणां स्मृत्यन्तरे प्रतिपत्त्यन्तरं विधीयते ।

"वैतानं प्रक्षिपेद् अप्सु आवसथ्यं चतुष्पथे ।
पात्राणि तु दहेद् अग्नौ यजमाने वृथा मृते ॥" इति ।

तथा तच्छरीरस्यापि प्रतिपत्त्यन्तरम् उक्तम्,

"आत्मनस् त्यागिनां नास्ति पतितानां तथा क्रिया ।
तेषाम् अपि तथा गङ्गातोये संस्थापनं हितम् ॥"

इति स्मरणात् । तस्माद् अविशेषेण सर्वेषां दहनादिनिषेधः । अतः स्नेहादिना निषेधातिक्रमे प्रायश्चित्तं कर्तव्यम्,

"कृट्वाग्निम् उदकं स्नानं स्पर्शनं वहनं कथाम् ।
रज्जुच्छेदाश्रुपातं च तप्तकृच्छ्रेण शुध्यति ॥"

इति स्मरणात् । एतच् च प्रत्येकं बुद्धिपूर्वके वेदितव्यम् । अबुद्धिपूर्वकरणे तु,

"एषाम् अन्यतमं प्रेतं यो वहेत दहेत वा ।
कटोदकक्रियां कृट्वा कृच्छ्रं सान्तपनं चरेत् ॥"

इति संवर्तोक्तं द्रष्टव्यम् । यः पुनः,

"तच्छवं केवलं स्पृष्टम् अश्रु वा पातितं यदि ।
पूर्वोक्तानाम् अकारी चेद् एकरात्रम् अभोजनम् ॥"

इति स्पर्शाश्रुपातयोर् उपवास उक्तः । असौ कृच्छ्रेष्व् अशक्तस्य तथा "बन्धनच्छेदने दहने वा मासं भैक्षाहारस् त्रिषवणं च" इति सुमन्तुना भैक्षाशित्वम् उक्तं तद् अप्य् अशक्तस्यैव । एवम् अन्यान्य् अपि तद्विषयाणि स्मृतिवाक्यानि व्यवस्थापनीयानि । अयं च दाहादिप्रतिषेधो नित्यकर्मानुष्ठानासमर्थजीर्णवानप्रस्थादिव्यतिरिक्तविषयः, तेषाम् अभ्यनुज्ञादर्शनात्,

"वृद्धः शौचस्मृतेर् लुप्तः प्रत्याख्यातभिषक्क्रियः ।
आत्मानं घातयेद् यस् तु भृग्वग्न्यनशनाम्बुभिः ॥
तस्य त्रिरात्रम् आशौचं द्वितीये त्व् अस्थिसंचयः ।
तृतीये तूदकं कृत्वा चतुर्थे श्राद्धम् आचरेत् ॥"

इति स्मरणात् ।

एवं येन येनोपाधिना आत्महननं शास्त्रतोऽभ्यनुज्ञायते तत्तद्व्यतिरिक्तमार्गेणात्महनने श्राद्धाद्यौर्ध्वदेहिकेषु निषिद्धेषु किं पुनस् तेषां कार्यम् इत्य् अपेक्षायां वृद्धयाज्ञवल्क्य-छागलेयाभ्याम् उक्तम् ।

"नारायणबलिः कार्यो लोकगर्हाभयान् नरैः ।
तथा तेषां भवेच् छौचं नान्यथेत्य् अब्रवीद् यमः ।
तस्मात् तेभ्योऽपि दातव्यम् अन्नम् एव सदक्षिणम् ॥" इति ।

व्यासेनाप्य् उक्तम् ।

"नारायणं समुद्दिश्य शिवं वा यत् प्रदीयते ।
तस्य शुद्धिकरं कर्म तद् भवेन् नैतद् अन्यथा ॥" इति ।

एवं नारायणबलिः प्रेतस्य शुद्ध्यापादनद्वारेण श्राद्धादिसंप्रदानत्वे योग्यतां जनयतीत्य् और्ध्वदेहिकम् अपि सर्वं कार्यम् एव । अत एव षट्त्रिंशन्मतेऽप्य् और्ध्वदेहिकस्याभ्यनुज्ञा दृश्यते ।

"गोब्राह्मणहतानां च पतितानां तथैव च ।
ऊर्ध्वं संवत्सरात् कुर्यात् सर्वम् एवौर्ध्वदेहिकम् ॥" इति ।

एवं संवत्सराद् ऊर्ध्वम् एव नारायणबलिं कृत्वाउर्ध्वदेहिकं कार्यम् ॥

नारायणबलिश् चेत्थं कार्यः । कस्यांचिच् छुक्लैकादश्यां विष्णुं वैवस्वतं यमं च यथावद् अभ्यर्च्य तत्समीपे मधुघृतप्लुतांस् तिलमिश्रान् दश पिण्डान् विष्णुरूपिणं प्रेतम् अनुस्मरन् प्रेतनामगोत्रे उच्चार्य दक्षिणाग्रेषु दर्भेषु दक्षिणाभिमुखो दत्त्वा गन्धादिभिर् अभ्यर्च्य पिण्डप्रवाहणान्तं कृत्वा नद्यां क्षिपेत् न पत्न्यादिभ्यो दद्यात् । ततस् तस्याम् एव रात्र्याम् अयुग्मान् ब्राह्मणान् आमन्त्र्योपोषितः श्वोभूते मध्याह्ने विष्ण्वाराधनं कृट्वा एकोद्दिष्टविधिना ब्राह्मणपादप्रक्षालनादितृप्तिप्रश्नान्तं कृत्वा पिण्डपितृयज्ञावृतोल्लेखनाद्यवनेजनान्तं तूष्णीं कृत्वा विष्णवे ब्रह्मणे शिवाय यमाय च परिवारसहिताय चतुरः पिण्डान् दत्त्वा नामगोत्रसहितं प्रेतं संस्मृत्य विष्णोर् नाम संकीर्त्य पञ्चमं पिण्डं दद्यात् । ततो विप्रान् आचान्तान् दक्षिणाभिस् तोषयित्वा तन्मध्ये चैकं गुणवत्तमं प्रेतबुद्ध्या संस्मरन् गोभूहिरण्यादिभिर् अतिशयेन संतोष्य ततः पवित्रपाणिभिर् विप्रैः प्रेताय तिलादिसहितम् उदकं दापयित्वा स्वजनैः सार्धं भुञ्जीत ।

सर्पहते त्व् अयं विशेषः । संवत्सरं यावत् पुराणोक्तविधिना पञ्चभ्यां नागपूजां विधाय पूर्णे संवत्सरे नारायणबलिं कृत्वा सौवर्णं नागं दद्यात् गां च प्रत्यक्षाम् । ततः सर्वम् और्ध्वदेहिकं कुर्यात् ॥

नारायणबलिस्वरूपं च वैष्णवेऽभिहितं यथा ।

"एकादशीं समासाद्य शुक्लपक्षस्य वै तिथिम् ।
विष्णुं समर्चयेद् देवं यमं वैवस्वतं तथा ॥
दश पिण्डान् घृताभ्यक्तान् दर्भेषु मनुसंयुतान् ।
तिलमिश्रान् प्रदद्याद् वै संयतो दक्षिणामुखः ॥
विष्णूं बुद्धौ समासाद्य नद्यम्भसि ततः क्षिपेत् ।
नामगोत्रग्रहं तत्र पुष्पैर् अभ्यर्चनं तथा ॥
धूपदीपप्रदानं च भक्ष्यं भोज्यं तथा परम् ।
निमन्त्रयेत विप्रान् वै पञ्च सप्त नवापि वा ॥
विद्यातपःसमृद्धान् वै कुलोत्पन्नान् समाहितान् ।
अपरेऽहनि संप्राप्ते मध्याह्ने समुपोषितः ॥
विष्णोर् अभ्यर्चनं कृत्वा विप्रांस् तान् उपवेशयेत् ।
उदङ्मुखान् यथा ज्येष्टं पितृरूपम् अनुस्मरन् ॥
मनो निवेश्य विष्णौ वै सर्वं कुर्याद् अतन्द्रितः ।
आवाहनादि यत् प्रोक्तं देवपूर्वं तद् आचरेत् ॥
तृप्तान् ज्ञात्वा ततो विप्रांस् तृप्तिं पृष्ट्वा यथाविधि ।
हविष्यव्यञ्जनेनैव तिलादिसहितेन च ॥
पञ्च पिण्डान् प्रदद्याच् च देवरूपम् अनुस्मरन् ।
प्रथमं विष्णवे दद्याद् ब्रह्मणे च शिवाय च ॥
यमाय सानुचराय चतुर्थं पिण्डम् उत्सृजेत् ।
मृतं संकीर्त्य मनसा गोत्रपूर्वम् अतः परम् ॥
विष्णोर् नाम गृहित्वैवं पञ्चमं पूर्ववत् क्षिपेत् ।
विप्रान् आचम्य विधिवद् दक्षिणाभिः समर्चयेत् ॥
एकं वृद्धतमं विप्रं हिरण्येन समर्चयेत् ।
गवा वस्त्रेण भूम्या च प्रेतं तं मनसा स्मरन् ॥
ततस् तिलाम्भो विप्रास् तु हस्तैर् दर्भसमन्वितैः ।
क्षिपेयुर् गोत्रपूर्वं तु नाम बुद्धौ निवेश्य च ॥
हविर् गन्धतिलाम्भस् तु तस्मै दद्युः समाहिताः ।
मित्रभृत्यजनैः सार्धं पश्चाद् भुञ्जित वाग्यतः ॥
एवं विष्णुमते स्थित्वा यो दद्याद् आत्मघातिने ।
समुद्धरति तं क्षिप्रं नात्र कार्या विचारणा ॥"

सर्पदंशनिमित्तं सौवर्णनागदानं प्रतिकृतिरूपेण भविष्यत्पुराणे सुमन्तुनाभिहितम् ।

"सुवर्णभारनिष्पन्नं नागं कृत्वा तथैव गाम् ।
व्यासाय दत्त्वा विधिवत् पितुर् आनृण्यम् आप्नुयात् ॥" इति ॥ ३.६ ॥

एवम् उदकदानं सापवादम् अभिधायानन्तरं किं कार्यम् इत्य् अत आह ।

कृतोदकान् समुत्तीर्णान् मृदुशाद्वलसंस्थितान् ।
स्नातान् अपवदेयुस् तान् इतिहासैः पुरातनैः ॥ या०ध०३.७

कृतम् उदकदानं यैस् तान् कृतोदकान् स्नातान् सम्यग् उदकाद् उत्तीर्णान् मृदुशाद्वले नवोद्गततृणचयावृतभूभागे सम्यक् स्थितान् पुत्रादीन् कुलवृद्धाः पुरातनैर् इतिहासैर् वक्ष्यमाणैर् अपवदेयुः शोकनिरसनसमर्थैर् वचोभिर् बोधयेयुः ॥ ७ ॥

शोकनिरसनसमर्थेतिहासस्वरूपम् आह ।

मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् ।
करोति यः स संमूढो जलबुद्बुदसंनिभे ॥ या०ध०३.८

मनुष्यशब्देन जरायुजाण्डजादिचतुर्विधभूतजातं लक्ष्यते तस्य भावो मनुष्यं तत्र संसरणधर्मित्वेन कदलीस्तम्भवद् अन्तःसाररहिते जलबुद्बुदवद् अचिरविनश्वरे संसारे सारस्य स्थिरस्य मार्गणम् अन्वेषणं यः करोति स संमूढोऽत्यन्तविनष्टचित्तः । तस्मात् संसारस्वरूपवेदिभिर् भवद्भिर् इत्थं न कार्यं ॥ ३.८ ॥

किं च ।

पञ्चधा संभृतः कायो यदि पञ्चत्वम् आगतः ।
कर्मभिः स्वशरीरोत्थैस् तत्र का परिदेवना ॥ या०ध०३.९

जन्मान्तरात्मीयशरीरजनितैः कर्मबीजैः स्वफलोपभोगार्थं पञ्चधा पृथिव्यादिपञ्चभूतात्मकतया पञ्चप्रकारं संभृतो निर्मितः कायः स यदि फलोपभोगनिवृत्तौ पञ्चत्वम् आगतः पुनः पृथिव्यादिरूपतां प्राप्तस् तत्र भवतां किम् अर्था परिदेवना । निष्प्रयोजनत्वान् नानुशोचनं कर्तव्यम्, वस्तुस्थितेस् तथात्वात् । न हि केनचिद् वस्तुस्थितिर् अतिक्रमितुं शक्यते ॥ ३.९ ॥

अपि च ।

गन्त्री वसुमती नाशम् उदधिर् दैवतानि च ।
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥ या०ध०३.१०

नेदम् आश्चर्यं मरणं नाम । यतः पृथिव्यादीनि महान्त्य् अपि भूतानि नाशं गच्छन्ति । तथा समुद्रा अपि जरामरणविरहिणः, अमरा अपि प्रलयसमये अवसानं गच्छन्ति, कथम् इवास्थिरतया फेनसंनिभो मरणधर्मा भूतसंघो विनाशं न यास्यति । उचितम् एव हि मरणधर्मिणः प्रयाणम् । अतो निष्प्रयोजनः शोकसमावेशः ॥ ३.१० ॥

अनिष्टापादकत्वाद् अप्य् अनुशोचनं न कार्यम् इत्य् आह ।

श्लेष्माश्रु बान्धवैर् मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ।
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ या०ध०३.११

यस्माद् अनुशोचद्भिर् बान्धवैर् वदननयननिर्गमितं श्लेष्माश्रु वा यस्माद् अवशोऽकामोऽपि प्रेतो भुङ्क्ते तस्मान् न रोदितव्यं किं तु प्रेतहितेप्सुभिः स्वशक्त्यनुसारेण श्राद्धादिक्रियाः कार्याः ॥ ३.११ ॥

इति संश्रुत्य गच्छेयुर् गृहं बालपुरःसराः ।
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥ या०ध०३.१२

आचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान् ।
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥ या०ध०३.१३

एवं कुलवृद्धवचांसि सम्यग् आकर्ण्य त्यक्तशोकाः सन्तो बालान् अग्रतः कृट्वा गृहं गच्छेयुः । गत्वा च वेश्मनो द्वारि स्थित्वा नियताः संयतमनस्काः निम्बपत्राणि विदश्य दशनैः खण्डयित्वा खादित्वा आचमनं च कृत्वाग्न्युदकगोममयगौरसर्षपानालभ्य आदिग्रहणाद् दूर्वाप्रवालम् अग्निवृषभौ वेति शङ्खोक्तौ दूर्वाङ्कुरवृषभाव् अपि स्पृष्ट्वा अश्मनि च पदं निधाय शनैर् अस्खलितं वेश्म प्रविशेयुः ॥ ३.१२ ॥ ३.१३ ॥

अतिदेशम् आह ।

प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनाम् अपि ।
इच्छतां तत्क्षणाच् छुद्धिः परेषां स्नानसंयमात् ॥ या०ध०३.१४

यद् एतत् पूर्वोक्तं निम्बपत्रदशनादि वेश्मप्रवेशनान्तं कर्म तन् न केवलं ज्ञातीनाम् अपि तु परेषाम् अपि धर्मार्थं प्रेतालंकारनिर्हरणादिकं कुर्वतां भवति । प्रवेशनादिकम् इत्य् अत्र आदिशब्दोऽमाङ्गलिक्त्वात् प्रतिलोमक्रमाभिप्रायः । तेषां च धर्मार्थं निर्हरणादौ प्रवृत्तानां तत्क्षणाच् छुद्धिम् इच्छतां असपिण्डानां स्नानप्राणायामाभ्याम् एव शुद्धिः । यथाह पराशरः ।

"अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः ।
पदे पदे यज्ञफलम् अनुपूर्वं लभन्ति ते ॥
न तेषाम् अशुभं किंचित् पापं वा शुभकर्मणाम् ।
जलावगाहनात् तेषां सद्यः शौचं विधीयते ॥" इति ॥ (ढ़्ष्म् ३.३९–४०)

स्नेहादिना निर्हरणे तु मनूक्तो विशेषः ।

"असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
विशुध्यति त्रिरात्रेण मातुर् आप्तांश् च बान्धवान् ॥
यद्य् अन्नम् अत्ति तेषां तु दशाहेनैव शुध्यति ।
अनदन्न् अन्नम् अह्नैव न चेत् तस्मिन् गृहे वसेत् ॥" इति । (मा०ध० ५.१०१–०२)

अत्रेयं व्यवस्था : यः स्नेहादिना शवनिर्हरणं कृत्वा तदीयम् एवान्नम् अश्नाति तद्गृहे च वसति तस्य दशाहेनैव शुद्धिः । यस् तु केवलं तद्गृहे वसति न पुनस् तदन्नम् अश्नाति तस्य त्रिरात्रम् । यः पुनर् निर्हरणमात्रं करोति न तद्गृहे वसति न च तदन्नम् अश्नाति तस्यैकाह इति । एतत् सजातीयविषयम् । विजातीयविषये पुनर् यज्जातीयं प्रेतं निर्हरति तज्जातिप्रयुक्तम् आशौचं कार्यम् । यथाह गौतमः "अवरश् चेद् वर्णः पूर्वं वर्णम् उपस्पृशेत् पूर्वो वावरं तत्र तच्छवोक्तम् आशौचम्" (गौ०ध० १४.२९) इति । उपस्पर्शनं निर्हरणं । विप्रस्य शूद्रनिर्हरणे मासम् आशौचम् । शूद्रस्य तु विप्रनिर्हरणे दशरात्रम् इत्य् एवं शववद् आशौचं कर्तव्यम् इत्य् अर्थः ॥ ३.१४ ॥

ब्रह्मचारिणं प्रत्य् आह ।

आचार्यपित्रुपाध्यायान् निर्हृत्यापि व्रती व्रती ।
संकटान्नं च नाश्नीयान् न च तैः सह संवसेत् ॥ या०ध०३.१५

आचार्य उक्तलक्षणः माता च पिता च पितरौ उपाध्यायश् च पूर्वोक्तः एतान् निर्हृत्यापि व्रती ब्रह्मचारी व्रत्य् एव न पुनर् अस्य व्रतभ्रंशः । कटशब्देनाशौचं लक्ष्यते, तत्सहचरितम् अन्नं सकटान्नं तद् ब्रह्मचारी नाश्नीयात् । न चाशौचिभिः सह संवसेत् । एवं वदता आचार्यादिव्यतिरिक्तप्रेतनिर्हरणे तु ब्रह्मचारिणो व्रतलोप इत्य् अर्थाद् उक्तं भवति । अत एव वसिष्ठेनोक्तम् "ब्रह्मचारिणः शवकर्मिणो व्रतान् निवृत्तिर् अन्यत्र मातापित्रोः" (व०ध० २३.७–८) इति ॥ ३.१५ ॥

आशौचिनां नियमविशेषम् आह ।

क्रीतलब्धाशना भूमौ स्वपेयुस् ते पृथक् क्षितौ ।
पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् ॥ या०ध०३.१६

क्रीतम याचितलब्धं वा अशनं येषां ते क्रीतलब्धाशनाः । भवेयुर् इति शेषः । क्रीतलब्धाशननियमात् तदलाभेऽनशनम् अर्थात्सिद्धं भवति । अत एव वसिष्ठः "गृहान् व्रजित्वा अधःप्रस्तरे त्र्यहम् अनश्नन्त आसीरन् क्रीतोत्पन्नेन वर्तेरन्" (व०ध० ४.१४–१५) इति । अधःप्रस्तर आशौचिनां शयनासनार्थस् तृणमयः प्रस्तरः । ते च सपिण्डा भूमाव् एव पृथक् पृथक् शयीरन् न खट्वादौ । मनुनाप्यत्र विशेषो दर्शितः ।

"अक्षारलवणान्नाः स्युर् निमज्जेयुश् च ते त्र्यहम् ।
मांसाशनं च नाश्नीयुः शयीरंश् च पृथक् क्षितौ ॥" इति । (मा०ध० ५.७३)

तथा गौतमेनापि विशेष उक्तः "अधःशय्याशायिनो ब्रह्मचारिणः शवकर्मिणः" (गौ०ध० १४.३७) इति । तथा पिण्डपितृयज्ञप्रक्रियया प्राचीनावीतित्वादिरूपया प्रेताय दिनत्रयं पिण्डरूपम् अन्नं तूष्णीं क्षितौ देयम् । यथाह मरीचिः ।

"प्रेतपिण्डं बहिर् दद्याद् दर्भमन्त्रविवर्जितम् ।
प्राग् उदीच्यां चरुं कृत्वा स्नातः प्रयतमानसः ॥" इति । दर्भमन्त्रविवर्जितत्वम् अनुपनीतविषयम् । "असंस्कृतानां भूमौ पिण्डं दद्यात् संस्कृतानां कुशेषु" इति प्रचेतःस्मरणात् । तथा कर्तृनियमश् च गृह्यपरिशिष्टाद् विज्ञेयः ।

"असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् ।
प्रथमेऽहनि यो दद्यात् स दशाहं समापयेत् ॥" इति ।

तथा द्रव्यविनियमश् च शुनःपुच्छेन दर्शितः ।

"शालिना सक्तुभिर् वापि शाकैर् वाप्य् अथ निर्वपेत् ।
प्रथमेऽहनि यद् द्रव्यं तद् एव स्याद् दशाहिकम् ॥
तूष्णीं प्रसेकं पुष्पं च दीपं धूपं तथैव च ॥" इति ।

पिण्डश् च पाषाणे देयः, "भूमौ माल्यं पिण्डं पानीयम् उपले वा दद्युः" इति शङ्खस्मरणात् । "न च दद्युर्" इति बहुवचनेनोदकदानवत् सर्वैः पिण्डदानं कार्यम् इत्य् आशङ्कनीयं । किं तु पुत्रेणैव कार्यम् । "पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश् च दद्युस् तदभावे ऋत्विगाचार्यौ" (गौ०ध० १५.१३–१४) इति गौतमस्मरणात् । पुत्रबहुत्वे पुनर् ज्येष्टेनैव कार्यम्,

"सर्वैर् अनुमतिं कृत्वा ज्येष्टेनैव तु यत्कृतम् ।
द्रव्येण चाविभक्तेन सर्वैर् एव कृतं भवेत् ॥"

इति मरीचिस्मरणात् । पिण्डसंख्यानियमश् च : ब्राह्मणस्य दश पिण्डाः क्षत्रियस्य द्वादशैवेति । एवमाशौचदिवससंख्यया विष्णुनाभिहितम् : "यावद् आशौचं प्रेतस्योदकं पिण्डम् एकं च दद्युः" (chf. वि०ध० १९.७) इति । तथा स्मृट्यन्तरेऽपि,

"नवभिर् दिवसैर् दद्यान् नव पिण्डान् समाहितः ।
दशमं पिण्डम् उत्सृज्य रात्रिशेषे शुचिर् भवेत् ॥"

इति शुचित्ववचनम् अपरेद्युः क्रियमाणश्राद्धार्थब्राह्मणनिमन्त्रणाभिप्रायेण । योगीश्वरेण तु पिण्डत्रयदानम् अभिहितम् । अनयोश् च गुरुलघुकल्पयोर् उदकदानविषयोक्ता व्यवस्था विज्ञेया । अत्रापरः शातातपीयो विशेषः ।

"आशौचस्य तु ह्रासेऽपि पिण्डान् दद्याद् दशैव तु ।" इति ।

त्रिरात्राशौचिनां पुनः पारस्करेण विशेषो दर्शितः ।

"प्रथमे दिवसे देयास् त्रयः पिण्डाः समाहितैः ।
द्वितीये चतुरो दद्याद् अस्थिसंचयनं तथा ॥
त्रींस् तु दद्यात् तृतीयेऽह्नि वस्त्रादि क्षालयेत् तथा ॥" इति ॥ ३.१६ ॥

किं च ।

जलम् एकाहम् आकाशे स्थाप्यं क्षीरं च मृन्मये । या०ध०३.१७अब्

जलं क्षीरं च मृन्मये पात्रद्वये पृथक् पृथग् आकाशे शिक्यादाव् एकाहं स्थापनीयम् । अत्र विशेषानुपादानात् प्रथमेऽहनि कार्यम्, तथा पारस्करवचनात् : "प्रेतात्र स्नाहीत्य् उदकं स्थाप्यं पिब चेदम् इति क्षीरम्" । तथास्थिसंचयनं च प्रथमादिदिनेषु कार्यम् । तथाह संवर्तः ।

"प्रथमेऽह्नि तृतीये वा सप्तमे नवमे तथा ।
अस्थिसंचयनं कार्यं दिने तद्गोत्रजैः सह ॥" इति ।

क्वचिद् "द्वितीये त्व् अस्थिसंचयः" इत्य् उक्तम् । वैष्णवे तु "चतुर्थे दिवसेऽस्थिसंचयनं कुर्यात् तेषां च गङ्गाम्बसि प्रक्षेपः" (वि०ध० १९.१०–११) इति । अतोऽन्यतमस्मिन् दिने स्वगृह्योक्तविधिनास्थिसंचयनं कार्यम् । अङ्गिरसा चात्र विशेषो दर्शितः ।

"अस्थिसंचयने यागो देवानां परिकीर्तितः ।
प्रेतीभूतं तम् उद्दिश्य यः शुचिर् न करोति चेत् ।
देवतानां तु यजनं तं शपन्त्य् अथ देवताः ॥"

देवताश् चात्र श्मशानवासिन्यः । तत्र पूर्वदग्धाः,

"श्मशानवासिनो देवाः शवानां परिकीर्तिताः ।"

इति तेनैवोक्तम् । अतस् तान् देवान् अचिरमृतं च प्रेतम् उद्दिश्य धूपदीपादिभिः पिण्डरूपेण चान्नेन तत्र पूजा कार्येत्युक्तं भवति ॥ तथा वपनं च दशमेऽहनि कार्यम्,

"दशमेऽहनि संप्राप्ते स्नानं ग्रामाद् बहिर् भवेत् ।
तत्र त्याज्यानि वासांसि केशश्मश्रुनकानि च ॥"

इति देवलस्मरणात् ॥ तथा स्मृत्यन्तरेऽपि ।

"द्वितीयेऽहनि कर्तव्यं क्षुरकर्म प्रयत्नतः ।
तृतीये पञ्चमे वापि सप्तमे वा प्रदानतः ॥" इति ।

श्राद्धप्रदानाद् अर्वाग् अनियम इति यावत् । वपनं च केषाम् इत्य् आकाङ्क्षायाम् आपस्तम्बेनोक्तम् : "अनुभाविनां च परिवापनम्" (आ०ध० १.१०.६) इति । अयम् अर्थः : शावं दुःखम् अनुभवन्तीत्य् अनुभाविनः सपिण्डास् तेषां चाविशेषेण वपनम् उताल्पवयसाम् इत्य् अपेक्षायाम् इदम् एवोपतिष्ठते "अनुभाविनां च परिवापनम्" इति । अनु पश्चाद् भवन्तीत्य् अनुभाविनोऽल्पवयसस् तेषां वपनम् इति । अनुभाविनः पुत्रा इति केचिन् मन्यन्ते,

"गङ्गायां भास्करक्षेत्रे मातापित्रोर् गुरोर् मृतौ ।
आधानकाले सोमे च वपनं सप्तसु स्मृतम् ॥"

इति नियमदर्शनात् ॥

अशुचित्वेन सकलश्रौतस्मार्तकर्माधिकारनिवृत्तौ प्रसक्तायां केषुचिद् अभ्यनुज्ञानार्थम् आह ।

वैतानौपासनाः कार्याः क्रियाश् च श्रुतिचोदनात् ॥ या०ध०३.१७च्द्

वितानोऽग्नीनां विस्तारस् तत्र भवा वैतानाः त्रेताग्निसाध्या अग्निहोत्रदर्शपूर्णमासाद्याः क्रिया उच्यन्ते । प्रतिदिनम् उपास्यत इत्य् उपासनो गृह्याग्निस् तत्र भवा औपासनाः सायंप्रातर्होमक्रिया उच्यन्ते । ता वैतानौपासना वैदिक्यः क्रियाः कार्याः । कथं वैदिकत्वम् इति चेत्, श्रुतिचोदनात् । तथाहि "यावज्जीवम् अग्निहोत्रं जुहुयात्" इत्यादिश्रुतिभिर् अग्निहोत्रादीनां चोदना स्पष्टैव । तथा "अहर् अहः स्वाहा कुर्याद् अन्नाभावे केनचिद् आकाष्टात्" इति श्रुत्यौपासनहोमोऽपि चोद्यते । अत्र च श्रौतत्वविशेषणोपादानात् स्मार्तक्रियाणां दानादीनाम् अननुष्ठानं गम्यते । अत एव वैयाघ्रपादेनोक्तम्,

"स्मार्तकर्मपरित्यागो राहोर् अन्यत्रा सूतके ।
श्रौते कर्मणि तत्कालं स्नातः शुद्धिम् अवाप्नुयात् ॥"

इति श्रौतानां च कार्यत्वाभिधानं नित्यनैमित्तिकाभिप्रायेण । यथाह पैठीनसिः "नित्यानि विनिवर्तेरन् वैतानवर्जं शालाग्नौ चैके" इति । "नित्यानि विनिवर्तेरन्न्" इत्य् अविशेषेण आवश्यकानां नित्यनैमित्तिकानां निवृत्तप्रसक्तायां वैतानवर्जम् इत्य् अग्नित्रयसाध्यावश्यकानां पर्युदासः । "शालाग्नौ चैके" इति गृह्याग्नौ भवानाम् अप्य् आवश्यकानां पाक्षिकः पर्युदास उक्तः । अतस् तेष्व् आशौचं नास्त्य् एव । काम्यानां पुनः शौचाभावाद् अननुष्ठानम् । मनुनाप्य् अनेनैवाभिप्रायेणोक्तम् : "प्रत्यूहेन् नाग्निषु क्रियाः" इति (मा०ध० ५.८४) । अग्निषु क्रिया न प्रत्यूहेद् इत्य् अनग्निसाध्यानां पञ्चमहायज्ञादीनां निवृत्तिः । अत एव संवर्तः ।

"होमं तत्र प्रकुर्वीत शुष्कान्नेन फलेन वा ।
पञ्चयज्ञविधानं तु न कुर्यान् मृत्युजन्मनोः ॥" इति । वैश्वदेवस्याग्निसाध्यत्वेऽपि वचनान् निवृत्तिः, "विप्रो दशाहम् आसीत वैश्वदेवविवर्जितः" इति तेनैवोक्तत्वात् ।

"सूतके कर्मणां त्यागः संध्यादीनां विधीयते ।"

इति यद्य् अपि संध्याया विनिवृत्तिः श्रूयते तथाप्य् अञ्जलिप्रक्षेपादिकं कुर्यात् । "सूतके सावित्र्या चाञ्जलिं प्रक्षिप्य प्रदक्षिणं कृत्वा सूर्यं ध्यायन् नमस्कुर्यात्" इति पैठीनसिस्मरणात् । यद्य् अपि "वैतनौपासनाः कार्याः" इति सामान्येनोक्तं तथाप्य् अन्येन कारयितव्यम्, "अन्य एतानि कुर्युः" इति पैठीनसिस्मरणात् । बृहस्पतिनाप्युक्तम् ।

"सूतके मृतके चैव अशक्तौ श्राद्धभोजने ।
प्रवासादिनिमित्तेषु हावयेन् न तु हापयेत् ॥" इति ।

तथा स्मार्तत्वेऽपि पिण्डपितृयज्ञश्रवणाकर्माश्वयुज्यादिकश् च नित्यहोमः कार्य एव,

"सूतके तु समुत्पन्ने स्मार्तं कर्म कथं भवेत् ।
पिण्डयज्ञं चरुहोमम् असगोत्रेण कारयेत् ॥"

इति जातूकर्ण्यस्मरणात् । यद्य् अपि सङ्गे कर्मण्य् अन्यकर्तृत्वं तथापि स्वद्रव्यत्यागात्मकं प्रधानं स्वयं कुर्यात्, तस्यानन्यनिष्पाद्यत्वात् । अत एवोक्तम् –

"श्रौते कर्मणि तत्कालं स्नातः शुद्धिम् अवाप्नुयात् ।" इति ।

यत् पुनः "दानं प्रतिग्रहो होमः स्वाध्यायश् च निवर्तते" इति होमप्रतिषेद्धः स काम्याभिप्रायो वैश्वदेवाभिप्रायो वा व्यवस्थापनीयः । तथा सूतकान्नभोजनम् अपि न कार्यम्, "उभयत्र दशाहानि कुलस्यान्नं न भुज्यते" इति यमस्मरणाद् उभयत्र जननमरणयोः । दशाहानीत्य् आशौचकालोपलक्षणम् । कुलस्य सूतकयुक्तस्य संबन्ध्यन्नं असकुल्यैर् न भोक्तव्यं । सकुल्यानां पुनर् न दोषः । "सूतके तु कुलस्यान्नम् अदोषं मनुर् अब्रवीत्" इति तेनैवोक्तत्वात् । अयं च निषेधो दातृभोक्त्रोर् अन्यतरेण जनने मरणे वा ज्ञाते सति वेदितव्यः,

"उभाभ्याम् अपरिज्ञाते सूतकं नैव दोषकृत् ।
एकेनापि परिज्ञाते भोक्तुर् दोषम् उपावहेत् ॥"

इति षट्त्रिंशन्मतदर्शनात् । तथा विवाहादिषु सूतकोत्पत्तेः प्राक् ब्राह्मणार्थं पृथक् कृतम् अन्नं भोक्तव्यम् एव,

"विवाहोत्सवयज्ञेषु त्व् अन्तरा मृतसूतके ।
पूर्वसंकल्पितार्थेषु न दोषः परिकीर्तितः ॥" (chf. ढ़्ष्म् ३.३८)

इति बृहस्पतिस्मरणात् । तथापरोऽपि विशेषः षट्त्रिंशन्मते दर्शितः ।

"विवाहोत्सवयज्ञेषु त्व् अन्तरा मृतसूतके ।
परैर् अन्नं प्रदातव्यं भोक्तव्यं च द्विजोत्तमैः ॥
भुञ्जानेषु तु विप्रेषु त्व् अन्तरा मृतसूतके ।
अन्यगेहोदकाचान्ताः सर्वे ते शुचयः स्मृताः ॥" इति ।

तथाशौचपरिग्रहत्वेऽपि केषुचिद् द्रव्येषु दोषाभावः । यथाह मरीचिः ।

"लवणे मधुमांसे च पुष्पमूलफलेषु च ।
शाककाष्ठतृणेष्व् अप्सु दधिसर्पिःपयस्सु च ॥
तिलौषधाजिने चैव पक्वापक्वे स्वयंग्रहः ।
पण्येषु चैव सर्वेषु नाशौचं मृतसूतके ॥" इति ।

पक्वं भक्ष्यजातं मोदकाद्य् अपक्वं तण्डुलादि । स्वयंग्रह इति स्वयम् एव स्वाम्यनुज्ञातो गृह्णीयाद् इत्य् अर्थः । पक्वापक्वाभ्यनुज्ञानम् अन्नसत्रप्रवृत्तविषयम्,

"अन्नसत्रप्रवृत्तानाम् आमम् अन्नम् अगर्हितम् ।
भुक्त्वा पक्वान्नम् एतेषां त्रिरात्रं तु पयः पिबेत् ॥"

इत्य् अङ्गिरःस्मरणात् । अतः पक्वशब्दो भक्ष्यव्यतिरिक्तौदनादिविषयः ॥ शवसंसर्गनिमित्ताशौचे त्व् अङ्गिरसा विशेष उक्तः ।

"आशौचं यस्य संसर्गाद् आपतेद् गृहमेधिनः ।
क्रियास् तस्य न लुप्यन्ते गृह्याणां च न तद् भवेत् ॥" इति ।

तद् आशौचं केवलं गृहमेधिन एव न पुनस् तद्गृहेभवानां भार्यादीनां तद्द्रव्याणां च भवेद् इत्य् अर्थः । अतिक्रान्ताशौचेऽप्य् अयम् एवार्थः स्मृत्यन्तरे दर्शितः ।

"अतिक्रान्ते दशाहे तु पश्चाज् जानाति चेद् गृही ।
त्रिरात्रं सूतकं तस्य न तद् द्रव्यस्य कर्हिचित् ॥" इति ॥ ३.१७ ॥

एवम् आशौचिनो विधिप्रतिषेधरूपान् धर्मान् अभिधायाधुना आशौचनिमित्तं कालनियमं चाह ।

त्रिरात्रं दशरात्रं वा शावम् आशौचम् इष्यते ।
ऊनद्विवर्ष उभयोः सूतकं मातुर् एव हि ॥ या०ध०३.१८

शवनिमित्तम् शावम् । सूतकशब्देन च जननवाचिना तन्निमित्तम् आशौचम् लक्ष्यते । एवं च वदता जननमरणयोर् आशौचनिमित्तत्वम् उक्तं भवति । तच् च जननमरणम् उत्पन्नज्ञातम् एव निमित्तम्, "निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च" (मा०ध० ५.७७) इत्यादिलिङ्गदर्शनात्, तथा,

"विगतं तु विदेशस्थं शृणुयाद् यो ह्य् अनिर्दशम् ।
यच् छेषं दशरात्रस्य तावद् एवाशुचिर् भवेत् ॥"

इत्यादिवाक्यारम्भसामर्थ्याच् च । उत्पत्तिमात्रापेक्षत्वे ह्य् आशौचस्य दशाहाद्याशौचकालनियमास् तत्तत्प्रभृतिका एवेत्य् अनिर्दशज्ञातिमरणश्रवणे दशरात्रशेषम् एवाशौचम् अर्थात् सिध्यतिति "यच् छेषं दशरात्रस्य" इत्यनारम्भणीयं स्यात् । तस्माज् ज्ञातम् एव जननं मरणं च निमित्तं । तच् चोभयनिमित्तम् अप्य् आशौचं त्रिरात्रं दशरात्रं चेष्यते मन्वादिभिः । अत्राशौचप्रकरणे अहर्ग्रहणं रात्रिग्रहणं चाहोरात्रोपलक्षणार्थम् । "मन्वादिभिर् इष्यते" इति वचनं तदुक्तसपिण्डसमानोदकरूपविषयभेदप्रदर्शनार्थम् । तथाहि ।

"दशाहं शावाम् आशौचं सपिण्डेषु विधीयते ।" (मा०ध० ५.५९)

"जननेऽप्य् एवम् एव स्यान् निपुणां शुद्धिम् इच्छताम् ।" (मा०ध० ५.६१)

"जन्मन्य् एकोदकानां तु त्रिरात्राच् छुद्धिर् इष्यते ।" (मा०ध० ५.७१)

"शवस्पृशो विशुध्यन्ति त्र्यहात् तूदकदायिनः ।" (मा०ध० ५.६४)

इत्य् एतैर् वाक्यैस् त्रिरात्रदशरात्रयोः समानोदकसपिण्डविषयत्वेन व्यवस्थाकृता । अतः सपिण्डानां सप्तमपुरुषावधिकानाम् अविशेषेण दशरात्रम् । समानोदकानां त्रिरात्रम् इति । यत् पुनः स्मृत्यन्तरवचनम्,

"चतुर्थे दशरात्रं स्यात् षण्निशाः पुंसि पञ्चमे ।
षष्ठे चतुरहाच् छुद्धिः सप्तमे त्व् अहर् एव तु ॥"

इति तद्विगीतत्वान् नादरणीयम् । यद् अप्य् अविगीतं तथापि मधुपर्काङ्गपश्वालम्भनवल् लोकविद्विष्टत्वान् नानुष्ठेयम्,

"अस्वर्ग्यं लोकविद्विष्टं धर्म्यम् अप्य् आचरेन् न तु ।" (या०ध० १.१५६)

इति मनुस्मरणात् । न च सप्तमे प्रत्यासन्ने सपिण्डे एकाहो विप्रकृष्टाष्टमादिषु समानोदकेषु त्र्यहम् इति युक्तम् । एवम् अविशेषेण सपिण्डानाम् आशौचे प्राप्ते क्वचिन् नियमार्थम् आह । ऊनद्विवर्षे संस्थिते उभयोर् एव मातापित्रोर् दशरात्रम् आशौचं न सर्वेषां सपिण्डानाम् । तेषां तु वक्ष्यति "आदन्तजन्मनः सद्यः" इति । तथा च पैङ्ग्यः : "गर्भस्थे प्रेते मातुर् दशाहं, जात उभयोः, कृते नाम्नि सोदराणां च" इति । अथ वा अयम् अर्थः : ऊनद्विवर्षे संस्थिते उभयोर् मातापित्रोर् एव अस्पृश्यत्वलक्षण्म् आशौचं च सपिण्डानाम् । तथा स्मृत्यन्तरे, "ऊनद्विवर्षे प्रेते मातापित्रोर् एव नेतरेषाम्" इत्य् अस्पृश्यत्वलक्षणम् अभिप्रेतम् । इतरस्य पुनः कर्मण्य् अनधिकारलक्षणस्य सपिण्डेष्व् अपि "आ दन्तजन्मनः सद्यः" इत्यादिभिर् विहितत्वात् । अत्र दृष्टान्तः "सूतकं मातुर् एव हि" इति । यथा सूतकं जनननिमित्तम् अस्पृश्यत्वलक्षणम् आशौचं मातुर् एव केवलं तथोनद्विवर्षोप्रमे मातापित्रोर् एवास्पृश्यत्वम् इति । ऊनद्विवर्षे सपिण्डानाम् अस्पृश्यत्वं प्रतिषेधतान्यत्रास्पृश्यत्वम् अभ्यनुज्ञातं भवति । तथा च देवलः ।

"स्वाशौचकालाद् विज्ञेयं स्पर्शनं च त्रिभागतः ।
शूद्रविट्क्षत्रविप्राणां यथाशास्त्रं प्रचोदितम् ॥" इति ।

एतच् चानुपनीतप्रयाणनिमित्ते अतिक्रान्ताशौचे च त्रिरात्रादौ वेदितव्यम् । उपनीतविषयेऽपि तेनैवोक्तम् ।

"दशाहादित्रिभागेन कृते संचयने क्रमात् ।
अङ्गस्पर्शनम् इच्छन्ति वर्णानां तत्त्वदर्शिनः ॥
त्रिचतुःपञ्चदशभिः स्पृश्या वर्णाः क्रमेण तु ।
भोज्यान्नो दशभिर् विप्रः शेषा द्वित्रिषडुत्तरैः ॥" इति ।

द्व्युत्तरैर् दशभिः त्र्युत्तरैर् द्वादशभिः षडुत्तरैः पञ्चदशभिर् इति द्रष्टव्यम् ।

जनननिमित्तम् अस्पृश्यत्वलक्षणम् आशौचम् आह ।

पित्रोस् तु सूतकं मातुस् तदसृग्दर्शनाद् ध्रुवम् ।
तद् अहर् न प्रदुष्येत पूर्वेषां जन्मकारणात् ॥ या०ध०३.१९

सूतकं जनननिमित्तम् अस्पृश्यत्वलक्षणम् आशौचं पित्रोर् मातपित्रोर् एव न सर्वेषां सपिण्डानाम् । तच् चास्पृश्यत्वं मातुर् ध्रुवं दशाहपर्यन्तं स्थिरम् इत्य् अर्थः । कुतः । तदसृग्दर्शनात् तस्याः संबन्धित्वेनासृजो दर्शनात् । अत एव वसिष्ठः ।

"नाशौचं विद्यते पुंसः संसर्गं चेन् न गच्छति ।
रजस् तत्राशुचि ज्ञेयं तच् च पुंसि न विद्यते ॥" इति । (व०ध० ४.२३)

पितुस् तु ध्रुवं न भवति स्नानमात्रेणास्पृश्यत्वं निवर्तते । यथाह संवर्तः ।

"जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते ।
माता शुध्येद् दशाहेन स्नानात् तु स्पर्शनं पितुः ॥" इति ।

"माता शुध्येद् दशाहेन" इत्य् एतच् च संव्यवहारयोग्यतामात्रम् । अदृष्टार्थेषु पुनः कर्मसु पैठीनसिना विशेष उक्तः : "सूतिकां पुत्रवतीं विंशतिरात्रेण कर्माणि कारयेत् । मासेन स्त्रीजननीम्" इति । अङ्गरसा च सपिण्डानाम् अस्पृश्यत्वाभावः स्पष्टीकृतः ।

"सूतके सूतिकावर्ज्यं संस्पर्शो न निषिध्यते ।
संस्पर्शे सूतिकायास् तु स्नानम् एव विधीयते ॥" इति ।

यस्मिन् दिवसे कुमारजननं तद् अहर् न प्रदुष्येत । तन्निमित्तदानाद्यधिकारापहारकृन् न भवतीत्य् अर्थः । यस्मात् तस्मिन्न् अहनि पूर्वेषां पित्रादीनां पुत्ररूपेण जन्म उत्पत्तिस् तस्मात् तद् अहर् न प्रदुष्येत । तथा च वृद्धयाज्ञवल्क्येनोक्तम् ।

"कुमारजन्मदिवसे विप्रैः कार्यः प्रतिग्रहः ।
हिरण्यभूगवाश्वाजवासःशय्यासनादिषु ॥
तत्र सर्वं प्रतिग्राह्यं कृतान्नं न तु भक्षयेत् ।
भक्षयित्वा तु तन् मोहाद् द्विजश् चान्द्रायणं चरेत् ॥" इति ॥

व्यासेनाप्य् अत्र विशेष उक्तः ।

"सूतिकावासनिलया जन्मदा नाम देवताः ।
तासां यागनिमित्तं तु शुचिर् जन्मनि कीर्तिता ॥
प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा ।
त्रिष्व् एतेषु न कुर्वीत सूतकं पुत्रजन्मनि ॥"

मार्कण्डेयेनाप्युक्तम् ।

"रक्षणीया तथा षष्ठी निशा तत्र विशेषतः ।
रात्रौ जागरणं कुर्युर् दशम्यां चैव सूतके ॥" इति ॥ ३.१९ ॥

आशौचमध्ये पुनर्जनने मरणे वा जाते "प्रतिनिमित्तं नैमित्तिकम् आवर्तते" इति न्यायेन पुनर्दशाहाद्याशौचप्राप्तौ तदपवादम् आह ।

अन्तरा जन्ममरणे शेषाहोभिर् विशुध्यति । या०ध०३.२०अब्

वर्णापेक्षया वयोवस्थापेक्षया वा यस्य यावान् आशौचकालस् तदन्तरा तत्समस्य ततो न्यूनस्य वाशौचस्य निमित्तभूते जनने मरणे वा जाते पूर्वाशौचावशिष्टैर् एवाहोभिर् विशुध्यति । न पुनः पश्चाद् उत्पन्नजननादिनिमित्तं पृथक् पृथग् आशौचं कार्यम् । यदा पुनर् अल्पाद् वर्तमानाशौचाद् दीर्घकालम् आशौचम् अन्तरा पतति तदा न पूर्वशेषेण शुद्धिः । यथाह उशनाः ।

"स्वल्पाशौचस्य मध्ये तु दीर्घाशौचं भवेद् यदि ।
न पूर्वेण विशुद्धिः स्यात् स्वकालेनैव शुध्यति ॥" इति ।

यमोऽप्य् आह ।

"अघवृद्धिमद् आशौचं पश्चिमेन समापयेत् ।" इति ।

अत्र च "अन्तरा जन्ममरणे" इति यद्य् अप्य् अविशेषेणाभिहितं तथापि न सूतकान्तर्वर्तिनः शावस्य पूर्वाशौचशेषेण शुद्धिः । यथाहाङ्गिराः ।

"सूतके मृतकं चेत् स्यान् मृतके त्व् अथ सूतकं ।
तत्राधिकृत्य मृतकं शौचं कुर्यान् न सूतकम् ॥" इति ।

तथा षट्त्रिंशन्मतेऽपि ।

"शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् ।
शावने शुध्यते सूतिर् न सूतिः शावशोधिनी ॥" इति ।

तस्मान् न सूतकान्तःपातिनः शावाशौचस्य पूर्वशेषेण शुद्धिः, किं तु शावान्तःपातिन एव सूतकस्य । तथा सजातीयान्तःपातित्वेऽपि शावस्य क्वचित् पूर्वशेषेण शुद्धेर् अपवादः स्मृत्यन्तरे दर्शितः ।

"मातर्य् अग्रे प्रमीतायाम शुद्धौ म्रियते पिता ।
पितुः शेषेण शुद्धिः स्यान् मातुः कुर्यात् तु पक्षिणीम् ॥" इति ।

अयम् अर्थः : मातरि पूर्वं मृतायां तन्निमित्ताशौचमध्ये यदि पितुर् उपरमः स्यात् तदा न पूर्वशेषेण शुद्धिः, किं तु पितुः प्रयाणनिमित्ताशौचकालेनैव शुद्धिः कार्या । तथा पितुः प्रयाणनिमित्ताशौचमध्ये मातरि स्वर्यातायाम् अपि न पूर्वशेषमात्राच्छुद्धिः, किं तु पूर्वाशौचं समाप्योपरि पक्षिणीं क्षिपेद् इति ॥ तथाशौचसन्निपातकालविशेषकृतोऽप्य् अपवादो गौतमेनोक्तः : "रात्रिशेषे सति द्वाभ्यं प्रभाते सति तिसृभिः" (गौ०ध० १४.७–८) इति । अयम् अर्थः : रात्रिमात्रावशिष्टे पूर्वाशौचे यद्य् आशौचान्तरं सन्निपतेत् तर्हि पूर्वाशौचं समाप्यानन्तरं द्वाभ्यां रात्रिभ्यां शुद्धिः । प्रभाते पुनस् तस्या रात्रेः पश्चिमे यामे जननाद्याशौचान्तरसन्निपते सति तिसृभी रात्रिभिः शुद्धिः न पुनस् तच्छेषमात्रेण । शातातपेनाप्युक्तम् : "रात्रिशेषे द्व्यहाच् छुद्धिर् यामशेषे शुचिस् त्र्यहात्" इति । प्रेतक्रिया पुनः सूतकसन्निपातेऽपि न निवर्तत इति तेनैवोक्तम् ।

"अन्तर्दशाहे जननात् पश्चात् स्यान् मरणं यदि ।
प्रेतम् उद्दिश्य कर्तव्यं पिण्डदानं स्वबन्धुभिः ॥
प्रारब्धे प्रेतपिण्डे तु मध्ये चेज् जननं भवेत् ।
तथाइवाशौचपिण्डांस् तु शेषान् दद्याद् यथाविधि ॥" इति ।

तथा शावाशौचयोः सन्निपातेऽपि प्रेतकृत्यं कार्यम्, तुल्यन्यायत्वात् । तथा जातकर्मादिकम् अपि पुत्रजन्मनिमित्तकम् आशौचान्तरसन्निपातेऽपि कार्यम् एव । तथा प्रजापतिः ।

"आशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत् ।
कर्तुस् तात्कालिकी शुद्धिः पूर्वाशौचेन शुध्यति ॥" इति ॥

पूर्णप्रसवकालजननाशौचम् अभिधायाधुना अप्राप्तकालगर्भनिःसरणनिमित्तम् आशौचम् आह ।

गर्भस्रावे मासतुल्या निशाः शुद्धेस् तु कारणम् ॥ या०ध०३.२०च्द्

स्रवतिर् यद्य् अपि लोके द्रवद्रव्यकर्तृके परिस्यन्दे प्रयुज्यते, तथाप्य् अत्र द्रवाद्रवद्रव्यसाधारणरूपेऽधःपतने वर्तते । कुतः, द्रवत्वस्य प्रथममास एव संभवात् तत्र च "मासतुल्या निशाः" इति बहुवचनानुपपत्तेः । गर्भस्रावे यावन्तो गर्भग्रहणमासास् तत्समसंख्याका निशाः शुद्धेः कारणम् । एतच् च स्त्रिया एव, "गर्भस्रावे मासतुल्या रात्रयः स्त्रीणां स्नानमात्रम् एव पुरुषस्य" इति वृद्धवसिष्ठस्मरणात् । यत् पुनर् गौतमेन "त्र्यहं च" (गौ०ध० १४.१८) इति त्रिरात्रम् उक्तं, तन् मासत्रयाद् अर्वाग् वेदितव्यम्,

"गर्भस्रुत्यां यथामासम् अचिरे तूत्तमे त्रयः ।
राजन्ये तु चतूरात्रं वैश्ये पञ्चाहम् एव तु ॥
अष्टाहेन तु शूद्रस्य शुद्धिर् एषा प्रकीर्तिता ॥"

इति मरीचिस्मरणात् । अचिरे मासत्रयाद् अर्वाक् गर्भस्रावे उत्तमे ब्राह्मणजातौ त्रिरात्रम् इत्य् अर्थः । एतच् च षण्मासपर्यन्ते द्रष्टव्यम् । सप्तमादिषु पुनः परिपूर्णम् एव प्रसवाशौचं कार्यम्, तत्र परिपूर्णाङ्गगर्भस्य जीवतो निर्गमदर्शनात्, तत्र च लोके प्रसवशब्दप्रयोगात्,

"षण्मासाभ्यन्तरे यावद् गर्भस्रावो भवेद् यदा ।
तदा माससमैस् तासां दिवसैः शुद्धिर् इष्यते ॥
अत ऊर्ध्वं स्वजात्युक्तं तासाम् आशौचम् इष्यते ।
सद्यःशौचं सपिण्डानां गर्भस्य पतने सति ॥"

इति स्मरणात् ॥ एतच् च सपिण्डानां सद्यःशौचविधानं द्रवभूतगर्भपतने वेदितव्यम् । यत् पुनर् वसिष्ठवचनम् "ऊनद्विवार्षिके प्रेते गर्भस्य पतने च सपिण्डानां त्रिरात्रम्" (व०ध० ४.३४) इति, तत् पञ्चमषष्टयोः कठिनगर्भपतनविषयम्,

"आ चतुर्थाद् भवेत् स्रावः पातः पञ्चमषष्टयोः ।
अत ऊर्ध्वं प्रसूतिः स्याद् दशाहं सूतकं भवेत् ॥
स्रावे मातुस् त्रिरात्रं स्यात् सपिण्डाशौचवर्जनम् ।
पाते मातुर् यथामासं पित्रादीनां दिनत्रयम् ॥"

इति मरीचिस्मरणात् ॥ सप्तममासप्रभृति मृतजनने जातमृते वा सपिण्डानां जनननिमित्तं परिपूर्णम् आशौचम्, "जातमृते मृतजाते वा सपिण्डानां दशाहं" इति हारीतस्मरणात्, "अतः सूतके चेदोथानाशौचं सूतकवत्" इति पारस्करवचनाच् च । आ उत्थानाद् आ सूतिकाया उत्थानाद् दशाहम् इति यावत् । सूतकवद् इति शिशूपरमनिमित्तोदकदानरहितम् इत्य् अर्थः । बृहन्मनुर् अपि ।

"दशाहाभ्यन्तरे बाले प्रमीते तस्य बान्धवैः ।
शावाशौचं न कर्तव्यं सूत्याशौचं विधीयते ॥" इति ।

तथा च स्मृत्यन्तरम् अपि "अन्तर्दशाहोपरतस्य सूतिकाहोभिर् एवाशौचम्" इति । एवमादिवचननिचयपर्यालोचनया सपिण्डानां जनननिमित्ताशौचसंकोचो नास्तीति गम्यते । यत् पुनर् बृहद्विष्णुवचनम् "जाते मृते मृतजाते वा कुलस्य सद्यःशौचम्" इति, तच् छिशूपरमनिमित्तस्याशौचस्य स्नानाच् छुद्धिप्रतिपादनपरं न प्रसवनिमित्तस्य । तथा च पारस्करः "गर्भे यदि विपत्तिः स्याद् दशाहं सूतकं भवेत्", सपिण्डानां प्रसवनिमित्तस्य विद्यमानत्वात् । "जीवञ्जातो यदि प्रेयात् सद्य एव विशुध्यति" इति प्रेताशौचाभिप्रायम् । तथा च शङ्खेनोक्तम् "प्राङ् नामकरणात् सद्यःशौचम्" इति । यत् पुनः कात्यायनवचनम्,

"अनिवृत्ते दशाहे तु पञ्चत्वं यदि गच्छति ।
सद्य एव विशुद्धिः स्यान् न प्रेतं नोदकक्रिया ॥"

इति, तद् अपि वैष्णवेन समानार्थम् । यदा तु "न प्रेतं नैवसूतकम्" इति पाठस् तदा सूतकम् अस्पृश्यत्वं नैव पित्रादीनां भवतीत्य् अर्थः । अथ वायम् अर्थः : अन्तर्दशाहे यदि शिशूपरमस् तदा न प्रेताशौचम् । यदि तत्र सपिण्डजननं तदा सूतकम् अपि नैव कार्यं किं तु पूर्वाशौचेनैव शुद्धिर् इति । यत् तु बृहन्मनुवचनम्,

"जीवञ्जातो यदि ततो मृतः सूतक एव तु ।
सूतकं सकलं मातुः पित्रादीनां त्रिरात्रकम् ॥"

इति, यच् च बृहत्प्रचेतोवचनम्,

"मुहूर्तं जीवतो बालः पञ्चत्वं यदि गच्छति ।
मातुः शुद्धिर् दशाहेन सद्यः शुद्धास् तु गोत्रिणः ॥"

इति, तत्रेयं व्यवस्था : जननानन्तरं नाभिवर्धनात् प्राङ् मृतौ पित्रादीनां जनननिमित्तनाशौचं दिनत्रयम् । सद्यःशौचं त्व् अग्निहोत्राद्यर्थम्, "अग्निहोत्रार्थं स्नानोपस्पर्शनात् तत्कालं शौचम्" इति शङ्खस्मरणात् । नाभिवर्धनोत्तरकालं तु शिशुप्रयाणेऽपि जनननिमित्तं संपूर्णम् आशौचं सपिण्डानाम्,

"यावन् न छिद्यते नालं तावन् नाप्नोति सूतकम् ।
छिन्ने नाले ततः पश्चात् सूतकं तु विधीयते ॥"

इति जमिनिस्मरणात् ।

मनुनाप्य् अयम् अर्थो दर्शितः ।

"रात्रिभिर् मासतुल्याभिर् गर्भस्रावे विशुध्यति ।
रजस्य् उपरते साध्वी स्नानेन स्त्री रजस्वला ॥" इति । (मा०ध० ५.६६)

पूर्वभागस्यार्धो दर्शितः । उत्तरस्य त्व् अयम् अर्थः । रजसि निःसरणाद् उपरते निवृत्ते रजस्वला स्त्री स्नानेन साध्वी दैवादिकर्मयोग्या भवति । स्पर्शनादिविषये पुनर् अनुपरतेऽपि रजसि चतुर्थेऽहनि स्नानाच् छुद्धा भवति । तद् उक्तं वृद्धमनुना ।

"चतुर्थेऽहनि संशुद्धा भवति व्यावहारिकी ।" इति ।

तथा स्मृत्यन्तरम् ।

"शुद्धा भर्तुश् चतुर्थेऽह्नि स्नानेन स्त्री रजस्वला ।
दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति ॥"

"पञ्चमेऽहनि" इति रजोनिवृत्तिकालोपलक्षणार्थम् । यदा रजोदर्शनाद् आरभ्य पुनः सप्तदश दिनाभ्यन्तरे रजोदर्शनं तदा अशुचित्वं नास्त्य् एव । अष्टादशे त्व् एकाहाच् छुद्धिः । एकोनविंशे द्व्यहात् । तत उत्तरेषु त्र्यहाच् छुद्धिः । यथाह अत्रिः ।

"रजस्वला यदि स्नाता पुनर् एव रजस्वला ।
अष्टादशदिनाद् अर्वाग् अशुचित्वं न विद्यते ॥
एकोनविंशतेर् अर्वाग् एकाहं स्यात् ततो द्व्यहम् ।
विंशत्प्रभृत्युत्तरेषु त्रिरात्रम् अशुचिर् भवेत् ॥" इति ।

"चतुर्दशादिनाद् अर्वाग् अशुचित्वं न विद्यते" इति स्मृत्यन्तरं तत्र स्नानप्रभृतित्वम् अभिप्रेतम्, अतो न विरोधः । अयं चाशुचित्वप्रतिषेधो यस्य विंशतिदिनोत्तरकालम् एव प्रायशो रजोदर्शनं तद् विषयः । यस्याः पुनर् आरूड्ःयौवनायाः प्राग् एवाष्टादशदिनात् प्राचुर्येण रजोनिर्गमस् तस्यास् त्रिरात्रम् एवाशौचम् । तया च यावत् त्रिरात्रं स्नानादिरहितया स्थातव्यम्, "रजस्वला त्रिरात्रम् अशुचिर् भवति, सा च नाञ्जीत नाभ्यञ्जीत नाप्सु स्नायाद् अधः शयीत न दिवा स्वप्यात् न ग्रहान् वीक्षेत नाग्निं स्पृशेत् नाश्नीयान् न रज्जुं सृजेत् न च दन्तान् धावयेत् न हसेन् न च किंचिद् आचरेद् अखर्वेण पात्रेण पिबेद् अञ्जलिना वा पात्रेण लोहितायसेन वेति विज्ञायते" (व०ध० ५.६–८) इति वसिष्ठस्मरणात् ।

आङ्गिरसेऽपि विशेषः ।

"हस्तेऽश्नीयान् मृन्मये वा हविर्भुक् क्षितिशायिनी ।
रजस्वला चतुर्थेऽह्नि स्नात्वा शुद्धिम् अवाप्नुयात् ॥" इति ।

पाराशरेऽपि विशेषः -

"स्नाने नैमित्तिके प्राप्ते नारी यदि रजस्वला ।
पात्रान्तरिततोयेन स्नानं कृत्वा व्रतं चरेत् ॥
सिक्तगात्रा भवेद् अद्भिः साङ्गोपाङ्गा कथंचन ।
न वस्त्रपीडनं कुर्यान् नान्यद् वासश् च धारयेत् ॥" इति ।

उशनसाप्य् अत्र विशेषो दर्शितः ।

"ज्वराभिभूता या नारी रजसा च परिप्लुता ।
कथं तस्या भवेच् छौचं शुद्धिः स्यात् केन कर्मणा ॥
चतुर्थेऽहनि संप्राप्ते स्पृशेद् अन्या तु तां स्त्रियम् ।
सा सचेलावगाह्यापः स्नात्वा स्नात्वा पुनः स्पृशेत् ।
दशद्वादशकृत्वो वा आचमेच् च पुनः पुनः ॥
अन्ते च वाससां त्यागस् ततः शुद्धा भवेच् च सा ।
दद्याच् छक्त्या ततो दानं पुण्याहेन विशुध्यति ॥" इति ।

अयं चातुरमात्रे स्नानप्रकारोऽनुसरणीयः,

"आतुरे स्नान उत्पन्ने दशकृत्वो ह्य् अनातुरः ।
स्नात्वा स्नात्वा स्पृशेद् एनं ततः शुध्येत् स आतुरः ॥"

इति पराशरस्मरणात् । यदा तु रजस्वलायाः सूतिकाया वा मृतिर् भवति तदायं स्नानप्रकारः :

"सूतिकायां मृतायां तु कथं कुर्वन्ति याज्ञिकाः ।
कुम्भे सलिलम् आदाय पञ्चगव्यं तथैव च ॥
पुण्यर्ग्भिर् अभिमन्त्र्यापो वाचा शुद्धिं लभेत् ततः ।
तेनैव स्नापयित्वा तु दाहं कुर्याद् यथाविधि ॥"

रजस्वलायास् तु :

"पञ्चभिः स्नापयित्वा तु गव्यैः प्रेतां रजस्वलाम् ।
वस्त्रान्तरावृतां कृत्वा दाहयेद् विधिपूर्वकम् ॥" इति ।

एतच् च रजोदर्शनपुत्रजन्मादि, यद्य् उदयोत्तरकालम् उत्पन्नं तदा तद्दिवसप्रभृत्याशौचाहोरात्रगणना कार्या । यदा तु रजन्यां रजोदर्शनपुत्रजन्मादि जातं तदार्धरात्रात् प्राक् जननाद्युत्पत्तौ पूर्वदिवसैकदेशव्यापित्वेऽप्य् आशौचस्य तत्पूर्वदिवसप्रभृत्य् एव गणना कार्येत्य् एकः कल्पः । रात्रिं त्रेधा विभज्याद्ये भागद्वये जननादौ जाते पूर्वदिनं ग्राह्यम् इति द्वितीयः । प्रागुदयाद् इत्य् अपरः । यथाह कश्यपः ।

"उदिते तु यदा सूर्ये नारीणां दृश्यते रजः ।
जननं वा विपत्तिर् वा यस्याहस् तस्य शर्वरी ॥
अर्धरात्रावधिः कालः सूतकादौ विधीयते ।
रात्रिं कुर्यात् त्रिभागं तु द्वौ भागौ पूर्व एव तु ॥
उत्तरांशः प्रभातेन युज्यते ऋतुसूतके ।
रात्राव् एव समुत्पन्ने मृते रजसि सूतके ॥
पूर्वम् एव दिनं ग्राह्यं यावन् नोदयते रविः ॥" इति ।

एतेषां च कल्पानां देशाचारतो व्यवस्था विज्ञेया ।

इदं चाशौचम् आहिताग्नेर् उपरमे संस्कारदिवसप्रभृति कर्तव्यम् । अनाहिताग्नेस् तु मरणदिवसप्रभृति संचयनं तूभयोर् इति संस्कारदिवसप्रभृतीति विवेचनीयम् । यथाहाङ्गिराः ।

"अनग्निम् अत उत्क्रान्तेः साग्ने संस्कारकर्मणः ।
शुद्धिः संचयनं दाहान् मृताहस् तु यथाविधि ॥" इति ।

"साग्नेः संस्कारकर्मणः" इति श्रवणाद्, आहिताग्नौ पितरि देशान्तरमृते तत्पुत्रादीनाम् आ संस्कारात् संध्यादिकर्मलोपो नास्तीत्य् अनुसंधेयम् । तथा च पैठीनसिः ।

"अनग्निम् अत उत्क्रान्तेर् आशौचं हि द्विजातिषु ।
दाहाद् अग्निमतो विद्याद् विदेशस्थे मृते सति ॥" इति ॥ ३.२० ॥

सपिण्डत्वादिना दशाहादिप्राप्तौ क्वचिन् मृत्युविशेषेणापवादम् आह ।

हतानां नृपगोविप्रैर् अन्वक्षं चात्मघातिनाम् । या०ध०३.२१अब्

नृपोऽभिषिक्तः क्षत्रियादिः । गोग्रहणं षृङ्गिदंष्ट्र्यादितिरश्चाम् उपलक्षणार्थम् । विप्रग्रहणम् अन्त्यजोपलक्षणम् । एतैर् हतानां संबन्धिनो ये सपिण्डास् तेषाम् । विषोद्बन्धनादिभिः बुद्धिपूर्वम् आत्मानं ये व्यापादयन्ति ते आत्मघातिनः । आत्मघतिग्रहणं "पाखण्ड्यनाश्रिता" इत्य् एकयोगोपात्तपतितपात्रोपलक्षणार्थम् । तत्संबन्धिनां चान्वक्षम् अनुगतम् अक्षम् अन्वक्षं सद्यः शौचम् इत्य् अर्थः । तत्संबन्धिनां च सान्वक्षं यावद् दर्शनम् आशौचं न पुनर् दशाहादिकम् । तथा च गौतमः "गोब्राह्मणहतानाम् अन्वक्षं राजक्रोधाच् चायुद्धे प्रायोऽनाशकशस्त्राग्निविषोदकोद्बन्धनप्रपतनैश् चेच्छताम्" (गौ०ध० १४.९–१२) इति । क्रोधग्रहणं प्रमादव्यापादितनिरासार्थम् । अयुद्धग्रहणं युद्धहतस्यैकाहम् आशौचम् अस्तीति ज्ञापनार्थम्,

"ब्राह्मणार्थं विपन्नानां योषितां गोग्रहेऽपि च ।
आहवेऽपि हतानां च एकरात्रम् अशौचकम् ॥"

इति स्मरणात् । एतच् च युद्धकालक्षतेनैव कालान्तरविपन्नस्य । समरमूर्धनि हतस्य पुनः सद्यः शौचम् । यथाह मनुः ।

"उद्यतैर् आहवे शस्त्रैः क्षत्रधर्महतस्य च ।
सद्यः संतिष्ठते यज्ञस् तथाशौचम् इति स्थितिः ॥" इति ॥ (मा०ध० ५.९८)

ज्ञातस्यैव जननादेर् आशौचनिमित्तत्वाज् जन्मदिनाद् उत्तरकालेऽपि ज्ञाते दशाहादिप्राप्ताव् अपवादम् आह ।

प्रोषिते कालशेषः स्यात् पूर्णे दत्त्वोदकं शुचिः ॥ या०ध०३.२१च्द्

प्रोशिते देशान्तरस्थे यत्रस्थेन प्रथमदिवस एव सपिण्डजननादिकं न ज्ञायते तस्मिन् सपिण्डे कालस्य दशाहाद् यवच् छिन्नस्य यः शेषोऽवशिष्टकालः स एव शुद्धिहेतुर् भवति । पूर्णे पुनराशौचकाले दशाहादिके प्रेतायोदकं दत्त्वा शुद्धिर् भवति । उदकदानस्य स्नानपूर्वकत्वात् स्नात्वोदकं दत्त्वा शुचिर् भवति । तद् उक्तं मनुना ।

"निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ।
सवासा जलम् आप्लुत्य शुद्धो भवति मानवः ॥" इति । (मा०ध० ५.७७)

"पूर्णे दत्त्वोदकं शुचिः" इति प्रेतोदकदानसहचरितस्याशौचकालस्य शुद्धिहेतुत्वविधानात्, जन्मन्य् अतिक्रान्ताशौचं सपिण्डानां नास्तीति गम्यते । पितुस् तु निर्दशेऽपि जनने स्नानम् अस्त्य् एव, "श्रुत्वा पुत्रस्य जन्म च" (मा०ध० ५.७७) इति वचनात् । एतच् च पुत्रग्रहणं जन्मनि सपिण्डानाम् अतिक्रान्ताशौचं नास्तीति ज्ञापकम् । अन्यथा "निर्दशं ज्ञातिमरणं श्रुत्वा जन्म च निर्दशम्" इत्य् एवावक्ष्यत् । न चोक्तम् । तथा च देवलः ।

"नाशुद्धिः प्रसवाशौचे व्यतीतेषु दिनेष्व् अपि ।" इति । तस्माद् विपत्ताव् एवातिक्रान्ताशौचम् इति स्थितम् । केचिद् अन्यथेमं श्लोकं पठन्ति :

"प्रोषिते कालशेषः स्याद् अशेषे त्र्यहम् एव तु ।
सर्वेषां वत्सरे पूर्णे प्रेते दत्त्वोदकं शुचिः ॥" इति ।

प्रोषिते प्रेते सर्वेषां ब्राह्मणक्षत्रियादीनाम् अविशेषेण कालशेषः शुद्धिहेतुः । अशेषे पुनर् अतिक्रान्ते दशाहादौ सर्वेषां त्र्यहम् एवाशौचम् । संवत्सरे पूर्णे यदि प्रोषितप्रयाणम् अवगतं स्यात् तदा सर्वो ब्राह्मणादिः स्नात्वोदकं दत्त्वा शुचिः स्यात् । तथा च मनुः ।

"संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति ।" इति । (मा०ध० ५.७६)

अयं च त्र्यहो दशाहाद् ऊर्ध्वं मासत्रयाद् अर्वाग् द्रष्टव्यः । पूर्वोक्तं तु सद्यःशौचं नवममासाद् ऊर्ध्वम् अर्वाक् संवत्सराद् द्रष्टव्यम् । यत् पुनर् वासिष्ठं वचनम् "ऊर्ध्वं दशाहाच् छुत्वैकरात्रम्" (व०ध० ४.३६) इति, तद् ऊर्ध्वं षण्मासेभ्यो यावन् नवमम् । यद् अपि गौतमवचनम् "श्रुत्वा चोर्ध्वं दशम्याः पक्षिणी" (गौ०ध० १४.१९) इति, तन् मासत्रयाद् ऊर्ध्वम् अर्वाक् षष्टात् । तथा च वृद्धवसिष्ठः ।

"मासत्रये त्रिरात्रम् स्यात् षण्मासे पक्षिणी तथा ।
अहस् तु नवमाद् अर्वाग् ऊर्ध्वं स्नानेन शुध्यति ॥" इति ।

एतच् च मातापितृव्यतिरिक्तविषयम्,

"पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः ।
श्रुत्वा तद्दिनम् आरभ्य दशाहं सूतकी भवेत् ॥"

इति पैठीनसिस्मरणात् । तथा च स्मृत्यन्तरेऽपि

"महागुरुनिपाते तु आर्द्रवस्त्रोपवासिना ।
अतीतेऽब्देऽपि कर्तव्यं प्रेतकार्यं यथाविधि ॥" इति ।

संवत्सराद् ऊर्ध्वम् अपि प्रेतकार्यम् आशौचोदकदानादिकं कार्यं न पुनः स्नानमात्राच् छुद्धिर् इत्य् अर्थः । पितृपत्न्याम् अपि मातृव्यतिरिक्तायां स्मृत्यन्तरे विशेषो दर्शितः ।

"पितृपत्न्याम् अपेतायां मातृवर्जं द्विजोत्तमः ।
संवत्सरे व्यतीतेऽपि त्रिरात्रम् अशुचिर् भवेत् ॥" इति ।

यस् तु नद्यादिव्यवहिते देशान्तरे मृतस् तत्सपिण्डानां दशाहाद् ऊर्ध्वं मासत्रयाद् अर्वाग् अपि सद्यःशौचम् :

"देशान्तरमृतं श्रुत्वा क्लीबे वैखानसे यतौ ।
मृते स्नानेन शुध्यन्ति गर्भस्रावे च गोत्रिणः ॥" इति ।

देशान्तरलक्षणं च बृहस्पतिनोक्तम् ।

"महानद्यन्तरं यत्र गिरिर् वा व्यवधायकः ।
वाचो यत्र विभिद्यन्ते तद्देशान्तरम् उच्यते ॥
देशान्तरं वदन्त्य् एके षष्टियोजनम् आयतम् ।
चत्वारिंशद् वदन्त्य् अन्ये त्रिंशद् अन्ये तथैव च ॥" इति ।

इदं चातिक्रान्ताशौचम् उपनीतोपरमविषयम्, न पुनर् वयोवस्थाविशेषाशौचविषयम् अपि । तथाचोक्तं व्याग्रपादेन ।

"तुल्यं वयसि सर्वेषाम् अतिक्रान्ते तथैव च ।
उपनीते तु विषमं तस्मिन्न् एवातिकालजम् ॥" इति ।

अयम् अर्थः : वयसि त्रिवर्षादिरूपे यदाशौचं "आ दन्तजन्मनः सद्यः" (या०ध० ३.२३) इत्यादिवाक्यविहितं तत् सर्वेषां ब्राह्मणादिवर्णानां तुल्यम् अविशिष्टम् । अतिक्रान्ते च दशाहादिके त्र्यहादि यदाशौचं तद् अपि सर्वेषाम् अविशिष्टम् । उपनीते पुनर् उपरते दशद्वादशपञ्चदशत्रिंशद्दिनानीत्य् एवं विषमम् आशौचं ब्राह्मणादिनाम् । तस्मिन्न् एवोपनीतोपरम एव अतिकालजम् अतिक्रान्ताशौचं भवति न वयोवस्थाशौचातिक्रम इति ॥ ३.२१ ॥

क्षत्रियादिषु दशरात्रस्य सपिण्डाशौचस्यापवादम् आह ।

क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु ।
त्रिंशद् दिनानि शूद्रस्य तदर्धं न्यायवर्तिनः ॥ या०ध०३.२२

क्षत्रियवैश्यशूद्राणां सपिण्डजनने तदुपरमे च यथाक्रमेण द्वादशपञ्चदशत्रिंशद्दिनान्य् आशौचं भवति । न्यायवर्तिणः पुनः शूद्रस्य पाकयज्ञद्विजशुश्रूषादिरतस्य तदर्धं तस्य मासस्यार्धं पञ्चदशरात्रम् आशौचम् । एवं च "त्रिरात्रं दशरात्रं वा" (या०ध० ३.१८) इत्य् एतद् दशरात्रम् आशौचं पारिशेष्याद् ब्राह्मणविषये व्यवतिष्ठते । स्मृत्यन्तरेषु तु क्षत्रियादीनां दशाहादयोऽप्य् आशौचकल्पा दर्शिताः । यथाह पराशरः ।

"क्षत्रियस् तु दशाहेन स्वकर्मनिरतः शुचिः ।
तथैव द्वादशाहेन वैश्यः शुद्धिम् अवाप्नुयात् ॥"

तथाच शातातपः ।

"एकादशाहाद् राजन्यो वैश्यो द्वादशभिस् तथा ।
शूद्रो विंशतिरात्रेण शुध्येत मृतसूतके ॥"

वसिष्ठस् तु "पञ्चदशरात्रेण राजन्यो विंशतिरात्रेण वैश्यः" (व०ध० ४.२८–२९) इति ।

अङ्गिरास् त्व् आह ।

"सर्वेषाम् एव वर्णानां सूतके मृतके तथा ।
दशाहाच् छुद्धिर् एतेषाम् इति शातातपोऽब्रवीत् ॥"

इत्येवम् अनेकोच्चावचाशौचकल्पा दर्शिताः । तेषां लोके समाचाराभावान् नातीव व्यवस्थाप्रदर्शनम् उपयोगीति नात्र व्यवस्था प्रदर्श्यते । यदा पुनर् ब्राह्मणादीनां क्षत्रियादयः सपिण्डा भवन्ति, तदा हारीताद्युक्ताशौचकल्पोऽनुसरणीयः ।

"दशाहाच् छुध्यते विप्रो जन्महानौ स्वयोनिषु ।
षड्भिस् त्रिभिर् अथैकेन क्षत्रविट्शूद्रयोनिषु ॥" इति ।

विष्णुर् अप्य् आह "क्षत्रियस्य विट्शूद्रेषु सपिण्डेषु षड्रात्रत्रिरात्राभ्यां वैश्यस्य शूद्रे सपिण्डे षड्रात्रेण शुद्धिर् हीनवर्णानां तूत्कृष्टेषु सपिण्डेषु जातेषु मृतेषु वा तदाशौचव्यपगमे शुद्धिः" (वि०ध० २२.२३–२४, २१) इति । बौधायनेन त्व् अविशेषेण दशाह इत्य् उक्तम् ।

"क्षत्रविट्शूद्रजातीया ये स्युर् विप्रस्य बान्धवाः ।
तेषाम् आशौचे विप्रस्य दशाहाच् छुद्धिर् इष्यते ॥" इति ।

अनयोश् च पक्षयोर् आपदनापद्विषयत्वेन व्यवस्था । दास्यादीनां तु स्वामिशौचेन स्पृश्यत्वं कर्मानधिकारत्वं तु मासावधिर् एव । तदाह अङ्गिराः ।

"दासी दासश् च सर्वो वै यस्य वर्णस्य यो भवेत् ।
तद्वर्णस्य भवेच् छौचं दास्या मासस् तु सूतकम् ॥" इति ।

प्रतिलोमानां त्व् आशौचाभाव एव, "प्रतिलोमा धर्महीनाः" इति मनुस्मरणात् । केवलं मृतौ प्रसवे च मलापकर्षणार्थं मूत्रपुरीषोत्सर्गवत् शौचं भवत्य् एव ॥ ३.२२ ॥

वयोवस्थाविशेषाद् अपि दशाहाद्याशौचस्यापवादम् आह ।

आ दन्तजन्मनः सद्य आ चूडान् नैशिकी स्मृता ।
त्रिरात्रम् आ व्रतादेशाद् दशरात्रम् अतः परम् ॥ या०ध०३.२३

यावता कालेन दन्तानाम् उत्पत्तिस् तस्मिन् काले अतीतस्य बालस्य तत्संबन्धिनां सद्यः शौचम् । चूडाकरणाद् अर्वाङ् मृतस्य संबन्धिनां नैशिकी निशायां भवा अहोरात्रव्यापिन्य् अशुद्धिः । व्रतादेश उपनयनं ततोऽर्वाक् चूडायाश् चोर्ध्वम् अतीतस्य त्र्यहम् अशुद्धिः । अत्र च "आ दन्तजन्मनः सद्यः" इति यद्य् अप्य् अविशेषेणाभिधानं, तथाप्य् अग्निसंस्काराभावे द्रष्टव्यम्, "अदन्तजाते बाले प्रेते सद्य एव शुद्धिर् नास्याग्निसंस्कारो नोदनक्रिया" (वि०ध० २२.२७–२८) इति वैष्णवे अग्निसंस्काररहितस्य सद्यःशौचविधानात् । सति त्व् अग्निसंस्कारे "अहस् त्व् अदत्तकन्यासु बालेषु च" (या०ध० ३.२४) इति वक्ष्यमाण एकाहः । तथा च यमः ।

"अदन्तजाते तनये शिशौ गर्भच्युते तथा ।
सपिण्डानां तु सर्वेषाम् अहोरात्रम् अशौचकम् ॥" इति ।

नामकरणात् प्राक् सद्यःशौचम् एव नियतम्, "प्राङ् नामकरणात् सद्यः शुद्धिः" इति शङ्खस्मरणात् । चूडाकर्म च प्रथमे तृतीये वा वर्षे स्मर्यते,

"चूडाकर्म द्विजातीनां सर्वेषाम् एव धर्मतः ।
प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥"

इति स्मरणात् । ततश् च दन्तजननाद् ऊर्ध्वं प्रथम वार्षिकचूडापर्यन्तम् एकाहः । तत्र त्व् अकृतचूडस्य दन्तजनने सत्य् अपि त्रिवर्षं यावद् एकाह एव । तथा च विष्णुः : "दन्तजातेऽप्य् अकृतचूडेऽहोरात्रेण शुद्धिः" (वि०ध० २२.२९) इति । तत ऊर्ध्वं प्राग् उपनयात् त्र्यहः । यत् तु मनुवचनम्,

"नॄणाम् अकृतचूडानां अशुद्धिर् नैशिकी स्मृता ।
निर्वृत्तचूडकानां तु त्रिरात्राच् छुद्धिर् इष्यते ॥" (मा०ध० ५.६७)

इति, तस्याप्य् अयम् एव विषयः । यत् तूनद्विवर्षम् अधिकृत्य तेनैवोक्तम्,

"अरण्ये काष्ठवत् त्यक्त्वा क्षिपेयुस् त्र्यहम् एव तु ।" इति । (मा०ध० ५.६९)

यच् च वसिष्ठवचनम्, "ऊनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रम्" (व०ध० ४.३४) इति, तत् संवत्सरचूडाभिप्रायेण । यत् तु अङ्गिरोवचनम्,

"यद्य् अप्य् अकृतचूडो वै जात दन्तश् च संस्थितः ।
तथापि दाहयित्वैनम् आशौचं त्रयहम् आचरेत् ॥"

इति, तद् वर्षत्रयाद् ऊर्ध्वं कुलधर्मापेक्षया चूडोत्कर्षे वेदितव्यम्,

"विप्रे न्यूनत्रिवर्षे तु मृते शुद्धिस् तु नैशिकी ।"

इति तेनैवाभिहितत्वात् । न चायम् एकाहो दन्तजननाभाव इति शङ्कनीयम् । न हि न्यूनत्रिवर्षस्य दन्तानुत्पत्तिः संभवति । तथा सत्य् अपि दन्तजनने अकृतचूडस्यैकाहं विदधता विष्णुवचनेन (वि०ध० २२.२९) विरोधश् च दुष्परिहरः स्यात् । तस्मात् प्राचीनैव व्याख्या ज्याजसी । यत् तु कश्यपवचनम् "बालानामदन्तजातानां त्रिरात्रेण शुद्धिः" इति, तन् मातापितृविषयम्,

"निरस्य तु पुमाञ् शुक्रम् उपस्पर्शाद् विशुध्यति ।
बैजिकाद् अभिसंबन्धाद् अनुरुन्ध्याद् अघं त्र्यहं ॥"

इति जन्यजनकसंबन्धोपाधिकतया त्रिरात्रस्मरणात् । ततश् चायम् अर्थः : प्राङ् नामकरणात् सद्यःशौचं, तद् ऊर्ध्वं दन्तजननाद् अर्वाग् अग्निसंस्कारक्रियायां एकाहः, इतरथा सद्यःशौचम्, जातदन्तस्य च प्रथमवार्षिकाच् चौलाद् अर्वाग् एकाहः, प्रथमवर्षाद् ऊर्ध्वं त्रिवर्षपर्यन्तं कृतचूडस्य त्र्यहम्, इतरस्य त्व् एकाहः, वर्षत्रयाद् ऊर्ध्वम् अकृतचूडस्यापि त्र्यहम्, उपनयनाद् ऊर्ध्वं सर्वेषां ब्राह्मादीनां दशरात्रादिकम् इति ॥ ३.२३ ॥

इदानीं स्त्रीषु च वयोवस्थाविशेषेणापवादम् आह ।

अहस् त्व् अदत्तकन्यासु बालेषु च विशोधनम् । या०ध०३.२४अब्

अदत्ता अपरिणीता याः कन्यास् तासु कृतचूडासु वाग्दानात् प्राग् अहोरात्रं विशेषेण शुद्धिकारणम् । सपिण्डानां सापिण्ड्यं च कन्यानां त्रिपुरुषप्रयन्तम् एव, "अप्रत्तानां तु स्त्रीणां त्रिपुरुषी विज्ञायते" (व०ध० ४.१८) इति वसिष्ठस्मरणात् । बालेषु चानुत्पन्नदन्तेषु अग्निसंस्कारे सत्य् एकाहो विशोधनम् । अकृतचूडायां तु कन्यायां सद्यः शौचम्,

"अचूडायां तु कन्यायां सद्यः शौचं विधीयते ।"

इत्य् आपस्तम्बस्मरणात् । वाग्दानाद् ऊर्ध्वं तु संस्कारात् प्राक् पतिपक्षे पितृपक्षे च त्र्यहम् एव । यथाह मनुः ।

"स्त्रीणाम् असंस्कृतानां तु त्र्यहाच् छुध्यन्ति बान्धवाः ।
यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ॥" इति । (मा०ध० ५.७२)

बान्धवाः पतिपक्ष्यास् त्रिरात्रेण शुध्यन्ति । सनाभयस् तु पितृपक्ष्याः सपिण्डा यथोक्तेनैव कल्पेन "निर्वृत्तचूडकानाम्" इत्यादिनोक्तेन त्रिरात्ररूपेण न पुनर् दशरात्ररूपेण, विवाहात् प्राक् तस्यायुक्तत्वात् । अत एव मरीचिः ।

"वारिपूर्वं प्रदत्ता तु या नैव प्रतिपादिता ।
असंस्कृता तु सा ज्ञेया त्रिरात्रम् उभयोः स्मृतम् ॥" इति ।

उभयोः पतिपितृपक्षयोः । विवाहाद् ऊर्ध्वं तु विष्णुना विशेषो दर्शितः : "संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे, तत्प्रसवमरणे चेत् पितृगृहे स्यातां तदैकरात्रं त्रिरात्रं वा" (वि०ध० २२.३३–३४) इति । तत्र प्रसवे एकाहः प्रयाणे त्रिरात्रम् इति व्यवस्था । इदं च वयोवस्थाशौचं सर्ववर्णसाधरणम्, "क्षत्रस्य द्वादशाहानि" (या०ध० ३.२२) इति तद्वर्णविशेषोपादानेनाभिधानात् । अत एव मनुना अनुपात्तवर्णविशेषाशौचविधेः साधारण्यप्रतिपादनार्थं चातुर्वर्ण्याधिकारे सत्य् अपि पुनः,

"चतुर्णाम् अपि वर्णानां यथावद् अनुपूर्वशः ।" (मा०ध० ५.५७)

इत्य् उक्तम् । तथा अङ्गिरसाप्य् उक्तम् ।

"अविशेषेण वर्णानाम् अर्वाक् संस्कारकर्मणः ।
त्रिरात्रात् तु भवेच् छुद्धिः कन्यास्व् अह्ना विधीयते ॥" इति ।

व्याघ्रपादवचनं च "तुल्यं वयसि सर्वेषाम्" इति प्राक्प्रदर्शितम् । अतो यथा "पिण्डयज्ञावृता देयम्" (या०ध० ३.१६) इत्यादिः पिण्डोदकदानविधिः सर्ववर्णसाधारणः । यथा वा समानोदकाशौचविधिः "अन्तरा जन्ममरणे" (या०ध० ३.२०) इति सम्निपाताशौचविधिश् च यद्वच् च "गर्भस्रावे मासतुल्या निशाः" (या०ध० ३.२०) इति स्रावाशौचविधिः "प्रोषिते कालशेषः स्याद् अशेषे त्र्यहम् एव तु" (या०ध० ३.२१) इति विदेशस्थाशौचविधिश् च यथा गुर्वाद्याशौचविधिः सर्ववर्णसाधारणः, तथा वयोवस्थानिमित्तम् अप्य् आशौचं सर्ववर्णसाधारणम् एव भवितुम् अर्हति । अत एव,

"क्षत्रे षड्भिः कृते चौले वैश्ये नवभिर् उच्यते ।
ऊर्ध्वं त्रिवर्षाच् छुद्रे तु द्वादशहो विधीयते ॥"

तथा,

"यत्र त्रिरात्रं विप्राणाम् आशौचं संप्रदृश्यते ।
तत्र शूद्रे द्वादशाहः षण् नव क्षत्रवैश्ययोः ॥"

इत्यादीनि ऋष्यशृङ्गादिवचनानि विगीतत्वबुद्ध्यानाद्रियमाणैर् धारेश्वर-विश्वरूप-मेधातिथि-प्रभृतिभिर् आचार्यैर् अयम् एव साधारणः पक्षोऽङ्गीकृतः । अविगीतानि चार्तानार्तक्षत्रियादिविषयतया व्याख्येयानि ॥

गुर्वादिष्व् अतिदेशम् आह ।

गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च । या०ध०३.२४च्द्

गुरुर् उपाध्यायोऽन्तेवासी शिष्योऽनूचानोऽङ्गानां प्रवक्ता मातुलग्रहणेनात्मबन्धवो मातृबन्धवः पितृबन्धवश् च योनिसंबद्धा उपलक्ष्यन्ते । ते च "पत्नीदुहितरः" (या०ध० ३.१३५) इत्य् अत्र दर्शिताः । श्रोत्रिय एकशाखाध्यायी, "एकां शाखम् अधीत्य श्रोत्रियः" (chf. आ०ध० २.६.४) इति बौधायनस्मरणात् । एषूपरतेष्व् अहोरात्रम् आशौचम् । यस् तु मुख्यो गुरुः पिता तदुपरमे सपिण्डत्वाद् दशाहम् एव । यस् तु पिता पुत्रान् उत्पाद्य संस्कृत्य वेदान् अध्याप्य वेदार्थं ग्राहयित्वा वृत्तिं च विदधाति तस्य महागुरुत्वात् तदुपरमे द्वादशरात्रं वा । "महागुरुषु दानाध्ययने वर्जयेरन्" (आश्व०गृ०ृ ४.४.१७) इत्य् आश्वलायनेनोक्तं द्रष्टव्यम् । आचार्योपरमे तु त्रिरारम् एव । यथाह मनुः ।

"त्रिरात्रम् आहुर् आशौचम् आचार्ये संस्थिते सति ।
तस्य पुत्रे च पत्न्यां च दिवारात्रम् इति स्थितिः ॥" इति । (मा०ध० ५.८०)

यदा त्व् आचार्यादेर् अन्त्येष्टिं करोति तदा दशरात्रम् आशौचम्,

"गुरोः प्रेतस्य शिष्यस् तु पितृमेधं समारभेत् ।
प्रेतहारैः समं तत्र दशाहेन विशुध्यति ॥" (मा०ध० ५.६५)

इति तेनैवोक्तत्वात् । श्रोत्रियस्य तु समानग्रामीणस्यैतद् आशौचम्, "एकाहं सब्रह्मचारिणि समानग्रामीणे च श्रोत्रिये" (आश्व०गृ०ृ ४.४.२६–२७) इत्य् आश्वलायनस्मरणात् । एकाचार्योपनीतः सब्रह्मचारी । एतच् चासंनिधाने द्रष्टव्यम् । संनिहिते तु शिष्यादौ त्रिरात्रादि, यथाह मनुः ।

"श्रोत्रिये तूपसंपन्ने त्रिरात्रम् अशुचिर् भवेत् ।
मातुले पक्षिणीं रात्रिं शिष्यऋत्विग्बान्धवेषु च ॥" इति । (मा०ध० ५.८१)

उपसंपन्ने मैत्रीप्रातिवेश्यत्वादिना संबद्धे शीलयुक्ते वा । मातुलग्रहणं मातृष्वस्रादेर् ऊपलक्षणार्थम् । बान्धवा इत्य् आत्मबन्धवो मातृबन्धवः पितृबन्धवश् चोच्यन्ते । तथा च बृहस्पतिः ।

"त्र्यहं मातामहाचार्यश्रोत्रियेष्व् अशुचिर् भवेत् ।" इति ।

तथा प्रचेताः ।

"मृते चर्त्विजि याज्ये च त्रिरात्रेण विशुध्यति ।" इति ।

तथा च वृद्धवसिष्ठाः ।

"संस्थिते पक्षिणीं रात्रिं दौहित्रे भगिनीसुते ।
संस्कृते तु त्रिरात्रं स्याद् इति धर्मो व्यवस्थितः ॥
पित्रोर् उपरमे स्त्रीणाम् ऊढानां तु कथं भवेत् ।
त्रिरात्रेणैव शुद्धिः स्याद् इत्य् आह भगवान् यमः ॥
श्वशुरयोर् भगिन्यां च मातुलान्यां च मातुले ।
पित्रोः स्वसरि तद्वच् च पक्षिणीं क्षपयेन् निशाम् ॥"

तथा ।

"मातुले श्वशुरे मित्रे गुरौ गुर्वङ्गनासु च ।
आशौचं पक्षिणीं रात्रिं मृता मातामही यदि ॥"

तथाच गौतमः : "पक्षिणीम् असपिण्डे योनिसंबद्धे सहाध्यायिनि च" (गौ०ध० १४.१९–२०) इति । योनिसंबद्धा मातुलमातृष्वस्त्रीयपितृष्वस्त्रीयादयः । तथा जाबालः ।

"एकोदकानां तु त्र्यहो गोत्रजानाम् अहः स्मृतम् ।
मातृबन्धौ गुरौ मित्रे मण्डलाधिपतौ तथा ॥" इति ।

विष्णुः : "असपिण्डे स्ववेश्मनि मृत एकरात्रम्" (वि०ध० २२.४६) इति । तथा वृद्धः ।

"भगिन्यां संस्कृतायां तु भ्रातर्य् अपि च संस्कृते ।
मित्रे जामातरि प्रेते दौहित्रे भगिनीसुते ।
शालके तत्सुते चैव सद्यः स्नानेन शुध्यति ॥
ग्रामेश्वरे कुलपतौ श्रोत्रिये वा तपस्विनि ।
शिष्ये पञ्चत्वम् आपन्ने शुचिर् नक्षत्रदर्शनात् ॥
ग्राममध्यगतो यावच् छवस् तिष्ठति कस्यचित् ।
ग्रामस्य तावद् आशौचं निर्गते शुचिताम् इयात् ॥"

इत्यादीन्य् आशौचविशेषप्रतिपादकानि स्मृतिवचनान्य् अन्वेषणीयानि । ग्रन्थगौरवभयाद् अत्र न लिख्यन्ते । एष चैकविषयगुरुलघ्वाशौचप्रतिपादकतया परस्परविरुद्धेषु संनिधिविदेशस्थापेक्षया व्यवस्थानुसंधातव्या ॥ ३.२४ ॥

किं च ।

अनौरसेषु पुत्रेषु भार्यास्व् अन्यगतासु च ।
निवासराजनि प्रेते तदहः शुद्धिकारणम् ॥ या०ध०३.२५

अहर् इत्य् अनुवर्तते । अनौरसाः क्षेत्रजदत्तकादयः । तेषु जातेषूपरतेषु वाहोरात्रम् आशौचम् । तथा स्वभार्यास्व् अन्यगतास्व् अन्यं प्रतिलोमव्यतिरिक्तं आश्रितासु अतीतासु चाहोरात्रम् एव न पुनः सत्य् अपि सापिण्डे दशारात्रम् । प्रतिलोमाश्रितासु चाशौचाभाव एव । "पाखण्ड्यनाश्रिताः स्तेनाः" (या०ध० ३.६) इत्य् अनेन प्रतिषेधात् । एतच् च भार्यापुत्रत्वशब्दयोः संबन्धिशब्दत्वात् यत् प्रातियौगिकं भार्यात्वं पुत्रत्वं च तस्यैवेदम् आशौशं । सपिण्डानां त्व् आशौचाभाव एव । अत एव प्रजापतिः ।

"अन्याश्रितेषु दारेषु परपत्नीसुतेषु च ।
गोत्रिणः स्नानशुद्धाः स्युस् त्रिरात्रेणैव तत्पिता ॥" इति ।

स्वैरिण्याद्यास् तु यम् आश्रितास् तस्य तु त्रिरारत्रम् एव । यथाह विष्णुः ।

"अनौरसेषु पुत्रेषु जातेषु च मृतेषु च ।
परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥" इति । (वि०ध० २२.४३)

त्रिरात्रम् अत्र प्रकृतम् । अनयोश् च त्रिरात्रैकरात्रयोः संनिधिविदेशस्थापेक्षया व्यवस्था । यदा तु पितुस् त्रिरात्रं तदा सपिण्डानाम् एकरात्रम् । यथाह मरीचिः ।

"सूतके मृतके चैव त्रिरात्रं परपूर्वयोः ।
एकाहस् तु सपिण्डानां त्रिरात्रं यत्र वै पितः ॥" इति ।

किंच । निवसत्य् अस्मिन्न् इति निवासः स्वदेश उच्यते । तस्य यो राजा स्वामी विषयाधिपतिः स यस्मिन्न् अहन्य् अतीतस् तदहर्मात्रं शुद्धिकारणम् । रात्रौ चेद् अतीतस् तदा रात्रिमात्रम् । अत एव मनुः ।

"प्रेते राजनि सज्योतिर् यस्य स्याद् विषये स्थितः ।" इति । (मा०ध० ५.८२)

ज्योतिषा सह वर्तते इति सज्योतिर् आशौचम् । अह्नि चेद् यावत् सूर्यदर्शनं रात्रौ चेद् यावन् नक्षत्रदर्शनम् इत्य् अर्थः ॥ ३.२५ ॥

अनुगमनाशौचम् आह ।

ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः क्वचित् ।
अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्निं घृतभुक् शुचिः ॥ या०ध०३.२६

ब्राह्मणेन असपिण्डेन द्विजो विप्रादिः शूद्रो वा प्रेतो नानुगन्तव्यः । यदि स्नेहादिनानुगच्छति तदाम्भसि तडागादिस्थे स्नात्वाग्निं स्पृष्ट्वा घृतं प्राश्य शुचिर् भवेत् । अस्य च घृतप्राशनस्य भोजनकार्यविधाने प्रमाणाभावान् न भोजनप्रतिषेधः । इदं समानोत्कृष्टजातिविषयम् । यथाह मनुः ।

"अनुगम्येच्छया प्रेतं ज्ञातिम् अज्ञातिम् एव च ।
स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥" इति । (मा०ध० ५.१०३)

ज्ञातयो मातृसपिण्डाः । इतरेषां तु विहितत्वान् न दोषः । निकृष्टजात्यनुगमने तु स्मृत्यन्तरोक्तं द्रष्टव्यम् । तत्र शूद्रानुगमने,

"प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः ।
अनुगच्छेन् नीयमानं स त्रिरात्रेण शुध्यति ॥
त्रिरात्रेण तु ततस् तीर्णे नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥"

इति पराशरोक्तम् । क्षत्रियानुगमने त्व् अहोरात्रम् । "माङुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रम् आशौचं अस्निग्धे त्व् अहोरात्रं शवानुगमने चैकम्" (व०ध० २३.२४–२५) इति वसिष्ठोक्तम् । वैश्यानुगमने पुनः पक्षिणी । तथा क्षत्रियस्यानन्तरवैश्यानुगमने अहोरात्रं एकान्तरशूद्रानुगमने पक्षिणी वैश्यस्य शूद्रानुगमने एकाह इत्य् ऊहनीयम् । यथा रोदनेऽपि पारस्करेणोक्तम् ।

"मृतस्य बान्धवैः सार्धं कृत्वा तु परिदेवनम् ।
वर्जयेत् तदहोरात्रं दानं श्राद्धादिकर्म च ॥" इति ।

तथालंकरणम् अपि न कार्यम्,

"कृच्छ्रपादोऽसपिण्डस्य प्रेतालंकरणे कृते ।
अज्ञानाद् उपवासः स्याद् अशक्तौ स्नानम् इष्यते ॥"

इति शङ्खेन प्रायश्चित्तस्याम्नातत्वात् ॥ ३.२६ ॥

सपिण्डाशौचे क्वचिद् अपवादम् आह ।

महीपतीनां नाशौचं हतानां विद्युता तथा ।
गोब्राह्मणार्थं संग्रामे यस्य चेच्छति भूमिपः ॥ या०ध०३.२७

यद्य् अपि महीशब्देन कृत्स्नं भूगोल्लकम् अभिधीयते तथाप्य् अत्र सकलायाः क्षितेर् एकभर्तृकत्वानुपपत्तेः महीपतीनाम् इति बहुवचनानुरोधाच् च तदेकदेशभूतानि मण्डलानि लक्ष्यन्ते । तत्पालनाधिकृतानां क्षत्रियादीनाम् अभिषिक्तानां नाशौचम् । तैर् आशौचं न कार्यम् इत्य् अर्थः । तथा विद्युद्धतानां गोब्राह्मणरक्षणार्थं विपन्नानां च संबन्धिनो ये सपिण्डास् तैर् अप्य् आशौचं न कार्यम् । यस्य च मान्त्रिपुरोहितादेर् भूमिपोऽनन्यसाध्यमन्त्राभिचारादिकर्मसिद्ध्यर्थम् आशौचाभावम् इच्छति तेनापि न कार्यम् । अत्र च महीपतीनां यद् असाधारणत्वेन विहितं प्रजापरिरक्षणं तद् येन दानमानसत्कारव्यवहारदर्शनादिना विना न संभवति तत्रैवाशौचाभावो न पुनः पञ्चमहायज्ञादिष्व् अपि । तथाच मनुः ।

"राज्ञो महात्मिके स्थाने सद्यः शौचं विधीयते ।
प्रजानां परिरक्षार्थम् आसनं चात्र कारणम् ॥" इति । (मा०ध० ५.९५)

गौतमेनाप्य् उक्तम् : "राज्ञा च कार्याविघातार्थम्" (गौ०ध० १४,४५) इति राजभृत्यादेर् अप्य् आशौचं न भवति । यथाह प्रचेताः ।

"कारवः शिल्पिनो वैद्या दासीदासास् तथैव च ।
राजानो राजभृत्याश् च सद्यःशौचाः प्रकीर्तिताः ॥" इति ।

कारवः सूपकारादयः । शिल्पिनश् चित्रकारचैलनिर्णेजकादयः । अयं चाशौचाभावः किंविषय इत्य् अपेक्षायां कर्मनिमित्तैः शब्दैस् तत्तदसाधारणस्य कर्मणो बुद्धिस्थत्वात् तत्रैव द्र्ष्टव्यः । अत एव विष्णुः "न राज्ञां राजकर्मणि, न व्रतिनां व्रते, न सत्रिणां सत्रे, न कारूणां कारुकर्मणि" (वि०ध० २२.४८–५१) इति प्रतिनियतविषयम् एवाशौचाभावं दर्शयति । शातातपीयेऽप्य् उक्तम् ।

"मूल्यकर्मकराः शूद्रा दासीदासास् तथैव च ।
स्नाने शरीरसंस्कारे गृहकर्मण्य् अदूषिताः ॥" इति ।

इयं च दासादिशुद्धिर् अपरिहरणीयतया प्राप्तस्पर्शविषयेत्य् अनुसंधेयम् । अत एव स्मृत्यन्तरम् ।

"सद्यःस्पृश्यो गर्भदासो भक्तदासस् त्र्यहाच् छुचिः ।"

तथा ।

"चिकित्सको यत्कुरुते तद् अन्येन न शक्यते ।
तस्माच् चिकित्सकः स्पर्शे शुद्धो भवति नित्यशः ॥" इति ॥ ३.२७ ॥

किं च ।

ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् ।
सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥ या०ध०३.२८

दाने विवाहे यज्ञे च संग्रामे देशविप्लवे ।
आपद्य् अपि हि कष्टायां सद्यःशौचं विधीयते ॥ या०ध०३.२९

ऋत्विजो वरणसंभृता वैतानोपासनाकर्तृविशेषाः । दीक्षया संस्कृता दीक्षितास् तेषां यज्ञियं यज्ञे भवं कर्म कुर्वतां सद्यःशौचं विधीयत इति सर्वत्रानुषङ्गः । दीक्षितस्य "वैतानौपासनाः कार्याः" (या०ध० ३.१७) इत्य् अनेन सिद्धेऽप्य् अधिकारे पुनर्वचनं यजमाने स्वयंकर्तृत्वविधानार्थं सद्यः स्नानेन विशुद्ध्यर्थं च । सत्रिग्रहणेन संततानुष्ठानतुल्यतयान्नसत्रप्रवृत्ता लक्ष्यन्ते, मुख्यानां तु सत्रिणां दीक्षितग्रहणेनैव सिद्धेः । व्रतिशब्देन कृच्छ्रचान्द्रायणादिप्रवृत्ताः स्नातकव्रतप्रायश्चित्तप्रवृत्ताश् चोच्यन्ते । तथा ब्रह्मचारिग्रहणेन ब्रह्मचर्यादिव्रतयोगिनः श्राद्धकर्तुर् भोक्तुश् च ग्रहणम् । तथा स्मृत्यन्तरम् ।

"नित्यम् अन्नप्रदस्यापि कृच्छ्रचान्द्रायणादिषु ।
निर्वृत्ते कृच्छ्रहोमादौ ब्राह्मणादिषु भोजने ॥
गृहीतनियमस्यापि न स्याद् अन्यस्य कस्यचित् ।
निमन्त्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्मणि ॥
निमन्त्रितस्य विप्रस्य स्वाध्यायादिरतस्य च ।
देहे पितृषु तिष्ठत्सु नाशौचं विद्यते क्वचित् ॥
प्रायश्चित्तप्रवृत्तानां दातृब्रह्मविदां तथा ॥" इति ।

सत्रिणां व्रतिनां सत्रे व्रते च शुद्धिर् न कर्ममात्रे संव्यवहारे वा । तथा च विष्णुः : "न व्रतिनां व्रते, न सत्रिणां सत्रे" (वि०ध० २२.४९–५०) इति । ब्रह्मचार्य् उपकुर्वाणको नैष्ठिकश् च । यस् तु नित्यं दातैव न प्रतिग्रहीता स वैखानसो दातृशब्देनोच्यते । ब्रह्मविद् यतिः । एतेषां च त्रयाणाम् आश्रमिणां सर्वत्र शुद्धिः, विशेषे प्रमाणाभावात् । दाने च पूर्वसंकल्पितद्रव्यस्य नाशौचम्,

"पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति ।"

इति क्रतुस्मरणात् । स्मृत्यन्तरे चात्र विशेष उक्तः ।

"विवाहोत्सवयज्ञादिष्व् अनतरा मृतसूतके ।
शेषम् अन्नं परैर् देयं दातॄन् भोक्तॄंश् च न स्पृशेत् ॥" इति ।

यज्ञे वृषोत्सर्गादौ, विवाहे च पूर्वसंभृतसंभारे । तथा च स्मृत्यन्तरं ।

"यज्ञे संभृतसंभारे विवाहे श्राद्धकर्मणि ।" इति ।

सद्यःशौचम् अत्र प्रकृतम् । विवाहग्रहणं पूर्वप्रवृत्तचौलोपनयनादिसंस्कारकर्मोपलक्षणम् । यज्ञग्रहणं च पूर्वप्रवृत्तदेवप्रतिष्ठारामाद्युत्सवमात्रोपलक्षणम्, "न देवप्रतिष्ठोत्सर्गविवाहेषु न देशविभ्रमे नापद्य् अपि च कष्टायाम् आशौचम्" (वि०ध० २२.५३–५५) इति विष्णुस्मरणात् । संग्रामे युद्धे । "संग्रामे समुपोऌहे राजानं संनाहयेत्" (आश्व०गृ०ृ ३.१२.१) इत्य् आश्वलायनाद्युक्तसंनहनविधौ प्रास्थानिकशान्तिहोमादौ च सद्यःशुद्धिः । देशस्य विस्फोटादिभिर् उपसर्गे राजभयाद् वा विप्लवे तदुपशमनार्थे शान्तिकर्मणि सद्यःशौचम् । विप्लवाभावेऽपि क्वचिद्देशविशेषेण पैठिनसिना शुद्धिर् उक्ता ।

"विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि ।
न तत्र सूतकं तद्वत् कर्म यज्ञादि कारयेत् ॥" इति ।

तथा कष्टायाम् अप्य् आपदि व्याध्याद्यभिभवेन मुमूर्षावस्थायां दुरितशमनार्थे दाने । तथा संकुचितवृत्तेश् च क्षुत्परिश्रान्तमातापित्रादिबहुकुटुम्बस्य तद्भरणोपयोगिनि प्रतिग्रहे सद्यःशुद्धिः । इयं च शुद्धिर् यस्य सद्यःशौचं विनार्त्युपशमो न भवत्य् अश्वस्तनिकस्य तद्विषया । यस् त्व् एकाहपर्याप्तसंचितधनस् तस्यैकाहः, यस् त्र्यहोपयोगिसंचयी तस्य त्र्यहः यस् तु चतुरहार्थम् आपादितद्रव्यः कुम्भीधान्यस् तस्य चतुरहः कुसूलधान्यकस्य दशाह इत् येवं यस्य यावत् कालम् आर्त्यभावस् तस्य तावत् कालम् आशौचम्, आपदुपाधिकत्वाद् आशौचसंकोचस्य । अत एव मनुना,

"कुसूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।
त्र्यहैहिको वापि भवेद् अश्वस्तनिक एव वा ॥" (मा०ध० ४.७)

इत्य् अत्र प्रतिपादितचतुर्विधगृहस्थाभिप्रायेण,

"दशाहं शावम् आशौचं सपिण्डेषु विधीयते ।
अर्वाक् संचयनाद् अस्थ्नां त्र्यहम् एकाहम् एव वा ॥" (मा०ध० ५.५९)

इति कल्पचतुष्टयं प्रतिपादितम् । समानोदकविषयाश् च संकुचिताशौचकल्पाः पक्षिण्येकाहःसद्यःशौचरूपाः स्मृत्यन्तरे दृष्टाः वृत्तिसंकोचोपाधिकतयैव योज्याः । अयं चाशौचसंकोचो येनैव प्रतिग्रहादिना विनार्तिस् तद्विषयो न सर्वत्रेत्य् अवगन्तव्यम् ॥

(ननु?)आल्ल् एदितिओन्स् read "मनुः" हेरे, बुत् the चितेद् तेxत् is अस्च्रिबेद् to "स्मृत्यन्तर" Fउर्थेर्, the ंित् नेवेर् सिम्प्ल्य् उसेस् the नोमिनतिवे "मनुः" to इन्त्रोदुचे a verse ; it is अल्wअय्स् "आह मनुः". ई थिन्क् the wओर्द् हेरे स्होउल्द् बे "ननु", इन्त्रोदुचिन्ग् the पूर्वपक्ष, to which a रेस्पोन्से is given सेवेरल् लिनेस् दोwन् with "उच्यते". मनुः ।

"एकाहाद् ब्राह्मणः शुध्येद् योऽग्निवेदसमन्वितः ।
त्र्यहात् केवलवेदस् तु विहीनो दशभिर् दिनैः ॥" इत्यादिस्मृत्यन्तरवचनपर्यालोचनयाध्ययनज्ञानानुष्ठानयोगिनां त्र्येकाहादिभिः सर्वात्मना शुद्धिर् इत्य् एवं कस्मान् नेष्यते ।

उच्यते,

"दशाहं शावम् आशौचं सपिण्डेषु विधीयते ।" (मा०ध० ५.५९)

इति सामान्यप्राप्तदशाहबाधपुरःसरम् एव ह्य् "एकाहाद् ब्राह्मणः शुध्येद्" इति विधायकं भवति । बाधस्य चानुपपत्तिनिब्दन्धनत्वात् यावत्य् अबाधितेऽनुपपत्तिप्रशमो न भवति तावद् बाधनीयम् । अतः कियद् अनेन बाध्यम् इत्य् अपेक्षायाम् अपेक्षितविशेषसमर्पणक्षमस्य "अग्निवेदसमन्वितः" इति वाक्यविशेषस्य दर्शनाद्, अग्निवेदविषयेऽग्निहोत्रादिकर्मणि स्वाध्याये च व्यवतिष्ठते न पुनर् दानादाव् अपि । एवं चाग्निवेदपदयोः कार्यान्वयित्वं भवति । इतरथा येनाग्निवेदसाध्यं कर्म कृतं तस्यैकाहाच् छुधिर् इति पुरुषविशेषोपलक्षणत्वम् एव स्यात् । न चैतद् युक्तम् । एवं च सति,

"प्रत्यूहेन् नाग्निषु क्रियाः ।" (मा०ध० ५.८४)

"वैतानोपासनाः कार्याः क्रियाश् च श्रुतिचोदिताः ।" (या०ध० ३.१७) इति ।

तथा ब्राह्मणस्य च स्वाध्यायादिनिवृत्त्यर्थं सद्यःशौचम् इत्य् एवमादिभिर् मन्वादिवचनैर् एकवाक्यता भवति । तथा च

"उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ।"

इति दशाहप्रयन्तं भोजनादिकं प्रतिषेधयद्भिर् यमादिवचनैर् विरोधोऽपि सिध्यति, अतः क्वाचित्कम् एवेदम् आशौचसंकोचविधानं न पुनः सर्वसंव्यवहारादिगोचरम् इत्य् अलम् अतिप्रपञ्चेन ॥

इदं च स्वाध्यायविषये सद्यःशौचविधानं बहुवेदस्य ब्रह्मोज्झत्वकृतायाम् आर्तौ द्रष्टव्यम् । इतरस्य तु,

"दानं प्रतिग्रहो होमः स्वाध्यायश् च निवर्तते ।"

इति प्रतिषेध एव । एवं ब्राह्मणादिमध्ये यस्य यावत्कालम् आशौचम् उक्तं स तस्यानन्तरं स्नात्वा शुध्येत् न तत्कालातिक्रममात्रात् । यथाह मनुः ।

"विप्रः शुध्यत्य् अपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् ।
वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृतक्रियः ॥" इति । (मा०ध० ५.९९)

अयमर्थः : कृतक्रिय इति प्रत्येकम् अभिसंबध्यते । विप्रोऽनुभूताशौचकालः कृतक्रियः कृतस्नानो हस्तेनापः स्पृष्ट्वा शुध्यति । स्पृष्ट्वेति स्पर्शनक्रियैवोच्यते न स्नानम् आचमनं वा, वाहनादिषु तस्यैवानुषङ्गात् । अथ वा कृतक्रियो यावद् आशौचं कृतोदकादिक्रियः तदनन्तरं विप्रादिर् उदकादि स्पृष्ट्वा शुध्यतीत्य् आशौचकालानन्तरभाविस्नानप्रतिनिधित्वेनोच्यत इति । क्षत्रियादिर् वाहनादिकं स्पृष्ट्वा शुध्येद् इति ॥ ३.२८ ॥ ३.२९ ॥

कुलव्यापिनीं शुद्धिम् अभिधायेदानीं प्रसङ्गात् प्रतिपुरुषव्यापिनीं शुद्धिम् आह ।

उदक्याशुचिभिः स्नायात् संस्पृष्टस् तैर् उपस्पृशेत् ।
अब्लिङ्गानि जपेच् चैव गायत्रीं मनसा सकृत् ॥ या०ध०३.३०

उदकया रज्स्वला, अशुचयः शवचण्डालपतितसूतिकाद्याः शावाशौचिनश् च, एतैः संस्पृष्टः स्नायात् । तैः पुनर् उदक्याशुचिसंस्पृष्टादिभिः संस्पृष्ट उपस्पृशेद् आचामेत् । आचम्याब्लिङ्गान्य् आपोहिष्टेत्य् एवमादीनि त्रीणि मन्त्रवाक्यानि जपेत्, त्रिष्व् एव बहुवचनस्य चरितार्थत्वात् । तथा गायत्रीं च सकृन् मनसा जपेत् । ननु "उदक्या संस्पृष्टः स्नायाद्" इत्य् एकवचननिर्दिष्टस्य कथं तैर् इति बहुवचनपरामर्शः । सत्यम् एवम् । किं त्व् अत्र उदक्यादिसंस्पृष्टव्यतिरिक्तस्नानार्हमात्रस्पर्शेष्व् आचमनविधानार्थं तैर् इति बहुवचननिर्देश इत्य् अविरोधः । ते च स्नानार्हाः स्मृत्यन्तरेऽवगन्तव्याः । यथाह पराशरः ।

"दुःस्वप्ने मैथुने वान्ते विरिक्ते क्षुरकर्मणि ।
चितिपूयश्मशानास्थ्नां स्पर्शने स्नानम् आचरेत् ॥" इति ।

तथा च मनुः ।

"वान्तो विरिक्तः स्नात्वा तु घृतप्राशनम् आचरेत् ।
आचामेद् एव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ॥" इति । (मा०ध० ५.१४४)

मैथुनिनः स्नानम् ऋतुकालविषयम्,

"अनृतौ तु यदा गच्छेच् छौचं मूत्रपुरीषवत् ।"

इति बृहस्पतिस्मरणात् । अनृताव् अपि कालविशेषे स्मृत्यन्तरे स्नानम् उक्तम् ।

"अष्टम्यां च चतुर्दश्यां दिवा पर्वणि मैथुनम् ।
कृत्वा सचेलं स्नात्वा च वारुणीभिश् च मार्जयेत् ॥" इति ।

तथा च यमः ।

"अजीर्णेऽभ्युदिते वान्ते तथाप्य् अस्तम् इते रवौ ।
दुःस्वप्ने दुर्जनस्पर्शे स्नानमात्रं विधीयते ॥" इति ।

तथा च बृहस्पतिः ।

"मैथुने कटधूमे च सद्यःस्नानं विधीयते ।"

इत्येतद् असचेलस्पर्शविषयम् । सचेलेन तु चित्यादिस्पर्शे सचेलम् एव स्नानम् । यथाह च्यवनः। "श्वानं श्वपाकं प्रेतधूमं देवद्रव्योपजीविनम् । ग्रामयाजकं सोमविक्रयिणं पूयं चितिं चितिकाष्ठं च मद्यं मद्यभाण्डं सस्नेहं मानुषास्थि शवस्पृष्टं रजस्वलां महापातकिनं शवं स्पृष्ट्वा सचेलम् अम्भोऽवगाह्योत्तीर्याग्निम् उपस्पृश्य गायत्रीम् अष्ठशतं जपेत् । घृतं प्राश्य पुनः स्नात्वा त्रिर् आचामेत्" इति । एतच् च बुद्धिपूर्वविषयम् । अन्यत्र स्नानमात्रम्,

"शवस्पृष्टं दिवाकीर्तिं चितिं पूयं रजस्वलाम् ।
स्पृष्ट्वा त्व् अकामतो विप्रः स्नानं कृत्वा विशुध्यति ॥"

इति बृहस्पतिस्मरणात् । एवम् अन्यत्रापि वक्ष्यमाणेषु विषयसमीकरणम् ऊहनीयम् । यथाह कश्यपः "उदयास्तमययोः स्कन्दयित्वा अक्षिस्पन्दने कर्णाक्रोशने चित्यारोहणे पूयसंस्पर्शने च सचैलं स्नानंऽपुनर् मनऽ इति जपेन् महाव्याहृतिभिः सप्ताज्याहुतीर् जुहुयात्" इति । तथा च स्मृत्यन्तरे ।

"स्पृष्ट्वा देवलकं चैव सवासा जलम् आविशेत् ।
देवार्चनपरो विप्रो वित्तार्थी वत्सरत्रयम् ॥
आसौ देवलको नाम हव्यकव्येषु गर्हितः ॥"

तथा ब्रह्माण्डपुराणे ।

"शैवान् पाशुपतान् स्पृष्ट्वा लोकायतिकनास्तिकान् ।
विकर्मस्थान् द्विजान् शूद्रान् सवासा जलम् आविशेत् ॥" इति ।

यथा,

"अस्वर्ग्या ह्य् आहुतिः सा स्याच् छूद्रसंपर्कदूषिता ।"

इति लिङ्गाच् च शूद्रस्पर्शने निषेधः ॥ तथा अङ्गिराः ।

"यस् तु छाया श्वपाकस्य ब्राह्मणो ह्य् अधिरोहति ।
तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुध्यति ॥"

तथा व्याघ्रपादः ।

"चण्डालं पतितं चैव दूरतः परिवर्जयेत् ।
गोवालव्यजनाद् अर्वाक् सवासा जलम् आविशेत् ॥" इति ।

एतद् अतिसंकटस्थलविषयम् । अन्यत्र तु बृहस्पतिनोक्तम् ।

"युगं च द्वियुगं चैव त्रियुगं च चतुर्युगम् ।
चण्डालसूतिकोदक्यापतितानाम् अधः क्रमात् ॥" इति ।

तथा पैठीनसिः : "काकोलूकस्पर्शने सचेलस्नानम् अनुदकमूत्रपुरीषकरणे सचेलस्नानं महाव्याहृतिहोमश् च" । अनुदकमूत्रपुरीषकरणे इत्य् एतच् चिरकालमूत्रपुरीषाशौचाकरणपरम् । तथा अङ्गिराः ।

"भासवायसमार्जारखरोष्ट्रं च श्वशूकरान् ।
अमेध्यानि च संस्पृश्य सचेलो जलमाविशेत् ॥" इति ।

मार्जारस्पर्शनिमित्तं स्नानम् उच्छिष्टसमयेऽनुष्टानसमये च वेदितव्यं समाचारात् । अन्यदा तु,

"मार्जारश् चैव दर्वी च मारुतश् च सदा शुचिः ।"

इति स्नानाभावः । श्वस्पर्शे तु स्नाङं नाभेर् ऊर्ध्वं वेदितव्यम्, अधस्तात् तु क्षालनम् एव,

"नाभेर् ऊर्ध्वं करौ मुक्त्वा शुना यद्य् उपहन्यते ।
तत्र स्नानम् अधस्ताच् चेत् प्रक्षाल्याचम्य शुध्यति ॥"

इति तेनैवोक्तत्वात् । तथा पक्षिस्पर्शे विशेषो जातूकर्ण्येनोक्तः ।

"ऊर्ध्वं नाभेः करौ मुक्त्वा यद् अग्नं संस्पृशेत् खगः ।
स्नानं तत्र प्रकुर्वीत शेषं प्रक्षाल्य शुध्यति ॥" इति ।

अमेध्यस्पर्शेऽपि विष्णुना विशेषो दर्शितः : "नाभेर् अधस्तात् प्रबाहुषु च कायिकैर् मलैः सुराभिर् मद्यैर् वापहतो मृत्तोयैस् तदङ्गं प्रक्षाल्याचान्तः शुध्येत् । अन्यत्रापहतो मृत्तोयैस् तदङ्गं प्रक्षाल्य स्नायात् । तैर् इन्द्रियेषूपहतस् तूपोष्य स्नात्वा पञ्चगव्येन दशनच्छदोपहतश् च" (वि०ध० २२.७७–८०) इति । एतच् च परकीयामेध्यस्पर्शविषयम् । आत्मीयमलस्पर्शे तु ऊर्ध्वम् अपि नाभेः क्षालनम् एव । यथाह देवलः ।

"मानुषास्थिं वसां विष्टाम् आर्तवं मूत्रेतसी ।
मज्जानं शोणितं वापि परस्य यदि संस्पृशेत् ॥
स्नात्वा प्रमृज्य लेपादीन् आचम्य स शुचिर् भवेत् ।
तान्येव स्वानि संस्पृश्य पूतः स्यात् परिमार्जनात् ॥" इति ।

तथा च शङ्खः ।

"रथ्याकर्दमतोयेन ष्टीवनाद्येन वा तथा ।
नाभेर् ऊर्ध्वं नरः स्पृष्टः सद्यः स्नानेन शुध्यति ॥" इति ।

यमेनाप्य् अत्र विशेष उक्तः ।

"सकर्दमं तु वर्षासु प्रविश्य ग्रामसंकरम् ।
जङ्घयोर् मृत्तिकास् तिस्रः पादयोर् द्विगुणास् ततः ॥" इति ।

ग्रामसंकरं ग्रामसलिलप्रवाहप्रवेशं सकर्दमं प्रविश्येत्य् अर्थः । मारुतशोषिते तु कर्दमादौ न दोषः,

रथ्याकर्दमतोयानि स्पृष्टान्य् अन्त्यश्ववायसैः ।

मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥ (या०ध० १.१९७)

इति प्रागुक्तत्वात् । अस्थनि मनुना विशेष उक्तः ।

"नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ।
आचम्यैव तु निःस्नेहं गाम् स्पृष्ट्वा वीक्ष्य वा रविम् ॥" इति । (मा०ध० ५.८७)

इदं द्वैजातास्थिविषयम् । अन्यत्र वसिष्ठोक्तम् : "मानुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रम् आशौचम् अस्निग्धे त्व् अहोरात्रम्" (व०ध० २३.२४–२५) इति । अमानुषे तु विष्णूक्तम् : "भक्ष्यवर्ज्यं पञ्चनखशवं तदस्थि च सस्नेहं स्पृष्ट्वा स्नातः पूर्ववस्त्रं प्रक्षालितं बिभृयात्" (वि०ध० २२.७०–७१) इति ॥ एवम् अन्येऽपि स्नानार्हाः स्मृत्यन्तरतोऽवबोद्धव्याः ॥ एवं स्नानार्हाणां बहुत्वात् तदभिप्रायं "तैर्" इति बहुवचनम् अविरुद्धम् । "उदक्याशुचिभिः स्नायाद्" इत्य् एतच् च दण्डाद्यचेतनव्यवधानस्पर्शे वेदितव्यम् । चेतनव्यवधाने तु मानवम् ।

"दिवाकीर्तिम् उदक्यां च पतितं सूतिकां तथा ।
शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥" इति । (मा०ध० ५.८५)

तृतीयस्य त्व् आचमनम् एव,

"तत्स्पृष्टिनं स्पृशेद् यस् तु स्नानं तस्य विधीयते ।
ऊर्ध्वम् आचमनं प्रोक्तं द्रव्याणां प्रोक्षणं तथा ॥"

इति संवर्तस्मरणात् । एतच् चाबुद्धिपूर्वकविषयम् । मतिपूर्वे तु तृतीयस्यापि स्नानम् एव । यथाह गौतमः "पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचेलम् उदकोपस्पर्शनाच् छुध्येत्" (गौ०ध० १४.३०) इति । चतुर्थस्य त्व् आचमनम्,

"उपस्पृश्याशुचिस्पृष्टं तृतीयं वापि मानवः ।
हस्तौ पादौ च तोयेन प्रक्षाल्याचम्य शुध्यति ॥"

इति देवलस्मरणात् । अशुचीनां पुनर् उदक्यादिस्पर्शे देवलेन विशेष उक्तः ।

"श्वपाकं पतितं व्यङ्गम् उन्मत्तं शवहारकम् ।
सूतिकां साविकां नारीं रजसा च परिप्लुताम् ॥
श्वकुक्कुटवराहांश् च ग्राम्यान् संस्पृश्य मानवः ।
सचेलः सशिरः स्नात्वा तदानीम् एव शुध्यति ॥" इति ।

"अशुद्धान् स्वयम् अप्य् एतान् अशुद्धस् तु यदि स्पृशेत् ।
विशुध्यत्य् उपवासेन तथा कृच्छ्रेण वा पुनः ॥" इति ।

साविका प्रसवस्य कारयित्री । कृच्छ्रः श्वपाकादिविषयः श्वादिषु तूपवास इति व्यवस्था ॥ ३.३० ॥

अधुना कालशुद्धौ दृष्टान्तत्वेन द्रव्यशुद्धिप्रकरणोक्तांस् तथैवात्र प्रकरणे वक्ष्यमाणांश् च शुद्धिहेतून् अनुक्रामति ।

कालोऽग्निः कर्म मृद् वायुर् मनो ज्ञानं तपो जलम् ।
पश्चात्तापो निराहारः सर्वेऽमी शुद्धिहेतवः ॥ या०ध०३.३१

यथाग्न्यादयोऽमी सर्वे स्वविषये शुद्धिहेतवस् तथा कालोऽपि दशरात्रादिकः, शास्त्रगम्यत्वाच् छुद्धिहेतुत्वस्य । अग्निस् तावच् छुद्धिहेतुः । यथाभ्यधायि "पुनःपाकान् महीमयम्" (या०ध० १.१८७) इति । कर्म च शुद्धिनिमित्तं यथा वक्ष्यति "तथा अश्वमेधावभृथस्नानात्" इति (या०ध० ३.२४४) । तथा मृद् अपि शुद्धिकारणं यथा कथितम्,

सलिलं भस्म मृद्वापि प्रक्षेप्तव्यं विशुद्धये । इति । (या०ध० १.१८९)

वायुर् अपि शुद्धिहेतुः यथोदीरितं "मारुतेनैव शुध्यन्ति" इति (या०ध० १.१९७) । मनोऽपि वाचः शुद्धिसाधनं यथाम्नायि "मनसा वा इषिता वाग् वदति" इत्यादि । ज्ञानं चाध्यात्मिकं बुद्धिशुद्धौ निदानं यथाभिधास्यति "क्षेत्रज्ञस्येश्वरज्ञानात्" इति (या०ध० ३.३४) । तपश् च कृच्छ्रादि यथा वदिष्यति "प्राजापत्यं चरेत् कृच्छ्रं समो वा गुरुतल्पगः" इत्यादि (या०ध० ३.२६०) । तथा जलम् अपि शरीरादेः, यथा जल्पिष्यति "वर्ष्मणो जलम्" इति (या०ध० ३.३३) । पश्चात्तापोऽपि शुद्धिजनकः यथा गदितं "ख्यापनेनानुतापेन" इति (मा०ध० ११.२२८) । निराहारोऽपि शुद्ध्यपादानं यथा व्याहरिष्यति "त्रिरात्रोपोषितो जप्त्वा" इत्यादि (या०ध० ३.३०१) ॥ ३.३१ ॥

किं च ।

अकार्यकारिणां दानं वेगो नद्याश् च शुद्धिकृत् ।
शोध्यस्य मृच् च तोयं च संन्यासो वै द्विजन्मनाम् ॥ या०ध०३.३२

तपो वेदविदां क्षान्तिर् विदुषां वर्ष्मणो जलम् ।
जपः प्रच्छन्नपानानां मनसः सत्यम् उच्यते ॥ या०ध०३.३३

भूतात्मनस् तपोविद्ये बुद्धेर् ज्ञानं विशोधनम् ।
क्षेत्रज्ञस्येश्वरज्ञानाद् विशुद्धिः परमा मता ॥ या०ध०३.३४

अकार्यकारिणां निषिद्धसेविनां दानम् एव मुख्यं शुद्धिकारणं यथा व्याख्यास्यति "पात्रे धनं वा पर्याप्तं दत्त्वा" इति । नद्याः निदाघादाव् अल्पतोयतया अमेध्योपहततीरायाः कूलंकषवर्षाम्बुप्रवाहवेगः शुद्धिकृत् । शोधनीयस्य द्रव्यस्य मृच् च तोयं च शुद्धिकृत् यथेह भणितम् "अमेध्याक्तस्य मृत्तोयैः शुद्धिर् गन्धापकर्षणात्" इति (या०ध० १.१९१) । संन्यासः प्रव्रज्या द्विजन्मनां मानसापचारे शुद्धिकृत् । तपो वेदाभ्यासो वेदविदां शुद्धिकारणम् । कृच्छ्रादि तु सर्वसाधारणं न वेदविदाम् एव । क्षान्तिर् उपशमो विदुषां वेदार्थविदाम् । वर्ष्मणः शरीरस्य जलम् । प्रच्छन्नपापानाम् अविख्यातदोषाणां अघमर्षणादिसूक्तजपः शुद्धिकारणं शुद्धिसाधनम् । मनः सदसत्संकल्पात्मकं तस्यासत्संकल्पत्वाद् अशुद्धस्य सत्यं साधुसंकल्पः शोधकम् । भूतशब्देन तद्विकारभूतो देहेन्द्रियसंघो लक्ष्यते । तत्र स्थूलोऽहं कृशोऽहं काणोऽहं बधिरोऽहम् इत्येवं तदभिमानित्वेन योऽयम् आत्मा वर्तते स भूतत्मा, तस्य तपोविद्ये शुद्धिनिमित्ते । तपः शब्देनानेकजन्मस्व् एकस्मिन्न् अपि वा जन्मनि जागरस्वप्नसुषुप्त्यवस्थास्व् आत्मनो योऽयम् अन्वयः शरीरादेश् च व्यतिरेकः सोऽभिधीयते । यथा "तपसा ब्रह्म विजिज्ञासस्व" (तै०उ० ३.२.१) इति पञ्चकोशव्यतिरेकप्रतिपादनपरे वाक्ये । विद्याशब्देन चौपनिषदं "अस्थूलम् अनण्व् अह्रस्वम्",(बृ०उ० ३.९.२६) "असङ्गो ह्य्", (बृ०उ० २.५.१४) "अयम् आत्मा" (बृ०उ० ३.८.८) इत्यादि त्वंपदार्थनिरूपणविषयवाक्यजन्यं ज्ञानम् उच्यते । एताभ्याम् अस्य शुद्धिः । शरीरादिव्यतिरेकबुद्धेः संशयविपर्ययरूपत्वेनाशुद्धायाः प्रमाणरूपं ज्ञानं विशोधनं । क्षेत्रस्य तपोविद्याविशुद्धस्य त्वंपदार्थभूतस्य "तत् त्वम् असि" (छा०उ० ६.८.७) आदिवाक्यजन्यात् साक्षात्काररूपाद् ईष्वरज्ञानात् परमा विशुद्धिर् मुक्तिलक्षणा । यथैताः शुद्धयः परमपुरुषार्थास् तद्वद् युक्ततरा कालशुद्धिर् अपीत्य् एवं प्रशंसार्थं भूतात्मादिविशुद्ध्यभिधानम् ॥ ३.३२ ॥ ३.३३ ॥ ३.३४ ॥

इत्य् आशौचप्रकरणम्
अथापद्धर्मप्रकरणम्

"आपद्य् अपि च कष्टायां सद्यःशौचं विधीयते" (या०ध० ३.१९) इत्य् आपदि मुख्याशौचकल्पानाम् अनुष्ठानासंभवेन सद्यःशौचाद्यनुकल्पम् उक्त्वेदानीं तत्प्रसङ्गाद् आपदि "प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा" (या०ध० १.११८) इत्याद्युक्तयाजनादिमुख्यवृत्त्यसंभवेन वृत्त्यन्तरम् आह ।

क्षात्रेण कर्मणा जीवेद् विशां वाप्य् आपदि द्विजः ।
निस्तीर्य ताम् अथात्मानं पावयित्वा न्यसेत् पथि ॥ या०ध०३.३५

द्विजो विप्रो बहुकुटुम्बतया स्ववृत्त्या जीवितुम् असमर्थः क्षत्रसंबन्धिना कर्मणा शस्त्रग्रहणादिना आपदि जीवेत् । तेनापि जीवितुम् अशक्नुवन् वैश्यसंबन्धिना कर्मणा वाणिज्यादिना जीवेत्, न शूद्रवृत्त्या । तथा च मनुः ।

"उभाभ्याम् अप्य् अजीवंस् तु कथं स्याद् इति चेद् भवेत् ।
कृषिगोरक्षम् आस्थाय जीवेद् वैश्यस्य जीविकाम् ॥" इति । (मा०ध० १०.८२)

तथा आपद्य् अपि न हीनवर्णेन ब्राह्मी वृत्तिर् आश्रयणीया किं तु ब्राह्मणेन क्षात्री क्षत्रियेण वैश्यसंबन्धिनी वैश्येन च शौद्रीत्य् एवं स्वानन्तरहीनवर्णवृत्तिर् एव । "अजीवन्तः स्वधर्मेणान्तरां पापीयसीं वृत्तिम् आतिष्ठेरन्न् अतु कदाचिज् ज्यायसीम्" (व०ध० २.२२–२३) इति वसिष्ठस्मरणात् । ज्यायसी च ब्राह्मी वृत्तिः । तथा च स्मृत्यन्तरम् ।

"उत्कृष्टं वापकृष्टं वा तयोः कर्म न विद्यते ।
मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥" इति ।

शूद्रस्योत्कृष्टं ब्राह्मं कर्म न विद्यते । तथा ब्राह्मणस्यापकृष्टं शौद्रं कर्म । मध्यमे क्षत्रवैश्यकर्मणी पुनर् आपद्गतसर्ववर्णसाधारणे इति । शूद्रश् चापद्गतो वैश्यवृत्त्या शिल्पैर् वा जीवेत्,

"शूद्रस्य द्विजशुश्रूषा तयाजीवन् वणिग्भवेत् ।
शिल्पैर्वा विव्धैर्जीवेद्द्विजातिहितमाचरन् ॥" (या०ध० १.१२९)

इति प्रागुक्तत्वात् । मनुना चात्र विशेषो दर्शितः ।

"यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः ।
तानि कारुककर्माणि शिल्पानि विविधानि च ॥" इति । (मा०ध० १०.१००)

अनेनैव न्यायेनानुलोमोत्पन्नानाम् अपि स्वानन्तरा वृत्तिर् ऊहनीया । एवं स्वानन्तरहीनवर्णवृत्त्या आपदं निस्तीर्य प्रायश्चित्ताचरणेनात्मानं पावयित्वा पथि न्यसेत् । स्ववृत्ताव् आत्मानं स्थापयेद् इत्य् अर्थः । यद् वायम् अर्थः । गर्हितवृत्त्यार्जितं धनं पथि न्यसेद् उत्सृजेद् इति । तथा च मनुः ।

"जपहोमैर् अपैत्य् एनो याजनाध्यापनैः कृतम् ।
प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥" इति ॥ (मा०ध० १०.१११) ३.३५ ॥

वैश्यवृत्त्यापि जीवतो ब्राह्मणस्य यद् अपणनीयं तद् आह ।

फलोपलक्षौमसोममनुष्यापूपवीरुधः ।
तिलौदनरसक्षारान् दधि क्षीरं घृतं जलम् ॥ या०ध०३.३६

शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः ।
मृच्चर्मपुष्पकुतपकेशतक्रविषक्षितिः ॥ या०ध०३.३७

कौशेयनीललवणमांसैकशफसीसकान् ।
शाकार्द्रौषधिपिण्याकपशुगन्धांस् तथैव च ॥ या०ध०३.३८

वैश्यवृत्त्यापि जीवन् नो विक्रीणीत कदाचन । या०ध०३.३९अब्

नो विक्रीणीतेति प्रत्येकम् अभिसंबन्ध्यते । फलानि कदलीफलादीनि बदरेङ्गुदव्यतिरिक्तानि । यथाह नारदः ।

"स्वयंशीर्णानि पर्णानि फलानां बदरेङ्गुदे ।
रज्जुः कार्पासिकं सूत्रं तच् चेद् अविकृतं भवेत् ॥" इति ।

उपलं मणिमाणिक्याद्यश्ममात्रम् । क्षौमम् अतसीसूत्रमयं वस्त्रम् । क्षौमग्रहणं तान्तवादेर् उपलक्षणम् । यथाह मनुः ।

"सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च ।
अपि चेत् स्युर् अरक्तानि फलमूले तथौषधीः ॥" इति । (मा०ध० १०.८७)

सोमो लताविशेषः । मनुष्यपदेनाविशेषात् स्त्रीपुंनपुंसकानां ग्रहणम् । अपूपं मण्डकादि भक्ष्यमात्रम् । वीरुधो वेत्रामृतादिलताः । तिलाः प्रसिद्धाः । ओदनग्रहणं भोज्यमात्रोपलक्षणम् । रसा गुडेक्षुरसशर्करादयः । तथा च मनुः ।

"क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥" इति । (मा०ध० १०.८८)

क्षारा यवक्षारादयः । दधिक्षीरयोर् ग्रहणं मस्तुपिण्डकिलाटकूर्चिकादीनां तद्विकाराणाम् उपलक्षणम्, "क्षीरं सविकारम्" (गौ०ध० ७.११) इति गौतमस्मरणात् । घृतग्रहणं तैलादिस्नेहमात्रोपलक्षणम् । जलं प्रसिद्धम् । शस्त्रं खड्गादि । आसवग्रहणं मद्यमात्रोपलक्षणम् । मधूच्छिष्टं सिक्थकम् । मधु क्षौद्रम् । लाक्षा जतु । बर्हिषः कुशाः । मृत् प्रसिद्धा । चर्माजिनम् । पुष्पं प्रसिद्धम् । अजलोमकृतः कम्बलः कुतपः । केशाश् चमर्यादिसंबद्धाः । तक्रम् उदश्वित् । विषं शृङ्ग्यादि । क्षितिर् भूमिः, "नित्यं भूमिव्रीहियवाजाव्यश्वर्षभधेन्वनडुहश् चैके" इति सुमन्तुस्मरणात् । कौशेयं कोशप्रभवं वसनम् । नीलं नीलीरसम् । लवणग्रहणेनैव बिडसौवर्चलसैन्धवसामुद्रसोमककृत्रिमाण्य् अविशेषेण गृह्यन्ते । मांसं प्रसिद्धम् । एकशफा हयादयः । सीसग्रहणं लोहमात्रोपलक्षणम् । शाकं सर्वम् अविशेषात् । ओषधयः फलपाकान्ताः । "आर्द्रौषधयः" इति विशेषोपादानाच् छुष्केषु न दोषः । पिण्याकः प्रसिद्धः । पशव आरण्याः,

"आरण्यांश् च पशून् सर्वान् दंष्ट्रिणश् च वयांसि च ।" (मा०ध० १०.८९)

इति मनुस्मरणात् । गन्धाश् चन्दनागुरुप्रभृतयः । सर्वान् एतान् वैश्यवृत्त्या जीवन् ब्राह्मणः कदाचिद् अपि न विक्रीणीत । क्षत्रियादेस् तु न दोषः । अत एव नारदेन,

"वैश्यवृत्ताव् अविक्रेयं ब्राह्मणस्य पयो दधि ।" (ना०स्मृ० १.५७)

इति ब्राह्मणग्रहणं कृतम् ॥ ३.३६ ॥ ३.३७ ॥ ३.३८ ॥

प्रतिप्रसवम् आह ।

धर्मार्थं विक्रयं नेयास् तिला धान्येन तत्समाः ॥ या०ध०३.३९च्द्

यद्य् आवश्यकाः पाकयज्ञादिधर्माः स्वसाधनव्रीह्यादिधान्याभावे न निष्पद्यन्ते, तर्हि धान्येन तिला विक्रयं नेयाः । तत्समाः द्रोणपरिमिता द्रोणपरिमितेनेत्य् एवं तेन धान्येन समाः । तथा च मनुः ।

"कामम् उत्पाद्य कृष्यात् तु स्वयम् एव कृषीवलः ।
विक्रीणीत तिलाञ् शुद्धान् धर्मार्थम् अचिरस्थितान् ॥" इति । (मा०ध० १०.९०)

धर्मग्रहणम् आवश्यकभेषजाद्युपलक्षणम् । अत एव नारदः ।

"अशक्तौ भेषजस्यार्थे यज्ञहेतोस् तथैव च ।
यद्य् अवश्यं तु विक्रेयास् तिला धान्येन तत्समाः ॥" इति ।(ना०स्मृ० १.६२)

यद्य् अन्यथा विक्रीणीते तर्हि दोषः,

"भोजनाभ्यञ्जनाद् दानाद् यद् अन्यत् कुरुते तिलैः ।
कृमिर् भूत्वा श्वविष्ठायां पितृभिः सह मज्जति ॥" (मा०ध० १०.९१)

इति मनुस्मरणात् । सजातीयैः पुनर् विनिर्मयो भवत्य् एव ।

"रसा रसैर् निमातव्या न त्व् एव लवणं रसैः ।
कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥" इति । (मा०ध० १०.९४)

कृतान्नं सिद्धान्नं तच् च कृतान्नेन परिवर्तनीयम् । "कृतान्नं चाकृतान्नेन" इति पाठे तु सिद्धम् अन्नम् अकृतान्नेन तण्डुलादिना परिवर्तनीयम् इति ॥ ३.३९ ॥

पूर्वोक्तनिषिद्धातिक्रमे दोषम् आह ।

लाक्षालवणमांसानि पतनीयानि विक्रये ।
पायो दधि च मद्यं च हीनवर्णकराणि तु ॥ या०ध०३.४०

लाक्षालवणमांसानि विक्रीयमाणानि सद्यःपतनीयानि द्विजातिकर्महानिकराणि । पयःप्रभृतीनि तु हीनवर्णकराणि शूद्रतुल्यत्वापादकानि । एतद्व्यतिरिक्तापण्यविक्रये वैश्यतुल्यता । यथाह मनुः ।

"सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥
इतरेषाम् अपण्यानां विक्रयाद् इह कामतः ।
ब्राह्मणः सप्तरात्रेण वैश्यभावं च गच्छति ॥" इति । (मा०ध० १०.९२–९३) ३.४० ॥

किं च ।

आपद्गतः सम्प्रगृह्णन् भुञ्जानो वा यतस् ततः ।
न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥ या०ध०३.४१

यस् त्व् अधनोऽवसन्नकुटुम्बतया आपद्गतोऽपि क्षत्रवृत्तिं वैश्यवृत्तिं वा न प्रविविक्षति स यतस् ततो हीनहीनतरहीनतमेभ्यः प्रतिगृह्णंस् तदन्नं भुञ्जानोऽपि वा एनसा पापेन न लिप्यते । यतस् तस्याम् आपदवस्थायाम् असत्प्रतिग्रहादाव् अधिकारित्वेन ज्वलनार्कसमः, यथा ज्वलनोऽर्कश् च हीनसंस्कारेऽपि न दुष्यति तथायम् आपद्गतोऽपि न दुष्यतीत्य् एतावता तत्साम्यम् । एवं च वदता आपद्गतस्य परधर्माश्रयणाद् द्विगुणम् अपि स्वधर्मानुष्ठानम् एव मुख्यम् इति दर्शितं भवति । तथा च मनुः ।

"वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः ।
परधर्माश्रयाद् विप्रः सद्यः पतति जातितः ॥" इति ॥ (मा०ध० १०.९७) ॥३.४१ ॥

किं च ।

कृषिः शिल्पं भृतिर् विद्या कुसीदं शकटं गिरिः ।
सेवानूपं नृपो भैक्षम् आपत्तौ जीवनानि तु ॥ या०ध०३.४२

"आपत्तौ जीवनानि" इति विशेषणात् कृष्यादीनां मध्ये अनापदवस्थायां यस्य या वृत्तिः प्रतिषिद्धा तस्य सा वृत्तिर् अनेनाभ्यनुज्ञायते । यथापदि वैश्यवृत्तिः स्वयंकृता कृषिर् विप्रक्षत्रिययोर् अभ्यनुज्ञायते एवं शिल्पादीन्य् अप्य् अस्याभ्यनुज्ञायन्ते । शिल्पं सूपकरणादि । भृतिः प्रेष्यत्वम् । विद्या भृतकाध्यापकत्वाद्या । कुसीदं वृद्ध्यर्थं द्रव्यप्रयोगः । तत् स्वयंकृतम् अभ्यनुज्ञायते । शकटं भाटकेन धान्यादिवहनद्वारेण जीवनहेतुः । गिरिस् तद्गततृणेन्धनद्वारेण जीवनम् । सेवा परचित्तानुवर्तनम् । अनूपं प्रचुरतृणवृक्षजलप्रायः प्रदेशः । तथा नृपो नृपयाचनम् । भैक्षं स्नातकस्यापि । एतान्य् आपत्तौ जीवनानि । तथा च मनुः ।

"विद्या शिल्पं भृतिः सेवा गोरक्षा विपणिः कृषिः ।
गिरिर् भैक्षं कुसीदं च दश जीवनहेतवः ॥" इति । (मा०ध० १०.११६)। ३.४२ ॥

यदा कृष्यादीनाम् अपि जीवनहेतूनाम् असंभवस् तदा कथं जीवनम् इत्य् अत आह ।

बुभुक्षितस् त्र्यहं स्थित्वा धान्यम् अब्राह्मणाद् धरेत् ।
प्रतिगृह्य तद् आख्येयम् अभियुक्तेन धर्मतः ॥ या०ध०३.४३

धान्याभावेन त्रिरात्रं बुभुक्षितोऽनश्नन् स्थित्वा अब्राह्मणाच् छूद्रात् तदभावे वैश्यात् तदभावे क्षत्रियाद् वा हीनकर्मण एकाहपर्याप्तं धान्यम् आहरेत् । यथाह मनुः ।

"तथैव सप्तमे भक्ते भक्तानि षड् अनश्नता ।
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥" इति । (मा०ध० ११.१६)

तथा च प्रतिग्रहोत्तरकालं यद् अपहृतं तद् धर्मतो यथावृत्तम् आख्येयम्, यदि नास्तिकेन स्वामिना "त्वयेदं किं नामापहृतम्" इत्य् अधियुज्यते । यथाह मनुः ।

"खलात् क्षेत्राद् अगाराद् वा यतो वाप्य् उपलभ्यते ।
आख्यातव्यं तु तत् तस्मै पृच्छते यदि पृच्छति ॥" इति ॥ (मा०ध० ११.१७) ३.४३ ॥

इदम् अपरम् आप्तसङ्गाद् राज्ञो विधीयते ।

तस्य वृत्तं कुलं शीलं श्रुतम् अध्ययनं तपः ।
ज्ञात्वा राजा कुटुम्बं च धर्म्यां वृत्तिं प्रकल्पयेत् ॥ या०ध०३.४४

योऽशनायापरीतोऽवसीदति तस्य वृत्तम् आचारं, कुलम् आभिजात्यं, शीलम् आत्मगुणं, श्रुतं शास्त्रश्रवणं, अध्ययनं वेदाध्ययनं, तपः कृच्छ्रादि च परीक्ष्य राजा धर्माद् अनपेतां वृत्तिं प्रकल्पयेत् । अन्यथा तस्य दोषः । तथा च मनुः ।

"यस्य राज्ञस् तु विषये श्रोत्रियः सीदति क्षुधा ।
तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधिपीडितम् ॥" इति ॥ (मा०ध० ७.१३४) ३.४४ ॥

इत्य् आपद्धर्मप्रकरणम्
अथ वानप्रस्थधर्मप्रकरणम्

चतुर्णाम् आश्रमिणां मध्ये ब्रह्मचारिगृहस्थयोर् धर्माः प्रतिपादिताः । साम्प्रतम् अवसरप्राप्तान् वानप्रस्थधर्मान् प्रतिपिपादयितुम् आह ।

सुतविन्यस्तपत्नीकस् तया वानुगतो वनम् ।
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् ॥ या०ध०३.४५

वने प्रकर्षेण नियमेन तिष्ठति चरतीति वनप्रस्थः । वनप्रस्थ एव वानप्रस्थः संज्ञायां दैर्ध्यम् । भाविनीं वृत्तिम् आश्रित्य वनं प्रतिष्ठासुर् इति यावत् । असौ सुतविन्यस्तपत्नीकः त्वयेयं भरणीया इत्य् एव सुते विन्यस्ता निःक्षिप्ता पत्नी येन स तथोक्तः । यदि सा पतिपरिचर्याभिलाषेण स्वयम् अपि वनं जिगमिषति, तदा तयानुगतो वा सहितः । तथा ब्रह्मचारी उर्ध्वरेताः साग्निर् वैतानाग्निसहितः तथा सोपासनो गृह्याग्निसहितश् च वनं व्रजेत् । "सुतविन्यस्तपत्नीकः" इति वदता कृतगार्हस्थ्यो वानप्रस्थेऽधिक्रियत इति दर्शितम् । एतच् चाश्रमसमुच्चयपक्षम् अङ्गीकृत्योक्तम् । इतरथा "अविप्लुतब्रह्मचर्यो यम् इच्छेत् तम् आवसेद्" (व०ध० ७.३) इत्य् अकृतगार्हस्थ्योऽपि वनवासेऽधिक्रियत एव । अयं च वनप्रवेशो जराजर्जरकलेवरस्य जातपौत्रस्य वा । यथाह मनुः ।

"गृहस्थस् तु यदा पश्येद् वलीपलितम् आत्मनः ।
अपत्यस्यैव वापत्यं तदारण्यं समाश्रयेत् ॥" इति । (मा०ध० ६.२)

अयं च पुत्रेषु पत्नीनिःक्षेपो विद्यमानभार्यस्य मृतभार्यस्याप्य् आपस्तम्बादिभिः वनवासस्मरणात् (आ०ध० २.२२.६–२४)। अतो यत् "दाहयित्वाग्निहोत्रेण" (या०ध० १.८९) इति पुनराधानविधानं, तद् अपरिपक्वकषायविषयम् । "साग्निः सोपासनः" (या०ध० ३.४५) इत्य् अत्रापि यदार्धाधानं कृतं तदा श्रौताग्निभिर् गृह्येण च सहितो वनं व्रजेत् । सर्वाधाने तु श्रौतैर् एव केवलम् । यदि कथंचिज् ज्येष्ठभ्रातुर् अनाहिताग्नित्वादिना श्रौताग्नयोऽनाहितास् तर्हि केवलं सोपासनो व्रजेद् इत्य् एवं विवेचनीयम् । अग्निनयनं च तन्निवर्त्याग्निहोत्रादिकर्मसिद्ध्यर्थम् । अत एव मनुः ।

"वैतानिकं च जुहुयाद् अग्निहोत्रं यथाविधि ।
दार्शम् अस्कन्दयन् पर्व पौर्णमासं च शक्तितः ॥" इति ॥ (मा०ध० ६.९)

ननु च पुत्रनिक्षिप्तपत्नीकस्य तद्विरहिणः कथम् अग्निहोत्रादिकर्मानुष्ठानं घटते, "पत्न्या सह यष्टव्यम्" इति सहाधिकारनियमात् । सत्यम् एवम् । किं त्व् अत्र पत्नीनिक्षेपविधिबलाद् एव तन्नैरपेक्ष्येणाधिकारः कल्प्यते । यथा हि रजस्वलायां "यस्य व्रत्येऽहनि पत्न्य् अनालम्भुका स्यात् ताम् अपरुध्य यजेत" इत्य् अवरोधविधिबलात् तन्निरपेक्षता । यद् वा वनं प्रतिष्ठमानम् एव पतिं पत्न्य् अनुमन्यत इति न विरोधः । न च यथा ब्रह्मचारिणो विधुरस्य वा वनं प्रस्थितस्याग्निहोत्रादिपरिलोपस् तथा निक्षिप्तपत्नीकस्याप्य् अग्निहोत्राद्यभाव इति शङ्कनीयम्, अपाक्षिकत्वेन श्रवणात् । न च ब्रह्मचारिविधुरयोर् अप्य् अग्निसाध्यकर्मस्व् अनधिकारः, पञ्चममासाद् ऊर्ध्वम् आहितश्रावणिकाग्नेस् तदधिकारदर्शनात्, "वानप्रस्थो जटिलश् चीराजिनवासा न फालकृष्टम् अधित्ष्ठेत्, अक्षृटं मूलफलं संचिन्वीत ऊर्ध्वरेताः क्षमाशयो दद्याद् एव न प्रतिगृह्णीयाद् ऊर्ध्वं पञ्चभ्यो मासेभ्यः श्रावणिकेनाग्नीन् आधायाहिताग्निर् वृक्षमूलको दद्याद् देवपितृमनुष्येभ्यः स गच्छेत् स्वर्गम् आनन्त्यम्" (व०ध० ९.११२) इति वसिष्ठस्मरणात् । चीरं वस्त्रखण्डो वल्कलं वा । फालकृष्टम् अधितिष्ठेत् कृष्टक्षेत्रस्योपरि न निवसेत् । श्रावणिकेन वैदिकेन मार्गेण न लौकिकेनेत्यर्थः ॥ ३.४५ ॥

"साग्निः सोपासनो व्रजेत्" (या०ध० ३.४५) इत्य् एतद् अग्निसाध्यश्रौतस्मार्तकर्मानुष्ट्ःानार्थम् इत्य् उक्तम् । तत्र गुणविधिम् आह ।

अफालकृष्टेनाग्नींश् च पितॄन् देवातिथीन् अपि ।
भृत्यांश् च तर्पयेत् श्मश्रुजटालोमभृद् आत्मवान् ॥ या०ध०३.४६

फालग्रहणं कर्षणसाधनोपलक्षणम् । अकृष्टक्षेत्रोद्भवेन नीवारवेणुश्यामाकादिना अग्नींस् तर्पयेद् अग्निसाध्यानि कर्माण्य् अनुतिष्ठेत् । चशब्दाद् भिक्षादानम् अपि तेनैव कुर्यात् । तथा पितॄन् देवातिथीन् अपिशब्दाद् भूतान्य् अपि तेनैव तर्पयेत् । तथा भृत्यान्, चशब्दाद् आश्रमप्राप्तान् अपि । तथा च मनुः ।

"यद्भक्षः स्यात् ततो दद्याद् बलिं भिक्षां च शक्तितः ।
अम्मूलफलभिक्षाभिर् अर्चयेद् आश्रमागतान् ॥" इति ॥ (मा०ध० ६.७)

एवं पञ्चमहायज्ञान् कृत्वा स्वयम् अपि तच्छेषम् एव भुञ्जीत,

"देवताभ्यश् च तद् धुत्वा वन्यं मेध्यतरं हविः ।
शेषम् आत्मनि युञ्जीत लवणं च स्वयंकृतम् ॥" (मा०ध० ६.१२)

इति मनुस्मरणात् । स्वयंकृतम् ऊषरलवणम् । एवं भोजनार्थे योगाद्यर्थे च मुन्यन्ननियमाद् ग्राम्याहारपरित्यागोऽर्थसिद्धः । अत एव मनुः ।

"संत्यज्य ग्राम्यम् आहारं सर्वं चैव परिच्छदम् ।" इति । (मा०ध० ६.३)

ननु च दर्शपूर्णमासादेर् व्रीह्यादिग्राम्यद्रव्यसाद्यत्वात् कथं तत्परित्यागः । न च वचनीयम् "अफालकृष्टेनाग्नींश् च" (व०ध० ९.३) इति विशेषवचनसामर्थ्याद् व्रीह्यादिबाध इति, विशेषविषयिण्यापि स्मृत्या श्रुतिबाधस्यान्याय्यत्वात्, अफालकृष्टविधेश् च स्मार्ताग्निसाध्यकर्मविषयत्वेनाप्य् उपपत्तेः । सत्यम् एव । किं त्व् अत्र व्रीह्यादेर् अप्य् अफालकृष्टत्वसम्भवान् न विरोधः । अत एवोक्तं मनुना ।

"वासन्तशारदैर् मेध्यैर् मुन्यन्नैः स्वयम् आहृतैः ।
पुरोडाशांश् चरूंश् चैव विधिवन् निर्वपेत् पृथग् ॥" इति ॥ (मा०ध० ६.११)

नीवारदीनाम् उत्पन्नानां स्वतो मेध्यत्वे सिद्धेऽपि पुनर् मेध्यग्रहणं यज्ञार्हव्रीह्यादिप्राप्त्यर्थं कृतं, मेधो यज्ञस् तदर्हं मेध्यम् इति । तथा श्मश्रूणि मुखजानि रोमाणि जटारूपांश् च शिरोरुहान् कक्षादीनि च रोमाणि बिभृयात् । रोमग्रहणं नखानाम् अप्य् उपलक्षणम् । तथा च मनुः ।

"जटाश् च ब्व्भृयान् नित्यं श्मश्रुलोमनखांस् तथा ।" इति । (मा०ध० ६.६)

तथात्मवान् आत्मोपासनाभिरतः स्यात् ॥ ३.४६ ॥

पूर्वोक्तद्रव्यसंचयनियमम् आह ।

अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा ।
अर्थस्य संचयं कुर्यात् कृतम् आश्वयुजे त्यजेत् ॥ या०ध०३.४७

एकस्याह्नः संबन्धि भोजनयजनादिदृष्टाद्षृटकर्मणः पर्याप्तस्यार्थस्य संचयं कुर्यात् । मासस्य वा षण्णां मासानां वा संवत्सरस्य वा संबन्धि कर्मपर्याप्तं संचयं कुर्यात्, नाधिकम् । यद्य् एवं क्रियमाणम् अपि कथंचिद् अतिरिच्यते तर्हि तदतिरिक्तम् आश्वयुजे मासि त्वजेत् ॥ ३.४७ ॥

किं च ।

दान्तस् त्रिषवणस्नायी निवृत्तश् च प्रतिग्रहात् ।
स्वाध्यायवान् दानशीलः सर्वसत्त्वहिते रतः ॥ या०ध०३.४८

दान्तो दर्परहितः । त्रिषु सवनेषु प्रातर्मध्यंदिनापराह्णेषु स्नानशीलः । तथा प्रतिग्रहे पराङ्मुखः । चशब्दाद् याजनादिनिवृत्तश् च । स्वाध्यायवान् वेदाभ्यासरतः । तथा फलमूलभिक्षादिदानशीलः सर्वप्राणिहिताचरणनिरतश् च भवेत् ॥ ३.४८ ॥

किं च ।

दन्तोलूखलिकः कालपक्वाशी वाश्मकुट्टकः ।
श्रौत्रं स्मार्तं फलस्नेहैः कर्म कुर्यात् तथा क्रियाः ॥ या०ध०३.४९

दन्ता एवोलूखलं निस्तूषीकरणसाधनं दन्तोलूखलं तद् यस्यास्ति स दन्तोलूखलिकः । कालेनैव पक्वं कालपक्वं नीवारवेणुश्यामाकादि बदरेङ्गुदादिफलं च तदशनशीलः कालपक्वाशी । वाशब्दः,

"अग्निपक्वाशनो वा स्यात् कालपक्वभुग् एव वा ।" (मा०ध० ६.१७)

इति मनूक्ताग्निपक्वाशित्वाभिप्रायः । अश्मकुट्टको वा भवेत् । अश्मना कुट्टनम् अवहननं यस्य स तथोक्तः । तथा श्रौत्रं स्मार्तं च कर्म दृष्टार्थाश् च भोजनाभ्यञ्जनादिक्रियाः लकुचमधूकादिमेध्यतरुफलोद्भवैः स्नेहद्रव्यैः कुर्यान् न तु घृतादिकैः । तथा च मनुः ।

"मेध्यवृक्षोद्भवान्य् अद्यात् स्नेहांश् च फलसम्भवान् ।" इति ॥ (मा०ध० ६.१३) ३.४९ ॥

पुरुषार्थतया विहितद्विर्भोजननिवृत्त्यर्थम् आह ।

चान्द्रायणैर् नयेत् कालं कृच्छ्रैर् वा वर्तयेत् सदा ।
पक्षे गते वाप्य् अश्नीयान् मासे वाहनि वा गते ॥ या०ध०३.५०

चान्द्रायणैर् वक्ष्यमाण्लक्षणैः कालं नयेत् । कृच्छ्रैर् वा प्राजापत्यादिभिः कालं वर्तयेत् । यद् वा पक्षे पञ्चदशदिनात्मकेऽतीतेऽश्नीयात् । मासे वाहनि गते वा नक्तम् अश्नीयात् । अपिशब्दाच् चतुर्थकालिकत्वादिनापि । यथाह मनुः ।

"नक्तं वान्नं समश्नीयाद् दिवा वाहृत्य शक्तितः ।
चतुर्थकालिको वा स्याद् यद् वाप्य् अष्टमकालिकः ॥" इति । (मा०ध० ६.१९)

एतेषाम् च कालनियमानां स्वशक्त्यपेक्षया विकल्पः ॥ ३.५० ॥

किं च ।

स्वप्याद् भूमौ शुची रात्रौ दिवा संप्रपदैर् नयेत् ।
स्थानासनविहारैर् वा योगाभ्यासेन वा तथा ॥ या०ध०३.५१

आहारविहारावसरवर्ज्यं रात्रौ शुचिः प्रयतः स्वप्यात् नोपविशेन् नापि तिष्ठेत् । दिवास्वप्नस्य पुरुषमात्रार्थतया प्रतिषिद्धत्वान् न तन्निवृत्तिपरम् । तथा भूमाव् एव स्वप्यात् । तच् च भूमाव् एव न शय्यान्तरितायां मञ्चकादौ वा । दिनं तु संप्रपदैर् अटनैर् नयेत् । स्थानासनरूपैर् वा विहारैः संचारैः कंचित् कालं स्थानं कंचिच् चोपवेशनम् इत्य् एवं वा दिनं नयेत् । योगाभ्यासेन वा । तथा च मनुः ।

"विविधाश् चौपनिषदीर् आत्मसंसिद्धये श्रुतीः ।" इति । (मा०ध० ६.२९)

आत्मनः संसिद्धये ब्रह्मत्वप्राप्तये । तथाशब्दात् क्षितिपरिलोडनाद् वा नयेत्,

"भूमौ विपरिवर्तेत तिष्ठेद् वा प्रपदैर् दिनम् ।" (मा०ध० ६.२२)

इति मनुस्मरणात् । प्रपदैः पादाग्रैः ॥ ३.५१ ॥

किं च ।

ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ।
आर्द्रवासास् तु हेमन्ते शक्त्या वापि तपश् चरेत् ॥ या०ध०३.५२

"त्र्यर्तुः संवत्सरो ग्रीष्मो वर्षा हेमन्तः" इति दर्शनात्, ग्रीष्मे चैत्रादिमासचतुष्टये चतसृषु दिक्षु चत्वारोऽग्नय उपरिष्टाद् आदित्य इत्य् एवं पञ्चानाम् अग्नीनां मध्ये तिष्ठेत् । तथा वर्षासु श्रावणादिमासचतुष्टये स्थण्डिलेशयः वर्षाधाराविनिवारणविरहिणि भूतले निवसेत् । हेमन्ते मार्गशिर्षादिमासचतुष्टये क्लिन्नं वासो वसीत । एवंविधतपश्चरणे असमर्थः स्वशक्त्यनुरूपं वा तपश् चरेत् । यथा शरीरशोषस् तथा यतेत,

"तपश् चरंश् चोग्रतरं शोषयेद् देहम् आत्मनः ।" (मा०ध० ६.२८)

इति मनुस्मरणात् ॥ ३.५२ ॥

किं च ।

यः कण्टकैर् वितुदति चन्दनैर् यश् च लिम्पति ।
अक्रुद्धोऽपरितुष्टश् च समस्तस्य च तस्य च ॥ या०ध०३.५३

यः कश्चित् कण्टकादिभिर् विविधम् अङ्गानि तुदति व्यथयति तस्मै न क्रुध्येत् । यश् चन्दनादिभिर् उपलिम्प्यति सुखयति तस्य न परितुष्यते । किं तु तयोर् उभयोर् अपि समः स्याद् उदासीनो भवेत् ॥ ३.५३ ॥

अग्निपरिचर्याक्षमं प्रत्य् आह ।

अग्नीन् वाप्य् आत्मसात्कृत्वा वृक्षावासो मिताशनः ।
वानप्रस्थगृहेष्व् एव यात्रार्थं भैक्षम् आचरेत् ॥ या०ध०३.५४

अग्नीन् आत्मनि समारोप्य वृक्षावासो वृक्ष एव आवासः कुटी यस्य स तथोक्तः । मिताशनः स्वल्पाहारः । अपिशब्दात् फलमूलाशनश् च भवेत् । यथाह मनुः ।

"अग्नीन् आत्मनि वैतानान् समारोप्य यथाविधि ।
अनग्निर् अनिकेतः स्यान् मुनिर् मूलफलाशनः ॥" इति । (मा०ध० ६.२५)

मुनिर् मौनव्रतयुक्तः । फलमूलासंभवे च यावत्प्राणधारणं भवति तावन्मात्रं भैक्षं वानप्रस्थगृहेष्व् आचरेत् ॥ ३.५४ ॥

यदा तु तदसंभवो व्याध्यभिभवो वा तदा किं कार्यम् इत्य् अत आह ।

ग्रामाद् आहृत्य वा ग्रासान् अष्टौ भुञ्जीत वाग्यतः । या०ध०३.५५अब्

ग्रामाद् वा भैक्षम् आहृत्य वाग्यतो मौनी भूत्वा अष्टौ ग्रासान् भूञ्जीत । ग्राम्यभैक्षविधानान् मुन्यन्ननियमोऽर्थलुप्तः । यदा पुनर् अष्टभिर् ग्रासैः प्राणधारणं न संभवति तदा,

"अष्टौ ग्रासा मुनेर् भैक्षं वानप्रस्थस्य षोडश ।"

इति स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥

सकलानुष्ठानासमर्थं प्रत्य् आह ।

वायुभक्षः प्रागुदीचीं गच्छेद् आ वर्ष्मसंक्षयात् ॥ या०ध०३.५५च्द्

अथ वा वायुर् एव भक्षो यस्यासौ वायुभक्षः प्रागुदीचीम् ऐशानीं दिशं गच्छेत् । आ वर्ष्मसंक्षयात् वर्ष्म वपुस् तस्य निपातपर्यन्तम् अकुटिलगतिर् गच्छेत् । यथाह मनुः ।

"अपराजितां वास्थाय गच्छेद् दिशम् अजिह्मगः ।" इति । (मा०ध० ६.३१)

महाप्रस्थानेऽप्य् अशक्तौ भृगुपतनादिकं वा कुर्यात्, "वानप्रस्थो वीराध्वानं ज्वलनाम्बुप्रवेशनं भृगुपतनं वानुतिष्ठेत्" इति स्मरणात् । स्नानाचमनादिधर्मा ब्रह्मचारिप्रकरणाद्यभिहिताश् चाविरोधिनोऽस्यापि भवन्ति, "उत्तरेषां चैतदविरोधि" (गौ०ध० ३.१०) इति गौतमस्मरणात् । एवं प्रागुदितैन्दवादिदीक्षामहाप्रस्थानपर्यन्तं तनुत्यागान्तम् अनुतिष्ठन् ब्रह्मलोके पूज्यतां प्राप्नोति । यथाह मनुः ।

"आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम् ।
वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥" इति । (मा०ध० ६.३१)

ब्रह्मलोकः स्थानविशेषो न तु नित्यं ब्रह्म, तत्र लोकशब्दस्याप्रयोगात्, तुरीयाश्रमम् अन्तरेण मुक्त्यनङ्गीकाराच् च । न च "योगाभ्यासेन वा पुनः" इति ब्रह्मोपासनविध्यनुपपत्त्या तद्भावापत्तिः परिशङ्कनीया, सालोक्यादिप्राप्त्यर्थत्वेनापि तद् उपपत्तेः । अत एव श्रुतौ "त्रयो धर्मस्कन्धाः" इत्य् उपक्रम्य, "यज्ञोऽध्ययनं दानम् इति प्रथमः । तप एवेति द्वितीयः ।ब्रह्मचर्य् आचार्यकुलवासी तृतीयः । अत्यन्तम् आचर्यकुल एवम् आत्मानम् अवसादयन्" इति गार्हस्थ्यवानप्रस्थनैष्टिकत्वस्वरूपम् अभिधाय, "सर्व एते पुण्यलोका भवन्ति" इति त्रयाणाम् आश्रमिणां पुण्यलोकप्राप्तिम् अभिधाय, "ब्रह्मसंस्थोऽमृतत्वम् एति" (छा०उ० २.२३.१) इति पारिशेष्यात् परिव्राजकस्यैव ब्रह्मसंस्थस्य मुक्तिलक्षणामृतत्वप्राप्तिर् अभिहिता । यद् अपि

श्राद्धकृत् सत्यवादी च गृहस्थोऽपि विमुच्यते । (या०ध० ३.२०५)

इति गृहस्थस्यापि मोक्षप्रतिपादनं तद् भवान्तरानुभूतपारिव्रज्यस्येत्य् अवगन्तव्यम् ॥ ३.५५ ॥

इति वानप्रस्थधर्मप्रकरणम्
अथ यतिधर्मप्रकरणम्

वैखानसधर्मान् अनुक्रम्य क्रमप्राप्तान् परिव्राजकधर्मान् सांप्रतं प्रस्तौति ।

वनाद् गृहाद् वा कृत्वेष्टिं सार्ववेदसदक्षिणाम् ।
प्राजापत्यां तदन्ते तान् अग्नीन् आरोप्य चात्मनि ॥ या०ध०३.५६

अधीतवेदो जपकृत् पुत्रवान् अन्नदोऽग्निमान् ।
शक्त्या च यज्ञकृन् मोक्षे मनः कुर्यात् तु नान्यथा ॥ या०ध०३.५७

यावता कालेन तीव्रतपःशोषितवपुषो विषयकषायपरिपाको भवति पुनश् च मदोद्भवाशङ्का नोद्भाव्यते तावत्कालं वनवासं कृत्वा तत्समनन्तरं "मोक्षे मनः कुर्यात्" । वनगृहशब्दाभ्यां तत्संबन्ध्याश्रमो लक्ष्यते । मोक्षशब्देन च मोक्षैकफलकश् चतुर्थाश्रमः । अथ वा गृहाद् गार्हस्थ्याद् अनन्तरं मोक्षे मनः कुर्यात् । अनेन च पूर्वोक्तश् चतुराश्रमसमुच्चयपक्षः पाक्षिक इति द्योतियति । तथा च विकल्पो जाबाल्श्रुतौ श्रूयते : "ब्रह्मचर्यं परिसमाप्य गृही भवेत्, गृही भूत्वा वनी भवेत्, वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्याद् एव प्रव्रजेत् गृहाद् वा वनाद् वा" इति (ञाबाल ऊपनिषद्, प्. ६४) । तथा गार्हस्थोत्तराश्रमबाधश् च गौतमेन दर्शितः : "ऐकाश्रम्यं त्व् आचार्याः प्रत्यक्षविधानाद् गार्हस्थ्यस्य" (गौ०ध० ३.३६) इति । एतेषां च समुच्चयविकल्पबाधपक्षाणां सर्वेषां श्रुतिमूलस्त्वाद् इच्छया विकल्पः । अतो यत् कैश्चित् पण्डितंमन्यैर् उक्तम् "स्मार्तत्वान् नैष्ठिकत्वादीनां गार्हस्थ्येन श्रौतेन बाधः गार्हस्थ्यानधिकृतान्धक्लीबादिविषयता वा" इति, तत् स्वाध्यायाध्ययनवैधुर्यनिबन्धनम् इत्य् उपेक्षणीयम् । किं च यथा विष्णुक्रमणाज्यावेक्षणाद्यक्षमतया पङ्ग्वादीनां श्रौतेष्व् अनधिकारस् तथा स्मार्तेष्व् अप्य् उदकुम्भाहरणभिक्षाचर्यादिष्व् अक्षमत्वात् कथं पङ्ग्वादिविषयतया नैष्ठिकत्वाद्याश्रमनिर्वाहः । अस्मिंश् चाश्रमे ब्राह्मणस्यैवाधिकारः,

"आत्मन्य् अग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ।" (मा०ध० ६.२५)

तथा,

"एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः ।" (मा०ध० ६.९७)

इत्य् उपक्रमोपसेहाराभ्यां मनुना ब्राह्मणस्याधिकारप्रतिपादनात् । "ब्राह्मणाः प्रव्रजन्ति" इति श्रुतेश् चाग्रजन्मन एवाधिकारो न द्विजातिमात्रस्य । अन्ये तु त्रैवर्णिकानां प्रकृतत्वात्, "त्रयाणां वर्णानां वेदम् अधीत्य चत्वार आश्रमाः" इति सूत्रकारवचनाच् च द्विजातिमात्रस्याधिकारम् आहुः । यदा वनाद् गृहाद् वा प्रव्रजति तदा सार्ववेदसदक्षिणां सार्ववेदसी सर्ववेदसंबन्धिनी दक्षिणा यस्याः सा तथोक्ता तां प्रजापतिदेवताकाम् इष्टिं कृत्वा तदन्ते तान् वैतानान् अग्नीन् आत्मनि श्रुत्युक्तविधानेन समारोप्य, चशब्दात् "उदगयने पौर्णमास्यां पुरश्चरणम् आदौ कृत्वा शुद्धेन कायेनाष्टौ श्राद्धानि निर्वपेत् द्वादश वा" इति बौधायनाद्युक्तं पुरश्चरणादिकं च कृत्वा, तथाधीतवेदो जपपरायणो जातपुत्रो दीनान्धकृपणार्पितार्थो यथाशक्त्यान्नदश् च भूत्वानाहिताग्निर् ज्येष्ठत्वादिना प्रतिबन्धाभावे कृताधानो नित्यनैमित्तिकान् यज्ञान् कृट्वा, मोक्षे मनः कुर्यात् चतुर्थाश्रमं प्रविशेन् नान्यथा । अनेनानपाकृतर्णत्रयस्य गृहस्थस्य प्रव्रज्यायाम् अधिकारं दर्शयति । यथाह मनुः ।

"ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्य् अधः ॥" इति ॥ (मा०ध० ६.३५)

यदा तु ब्रह्मचर्यात् प्रव्रजति तदा न प्रजोत्पादनादिनियमः, अकृतदारपरिग्रहस्य तत्रानधिकारात्, रागप्रयुक्तत्वाच् च विवाहस्य । न च ऋणत्रयापाकरणविधिर् एव दारान् आक्षिपतीति शङ्कनीयम् । विद्याधनार्जननियमवद् अन्यप्रयुक्तदारसंभवे तस्यानाक्षेपकत्वात् । ननु "जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवाञ् जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः" (टैत्षं ६.३.१०.५) इति जातमात्रस्यैव प्रजोत्पादनादीन्य् आवश्यकानीति दर्शयति । मैवम् । न हि जातमात्रोऽकृतदाराग्निपरिग्रहो यज्ञादिष्व् अधिक्रियते । तस्माद् अधिकारी जायमानो ब्राह्मणादिर् यज्ञादीन् अनुतिष्ठेद् इति तस्यार्थः । अतश् चोपनीतस्य वेदाध्ययनम् एवावश्यकम् । कृतदाराग्निपरिग्रहस्य प्रजोत्पादनम् अपीति निरवद्यम् ॥ ३.५६ ॥ ३.५७ ॥

एवम् अधिकारिणं निरूप्य तद्धर्मान् आह ।

सर्वभूतहितः शान्तस् त्रिदण्डी सकमण्डलुः ।
एकारामः परिव्रज्य भिक्षार्थी ग्रामम् आश्रयेत् ॥ या०ध०३.५८

सर्वभूतेभ्यः प्रियाप्रियकारिभ्यो हित उदासीनो न पुनर् हिताचरणः, "हिंसानुग्रहयोर् अनारम्भी" (गौ०ध० ३.२४–२५) इति गौतमस्मरणात् । शान्तो बाह्यान्तःकरणोपरतः । त्रयो दण्डा अस्य सन्तीति त्रिदण्डी । ते च दण्डा वैणवा ग्राह्याः, "प्राजापत्येष्ट्यनन्तरं त्रीन् वैणवान् दण्डान् मूर्धप्रमाणान् दक्षिणेन पाणिना धारयेत् सव्येन सोदकं कमण्डलुम्" इति स्मृत्यन्तरदर्शनात् । एकं वा दण्डं धारयेत्, "एकदण्डी त्रिदण्डी वा" (बौ०ध० २.१८.१) इति बौधायनस्मरणात्,

"चतुर्थम् आश्रमं गच्छेद् ब्रह्मविद्यापरायणः ।
एकदण्डी त्रिदण्डी वा सर्वसंगविवर्जितः ॥"

इति चतुर्विंशतिमते दर्शनाच् च । तथा शिखाधारणम् अपि वैकल्पिकम् । "मुण्डः शिखी वा" (ङ्ड्ः ३.२२) इति गौतमस्मरणात्, "मुण्डोऽममोऽक्रोधोऽपरिग्रहः" (व०ध० १०.६) इति वसिष्ठस्मरणात् । तथा यज्ञोपवीतधारणम् अपि वैकल्पिकम् एव, "सशिखान् केशान् निकृन्त्य विसृज्य यज्ञोपवीतम्" (Kअटश्रुति ऊप्. ३२) इति काठकश्रुतिदर्शनात्,

"कुटुम्बं पुत्रदारांश् च वेदाङ्गानि च सर्वशः ।
केशान् यज्ञोपवीतं च त्यक्त्वा गूढश् चरेन् मुनिः ॥"

इति बाष्कलस्मरणाच् च, "अथ यज्ञोपवीतम् अप्सु जुहोति भूः स्वाहेत्य् अथ दण्डम् आदत्ते सखे मां गोपाय" इति परिशिष्टदर्शनाच् च । यद्य् अशक्तिस् तदा कन्थापि ग्राह्या, "काषायी मुण्डस् त्रिदण्डी सकमण्डलुपवित्रपादुकासनकन्थामात्रः" इति देवलस्मरणात् । शौचाद्यर्थं कमण्डलुसहितश् च भवेत् । एकारामः प्रव्रजितान्तरेणासहायः संन्यासिनीभिः स्त्रीभिश् च, "स्त्रीणां चैके" (not in बौ०ध०) इति बौधायनेन स्त्रीणाम् अपि प्रव्रज्यास्मरणात् । तथा च दक्षः ।

"एको भिक्षुर् यथोक्तश् च द्वाव् एव मिथुनं स्मृतम् ।
त्रयो ग्रामः समाख्यात ऊर्ध्वं तु नगरायते ॥
राजवार्तादि तेषां तु भिक्षावार्ता परस्परम् ।
अपि पैशुन्यमात्सर्यं सन्निकर्षान् न संशयः ॥" इति ।

परिव्रज्य परिपूर्वो व्रजतिस् त्यागे वर्तते । अतश् चाहंममाभिमानं तत्कृतं च लौकिकं कर्मनिचयं वैदिकं च नित्यकाम्यात्मकं संत्यजेत् । तद् उक्तं मनुना ।

"सुखाभ्युदयिकं चैव नैश्रेयसिकम् एव च ।
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥
इह वामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते ।
निष्कामं ज्ञानपूर्वं तु निवृत्तम् उपदिश्यते ॥
यथोक्तान्य् अपि कर्माणि परिहाय द्विजोत्तमः ।
आत्मज्ञाने शमे च स्याद् वेदाभ्यासे च यत्नवान् ॥" इति । (मा०ध० १२.८८-८९, ९२)

अत्र वेदाभ्यासः प्रणवाभ्यासस् तत्र यत्नवान् । भिक्षाप्रयोजनार्थं ग्रामम् आश्रयेत् प्रविशेत् न पुनः सुखनिवासार्थम् । वर्षाकाले तु न दोषः, "ऊर्ध्वं वार्षिकाभ्यां मासाभ्यां नैकस्थानवासी" इति शङ्कस्मरणात् । अशक्तौ पुनर् मासचतुष्टयपर्यन्तम् अपि स्थातव्यं न चिरम् एकत्र वसेद् अन्यत्र वर्षाकालात्, "श्रावणादयश् चत्वारो मासा वर्षाकालः" इति देवलस्मरणात्,

"एकरात्रं वसेद् ग्रामे नगरे रात्रिपञ्चकम् ।
वर्षाभ्योऽन्यत्र वर्षासु मासांस् तु चतुरो वसेत् ॥"

इति काण्वस्मरणात् ॥ ३.५८ ॥

कथं भिक्षाटनं कार्यम् इत्य् अत आह ।

अप्रमत्तश् चरेद् भैक्षं सायाह्नेऽनभिलक्षितः ।
रहिते भिक्षुकैर् ग्रामे यात्रामात्रम् अलोलुपः ॥ या०ध०३.५९

अप्रमत्तो वाक्चक्षुरादिचापलरहितो भैक्षं चरेत् । वसिष्ठेन अत्र विशेषो दर्शितः : "सप्तागाराण्य् असंकल्पितानि चरेद् भैक्षम्" (व०ध० १०.६) इति । सायाह्ने अह्नः पञ्चमे भागे । तथा च मनुः ।

"विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्ज्जने ।
वृत्ते शरावसंपाते नित्यं भिक्षां यतिश् चरेत् ॥" इति । (मा०ध० ६.५६)

तथा,

"एककालं चरेद् भिक्षां प्रसज्येन् न तु विस्तरे ।
भैक्षे प्रसक्तो हि यतिर् विषयेष्व् अपि सज्जति ॥" इति । (मा०ध० ६.५५)

अनभिलक्षितः ज्योतिर्विज्ञानोपदेशादिना अचिह्नितः,

"न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥" (मा०ध० ६.५०)

इति तेनोक्तत्वाद् इति ॥ यत् पुनर् वसिष्ठवचनम् "ब्राह्मणकुले वा यल् लभेत् तद् भुञ्जीत सायंप्रातर् मांसवर्ज्यम्" (व०ध० १०.२४) इति, तद् अशक्तविषयम् । भिक्षुकैर् भिक्षणशीलैः पाखण्ड्यादिभिर् वर्जिते ग्रामे । मनुनात्र विशेष उक्तः ।

"न तापसैर् ब्राह्मणैर् वा वयोभिर् अपि वा श्वभिः ।
आकीर्णं भिक्षुकैर् अन्यैर् अगारम् उपसंव्रजेत् ॥" इति । (मा०ध० ६.५१)

यावता प्राणयात्रा वर्तते तावन्मात्रं भैक्षं चरेत् । तथा च संवर्तः ।

"अष्टौ भिक्षाः समादाय मुनिः सप्त च पञ्च वा ।
अद्भिः प्रक्षाल्य ताः सर्वास् ततोऽऽश्नीयाच् च वाग्यतः ॥" इति ।

अलोलुपो मिष्टान्नव्यञ्जनादिष्व् अप्रसक्तः ॥

भिक्षाचरणार्थं पात्रम् आह ।

यतिपात्राणि मृद्वेणुदार्वलाबुमयानि च ।
सलिलं शुद्धिर् एतेषां गोवालैश् चावघर्षणम् ॥ या०ध०३.६०

मृदादिप्रकृतिकानि यतीनां पात्राणि भवेयुः । तेषां सलिलं गोवालावघर्षणं च शुद्धिसाधनम् । इयं च शुद्धिर् भिक्षाचरणादिप्रयोगाङ्गभूता नामेध्याद्युपहतिविषया । तदुपघाते द्रव्यशुद्धिप्रकरणोक्ता द्रष्टव्या । अत एव मनुना ।

"अतैजसानि पात्राणि तस्य स्युर् निर्व्रणानि च ।
तेषाम् अद्भिः स्मृतं शौचं चमसानाम् इवाध्वरे ॥" इति । (मा०ध० ६.५३)

चमसदृष्टान्तोपादानेन प्रायोगिकी शुद्धिर् दर्शिता । पात्रान्तराभावे भोजनम् अपि तत्रैव कार्यम्, "तद् भैक्ष्यं गृहीत्वैकान्ते तेन पात्रेणान्येन वा तूष्णीं प्राणमात्रं भुञ्जीत" इति देवलस्मरणात् ॥ ३.६० ॥

एवंभूतस्य यतेर् आत्मौपासनाङ्गं नियमविषयम् आह ।

संनिरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय च ।
भयं हित्वा च भूतानाम् अमृतीभवति द्विजः ॥ या०ध०३.६१

चक्षुरादीन्द्रियसमूहं रूपादिविषयेभ्यः सम्यङ् निरुद्ध्य विनिवर्त्य रागद्वेषौ प्रियाप्रियविषयौ प्रहाय त्यक्त्वा चशब्दाद् ईर्ष्यादीन् अपि तथा भूतानाम् अपकारेण भयम् अकुर्वन् शुद्धान्तःकरणः सन्न् अद्वैतसाक्षात्कारेणामृतीभवति मुक्तो भवति ॥ ३.६१ ॥

किं च ।

कर्तव्याशयशुद्धिस् तु भिक्षुकेण विशेषतः ।
ज्ञानोत्पत्तिनिमित्तत्वात् स्वातन्त्र्यकरणाय च ॥ या०ध०३.६२

विषयाभिलाषद्वेषजनितदोषकलुषितस्याशयस्यान्तःकरणस्य शुद्धिः कल्मषक्षयः प्राणायामैः कर्तव्या । तस्याः शुद्धेर् आत्माद्वैतसाक्षात्काररूपज्ञानोत्पत्तिनिमित्तत्वात् । एवं च सति विषयासक्तितज्जनितदोषात्मकप्रतिबन्धक्षये सत्य् आत्मध्यानधारणादौ स्वतन्त्रो भवति । तस्माद् भिक्षुकेण त्व् एषा शुद्धिर् विशेषतोऽनुष्ठेया, तस्य मोक्षप्रधानत्वात्, मोक्षस्य च शुद्धान्तःकरणाम् अन्तरेण दुर्लभत्वात् । यथाह मनुः ।

"दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥" इति ॥ (मा०ध० ६.७१) ३.६२ ॥

इन्द्रियनिरोधोपायतया संसारस्वरूपनिरूपणम् आह ।

अवेक्ष्या गर्भवासाश् च कर्मजा गतयस् तथा ।
आधयो व्याधयः क्लेशा जरा रूपविपर्ययः ॥ या०ध०३.६३

भवो जातिसहस्रेषु प्रियाप्रियविपर्ययः । या०ध०३.६४अब्

वैराग्यसिद्ध्यर्थं मूत्रपुरीषादिपूर्णनानाविधगर्भवासा आवेक्षणीयाः पर्यालोचनीयाः । चशब्दाज् जनोपरमाव् अपि । तथा निषिद्धाचरणादिक्रियाजन्या महारौरवादिनिरयपतनरूपा गतयः । तथाधयो मनःपीडाः, व्याधयश् च ज्वरातीसाराद्याः शारीराः, क्लेशा अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च, जरा वलीपलिताद्यभिभवः, रूपविपर्ययः खञ्जकुब्जत्वादिना प्राक्तनस्य रूपस्यान्यथाभावः, तथा श्वसूकरखरोरगाद्यनेकजातिषु भव उत्पत्तिः । इष्टस्याप्राप्तिर् अनिष्टस्य प्राप्तिर् इत्यादिबहुतरक्लेशावहं संसारस्वरूपं पर्यालोच्य तत्परिहारार्थम् आत्मज्ञानोपायभूतेन्द्रियजये प्रयतेत ॥ ३.६३ ॥

एवम् अवेक्ष्यानन्तरं किं कार्यम् इत्य् अत आह ।

ध्यानयोगेन संपश्येत् सूक्ष्म आत्मात्मनि स्थितः ॥ या०ध०३.६४च्द्

योगश् चित्तवृत्तिनिरोध आत्मैकाग्रता ध्यानं तस्या एव बाह्यविषयत्वोपरमः ध्यानयोगेन निदिध्यासतापरपर्यायेण सूक्ष्मशरीरप्राणादिव्यतिरिक्तः क्षेत्रज्ञ आत्मा आत्मनि ब्रह्मण्य् अवस्थित इत्य् एवं तत्त्वंपदार्थयोर् अभेदं सम्यक् पश्येद् अपरोक्षीकुर्यात् । अत एव श्रुतौ "आत्मा वारे द्रष्टव्यः" इति साक्षात्काररूपं दर्शनम् अनूद्य, तत्साधनत्वेन "श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" (बृ०उ० २.१.५) इति श्रवणमनननिदिध्यासनानि विहितानि ॥ ३.६४ ॥

किं च ।

नाश्रमः कारणं धर्मे क्रियमाणो भवेद् धि सः ।
अतो यद् आत्मनोऽपथ्यं परेषां न तद् आचरेत् ॥ या०ध०३.६५

प्राक्तनश्लोकोक्तात्मोपासनाख्ये धर्मे नाश्रमो दण्डकमण्डल्वादिधारणं कारणम्, यस्माद् असौ क्रियमाणो भवेद् एव नातिदुष्करः । तस्माद् यद् आत्मनोऽपथ्यम् उद्वेगकरं परुषभाषणादि तत् परेषां न समाचरेत् । अनेन ज्ञानोत्पत्तिहेतुभूतान्तःकरणशुद्ध्यापादनत्वेनान्तरङ्गत्वाद् रागद्वेषप्रहाणस्य प्रधानत्वेन प्रशंसार्थम् आश्रमनिराकरणं न पुनस् तत्परित्यागाय, तस्यापि विहितत्वात् । तद् उक्तं मनुना ।

"दोषितोऽपि चरेद् धर्मं यत्र तत्राश्रमे रतः ।
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥" इति ॥ (मा०ध० ६.६६) ॥ ३.६५ ॥

किं च ।

सत्यम् अस्तेयम् अक्रोधो ह्रीः शौचं धीर् धृतिर् दमः ।
संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः ॥ या०ध०३.६६

सत्यं यथार्थप्रियवचनम् । अस्तेयं परद्रव्यानपहारः । अक्रोधोऽपकारिण्य् अपि क्रोधस्यानुत्पादनम् । ह्रीर् लज्जा । शौचम् आहारादिशुद्धिः । धीर् हिताहितविवेकः । धृतिर् इष्टवियोगेऽनिष्टप्राप्तौ प्रचलितचितस्य यथापूर्वम् अवस्थापनम् । दमो मदत्यागः । संयतेन्द्रियता अप्रतिषिद्धेष्व् अपि विषयेष्व् अनतिसङ्गः । विद्या आत्मज्ञानम् । एतैः सत्यादिभिर् अनुष्ठितैः सर्वो धर्मोऽनुष्ठितो भवति । अनेन दण्डकमण्डल्वादिधारणबाह्यलक्षणात् सत्यादीनाम् आत्मगुणानाम् अन्तरङ्गतां द्योतयति ॥

ननु ध्यानयोगेनात्मनि स्थितम् आत्मानं पश्येद् इत्य् अयुक्तं जीवपरमात्मनोर् भेदाभावाद् इत्य् अत आहा ।

निःसरन्ति यथा लोहपिण्डात् तप्तात् स्फुलिङ्गकाः ।
सकाशाद् आत्मनस् तद्वद् आत्मानः प्रभवन्ति हि ॥ या०ध०३.६७

यद्य् अपि जीवपरमात्मनोः पारमार्थिको भेदो नास्ति तथाप्य् आत्मनः सकाशाद् अविद्योपाधिभेदभिन्नतया जीवात्मानः प्रभवन्ति हि यस्मात् तस्माद् युज्यत एव जीवपरमात्मनोर् भेदव्यपदेशः । यथाहि तप्ताल् लोहपिण्डाद् अयोगोलकाद् विस्फुलिङ्गकास् तेजोऽवयवा निःसरन्ति निःसृताश् च स्फुलिङ्गव्यपदेशं लभन्ते तद्वत् । अत उपपन्नं आत्मात्मनि स्थितो द्रष्टव्य इति । यद् वायम् अर्थः । ननु सुषुप्तिसमये प्रलये च सकलक्षेत्रज्ञानां ब्रह्मणि प्रलीनत्वात् कस्यायम् आत्मोपासनाविधिर् इत्य् अत आह निःसरन्तीत्यादि । यद्य् अपि सूक्ष्मरूपेण प्रलयवेलायां प्रलीनास् तथाप्य् आत्मनः सकाशाद् अविद्योपाधिभेदभिन्नतया जीवात्मानः प्रभवन्ति, पुनः कर्मवशात् स्थूलशरीराभिमानिनो जायन्ते, तस्मान् नोपासनाविधिविरोधः, तैजसस्य पृथग्भावसाम्याल् लोहपिण्डदृष्टान्तः ॥ ३.६७ ॥

ननु चानुपात्तवपुषां क्षेत्रज्ञानां निष्परिस्पन्दतया कथं तन्निबन्धनो जरायुजाण्डजादिचतुर्विधदेहपरिग्रह इत्य् अत आह ।

तत्रात्मा हि स्वयं किंचित् कर्म किंचित् स्वभावतः ।
करोति किंचिद् अभ्यासाद् धर्माधर्मोभयात्मकम् ॥ या०ध०३.६८

यद्य् अपि तस्याम् अवस्थायां परिस्पन्दात्मकक्रियाभावस् तथापि धर्माधर्माध्यवसायात्मकं कर्म मानसं भवत्य् एव । तस्य च विशिष्टशरीरग्रहणहेतुत्वम् अस्त्य् एव,

"वाचिकैः पक्षिमृगतां मानसैर् अन्त्यजातिताम् ।" (मा०ध० १२.९)

इति मनुस्मरणात् । एवं गृहीतवपुः स्वयम् एवान्वयव्यतिरेकनिरपेक्षः स्तन्यपानादिके कृते तृप्तिर् भवत्य् अकृते न भवतीत्य् एवंरूपौ याव् अन्वयव्यतिरेकौ तत्र निरपेक्षं प्राग्भवीयानुभवभावितभावनानुभावोद्भूतकार्यावबोधः किंचित् स्तन्यपानादिकं करोति किंचित् स्वभावतो यदृच्छया प्रयोजनाभिसंधिनिरपेक्षं पिपीलिकादिभक्षणं करोति, किंचिद् भवान्तराभ्यासवशाद् धर्माधर्मोभयरूपं करोति । तथा च स्मृत्यन्तरम् :

"प्रतिजन्म यद् अभ्यस्तं दानम् अध्ययनं तपः ।
तेनैवाभ्यासयोगेन तद् एवाभ्यसते पुनः ॥" इति ॥

एवं जीवानां कर्मवैचित्र्यं तत्कृतं जरायुजादिदेहवैचित्र्यं युज्यत एव ॥ ३.६८ ॥

ननु एवं सति ब्राह्मण एव कथंचिज् जीवव्यपदेश्यत्वात् तस्य च नित्यत्वादिधर्मत्वात् कथं "विष्णुमित्रो जातः" इति व्यवहार इत्य् आशङ्क्याह ।

निमित्तम् अक्षरः कर्ता बोद्धा ब्रह्म गुणी वशी ।
अजः शरीरग्रहणात् स जात इति कीर्त्यते ॥ या०ध०३.६९

सत्यम् आत्मा सकलजगत्प्रपञ्चाविर्भावेऽविद्यासमावेशवशात् समवाय्यसमवायिनिमित्तम् इत्य् एवं स्वयम् एव त्रिविधम् अपि कारणं न पुनः कार्यकोटिनिविष्टः । यस्माद् अक्षरोऽविनश्वरः ।

ननु सत्त्वादिगुणविकारस्य सुखदुःखमोहात्मकस्य कार्यभूते जगत्प्रपञ्चे दर्शनात् तद्गुणवत्याः प्रकृतेर् एव जगत्कर्तृतोचिता, न पुनर् निर्गुणस्य ब्रह्मणः ।

मैवं मंस्थाः । आत्मैव कर्ता । यस्माद् असौ जीवोपभोग्यसुखदुःखहेतुभूतादृष्टादेर् बोद्धा । न ह्य् अचेतनायाः प्रकृतेर् नामरूपव्याकृतविचित्रभोक्तृवर्गभोगानुकूलभोग्यभोगायतनादियोगिजगत्प्रपञ्चरचना घटते । तस्माद् आत्मैव कर्ता । तथा स एव ब्रह्म बृंहको विस्तारकः । न चासौ निर्गुणः । यतस् तस्य त्रिगुणशक्तिर् अविद्या प्रकृतिप्रधानाद्यपरपर्याया विद्यते । अतः स्वतो निर्गुणत्वेऽपि शक्तिमुखेन सत्त्वादिगुणयोगी कथ्यते । न चैतावता प्रकृतेः कारणता, यस्माद् आत्मैव वशी स्वतन्त्रः न प्रकृतिर् नाम स्वतन्त्रं तत्त्वान्तरं, तादृग्विधत्वे प्रमाणाभावात् । न च वचनीयं शक्तिरूपापि सैव कर्तृभूतेति । यतः शक्तिमत्कारकं न शक्तिः, तस्माद् आत्मैव जगतस् त्रिविधम् अपि कारणम् । तथा अज उत्पत्तिरहितः ।तस् तस्य यद्य् अपि साक्षाद् जननं नोपपद्यते तथापि शरीरग्रहणमात्रेण जात इत्य् उच्यते अवस्थान्तरयोगितयोत्पत्तेर् गृहस्थो जात इतिवत् ॥ ३.६९ ॥

शरीरग्रहणप्रकारम् आह ।

सर्गादौ स यथाकाशं वायुं ज्योतिर् जलं महीम् ।
सृजत्य् एकोत्तरगुणांस् तथादत्ते भवन्न् अपि ॥ या०ध०३.७०

सृष्टिसमये स परमात्मा यथाकाशादीन् शब्दैकगुणं गगनं शब्दस्पर्शगुणः पवनः शब्दस्पर्शरूपगुणं तेजः शब्दस्पर्शरूपरसगुणवद् उदकम् शब्दस्पर्शरूपरसगन्धगुणा जगतीत्य् एवम् एकोत्तरगुणान् सृजति । तथात्मा जीवभावम् आपन्नो भवन्न् उत्पद्यमानोऽपि स्वशरीरस्यारम्भकत्वेनापि गृह्णाति ॥ ३.७० ॥

कथं शरीरारम्भकत्वं पृथिव्यादीनाम् इत्य् अत आह ।

आहुत्याप्यायते सूर्यः सूर्याद् वृष्टिर् अथौषधिः ।
तद् अन्नं रसरूपेण शुक्रत्वम् अधिगच्छति ॥ या०ध०३.७१

यजमानैः प्रक्षिप्तयाहुत्या पुरोडाशादिरसेनाप्यायते सूर्यः । सूर्याच् च कालवशेन परिपक्वाज्यादिहवीरसाद् वृष्टिर् भवति । ततो व्रीह्याद्यौषधिरूपम् अन्नम् । तच् चान्नं सेवितं सत् रसरुधिरादिक्रमेण शुक्रशोनितभावम् आपद्यते ॥ ३.७१ ॥

ततः किम् इत्य् अत आह ।

स्त्रीपुंसयोस् तु संयोगे विशुद्धे शुक्रशोणिते ।
पञ्चधातून् स्वयं षष्ठ आदत्ते युगपत् प्रभुः ॥ या०ध०३.७२

ऋतुवेलायां स्त्रीपुंसयोर् योगे शुक्रं च शोणितं च शुक्रशोनितं तस्मिन् परस्परसंयुक्ते विशुद्धे "वातपित्तश्लेष्मदुष्टग्रन्थिपूयक्षीणमूत्रपुरीषगन्धरेतांस्य् अबीजानि" इति स्मृत्यन्तरोक्तदोषरहिते स्थित्वा पञ्चधातून् पृथिव्यादिपञ्चमहाभूतानि शरीरारम्भकतया स्वयं षष्टश् चिद्धातुर् आत्मा प्रभुः शरीरारम्भकारणादृष्टकर्मयोगितया समर्थो युगपद् आदत्ते योगायतनत्वेन स्वीकरोति । तथा च शारीरके "स्त्रीपुंसयोः संयोगे योनौ रजसाभिसंसृष्टं शुक्रं तत्क्षणम् एव सह भूतात्मना गुणैश् च सत्त्वरजस्तमोभिः सह वायुना प्रेर्यमाणं गर्भाशये तिष्ठति" इति (षुश्रुत ३.४) ॥ ३.७२ ॥

किं च ।

इन्द्रियाणि मनः प्राणो ज्ञानम् आयुः सुखं धृतिः ।
धारणा प्रेरणं दुःखम् इच्छाहंकार एव च ॥ या०ध०३.७३

प्रयत्न आकृतिर् वर्णः स्वरद्वेषौ भवाभवौ ।
तस्यैतद् आत्मजं सर्वम् अनादेर् आदिम् इच्छतः ॥ या०ध०३.७४

इन्द्रियाणि ज्ञानकर्मेन्द्रियाणि वक्ष्यमाणानि, । मनश् चोभयसाधारणम् । प्राणोऽपानो व्यान उदानः समान इत्य् एवं पञ्चवृत्तिभेदभिन्नः शारीरो वायुः प्राणः, ज्ञानम् अवगमः, आयुः कालविशेषावच्छिन्नं जीवनम्, सुखं निर्वृतिः, धृतिश् चित्तस्थैर्यम्, धारणा प्रज्ञा मेधा च, प्रेरणं ज्ञानकर्मेन्द्रियाणाम् अधिष्ठातृत्वम्, दुःखम् उद्वेगः, इच्छा स्पृहा, अहंकारोऽहंकृतिः, प्रयत्न उद्यमः, आकृतिर् आकारः, वर्णो गौरिमादिः, स्वरः षड्जगान्धारादिः, द्वेषो वैरम्, भवः पुत्रपश्वादिविभवः, अभवस् तद्विपर्ययः, तस्यानादेर् आत्मनो नित्यस्यादिम् इच्छतः शरीरं जिघृक्षमाणस्य सर्वम् एतद् इन्द्रियादिकम् आत्मजनितं प्राग्भवीयकर्मबीजजन्यम् इत्य् अर्थः ॥ ३.७४ ॥

संयुक्तशुक्रशोणितस्य कार्यरूपपरिणतौ क्रमम् आह ।

प्रथमे मासि संक्लेदभूतो धातुविमूर्छितः ।
मास्य् अर्बुदं द्वितीये तु तृतीयेऽङ्गेन्द्रियैर् युतः ॥ या०ध०३.७५

असौ चेतनः षष्तो धातुः धातुविमूर्च्छितो धातुषु पृथिव्यादिषु विमूर्च्छितो लोलीभूतः । क्षीरनीरवद् एकीभूर इति यावत् । प्रथमे गर्भमासे संक्लेदभूतो द्रवरूपतां प्राप्त एवावतिष्ठते, न कठिनतया परिणमते । द्वितीये मास्य् अर्बुदम् ईषत्कठिनमांसपिण्डरूपं भवति । अयम् अभिप्रायः । कौष्ठ्यपवनजठरदहनाभ्यां प्रतिदिनम् ईषदीषच्छोष्यमाणं शुक्रसंपर्कसंपादितद्रवीभावं भूतजातं त्रिंशद्भिर् दिनैः काठिन्यम् आपद्यत इति । तथाच सुश्रुते "द्वितीये शीतोष्णानिलैर् अभिपच्यमानो भूतसंघातो घनो जायते" (शारीर ३.१८) इति । तृतीये तु मास्य् अङ्गैर् इन्द्रियैश् च संयुक्तो भवति ॥ ३.७५ ॥

किं च ।

आकाशाल् लाघवं सौक्ष्म्यं शब्दं श्रोत्रं बलादिकम् ।
वायोश् च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यम् एव च ॥ या०ध०३.७६

पित्तात् तु दर्शनं पक्तिम् औष्ण्यं रूपं प्रकाशिताम् ।
रसात् तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम् ॥ या०ध०३.७७

भूमेर् गन्धं तथा घ्राणं गौरवं मूर्तिम् एव च ।
आत्मा गृह्णात्य् अजः सर्वं तृतीये स्पन्दते ततः ॥ या०ध०३.७८

आत्मा गृह्णातीति सर्वत्र संबध्यते । गगनाल् लघिमानं लङ्घनक्रियोपयोगिनम्, सौक्ष्म्यं सूक्ष्मेक्षित्वम्, शब्दं विषयम्, ष्रोत्रं श्रवणेन्द्रियम्, बलं दार्ढ्यम् । आदिग्रहणात् सुषिरत्वं विविक्ततां च, "आकाशाच् छब्दं श्रोत्रं विविक्ततां सर्वच्छिद्रसमूहांश् च" इति गर्भोपनिषद्दर्शनात् । पवनात् स्पर्शेन्द्रियम्, चेष्टां गमनागमनादिकाम्, व्यूहनम् अङ्गानां विविधं प्रसारणम्, रौक्ष्यं कर्कशत्वं चशब्दात् स्पर्शं च, पित्तात् तेजसो दर्शनं चक्षुरिन्द्रियम्, पक्तिं भुक्तस्यान्नस्य पचनम्, औष्ण्यम् उष्णस्पर्शत्वम् अङ्गानाम्, रूपं श्यामिकादि, प्रकाशितां भ्राजिष्णुताम् । तथा संतापामर्षादि च, "शौर्यामर्षतैक्ष्ण्यपक्त्यौष्ण्यभ्राजिष्णुतासंतापवर्णरूपेन्द्रियाणि तैजसानि" इति गर्भोपनिषद्दर्शनात् । एवं रसाद् उदकाद् रसनेन्द्रियम्, शैत्यम् अङ्गानां स्निग्धताम् मृदत्वसहितं, क्लेदम् आर्द्रताम्, तथा भूमेर् गन्धं घ्राणेन्द्रियं गरिमाणं मूर्तिं च । सर्वम् एतत् परमार्थतो जन्मरहितोऽप्य् आत्मा तृतीये मासि गृह्णाति । ततश् चतुर्थे मासि स्पन्दते चलति । तथा शारीरके (३.१८) : "तस्माच् चतुर्थे मासि चलनादाव् अभिप्रायं करोति" इति ॥ ३.७६ ॥ ३.७७ ॥ ३.७८ ॥

किं च ।

दौहृदस्याप्रदानेन गर्भो दोषम् अवाप्नुयात् ।
वैरूप्यं मरणं वापि तस्मात् कार्यं प्रियं स्त्रियाः ॥ या०ध०३.७९

गर्भस्यैकं हृदयं गर्भिण्याश् चापरम् इत्य् एवं द्विहृदया तस्याः स्त्रिया यद् अभिलषितं तत् द्वौहृदं, तस्याप्रदानेन गर्भो विरूपता मरणरूपं वा दोषं प्राप्नोति । तस्मात् तद्दोषपरिहारार्थं गर्भपुष्ट्यर्थं च गर्भिण्याः स्त्रियाः यत् प्रियम् अभिलषितं तत् संपादनीयम् । तथा च सुश्रुते : "द्विहृदयां नारीं दौहृदिनीम् आचक्षते, तद् अभिलषितं दद्यात्, वीर्यवन्तं चिरायुषं पुत्रं जनयति" (शारीर ३.१८) इति । तथा च व्यायामादिकम् अपि गर्भग्रहणप्रभृति तया परिहरणीयम्, "ततः प्रभृति व्यायामव्यवायातितर्पणदिवास्वप्नरात्रिजागरणशोकभययानारोहणवेगधारण-कुक्कुटासनशोणितमोक्षणानि परिहरेत्" (शारीर ३.१६) इति तत्रैवाभिधानात् । गर्भग्रहणं च श्रमादिभिर् लिङ्गैर् अवगन्तव्यम् । "सद्योगृहीतगर्भायाः श्रमो ग्लानिः पिपासा सक्थिसीदनं शुक्रशोणितयोर् अवबन्धः स्फुरणं च योनेः" (शारीर ३.१३) इत्यादि तत्रैवोक्तम् ॥ ३.७९ ॥

किं च ।

स्थैर्यं चतुर्थे त्व् अङ्गानां पञ्चमे शोणितोद्भवः ।
षष्ठे बलस्य वर्णस्य नखरोम्णां च संभवः ॥ या०ध०३.८०

तृतीये मासि प्रादुर्भूतस्याङ्गसङ्घस्य चतुर्थे मासि स्थैर्यं स्थेमा भवति । पञ्चमे लोहितस्योद्भव उत्पत्तिः । तथा षष्ठे बलस्य वर्णस्य कररुहरोम्णां च संभवः ॥ ३.८० ॥

किं च ।

मनश्चैतन्ययुक्तोऽसौ नाडीस्नायुशिरायुतः ।
सप्तमे चाष्टमे चैव त्वङ्मांसस्मृतिमान् अपि ॥ या०ध०३.८१

असौ पूर्वोक्तो गर्भः सप्तमे मासि मनसा चेतसा चेतनया च युक्तो नाडीभिर् वायुवाहिनीभिः स्नायुभिर् अस्थिबन्धनैः शिराभिर् वातपित्तश्लेष्मवाहिनीभिश् च संयुतः । तथाष्टमे मासि त्वचा मांसेन स्मृत्या च युक्तो भवति ॥ ३.८१ ॥

किं च ।

पुनर् धात्रीं पुनर् गर्भम् ओजस् तस्य प्रधावति ।
अष्टमे मास्य् अतो गर्भो जातः प्राणैर् वियुज्यते ॥ या०ध०३.८२

तस्याष्टममासिकस्य गर्भस्यौजः कश्चन गुणविशेषो धात्रीं गर्भं च प्रति पुनः पुनर् अतितरां चञ्चलतया शीघ्रं गच्छति । अतोऽष्टमे मासि जातो गर्भः प्राणैर् वियुज्यते । अनेनौजःस्थितिर् एव जीवनहेतुर् इति दर्शयति । ओजःस्वरूपं च स्मृत्यन्तरे दर्शितम् ।

"हृदि तिष्ठति यच् छुद्धम् ईषदुष्णं सपीतकम् ।
ओजः शरीरे संख्यातं तन् नाशान् नाशम् ऋच्छति ॥" इति ॥ ३.८२ ॥

किं च ।

नवमे दशमे वापि प्रबलैः सूतिमारुतैः ।
निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥ या०ध०३.८३

एवं करचरणचक्षुरादिपरिपूर्णाङ्गेन्द्रियो नवमे दशमे वापि मासे अपिशब्दात् प्राग् अपि सप्तमेऽष्टमे वा अत्यायासादिदोषवत्प्रबलसूतिहेतुप्रभञ्जनप्रेरितस्नाय्वस्थिचर्मादिनिर्मितवपुर्यन्त्रस्य छिद्रेण सूक्ष्मसुषिरेण सज्वरो दुःसहदुःखाभिभूयमानो निःसार्यते धनुर् यन्त्रेण सुधन्वप्रेरितो बाण इवातिवेगेन निर्गमसमनन्तरं च बाह्यपवनस्पृष्टो नष्टप्राचीनस्मृतिर् भवति, "जातः स वायुना स्पृष्टो न स्मरति पूर्वं जन्म मरणं कर्म च शुभाशुभम्" इति निरुक्तस्याष्टादशेऽभिधानात् ॥ ३.८३ ॥

कायस्वरूपं विवृण्वन्न् आह ।

तस्य षोढा शरीराणि षट् त्वचो धारयन्ति च ।
षडङ्गानि तथास्थ्नां च सह षष्ट्या शतत्रयम् ॥ या०ध०३.८४

तस्यात्मनो यानि जरायुजाण्डजशरीराणि तानि प्रत्येकं षट्प्रकाराणि रक्तादिषड्धातुपरिपाकहेतुभूतषडग्निस्थानयोगित्वेन । तथा ह्य् अन्नरसो जाठराग्निना पच्यमानो रक्ततां प्रतिपद्यते । रक्तं च स्वकोशस्थेनाग्निना पच्यमानं मांसत्वम् । मांसं च स्वकोशानलपरिपक्वं मेदस्त्वम् । मेदोऽपि स्वकोशवह्निना पक्वम् अस्थिताम् । अस्थ्य् अपि स्वकोशशिखिपरिपक्वं मज्जात्वम् । मज्जापि स्वकोशपावकपरिपच्यमानश् चरमधातुतया परिणमते । चरमधातोस् तु परिणतिर् नास्तीति स एवात्मनः प्रथमः कोशः । इत्य् एवं षट्कोशाग्नियोगित्वात् षट्प्रकारत्वं शरीराणां । अन्नरसरूपस्य तु प्रथमधातोर् अनियतत्वान् न तेन प्रकारान्तरत्वम् । तानि च शरीराणि षट् त्वचो धारयन्ति रक्तमांसमेदोऽस्थिमज्जाशुक्राख्याः षट् धातव एव रम्भास्तम्भत्वग् इव बाह्याभ्यन्तररूपेण स्थिताः त्वगिवाच्छादकत्वात् त्वचस् ताः षट् त्वचो धारयन्ति । तद् इदम् आयुर् वेदप्रसिद्धम् । तथाङ्गानि च षड् एव करयुग्मं चरणयुगलम् उत्तमाङ्गं गात्रम् इति । अस्थ्नां तु षष्टिसहितं शतत्रयम् उपरितनषट्श्लोक्या वक्ष्यमाणम् अवगन्तव्यम् ॥ ३.८४ ॥

किं च ।

स्थालैः सह चतुःषष्टिर् दन्ता वै विंशतिर् नखाः ।
पाणिपादशलाकाश् च तेषां स्थानचतुष्टयम् ॥ या०ध०३.८५

स्थालानि दन्तमूलप्रदेशस्थान्य् अस्थीनि द्वात्रिंशतैः सह द्वात्रिंशद्दन्ताश् चतुःषष्टिर् भवन्ति । नखाः करचरणरुहा विंशतिर् हस्तपादस्थानि शलाकाकाराण्य् अस्थीनि मणिबन्धस्योपरिवर्तीन्य् अङ्गुलिमूलस्थानि विंशतिर् एव । तेषां नखानां शलाकास्थ्नां च स्थानचतुष्टयं द्वौ चरणौ करौ चेत्य् एवम् अस्थ्नां चतुरुत्तरं शतम् ॥ ३.८५ ॥

किं च ।

षष्ट्य् अङ्गुलीनां द्वे पार्ष्ण्योर् गुल्फेषु च चतुष्टयम् ।
चत्वार्य् अरत्निकास्थीनि जङ्घयोस् तावद् एव तु ॥ या०ध०३.८६

विंशतिर् अङ्गुलयस् तासां एकैकस्यास् त्रीणि त्रीणीत्य् एवम् अङ्गुलिसंबन्धीन्य् अस्थीनि षष्टिर् भवन्ति । पादयोः पश्चिमौ भागौ पार्ष्णी, तयोर् अस्थीनि द्वे एकैकस्मिन् पादे गुल्फौ द्वाव् इत्य् एवं चतुर्षु गुल्फेषु चत्वार्य् अस्थीनि, बाह्वोर् अरत्निप्रमाणानि चत्वार्य् अस्थीनि, जङ्घयोस् तावद् एव चत्वार्य् एवेत्य् एवं चतुःसप्ततिः ॥ ३.८६ ॥

किं च ।

द्वे द्वे जानुकपोलोरुफलकांससमुद्भवे ।
अक्षतालूषके श्रोणीफलके च विनिर्दिशेत् ॥ या०ध०३.८७

जङ्घोरुसन्धिर् जानुः, कपोलो गल्लः, ऊरुः सक्थि तत्फलकं, अंसो भुजशिरः, अक्षः कर्णनेत्रयोर् मध्ये शङ्खाद् अधोभागः, तालूषकं काकुदं, श्रोणी ककुद्मती तत्फलकं, तेषाम् एकैकत्रास्थीनि द्वे द्वे विनिर्देशेद् इत्य् एवं चतुर्दशास्थीनि भवन्ति ॥ ३.८७ ॥

किं च ।

भगास्थ्य् एकं तथा पृष्ठे चत्वारिंशच् च पञ्च च ।
ग्रीवा पञ्चदशास्थिः स्याज् जत्र्व् एकैकं तथा हनुः ॥ या०ध०३.८८

गुह्यास्थ्य् एकं पृष्ठे पश्चिमभागे पञ्चचत्वारिंशद् अस्थीनि भवन्ति । ग्रीवा कंधरा सा पञ्चदशास्थिः स्यात् भवेत् । वक्षोंसयोः सन्धिर् जत्रु प्रतिजत्रु एकैकम् हनुश् चिबुकम् । तत्राप्य् एकम् अस्थीत्य् एवं चतुःषष्टिः ॥ ३.८८ ॥

किं च ।

तन्मूले द्वे ललाटाक्षिगण्डे नासा घनास्थिका ।
पार्श्वकाः स्थालकैः सार्धम् अर्बुदैश् च द्विसप्ततिः ॥ या०ध०३.८९

तस्य हनोर् मूलेऽस्थिनी द्वे । ललाटं भालं अक्षि चक्षुः गण्डः कपोलाक्षयोर् मध्यप्रदेशः, तेषां समाहारो ललाटाक्षिगण्डं, तत्र प्रत्येकम् अस्थियुगुलम् । नासा घनसंज्ञकास्थिमती । पार्श्वकाः कक्षाधःप्रदेशसंबन्धान्य् अस्थीनि तदाधारभूतानि स्थालकानि, तैः स्थालकैर् अर्बुदैश् चास्थिविशेषैः सह पार्श्वका द्विसप्ततिः । पूर्वोक्तैश् च नवभिः सार्धम् एकाशीतिर् भवन्ति ॥ ३.८९ ॥

किं च ।

द्वौ शङ्खकौ कपालानि चत्वारि शिरसस् तथा ।
उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥ या०ध०३.९०

भ्रूकर्णयोर् मध्यप्रदेशाव् अस्थिविशेषौ शङ्खकौ । शिरसः संबन्धीनि चत्वारि कपालानि । उरो वक्षस् तत् सप्तदशास्थिकम् इत्य् एवं त्रयोविंशतिः । पूर्वोक्तैश् च सह षष्ट्यधिकं शतत्रयम् इत्य् एवं पुरुषस्यास्थिसंग्रहः कथितः ॥ ३.९० ॥

सविषयाणि ज्ञानेन्द्रियाण्य् आह ।

गन्धरूपरसस्पर्शशब्दाश् च विषयाः स्मृताः ।
नासिका लोचने जिह्वा त्वक् श्रोत्रं चेन्द्रियाणि च ॥ या०ध०३.९१

एते गन्धादयो विषयाः पुरुषस्य बन्धनहेतवः, विषयशब्दस्य "षिञ् बन्धने" इत्य् अस्य धातोर् व्युत्पन्नत्वात् । एतैश् च गन्धादिभिर् बोध्यत्वेन व्यवस्थितैः स्वस्वगोचरसंवित्साधनतयानुमेयानि घ्राणादीनि पञ्चेन्द्रियाणि भवन्ति ॥ ३.९१ ॥

कर्मेन्द्रियाणि दर्शयितुम् आह ।

हस्तौ पायुर् उपस्थं च जिह्वा पादौ च पञ्च वै ।
कर्मेन्द्रियाणि जानीयान् मनश् चैवोभयात्मकम् ॥ या०ध०३.९२

हस्तौ प्रसिद्धौ, पायुर् गुदं, उपस्थं रतिसंपाद्यसुखसाधनं, जिह्वा प्रसिद्धा, पादौ च, एतानि हस्तादीनि पञ्च कर्मेन्द्रियाण्य् आदाननिर्हारानन्दव्याहारविहारादिकर्मसाधनानि जानीयात् । मनोऽन्तःकरणं युगपत् ज्ञानानुत्पत्तिगम्यं तच् च बुद्धिकर्मेन्द्रियसहकारितयोभयात्मकम् ॥ ३.९२ ॥

प्राणायतनानि दर्शयितुम् आह ।

नाभिर् ओजो गुदं शुक्रं शोणितं शङ्खकौ तथा ।
मूर्धांसकण्ठहृदयं प्राणस्यायतनानि तु ॥ या०ध०३.९३

नाभिप्रभृतीनि दश प्राणस्य स्थानानि । समाननाम्नः पवनस्य सकलाङ्गचारित्वेऽपि नाभ्यादिस्थानविशेषवाचोक्तिः प्राचुर्याभिप्राया ॥ ३.९३ ॥

प्राणायतनानि प्रपञ्चयितुम् आह ।

वपा वसावहननं नाभिः क्लोम यकृत् प्लिहा ।
क्षुद्रान्त्रं वृक्ककौ बस्तिः पुरीषाधानम् एव च ॥ या०ध०३.९४

आमाशयोऽथ हृदयं स्थूलान्त्रं गुद एव च ।
उदरं च गुदौ कोष्ठ्यौ विस्तारोऽयम् उदाहृतः ॥ या०ध०३.९५

वपा प्रसिद्धा, वसा मांसस्नेहः, अवहननं फुप्फुसः, नाभिः प्रसिद्धा, प्लीहा आयुर्वेदप्रसिद्धा, तौ च मांसपिण्डाकारौ स्तः सव्यकुक्षिगतौ । यकृत् कालिका, क्लोम मांसपिण्डस् तौ च दक्षिणकुक्षिगतौ, क्षुद्रान्त्रं हृत्स्थान्त्रम्, वृक्ककौ हृदयसमीपस्थौ मांसपिण्डौ, बस्तिर् मूत्राशयः, पुरीषाधानं पुरीषाशयः, आमाशयोऽपक्वान्नस्थानम्, हृदयं हृत्पुण्डरीकम्, स्थूलान्त्रगुदोदराणि प्रसिद्धानि, बाह्याद् गुदवलयाद् अन्तर्गुदवलये द्वे, तौ च गुदौ कौष्ठ्यौ कोष्टे नाभेर् अधःप्रदेशे भवौ । अयं च प्राणायतनस्य विस्तार उक्तः । पूर्वश्लोके तु संक्षेपः । अत एव पूर्वश्लोकोक्तानां केषांचिद् इह पाठः ॥ ३.९४ ॥ ३.९५ ॥

पुनः प्राणायतनप्रपञ्चार्थम् आह ।

कनीनिके चाक्षिकूटे शष्कुली कर्णपत्रकौ ।
कर्णौ शङ्खौ भ्रुवौ दन्तवेष्टाव् ओष्ठौ ककुन्दरे ॥ या०ध०३.९६

वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातजौ स्तनौ ।
उपजिह्वा स्फिजौ बाहू जङ्घोरुषु च पिण्डिका ॥ या०ध०३.९७

तालूदरं बस्तिशीर्षं चिबुके गलशुण्डिके ।
अवटश् चैवम् एतानि स्थानान्य् अत्र शरीरके ॥ या०ध०३.९८

अक्षिकर्णचतुष्कं च पद्धस्तहृदयानि च ।
नव छिद्राणि तान्य् एव प्राणस्यायतनानि तु ॥ या०ध०३.९९

कनीनिके अक्षितारके, अक्षिकूटे अक्षिनासिकयोः सन्धी, शष्कुली कर्णशष्कुली, कर्णपत्रकौ कर्णपाल्यौ, कर्णौ प्रसिद्धौ, दन्तवेष्टौ दन्तपाल्यौ, ओष्ठौ प्रसिद्धौ, कुक्न्दरे जघनकूपकौ, वङ्क्षणौ जघनोरुसंधी, वृक्कौ पूर्वोक्तौ, स्तनौ च श्लेष्मसंघातजौ, उपजिह्वा घण्टिका, स्फिजौ कटिप्रोथौ, बाहू प्रसिद्धौ, जङ्घोरुषु च पिण्डिका गङ्घ्योर् ऊर्वोश् च पिण्डिका मांसलप्रदेशः, गलशुण्डिके हनुमूलगल्लयोः सन्धी, शीर्षं शिरः, अवटः शरीरे यः कश्चन निम्नो देशः कण्ठमूलकक्षादिः । अवटुर् इति पाठे कृकाटिका । तथाक्ष्णोः कनीनिकयोः प्रत्येकं श्वेतं पार्श्वद्वयम् इति वर्णचतुष्टयम् । यद् वा अक्षिपुटचतुष्टयम् । शेषं प्रसिधम् । एवम् एतानि कुत्सिते शरीरे स्थानानि । तथाक्षियुगुलं कर्णयुग्मं । नासाविवरद्वयम् आस्यं पायुर् उपस्थम् इत्य् एतानि पूर्वोक्तानि नव च्छिद्राणि च प्राणस्यायतनान्य् एव ॥ ३.९६-९९ ॥

किं च ।

शिराः शतानि सप्तैव नव स्नायुशतानि च ।
धमनीनां शते द्वे तु पञ्च पेशीशतानि च ॥ या०ध०३.१००

शिरा नाभिसंबद्धाश् चत्वारिंशत्संख्या वातपित्तश्लेष्मवाहिन्यः सकलकलेवरव्यापिन्यो नानाशाखिन्यः सत्यः सप्तशतसंख्या भवन्ति । तथाङ्गप्रत्यङ्गसंधिबन्धनाः स्नायवो नवशतानि । धमन्यो नाम नाभेर् उद्भूताश् चतुर्विंशतिसंख्याः प्राणादिवायुवाहिन्यः शाखाभेदेन द्विशतं भवन्ति । पेश्यः पुनर् मांसलाकारा ऊरुपिण्डकाद्यङ्गप्रत्यङ्गसंधिन्यः पञ्चशतानि भवन्ति ॥ ३.१०० ॥

पुनश् चासाम् एव शिरादीनां शाखाप्राचुर्येण संख्यान्तरम् आह ।

एकोनत्रिंशल् लक्षाणि तथा नव शतानि च ।
षट्पञ्चाशच् च जानीत सिरा धमनिसंज्ञिताः ॥ या०ध०३.१०१

शिराधमन्यो मिलिताः शाखोपशाखाभेदेन एकोनत्रिंशल् लक्षाणि नवशतानि षट्पञ्चाशच् च भवन्तीत्य् एवं हे सामश्रवःप्रभृतयः मुनयो जानीत ॥ ३.१०१ ॥

किं च ।

त्रयो लक्षास् तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम् ।
सप्तोत्तरं मर्मशतं द्वे च संधिशते तथा ॥ या०ध०३.१०२

शरीरिणां श्मश्रूणि केशाश् च मिलिताः सन्तस् त्रयो लक्षा विज्ञेयाः । मर्माणि मरणकराणि क्लेशकराणि च स्थानानि तेषां सप्तोत्तरं शतं ज्ञेयम् । अस्थ्नां तु द्वे सन्धिशते स्नायुशिरादिसन्धयः पुनर् अनन्ताः ॥ ३.१०२ ॥

सकलशरीरसुषिरादिसंख्याम् आह ।

रोम्णां कोट्यस् तु पञ्चाशच् चतस्रः कोट्य एव च ।
सप्तषष्टिस् तथा लक्षाः सार्धाः स्वेदायनैः सह ॥ या०ध०३.१०३

वायवीयैर् विगण्यन्ते विभक्ताः परमाणवः ।
यद्य् अप्य् एकोऽनुवेत्त्य् एषां भावनां चैव संस्थितिम् ॥ या०ध०३.१०४

पूर्वोदितशिराकेशादिसहितानां रोम्णां परमाणवः सूक्ष्मसूक्ष्मतररूपा भागाः स्वेदस्रवणसुषिरैः सह चतुःपञ्चाशत्कोट्यः तथा सप्तोत्तरषष्टिलक्षाः सार्धाः पञ्चाशत्सहस्रसहिताः वायवीयैर् विभक्ताः पवनपरमाणुभिः पृथक्कृता विगण्यन्ते । एतच् एतच् च शास्त्रदृष्ट्याभिहितम् । चक्षुरादिकरणपथगोचरत्वाभावाद् अस्यार्थस्य । इमम् अतिगहनम् अर्थं शिरादिभावसंस्थानरूपं हे मुनयः भवतां मध्ये यः कश्चिद् अनुवेत्ति सोऽपि महान् अग्र्यो बुद्धिमताम् । अतो यत्नतो बुद्धिमता बोद्धव्या भावसंस्थितिः ॥

शरीररसादिपरिमाणम् आह ।

रसस्य नव विज्ञेया जलस्याञ्जलयो दश ।
सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः ॥ या०ध०३.१०५

षट् श्लेष्मा पञ्च पित्तं तु चत्वारो मूत्रम् एव च ।
वसा त्रयो द्वौ तु मेदो मज्जैकोर्ध्वम् तु मस्तके ॥ या०ध०३.१०६

श्लेष्मौजसस् तावद् एव रेतसस् तावद् एव तु ।
इत्य् एतद् अस्थिरं वर्ष्म यस्य मोक्षाय कृत्य् असौ ॥ या०ध०३.१०७

सम्यक्परिणताहारस्य सारो रसस् तस्य परिमाणं नवाञ्जलयः । पार्थिवपरमाणुसंश्लेषनिमित्तस्य जलस्याञ्जलयो दश विज्ञेयाः । पुरीषस्य वर्चस्कस्य सप्तैव । रक्तस्य जाठरानलपरिपाकापादितलौहित्यस्यान्नरसस्याष्टाव् अञ्जलयः प्रकीर्तिताः । श्लेष्मणः कफस्य षड् अञ्जलयः । पित्तस्य तेजसः पञ्च । मूत्रस्योच्चारणस्य चत्वारः । वसाया मांसस्नेहस्य त्रयः । मेदसो मांसरसस्य द्वाव् अञ्जली । मज्जा त्व् अस्थिगतसुषिरगतस् तस्यैकोऽञ्जलिः । मस्तके पुनर् अर्धाञ्जलिः मज्जा श्लेष्मौजसः श्लेष्मसारस्य । तथा रेतसश् चरमधातोस् तावद् एवार्धाञ्जलिर् एव । एतच् च समधातुपुरुषाभिप्रायेणोक्तम् । विषमधातोस् तु न नियमः,

"वैलक्षण्याच् छरीराणाम् अस्थायित्वात् तथैव च ।
दोषधातुमलानां च परिमाणं न विद्यते ॥"

इत्य् आयुर्वेदस्मरणात् । इतीदृशम् अस्थिस्नाय्वाद्यारब्धम् एतद् अशुचिनिधानं वर्ष्मास्थिरम् इति यस्य बुद्धिर् असौ कृती पण्डितो मोक्षाय समर्थो भवति, वैराग्यनित्यानित्यविवेकयोर् मोक्षोपायत्वात्, अस्थिमूत्रपुरीषादिप्राचुर्यज्ञानस्य वैराग्यहेतुत्वात् । अत एव व्यासः ।

"सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः ।
शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥
यदि नामास्य कायस्य यद् अन्तस् तद् बहिर् भवेत् ।
दण्डमादाय लोकोऽयं शुनः काकांश् च वारयेत् ॥" इति ।

तस्माद् ईदृशकुत्सितशरीरस्यात्यन्तिकविनिवृत्त्यर्थम् आत्मोपासने प्रयतितव्यम् ॥ ३.१०५-१०७ ॥

उपासनीयात्मस्वरूपम् आह ।

द्वासप्ततिसहस्राणि हृदयाद् अभिनिःसृताः ।
हिताहिता नाम नाड्यस् तासां मध्ये शशिप्रभम् ॥ या०ध०३.१०८

मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः ।
स ज्ञेयस् तं विदित्वेह पुनर् आजायते न तु ॥ या०ध०३.१०९

हृदयप्रदेशाद् अभिनिःसृताः कदम्बकुसुमकेसरवत् सर्वतो निर्गता हिताहितकरत्वेन हिताहितेति संज्ञा द्वासप्ततिसहस्राणि नाड्यो भवन्ति । अपरास् तिस्रो नाड्यस् तासाम् इडापिङ्गलाख्ये द्वे नाड्यौ सव्यदक्षिणपार्ष्वगते हृदि विपर्यस्ते नासाविवरसंबद्धे प्राणापानायतने । सुषुम्नाख्या पुनस् तृतीया दण्डवन् मध्ये ब्रह्मरन्ध्रविनिर्गता । तासां नाडीनां मध्ये मण्डलं चन्द्रप्रभं तस्मिन्न् आत्मा निर्वातस्थदीप इवाचलः प्रकाशमान आस्ते स एवंभूतो ज्ञातव्यः । यतस् तत्साक्षात् करणाद् इह संसारे न पुनः संसरत्य् अमृतत्वं प्राप्नोति ॥ ३.१०८ ॥ ३.१०९ ॥

किं च ।

ज्ञेयं चारण्यकम् अहं यद् आदित्याद् अवाप्तवान् ।
योगशास्त्रं च मत्प्रोक्तं ज्ञेयं योगम् अभीप्सता ॥ या०ध०३.११०

चित्तवृत्तेर् विषयान्तरतिरस्कारेणात्मनि स्थैर्यं योगस् तत्प्राप्त्यर्थं बृहदारण्यकाख्यम् आदित्याद् यन् मया प्राप्तं तच् च ज्ञातव्यम् । तथा यन् मयोक्तं योगशास्त्रं तद् अपि ज्ञातव्यम् ॥ ३.११० ॥

कथं पुनर् असाव् आत्मा ध्येय इत्य् अत आह

अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् ।
ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत् प्रभुः ॥ या०ध०३.१११

आत्मव्यतिरिक्तविषयेभ्यो मनोबुद्धिस्मृतीन्द्रियाणि प्रत्याहृत आत्मैकविषयाणि कृत्वा आत्मा ध्येयः । योऽसौ प्रभुर् निर्वातस्थप्रदीपवद् दीप्यमानो निष्प्रकम्पो हृदि तिष्ठति । एतद् एव तस्य ध्येयत्वं यच् चित्तवृत्तेर् बहिर्विषयावभासतिरस्कारेणात्मप्रवणता नाम शरावसंपुटनिरुद्धप्रभाप्रतानप्रसरस्यैव प्रदीपस्यैकनिष्ठत्वम् ॥ ३.१११ ॥

यस्य पुनश् चित्तवृत्तिर् निराकारालम्बनतया समाधौ नाभिरमते तेन शब्दब्रह्मोपासनं कार्यम् इत्य् आह ।

यथाविधानेन पठन् सामगायम् अविच्युतम् ।
सावधानस् तदभ्यासात् परं ब्रह्माधिगच्छति ॥ या०ध०३.११२

स्वाध्यायावगतमार्गानतिक्रमेण सामगायं सामगानम् । साम्नो गानात्मकत्वेऽपि गायम् इति विशेषणं प्रगीतमन्त्रव्युदासार्थम् । अविच्युतम् अस्खलितं सावधानं सामध्वन्यनुस्यूतात्मैकाग्रचित्तवृत्तिः पठंस् तदभ्यासवशात् तत्र निष्णातः शब्दाकारशून्योपासनेन परं ब्रह्माधिगच्छति । तद् उक्तम् :

"शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ।" इति ॥ ३.११२ ॥

यस्य पुनर् वैदिक्यां गीतौ चित्तं नाभिरमते तेन लौकिकगीतानुस्मृतात्मोपासनं कार्यम् इत्य् आह ।

अपरान्तकम् उल्लोप्यं मद्रकं प्रकरीं तथा ।
औवेणकं सरोबिन्दुम् उत्तरं गीतकानि च ॥ या०ध०३.११३

ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका ।
गेयम् एतत् तदभ्यासकरणान् मोक्षसंज्ञितम् ॥ या०ध०३.११४

अपरान्तकोल्लोप्यमद्रकप्रकर्यौवेणकानि सरोबिन्दुसहितं चोत्तरम् इत्य् एतानि प्रकराख्यानि सप्त गीतकानि । चशब्दाद् आसारितवर्धमानकादिमहागीतानि गृह्यन्ते । ऋग्गाथाद्याश् चतस्रो गीतिका इत्य् एतद् अपरान्तकादिगीतजातम् अध्यारोपितात्मभावं मोक्षसाधनत्वान् मोक्षसंज्ञितं मन्तव्यम्, तदभ्यासस्यैकाग्रतापादनद्वारेणात्मैकग्रतापत्तिकारणत्वात् ॥ ३.११३ ॥ ३.११४ ॥

किं च ।

वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः ।
तालज्ञश् चाप्रयासेन मोक्षमार्गं नियच्छति ॥ या०ध०३.११५

भरतादिमुनिप्रतिपादितवीणावादनतत्त्ववेदी । श्रूयत इति श्रुतिः द्वाविंशतिविधा सप्तस्वरेषु । तथा हि । षड्जमध्यमपञ्चमाः प्रत्येकं चतुःश्रुतयः ऋषभधैवतौ प्रत्येकं त्रिश्रुती गान्धारनिषादौ प्रत्येकं द्विश्रुती इति । जातयस् तु षड्जादयः सप्त शुद्धाः संकरजातयस् त्व् एकादशेत्य् एवम् अष्टादशविधास्, तासु विशारदः प्रवीणः । ताल इति गीतपरिमाणं कथ्यते । तत्स्वरूपज्ञश् च तदनुविद्धब्रह्मोपासनतया तालादिभङ्गभयाच् चित्तवृत्तेर् आत्मैकाग्रतायाः सुकरत्वाद् अल्पायासेनैव मुक्तिपथं नियच्छति प्राप्नोति ॥ ३.११५ ॥

चित्तविक्षेपाद्यन्तरायहतस्य गीतज्ञस्य फलान्तरम् आह ।

गीतज्ञो यदि योगेन नाप्नोति परमं पदम् ।
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ या०ध०३.११६

गीतज्ञो यदि कथंचिद् योगेन परमं पदं नाप्नोति, तर्हि रुद्रस्य सचिवो भूत्वा तेनैव सह मोदिते क्रीडति ॥ ३.११६ ॥

पूर्वोक्तम् उपसंहरति ।

अनादिर् आत्मा कथितस् तस्यादिस् तु शरीरकम् ।
आत्मनस् तु जगत् सर्वं जगतश् चात्मसंभवः ॥ या०ध०३.११७

प्रागुक्तरीत्या अनादिर् आत्मा क्षेत्रज्ञस् तस्य च शरीरग्रहणम् एवादिर् उद्भवः कथितः "अजः शरीरग्रहणाद्" या०ध० ३.६९) इत्य् अत्र । परमात्मनश् च सकाशात् पृथिव्यादिसकलभुवनोद्भवः तस्माद् उद्भूताच् च पृथिव्यादिभूतसंघाताज् जीवानां स्थूलशरीरतायां संभवश् च कथितः "सर्गादौ स यथाकाशम्" (या०ध० ३.७०) इत्यादिना ॥ ३.११७ ॥

एतद् एव प्रश्नपूर्वकं विवृणोति ।

कथम् एतद् विमुह्यामः सदेवासुरमानवम् ।
जगदुद्भूतम् आत्मा च कथं तस्मिन् वदस्व नः ॥ या०ध०३.११८

यद् एतत् सकलसुरासुरमनुजादिसहितं जगत् तद् आत्मनः सकाशात् कथम् उत्पन्नम्, आत्मा च तस्मिन् जगति कथं तिर्यङ्नरसरीसृपादिशरीरभाग् भवतीत्य् एतस्मिन्न् अर्थे विमुह्यामः । अतो मोहापनुत्त्यर्थम् अस्माकं विस्तरशो वदस्व ॥ ३.११८ ॥

एवं मुनिभिः पृष्टः प्रत्युत्तरम् आह ।

मोहजालम् अपास्येह पुरुषो दृश्यते हि यः ।
सहस्रकरपन्नेत्रः सूर्यवर्चाः सहस्रकः ॥ या०ध०३.११९

स आत्मा चैव यज्ञश् च विश्वरूपः प्रजापतिः ।
विराजः सोऽन्नरूपेण यज्ञत्वम् उपगच्छति ॥ या०ध०३.१२०

इह जगति यद् इदं स्थूलकलेवरादाव् अनात्मन्य् आत्माभिमानरूपं मोहजालं तद् अपास्य तद्व्यतिरिक्तो यः पुरुषोऽनेककरचरणलोचनः सूर्यवर्चा अनन्तरश्मिः सहस्रकः बहुशिरा दृश्यते । एतच् च तत्तद्गोचरशक्त्याधारतयोच्यते, तस्य साक्षात्कारादिसंबन्धाभावात् । स एवात्मा यज्ञः प्रजापतिश् च । यतोऽसौ विश्वरूपः सर्वात्मकः । वैश्वरूप्यम् एव कथम् इति चेत्, यस्माद् असौ विराजः पुरोडाशाद्यन्नरूपेण यज्ञत्वम् उपगच्छति । यज्ञाच् च वृष्ट्यादिद्वारेण प्रजासृष्टिर् इत्य् एवं वैश्वरूप्यम् ॥ २.११९ ॥ २.१२० ॥

एतद् एव प्रपञ्चयति ।

यो द्रव्यदेवतात्यागसम्भूतो रस उत्तमः ।
देवान् संतर्प्य स रसो यजमानं फलेन च ॥ या०ध०३.१२१

संयोज्य वायुना सोमं नीयते रश्मिभिस् ततः ।
ऋग्यजुःसामविहितं सौरं धामोपनीयते ॥ या०ध०३.१२२

खमण्डलाद् असौ सूर्यः सृजत्य् अमृतम् उत्तमम् ।
यज्जन्म सर्वभूतानाम् अशनानशनात्मनाम् ॥ या०ध०३.१२३

तस्माद् अन्नात् पुनर् यज्ञः पुनर् अन्नं पुनः क्रतुः ।
एवम् एतद् अनाद्यन्तं चक्रं सम्परिवर्तते ॥ या०ध०३.१२४

द्रव्यस्य चरुपुरोडाशादेर् देवतोद्देशेन त्यागाद् यो रसोऽदृष्टरूपम् आत्मनः परिणत्यन्तरम् उत्तमः सकलजगज्जन्मबीजतयोत्कृष्टतमः संभूतः, स देवान् संप्रदानकारकभूतान् सम्यक् प्रीणयित्वा, यजमानं चाभिलषितफलेन संयोज्य, पवनेन प्रेर्यमाणश् चन्द्रमण्डलं प्रति नीयते । ततः शशिमण्डलाद् रश्मिभिर् भानुमण्डलम् । सैषा त्रय्य् एव विद्या तपतीत्य् अभेदाभिधानात्, ऋग्यजुःसाममयं प्रत्य् उपनीयते । ततश् च स्वमण्डलाद् असौ सूर्योऽमृतरसं वृष्टिरूपम् उत्तमं यत् सकलभूतानाम् अशनानशनात्मनां चराचराणां जनननिमित्तं तत् सृजति । तस्माद् वृष्टिसंपादितौषधिमयात् प्रजोत्पत्तिहेतोर् अन्नात् पुनर् यज्ञो यज्ञाच् च पूर्वाभिहितभङ्ग्या पुनर् अन्नं अन्नाच् च पुनः क्रतुर् इत्य् एवम् एतद् अखिलं संसारचक्रं प्रवाहरूपेणोत्पत्तिविनाशविरहितं सम्यक् परिवर्तत इत्य् अनेन क्रमेणात्मनः सकाशाद् अखिलजगदुत्पत्तिः । तत्र चात्मनः स्वकर्मानुरूपविग्रहपरिग्रहः ॥ ३.१२१-१२४ ॥

ननु यद्य् आत्मनः संसरणम् अनाद्यन्तं तर्ह्य् अनिर्मुक्तिप्रसङ्गः, इत्य् अत आह ।

अनादिर् आत्मा संभूतिर् विद्यते नान्तरात्मनः ।
समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः ॥ या०ध०३.१२५

यद्य् अप्य् आत्मनोऽनादित्वात् संभूतिर् न विद्यते अन्तरात्मनः शरीरव्यापिनः, तथापि पुरुषः शरीरेण समवायी भवति भोगायतने सुखदुःखात्मकं भोग्यजातम् उपभुङ्क्ते इत्य् एवंभूतेन संबन्धेन संबन्धी भवत्य् एव । स च समवायो मोहेच्छाद्वेषजनितकर्मनिर्मेयो न तु निसर्गजातः । तस्य कार्यत्वेन विनाशोपपत्तेर् नानिर्मुक्तिः ॥ ३.१२५ ॥

आत्मनो जगज्जन्मेत्य् उक्तम्, तत्प्रपञ्चयितुम् आह ।

सहस्रात्मा मया यो व आदिदेव उदाहृतः ।
मुखबाहूरुपज्जाः स्युस् तस्य वर्णा यथाक्रमम् ॥ या०ध०३.१२६

पृथिवी पादतस् तस्य शिरसो द्यौर् अजायत ।
नस्तः प्राणा दिशः श्रोत्रात् स्पर्शाद् वायुर् मुखाच् छिखी ॥ या०ध०३.१२७

मनसश् चन्द्रमा जातश् चक्षुषश् च दिवाकरः ।
जघनाद् अन्तरिक्षं च जगच् च सचराचरम् ॥ या०ध०३.१२८

योऽसौ सकलजीवात्मकतया प्रपञ्चात्मकतया च सहस्रात्मा बहुरूपस् तथा सकलजगद्धेतुतया आदिदेवो मया युष्माकम् उदाहृतः तस्य वदनभुजसक्थिचरणजाता यथाक्रमम् अग्रजन्मादयश् चत्वारो वर्णाः । तथा तस्य पादाद् भूमिर् मस्तकात् सुरसद्म घ्राणात् प्राणः कर्णात् ककुभः स्पर्शात् पवनो वदनाद् धुतवहः मनसः शशाङ्कः नेत्राद् भानुः जघनाद् गगनं जङ्गमाजङ्गमात्मकं जगच् च ॥ ३.१२६-१२८ ॥

अत्र चोदयन्ति ।

यद्य् एवं स कथं ब्रह्मन् पापयोनिषु जायते ।
ईश्वरः स कथं भावैर् अनिष्टैः सम्प्रयुज्यते ॥ या०ध०३.१२९

हे ब्रह्मन् योगीश्वर, यद्य् आत्मैव जीवादिभावं भजते तर्हि कथम् असौ पापयोनिषु मृगपक्ष्यादिषु जायते । अथ मोहरागद्वेषादिदोषदुष्टत्वात् तत्र जन्मेत्य् उच्यते । तच् च न । यस्माद् ईश्वरः स्वतन्त्रः कथम् अनिष्टैर् मोहरागादिभावैः संयुज्यते ॥ ३.१२९ ॥

किं च ।

करणैर् अन्वितस्यापि पूर्वं ज्ञानं कथं च न ।
वेत्ति सर्वगतां कस्मात् सर्वगोऽपि न वेदनाम् ॥ या०ध०३.१३०

तथेदम् अप्य् अत्र दूषणम् । मनःप्रभृतिज्ञानोपायैः सहितस्यापि तस्यात्मनः पूर्वज्ञानं जन्मान्तरानुभूतविषयं कस्मान् नोत्पद्यते । तथा सर्वप्राणिगतां वेदनां सुखदुःखादिरूपां स्वयं सर्वगोऽपि सर्वदेहगतोऽपि कस्मान् न वेत्ति । तस्माद् आत्मैवेश्वरो जीवादिभावं भजत इत्य् अयुक्तम् ॥ ३.१३० ॥

तत्र पूर्वचोद्यस्योत्तरम् आह ।

अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः ।
दोषैः प्रयाति जीवोऽयं भवं योनिशतेषु च ॥ या०ध०३.१३१

यद्य् अपीश्वरः स्वरूपेण सत्यज्ञानानन्दलक्षणः तथाप्य् अविद्यासमावेशवशान् मोहरागादिभावैर् अभिभूयमानो नानाहीनयोनिजननसाधनं मानसादित्रिविधं कर्मनिचयम् आचरति । तेन चान्त्यजादिहीनयोनिताम् आपद्यते । अन्त्याश् चण्डालादयः पक्षिणः काकादयः स्थावरा वृक्षादयः तेषां भावोऽन्त्यपक्षिस्थावरता तां यथाक्रमेण मनोवाक्कायारब्धकर्मदोषैर् जन्मसहस्रेष्व् अयम् जीवः प्राप्नोति ॥ ३.१३१ ॥

किं च ।

अनन्ताश् च यथा भावाः शरीरेषु शरीरिणाम् ।
रूपाण्य् अपि तथैवेह सर्वयोनिषु देहिनाम् ॥ या०ध०३.१३२

शरीरिणां जीवानां शरीरेषु भावा अभिप्रायविशेषाः सत्त्वाद्युद्रेकतारतम्याद् यथानन्तास् तथा तत्कार्याण्य् अपि कुब्जवामनत्वादीनि रूपाणि देहिनां सर्वयोनिषु भवन्ति ॥ ३.१३२ ॥

ननु यदि कर्मजन्यानि कुब्जत्वादीनि तर्हि कर्मानन्तरम् एव तैर् भवितव्यम्, इत्य् आशङ्क्याह ।

विपाकः कर्मणां प्रेत्य केषांचिद् इह जायते ।
इह वामुत्र वैकेषां भावस् तत्र प्रयोजनम् ॥ या०ध०३.१३३

केषांचिज् ज्योतिष्टोमादिकर्मणां विपाकः फलं प्रेत्य देहान्तरे भवति । केषांचित् कारीर्यादिकर्मणां वृष्ट्यादिफलम् इहैव भवति । केषांचिच् चित्रादीनां फलं पश्चादिकम् इह देहान्तरे वेत्य् अनियतम् । न ह्य् अनन्तरम् एव कर्मफलेन भवितव्यम् इति शास्त्रार्थः । अत्र च कर्मणां शुभाशुभफलजनकत्वे सत्त्वादिभाव एव प्रयोजकभूतस् तदायत्तत्वात् फलतारतम्यस्य ॥ ३.१३३ ॥

मनोवाक्कायकर्मजैर् अन्त्यादियोनीः प्राप्नोतीत्य् उक्तं, तत् प्रपञ्चयितुम् आह ।

परद्रव्याण्य् अभिध्यायंस् तथानिष्टानि चिन्तयन् ।
वितथाभिनिवेशी च जायतेऽन्त्यासु योनिषु ॥ या०ध०३.१३४

परधनानि कथम् अहम् अपहरेयम् इत्याभिमुक्ज्येन ध्यायंस्, तथानिष्टानि ब्रह्महत्यादीनि हिंसात्मकानि करिष्यामीति चिन्तयन्, वितथे असत्यभूते वस्तुन्य् अभिनिवेशः पुनः पुनः संकल्पस् तद्वांश् च श्वचण्डालाद्यन्त्ययोनिषु जायते ॥ ३.१३४ ॥

किं च ।

पुरुषोऽनृतवादी च पिशुनः परुषस् तथा ।
अनिबद्धप्रलापी च मृगपक्षिषु जायते ॥ या०ध०३.१३५

यस् त्व् अनृतवदनशीलः पुरुषः पिशुनः कर्णेजपः पुरुषः परोद्वेगकरभाष्य् अनिबद्धप्रलापी प्रकृतासङ्गतार्थवादी च बुद्धिपूर्वाबुद्धिपूर्वादितारतम्याद् धीनोत्कृष्टेषु मृगपक्षिषु जायते ॥ ३.१३५ ॥

किं च ।

अदत्तादाननिरतः परदारोपसेवकः ।
हिंसकश् चाविधानेन स्थावरेष्व् अभिजायते ॥ या०ध०३.१३६

अदत्तादाननिरतोऽदत्तपरधनापहारप्रसक्तः परदारप्रसक्तश् च अविहितमार्गेण प्राणिनां घातकश् च दोषगुरुलघुभावतारतम्यात् तरुलताप्रतानादिस्थावरेषु जायते ॥ ३.१३६ ॥

सत्त्वादिगुणपरिपाकम् आह ।

आत्मज्ञः शौचवान् दान्तस् तपस्वी विजितेन्द्रियः ।
धर्मकृद् वेदविद्यावित् सात्त्विको देवयोनिताम् ॥ या०ध०३.१३७

आत्मज्ञो विद्याधनाभिजनाद्यभिमानरहितः शौचवान् बाह्याभ्यन्तरशौचयुक्तः दान्त उपशमान्वितः तपस्वी कृच्छ्रादितपोयुक्तः तथेन्द्रियार्थेष्व् अप्रसक्तः नित्यनैमित्तिकधर्मानुष्ठाननिरतः वेदार्थवेदी च यः सात्त्विकः स च सत्त्वोद्रेकतारतम्यवशाद् उत्कृष्टोत्कृष्टतरसुरयोनितां प्राप्नोति ॥ ३.१३७ ॥

किं च ।

असत्कार्यरतोऽधीर आरम्भी विषयी च यः ।
स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥ या०ध०३.१३८

असत्कार्येषु तूर्यवादित्रनृत्यादिष्व् अभिरतो यस् तथा अधीरो व्यग्रचित्त आरम्भी सदा कार्याकुलो विषयेष्व् अतिप्रसक्तश् च स रजोगुणयुक्तः तद्गुणतारतम्याद् धीनोत्कृष्टमनुष्यजातिषु मरणानन्तरम् उत्पत्तिं प्राप्नोति ॥ ३.१३८ ॥

तथा चSeltur ओमित्स् : च. ।

निद्रालुः क्रूरकृल् लुब्धो नास्तिको याचकस् तथा ।
प्रमादवान् भिन्नवृत्तो भवेत् तिर्यक्षु तामसः ॥ या०ध०३.१३९

यः पुनर् निद्राशीलः प्राणिपीडाकरो लोभयुक्तश् च तथा नास्तिको धर्मादेर् निन्दकः याचनशीलः प्रमादवान् कार्याकार्यविवेकशून्यः विरुद्धाचारश् च असौ तमोगुणयुक्तस् तत्तारतम्याद् धीनहीनतरपश्वादियोनिषु जायते ॥ ३.१३९ ॥

पूर्वोक्तम् उपसंहरति ।

रजसा तमसा चैवं समाविष्टो भ्रमन्न् इह ।
भावैर् अनिष्टैः संयुक्तः संसारं प्रतिपद्यते ॥ या०ध०३.१४०

एवम् अविद्याविद्धोऽयम् आत्मा रजस्तमोभ्यां सम्यग् आविष्ट इह संसारे पर्यटन् नानाविधदुःखप्रदैर् भावैर् अभिभूतः पुनः पुनः संसारं देहग्रहणं प्राप्नोति । इतीश्वरः स कथं भावैर् अनिष्टैः संप्रयुज्यत इत्य् अस्य चोद्यस्यानवकाशः ॥ ३.१४० ॥

यद् अपि "करणैर् अन्वितस्यापि" (या०ध० ३.१३०) इति द्वितीयं चोद्यं तस्योत्तरम् आह ।

मलिनो हि यथा आदर्शो रूपालोकस्य न क्षमः ।
तथाविपक्वकरण आत्मज्ञानस्य न क्षमः ॥ या०ध०३.१४१

यद्य् अप्य् आत्मा अन्तःकरणादिज्ञानसाधनसंपन्नस् तथापि जन्मान्तरानुभूतार्थावबोधे न समर्थोऽविपक्वकरणो रागादिमलाक्रान्तचित्तो यस्मात् । यथा दर्पणो मलछन्नो रूपज्ञानोत्पादनसमर्थो न भवति ॥ ३.१४१ ॥

ननु प्राग्भवीयज्ञानस्याप्य् आत्मप्रकाशित्वात् तस्य च स्वतःसिद्धत्वान् नानुपलम्भो युक्तः, इत्य् आशङ्क्याह ।

कट्वेर्वारौ यथापक्वे मधुरः सन् रसोऽपि न ।
प्राप्यते ह्य् आत्मनि तथा नापक्वकरणे ज्ञता ॥ या०ध०३.१४२

अपक्वे कट्वेर्वारौ तिक्तकर्कटिकायां विद्यमानोऽपि मधुरो रसो यथा नोपलभ्यते तथात्मन्य् अपक्वकरणे विद्यमानापि ज्ञता ज्ञातृता प्राग्भवीयवस्तुगोचरता न प्राप्यते ॥ ३.१४२ ॥

"वेत्ति सर्वगतां कस्मात् सर्वगोऽपि न वेदनाम्" (या०ध० ३.१३०) इति यद् उक्तं तत्रोत्तरम् आह ।

सर्वाश्रयां निजे देहे देही विन्दति वेदनाम् ।
योगी मुक्तश् च सर्वासां यो न चाप्नोति वेदनाम् ॥ या०ध०३.१४३

यः पुनर् देही देहाभिमानयुक्तः स सर्वाश्रयाम् आध्यात्मिकादिरूपां वेदनां स्वकर्मोपार्जित एव देहे प्राप्नोति न देहान्तरगतां भोगायतनारम्भादृष्टवैलक्षण्याद् एव । यस् तु योगी मुक्तो मुक्ताहंकारादिः सकलक्षेत्रगतानां सुखदुःखादिसंविदां वेदिता भवति परिपक्वकरणत्वात् ॥ ३.१४३ ॥

ननु एकस्मिन्न् आत्मनि सुरनरादिदेहेषु भेदप्रत्ययो न घटते, इत्य् आशङ्क्याह ।

आकाशम् एकं हि यथा घटादिषु पृथग् भवेत् ।
तथात्मा एको ह्य् अनेकश् च जलाधारेष्व् इवांशुमान् ॥ या०ध०३.१४४

यथैकम् एव गगनं कूपकुम्भाद्युपाधिभेदभिन्नं नानेवानुभूयते, यथा वा भानुर् एकोऽपि भिन्नेषु जलभाजनेषु करकमणिकमल्लिकादिषु नानेवानुभूयते, तथैकोऽप्य् आत्मा अन्तःकरणोपाधिभेदेन नाना प्रतीयते । द्वितीयदृष्टान्तोपादानम् आत्मभेदस्यापारमार्थिकत्वद्योतनार्थम् ॥ ३.१४४ ॥

"पञ्चधातून् स्वयं षष्ट आदत्ते युगपत् प्रभुः" (या०ध० ३.७२) इत्याद्युक्तम् अर्थम् उपसंहृत्याह ।

ब्रह्मखानिलतेजांसि जलं भूश् चेति धातवः ।
इमे लोका एष चात्मा तस्माच् च सचराचरम् ॥ या०ध०३.१४५

ब्रह्म आत्मा, खं गगनम्, अनिलो वायुः, तेजोऽग्निः, जलं प्रसिद्धं, भूश् चेत्य् एते वातादिधातव एव शरीरं व्याप्य धारयन्तीति धातवोऽभिधीयन्ते । तत्र खादयः पञ्च धातवः लोक्यन्ते दृश्यन्ते इति लोकाः । जडा इति यावत् । एष चिद्धातुर् आत्मा एतस्माज् जडाजडसमुदायात् स्थावरजङ्गमात्मकं जगद् उत्पद्यते ॥ ३.१४५ ॥

कथम् असाव् आत्मा जगत् सृजतीत्य् आह ।

मृद्दण्डचक्रसंयोगात् कुम्भकारो यथा घटम् ।
करोति तृणमृत्काष्ठैर् गृहं वा गृहकारकः ॥ या०ध०३.१४६

हेममात्रम् उपादाय रूपं वा हेमकारकः ।
निजलालासमायोगात् कोशं वा कोशकारकः ॥ या०ध०३.१४७

कारणान्य् एवम् आदाय तासु तास्व् इह योनिषु ।
सृजत्य् आत्मानम् आत्मा च सम्भूय करणानि च ॥ या०ध०३.१४८

यथा हि कुलालो मृच्चक्रचीवरादिकं कारणजातम् उपादाय करकशरावादिकं नानाविधकार्यजातं रचयति । यथा वा वर्धकिस् तृणमृत्काष्ठैः परस्परसापेक्षैः एकं गृहाख्यं कार्यं करोति । यथा वा हेमकारकः केवलं हेमोपादाय हेमानुगतम् एव कटकमुकुटकुण्डलादिकार्यम् उत्पादयति । यथा वा कोशकारकः कीटविशेषो निजलालयारब्धम् आत्मबन्धनं कोशाख्यम् आरभते तथात्मापि पृथिव्यादीनि साधनानि परस्परसापेक्षाणि तथा करणान्य् अपि श्रोत्रादीन्य् उपादाय अस्मिन् संसारे तासु तासु सुरादियोनिषु स्वयम् एवात्मानं निजकर्मबन्धबद्धं शरीरितया सृजति ॥ ३.१४६-१४८ ॥

किं पुनर् वैषयिकज्ञानेन्द्रियव्यतिरिक्तात्मसद्भावे प्रमाणम्, इत्य् आशङ्क्याह ।

महाभूतानि सत्यानि यथात्मापि तथैव हि ।
कोऽन्यथैकेन नेत्रेण दृष्टम् अन्येन पश्यति ॥ या०ध०३.१४९

वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम् । या०ध०३.१५०अब्

यथा हि पृथिव्यादिमहाभूतानि सत्यानि प्रमाणागम्यत्वात् तथात्मापि सत्यः । अन्यथा यदि बुद्धीन्द्रियव्यतिरिक्तो ज्ञाता ध्रुवो न स्यात् तर्हि एकेन चक्षुरिन्द्रियेण दृष्टं वस्तु अन्येन स्पर्शनेन्द्रियेण को विजानाति "यम् अहम् अद्राक्षं तम् अहं स्पृशामि" इति । तथा कस्यचित् पुरुषस्य वाचं पूर्वं श्रुत्वा पुनः श्रूयमाणां वाचं तस्य वाग् इयम् इति कः प्रत्यभिजानाति । तस्मात् ज्ञानेन्द्रियातिरिक्तो ज्ञाता ध्रुव इति सिद्धम् ॥ ॥ ३.१४९ ॥

किं च ।

अतीतार्थस्मृतिः कस्य को वा स्वप्नस्य कारकः ॥ या०ध०३.१५०च्द्

जातिरूपवयोवृत्तविद्यादिभिर् अहंकृतः ।
शब्दादिविषयोद्योगं कर्मणा मनसा गिरा ॥ या०ध०३.१५१

यद्य् आत्मा ध्रुवो न स्यात् तर्ह्य् अनुभूतार्थगोचरा स्मृतिः पूर्वानुभवभावितसंस्कारोद्बोधनिबन्धना कस्य भवेत्? न ह्य् अन्येन दृष्टे वस्तुन्य् अन्यस्य स्मृतिर् उपपद्यते । तथा कः स्वप्नज्ञानस्य कारकः? न हीन्द्रियाणाम् उपरतव्यापाराणां तत्कारकत्वम् । तथाहम् एवाभिजनत्वादिसंपन्न इत्य् एवंविधोऽनुसंधानप्रत्ययः कस्य भवति स्थिरात्मव्यतिरिक्तस्य? तथा शब्दस्पर्शादिविषयोपभोगसिद्ध्यर्थम् उद्योगं मनोवाक्कायैः कः कुर्यात्? तस्माद् अपि बुद्धीन्द्रियव्यतिरिक्त आत्मा स्थितः ॥ ३.१५० ॥ ३.१५१ ॥

उपासनाविशेषविध्यर्थं संसारस्य रूपं विवृण्वन्न् आह ।

स संदिग्धमतिः कर्मफलम् अस्ति न वेति वा ।
विप्लुतः सिद्धम् आत्मानम् असिद्धोऽपि हि मन्यते ॥ या०ध०३.१५२

योऽसौ पूर्वोक्त आत्मा विप्लुतोऽहंकारदूषितः स सकलकर्मसु फलम् अस्ति न वेति संदिग्धमतिर् भवति । तथासिद्धोऽप्य् अकृतार्थोऽपि सिद्धम् एव कृतार्थम् आत्मानं मन्यते ॥ ३.१५२ ॥

किं च ।

मम दाराः सुतामात्या अहम् एषाम् इति स्थितिः ।
हिताहितेषु भावेषु विपरीतमतिः सदा ॥ या०ध०३.१५३

तस्य विप्लुतमतेर् मम कलत्रपुत्रप्रेष्यादयोऽहम् एषाम् इत्य् अतीव ममताकुलस्थितिर् भवति । तथा हिताहितकरे कार्यप्रकरे स विप्लुतमतिर् विपरीतमतिः सदा भवेत् ॥ ३.१५३ ॥

किं च ।

ज्ञेयज्ञे प्रकृतौ चैव विकारे चाविशेषवान् ।
अनाशकानलाघातजलप्रपतनोद्यमी ॥ या०ध०३.१५४

एवंवृत्तोऽविनीतात्मा वितथाभिनिवेशवान् ।
कर्मणा द्वेषमोहाभ्याम् इच्छया चैव बध्यते ॥ या०ध०३.१५५

ज्ञेयं जानातीति ज्ञेयज्ञस् तस्मिन्न् आत्मनि प्रकृतौ चात्मनो गुणसाम्यावस्थायां विकारे चाहंकारादाव् अविशेषवान् विवेकानभिज्ञो भवति । तथानशनहुताशनाम्बुप्रवेशविषाशनादिषु विप्लववशात् कृतप्रयत्नो भवेत् । एवं नानाप्रकाराकार्यप्रवृत्तोऽविनीतात्मासंयतात्मा असत्कार्याभिनिवेशयुक्तः सन् तत्कृतकर्मजातेन रागद्वेषाभ्यां मोहेन च बध्यते ॥ ३.१५४ ॥ ३.१५५ ॥

शरीरग्रहणद्वारेण कथं पुनस् तस्य विस्रम्भो भवतीत्य् अत आह ।

आचार्योपासनं वेदशास्त्रार्थेषु विवेकिता ।
तत्कर्मणाम् अनुष्ठानं सङ्गः सद्भिर् गिरः शुभाः ॥ या०ध०३.१५६

स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् ।
त्यागः परिग्रहाणां च जीर्णकाषायधारणम् ॥ या०ध०३.१५७

विषयेन्द्रियसंरोधस् तन्द्रालस्यविवर्जनम् ।
शरीरपरिसंख्यानं प्रवृत्तिष्व् अघदर्शनम् ॥ या०ध०३.१५८

नीरजस्तमसा सत्त्वशुद्धिर् निःस्पृहता शमः ।
एतैर् उपायैः संशुद्धः सत्त्वयोग्य् अमृतीभवेत् ॥ या०ध०३.१५९

विद्यार्थम् आचार्यसेवा, वेदान्तार्थेषु पातञ्जलादियोगशास्त्रार्थेषु च विवेकित्वम्, तत्प्रतिपादितध्यानकर्मणाम् अनुष्ठानम्, सत्पुरुषसण्गः प्रियहितवचनत्वम्, ललनालोकनालम्भयोः परित्यागः, सर्वभूतेष्व् आत्मवद् दर्शनं समत्वदर्शनम्, परिग्रहाणां च पुत्रक्षेत्रकलत्रादीनां त्यागः, जीर्णकाषायधारणम्, तथा शब्दस्पर्शादिविषयेषु श्रोत्रादीन्द्रियाणां प्रवृत्तिनिरोधः, तन्द्रा निद्रानुकारिणी, आलस्यम् अनुत्साहः तयोर् विशेषेण त्यागः, शरीरस्य परिसंख्यानम् अस्थिराशुचित्वादिदोषानुसंधानम्, तथा सकलगमनादिषु प्रवृत्तिषु सूक्ष्मप्राणिवधादिदोषपरामर्शः, तथा रजस्तमोविधुरता प्राणायामादिभिर् भावशुद्धिः, निःस्पृहता विषयेष्व् अनभिलाषः, शमो बाह्यान्तःकरणसंयमः, एतैर् आचार्योपासनादिभिर् उपायैः सम्यक् शुद्धः, केवलसत्त्वयुक्तो ब्रह्मोपासनेनामृती भवेत् मुक्तो भवति ॥ ३.१५६-१५९ ॥

कथम् अमृतत्वप्राप्तिर् इत्य् अत आह ।

तत्त्वस्मृतेर् उपस्थानात् सत्त्वयोगात् परिक्षयात् ।
कर्मणां संनिकर्षाच् च सतां योगः प्रवर्तते ॥ या०ध०३.१६०

आत्माख्यतत्त्वस्मृतेर् आत्मनि निश्चलतयोपस्थानात् सत्त्वशुद्धियोगात् केवलसत्त्वगुणयोगात् कर्मबीजानां परिक्षयात् सत्पुरुषाणां च संबन्धाद् आत्मयोगः प्रवर्तते ॥ ३.१६० ॥

किं च ।

शरीरसंक्षये यस्य मनः सत्त्वस्थम् ईश्वरम् ।
अविप्लुतमतिः सम्यक् स जातिसंस्मरताम् इयात् ॥ या०ध०३.१६१

यस्य पुनर् योगिनोऽविप्लुतमतेः शरीरसंक्षयसमये मनः सत्त्वयुक्तं सम्यग् एकाग्रतयेश्वरं प्रति व्याप्रियते स यद्य् उपासनाप्रयोगाप्रवीणतयात्मानं नाधिगच्छति तर्हि विशिष्टसंस्कारपाटववशेन जात्यन्तरानुभूतकृमिकीटादिनानागर्भवासादिसमुद्भूतदुःखस्मरत्वं प्राप्नुयात् । तत्समरणेन च जातोद्वेगतस् तद्विच्छेदकारिणि मोक्षे प्रवर्तते ॥ ३.१६१ ॥

यस् त्व् अपटुसंस्कारतया पूर्वं जातिं न स्मरति तस्य का गतिर् इत्य् अत्राह ।

यथा हि भरतो वर्णैर् वर्णयत्य् आत्मनस् तनुम् ।
नानारूपाणि कुर्वाणस् तथात्मा कर्मजास् तनूः ॥ या०ध०३.१६२

भरतो नटः स यथा रामरावणादिनानारूपाणि कुर्वाणः सितासितपीतादिभिर् वर्णैर् आत्मनस् तनुं वर्णयति रचयति तथैवात्मा तत्तत्कर्मफलोपभोगार्थं कुब्जवामनादिनानारूपाणि कर्मनिमित्तानि कलेवराण्य् आदत्ते ॥ ३.१६२ ॥

किं च ।

कालकर्मात्मबीजानां दोषैर् मातुस् तथैव च ।
गर्भस्य वैकृतं दृष्टम् अङ्गहीनादि जन्मनः ॥ या०ध०३.१६३

न केवलं कर्मैव कुब्जवामनत्वादिनिमित्तं किं तु कालकर्मणि स्वकारणपितृबीजदोषो मातृदोषश् चेति सर्वम् एतत् सहकारिकारणम् । एतेन दृष्टादृष्टस्वरूपेण कारणकलापेन गर्भस्याङ्गहीनत्वादिविकारो जन्मन आरभ्यानियतकालो दृष्टः ॥ ३.१६३ ॥

ननु प्राकृतिकप्रलयावसरे महदाद्यखिलविकारविनाशे कर्मणो नाशात् कथं तन्निबन्धनः प्रथमपिण्डपरिग्रहः, इत्य् आशङ्क्याह ।

अहंकारेण मनसा गत्या कर्मफलेन च ।
शरीरेण च नात्मायं मुक्तपूर्वः कथंचन ॥ या०ध०३.१६४

मनोऽहंकारौ प्रसिद्धौ । गतिः संसरणहेतुभूतो दोषराशिः । कर्मफलं धर्माधर्मरूपम् । शरीरं लिङ्गात्मकं एतैर् अहंकारादिभिर् अयम् आत्मा कदाचिद् अपि न मुच्यते यावन् मोक्षः ॥ ३.१६४ ॥

ननु प्रतिनियतकर्मणां जीवानां प्रतिनियतकालम् एवोपरतिर् युक्ता न पुनः संग्रामादौ युगपद् अकाले प्राणसंक्षयः, इत्य् आशङ्क्याह ।

वर्त्याधारस्नेहयोगाद् यथा दीपस्य संस्थितिः ।
विक्रियापि च दृष्टैवम् अकाले प्राणसंक्षयः ॥ या०ध०३.१६५

यथा हि खलु तैलक्लिन्नानेकवर्तिवर्तिनीनां नानाज्वालानां युगपत्संस्थितिः तासां च स्थितानां तदुत्तरं दोधूयमानपवनाहतिरूपविपत्तिहेतूपनिपातयौगपद्याद् युगपदुपरतिर् यथा भवति तथैव रथिसारथिवाजिकुञ्जरादिजीवानां युद्धाख्योपरतिहेतुयौगपद्याद् अकालेऽपि प्राणपरिक्षयो नानुपपन्नः । एतद् उक्तं भवति । प्रतिनियतकालविपत्तिहेतुभूतादृष्टस्य तद्विरुद्धकार्यकरदृष्टहेतूपनिपातेन प्रतिबन्ध इति ॥ ३.१६५ ॥

मोक्षमार्गम् आह ।

अनन्ता रश्मयस् तस्य दीपवद् यः स्थितो हृदि ।
सितासिताः कर्बुरूपाः कपिला नीललोहिताः ॥ या०ध०३.१६६

ऊर्ध्वम् एकः स्थितस् तेषां यो भित्त्वा सूर्यमण्डलम् ।
ब्रह्मलोकम् अतिक्रम्य तेन याति परां गतिम् ॥ या०ध०३.१६७

योऽसौ हृदि प्रदीपवत् स्थितो जीवस् तस्यानन्ता रश्मयो नाड्यः सुखदुःखहेतुभूताः द्वासप्ततिसहस्राणीत्यादिनोक्ताः सितासितकर्बुरादिरूपाः सर्वतः स्थितास् तेषाम् एको रश्मिर् ऊर्ध्वं व्यवस्थितः योऽसौ मार्तण्डमण्डलं निर्भिद्य हिरण्यगर्भनिलयं चातिक्रम्य वर्तते तेन जीवः परां गतिम् अपुनरावृत्तिलक्षणां प्राप्नोति ॥ ३.१६७ ॥

यद् अस्यान्यद् रश्मिशतम् ऊर्ध्वम् एव व्यवस्थितम् ।
तेन देवशरीराणि सधामानि प्रपद्यते ॥ या०ध०३.१६८

यद् अस्यात्मनो मुक्तिमार्गभूताद् रश्मेर् अन्यद् रश्मिशतम् ऊर्ध्वाकारम् एव व्यवस्थितं तेन सुरशरीराणि तैजसानि सुखैकभोगाधिकरणानि सधामानि कनकरजतरत्नरचितामरपुरसहितानि प्रपद्यते ॥ ३.१६८ ॥

संसरणमार्गम् आह ।

येऽनेकरूपाश् चाधस्ताद् रश्मयोऽस्य मृदुप्रभाः ।
इह कर्मोपभोगाय तैः संसरति सोऽवशः ॥ या०ध०३.१६९

ये पुनस् तस्याधस्ताद् रश्मयो मृदुप्रभास् तैर् इह फलोपभोगार्थं संसारे संसरत्य् अवशः स्वकृतकर्मपरतन्त्रः ॥ ३.१६९ ॥

भूतचैतन्यवादिपक्षं परिजिहीर्षुर् आह ।

वेदैः शास्त्रैः सविज्ञानैर् जन्मना मरणेन च ।
आर्त्या गत्या तथागत्या सत्येन ह्य् अनृतेन च ॥ या०ध०३.१७०

श्रेयसा सुखदुःखाभ्यां कर्मभिश् च शुभाशुभैः ।
निमित्तशाकुनज्ञानग्रहसंयोगजैः फलैः ॥ या०ध०३.१७१

तारानक्षत्रसंचारैर् जागरैः स्वप्नजैर् अपि ।
आकाशपवनज्योतिर्जलभूतिमिरैस् तथा ॥ या०ध०३.१७२

मन्वन्तरैर् युगप्राप्त्या मन्त्रौषधिफलैर् अपि ।
वित्तात्मानं वेद्यमानं कारणं जगतस् तथा ॥ या०ध०३.१७३

वेदैः "स एष नेति नेत्य् आत्मा" (बृ०उ० ४.४.२२) इति, "अस्थूलम् अनण्व् अह्रस्वम्" (बृ०उ० ३.८.८), "अपाणिपादम्" (मु०उ०ू १.१.६) इत्यादिभिः, शास्त्रैश् च मीमांसान्वीक्षिक्यादिभिः, विज्ञानैश् च "ममेदं शरीरम्" इत्यादिदेहव्यतिरिक्तात्मानुभवैः, तथा जन्ममरणाभ्यां जन्मान्तरानुष्ठितधर्माधर्मनियताभ्यां देहातिरिक्तात्मानुमानम्, आर्त्या जन्मान्तरगतकर्मानुष्ठातृनियतया, तथा गमनागमनाभ्यां ज्ञानेच्छाप्रयत्नाधारनियताभ्याम् अपि भौतिकदेहातिरिक्तात्मानुमानम् । न हि देहस्य चैतन्यादि संभवति । यतः कारणगुणप्रोक्तक्रमेण कार्यद्रव्ये वैशेषिकगुणारम्भो दृष्टः । न च तत्कारणभूतपार्थिवपरमाण्वादिषु चैतन्यादिसमवायः संभवति, तदारब्धस्तम्भकुम्भादिभौतिकेष्व् अनुपलम्भात् । न च मदशक्तिवद् उदकादिद्रव्यान्तरसंयोगज इति वाच्यम्, शक्तेः साधारणगुणत्वात् । अतो भौतिकदेहातिरिक्तश् चैतन्यादिसमवाय्य् अङ्गीकर्तव्यः । सत्यानृते प्रसिद्धे । श्रेयो हितप्राप्तिः । सुखदुःखे आमुष्मिके । तथा शुभकर्मानुष्ठानम् अशुभकर्मपरित्यागः । एतैश् च ज्ञाननियतैर् देहातिरिक्तात्मानुमानम् । निमित्तं भूकम्पादि । शाकुनज्ञानं पिङ्गलादिपतत्त्रिचेष्टालिङ्गकं ज्ञानम् । ग्रहाः सूर्यादयः तत्संयोगजैः फलैः । तारा अश्विन्यादिव्यतिरिक्तानि ज्योतींषि नक्षत्राण्य् अश्वयुक्प्रभृतीनि, एतेषां संचारैः शुभाशुभफलद्योतनैः, जागरैर् जागरावस्थाजन्यैश् च सच्छिद्रादित्यादिदर्शनैः, तथा स्वप्नजैः खरवराहयुक्तरथारोहणादिज्ञानैः, तथा आकाशाद्यैश् च जीवोपभोगार्थतया सृष्टैः, तथा मन्वन्तरप्राप्त्या युगान्तरप्राप्त्या देहेऽनुपपद्यमानतया तथा मन्त्रौषधिबलैः प्रेक्षापूर्वकैः क्षुद्रकर्माद्यैः साक्षात् परम्परया वा देहेऽनुपपद्यमानैर् वेद्यमानं हे मुनयः वित्त जानीत ॥ ३.१७०-१७३ ॥

किं च ।

अहंकारः स्मृतिर् मेधा द्वेषो बुद्धिः सुखं धृतिः ।
इन्द्रियान्तरसंचार इच्छा धारणजीविते ॥ या०ध०३.१७४

स्वर्गः स्वप्नश् च भावानां प्रेरणं मनसो गतिः ।
निमेषश् चेतना यत्न आदानं पाञ्चभौतिकम् ॥ या०ध०३.१७५

यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः ।
तस्माद् अस्ति परो देहाद् आत्मा सर्वग ईश्वरः ॥ या०ध०३.१७६

अहंकृतिर् अहंकारः, स्मृतिः प्राग्भवीयानुभवभावितसंस्कारोद्बोधनिबन्धना स्तन्यपानादिगोचरा, सुखम् ऐहिकम्, द्ःर्तिर् धैर्यम्, इन्द्रियान्तरेण हि दृष्टेऽर्थे इन्द्रियान्तरस्य संचारो "यम् अहम् अद्राक्षं तम् अहं स्पृशामि" इत्येवमनुसन्धानरूप इन्द्रियान्तरसंचारः । अत्र इच्छाप्रयत्नचैतन्यानां स्वरूपेण लिङ्गत्वम् । पूर्वश्लोके तु गमनसत्यवचनादिहेतुतया आर्थिकं लिङ्गत्वम् इत्य् अपौनरुक्त्यम् । तथा धारणं शरीरस्य, जीवितं प्राणधारणम्, स्वर्गो नियतदेहान्तरोपभोग्यः सुखविशेषः, स्वप्नः प्रसिद्धः । पूर्वश्लोके तु स्वप्नस्य शुभफलद्योतनाय लिङ्गत्वं अत्र स्वरूपेणेत्य् अपौनरुक्त्यम् । तथा भावानाम् इन्द्रियादीनां प्रेरणम्, मनसो गतिश् चेतनाधिष्ठानव्याप्ता, निमेषः प्रसिद्धः, तथा पञ्चभूतानाम् उपादानम् । यस्माद् एतानि लिङ्गानि भूतेष्व् अनुपपन्नानि साक्षात् परम्परया वा परमात्मनो द्योतकानि दृश्यन्ते तस्माद् अस्ति देहातिरिक्त आत्मा सर्वग ईश्वर इति सिद्धम् ॥ ३.१७४-१७६ ॥

क्षेत्रज्ञस्वरूपम् आह ।

बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च ।
अहंकारश् च बुद्धिश् च पृथिव्यादीनि चैव हि ॥ या०ध०३.१७७

अव्यक्तम् आत्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते ।
ईश्वरः सर्वभूतस्थः सन्न् असन् सद् असच् च यः ॥ या०ध०३.१७८

बुद्धीन्द्रियाणि श्रोत्रादीनि सार्थानि शब्दादिविषयसहितानि मनः कर्मेन्द्रियाणि वागादीनि तथाहंकारो बुद्धिश् च निश्चयात्मिका पृथिव्यादीनि पञ्चभूतान्य् अव्यक्तं प्रकृतिर् इत्य् एतत् क्षेत्रम् अस्य योऽसाव् ईश्वरः सर्वगतः, अत एव सद्रूपः, प्रमाणान्तराग्राह्यत्वात् । असन् अस्पष्टप्रतीतिकत्वात् । सदसद्रूपोऽसाव् आत्मा क्षेत्रज्ञ इति निगद्यते ॥ ३.१७७ ॥ ३.१७८ ॥

बुद्ध्यादेर् उत्पत्तिम् आह ।

बुद्धेर् उत्पत्तिर् अव्यक्तात् ततोऽहंकारसंभवः ।
तन्मात्रादीन्य् अहंकाराद् एकोत्तरगुणानि च ॥ या०ध०३.१७९

सत्त्वादिगुणसाम्यम् अव्यक्तम् । ततस् त्रिप्रकारायाः सत्त्वरजस्तमोमय्या बुद्धेर् उत्पत्तिः तस्याश् च वैकारिकस् तैजसो भूतादिर् इति त्रिविधोऽहंकार उत्पद्यते । तत्र तामसाद् भूतादिसंज्ञकाद् अहंकारात् तन्मात्राण्य् आदिग्रहणाद् गगनादीनि तानि चैकोत्तरगुणान्य् उत्पद्यन्ते । चशब्दाद् वैकारिकतैजसाभ्यां बुद्धिकर्मेन्द्रियाणाम् उत्पत्तिः ॥ ३.१७९ ॥

गुणस्वरूपम् आह ।

शब्दः स्पर्शश् च रूपं च रसो गन्धश् च तद्गुणाः ।
यो यस्मान् निःसृतश् चैषां स तस्मिन्न् एव लीयते ॥ या०ध०३.१८०

तेषां गगनादिपञ्चभूतानाम् एकोत्तरवृद्ध्या पञ्च शब्दादयो गुणा वेदितव्याः । एषां च बुद्ध्यादिविकाराणां मध्ये यो यस्मात् प्रकृत्यादेर् उत्पन्नः स तस्मिन्न् एव सूक्ष्मरूपेण प्रलयसमये प्रलीयते ॥ ३.१८० ॥

प्रकरणार्थम् उपसंहरन्न् आह ।

यथात्मानं सृजत्य् आत्मा तथा वः कथितो मया ।
विपाकात् त्रिप्रकाराणां कर्मणाम् ईश्वरोऽपि सन् ॥ या०ध०३.१८१

सत्त्वं रजस् तमश् चैव गुणास् तस्यैव कीर्तिताः ।
रजस्तमोभ्याम् आविष्टश् चक्रवद् भ्राम्यते ह्य् असौ ॥ या०ध०३.१८२

अनादिर् आदिमांश् चैव स एव पुरुषः परः ।
लिङ्गेन्द्रियग्राह्यरूपः सविकार उदाहृतः ॥ या०ध०३.१८३

मानसादित्रिप्रकारकर्मणां विपाकाद् ईश्वरोऽपि सन्न् आत्मा यथात्मानं सृजति तथा युष्माकं कथितः । सत्त्वाद्याश् च गुणास् तस्यैवाविद्याविशिष्टस्य कीर्तिताः । तथा स एव रजस्तमोभ्याम् आविष्टश् चक्रवद् इह संसारे भ्राम्यतीत्य् अपि कथितम् । स एवानादिः परमपुरुषः शरीरग्रहणेनादिमान् कुब्जवामनादिविकारसहितस् तथा स्थूलाकारतया परिणतो लिङ्गैर् इन्द्रियैश् च ग्राह्यस्वरूप उदाहृतः ॥ ३.१८१-१८३ ॥

स्वर्गमार्गम् आह ।

पितृयानोऽजवीथ्याश् च यद् अगस्त्यस्य चान्तरम् ।
तेनाग्निहोत्रिणो यान्ति स्वर्गकामा दिवं प्रति ॥ या०ध०३.१८४

अजवीथ्य् अमरमार्गः तस्यागस्त्यस्य च यद् अन्तरम् असौ पितृयानस् तेनाग्निहोत्रिणः स्वर्गकामाः दिवं यान्ति स्वर्गं प्राप्नुवान्ति ॥ ३.१८४ ॥

किं च ।

ये च दानपराः सम्यग् अष्टाभिश् च गुणैर् युताः ।
तेऽपि तेनैव मार्गेण सत्यव्रतपरायणाः ॥ या०ध०३.१८५

ये च दानादिस्मार्तकर्मपराः सम्यग् दम्भरहिताः तथाष्टाभिर् आत्मगुणैर् "दया क्षान्तिर् अनसूया शौचम् अनायासो मङ्गलम् अकार्पण्यम् अस्पृहा" (गौ०ध० ८.२३) इति गौतमादिप्रतिपादितैर् युक्ताः । तथा ये च सत्यवदननिरतास् तेऽपि तेनैव पितृयानेनैव सुरसदनम् आप्नुवन्ति ॥ ३.१८५ ॥

ननु नैमित्तिकादिप्रतिसंचरेऽखिलाध्यापकप्रलयाद् अविदितवेदास् तस्योपरितना जनाः कथम् अग्निहोत्रादिकं कर्म करिष्यन्ति कथंतरां चाकृतकर्माणः स्वर्गमार्गम् अधिरोक्ष्यन्ति, इत्य् अत आह ।

तत्राष्टाशीतिसाहस्रा मुनयो गृहमेधिनः ।
पुनरावर्तिनो बीजभूता धर्मप्रवर्तकाः ॥ या०ध०३.१८६

तत्र पितृयानेऽष्टाशीतिसहस्रसंख्या मुनयो गृहस्थाश्रमिणः पुनरावृत्तिधर्माणः सर्गादौ वेदस्योपदेशकतया धर्मतरुप्रादुर्भावे बीजभूताः सन्तोऽग्निहोत्रादिधर्मप्रवर्तकाः, अतो न प्रागुदितदोषसमासङ्गः ॥ ३.१८६ ॥

किं च ।

सप्तर्षिनागवीथ्यन्तर् देवलोकं समाश्रिताः ।
तावन्त एव मुनयः सर्वारम्भविवर्जिताः ॥ या०ध०३.१८७

तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया ।
तत्र गत्वावतिष्ठन्ते यावद् आभूतसंप्लवम् ॥ या०ध०३.१८८

सप्तर्षयः प्रसिद्धाः, नागवीथ्य् ऐरावतपन्थाः, तदन्तराले तावन्त एव अष्टाशीतिसहस्रसंख्या मुनयः सर्वारम्भविवर्जिताः केवलज्ञाननिष्ठाः तपोब्रह्मचर्ययुक्ताः तथा सङ्गत्यागिनो देवलोकं समाश्रिता आभूतसंप्लवं प्राकृतप्रलयपर्यन्तम् अवतिष्ठन्ते । तत्र च स्थिताः सृष्ट्यादाव् आध्यात्मिकधर्माणां प्रवर्तकाः ॥ ३.१८७ ॥ ३.१८८ ॥

कथंभूतास् ते मुनयः, इत्य् अत आह ।

यतो वेदाः पुराणानि विद्योपनिषदस् तथा ।
श्लोकाः सूत्राणि भाष्याणि यच् च किंचन वाङ्मयम् ॥ या०ध०३.१८९

यतो द्विविधाद् अपि मुनिसमूहाच् चत्वारो वेदाः पुराणाङ्गविद्योपनिषदश् च नित्यभूता एवाध्येतृपरम्परायाताः प्रवृत्तास् तथा श्लोका इतिहासात्मकाः सूत्राणि च शब्दानुशासनमीमांसागोचराणि भाष्याणि च सूत्रव्याख्यारूपाणि यद् अन्यद् आयुर्विद्यादिकं वाङ्मयं तद् अपि यत्सकाशात् प्रवृत्तं तथाविधास् ते मुनयो धर्मप्रवर्तकाः । एवं सति वेदस्यापि नानित्यतादोषप्रसङ्गः ॥ ३.१८९ ॥

ततः किम्, इत्य् अत आह ।

वेदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः ।
श्रद्धोपवासः स्वातन्त्र्यम् आत्मनो ज्ञानहेतवः ॥ या०ध०३.१९०

वेदस्य नित्यत्वे सति तत्प्रामाण्यबलाद् वेदानुवचनादयः सत्त्वशुद्ध्यापादनद्वारेणात्मज्ञानस्य हेतव इत्य् उपपन्नं भवति ॥ ३.१९० ॥

किं च ।

स ह्य् आश्रमैर् विजिज्ञास्यः समस्तैर् एवम् एव तु ।
द्रष्टव्यस् त्व् अथ मन्तव्यः श्रोतव्यश् च द्विजातिभिः ॥ या०ध०३.१९१

य एनम् एवं विन्दन्ति ये चारण्यकम् आश्रिताः ।
उपासते द्विजाः सत्यं श्रद्धया परया युताः ॥ या०ध०३.१९२

यस्मान् नित्यतयात्मप्रमाणभूतो वेदस् तस्माद् असाव् उक्तमार्गेण सकलाश्रमिभिर् नानाप्रकारं जिज्ञासितव्यः । तम् एव प्रकारं दर्शयति द्विजातिभिर् द्रष्टव्योऽपरोक्षीकर्तव्यः । तत्रोपायं दर्शयति, "श्रोतव्यो मन्तव्यः" इति । प्रथमतो वेदान्तश्रवणेन निर्णेतव्यः । तदनन्तरं मन्तव्यः युक्तिभिर् विचारयितव्यः । ततोऽसौ ध्यानेनापरोक्षीभवति । ये द्विजातयोऽतिशयश्रद्धायुक्ताः सन्तो निर्जनप्रदेशम् आश्रिताः सन्त एवम् उक्तेन मार्गेण एनम् आत्मानं सत्यं पर्मार्थभूतम् उपासते ते आत्मानं विदन्ति लभन्ते प्राप्नुवन्ति ॥ ३.१९१ ॥ ३.१९२ ॥

प्राप्तिमार्गं देवयानम् आह ।

क्रमात् ते सम्भवन्त्य् अर्चिर् अहः शुक्लं तथोत्तरम् ।
अयनं देवलोकं च सवितारं सवैद्युतम् ॥ या०ध०३.१९३

ततस् तान् पुरुषोऽभ्येत्य मानसो ब्रह्मलौकिकान् ।
करोति पुनर् आवृत्तिस् तेषाम् इह न विद्यते ॥ या०ध०३.१९४

ते विदितामानः क्रमाद् अग्न्याद्यभिमानिदेवतास्थानेषु मुक्तिमार्गभूतेषु विश्राम्य तैः प्रस्थापिताः परमपदं प्राप्नुवन्ति । अर्चिर् वह्निः, अहर् दिनं, शुक्लपक्षः, तथोत्तरायणं, सुरसद्म, सविता सूर्यः, वैद्युतं च तेजः तान् एवं क्रमाद् अर्चिरादिस्थानगतान् मानसः पुरुषो ब्रह्मलोकभाजः करोति । तेषाम् इह संसारे पुनर् आवृत्तिर् न विद्यते किं तु प्राकृतप्रतिसंचरावसरे त्यक्तलिङ्गशरीराः परमात्मन्य् एकीभवन्ति ॥ ३.१९३ ॥ ३.१९४ ॥

पूर्वोक्तपितृयानम् आह ।

यज्ञेन तपसा दानैर् ये हि स्वर्गजितो नराः ।
धूमं निशां कृष्णपक्षं दक्षिणायनम् एव च ॥ या०ध०३.१९५

पितृलोकं चन्द्रमसं वायुं वृष्टिं जलं महीम् ।
क्रमात् ते सम्भवन्तीह पुनर् एव व्रजन्ति च ॥ या०ध०३.१९६

एतद् यो न विजानाति मार्गद्वितयम् आत्मवान् ।
दन्दशूकः पतङ्गो वा भवेत् कीटोऽथ वा कृमिः ॥ या०ध०३.१९७

ये पुनर् विहितैर् मार्गैर् यज्ञदानतपोभिः स्वर्गफलभोक्तारस् ते क्रमाद् धूमादिचन्द्रपर्यन्तपदार्थाभिमानिनीर् देवताः प्राप्य पुनर् एव वायुवृष्टिजलभूमीः प्राप्य व्रीह्याद्यन्नरूपेण शुक्रत्वम् अवाप्य संसारिणो योनिं व्रजन्ति । एतन् मार्गद्वयं प्रमत्तो यो न विजानाति मार्गद्वयोपायभूतधर्मानुष्ठानं न करोत्य् असौ दन्दशूको भुजङ्गः, पतङ्गः शलभः, कृमिः कीटो वा भवेत् ॥ ३.१९५-१९७ ॥

उपासनाप्रकारम् आह ।

ऊरुस्थोत्तानचरणः सव्ये न्यस्योत्तरं करम् ।
उत्तानं किंचिद् उन्नाम्य मुखं विष्टभ्य चोरसा ॥ या०ध०३.१९८

निमीलिताक्षः सत्त्वस्थो दन्तैर् दन्तान् असंस्पृशन् ।
तालुस्थाचलजिह्वश् च संवृतास्यः सुनिश्चलः ॥ या०ध०३.१९९

संनिरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः ।
द्विगुणं त्रिगुणं वापि प्राणायामम् उपक्रमेत् ॥ या०ध०३.२००

ततो ध्येयः स्थितो योऽसौ हृदये दीपवत् प्रभुः ।
धारयेत् तत्र चात्मानं धारणां धारयन् बुधः ॥ या०ध०३.२०१

ऊरुस्थाव् उत्तानौ चरणौ यस्य स तथोक्तः बद्धपद्मासनः । तथोत्ताने सव्यकरे दक्षिणम् उत्तानं न्यस्य मुखं किंचिद् उन्नाम्योरसा च विष्टभ्य स्तम्भयित्वा तथा निमीलिताक्षः सत्त्वस्थः कामक्रोधादिरहितो दन्तैर् दन्तान् असंस्पृशन् तथा तालुनि स्थिता अचला जिह्वा यस्य स तथोक्तः । तथा संवृतास्यः पिहिताननः सुनिश्चलो निष्प्रकम्पः तथा सम्यग् इन्द्रियसमूहं विषयेभ्यः प्रत्याहृत्य नातिनीचासनो नात्युच्छ्रितासनो यथा चित्तविक्षेपो न भवति तथोपविष्टः सन् द्विगुणं त्रिगुणं वा प्राणायामाभ्यासम् उपक्रमेत् । ततो वशीकृतपवनेन योगिना योऽसौ हृदये दीपवद् अप्रकम्पः प्रभुः स्थितोऽसौ ध्यातव्यः । तत्र च हृद्य् आत्मानं मनोगोचरतया धारयेत् । धारणाम् अवधारयन् । धारणास्वरूपं च । जान्वग्रभ्रमणेन च्छोटिकादानकालो मात्रा । ताभिः पञ्चदशमात्राभिर् अधमः प्राणायामः । त्रिंशद्भिर् मध्यमः । पञ्चचत्वारिंशद्भिर् उत्तमः । एवं प्राणायामत्रयात्मिकैका धारणा । तास् तिस्रो योगशब्दवाच्यास् ताश् च धारयेत् । यथोक्तम् अन्यत्र :

"संभ्रम्य च्छोटिकां दद्यात् कराग्रं जानुमण्डले ।
मात्राभिः पञ्चदशभिः प्राणायामोऽधमः स्मृतः ॥
मध्यमो द्विगुणः श्रेष्ठस् त्रिगुणो धारणा तथा ।
त्रिभिस् त्रिभिः स्मृतैकैका ताभिर् योगस् तथैव च ॥" इति ॥ ३.१९८ -२०१ ॥

धारणात्मकयोगाभ्यासे प्रयोजनम् आह ।

अन्तर्धानं स्मृतिः कान्तिर् दृष्टिः श्रोत्रज्ञता तथा ।
निजं शरीरम् उत्सृज्य परकायप्रवेशनम् ॥ या०ध०३.२०२

अर्थानां छन्दतः सृष्टिर् योगसिद्धेर् हि लक्षणम् ।
सिद्धे योगे त्यजन् देहम् अमृतत्वाय कल्पते ॥ या०ध०३.२०३

अणिमप्राप्त्या परैर् अदृश्यत्वम् अन्तर्धानम् । स्मृतिर् अतीन्द्रियेष्व् अर्थेषु मन्वादेर् इव स्मरणम् । कान्तिः कमनीयता । दृष्टिर् अतीतानागतेष्व् अप्य् अर्थेषु । तथा श्रोत्रज्ञता अतिदवीयसि देशेऽभिव्यज्यमानतया श्रोत्रपथम् अनासेदुषाम् अपि शब्दानां ज्ञातृता । निजशरीरत्यागेन परशरीरप्रवेशनम् । स्ववाञ्छावशेनार्थानां कारणनिरपेक्षतया सृष्टिर् इत्य् एतद् योगस्य सिद्धेर् लक्षणं लिङ्गम् । न चैतावद् एव प्रयोजनं किं तु "सिद्धे योगे त्यजन् देहम् अमृतत्वाय कल्पते" ब्रह्मत्वप्राप्तये च प्रभवति ॥ ३.२०२ ॥ ३.२०३ ॥

यज्ञदानाद्यसंभवे सत्त्वशुद्धाव् उपायान्तरम् आह ।

अथ वाप्य् अभ्यसन् वेदं न्यस्तकर्मा वने वसन् ।
अयाचिताशी मितभुक् परां सिद्धिम् अवाप्नुयात् ॥ या०ध०३.२०४

अथ वा त्यक्तकाम्यनिषिद्धकर्मा अन्यतमं वेदम् अभ्यसन् एकान्तशीलोऽयाचितमिताशनापादितसत्त्वशुद्धिर् आत्मोपासनेन परां मुक्तिलक्षणां सिद्धिं प्राप्नोति ॥ ३.२०४ ॥

किं च ।

न्यायागतधनस् तत्त्वज्ञाननिष्ठोऽतिथिप्रियः ।
श्राद्धकृत् सत्यवादी च गृहस्थोऽपि हि मुच्यते ॥ या०ध०३.२०५

सत्प्रतिग्रहादिन्यायेनोपार्जितधनोऽतिथिपूजातत्परः नित्यनैमित्तिकश्राद्धानुष्ठाननिरतः सत्यवदनशीलः सन्न् आत्मतत्त्वध्याननिरतो गृहस्थोऽपि हि यस्मान् मुक्तिम् अवाप्नोति तस्मान् न केवलम् ऐहिकपारिव्राज्यपरिग्रह एव मुक्तिसाधनम् ॥ ३.२०५ ॥

इत्य् अध्यात्मप्रकरणम्
अथ प्रायश्चित्तप्रकरणम्

"वर्णाश्रमेतराणां नो ब्रूहि धर्मान् अशेषतः" (या०ध० १.१) इत्य् अत्र प्रतिपाद्यतया प्रतिज्ञातषड्विधधर्ममध्ये पञ्चप्रकारं धर्मम् अभिधायाधुनावशिष्टं नैमित्तिकं धर्मजातं प्रायश्चित्तपदाभिलप्यं प्रारिप्सुः प्रथमतस् तत्प्ररोचनार्थम् अधिकारिविशेषप्रदर्शनार्थं चार्थवादरूपं कर्मविपाकं तावद् आह ।

महापातकजान् घोरान् नरकान् प्राप्य दारुणान् ।
कर्मक्षयात् प्रजायन्ते महापातकिनस् त्व् इह ॥ या०ध०३.२०६

ब्रह्महत्यादिपञ्चकस्य महापातकसंज्ञा "ब्रह्महा मद्यपः" (या०ध० ३.२२७) इत्य् अत्र वक्ष्यते तद्योगिनो महापातकिनस् ते महापातकजनितांस् तामिस्रादिनरकान् स्वजनितदुष्कृतानुरूपान् घोरान् अतितीव्रवेदनापादकत्वेनातिभयंकरान् दारुणान् दुःखैकभोगनिलयान् प्राप्य कर्मक्षयात् कर्मजन्यनरकदुःखोपभोगक्षयाद् अनन्तरं कर्मशेषात् पुनर् इह संसारे दुःखबहुलश्वसृगालादितिर्यग्योनिषु प्रकर्षेण भूयो भूयो जायन्ते । महापातकिग्रहणम् इतरेषाम् अप्य् उपपातक्यादीनाम् उपलक्षणम् । तेषां च तिर्यगादियोनिप्राप्तेर् वक्ष्यमाणत्वात् ॥ ३.२०६ ॥

महापातकिनां संसारप्राप्तिम् उक्त्वा तद्विशेषकथनायाह ।

मृगश्वसूकरोष्ट्राणां ब्रह्महा योनिम् ऋच्छति ।
खरपुल्कसवेनानां सुरापो नात्र संशयः ॥ या०ध०३.२०७

कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् ।
तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः ॥ या०ध०३.२०८

मृगा हरिणादयः, श्वसूकरोष्ट्राः प्रसिद्धाः, तेषां योनिं ब्रह्महा स्वकर्मशेषेण प्राप्नोति । खरो रासभः, पुल्कसः प्रतिलोमनिषादेन शूद्र्यां जातः, वैदेहकेनाम्बष्ट्यां जातो वेणस्, तेषां योनिं सुरापः प्राप्नोति । कृमयः सजातीयसंभोगनिरपेक्षां मांसविष्टागोमयादिजन्याः, ततः किंचित्स्थूलतराः पक्षास्थिरहिताः पिपीलिकादयः कीटाः, पतङ्गाः शलभाः, तेषां योनिं ब्राह्मणस्वर्णहारी प्राप्नुयात् । तृणं काशादि, गुल्मलते प्रागुक्ते, तज्जातीयतां क्रमेण गुरुतल्पगः प्राप्नोति । एतच् चाकामकृतविषयम् । कामकारकृते त्व् अन्यास्व् अपि दुःखबहुलयोनिषु संसरन्ति । यथाह मनुः ।

"श्वसूकरखरोष्ट्राणां गोऽवाजिमृगपक्षिणां ।
चण्डालपुक्कसानां च ब्रह्महा योनिम् ऋच्छति ॥
कृमिकीटपतंगानां विड्भुजां चैव पक्षिणाम् ।
हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ॥
लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम् ।
हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥"

लूतोर्णनाभः । सरठः कृकलासः ।

"तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणाम् अपि ।
क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ॥" इति ॥ (मा०ध० १२.५५–५८) ३.२०७–८ ॥

किं च ।ीन् NSP and Pandeya, थेरे is an इन्त्रोदुच्तोर्य् स्ततेमेन्त् : एवं च तिर्यक्त्वाद् उत्तीर्णानां मानुष्ये रोगादिलक्षणाणि भवन्तीत्य् आह । आन्द् "किं च" is given अस् पर्त् ओf the चोम्मेन्तर्य्. षिन्चे this is उनुसुअल्, ई थिन्क् Seltur is रिघ्त् in तकिन्ग् this अस् the इन्त्रोदुच्तिओन्. ःे noteस् थत् the लोन्गेर् सेन्तेन्चे is fओउन्द् ओन्ल्य् in a सिन्ग्ले मनुस्च्रिप्त्.

ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः ।
हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥ या०ध०३.२०९

यो येन संवसत्य् एषां स तल्लिङ्गोऽभिजायते । या०ध०३.२१०अब्

एवं रौरवादिनरकेषु श्वसूकरखरादियोनिषु च दारुणं दुःखम् अनुभूयानन्तरं दुरितशेषेण जननसमय एव क्षयरोगादिलक्षणयुक्ताः प्रचुरेषु मानवशरीरेषु संसरन्ति । ब्रह्महा क्षयरोगी राजयक्ष्मी भवेत् । निषिद्धसुरापः स्वभावतः कृष्णदशनः । ब्राह्मणहेम्नो हर्ता कुत्सितनखत्वम् । गुरुदारगामी दुश्चर्मत्वं कुष्ट्ःिताम् । एतेषां ब्रह्महादीनां मध्ये येन पतितेन यः पुरुषः संवसति स तल्लिङ्गोऽभिजायते । ॥ ३.२०९ ॥

किं च ।

अन्नहर्तामयावी स्यान् मूको वागपहारकः ॥ या०ध०३.२१०च्द्

धान्यमिश्रोऽतिरिक्ताङ्गः पिशुनः पूतिनासिकः ।
तैलहृत् तैलपायी स्यात् पूतिवक्त्रस् तु सूचकः ॥ या०ध०३.२११

अन्नस्यापहर्ता आमयाव्य् अजीऋणान्नः । वागपहारकोऽननुज्ञाताध्यायी पुस्तकापहारी च मूको वागिन्द्रियविकलो भवेत् । धान्यमिश्रोऽतिरिक्ताङ्गः षडङ्गुल्यादिः पिशुनो विद्यमानपरदोषप्रख्यापनशीलः । पूतिनासिकः दुर्गन्धनासिकः तैलस्य हर्ता तैलपायी कीटविशेषो भवति । सूचकोऽसद्दोषसंकीर्तनो दुर्गन्धिवदनो जायते । एतच् च तिर्यक्त्वप्राप्त्युत्तरकालं मनुषरीरप्राप्तौ द्रष्टव्यम्,

"यद् वा तद् वा परद्रव्यम् अपहृत्य बलान् नरः ।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥" (मा०ध० १२.६८)

इति मनुस्मरणात् ॥ ३.२१० ॥ ३.२११ ॥

किं च ।

परस्य योषितं हृत्वा ब्रह्मस्वम् अपहृत्य च ।
अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥ या०ध०३.२१२

ईन् प्लचे ओf the अच्तुअल् चोम्मेन्तर्य्, NSP मिस्तकेन्ल्य् पुत्स् हेरे पर्त् ओf the चोम्मेन्तर्य् ओन् ३.२१३ : हीनजातौ हेमकाराख्यायां पक्षिजातौ पररत्नाद्यपहारको जायते । निर्जले देशे ब्रह्मराक्षसो भूतविशेषो जायते ।यः परदारान् अपहरति, ब्रह्मस्वं च सुवर्णव्यतिरिक्तम् अपहरति, असाव् अरण्ये निर्जले देशे ब्रह्मराक्षसो भूतविशेषो जायते ॥ ३.२१२ ॥

किं च ।

हीनजातौ प्रजायेत पररत्नापहारकः ।
पत्रशाकं शिखी हत्वा गन्धान् छुच्छुन्दरी शुभान् ॥ या०ध०३.२१३

हीनजातौ हेमकाराख्यायां पक्षिजातौ पररत्नाद्यपहारको जायते । तथा च मनुः ।

"मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः ।
विविधाणि च रत्नानि जायते हेमकर्तृषु ॥" इति । (मा०ध० १२.६९)

पत्रात्मकं शाकं हृत्वा मयूरः । शुभान् गन्धान् अपहृत्य छुच्छुन्दरी राजदुहिताख्या मूषिका जायते ॥ ३.२१३ ॥

किं च ।

मूषको धान्यहारी स्याद् यानम् उष्ट्रः कपिः फलम् ।
जलं प्लवः पयः काको गृहकारी ह्य् उपस्करम् ॥ या०ध०३.२१४

मधु दंशः पलं गृध्रो गां गोधाग्निं बकस् तथा ।
श्वित्री वस्त्रं श्वा रसं तु चीरी लवणहारकः ॥ या०ध०३.२१५

धान्यहार्य् आखुः, यानं हृत्वोष्ट्रः, फलं वानरः, जलं प्लवः शकटविलाख्यः पक्षी, पयः क्षीरं काको ध्वाङ्क्षः, गृहोपस्करं मुसलादि हृट्वा गृहकारी चटकाख्यः कीटविशेषः, मधु हृत्वा दांशाख्यः कीटः, पलं मांसं तद् धृत्वा गृध्राख्यः पक्षी, गां हृत्वा गोधाख्यः प्राणिविशेषः, अग्निं हृत्वा बकाख्यः पक्षी, वस्त्रं हृत्वा श्वित्री, इक्ष्वादिरसं हृत्वा सारमेयः, लवणहारी चीर्याख्य उच्चैःस्वरः कीटः ॥ ३.२१४ ॥ ३.२१५ ॥

एवं प्रदर्शनार्थं किंचिद् उक्त्वा प्रतिद्रव्यं पृष्टाकोटिन्यायेन वक्तुम् अशक्तेर् एकोपाधिना कर्मविपाकं दर्शयितुम् आह ।

प्रदर्शनार्थम् एतत् तु मयोक्तं स्तेयकर्मणि ।
द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥ या०ध०३.२१६

द्रव्यस्यापह्रियमाणस्य याद्दृशाः प्रकारास् तादृशा एव प्राणिजातयः स्तेयकर्मण्य् अपहर्तारो भवन्ति । यथा कांस्यहारी हंस इति । अथ वा यत्फलसाधनं द्रव्यम् अपहरति तत्साधनविकलो यथा पङ्गुताम् अश्वहारक इति । शङ्खेन क्वचिद् विशेषो दर्शितः ।

"ब्रह्महा कुष्ठी, तैजसापहारी मण्डली, देवब्राह्मणाक्रोशकः खलतिः, गरदाग्निदाव् उन्मत्तौ, गुरुं प्रतिहन्तापस्मारी, गोघ्नश् चान्धः, धर्मपत्नीं त्यक्त्वान्यत्र प्रवृत्तः शब्दवेधी प्राणिविशेषः, कुण्डाशी भगभक्षो, देवब्रह्मस्वहारी पाण्डुरोगी, न्यासापहारी च काणः, स्त्रीपण्योपजीवी षण्ढः, कौमारदारत्यागी दुर्भगः, मिष्टैकाशी वातगुल्मी, अभक्ष्यभक्षको गण्डमाली, ब्राह्मणीगामी निर्बीजी, क्रूरकर्मा वामन्ः, वस्त्रापहारी पतंगः, शय्यापहारी क्षपणकः, शन्खशुक्त्यपहारी कपाली, दीपापहारी कौशिकः, मित्रध्रुक् क्षयी, मातापित्रोर् आक्रोशः खञ्जकः ।" इति ।

गौतमोऽपि क्वचिद् विशेषम् आह ।

"अनृतवाग् उल्बलः मुहुर् मुहुः संलग्नवाक्, दारत्यागी जलोदरी, कूटसाक्षी श्लीपदी उच्छिन्नजङ्घाचरणः, विवाहविघ्नकर्ता छिन्नोष्ठः, अवगूरणः छिन्नहस्तः, मातृघ्नोऽन्धः, स्नुषागामी वातवृषणः, चतुष्पथे विण्मूत्रविसर्जने मूत्रकृच्छ्री, कन्यादूषकः षण्ढः, ईर्ष्यालुर् मशकः, पित्रा विवदमानोऽपस्मारी, न्यासापहार्य् अनपत्यः, रत्नापहार्य् अत्यन्तदरिद्रः, विद्याविक्रयी पुरुषमृगः, वेदविक्रयी द्वीपी, बहुयाजको जलप्लवः, अयाज्ययाजको वराहः, अनिमन्त्रितभोजी वायसः, मृष्टैकभोजी वानरः, यतस्ततोऽश्नन् मार्जारः, कक्षवनदहनात् खद्योतः, दारकाचार्यो मुखविगन्धिः, पर्युषितभोजी कृमिः, अदत्तादायी बलीवर्दः, मत्सरी भ्रमरः, अग्न्युत्सादी मण्डलकुष्ठी, शूद्राचार्यः श्वपाकः, गोहर्ता सर्पः, स्नेहापहारी क्षयी, आन्नापहार्य् अजीर्णी, ज्ञानापहारी मूकः, चण्डालीपुल्कसीगमने अजगरः, प्रव्रजितागमने मरुपिशाचः, शूद्रीगमने दीर्घकीटः, सवर्णाभिगामी दरिद्रः, जलहारी मत्स्यः, क्षीरहारी बलाकः, वार्धुषिकोऽङ्गहीनः, अविक्रेयविक्रयी गृध्रः, राजमहिषीगामी नपुंसकः, राजाक्रोशको गर्दभः, गोगामी मण्डूकः, अनध्यायाध्यने सृगालः, परद्रव्यापहारी परप्रेष्यः, मस्त्यवधे गर्भवासि, इत्य् एतेऽनूर्ध्वगमनाः ।" इति ॥ (not in गौ०ध०)

स्त्रियोऽप्येतेषु निमित्तेषु पूर्वोक्तास्व् एव जातिषु स्त्रीत्वम् अनुभवन्ति । यथाह मनुः ।

"स्त्रियोऽप्य् एतेन कल्पेन हृत्वा दोषम् अवाप्नुयुः ।
एतेषाम् एव जन्तूनां भार्यात्वम् उपयान्ति ताः ॥" इति । (मा०ध० १२.६९)

एतच् च क्षयित्वादिलक्षणकथनं प्रायश्चित्तोन्मुखीभूतब्रह्महाद्युद्वेगजननार्थं न पुनः क्षयित्वादिलक्षणयुक्तानां द्वादशवार्षिकादिव्रतप्राप्त्यर्थं संसर्गनिवृत्त्यर्थं वा । तथा हि पापक्षयार्थं प्रायश्चित्तम् । न च प्रायश्चित्तेन प्रारब्धफलपापापूर्वविनाशे किंचन प्रयोजनम् अस्ति । न हि कार्मुकनिर्मुक्तो बाणो लक्ष्यवेधे वेद्धुस् तद्व्यापारस्य वा सत्तान्तरं पुनर् अपेक्षते । न च तदारब्धफलनाशार्थोऽपूर्वनाशोऽन्वेषणीयः । न हि निमित्तकारणीभूतचक्रचीवरादिविनाशेन तदारब्धकरकादिविनाशः । न च नैसर्गिकं कौनख्यादिकं प्रत्यानेतुं शक्यते । किं च नरकतिर्यग्योन्यादिजन्यदुःखपरम्पराम् अनुभूतस्य हि कौनख्यादिको विकारश् चरमं फलम् । तेन चोत्पन्नमात्रेण स्वकारणापूर्वनाशो जन्यते मन्थनजनिताशुशुक्षणिनेवारणिक्षयः । तस्मान् न पापविनाशार्थं व्रतपरिचर्या नापि संव्यवहारार्थम् । न हि शिष्टाः कुनख्यादिभिः सह संबन्धं परिहरन्ति । प्राचीनक्षयात् पापनाशेन संव्यवहार्यत्वस्यापि सिद्धेर् नार्थो व्रतचर्यया । यत्तु वसिष्ट्ःेनोक्तम् "कुनखी श्यावदन्तश् च कृच्छ्रं द्वादशरात्रं चरेत्" (व०ध० २०.६) इति तत्क्षामवत्यादिवन् नैमित्तिकमात्रं न पुनः पापक्षयार्थं संव्यवहार्यत्वसिद्ध्यर्थं वेति मन्तव्यम् ॥ ३.२१६ ॥

किं च ।

यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् ।
जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः ॥ या०ध०३.२१७

यथाकर्म स्वकृततदुष्कृतानतिक्रमेण तदनुरूपं नरकादि फलं तिर्यक्त्वं च प्राप्य कालक्रमेण क्षीणे कर्मणि दुष्टलक्षणा दरिद्राश् च पुरुषेषु निकृष्टा जायन्ते ॥ ३.२१७ ॥

किं च ।

ततो निष्कल्मषीभूताः कुले महति भोगिनः ।
जायन्ते विद्ययोपेता धनधान्यसमन्विताः ॥ या०ध०३.२१८

ततो दुर्लक्षणमनुष्यजन्मानन्तरं निष्कल्मषीभूता नरकाद्युपभोगद्वारेण क्षीणपापाः प्राग्भवीयसुकृतशेषेण महाकुले भोगसम्पन्नाः विद्याधनधान्यसंपन्ना जायन्ते ॥ ३.२१८ ॥

एवं प्राय्श्चित्तेषु प्ररोचनार्थं कर्मविपाकम् अभिधायाधुना तेष्व् एवाधिकारिणं निरूपयितुम् आह ।

विहितस्याननुष्ठानान् निन्दितस्य च सेवनात् ।
अनिग्रहाच् चेन्द्रियाणां नरः पतनम् ऋच्छति ॥ या०ध०३.२१९

तस्मात् तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये ।
एवम् अस्यान्तरात्मा च लोकश् चैव प्रसीदति ॥ या०ध०३.२२०

विहितम् इति यद् आवश्यकं संध्योपासनाग्निहोत्रादिकं नित्यम् अशुचिस्पर्शादौ नैमित्तिकत्वेन चोदितं स्नानादिकं च तद् उभयम् उच्यते, तस्याकरणात् निन्दितस्य निषिद्धस्य सुरापानादेः करणाद् इन्द्रियाणाम् अनिग्रहाच् च नरः पतनम् ऋच्छति प्राप्नोति । प्रत्यवायी भवतीति यावत् ।

ननु निद्रियार्थेषु सर्वेषु न प्रसज्येत कामत इति इन्द्रियप्रसक्तेर् अपि निषिद्धत्वान् निन्दितग्रहणेनैव गतार्थत्वात् किमर्थम् "अनिग्रहाच् चेन्द्रियाणाम्" इति पृथग् उपादानम् ।

अत्रोच्यते : इन्द्रियप्रसक्तिनिषेधस्य नैकान्ततः प्रतिषेधरूपता स्नातकव्रतमध्येऽस्य पाठात् तत्र च "व्रतानीमानि धारयेत्" इति व्रतशब्दाधिकारान् नञ्श्रवणाच् चेन्द्रियप्रसक्तिप्रतिषेधकः संकल्पो विधीयते । स च भावरूप इति पृथग् उपादानम् । ननु विहिताकरणात् प्रत्यवैतीति कुतोऽवसितम् । न तावद् अग्निहोत्रादिचोदना पुरुषप्रवर्तनात्मिकाननुष्ठानस्य प्रत्यवायहेतुताम् आक्षिपति । विषयानुष्ठानस्य पुरुषार्थत्वावगतिमात्रपर्यवसायिनी हि सा तावन्मात्रेण प्रवृत्त्युपपत्तेर् न पुनर् अकरणस्य प्रत्यवायहेतुत्वम् अपि वक्ति, क्षीणशक्तित्वाद् अनुपपत्तेः । किं च, यद्य् अनुपपत्त्युपशमेति प्रवृत्तिसिद्ध्यर्थम् अर्थान्तरं कल्प्यते तर्हि निषिद्ध्यमानक्रियाजन्यप्रत्यवायपरिहारार्थतयैव तद्वर्जनस्य पुरुषार्थत्वसिद्धाव् अपि फलान्तरं कल्पयेत । न चैतत् कस्यचिद् अपि संमतम् ।

ननु यथा निषिद्धेष्व् अर्थवादावगतप्रत्यवायपरिहार्थतयैव पुरुषार्थत्वं तथा विहितेष्व् अप्य् अर्थवादावगताकरणजन्यप्रत्यवायपरिहारार्थता कस्मान् न स्यात् ।

मैवम् । न हि सर्वत्राग्निहोत्रादिषु तादृग्विधार्थवादाः सन्ति । न च "विहितस्याननुष्ठानान् नरः पतनम् ऋच्छति" इतीयं स्मृतिर् एव वाक्यशेषस्थानीयेति चतुरस्रम् । न हि वाक्यान्तरप्रमिते कार्ये वाक्यान्तरेणार्थवादः संभवति । भवतु वा कथंचिद् एकवाक्यतयार्थवादस् तथापि नाभावरूपं विहिताकरणे कार्यान्तरं जनयितुं क्षमते ।

ननु "ज्वरे चैवातिसारे च लङ्घनं परमौषधम्" इत्य् आयुर्वेदवचनाद् भोजनाभावरूपं लङ्घनं ज्वरशान्तिं जनयतीति यथावगम्यते तथात्रापि भवतु ।

मैवम्, यतो नात्रापि लङ्घनाज् ज्वरशान्तिः ।

किं तर्हि ज्वरनाशप्रतिबन्धकभोजनाभावे सति जठरानलपरिपाकजनिताद् धातुसाम्याद् इति मन्तव्यम् । तस्मात् विहितस्याननुष्ठानान् नरः पतनम् ऋच्छति इति कथम् अस्याः स्मृतेर् गतिर् इति वाच्यम् ।

उच्यते । अग्निहोत्रादिविषयाधिकारासिद्धिरूपप्रत्यवायाभिप्रायेणेति न दोषः ।

ननु,

"वान्ताश्य् उल्कामुखः प्रेतो विप्रो धर्मात् स्वकाच् च्युतः ।
अमेध्यकुणपाशी च क्षत्रियः कटपूतनः ॥
मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् ।
चैलाशकश् च भवति शूद्रो धर्मात् स्वकाच् च्युतः ॥" इति । (मा०ध० १२.७१–७२)

एतानि विहिताकरणप्रत्यवायपराणि मनुवचनानि कथं घटन्ते ।

उच्यते । यथा वान्तम् अश्नत उल्कया वा दह्यमानमुखस्य दुःखं तथास्यापि विहितम् अकुर्वतः पुरुषस्य पुरुषार्थासिद्धेर् इत्य् अकरणनिन्दनम् अनुष्ठानप्ररोचनार्थम् इत्य् अविरोधः । यद् वा प्राग्भवीयनिषिद्धाचरणाक्षिप्तविहितानुष्ठानविरोधिरागालस्यादिजन्यवान्ताश्युल्कामुख-प्रेतत्वादिरूपम् इति न क्वचिद् अभावस्य कारणतेति मन्तव्यम् ।

ननु पुंश्चलीवानरखरदृष्ट(श्वदष्ट)मिथ्याभिशस्तादौ विहिताकरणादिनिमित्तानाम् अन्यतमस्याप्य् अभावात् कथं प्रत्यवायिता, कथं च तदभावे प्रायश्चित्तविधानम् ।

उच्यते । अस्माद् एव पापक्षयार्थप्रायश्चित्तविधानाज् जन्मान्तराचरितनिषिद्धसेवादिजन्यपापापूर्वं समाक्षिप्तम् इत्य् अभिशापादिकं तन्निमित्तप्रायश्चित्तापनोद्यम् अनेनानुष्ठितम् इति कल्प्यते । पुरुषप्रयत्ननैर् अपेक्ष्येण कार्यरूपपापोत्पत्त्यनुपपत्तेः । न च पुंश्चल्यादिगतप्रयत्नेन पुरुषान्तरे पापोत्पत्तिः, कर्तृसमवायित्वनियमाद् धर्माधर्मयोः, तस्माद् युक्तैव प्रायश्चित्ते निमित्तत्रयपरिगणना । तथा च मनुः ।

"अकुर्वन् विहितं कर्म निन्दितं च समाचरन् ।
प्रसक्तश् चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥" इति । (मा०ध० ११.४४)

नरगरहणं प्रतिलोमजातानाम् अपि प्रायश्चित्ताधिकारप्राप्त्यर्थम्, तेषाम् अप्य् अहिंसादिसाधारणधर्मव्यतिक्रमसंभवात् । यस्माद् एवं निषिद्धाचरणादिना प्रत्यवैति तस्मात् तेन कृतनिषिद्धसेवादिना पुरुषेण प्रायश्चित्तं कर्तव्यम् इह लोके परत्र च विशुद्ध्यर्थम् । प्रायश्चित्तशब्दश् चायं पापक्षयार्थे निमित्तिके कर्मविशेषे रूढः । एवं प्रायश्चित्ते कृते अस्यान्तरात्मा शुद्धतया प्रसीदति, लोकश् च संव्यवहर्तुं प्रसीदति । एवं वदतैतद् दर्शितम् । नैमित्तिकोऽयं प्रायश्चित्ताधिकारः, तत्र चार्थवादगतदुरितक्षयोऽपि जातेष्टिन्यायेन साध्यतया स्वीक्रियते । न च दुरितपरिजिहासुनानुष्टीयत इत्य् एतावता कामाधिकाराशङ्का कार्या । यस्मात्,

"चरितव्यम् अतो नित्यं प्रायश्चित्तं विशुद्धये ।
निन्द्यैर् हि लक्षणैर् युक्ता जायन्तेऽनिष्कृतैनसः ॥" इति । (मा०ध० ११.५४)

इत्य् अकरणे दोषश्रवणेनावश्यकत्वावगमात् ॥ ३.२१९ ॥ ३.२२० ॥

प्रायश्चित्ताकरणे दोषम् आह ।

प्रायश्चित्तम् अकुर्वाणाः पापेषु निरता नराः ।
अपश्चात्तापिनः कष्टान् नरकान् यान्ति दारुणान् ॥ या०ध०३.२२१

पापेषु शास्त्रार्थव्यतिक्रमजनितेषु प्रसक्ताः पुरुषा अपश्चात्तापिनो "मया दुष्कृतं कृतम्" इत्य् एवम् उद्वेगरहिताः प्रायश्चित्तम् अकुर्वाणाः दुःसहान् नरकान् प्राप्नुवन्ति ॥ ३.२२१ ॥

नरकस्वरूपं विवृण्वन्न् आह ।

तामिस्रं लोहशङ्कुं च महानिरयशाल्मली ।
रौरवं कुड्मलं पूतिमृत्तिकं कालसूत्रकम् ॥ या०ध०३.२२२

संघातं लोहितोदं च सविषं संप्रपातनम् ।
महानरककाकोलं संजीवनमहापथम् ॥ या०ध०३.२२३

अवीचिम् अन्धतामिस्रं कुम्भीपाकं तथैव च ।
असिपत्रवनं चैव तापनं चैकविंशकम् ॥ या०ध०३.२२४

महापातकजैर् घोरैर् उपपातकजैस् तथा ।
अन्विता यान्त्य् अचरितप्रायश्चित्ता नराधमाः ॥ या०ध०३.२२५

तामिस्रप्रभृतींस् तपनपर्यन्तान् एकविंशतिनरकान् अन्वर्थसंज्ञाद्योतितावान्तरभेदान् महापातकोपपातकजनितभयंकरदुरितैर् अन्विता अनाचरितप्रायश्चित्ताः पुरुषाधमाः प्राप्नुवन्ति ॥ ३.२२२-२२५ ॥

उपात्तदुरितनाशार्थं प्रायश्चित्तम् इत्य् उक्तम् । तत्र विशेषम् आह ।

प्रायश्चित्तैर् अपैत्य् एनो यद् अज्ञानकृतं भवेत् ।
कामतो व्यवहार्यस् तु वचनाद् इह जायते ॥ या०ध०३.२२६

प्रायश्चित्तैर् वक्ष्यमाणलक्षणैर् अज्ञाद् यद् एनः पापं कृतं तद् अपैति गच्छति न कामतः कृतं । किं तु तत्र प्रायश्चित्तविधायकवचनबलाद् इह लोके व्यवहार्यो जायते । अत्र च "प्रायश्चित्तैर् अपैत्य् एनो यद् अज्ञानकृतम्" इत्य् उपक्रमात् तत्प्रतियोगितया "ज्ञानतः" इति वक्तव्ये यत् "कामतः" इत्य् उक्तं, तत् ज्ञानकामयोस् तुल्यत्वप्रदर्शनार्थम् । तथा हि,

"विहितं यद् अकामानां कामात् तद्द्विगुणं भवेत् ।"

तथाबुद्धिपूर्वक्रियायाम् अर्धं प्रायश्चित्तम्, तथा,

"म्लेच्छेनाधिगतः शूद्रस् त्व् अज्ञानात् तु कथंचन ।
कृच्छ्रत्रयं प्रकुर्वीत ज्ञानात् तु द्विगुणं भवेत् ॥"

इत्यादिभिर् वचनैर् ज्ञानकामनयोस् तुल्यप्रायश्चित्तदर्शनात् तुल्यफलतैव । किं च, स्वतन्त्रप्रवृत्तिर् विषयज्ञानकामनाभ्यां नियताः, तयोर् अन्यतरापायेऽपि तस्या असंभवाद् अतः "कामतः" इत्य् उक्तम् । "ज्ञानाज्ञानतः" इत्य् उक्तेऽपि कामः प्राप्नोत्य् अविनाभावात् । न च चौरादिभिर् बलात् प्रवर्त्यमानस्य सत्य् अपि विषयज्ञाने कामनाभावान् नाविनाभाव इति वाच्यम् । यतोऽत्र विद्यमानस्यापि ज्ञानस्य प्रवृत्तिहेतुत्वाभावेनासत्समत्वम् । यत् तु शुष्केऽपि पिपतिषोर् भ्रान्त्या कर्दमपतनं, तत्रापि वास्तवज्ञानाभावात् तद्विषयकामनायाश् चाभाव एव । एवम् अज्ञानाकामनयोर् अप्य् अव्यभिचार एव ।

ननु "प्रायश्चित्तैर् अपैत्येनः" इति न युक्तम्, फलविनाश्यत्वात् कर्मणः ।

मैवम्, यथा पापोत्पत्तिः शास्त्रगम्या तथा तत्परिक्षयोऽपीति नात्र प्रमाणान्तरं क्रमते । अत एव गौतमेन पूर्वोत्तरपक्षभङ्ग्या अयमर्थो दर्शितः । "तत्र प्रायश्चित्तं कुर्यान् न कुर्याद् इति मीमांसन्ते । न कुर्याद् इत्य् आहुः । न हि कर्म क्षीयते इति । कुर्याद् इत्य् अपरे । पुनःस्तोमेनेष्ट्वा पुनःसवनम् आयान्तीति विज्ञायते । व्रात्यस्तोमेनेष्ट्वा तरति सर्वं पाप्मानं तरति भ्रूणहत्यां योऽश्वमेधेन यजते" (गौ०ध० १९.३–९) इति । पुनःसवनम् आयान्ति इति सवनसंपाद्यज्योतिष्टोमादिद्विजातिकर्मणि योग्यो भवतीत्य् अर्थः । न चेदम् अर्थवादमात्रम् । अधिकारिविशेषणाकाङ्क्षायां रात्रिसत्रन्यायेनार्थवादिकफलस्यैव कल्पनाया न्याय्यत्वात्, अतो युक्तं "प्रायश्चित्तैर् अपैत्येनः" इति ।

ननु कामकृते प्रायश्चित्ताभावात् कथं व्यवहार्यत्वं तदभावश् च "अनभिसंधिकृतेऽपराधे प्रायश्चित्तम्" इति (व०ध० २०.१) वसिष्ठवचनात्,

"इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ॥" (मा०ध० ११.९०)

इति मनुवचनाच् चावगम्यते ।

नैतत् ।

"यः कामतो महापापं नरः कुर्यात् कथंचन ।
न तस्य निष्कृतिर् दृष्टा भृग्वग्निपतनाद् ऋते ॥"

इति, तथा

"विहितं यद् अकामानां कामात् तद्द्विगुणं भवेत् ।"

इति च, कामकृतेऽपि प्रायश्चित्तदर्शनात् । यत् तु वसिष्ठवचनं तस्याप्य्.

"अकामकृतेऽपराधे प्रायश्चित्तं शुद्धिकरम् ।"

इत्य् अभिप्रायो न पुनः कामकृते प्रायश्चित्ताभाव इति । यत् तु मनुवचनं "इयं विशुद्धिर् उदिता" इत्यादि, तद् अपीयम् इति सर्वनामपरामृष्टद्वादशवार्षिकादिव्रतचर्याया एव । "कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते" इत्य् अनेन प्रतिषेधो न पुनः प्रायश्चित्तमात्रस्य, मरणान्तिकादेः प्रायश्चित्तस्य दर्शितत्वात् ।

ननु यदि कामकृतेऽपि प्रायश्चित्तम् अस्ति तर्हि पापक्षयोऽपि कस्मान् न स्याद् अविशेषाद्, यदि पापक्षयोऽपि नास्ति तर्हि व्यवहार्यतापि कथं भवति ।

उच्यते । उभयत्र प्रायश्चित्ताविशेषेऽपि फलविशेषः शास्त्रतोऽवगम्यते । अज्ञातकृते तु सर्वत्र पापक्षयः । यत्र तु "ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसंबद्धागस्तेननास्तिकनिन्दितकर्माभ्यासि-पतितताग्यपतितत्यागिनः पतिताः पातकसंयोजकाश् च" इति (गौ०ध० २१.१–२) गौतमोक्तमहापातकादौ व्यवहार्यत्वं निषिद्धं, तस्मिन् पतनीये कर्मणि कामतः कृते व्यवहार्यत्वमात्रं न पापक्षय इति । न च पापक्षयाभावे व्यवहार्यत्वम् अनुपपन्नम् । द्वे हि पापस्य शक्ती नरकोत्पादिका व्यवहारनिरोधिका चेति । तत्रेतरशक्त्यविनाशेऽपि व्यवहारनिरोधिकायाः शक्तेर् विनाशो नानुपपन्नस् तस्मात् पापानपगमेऽपि व्यवहार्यत्वं नानुपपन्नम् । यत् तु मनुवचनम्,

"अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः ।
कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥" (मा०ध० ११.४५)

इति, तद् अपि कामकृते प्रायश्चित्तप्राप्त्यर्थं न पुनः पापक्षयप्रतिपादनपरम् । अपतनीये पुनः कामकृतेऽपि प्रायश्चित्तेन पापक्षयो भवत्य् एव,

"अकामतः कृतं पापं वेदाभ्यासेन शुध्यति ।
कामतस् तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधैः ॥" (मा०ध० ११.४६)

इति मनुस्मरणात् । पतनीयेऽपि कर्मणि कामकृते मरणान्तिकप्रायश्चित्तेषु कल्मषक्षयो भवत्य् एव, फलान्तराभावात् । "नास्यास्मिंल् लोके प्रत्यापत्तिर् विद्यते कल्मषं तु निहन्यते" इत्य् (आ०ध० १.२४.२५) आपस्तम्बस्मरणात् ॥ ३.२२६ ॥

निषिद्धाचरणादिकं प्रायश्चित्ते निमित्तम् इत्य् उक्तं तत्पञ्चयितुम् आह ।

ब्रह्महा मद्यपः स्तेनस् तथैव गुरुतल्पगः ।
एते महापातकिनो यश् च तैः सह संवसेत् ॥ या०ध०३.२२७

हन्तिर् अयं प्राणवियोगकरे व्यापारे रूढः । यद् व्यापारसमनन्तरं कालान्तरे वा कारणान्तरनिरपेक्षः प्राणवियोगो भवति, सः । ब्राह्मणं हतवान् इति ब्रह्महा । मद्यपो निषिद्धसुरायाः पाता । स्तेनः ब्राह्मणसुवर्णस्य हर्ता, "ब्राह्मणसुवर्णापहरणं महापातकं" इत्य् आपस्तम्बस्मरणात् । गुरुतल्पगो गुरुभार्यागामी । तल्पशब्देन शयनवाचिना साहचर्याद् भार्या लक्ष्यते । एते ब्रह्महादयो महापातकिनः । पातयन्तीति पातकानि ब्रह्महत्यादीनि । महच्छब्देन तेषां गुरुत्वं ख्याप्यते तद्योगिनो महापातकिन इति । लाघवार्थं संज्ञाकरणम् । यश् च तैर् ब्रह्महादिभिः प्रत्येकं सह संवसति "एभिस् तु संवसेद् यो वै वत्सरं सोऽपि तत्समः" या०ध० ३.२६६) इति वक्ष्यमाणन्यायेन सोऽपि महापातकी । तथाशब्दः प्रकारवचनोऽनुग्राहकप्रयोजकादिकर्तृसंग्रहार्थः । अनुग्राहकश् च यः पलायमानम् अमित्रं उपरुन्धन् परेभ्यश् च हन्तारं परिरक्षन् हन्तुर् द्रढिमानम् उपजनयन्न् उपकरोति स उच्यते । अत एव मनुनानुग्राहकस्य हिंसाफलसंबन्धो दर्शितः ।

"बहूनाम् एककार्याणां सर्वेषां शस्त्रधारिणाम् ।
यद्य् एको घातयेत् तत्र सर्वे ते घातकाः स्मृताः ॥" इति ।

तथा प्रयोजकादीनाम् अप्य् आपस्तम्बेन फलसंबन्ध उक्तः "प्रयोजितानुमन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु यो भूय आरभते तस्मिन् फलविशेषः" (not in आ०ध०) इति तत्राप्रवृत्तस्य प्रवर्तकः प्रयोजकः । स च त्रिप्रकारः : आज्ञापयिताभ्यर्थयमान उपदेष्टेति । तत्राज्ञापयिता नाम स्वयम् उच्चः सन् नीचं भृत्यादिकं यः प्रेरयति मदीयम् अमित्रं जहीति स उच्यते । अभ्यर्थयमानस् तु यः स्वयम् असमर्थः सन् प्रार्थनादिना मच्छत्रुं व्यापादयेत्य् उच्चं प्रवर्तयति सोऽभिधियते । अनयोश् च स्वार्थसिद्ध्यर्थम् एव प्रयोक्तृत्वम् । उपदेष्टा पुनस् त्वं शत्रुम् इत्थं व्यापादयेति मर्मोद्घाटनाद्युपदेशपुरःसरं प्रेरयन् कथ्यते । तत्र च प्रयोज्यगतम् एव फलम् इति तेषां भेदः । अनुमन्ता तु प्रवृत्तस्य प्रवर्तकः । स द्विप्रकारः : कश्चित् स्वार्थसिद्ध्यर्थम् अनुजानाति कश्चित् परार्थम् इति ॥

ननु अनुमननस्य कथं हिंसाहेतुत्वं, न तावत् प्राणवियोगोत्पादनेन, तस्य साक्षात्कर्तृव्यापारजन्यत्वात् । नापि प्रयोजकस्येव, साक्षात्कर्तृप्रवृत्त्युत्पादनद्वारेण प्रवृत्तस्य प्रवर्तकत्वात् । न च साधु त्वयाध्यवसितम् इति प्रवृत्तम् एवानुमन्यत इति शङ्कनीयम् । तादृशस्यानुमननस्य हिंसां प्रत्यहेतुत्वाद् व्यर्थत्वाच् च ।

उच्यते । यत्र हि राजादिपारतन्त्र्यात् स्वयं मनसा प्रवृत्तोऽपि प्रवृत्तिविच्छेदभयाद् आगामिदण्डभयाद् वा शिथिलप्रयत्नो राजाद्यनुमतिम् अपेक्षते तत्रानुमतिर् हन्तुः प्रवृत्तिम् उपोद्बलयन्ती हिंसाफलं प्रति हेतुतां प्रतिपद्यते । तथा योऽपि भर्त्सनताडनधनापहारादिना परान् कोपयति सोऽपि मरणहेतुभूतमन्यूत्पादनद्वारेण हिंसाहेतुर् भवत्य् एव । अत एव विष्णुनोक्तम् ।

"आक्रुष्टस् ताडितो वापि धनैर् वा विप्रयोजितः ।
यम् उद्दिश्य त्यजेत् प्राणांस् तम् आहुर् ब्रह्मघातकम् ॥" इति ।

तथा,

"ज्ञातिमित्रकलत्रार्थं सुहृत्क्षेत्रार्थम् एव च ।
यम् उद्दिश्य त्यजेत् प्राणांस् तम् आहुर् ब्रह्मघातकम् ॥" इति ।

न च कृतेष्व् अप्य् आक्रोशनादिषु कस्यचिन् मन्यूत्पत्त्यदर्शनाद् अकारणतेति शङ्कनीयम्, पुरुषस्वभाववैचित्र्यात् । ये अल्पतरेणापि निमित्तेन जातमन्यवो भवन्ति तेष्व् अव्यभिचार इति नाकारणता । एतेषां चानुग्राहकप्रयोजकादीनां प्रत्यासत्तिव्यवधानापेक्षया व्यापारगतगुरुलाघवापेक्षया च फलगुरुलाघवात् प्रायश्चित्तगुरुलाघवं बोद्धव्यम्, "यो भूय आरभते तस्मिन् फलविशेषः" इति वचनात् । तथा ह्य् अनुग्राहकस्य तावत् स्वयम् एव हिंसायां प्रवृत्तत्वेन स्वतन्त्रकर्तृत्वे सत्य् अपि साक्षात् प्राणवियोगफलकखङ्गप्रहारादिव्यापारयोगित्वाभावेन साक्षात्कर्तृवद् भूयो हिंसारम्भकत्वाभावाद् अल्पफलत्वम् अल्पप्रायश्चित्तत्वं च । प्रयोजकस्य तु स्वतन्त्रकर्तृप्रवृत्तिजनकत्वेन व्यवहितत्वात् ततोऽल्पफलत्वम् । प्रयोजकानां मध्ये परार्थप्रवृत्तत्त्वेनोपदेष्टुर् अल्पफलत्वम् । ननु प्रयोजकहस्तस्थानीयत्वात् प्रयोज्यस्य न फलसंबन्धो युक्तः । यदि परप्रयुक्त्या प्रवर्तमानस्यापि संबन्धस् तर्हि स्थपतितडागखनितृप्रभृतीनाम् अपि मूल्येन प्रवर्तमानानां स्वर्गादिफलप्राप्तिप्रसङ्गः । उच्यते । शास्त्रोक्तं फलं प्रयोक्तरीति न्यायेनाधिकारिकर्तृगतफलजनका देवकूपतडागनिर्माणादयः । न च स्थपतितडागखनित्रादयो देवकूपतडागकरणादिष्व् अधिकारिणः, अस्वर्गकामित्वात् । अत्र पुनः परप्रयुक्त्या प्रवर्तमानानाम् अप्य् अहिंसायाम् अधिकारित्वाद् भवत्य् एव तद्व्यतिक्रमनिबन्धनो दोषः । अनुमन्तुस् तु प्रयोजकाद् अप्य् अल्पफलत्वं प्रयोजकव्यापाराद् बहिरङ्गत्वाल् लघुत्वाच् चानुमननस्य । निमित्तकर्तुः पुनर् आक्रोशकादेः प्रवृत्तिहेतुभूतमन्युजनकत्वेन व्यवहितत्वान् मरणानुसंधानं विना प्रवृत्तत्वाच् चानुमन्तुः सकाशाद् अप्य् अल्पफलत्वम् ।

ननु यदि व्यवहितस्यापि कारणत्वं तर्हि मातापित्रोर् अपि हन्तृपुरुषोत्पादनद्वारेण हननकर्तृत्वप्रसङ्गः ।

उच्यते । न हि पूर्वभावित्वमात्रेण कारणत्वम् कारणतयापि तथाभावित्वोपपत्तेः । यत् खलु स्वरूपातिरिक्तकार्योत्पत्त्यनुगुणव्यापारयोगि भवति तद् धि कारणम् । यदि रथन्तरसामा सोमः स्याद् ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयाद् इति रथन्तरसामतेव क्रतोर् ऐन्द्रवायवाग्रतायां कारणं । न हि तत्र सोमयागः स्वरूपेण कारणं व्यभिचारात् । न च पित्रोस् तादृग्विधकारणलक्षणयोगित्वम् इति नातिप्रसङ्गः । अनेनैव न्यायेन धर्माभिसंधिना निर्मितकूपवाप्यादौ प्रमादपतितब्राह्मणादिमरणे खानयितुर् दोषाभावः । न हि कूपोऽनेन खातितोऽतोऽहम् आत्मानं व्यापादयामीत्य् एवं कूपखनननिमित्तं व्यापादनं यथाक्रोशादौ । अतः कूपकर्तुर् अपि कारणकारणत्वम् एव न पुनर् हिंसाहेतुत्वम् इति मातापितृतुल्यतैव । तथा क्वचित् सत्य् अपि हिंसानिमित्तयोगित्वे परोपकारार्थप्रवृत्तौ वचनाद् दोषाभावः । यथाह संवर्तः।

"बन्धने गोश् चिकित्सार्थे मूड्ःगर्भविमोचने ।
यत्ने कृते विपत्तिश् चेत् प्रायश्चित्तं न विद्यते ॥
औषधं स्नेहम् आहारं ददद् गोब्राह्मणादिषु ।
दीयमाने विपत्तिः स्यान् न स पापेन लिप्यते ॥
दाहच्छेदशिराभेदप्रयत्नैर् उपकुर्वताम् ।
प्राणसंत्राणसिद्ध्यर्थं प्रायश्चित्तं न विद्यते ॥" इति ।

एतच् चादाननिदाननिपुणभिषग्विषयम् । इतरस्य तु "भिषङ् मिथ्याचरन् दाप्यः" (या०ध० २.१४२) इत्य् अत्र दोषो दर्शितः । यत्र तु मन्युनिमित्ताकोशनादिकम् अकुर्वतोऽपि नाम गृहीत्वोन्मादादिनात्मानं व्यापादयति तत्रापि न दोषः,

"अकारणं तु यः कश्चिद् द्विजः प्राणान् परित्यजेत् ।
तस्यैव तत्र दोषः स्यान् न तु यं परिकीर्तयेत् ॥"

इति स्मरणात् ॥ तथा यत्राप्य् आक्रोशकादिजनितमन्युर् आत्मानं खड्गादिना प्रहृत्य मरणाद् अर्वाग् आक्रोशनादिकर्त्रा धनदानादिना संतोषितो यदि जनसमक्षम् उच्चैः श्रावयति नात्राक्रोशकस्यापराध इति तत्रापि वचनान् न दोषः । यथाह विष्णुः ।

"उद्दिश्य कुपितो हत्वा तोषितः श्रावयेत् पुनः ।
तस्मिन् मृते न दोषोऽस्ति द्वयोर् उच्छ्रावणे कृते ॥" इति ।

एतेषां च प्रयोजकादिना दोषगुरुलघुभावपर्यालोचनया प्रायश्चित्तविशेषं वक्ष्यामः ॥ ३.२२७ ॥

ब्रह्महत्यासमान्य् आह ।

गुरूणाम् अध्यधिक्षेपो वेदनिन्दा सुहृद्वधः ।
ब्रह्महत्यासमं ज्ञेयम् अधीतस्य च नाशनम् ॥ या०ध०३.२२८

गुरुणाम् आधिक्येनाधिक्षेपोऽनृताभिशंसनम् । "गुरोर् अनृताभिशंसनम् इति महापातकसमानि" (गौ०ध० २१.१०) इति गौतमस्मरणात् । एतच् च लोकाविदितदोषाभिशंसनविषयम्, "दोषं बुद्ध्वा न पूर्वः परेषां समाख्याता स्यात् संव्यवहारे चैनं परिहरेत्" (आ०ध० १.२१.२०) इत्य् आपस्तम्बस्मरणात् । नास्तिक्याभिनिवेशेन वेदकुत्सनस् । सुहृन् मित्रं तस्याब्राह्मणस्यापि वधः । अधीतस्य वेदस्यासच्छास्त्रविनोदेनालस्यादिना वा नशनं विस्मरणम् । एतानि प्रत्येकं ब्रह्महत्यासमानि । यत् पुनः "स्वाध्यायाग्निसुतत्यागः" (या०ध० ३.२३९) इत्य् अधीतत्यागस्योपपातकमध्ये परिगणनं, तत् कथंचित् कुटुम्बभरणाकुलतयासच्छास्त्रश्रवणव्यग्रतया वा विस्मरणे द्रष्टव्यम् ॥ ३.२२८ ॥

सुरापानसमान्य् आह ।

निषिद्धभक्षणं जैह्म्यम् उत्कर्षे च वचोऽनृतम् ।
रजस्वलामुखास्वादः सुरापानसमानि तु ॥ या०ध०३.२२९

निषिद्धं लशुनादिकं तस्य मतिपूर्वं भक्षणम् । अत एव मनुः ।

"छत्त्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेन् नरः ॥" इति । (मा०ध० ५.१९)

अमतिपूर्वे तु प्रायश्चित्तान्तरम्,

"अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सांतपनं चरेत् ।
यतिचान्द्रायणं वापि शेषेषूपवसेद् अहः ॥" (मा०ध० ५.२०)

इति तेनैवोक्तत्वात् । जैह्मयं कौटिल्यं अन्याभिसंधानेनान्यवादित्वम् अन्यकर्तृत्वं च । अत्र च जैह्मयम् इति यद्य् अपि सामान्येनोक्तं तथापि प्रायश्चित्तस्य गुरुत्वान् निमित्तस्यापि गुरुविषयं जैह्मयम् इति गौरवं गम्यते । अस्ति च नैमित्तिकपर्यालोचनया निमित्तस्य विशेषावगतिः । यथा यस्योभावग्न्य् अनुमतौ स्यातां दुष्टौ भवेताम् अभिनिम्लोचेतां वा पुनर् आधेयं तत्र प्रायश्चित्तिर् इत्य् अत्रोभाव् इत्य् अस्य निमित्तविशेषणत्वेन हविर् उभयत्वाद् अविवक्षितत्वेऽप्य् अग्निद्वयनिष्पादकपुनराधेयरूपनैमित्तिकविधिबलाद् अग्निद्वयानुगतिर् एव निमित्तम् इति कल्प्यते तथात्रापीति युक्तं निमित्तगौरवकल्पनम् । तथा समुत्कर्षनिमित्तं राजकुलादाव चतुर्वेद एव चतुर्वेदोऽहम् इत्य् अनृतभाषणम् । रजस्वलाया (कामवशेन) वक्त्रासवसेवनम् । एतानि सुरापानसमानि ॥ ३.२२९ ॥

सुवर्णस्तेयसमान्य् आह ।

अश्वरत्नमनुष्यस्त्रीभूधेनुहरणं तथा ।
निक्षेपस्य च सर्वं हि सुवर्णस्तेयसंमितम् ॥ या०ध०३.२३०

अश्वादीनां ब्राह्मणसंबन्धिना निक्षेपस्य च सुवर्णव्यतिरिक्तस्यापहरणम् एतत् सर्वं सुवर्णस्तेयसमं वेदितव्यम् ॥ ३.२३० ॥

गुरुतल्पसमान्य् आह ।

सखिभार्याकुमारीषु स्वयोनिष्व् अन्त्यजासु च ।
सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥ या०ध०३.२३१

सखा मित्रं तस्य भार्या कुमार्य् उत्तमजातीया कन्यका तासु ।

सकामास्व् अनुलोमासु न दोषस् त्व् अन्यथा दमः ।

दूषणे तु करच्छेद उत्तमायां वधस् तथा ॥ (या०ध० २.२८८)

इति तत्रैव दण्डविशेषप्रतिपादनात् प्रायश्चित्तगुरुत्वं युक्तम् । स्वयोनिर् भगिनी, अन्त्यजा चाण्डाली, सगोत्रा समानगोत्रा, सुतस्त्री स्नुषा, एतासां गमनं प्रत्येकं गुरुतल्पसमम् । एतच् च रेतःसेकाद् ऊर्ध्वं वेदितव्यम् । अर्वाङ् निवृत्तौ तु न गुरुतल्पसमत्वं किंत्व् अल्पम् एव प्रयाश्चित्तम्,

"रेतःसेकः स्वयोनीषु कुमारीष्व् अन्त्यजासु च ।
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥" (मा०ध० ११.५९)

इति मानवे रेतःसेक इति विशेषणोपादानात् । सगोत्राग्रहणेनैव सिद्धे पुनः सुतस्त्रीग्रहणं प्रायश्चित्तगौरवप्रतिपादनार्थम् । अत्र च ब्रह्महत्यादिसमत्ववचनं गुर्वधिक्षेपादेस् तत्तन्निमित्तप्रायश्चित्तोपदेशार्थम् ।

ननु वेदनिन्दादौ दोषस्य लघुत्वाद् गुरुतरं ब्रह्महत्यादिप्रायश्चित्तं न युज्यते ।

मैवम्, गुरुप्रायश्चित्तोपदेशबलाद् एव दोषगुरुत्वावगतेः । न च ब्रह्महत्यादिप्रायश्चित्तातिदेशार्थम् एवेदं वचनं न भवति, किं तु दोषगौरवमात्रप्रतिपादनपरम् इत्य् आशङ्कनीयम् । यतस् तावन्मात्रप्रतिपादनपरत्वे ब्रह्महत्यासमम् इदं गुरुतल्पसमम् इत्यादिभेदेन समत्वाभिधानं नोपपद्यते । तच् च प्रायश्चित्तं समशब्देनोपदिश्यमानं ब्रह्महत्यादिप्रायश्चित्तेभ्यः किंचिन् न्यूनम् एवोपदिश्यते । लोके राजसमो मन्त्री इत्यादिवाक्येषु समशब्दस्य किंचिद्धीने प्रयोगदर्शनात् महतः पातकस्येतरस्य च तुल्यत्वस्यायुक्तत्वाच् च । एवं च सति याज्ञवल्क्येन ब्रह्महत्यासमत्वेनोक्तानाम् अपि ब्रह्मोज्झत्ववेदनिन्दासुहृद्वधानां मनुना यत् सुरापानसाम्यम्,

"ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः ।
गर्हितान्नाज्ययोर् जग्धिः सुरापानसमानि षट् ॥" (मा०ध० ११.५७)

इत्य् उक्तं तत् प्रायश्चित्तविकल्पार्थम् । एवम् अन्येष्व् अपि वचनेषु विरोधः परिहर्तव्यः । यत् तु वसिष्ठेन "गुरोर् अलीकनिर्बन्धे कृच्छ्रं द्वादशरात्रकं चरित्वा सचैलः स्नातो गुरुप्रसादात् पूतो भवति" (व०ध० २१.२८) इति लघुप्रायश्चित्तम् उक्तं, तद् अमतिपूर्वं सकृदनुष्ठाने च वेदितव्यम् ॥ ३.२३१ ॥

गुरुतल्पानिदेशम् आह ।

पितुः स्वसारं मातुश् च मतुलानीं स्नुषाम् अपि ।
मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा ॥ या०ध०३.२३२

आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः ।
लिङ्गं छित्त्वा वधस् तस्य सकामायाः स्त्रिया अपि ॥ या०ध०३.२३३

पितृष्वस्रादयः प्रसिद्धास् ताः गच्छन् गुरुतल्पगस् तस्य लिङ्गं छित्त्वा राज्ञा वधः कर्तव्यो दण्डार्थं प्रायश्चित्तं च तद् एव । चशब्दाद् राज्ञीप्रव्रजितादीनां ग्रहणम् । यथाह नारदः ।

"माता मातृष्वसा श्वश्रूर् मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥
आसाम् अन्यतमां गच्छन् गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनात् तत्र नान्यो दण्डो विधीयते ॥" (ना०स्मृ० १२.७२–७४) इति ।

राज्ञी राज्यस्य कर्तुर् भार्या न क्षत्रियस्यैव, तद्गमने प्रायश्चित्तान्तरोपदेशात् । धात्री मातृव्यतिरिक्ता स्तन्यदानादिना पोषयित्री । साध्वी व्रतचारिणी । वर्णोत्तमा ब्राह्मणी, अत्र मातृग्रहणं दृष्टान्तार्थम् । अयं च लिङ्गच्छेदवधात्मको दण्डो ब्राह्मणव्यतिरिक्तस्य्,

"न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अवस्थितम् ।" (मा०ध० ८.३८०)

इति तस्य वधनिषेधात्, वधस्यैव प्रायश्चित्तरूपत्वात् । अस्य च विषयं गुरुतलप्रायश्चित्तप्रकरणे प्रपञ्चयिष्यामः । अत्र स्नुषाभगिन्योः पूर्वश्लोकेन गुरुतल्पसमीकृतयोः पुनर्ग्रहणं प्रायश्चित्तविकल्पार्थम् । यदा पुनर् एताः स्त्रियः सकामाः सत्य एतान् एव पुरुषान् वशीकृत्योपभुञ्जन्ते तदा तासाम् अपि पुरुषवद् वध एव दण्डः प्रायश्चित्तं च । एतानि गुर्वधिक्षेपादितनयागमपर्यन्तानि महापातकातिदेशविषयाणि सद्यःपतनहेतुत्वात् पातकान्य् उच्यन्ते । यथाह यमः ।

"मातृष्वसा मातृसखी दुहिता च पितृष्वसा ।
मातुलानी स्वसा श्वश्रूर् गत्वा सद्यः पतेन् नरः ॥" इति ।

गौतमेन पुनर् अन्येषां अपि पातकत्वम् उक्तम् । "मातृपितृयोनिसंबद्धाङ्गस्तेननास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः पातकसंयोजकाश् च" (गौ०ध० २१.१२) इति । तेषां च महापातकोपपातकमध्यपाठान् महापातकान् न्यूनत्वम् उपपातकाच् च गुरुत्वम् अवगम्यते । तद् उक्तम् ।

"महापातकतुल्यानि पापान्य् उक्तानि यानि तु ।
तानि पातकसम्ज्ञानि तन्न्यूनम् उपपातकम् ॥" इति ।

तथा चाङ्गिराः ।

"पातकेषु सहस्रं स्यान् महत्सु द्विगुणं तथा ।
उपपापे तुरियं स्यान् नरकं वर्षसंख्यया ॥" इति ॥ ३.२३२ ॥ ३.२३३ ॥

एवं महापातकानि तत्समानि च पातकानि परिगणय्योपपातकानि परिगणयितुम् आह ।

गोवधो व्रात्यता स्तेयम् ऋणानां चानपक्रिया ।
अनाहिताग्नितापण्यविक्रयः परिदेवनम् ॥ या०ध०३.२३४

भृताद् अध्ययनादानं भृतकाध्यापनं तथा ।
पारदार्यं पारिवित्त्यं वार्द्धुष्यं लवणक्रिया ॥ या०ध०३.२३५

स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्थोपजीवनम् ।
नास्तिक्यं व्रतलोपश् च सुतानां चैव विक्रयः ॥ या०ध०३.२३६

धान्यकुप्यपशुस्तेयम् अयाज्यानां च याजनम् ।
पितृमातृसुतत्यागस् तडागारामविक्रयः ॥ या०ध०३.२३७

कन्यासंदूषणं चैव परिविन्दकयाजनम् ।
कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् ॥ या०ध०३.२३८

आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् ।
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च ॥ या०ध०३.२३९

इन्धनार्थं द्रुमछेदः स्त्रीहिंसौषधजीवनम् ।
हिंस्रयन्त्रविधानं च व्यसनान्य् आत्मविक्रयः ॥ या०ध०३.२४०

शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम् ।
तथैवानाश्रमे वासः परान्नपरिपुष्टता ॥ या०ध०३.२४१

असच्छास्त्राधिगमनम् आकरेष्व् अधिकारिता ।
भार्याया विक्रयश् चैषाम् एकैकम् उपपातकम् ॥ या०ध०३.२४२

गोवधो गोपिण्डव्यापादनम्, कालेऽनुपनीतत्वं व्रात्यता, ब्राह्मणसुवर्णतत्समव्यतिरिक्तपरद्रव्यापहरणं स्तेयम्, गृहीतस्य सुवर्णादेर् अप्रदानम्, ऋणानाम् अनपाकरणम्, तथा देवर्षिपितॄणां संबन्ध्यृणस्यानपाकरणं च, सत्य् अधिकारेऽनाहिताग्नित्वम् ।

ननु ज्योतिष्टोमादिकामश्रुतयः स्वाङ्गभूताग्निनिष्पत्त्यर्थम् आधानं प्रयुञ्जत इति मीमांसकप्रसिद्धिर् अतश् च यस्याग्निभिः प्रयोजनं तस्य तदुपायभूताधाने प्रवृत्तिर् वीह्याद्यर्थिन इव धनार्जने । यस्य पुनर् अग्निभिः प्रयोजनं नास्ति तस्याप्रवृत्तिर् इति कथम् अनाहिताग्नितादोषः ।

उच्यते । अस्माद् एवाधानस्यावश्यकत्ववचनान् नित्यश्रुतयोऽपि साधिकारित्वाविशेषाद् आधानस्य प्रयोजिका इति स्मृतिकाराणाम् अभिप्रायो लक्ष्यत इत्य् अदोषः । तथा अपण्यस्य लवणादेर् विक्रयः, सहोदरस्य ज्येष्ठस्य तिष्ठतः कनीयसो भ्रातुर् दाराग्निसंयोगः परिवेदनम्, पणपूर्वाध्यापकाद् अध्ययनग्रहणम्, पणपूर्वाध्यापनम्, परदारसेवनं गुरुदारतत्समव्यतिरेकेण, पारिवित्त्यं कनीयसि कृतविवाहे ज्येष्ठस्य विवाहराहित्यम्, वार्धुष्यं प्रतिषिद्धवृद्ध्युपजीवनम्, लवणक्रिया लवणस्योत्पादानम्, स्त्रिया वधोऽब्राह्मण्या अप्य् आत्रेयीव्यतिरेकेण, शूद्रवधः, अदीक्षितविट्क्षत्रियवधः, निन्दितार्थोपजीवनम् अराजस्थापितार्थोपजीवनम्, नास्तिक्यं नास्ति परलोक इत्याद्यभिनिवेशः, व्रतलोपो ब्रह्मचारिणः स्त्रीप्रसङ्गः, सुतानाम् अपात्यानां विक्रयः, धान्यं व्रीह्यादि, कुप्यम् असारद्रव्यं त्रपुसीसादि, पशवो गवादयस् तेषाम् अपहरणम् । "गोवधो व्रात्यता स्तेयम्" इत्य् अनेन स्तेयग्रहणेनैव सिद्धे पुनर्धान्यकुप्यादिस्तेयग्रहणं नित्यार्थम् । अतो धान्यादिव्यतिरिक्तद्रव्यस्तेये नावश्यम् एतद् एव प्रायश्चित्तम् अपि तु ततो न्यूनम् अपि भवत्य् एव । एतेन बान्धवत्यागग्रहणेनैव सिद्धे पुनः पित्रादित्यागग्रहणं व्याख्यातम् । अयाज्यानां जातिकर्मदुष्टानां शूद्रव्रात्यादीनां याजनम्, पितृमातृसुतानाम् अपतितानां त्यागो गृहान् निष्कासनम्, तडागस्यारामस्य चोद्यानोपवनादेर् विक्रयः । कन्याया संदूषणम् अङ्गुल्यादिना योनिविदारणं न तु भोगः, तस्य सखिभार्याकुमारीष्व् इति गुरुतल्पगसमत्वस्योक्तत्वात् । परिविन्दकयाजनं तस्य च कन्याप्रदानम् । कौटिल्यं गुरोर् अन्यत्र, गुरुविषयस्य तु कौटिल्यस्य सुरापानसमत्वम् उक्तम् । पुनर् व्रतलोपग्रहणम् अशिष्टाप्रतिषिद्धेष्व् अपि श्रीहरिचरणकमलप्रेक्षणात् प्राक् ताम्बूलादिकं न भक्षयामीत्य् एवंरूपेषु प्राप्त्यर्थं न तु स्नातकव्रतप्राप्त्यर्थम् । तत्र,

"स्नातकव्रतलोपे च प्रायश्चित्तम् अभोजनम् ।" (मा०ध० ११.२०४)

इति मनुना लघुप्रायश्चित्तस्य प्रतिपादितत्वात् । तथात्मार्थं च पाकलक्षणक्रियारम्भः,

"अघं स केवलं भुङ्क्ते यः पचत्य् आत्मकारणात् ।" (मा०ध० ३.११८)

इति तस्यैव प्रतिषिद्धत्वात् । क्रियामात्रविषयत्वे तु प्रतिषेधकल्पनाया गौरवं स्यात् । मद्यपायाः स्त्रियाः जायाया अपि निषेवणम् उपभोगः । स्वाध्यायत्यागो व्याख्यातः । अग्नीनां च श्रौतस्मार्तानां त्यागः, सुतत्यागः संस्काराद्यकरणम्, बान्धध्वानां पितृव्यमातुलादीनां त्यागः सति विभवे अपरिरक्षणम्, पाकादिदृष्टप्रयोजनसिद्ध्यर्थम् आर्द्रद्रुमच्छेदो न त्व् आहवनीयपरिरक्षणार्थम् अपि, स्त्रिया हिंसया औषधेन च वर्तनं जीवनं स्त्रीहिंसौषधजीवनम् । तत्र स्त्रीजीवनं नाम भार्यां पण्यभावेन प्रयोज्य तल्लब्धोपजीवनम्, स्त्रीधनेनोपजीवनं वा । हिंसस्या जीवनं प्राणिवधेन जीवनम् । औषधजीवनं वशीकरणादिना । हिंसयन्त्रस्य तिलेक्षुपीडाकारस्य प्रवर्तनम् । व्यसनानि मृगयादीन्य् अष्टादश । आत्मविक्रयो द्रव्यग्रहणेन परदास्यकरणम् । शूद्रसेवनं हीनेषु मैत्रीकरणम् । अनूढसवर्णदारस्य केवलहीनवर्णदारोपयमनं साधारणस्त्रीसंभोगश् च । अनाश्रमवासोऽगृहीताश्रमित्वं सत्य् अधिकारे । परान्नपरिपुष्टता परपाकरतित्वम् । असच्छास्त्रस्य चार्वाकादिग्रन्थस्याधिगमः । सर्वाकरेषु सुवर्णाद्युत्पत्तिस्थानेषु राजाज्ञयाधिकारित्वम् । भार्याया विक्रयः । चशब्दान् मन्वाद्युक्ताभिचारामतिपूर्वलशुनादिभक्षणादेर् ग्रहणम् । एषां गोवधादीनां प्रत्येकम् उपपातकसंज्ञा वेदितव्या । मनुना पुनर् अन्यान्य् अपि निमित्तानि जातिभ्रंशकरसंकरीकरणापात्रीकरणमलिनीकरणसंज्ञानि परिगणितानि ।

"ब्राह्मणस्य रुजः कृत्या घ्रातिर् अघ्रेयमद्ययोः ।
जैह्म्यं पुंसि च मैथुनं जातिभ्रंशकरं स्मृतम् ॥
खराश्वोष्ट्रमृगेभानाम् अजाविकवधस् तथा ।
संकरीकरणं ज्ञेयं मीनाहिमहिषस्य च ॥
निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् ।
अपात्रीकरणं ज्ञेयम् असत्यस्य च भाषणम् ॥
कृमिकीटवयोहत्या मद्यानुगतभोजनम् ।
फलैधःकुसुमस्तेयम् अधैर्यं च मलावहम् ॥" इति ॥ (मा०ध० ११.६८–७१)

अतोऽन्यन् निमित्तजातं प्रकीर्णकं कथ्यते । बृहद्विष्णुना च समस्तानि प्रायश्चित्तनिमित्तान्य् उत्तरोत्तरं लघीयांसि पृथक्संज्ञाभेदभिन्नानि दर्शितानि : "ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णापहरणं गुरुदारगमनम् इति महापातकानि, तत्संयोगश् च । मातृगमनं दुहितृगमनं स्नुषागमनम् इत्य् अतिपातकानि । यागस्थक्षत्रियवधो वैश्यस्य च रजस्वलायाश् चान्तर्वत्न्याश् चासगोत्रायाश् चाविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्रह्महत्यासमानि । कौटसाक्ष्यं सुहृद्वध इत्य् एतौ सुरापानसमौ । ब्राह्मणस्य भूमिहरणं सुवर्णस्तेयसमम् । पितृव्यमातामहमातुलनृपपत्न्यभिगमनं गुरुदारगमनसमम्, पितृष्वसृमातृष्वसृगमनं श्रोत्रियर्त्विगुपाध्यायमित्रपत्न्यभिगमनं च । स्वसुः सख्याः सगोत्राया उत्तमवर्णाया रजस्वलायाः शरणागतायाः प्रव्रजितायाः निक्षिप्तायाश् च गमनम् इत्य् एतान्य् अनुपातकानि । अनृतवचनं समुत्कर्षे राजगामि च पैशुनम्, गुरोश् चालीकनिर्बन्धो वेदनिन्दा अधीतस्य त्यागोऽग्निपितृमातृसुतदाराणां च । अभोज्यान्नभक्षणं परस्वापहरणं परदारानुगमनम् अयाज्यानां च याजनं व्रात्यता भृतकाध्यापनं भृतकाध्ययनादानं सर्वाकरेष्व् अधिकारो महायन्त्रप्रवर्तनं द्रुमगुल्मलतौषधीनां हिंसया जीवनम् अभिचारमूलकर्मसु च प्रवृत्तिर् आत्मार्थक्रियारम्भोऽनाहिताग्निता देवऋषिपितॄणाम् ऋणस्यानपक्रिया असच्छास्त्राधिगमनं नास्तिकता कुशीलता मद्यपस्त्रीनिषेवणम् इत्य् उपपातकानि । ब्राह्मणस्य रुजःकरणम् अघ्रेयमद्ययोर् घ्रातिर् जैह्मयं पशुषु पुंसि च मैथुनाचरणम् इत्य् एतानि जातिभ्रंशकराणि । ग्राम्यारण्यपशूनां हिंसनं संस्करीकरणम् । निन्दितेभ्यो धनादानं वाणिज्यं कुसीदजीवनं असत्यभाषणम् शूद्रसेवनम् इत्य् अपात्रीकरणानि । पक्षिणां जलचराणां जलजानां च घातनं कृमिकीटघातनं मद्यानुगतभोजनम् इति मलावहानि । यद् अनुक्तं तत् प्रकीर्णकम्" । इति । कात्यायनेन तु महापातकसमानां विष्नुनाप्य् उपपातकत्वेनोक्तानां पातकसंज्ञा दर्शिता ।

"महापापं चातिपापं तथा पातकम् एव च ।
प्रासङ्गिकं चोपपापम् इत्य् एवं पञ्चको गणः ॥" इति ।

ननु उपपातकादीनां कथं पातकत्वं पतनहेतुत्वाभावात् । यदि तेषाम् अपि पतनहेतुत्वं तर्हि "मातृपितृयोनिसंबन्धाङ्गः" इत्यादिपरिगणनम् अनर्थकम् ।

अथैवम् उच्यते । यद्य् अपि महापातकतत्समेष्व् इव सद्यःपातित्यहेतुत्वं नास्ति तथाप्य् अभ्यासापेक्षया पातित्यहेतुत्वम् अविरुद्धम् । "निन्दितकर्माभ्यासी NSP reads : -आभ्यासाद्." (गौ०ध० २१.१) इति गौतमवचनाद् इति ।

मैवम्, अभ्यासस्यानिरूप्यमाणत्वात् । द्विः शतकृत्वो वेति तत्राविशेषेऽङ्गीक्रियमाणे योऽपि द्विर् दिवा स्वपिति यः शतकृत्वो वा गोवधं करोति तयोर् अविशेषेण पातित्यं स्यात् । अत्रोच्यते । यत्रार्थवादे प्रत्यवायविशेषः श्रूयते प्रायश्चित्तबहुत्वं वा तस्मिन् निन्दितकर्मणि यावत्य् अभ्यस्यमाने महापातकतुल्यत्वं भवति तावान् अभ्यासः पातित्यहेतुः । दिवास्वप्नादौ तु सहस्रकृत्वोऽप्य् अभ्यस्यमाने न महापातकतुल्यत्वं भवतीति न तत्र पातित्यम् । अतो युक्तम् उपपातकादेर् अभ्यासापेक्षया पतनहेतुत्वम् ॥ ३.२३४-२४२ ॥

एवं व्यवहारार्थं संज्ञाभेदसहितं प्रायश्चित्तनिमित्तपरिगणनं कृत्वा नैमित्तिकानि प्रदर्शयितुम् आह ।

शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन् ।
ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिम् आप्नुयात् ॥ या०ध०३.२४३

शिरसः कपालम् अस्यास्तीति शिरःकपाली । तथा ध्वजवान् "कृत्वा शवशिरोध्वजम्" (मा०ध० ११.७३) इति मनुस्मरणात् । अन्यच्छिरःकपालं दण्डाग्रसमारोपितं ध्वजशब्दवाच्यं गृह्णीयात् । तच् च कपालं स्वव्यापादितब्राह्मणशिरःसंबन्धि ग्राह्यम्, "ब्राह्मणो ब्राह्मणं घातयित्वा तस्यैव शिरःकपालम् आदाय तीर्थान्य् अनुसंचरेत्" इति शातातपस्मरणात् । तदलाभेऽन्यस्यैव ब्राह्मणस्य ग्राह्यम् । एतद् उभयं पाणिनैव ग्राह्यम्, "खट्वाङ्गकपालपाणिः" (गौ०ध० २२.४) इति गौतमस्मरणात् । खट्वाङ्गशब्देन दण्डारोपितशिरःकपालात्मको ध्वजो गृह्यते, न पुनः खट्वैकदेशः, "महोक्षः खट्वाङ्गं परशुः" इत्यादिव्यवहारेषु तस्यैव प्रसिद्धेः । एतच् च कपालधारणं चिह्नार्थं न पुनर् भोजनार्थं भिक्षार्थं वा, "मृन्मयकपालपाणिर् भिक्षायै ग्रामं प्रविशेत्" (गौ०ध० २२.४) इति गौतमस्मरणात् । तथा वनवासिना च तेन भवितव्यम्,

"ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् ।" (मा०ध० ११.७३)

इति मनुस्मरणात् । ग्रामसमीपादौ वा,

"कृतवापनो निवसेद् ग्रामान्ते गोव्रजेऽपि वा ।
आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥" (मा०ध० ११.७९)

इति तेनैवोक्तत्वात् । "कृतवापनो वा" इति विकल्पाभिधानाज् जटी वेति लक्ष्यते । अत एव संवर्तः ।

"ब्रह्म्हा द्वादशाब्दानि बालवासा जटी ध्वजी ।" इति ।

तथा भिक्षाशनशिलश् च भवेत् । भिक्षा च लोहितकेन मृन्मयखण्डशरावेण ग्राह्या, "लोहितकेन खण्डशरावेण ग्रामं भिक्षायै प्रविशेत्" (आ०ध० १.२४.१४) इत्य् आपस्तम्बस्मरणात् । सप्तागाराण्य् एवान्नम् इष्टं लभ्येत वा न वेत्य् एवम् असंकल्पितानि भिक्षार्थं प्रविशेत् "सप्तागाराण्य् असंकल्पितानि चरेद् भैक्षम्" (व०ध० १०.७) इति वसिष्ठस्मरणात् । तथैकाल एव सा ग्राह्या, "एककालाहारः" इति (not in व०ध०) तेनैवोक्तत्वात् । एतच् च भैक्षं ब्राह्मणादिवर्णेष्व् एव कार्यम् "चातुर्वर्ण्ये चरेद् भैक्षं खट्वाङ्गी संयतात्मवान्" इति संवर्तस्मरणात् । तथा ब्रह्महास्मीति स्वकर्म ख्यापयन् द्वारि स्थितो भिक्षां याचेत्,

"वेश्मनो द्वारि तिष्ठामि भिक्षार्थी ब्रह्मघातकः ।"

इति पराशरस्मरणात् । अयं च भैक्षाशित्वनियमो वन्यैर् जीवनाशक्तौ द्रष्टव्यः,

"भिक्षायै प्रविशेद् ग्रामं वन्यैर् यदि न जीवति ।"

इति संवर्तस्मरणात् । तथा ब्रह्मचर्यादियुकेन च तेन भवितव्यम्, "खट्वाङ्गकपालपाणिर् द्वादशवत्सरान् ब्रह्मचारी भिक्षायै ग्रामं प्रविशेत् कर्माचक्षाणः । यथोपक्रामेत् स संदर्शनाद् आर्यस्य । (उत्थितस् तु दिवा तिष्ठेद् उपविष्टस् तथा निशि । एतद् वीरासनं नाम सर्वपापप्रणाशनम् ॥) The verse within परेन्थेसेस् is प्रोबब्ल्य् an इन्सेर्तिओन् into the गौ०ध० passage. But it is given by अल्ल् थ्रेए एदितिओन्स्. स्थानासनाभ्यां विहरेत् सवनेषूदकोपस्पर्शी शुध्येत्" (गौ०ध० २२.४–६) इति गौतमस्मरणात् । ब्रह्मचारिग्रहणं च "वर्जयेन् मधुमांसगन्धमाल्यदिवा-स्वप्नाञ्जनाभ्यञ्जनोपानच्छत्रकामक्रोधलोभमोहहर्षण्र्त्यगीतपरिवादनभयानि" (गौ०ध० २.१३) इति ब्रह्मचारिप्रकरणोक्ताविरुद्धधर्मप्राप्त्यर्थम् । अत एव शङ्खः ।

"स्थानवीरासनी मौनी मौञ्जी दण्डकमण्डलुः ।
भिक्षाचर्याग्निकार्यं च कूष्माण्डीभिः सदा जपः ॥" इति ।

तस्य भवेद् इति शेषः । अत्र "सवनेषूदकस्पर्शी" (chf. गौ०ध० १९.१५) इति स्नानविधानात्, तदङ्गभूतमन्त्रादिप्राप्तिर् अप्य् अवगम्यते । तथा "शुचिना कर्म कर्तव्यम्" इत्य् अस्य सर्वकर्मसाधारणात्वाद् व्रतचर्याङ्गभूतशौचसंपत्त्यर्थं स्नानवत् संध्योपासनम् अपि कार्यम्, तस्यापि शौचापादनद्वारेण सर्वकर्मशेषत्वात् । तथा च दक्षः ।

"संध्याहीनोऽशुचिर् नित्यम् अनर्हः सर्वकर्मसु ।
यत् किंचित् कुरुते कर्म न तस्य फलभाग् भवेत् ॥" इति ।

न च "द्विजातिकर्मभ्यो हानिः पतनम्" इति वचनात्, संध्योपासनायाश् च द्विजातिकर्मत्वाद् अप्राप्तिर् इति शङ्कनीयम्, यस्मात् पतितस्यैव व्रतचर्योपदेशात् तदङ्गतयैव संध्योपासनादिप्राप्तिः । अतो "द्विजातीनाम् अध्ययनम् इज्या दानं, ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः" (गौ०ध० १०.१–२) इत्यादीनाम् एव द्विजातिकर्मणां व्रतचर्यानङ्गभूतानां हानिर् न सर्वेषाम्, तावन्मात्रबाधेन हानिवचनस्य चरितार्थत्वात् । इयं च मनुयाज्ञवल्क्यगौतमादिप्रतिपादिता द्वादशवार्षिकव्रतचर्यैकैव न पुनर् भिन्ना, परस्परसापेक्षत्वाद् अविरोधाच् च । तथा हि, भिक्षाशी कर्म वेदयन् नियुक्ते किं भिक्षापात्रं केषां वा गृहेषु कतिषु वेत्याकाङ्क्षा जायेतैव । तत्र "लोहितकेन खण्डशरावेण" (आ०ध० १.२४.१४) इत्य् आपस्तम्बवचनैः परिपूरणम् अविरुद्धम् । अतः सर्वैर् एककल्पोपदेशात् कैश्चिद् उक्तं मनुगौतमाद्युक्तेतिकर्तव्यतायाः परस्परसापेक्षत्वेऽपि विकल्प इति, तद् अनिरूप्यैवोक्तम् इति मन्तव्यम् । एवं द्वादशवर्षाणि व्रतचर्याम् आवर्त्य ब्रह्महा शुद्धिम् आप्नुयात्, इयं चाकामकृतब्रह्मवधविषया,

"इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ॥" (मा०ध० ११.९०)

इति मनुस्मरणात् ।

अत्रेदं चिन्तनीयम् । किं द्वित्रब्राह्मणवधे प्रायश्चित्तस्य तन्त्रत्वम् उतावृत्तिर् इति । तत्र केचिन् मन्यन्ते "ब्रह्महा द्वादशाब्दानि" (या०ध० ३.२४३) इत्य् अत्र ब्रह्मशब्दस्यैकस्मिन् द्वयोर् बहुषु साधारणत्वाद् एकस्मिन् ब्राह्मणवधे यत् प्रायश्चित्तं तद् एव द्वितीये तृतीयेऽपि । तत्रैकब्राह्मणवधनिमित्तैकप्रायश्चित्तानुष्ठाने सतीदं कृतम् इदं नेति न शक्यते वक्तुम् । देशकालकर्तॄणां प्रयोगानुबन्धभूतानाम् अभेदेनागृह्यमाणविशेषत्वात् तन्त्रानुष्ठानेनैव पापक्षयलक्षणकार्यनिष्पत्तिर् युक्ता । यथा तन्त्रानुष्ठितैः प्रयाजादिभिर् आग्नेयादिषु तन्त्रेणैवानेकोपकारलक्षणकार्याणां निष्पत्तिः । न चैवं वाच्यम् द्वित्रब्राह्मणवधे पापस्य गुरुत्वाद् "एनसि गुरुणि गुरूणि लघुनि लघूनि" (गौ०ध० १९.१९) इति गौतमवचनाद् आवृत्तम् एव प्रायश्चित्तानुष्ठानं युक्तम् विलक्षणकार्ययोस् तन्त्रेण निष्पत्त्यनुपपत्तेर् इति । यतो नेदं वचनम् आवृत्तिविधायकं किं तूपदिष्टानां गुरुलगुकल्पानां व्यवस्थाप्रतिपादनपरम् । न च द्वितीयब्राह्मणवधे पापस्य गुरुत्वं, प्रमाणाभावात् । यच् च मनुदेवलाभ्याम् उक्तम्,

"विधेः प्राथमिकाद् अस्माद् द्वितीये द्विगुणं भवेत् ।
तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः ॥"

इति, तद् अपि प्रतिनिमित्तं नैमित्तिकशास्त्रम् आवर्तते इति न्यायेन द्वित्रब्राह्मणवधगोचरनैमित्तिकशास्त्रावृत्त्यनुवादेन चतुर्थे तदभावविधिपरम् न पुनर् द्वितीयब्रह्मवधे प्रायश्चित्तानुष्ठानद्वैगुण्यविधिपरम् अपि, वाक्यभेदप्रसङ्गात् । तस्मात् द्वित्रब्राह्मणवधेऽपि सकृद् एव द्वादशवार्षिकाद्यनुष्ठानं युक्तम्, यथा "अग्नये क्षामवते पुरोडाशम् अष्टाकपालं निर्वपेद्" इत्यादिगृहदाहादिनिमित्तेषु चोदितानां क्षामवत्यादीनां युगपद् अनेकेष्व् अपि गृहदाहादिनिमित्तेषु सकृद् एवानुष्ठानम् ।

अत्रोच्यते । न हि वचनविरोधे न्यायः प्रभवति । वचनं च "विधेः प्राथमिकाद्" इत्यादिकं द्वित्रब्राह्मणवधे प्रायश्चित्तानुष्ठानावृत्तिविधिपरम् । एवं सति न्यायलभ्यतन्त्रानुष्ठानबाधेनावृत्तिविधाव् इदं वचनं प्रवृत्तिविशेषकरं स्यात् । इतरथा शास्त्रतः प्राप्त्यनुवादकत्वेनानर्थकं स्यात् । न च वाक्यभेदः, चतुर्थादिब्रह्मवधपर्युदासेनेतरत्रावृत्तप्रायश्चित्तविधानेनैकार्थत्वात् । किं च, "चतुर्थे नास्ति निष्कृतिर्" इति लिङ्गदर्शनाद् घन्यमानब्राह्मणसंख्योत्कर्षे दोषगौरवं गम्यते, तथा देवलादिवचनाच् च ।

"यत् स्याद् अनभिसंधाय पापं कर्म सकृत् कृतम् ।
तस्येयं निष्कृतिर् दृष्टा धर्मविद्भिर् मनीषिभिः ॥" इति ।

न च विलक्षणयोर् गुरुलघुदोषयोः क्षयस् तन्त्रेण निष्पद्यते । अत एवंविधेषु दोषगुरुत्वेन कार्यवैलक्षण्याद् अपि प्रतिनिमित्तं नैमित्तिकस्यावृत्तिर् युक्ता । क्षामवत्यादिषु पुनः कार्यस्यावैलक्षण्याद् युक्तस् तन्त्रभाव इत्य् अलं प्रपञ्चेन । यच् चेदं "चतुर्थे नास्ति निष्कृतिर्" इति तद् अपि महापातकविषयम्, पापस्यातिगुरुत्वेन प्रायश्चित्ताभावप्रतिपादनपरत्वात् । अतः शूद्रान्नसेवनादौ बहुशोऽप्य् अभ्यस्ते तदनुगुणप्रायश्चित्तावृत्तिः कल्पनीया न पुनः प्रायश्चित्ताभावः । अत एवोक्तं मनुना ।

"पूर्णे चानस्य् अनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ।" इति । (मा०ध० ११.१४१)

इदं च द्वादशवार्षिकं व्रतं साक्षाद् घन्तुर् एव, "ब्रह्महा" इति तस्यैवाभिधानात् । अनुग्राहकप्रयोजकादेस् तु तत् तद् दोषानुसारेण प्रायश्चित्ततारतम्यं कल्पनीयम् । तत्रानुग्राहको यत् प्रायश्चित्तभाजं पुरुषम् अनुगृह्णाति स तत् प्रायश्चित्तं पादोनं कुर्यात् । अनुमन्ता पुनः सार्धपादं सार्धचतुर्वार्षिकं निमित्ती त्व् एकपादं त्रिवार्षिकम् । अत एव सुमन्तुः ।

"तिरस्कृतो यदा विप्रो हत्वात्मानं मृतो यदि ।
निर्गुणः साहसात् क्रोधाद् गृहक्षेत्रादिकारणात् ॥
त्रैवार्षिकं व्रतं कुर्यात् प्रतिलोमां सरस्वतीम् ।
गच्छेद् वापि विशुद्ध्यर्थं तत्पापस्येति निश्चितम् ॥
अत्यर्थं निर्गुणो विप्रो ह्य् अत्यर्थं निर्गुणोपरि ।
क्रोधाद् वै म्रियते यस् तु निर्मित्तं तु भर्त्सितः ॥
वत्सरत्रितयं कुर्यान् नरः कृच्छ्रं विशुद्धये ॥" इति ।

यदा पुनर् निमित्त्य् अत्यन्तगुणवान् आत्मघाती चात्यन्तनिर्गुणस् तदैकवर्षम् एव ब्रह्महत्याव्रतं कुर्यात्,

"केषश्मश्रुनखादीनां कृत्वा तु वपनं वने ।
ब्रह्मचर्यं चरन् विप्रो वर्षेणैकेन शुध्यति ॥"

इति तेनैवोक्तत्वात् । अनयैव दिशानुग्राहकप्रयोजकादीनां येऽनुग्राहकप्रयोजकादयस् तेषाम् अपि प्रायश्चित्तं कल्प्यम् । अस्यां च कल्पनायां "प्रयोजयितानुमन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु भागिनो यो भूय आरभते तस्मिन् फलविशेषः" (आ०ध० २.२९.१–२) इत्य् आपस्तम्बीयं वचनं मूलम् । तथा प्रोत्साहकादीनाम् अपि दण्डप्रायश्चित्ते कल्प्ये । यथाह पैठीनसिः ।

"हन्ता मन्तोपदेष्टा च तथा संप्रतिपादकः ।
प्रोत्साहकः सहायश् च तथा मार्गानुदेशकः ॥
आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ।
उपेक्षकः शक्तिमांश् चेद् दोषवक्तानुमोदकः ॥
अकार्यकारिणस् त्व् एषां प्रायश्चित्तं प्रकल्पयेत् ।
यथाशक्त्य् अनुरूपं च दण्डं चैषां प्रकल्पयेत् ॥" इति ।

तथा बालवृद्धादीनां साक्षात्कर्तृत्वेऽप्य् अर्धम् एव,

"अशीतिर् यस्य वर्षाणि बालो वाप्य् ऊनषोडशः ।
प्रायश्चित्तार्धम् अर्हन्ति स्त्रियो रोगिण एव च ॥"

इत्य् अङ्गिरःस्मरणात् । तथा सुमन्तुः ।

"अर्वाक् तु द्वादशाद् वर्षाद् अशीतेर् ऊर्ध्वम् एव वा ।
अर्धम् एव भवेत् पुंसां तुरीयं तत्र योषिताम् ॥" इति ॥

तथानुपनीतस्यापि बालकस्य पादमात्रम् एव प्रायश्चित्तम्,

"स्त्रीणाम् अर्धं प्रदातव्यं वृद्धानां रोगिणां तथा ।
पादो बालेषु दातव्यः सर्वपापेष्व् अयं विधिः ॥"

इति विष्णुस्मरणात् । अतश् च यत् शङ्खेन,

"ऊनैकादशवर्षस्य पञ्चवर्षात् परस्य च ।
प्रायश्चित्तं चरेद् भ्राता पिता वान्यः सुहृज्जनः ॥"

इति प्रतिपाद्योक्तम्,

"अतो बालतरस्यास्य नापराधो न पातकम् ।
राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥"

इति, तद् अपि संपूर्णप्रायश्चित्ताभावप्रतिपादनपरं, न पुनः सर्वात्मना तदभावप्रतिपादनपरम्, आश्रमविशेषनिरपेक्षेण श्रूयमाणेषु "ब्राह्मणो न हन्तव्यः", "तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न सुरां पिबेत्" इत्येवमादिष्व् अनपेक्षितवयोविशेषस्यैवाधिकारात् । अतश् च तदीयम् अपि प्रायश्चित्तं पित्रादिभिर् एवाचरणीयम्, "पुत्रान् उत्पाद्य संस्कृत्य वेदम् अध्याप्य वृत्तिं विदध्यात्" इति तस्यैवपुत्रादिहिताचरणेऽधिकृतत्वात् । यत्र पुनः कस्मिंश्चिद् ब्रह्मवधे प्रयोजकभावम् आपन्नस्यान्यस्मिन् साक्षात्कर्तृत्वे गुरुलघुप्रायश्चित्तसंपातस् तत्र द्वादशवार्षिकादिगुरुप्रायश्चित्तान्तःपातिनः प्रयोजकसंबन्धिलघुप्रायश्चित्तप्रसङ्गात् कार्यसिद्धिः । न चैवं सत्य् अविशेषाल् लघुकल्पेन महतोऽपि सिद्धिः स्याद् इत्य् आशङ्कनीयम् । अत्र ह्य् अन्तःपातितयानुष्ठाने विशेषानवगमात् प्रसङ्गात् कार्यसिद्धिर् अवगम्यते । न च लघ्वन्तःपाती महाकल्प इति कुतः प्रसङ्गाशङ्का । न च चैत्रवधजनितकल्मषक्षयार्थम् अनुष्ठितेन कथं विष्णुमित्रवधोत्पाद्यपापनिवृत्तिर् इति वाच्यम्, चैत्राद्युद्देशस्यातन्त्रत्वात् । अतो यथा काम्यनियोगनिष्पत्त्यर्थं स्वर्गार्थं वानुष्ठितैर् आग्नेयादिभिर् नित्यनियोगनिष्पत्तिस् तद्वल् लघुप्रायश्चित्तस्यापि कार्यसिद्धिः । यत् पुनर् मध्यमाङ्गिरोवचनम्,

"गवां सहस्रं विधिवत् पात्रेभ्यः प्रतिपादयेत् ।
ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च ॥"

इति तत् सवनस्थगुणवद्ब्राह्मणविषयम् । एतच् च,

"द्विगुणं सवनस्थे तु ब्राह्मणे व्रतम् आदिशेत् ।"

इत्येतद्वाक्यविहितद्विगुणद्वादशवार्षिकव्रतचर्याशक्तस्य वेदितव्यम्, प्रायश्चित्तस्यातिगुरुत्वात् । न त्व् अनावृत्तद्वादशवार्षिकविषयम् । तत्र हि द्वादशदिनान्य् एकैकप्राजापत्यम् इति गणनायां प्राजापत्यानां षष्ट्यधिकशतत्रयं भवति । यद्य् अपि प्राजापत्यस्यान्ते त्र्यहम् उपवासोऽधिकस् तथाप्य् अत्र वनवासजटाधारणवन्याहारत्वादिरूपतपोविशेषयुक्तत्वाद् उपवासाभावेऽप्य् एकैकस्य द्वादशाहस्य प्राजापत्यतुल्यत्वम् । ततश् च,

"प्राजापत्यक्रियाशक्तौ धेनुं दद्याद् विचक्षणः ।
गवाम् अभावे दातव्यं तन्मूल्यं वा न संशयः ॥"

इत्य् अनेन न्यायेन प्रतिप्राजापत्यम् एकैकस्यां धेन्वां दीयमानायां धेनूनाम् अपि षष्ट्यधिकं शतत्रयं भवति न पुनः सहस्रम् । अतो यथोक्त एव विषयो युक्तः । यद् अपि शङ्खवचनम् "पूर्ववद् अमतिपूर्वं चतुर्षु वर्णेषु विप्रं प्रमाप्य द्वादशवत्सरान् षट् त्रीन् सार्धं संवत्सरं च व्रतान्य् आदिशेत् तेषाम् अन्ते गोसहस्रं तदर्धं तस्यार्धं तदर्धं च दद्यात् सर्वेषां वर्णानाम् आनुपूर्व्येण" इति द्वादशवार्षिकगोसहस्रयोः समुच्चयविधिपरं तदाचार्यादिहननविषयं द्रष्टव्यम्, तस्यातिगुरुत्वात् । तथा च दक्षः,

"समम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
आचार्ये शतसाहस्रं श्रोत्रिये दत्तम् अक्षयम् ॥"

इति प्रतिपाद्योक्तवान्,

"समद्विगुणसाहस्रम् आनन्त्यं च यथाक्रमम् ।
दाने फलविशेषः स्याद् धिंसायां तद्वद् एव हि ॥" इति ।

तथा आपस्तम्बेन द्वादशवार्षिकम् उक्त्वोक्तम् अस्मिन्न् एव विषये "गुरुं हत्वा श्रोत्रियं वा एतद् एव व्रतम् ओत्तमाद् उच्छ्वासाच् चरेत्" (आ०ध० २.२४.२४) इति तत्र यावज्जीवम् आवर्तमाने व्रते यदा त्रैगुण्यं चातुर्गुण्यं वा संभाव्यते तदा तत्र समर्थस्य बहुधनस्यायं दानतपसोः समुच्चयो द्रष्टव्यः । द्वादशवार्षिकव्यतिरिक्तानां तु सुमन्तुपराशराद्युक्तानां प्रायश्चित्तानाम् उत्तरत्र व्यवस्थां वक्ष्यामः ।

ननु द्वादशवार्षिकादिकल्पानां व्यवस्था कुतोऽवसिता । न तावद् द्वादशवार्षिकादिविधायकवाक्यैर् इति युक्तम्, तत्राप्रतीतेः । न च वाच्यं प्रमाणावगतगुरुलघुकल्पानां बाधो मा प्रसाङ्क्षीद् इति व्यवस्था कल्प्यत इति, विकल्पसमुच्चयाङ्गाङ्गिभावानाम् अन्यतमाश्रयणेनापि बाधस्य सुपरिहरत्वात् ।

अत्रोच्यते । न तावद् द्वादशवार्षिकसेतुदर्शनादीनां विषमकल्पानां विकल्पोऽवकल्प्यते, विकल्पाश्रयणे गुरुकल्पानाम् अनुष्ठानासंभवेनानर्थक्यप्रसङ्गात् । न च षोडशिग्रणाग्रहणवद् विषमयोर् अपि विकल्पोपपत्तिर् इति वाच्यम् । यतस् तत्रापि सति संभवे ग्रहणम् एवेति युक्तं कल्पयितुम् । यद् वा षोडशिग्रहणानुगृहीतेनातिरात्रेण क्षिप्रं स्वर्गादिसिद्धिर् अतिशयितस्य वा स्वर्गस्येति कल्पनीयम्, इतरथा ग्रहणविधेर् आनर्थक्यप्रसङ्गात् । नापि समुच्चयः । उपदेशातिदेशप्राप्तिम् अन्तरेण समुच्चयो न संभवति, उपदेशावगतनैरपेक्ष्यस्य बाधप्रसङ्गात् । न चाङ्गाङ्गिभावः, श्रुत्यादिविनियोजकानाम् अभावात् । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानानि विनियोजकानि । अतः परस्परोपमर्दपरिहारार्थं विषयव्यवस्थाकल्पनैवोचिता । सा च जातिशक्तिगुणाद्यपेक्षया कल्पनीया,

"जातिशक्तिगुणापेक्षं सकृद्बुद्धिकृतं तथा ।
अनुबन्धादि विज्ञाय प्रायश्चित्तं प्रकल्पयेत् ॥"

इति देवलस्मरणात् ॥ २.२४३ ॥

पूर्वोक्तस्य ब्रह्महत्यादिप्रायश्चित्तस्य नैमित्तिकसमाप्त्यवधिम् आह ।

ब्राह्मणस्य परित्राणाद् गवां द्वादशकस्य च ।
तथाश्वमेधावभृथस्नानाद् वा शुद्धिम् आप्नुयात् ॥ या०ध०३.२४४

यश् चौरव्याघ्रादिभिर् व्यापाद्यमानस्य ब्राह्मणस्यैकस्याप्य् आत्मप्राणानन्तरे कृत्वा प्राणत्राणं करोति गवां द्वादशकस्यासाव् असंपूर्णेऽपि द्वादशवार्षिके शुध्येत् । यद्य् अपि प्राणत्राणे प्रवृत्तस् तदकृत्वैव म्रियते तथापि शुध्यत्य् एव । अत एव मनुना ।

"ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजन् ।
मुच्यते ब्रह्महत्याया गोप्ता गोर् ब्राह्मणस्य च ॥" (मा०ध० ११.८०)

इति ब्राह्मणरक्षणं तदर्थं मरणं च पृथग् उपात्तम् । तथा परकीयाश्वमेधावभृथाख्यकर्माङ्गभूतस्नानसमये स्वयम् अपि स्नात्वा ब्रह्महत्यायाः शुद्धिं प्राप्नुयात् । स्नानं च स्वकल्मषं विख्याप्य कुर्यात् । तथा च मनुः ।

"शिष्ट्वा वा भूमिदेवानां नरदेवसम् आगमे ।
स्वम् एनोऽवभृथे स्नात्वा हयमेधे विमुच्यते ॥" इति । (मा०ध० ११.८३)

भूमिदेवा ब्राह्मणा ऋत्विजस् तेषां नरदेवेन यजमानेन राज्ञा समवाये स्वीयम् एनः शिष्ट्वा विख्याप्याश्वमेधावभृथे स्नात्वा शुध्यति, यदि तैर् अनुज्ञातो भवति, "अश्वमेधावभृथं गत्वा तत्रानुज्ञातः स्नातः सद्यः पूतो भवति" इति शङ्खस्मरणात् । अश्वमेधावभृथग्रहणम् अग्निष्टुन्मध्यानां पञ्चदशरात्रादिक्रत्वन्तराणाम् अग्निष्टुत्समाप्तिकानां वा सर्वमेधादीनाम् उपलक्षणम्, "अश्वमेधावभृथे वान्ययज्ञेऽप्य् अग्निष्टुदन्तश् चेत्" इति (गौ०ध० २२.९–१०) गौतमस्मरणात् । अयं च प्रक्रान्तद्वादशवार्षिकस्य कथंचिद् ब्राह्मणप्राणत्राणादिकं कुर्वतो व्रतसमाप्त्यवधिर् उच्यते । यथा सारस्वते सत्रे प्लाक्षं प्रस्रवणं प्राप्योत्थानम् ऋषभैकशतानां वा गवां सहस्रम् अभावे सर्वस्वदानं गृहपतिमरणे चेति । न पुनः स्वतन्त्रं प्रायश्चित्तान्तरम् । तथाच शङ्खः, "द्वादशे वर्षे शुद्धिं प्राप्नोत्य् अन्तरा वा ब्राह्मणं मोचयित्वा गवां द्वादशानां परित्राणात् सद्य एवाश्वमेधावभृथस्नानाद् वा पूतो भवति" इति । अत एव मनुना "कृतवापनो वा निवसेत्" इति (मा०ध० ११.७८) द्वादशवार्षिकस्य गुणविधिं प्रक्रम्य,

"ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजन् ।
मुच्यते ब्रह्महत्याया गोप्ता गोर् ब्राह्मणस्य च ॥" (मा०ध० ११.८०)

इत्यादिना मध्ये ब्राह्मणत्राणादिकम् अभिधाय,

"एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः ।
समाप्ते द्वादशे वर्षे ब्रह्महत्याम् व्यपोहति ॥" (मा०ध० ११.८२)

इति द्वादशवार्षिकम् एवोपसंहृतम् ।

ननु "ब्रह्महत्यायाः शुद्धिम् आप्नुयाद्" इति ब्राह्मणत्राणादीनां द्वादशवार्षिकेण सहैकफलत्वावगमात् स्वातन्त्र्यम् एव युक्तं न पुनर् अङ्गत्वम् । किं च प्रधानविरोधित्वाद् अपि नाङ्गत्वम् । प्रधानानुग्राहकं ह्य् अङ्गं भवति । न च प्रारब्धद्वादशवार्षिकस्येदं विधानम्, येन तत्कार्ये विधानं गम्यते । यथा "सत्रायावगूर्य विश्वजिता यजेत" इति सत्रप्रयोगप्रवृत्तस्य तत्परिसमापनाक्षमस्य विश्वजिद्विधानम् अतोऽपि स्वातन्त्र्यम् एव युक्तम्, यथाग्निप्रवेशलक्ष्यभावादीनाम् । न च तेषाम् अपि द्वादशवार्षिकोपक्रमोपसंहारमध्यपठितत्वेन तदङ्गत्वम् इति शङ्कनीयम् । यतः सत्य् अपि मध्यपाठे निर्ज्ञातप्रयोजनत्वेन प्रयोजनाकाङ्क्षाविरहान् न परस्परम् अङ्गाङ्गित्वं युक्तं । यथा सामिधेनीप्रकरणमध्यवर्तिनां निर्वित्पदानाम् अग्निसमिन्धनप्रकाशत्वेन सामिधेनीभिः सहैककार्याणां न सामिधेन्यङ्गत्वम् । न चैकान्ततोऽग्निप्रवेशादीनां द्वादशवार्षिकमध्ये पाठः वसिष्ठगौतमादिभिर् एषां द्वादशवार्षिकप्रक्रमात् प्राग् एव पठितत्वात् । इदम् एव स्वातन्त्र्यं प्रकटयितुं मनुना "लक्ष्यं शास्त्रभृतां वा स्यात्" "प्रास्येद् आत्मानाम् अग्नौ वा" (मा०ध० ११.७४) इति प्रतिवाक्यं वाशब्दः पठितः । तथा प्रतिप्रायश्चित्तम् एवोपसंहृतम्,

"अतोऽन्यतमम् आस्थाय विधिं विप्रः समाहितः ।
ब्रह्महत्याकृतं पापं व्यपोहत्य् आत्मशुद्धये ॥" इति । (मा०ध० ११.८७)

अतोऽग्निप्रवेशादीनां स्वातन्त्र्यम् एव युक्तम् । अतश् च ब्राह्मणत्राणादेर् अप्य् एकफलत्वान् नाङ्गत्वम् इति ।

उच्यते । परिहृतम् एतत् "अन्तरा ब्राह्मणं मोचयित्वा" इत्यादिना शङ्खवचनेनाङ्गत्वावगमात्, अङ्गस्यैव सतः प्रधानद्वारेण फलसंबन्धः । न च प्रधानविरोधः यतो ब्राह्मणत्राणावधिकस्यैव व्रतानुष्ठानस्य फलसाधनत्वं विधीयत इति न विरोधः ॥ ३.२४४ ॥

किं च ।

दीर्घतीव्रामयग्रस्तं ब्राह्मणं गाम् अथापि वा ।
दृष्ट्वा पथि निरातङ्कं कृत्वा तु ब्रह्महा शुचिः ॥ या०ध०३.२४५

दीर्घेण बहुकालव्यापिना तीव्रेण दुःसहेनामयेन कुष्ठादिव्याधिना ग्रस्तं पीडितं ब्राह्मणं गां वा तथाविधां पथि दृष्ट्वा निरातङ्कं नीरुजं कृत्वा ब्रह्महा शुचिर् भवति ।

ननु "ब्राह्मणस्य परित्राणाद्" इत्य् अत्र यद् उक्तं ब्राह्मणरक्षणं तद् एव किम् अर्थं पुनर् उच्यते "ब्राह्मणं गाम् अथापि वा" इति ।

सत्यम् एवम् । किं त्व् आत्मप्राणपरित्यागेनाधस्तनवाक्ये ब्राह्मणरक्षणम् उक्तम् अधुना पुनर् औषधदानादिनेति विशेषः । अमुनैवाभिप्रायेणोक्तं मनुना ।

"विप्रस्य तन्निमित्ते वा प्राणलाभे विमुच्यते ।" इति ॥ (मा०ध० ११.८१) ३.२४५ ॥

किं च ।

आनीय विप्रसर्वस्वं हृतं घातित एव वा ।
तन्निमित्तं क्षतः शस्त्रैर् जीवन्न् अपि विशुध्यति ॥ या०ध०३.२४६

विप्रस्यापहृतसर्वस्वतयावसीदतः संबन्धि द्रव्यं भूहिरण्यादिकं चौरैर् हृतं साकल्येनानीय रक्षणं यः स विशुध्यति । आनयने प्रवृत्तः स्वयं चौरैर् घातितो वा यदि वा तन्निमित्तं ब्राह्मणसर्वस्वानयनार्थं तत्र युध्यमानः शस्त्रैः क्षतो मृतकल्पो जीवन्न् अपि विशुध्यति । शस्त्रैर् इति बहुवचनं क्षतबहुत्वप्राप्त्यर्थम् । अत एव मनुना,

"त्र्यवरं प्रतिरोद्धा वा सर्वस्वम् अवजित्य वा ।" (मा०ध० ११.८१)

इति त्र्यवरग्रहणं कृतम् । एतस्य श्लोकद्वयोक्तकल्पपञ्चकस्य ब्राह्मणरक्षणरूपकत्वेन "अन्तरा वा ब्राह्मणं मोचयित्वा" इत्य् अनेन शङ्खवचनेन क्रोडीकृतत्वात् द्वादशवार्षिकसमाप्त्यवधित्वेनेतरग्रहणे विनियोगान् न स्वातन्त्र्यम् ॥ ३.२४६ ॥

प्रायश्चित्तान्तरम् आह ।

लोमभ्यः स्वाहेत्य् एवं हि लोमप्रभृति वै तनुम् ।
मज्जान्तां जुहुयाद् वापि मन्त्रैर् एभिर् यथाक्रमम् ॥ या०ध०३.२४७

लोमभ्यः स्वाहेत्य् एवमादिभिर् मन्त्रैर् लोमप्रभृतिमज्जान्तां तनुं जुहुयात् । इतिशब्दः करणत्वनिर्देशार्थः । एवंशब्दः प्रकारसूचनार्थः । हिशब्दः स्मृत्यन्तरप्रसिद्धत्वगादीनां प्रभृतिशब्देनाक्षिप्यमाणानां द्योतनार्थः । ततश् च लोमादीनि होमद्रव्याणि चतुर्थ्या निर्दिश्यन्ते स्वाहाकारं पठित्वा तैर् मन्त्रैर् जुहुयात् । ते च हूयमानद्रव्याणां लोमत्वग्लोहितमांसमेदःस्नाय्वस्थिमज्जानाम् अष्टसंख्यत्वाद् अष्टौ मन्त्रा भवन्ति । तथा च वसिष्ठः "ब्रह्महाग्निम् उपसमाधाय जुहुयाल् लोमानि मृत्योर् जुहोमि लोमभिर् मृत्युं वाशय इति प्रथमाम् । १ । त्वचं म्र्त्योर् जुहोमि त्वचा मृत्युं वाशय इति द्वितीयां । २ । लोहितं मृत्योर् जुहोमि लोहितेन मृत्युं वाशय इति तृतीयाम् । ३ । मांसानि मृत्योर् जुहोमि मांसैर् मृत्युं वाशय इति चतुर्थीम् । ४ । मेदो मृत्योर् जुहोमि मेदसा मृत्युं वाशय इति पञ्चमीम् । ५ । स्नायूनि मृत्योर् जुहोमि स्नायुभिर् मृत्युं वाशय इति षष्टीम् । ६ । अस्थीनि मृत्योर् जुहोम्य् अस्थिभिर् मृत्युं वाशय इति सप्तमीम् । ७ । मज्जां मृत्योर् जुहोमि मज्जाभिर् मृत्युं वाशय इत्य् अष्टमीम् । ८ ॥" (व०ध० २५.२५–२६) इति । अत्र च लोमप्रभृति तनुं जुहुयाद् इति लोमादीनां होमद्रव्यत्वावगमाल् लोमभ्यः स्वाहेति सत्य् अपि चतुर्थीनिर्देशे लोमादीनां न देवतात्वं कल्प्यते, द्रव्यप्रकाशनेनैव मन्त्राणां होमसाधनत्वोपपत्तेः । किं तु लोमभिर् मृत्युं वाशय इत्यादिवसिष्ठमन्त्रपर्याकोचनया मृत्योर् एव हविःसंबन्धावगमाद् देवतात्वं कल्प्यते । अतश् च लोमादीनि सामर्थ्यात् स्वधितिनावदाय मृत्यूद्देशे नाष्टौ होमान् कृत्वान्ते तनुं प्रक्षिपेत् । अतो यत् कैश्चिद् उक्तम् अनादिष्टद्रव्यत्वाद् आज्यहविष्का होमा इति तद् अनिरूप्यैवोक्तम् इत्य् उपेक्षणीयम् । जुहुयाद् इत्य् अनेनाग्नौ सिद्धे "भ्रूणहाग्निम् उपसमाधाय" ति पुनर् अग्निग्रहणं लौकिकाग्निप्राप्त्यर्थम् । युक्तं चैतत्, पतिताग्नीनां प्रतिपत्तिविधानात्,

"आहिताग्निस् तु यो विप्रो महापातकभाग् भवेत् ।
प्रायश्चित्तैर् न शुध्येत तदग्नीनां तु का गतिः ॥
वैतानं प्रक्षिपेत् तोये शालाग्निं शमयेद् बुधः ॥"

इत्य् उशनःस्मरणात्, तथा,

"महापातकसंयुक्तो दैवात् स्याद् अग्निमान् यदि ।
पुत्रादिः पालयेद् अग्नीन् युक्तश् चादोषसंक्षयात् ॥
प्रायश्चित्तं न कुर्याद् यः कुर्वन् वा म्रियते यदि ।
गृह्यं निर्वापयेच् छ्रौतम् अप्स्व् अस्येत् सपरिच्छदम् ॥"

इति कात्यायनस्मरणात् । तनुप्रक्षेपश् चोत्थायोत्थाय त्रिर् अधोमुखेन कर्तव्यः । यथाह मनुः ।

"प्रास्येद् आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक्शिराः ।" इति । (मा०ध० ११.७४)

गौतमेनाप्य् अत्र विशेषो दर्शितः "प्रायश्चित्तम् अग्नौ सक्तिर् ब्रह्मघ्नस् त्रिर् अवच्छातस्य" (गौ०ध० २२.१–२) इति । अवच्छातस्य अनशनकर्षितकलेवरस्येत्य् अर्थः । तथा च काठकश्रुतिः : "अनशनेन कर्शितोऽग्निम् आरोहेत्" इति । इदं च मरणान्तिकं प्रायश्चित्तं कामकारविषयम् । यथाह मध्यमाङ्गिराः ।

"प्राणान्तिकं च यत् प्रोक्तं प्रायश्चित्तं मनीषिभिः ।
तत् कामकारविषयं विज्ञेयं नात्र संशयः ॥" इति ।

तथा,

"यः कामतो महापापं नरः कुर्यात् कथंचन ।
न तस्य शुद्धिर् निर्दिष्टा भृग्वग्निपतनाद् ऋते ॥" इति ।

एतच् च प्रायश्चित्तम् एव न ब्राह्मणत्राणादिवत् द्वादशवार्षिकान्तर्भूतम् इत्य् उक्तं प्राक् ॥ ३.२४७ ॥

किं च ।

संग्रामे वा हतो लक्ष्यभूतः शुद्धिम् अवाप्नुयात् ।
मृतकल्पः प्रहारार्तो जीवन्न् अपि विशुध्यति ॥ या०ध०३.२४८

अथ वा संग्रामे युद्धभूमाव् उभयबलप्रेरितशरसंपातस्थाने लक्ष्यभूतो मृतः शुद्धिम् अवाप्नुयात् । गाढमर्मप्रहारजनिततीव्रवेदनो मृतकल्पो मूर्छितो जीवन्न् अपि विशुध्यति । लक्ष्यभावश् च प्रायश्चित्त्य् अयम् इत्य् एवं विदुषां धनुर्विद्याविदां संग्रामे स्वेच्छया कर्तव्यो न तु राज्ञा बलात् कारयितव्यः । यथाह मनुः ।

"लक्ष्यं शास्त्रभृतां वा स्याद् विदुषाम् इच्छयात्मनः ।" इति । (मा०ध० ११.१७)

इदं च मरणान्तिकत्वात् साक्षात् कर्तुः क्षत्रियस्य कामकारविषयम् । अपिशब्दाद् अश्वमेधादिनापि विशुध्यति । यथाह मनुः ।

"यजेत वाश्वमेधेन स्वर्जिता गोसवेन च ।
अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा ॥" इति । (मा०ध० ११.७५)

अश्वमेधानुष्ठानं सार्वभौमक्षत्रियस्यैव,

"यजेत वाश्वमेधेन क्षत्रियस् तु महीपतिः ।"

इति पराशरस्मरणात्, "नासार्वभौमो यजेत" इत्य् असार्वभौमस्य प्रतिषेधदर्शनाच् च । इदं चाश्वमेधानुष्ठानं सार्वभौमस्य कामकारकृते मरणान्तिकस्थाने द्रष्टव्यम्,

"महापातककर्तारश् चत्वारो मतिपूर्वकम् ।
अग्निं प्रविश्य शुध्यन्ति स्थित्वा वा महति क्रतौ ॥"

इति यमेन मरणकालाग्निप्रवेशतुल्यतया महाक्रतोर् अश्वमेधस्य निर्दिष्टत्वात् । स्वर्जितादयश् च त्रैवर्णिकस्याहिताग्नेर् इष्टप्रथमयज्ञस्य द्वादशवार्षिकेण सह विकल्पन्ते । न च स्वर्जिताद्यर्थम् आधानं प्रथमयज्ञानुष्ठानं वा कार्यम्, पतितस्य द्विजातिकर्मस्व् अनधिकारात् । न च संध्योपासनवद् अविरोध इति युक्तम्, आधनादेर् उत्तरक्रतुशेषत्वाभावात् । ते च दक्षिणान्यूनाधिक्याश्रयणेन द्वाद्वशवार्षिकाद्यर्हेषु साक्षाद् धन्त्रादिषु व्यवस्थापनीयाः ॥ ३.२४८ ॥

किं च ।

अरण्ये नियतो जप्त्वा त्रिर् वै वेदस्य संहिताम् ।
शुध्येत वा मिताशित्वात् प्रतिस्रोतः सरस्वतीम् ॥ या०ध०३.२४९

अरण्ये निर्जनप्रदेशे, नियतो नियताहारः, "जपेद् वा नियताहारः" (मा०ध० ११.७८) इति मनुस्मरणात् । त्रिवारं मन्त्रब्राह्मणात्मकं वेदं जपित्वा शुध्यति । संहिताग्रहणं पदक्रमव्युदासार्थम् । यद् वा मिताशनो भूत्वा प्लाक्षात् प्रस्रवणाद् आरभ्य पश्चिमोदधेः प्रतिस्रोतः स्रोतःस्रोतः प्रति सरस्वतीं इत्वा गत्वा विशुध्यति । अशनं च हविष्येण कार्यम्,

"हविष्यभुग् वानुचरेत् प्रतिस्रोतः सरस्वतीम् ।" (मा०ध० ११.७८)

इति मनुस्मरणात् । अयं च वेदजपो विदुषो हन्तुर् निर्धनस्यात्यन्तगुणवतो निर्गुणव्यापादने प्रमादकृते द्रष्टव्यः । सरस्वतीगमनं तु तादृश एव विषये विद्याविरहिणो द्रष्टव्यम् । निमित्तिनश् च,

"तिरस्कृतो यदा विप्रो निर्गुणो म्रियते यदि ।"

इति सुमन्तुवचनस्य दर्शितत्वात् । यत् पुनर् मनुवचनम्,

"जपित्वान्यतमं वेदं योजनानां शतं व्रजेत् ।" (मा०ध० ११.७६)

इति तद् अप्य् अरण्ये नियतो जप्त्वेत्य् एतस्यैव विषयेऽशक्तस्य द्रष्टव्यम् ॥ ३.२४९ ॥

किं च ।

पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिम् अवाप्नुयात् ।
आदातुश् च विशुद्ध्यर्थम् इष्टैर् वैश्वानरी स्मृता ॥ या०ध०३.२५०

"न विद्यया केवलया" (या०ध० १.२००) इत्याद्युक्तलक्षणे पात्रे गोभूहिरण्यादिकं जीवनपर्याप्तं समर्थं धनं दत्त्वा शुद्धिम् अवापुन्यात् । तद् धनं यः प्रतिगृह्णाति तस्य वैश्वानरदैवत्येष्टिः शुद्ध्यर्थं कर्तव्या । एतच् चाहिताग्निविषयम् । अनाहिताग्नेस् तु तद्दैवत्यश् चरुर् भवति, "य एवाहिताग्नेर् धर्मः स एवौपासनिकस्य" इति गृह्यकारवचनात् । वाशब्दात् सर्वस्वं सपरिच्छदं वा गृहं दद्यात् । यथाह मनुः ।

"सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ।
धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥" इति । (मा०ध० ११.७७)

इदं च पात्रे धनदानं निर्गुणस्य धनवतो हन्तुर् निर्गुणव्यापादने द्रष्टव्यम् । तत्रैव विषये अविद्यामानान्वयस्य सर्वस्वदानं सान्वयस्य तु सोपस्करगृहदानम् इति व्यवस्था । यद् अपि पराशरेणोक्तम्,

"चातुर्विद्योपपन्नस् तु विधिवद् ब्रह्मघातके ।
समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् ॥
सेतुबन्धपथे भिक्षां चातुर्वर्ण्यात् समाहरेत् ।
वर्जयित्वा विकर्मस्थाञ् छत्रोपानद्विवर्जितः ॥
अहं दुष्कृतकर्मा वै महापातककारकः ।
गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः ॥
गोकुलेषु च गोष्ठेषु ग्रामेषु नगरेषु च ।
तपोवनेषु तीर्थेषु नदीप्रस्रवणेषु च ॥
एतेषु ख्यापयेद् एनः पुण्यं गत्वा तु सागरम् ।" (ढ़्ष्म् १२.६५–६९)

"ब्रह्महापि प्रमुच्येत स्नात्वा तस्मिन् महोदधौ ॥
ततः पूतो गृहं प्राप्य कृत्वा ब्राह्मणभोजनम् ।
दत्त्वा वस्त्रं पवित्राणि पूतात्मा प्रविशेद् गृहम् ॥
गवां वापि शतं दद्याच् चातुर्विद्याय दक्षिणाम् ।
एवं शुद्धिम् अवाप्नोति चातुर्विद्यानुमोदितः ॥"

इति, तद् अपि "पात्रे धनं वा पर्याप्तम्" इत्य् अनेन समानविषयम् । यच् च सुमन्तुवचनम्, "ब्रह्महा संवत्सरं कृच्छ्रं चरेद् अधःशायी त्रिषवणी कर्मावेदको भैक्षाहारो दिव्यनदीपुलिनसंगमाश्रमगोष्टपर्वतस्रवणतपोवनविहारी स्यात् स्थानवीरासनी संवत्सरे पूर्णे हिरण्यमणिगोधान्यतिलभूमिसर्पींषि ब्राह्मणेभ्यो ददत् पूतो भवति" इति, तद् अपि हन्तुर् मूर्खस्य धनवतो जातिमात्रव्यापादने द्रष्टव्यम् । यत् पुनर् वसिष्ठवचनम् "द्वादशरात्रम् अब्भक्षो द्वादशरात्रम् उपवसेत्" (chf. व०ध० ११.७७) इति तन् मनसाध्यवसितब्रह्महत्यस्य स्वत एवोपरतजिघांषस्य वेदितव्यम् । यत् पुनः,

"षण्ढं तु ब्राह्मणं हत्वा शूद्रहत्याव्रतं चरेत् ।
चान्द्रायणं वा कुर्वीत पराकद्वयम् एव च ॥"

इति षट्त्रिंशन्मतवचनं, तद् अप्रत्यानेयपुंस्त्वस्य सप्रत्ययवधे द्रष्टव्यम् । अत्रैव विषये अप्रत्ययवधे बृहस्पतिर् आह ।

"अरुणायाः सरस्वत्याः संगमे लोकविश्रुते ।
शुध्येत् त्रिप्षवणस्नावी त्रिरात्रोपोषितो द्विजः ॥" इति ।

एवम् अन्यान्य् अपि स्मृतिवचनान्य् अन्विष्य विषमाणां व्यवस्था विज्ञेया । समानां तु विकल्पः । एतानि च द्वादशवार्षिकादिधनदानपर्यन्तानि ब्राह्मणस्यैव । क्षत्रियादेस् तु द्विगुणादिकम् । यथाहाङ्गिराः ।

"पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता ।
वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच् च व्रतं स्मृतम् ॥" इति ।

एवं च ब्राह्मणानां येन हन्तृहन्यमानगतगुणविशेषेण यः प्रायश्चित्तविशेषो व्यवस्थितः स एव तद्गुणविशिष्टे क्षत्रियादौ हन्तरि द्विगुणस् त्रिगुणो वेदितव्यः । अनयैव दिशा क्षत्रियवैश्यादाव् अपि हीनेनोत्कृष्टवधे दोषगौरवात् प्रायश्चित्तस्यापि द्वैगुण्यादि कल्पनीयम् । दोषगौरवं च दण्डगौरवाद् अवगम्यते । यथोक्तम् ।

"प्रतिलोमापवादेषु द्विगुणस् त्रिगुणो दमः ।
वर्णानाम् आनुलोम्ये च तस्माद् अर्धार्धहानितः ॥" इति ।

यत् तु चतुर्विंशतिमतवचनम्,

"प्रायश्चित्तं यद् आम्नातं ब्राह्मणस्य महर्षिभिः ।
पादोनं क्षत्रियः कुर्याद् अर्धं वैश्यः समाचरेत् ॥
शूद्रः समाचरेत् पादम् अशेषेष्व् अपि पाप्मषु ॥"

इति, तत् प्रतिलोमानुष्टितचतुर्विधसाहसव्यतिरिक्तविषयम् । तथा मूर्धावसिक्तादीनाम् अप्य् अनुलोमोत्पन्नानां दण्डवत् प्रायश्चित्तम् ऊहनीयम् । दर्शितं दण्डतारतम्यम्,

"दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः ।" इति ।

ततश् च मूर्धावसिक्तस्य ब्राह्मणवधे ब्राह्मणाद् अतिरिक्तं क्षत्रियान् न्यूनम् अध्यर्धं द्वादशवार्षिकं भवति । अनयैव दिशा प्रतिलोमोत्पन्नानाम् अपि प्रायश्चित्तगौरवम् ऊहनीयम् । तथा आश्रमिणामप्य् अङ्गिरसा विशेषो दर्शितः ।

"गृहस्थोक्तानि पापानि कुर्वन्त्य् आश्रमिणो यदि ।
शौचवच् छोधनं कुर्युर् अर्वाग् ब्रह्मनिदर्शनात् ॥" इति ।

"शौचवद्" इति,

"एतच् छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम् ॥" (मा०ध० ५.१३७)

इति वचनाद्, यथा ब्रह्मचार्यादीनां शौचं द्वैगुण्यादिक्रमेण वर्धते तथा शोधनं प्रायश्चित्तम् अपि भवतीत्य् अर्थः । ब्रह्मचारिणस् तु प्रायश्चित्तद्वैगुण्यं षोडशवर्षाद् ऊर्ध्वम् एव । अर्वाक् तु पुनः "बालो वाप्य् ऊनषोडशः प्रायश्चित्तार्धम् अर्हन्ति" इति षोडशवर्षाद् अर्वाचीनस्यार्धप्रायश्चित्ताभिधानात् । न च द्वादशवार्षिके चतुर्गुणे क्रियमाणे मध्ये विपत्तिशङ्कया समाप्त्यनुपपत्तेः प्रवृत्तिर् एव नोपपद्यत इति शङ्कनीयम् । यतः प्रक्रान्तप्रायश्चित्तस्य मध्ये विपत्ताव् अपि पापक्षयो भवत्य् एव । यथाह हारीतः ।

"प्रायश्चित्ते व्यवसिते कर्ता यदि विपद्यते ।
पूतस् तदहर् एवासाव् इह लोके परत्र च ॥" इति ।

व्यासोऽप्य् आह ।

"धर्मार्थं यतमानस् तु न चेच् छक्नोति मानवः ।
प्राप्तो भवति तत् पुण्यम् अत्र वै नास्ति संशयः ॥" इति ॥ ३.२५० ॥

अधुना निमित्तान्तरेषु ब्रह्महत्याप्रायश्चित्तस्यातिदेशम् आह ।

यागस्थक्षत्रविड्घाती चरेद् ब्रह्महणि व्रतम् ।
गर्भहा च यथावर्णं तथात्रेयीनिषूदकः ॥ या०ध०३.२५१

दीक्षणीयाद्युदवसानीयापर्यन्ते सोमयागप्रयोगे वर्तमानौ क्षत्रियवैश्यौ यो व्यापादयत्य् असौ ब्रह्महणि पुरुषे यद् ब्रह्महत्याव्रतम् उपदिष्टं द्वादशवार्षिकादि तच् चरेत् । यद्य् अपि यागशब्दः सामान्यवचनस् तथाप्य् अत्र सोमयागम् अभिधत्ते, "सवनगतौ च राजन्यवैश्यौ" इति (व०ध० २०.३४) वसिष्ठेन सवनत्रयसंपाद्यस्य सोमयागस्यैव निर्दिष्टत्वात् । अत्र च गुरुलघुभूतानां द्वादशवार्षिकादिब्रह्महत्याव्रतानां जातिशक्तिगुणाद्यपेक्षया प्रागुक्तवद् व्यवस्था वेदितव्या । एवं गर्भवधादिष्व् अपि । मरणानित्कं तु नातिदिश्यते, व्रतग्रहणात् । अतः कामतो यागस्थक्षत्रियादिवधे व्रतस्यैव द्वैगुण्यम् । एतच् च व्रतं संपूर्णम् एव कर्तव्यम् । "पूर्वयोर् वर्णयोर् वेदाध्यायिनं हत्वा" (आ०ध० १.२४.६) इति प्रक्रम्य, आपस्तम्बेन द्वादशवार्षिकाभिधानात् (आ०ध० १.२४.२०) । । गर्भं च विन्नासु संभूतं हत्वा यथावर्णं यद्वर्णपुरुषवधे यत्प्रायश्चित्तम् उक्तं तद्वर्णगर्भवधे तच् चरेत् । एतच् चानुपजातस्त्रीपुंनपुंसकव्यञ्जनगर्भविषययम्,"हत्त्वा गर्भम् अविज्ञातम्" (मा०ध० ११.८८) इति मानवे विशेषदर्षनात् । अत्र च यद्य् अपि ब्राह्मणगर्भस्य ब्राह्मणत्वाद् एव तद्वधनिमित्तव्रतप्राप्तिस् तथापि स्त्रीत्वस्यापि संभवात् स्त्रीशूद्रविट्क्षत्रवध इत्य् उपपातकत्वेन तत्प्रायश्चित्तप्रप्तिर् अपि स्याद् अतः स्त्रीपुंनपुंसकत्वेनाविज्ञातेऽपि ब्राह्मणगर्भत्वमात्रप्रयुक्तं ब्रह्महत्याव्रतं कुर्याद् इत्य् अर्थवद् अतिदेशवचनम् । उपजाते स्त्रीपुंसादिविशेषव्यञ्जने यथायथम् एव प्रायश्चित्तम् । यश् चात्रेय्या निषूदको व्यापादकः सोऽपि तथा व्रतं चरेत् । हन्यमानात्रेयीवर्णानुरूपं व्रतं चरेद् इत्य् अर्थः । आत्रेयीशब्देनर्तुमत्य् उच्यते, "रजस्वलाम् ऋतुस्नाताम् आत्रेयीम् आहुर् यत्र ह्य् एतद् अपत्यं भवति" (व०ध० २०.३५–३६) इति वसिष्ठस्मरणात् । अत्रिगोत्रजा च, "अत्रिगोत्रां वा नारीम्" (वि०ध० ५०.९) इति विष्णुस्मरणात् । एतद् उक्तं भवति । ब्राह्मणगर्भवधे ब्राह्मण्यात्रेयीवधे च ब्रह्महत्याव्रतम् । क्षत्रियगर्भवधे क्षत्रियात्रेयीवधे च क्षत्रहत्याव्रतम् एवम् अन्यत्रापीति । चशब्दात् साक्ष्ये अनृतवचनादिष्व् अपि । तथाह मनुः ।

"उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा ।
अपहृत्य च निःक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥" इति । (मा०ध० ११.८८)

यत्र व्यवहारे असत्यवचनेन प्राणिनां वधप्राप्तिस् तद्विषयम् एतत्, प्रायश्चित्तस्यातिगुरुत्वात् । प्रतिरोधः क्रोधावेशः । निक्षेपश् च ब्राह्मणसंबन्धी । स्त्री चाहिताग्निभार्या पतिव्रतात्वादिगुणयुक्तोच्यते सवनस्था च । यथाहाङ्गिराः ।

"आहिताग्नेर् द्विजाग्र्यस्य हत्वा पत्नीम् अनिन्दिताम् ।
ब्रह्महत्याव्रतं कुर्याद् आत्रेयीघ्नस् तथैव च ॥" इति ।

"सवनस्थां स्त्रियं हत्वा ब्रह्महत्याव्रतं चरेत् ॥"

इति पराशरस्मरणात् ॥ एवं च सवनस्थाग्निहोत्रिण्यात्रेयीवधे ब्रह्महत्याप्रायश्चित्तातिदेशात् तद्व्यतिरिक्तस्त्रीवधस्य स्त्रीशूद्रविट्क्षत्रवध इत्य् उपपातकमध्यपाठाद् उपपातकत्वम् एव ।

ननु "ब्राह्मणो न हन्तव्यः" इत्य् अत्र निषेधेऽनुपादेयगतत्वेन लिङ्गवचनयोर् अविवक्षितत्वाद् ब्रह्मणजातेश् च स्त्रीपुंसयोर् अविशेषात् तदतिक्रमनिमित्तप्रायश्चित्तविधेर् "ब्रह्महा द्वादशाब्दानि" इत्यस्योभयत्र प्राप्तत्वात् किम् अर्थं "तथात्रेयीनिषूदकः" इत्यतिदेशवचनम् ।

उच्यते । सत्य् अपि ब्राह्मणत्वेऽनात्रेय्या वधस्य च महापातकप्रायश्चित्तनिराकरणार्थम् अतस् तस्योपपातकमध्यपाठाद् उपपातकप्रायश्चित्तम् एव । आतिदेशिकेषु च प्रायश्चित्तस्यैवातिदेशो न पातित्यस्य । अतः पतितत्यागादिकार्यम् अत्र न भवति ॥ ३.२५१ ॥

किं च ।

चरेद् व्रतम् अहत्वापि घातार्थं चेत् समागतः ।
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतम् आदिशेत् ॥ या०ध०३.२५२

"यथावर्णम्" इत्य् अनुवर्तते, ब्राह्मणादिहनने कृतनिश्चयस् तद्व्यापादनार्थं सम्यग् आगत्य शस्त्रादिप्रहारे कृते कथंचित् प्रतिघातादिप्रबन्धवशाद् असौ न मृतस् तदा अहत्वापि यथावर्णं ब्रह्महत्यादि व्रतं चरेत् । तथा च गौतमः "सृष्टश् चेद् ब्राह्मणवधे अहत्वापि" (गौ०ध० २२.११) इति ।

ननु हनने तदभावे चैकप्रायश्चित्तता न युक्ता ।

सत्यम् । अत एवौपदेशिकेभ्यो न्यूनत्वाद् आतिदेशिकानां पादोनान्य् एव ब्रह्महत्यादिव्रतानि द्वादशवार्षिकादीनि भवन्ति । एतच् च प्रपञ्चितं प्राक् । किं च, यस् तु सवनसंपाद्यं सोमयागम् अनुतिष्टन्तं ब्राह्मणं व्यापादयति तस्मिन् द्वादशवार्षिकादिव्रतं द्विगुणं समादिशेत् । तेषां च व्रतानां गुरुलघुभूतानां जातिशक्तिगुणाद्यपेक्षयासत्य् अपि सवनस्थत्वस्याविशेषे पूर्ववद् एव व्यवस्थावगन्तव्या । ब्रह्महत्यासमानां तु गुर्वधिक्षेपादीनाम् आतिदेशिकेभ्योऽपि न्यूनत्वाद् अर्धोनं द्वादशवार्षिकादिप्रायश्चित्तम् इत्य् उक्तम् ॥ ३.२५२ ॥

इति ब्रह्महत्याप्रायश्चित्तप्रकरणम्

अथ क्रमप्राप्तं सुरापानप्रायश्चित्तं प्रक्रमते ।

सुराम्बुघृतगोमूत्रपयसाम् अग्निसंनिभम् ।
सुरापोऽन्यतमं पीत्वा मरणाच् छुद्धिम् ऋच्छति ॥ या०ध०३.२५३

सुरादिनां मध्येऽन्यतमम् अग्निसंनिभं क्वाथापादिताग्निस्पर्शदाहशक्तिं कृत्वा पीत्वा सुरापो मरणाच् छुद्धिं प्राप्न्प्ति । गोमूत्रसाहचर्याद् गव्ये एव घृतपयसी ग्राह्ये । घृतपयःसाहचर्याच् च स्त्रैणम् एव गोमूत्रम् । एतच् चार्द्रवाससा कार्यम्,

"सुराप आर्द्रवासाश् च अग्निवर्णां सुरां पिबेत् ।"

इति पैठीनसिस्मरणात्, तथा "लौहेन पात्रेण सुरापोऽग्निवर्णां सुराम् आयसेन पात्रेण ताम्रेण वा पिबेत्" इति प्रचेतःस्मरणात् । एतच् च सकृत्पानमात्रे,

"सुरापानं सकृत् कृत्वाप्य् अग्निवर्णां सुरां पिबेत् ।"

इत्य् अङ्गिरःस्मरणात् । यत् तु वसिष्ठवचनम्,

"अभ्यासे तु सुरायाश् च अग्निवर्णां पिबेद् द्विजः ।" (व०ध० २०.२२)

इति, तत् सुराव्यतिरिक्तमद्यपानविषयम् । एतच् च कामकारविषयम्,

"सुरापाने कामकृते ज्वलन्तीं तां विनिक्षिपेत् ।
मुखे तया विनिर्दिग्धो मृतः शुद्धिम् अवाप्नुयात् ॥"

इति बृहस्पतिस्मरणात् । यत् तु,

"सुरां पीत्वा द्विजो मोहाद् अग्निवर्णां सुरां पिबेत् ।" (मा०ध० ११.९१)

इति मनुना मोहग्रहणं कृतं, तच् छास्त्रार्थापरिज्ञानाभिप्रायेण । अत्रेदं चिन्तनीयम् : किं सुराशब्दो मद्यमात्रे रूढ उत तिसृष्व् एव गौडीमाध्वीपैष्टीष्व् आहोस्वित् पैष्ट्याम् एवेति । तत्र केचिन् मद्यमात्रे रूढ इति वर्णयन्ति, "अभ्यासे तु सुरायाः" (व०ध० २०.२२) इति वासिष्ठे पैष्ट्यादित्रयव्यतिरिक्तेऽपि मद्यमात्रे सुराशब्दप्रयोगदर्शनात् । न चासौ गौणः प्रयोग इति शङ्कनीयम्, मदजननशक्तिमत्त्वोपाधिकतया सर्वत्र मुख्यत्वोपपत्तौ गौणत्वकल्पनाया अन्याय्यत्वाद् इति । तद् अयुक्तम्,

"पानसं दाक्षं माधूकं खार्जूरं तालम् ऐक्षवम् ।
मधूत्थं सैरम् आरिष्टं मैरेयं नालिकेरजम् ॥
समानानि विजानीयान् मद्यान्य् एकादशैव तु ।
द्वादशं तु सुरामद्यं सर्वेषाम् अधमं स्मृतं ॥"

इति पुलस्त्येन मद्यविशेषत्वेन सुराया निर्दिष्टत्वात् । अतश् च मद्यमात्रे सुराशब्दप्रयोगो गौणः । अन्ये पुनः पैष्ट्यादिषु तिसृषु सुराशब्दस्य रूढिं मन्यन्ते । तथा हि, यद्य् अप्य् अनेकत्र सुराशब्दप्रयोगो दृश्यते तथापि कुत्रानादित्वम् इति संदेहे,

"गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ।" (मा०ध० ११.९५)

इति मनुवचनाद् गुडमधुपिष्टविकारेष्व् अनादित्वनिर्धारणात् तत्रैव मुख्यत्वं युक्तम् । न चानेकत्र शक्तिकल्पना दोषः, मदशक्तेर् उपाधित्वाश्रयणेन तस्य सुपरिहरत्वात् । न च तालादिरसेष्व् अप्य् उपाधेर् विद्यमानत्वाद् अतिप्रसङ्गः, पङ्कजादिशब्दवद् योगरूढत्वाश्रयणात् । अतश् च,

"यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ।" (मा०ध० ११.९५)

इति तिसृणां सुराणां समानदोषत्वप्रतिपादनपरं न पुनर् अनयोर् गौडीमाध्व्योः पैष्टीसुरासमत्वप्रतिपादनपरम् । द्विजोत्तमग्रहणं द्विजात्युपलक्षणम् । एतद् अप्य् अयुक्तम्,

"द्वादशं तु सुरामद्यं सर्वेषाम् अधमं स्मृतम् ।"

इति पुलस्त्यवचने गौडीमाध्वीभ्याम् अपि सुरामद्यस्यातिरेकदर्शनात् । तथा,

"सुरा वै मलम् अन्नानां पाप्मा च मलम् उच्यते ।" (मा०ध० ११.९३)

इत्य् अन्नविकारस्यैव सुरात्वनिर्देशाद्, अन्नशब्दस्य च अन्नेन व्यञ्जनम् इत्यादिषु व्रीह्यादिविकार एव प्रयोगदर्शनाद्, गुडमधुनोश् च रसरूपत्वात्, तथा सौत्रामणिग्रहेषु चान्नविकारे एव सुराशब्दस्य श्रुतत्वात्, पैष्ट्य् एव सुरा मुख्योच्यते । इतरयोस् तु सुराशब्दो गौणः । यत् तूक्तम्, "गौडी माध्वी" (मा०ध० ११.९४) इति मनुवचनात् तिसृष्व् अप्य् औत्पत्तिकत्वनिर्धारणेति, तद् अप्य् अयुक्तम् । यतो नेदं शब्दानुशासनवच् छब्दार्थसंबन्धानादित्वप्रतिपादनपरं, किं तु कार्यप्रतिपादनपरम् । अतो गुरुप्रायश्चित्तनिमित्ततया गौडीमाध्व्योर् गौणः सुराशब्दयोगः । एवं च नानेकशक्तिकल्पनादोषो नाप्य् उपाध्याश्रयणं कृतम् । न चात्र द्विजोत्तमग्रहणस्योपलक्षणत्वम् । अतश् च,

"सुरा वै मलम् अन्नानां पाप्मा च मलम् उच्यते ।
तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न सुरां पिबेत् ॥" (मा०ध० ११.९४)

इति पैष्ट्या एव वर्णत्रयसंबन्धित्वेन निषेधः । गौड्यादीनां तु मद्यानां ब्राह्मणसंबन्धित्वेनैव निषेधो न क्षत्रियवैश्ययोः,

"यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् ।
तद् ब्राह्मणेन नात्तव्यं देवानाम् अश्नता हविः ॥" (मा०ध० ११.९६)

इति मानवे ब्राह्मणेनेति विशेषोपादानात् । बृहद्विष्णुनापि ब्राह्मणस्यैव मद्यप्रतिषेधो दर्शितः ।

"माधूकम् ऐक्षवं सैरं तालं खार्जूरपानसम् ।
मधूत्थं चैव माध्वीकं मैरेयं नालिकेरजम् ॥
अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य तु ॥" इति ॥

बृहद्याज्ञवल्क्येनापि क्षत्रियवैश्ययोर् दोषाभावो दर्शितः ।

"कामाद् अपि हि राजन्यो वैश्यो वापि कथंचन ।
मद्यम् एव सुरां पीत्वा न दोषं प्रतिपद्यते ॥" इति ।

व्यासेनापि तयोर् माध्वीपानम् अनुज्ञातम् ।

"उभौ मध्वासवक्षीबाव् उभौ चन्दनचर्चितौ ।
एकपर्यङ्करथिनौ दृष्टौ मे केशवार्जुनौ ॥" इति ।

एवं ब्राह्मणसंबन्धित्वेन मद्यमात्रनिषेधे सत्य् अपि,

"गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥" (मा०ध० ११.९५)

इति गौडीमाध्व्योः पृथङ्निषेधवचनं दोषगुरुत्वेन सुरासमत्वप्रतिपादनपरम् । अयं च सुरानिषेधोऽनुपनीतस्यानूढायाश् च कन्याया भवत्य् एव,

"तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न सुरां पिबेत् ।" (मा०ध० ११.९४)

इति जातिमात्रावच्छेदेन निषेधात् । अतश् च "सुरां पीत्वा द्विजो मोहात्" (मा०ध० ११.९१) इति प्रायश्चित्तविधिवाक्ये मनुना यद् द्विजग्रहणं कृतं तद् वर्णमात्रयोपलक्षणार्थम्, निमित्तभूतनिषेधसापेक्षत्वान् नैमित्तिकविधेर् निषेधे च वर्णमात्रस्यावच्छेदकत्वात् । यथा "यस्य हविर् निरुप्तं पुरस्ताच् चन्द्रमा अभ्युदेति" इति निमित्तवाक्ये हविर्मात्राभ्युदयस्य निमित्तत्वावगतौ तत्सापेक्षनैमित्तिकवाक्ये श्रूयमाणम् अपि "त्रेधा तन्दुलान् विभजेत्" इति तन्दुलग्रहणं तन्दुलादिरूपहविर्मात्रोपलक्षणम् । इयांस् तु विशेषः "पादो बालेषु दातव्यः सर्वपापेष्व् अयं विधिः" इति वचनात्, कामकारेऽपि न मरणान्तिकं किं तु पादम् एव द्विगुणीकृत्य षड्वार्षिकं देयम्,

"विहितं यद् अकामानां कामात् तद्द्विगुणं चरेत् ।"

इत्य् अङ्गिरःस्मरणात् । एवं वृद्धातुरादिष्व् अपि योज्यम् । तथा,

"तद् ब्राह्मणेन नात्तव्यं देवानाम् अश्नता हविः ।" (मा०ध० ११.९६)

इति मद्यस्यापि जातिमात्रावच्छेदेन निषिद्धत्वाद्, अनुपनीतेनापि न पेयम् ।

ननु कथम् अनुपनीतस्य दोषः, "प्राग् उपनयनात् कामचारकामवादकामभक्षाः" (गौ०ध० २.१) इति गौतमवचनात्, तथा,

"मद्यमूत्रपुरीषाणां भक्षणे नास्ति कश्चन ।
दोषस् त्व् आ पञ्चमाद् वर्षाद् ऊर्ध्वं पित्रोः सुहृद्गुरोः ॥"

इति कुमारवचनाच् च दोषाभावावगतेः ।

उच्यते । सुरामद्ययोर् निषेधवाक्ये जातिमात्रत्वाच् छेदकत्वश्रवणाद् अप्रतिहतैव निषेधप्रवृत्तिः । अत एव स्मृत्यन्तरे निषेधवचनम्,

"सुरापाननिषेधस् तु जात्याश्रय इति स्थितिः ।" इति ।

अतः,

"पादो बालेषु दातव्यः सर्वपापेष्व् अयं विधिः ।" इति ।

"सर्वपापेषु सुरापानादिष्व् अपि ।"

इति वचनात्, पाद एव सुरापाने प्रायश्चित्तम् । तथा जातूकर्ण्येन मद्यपानेऽपि प्रायश्चित्तम् उक्तम् ।

"अनुपेतस् तु यो बालो मद्यं मोहात् पिबेद् यदि ।
तस्य कृच्छ्रत्रयं कुर्यान् माता भ्राता तथा पिता ॥" इति ।

अतो गौतमवचनं सुरादिव्यतिरिक्तशुक्तपर्युषितादिविषयम् । कुमारवचनं तु स्वल्पदोषख्यापनपरम् । अत एव प्राग् उपनयनात् कृतदोषस्योपनयनम् एव प्रायश्चित्तम् इत्य् उक्तं मनुना ।

"गार्भैर् होमैर् जातकर्मचौडमौञ्जीनिबन्धनैः ।
बैजिकं गार्भिकं चैनो द्विजानाम् अपमृज्यते ॥" इति । (मा०ध० २.२७)

अयम् अत्रार्थः । त्रैवर्णिकानाम् उत्पत्तिप्रभृति पैष्टीप्रतिषेधः । ब्राह्मणस्य तु मद्यमात्रनिषेधोऽप्य् उत्पत्तिप्रभृत्य् एव । राजन्यवैश्ययोस् तु न कदाचिद् अपि गौड्यादिमद्यप्रतिषेधः । शूद्रस्य न सुराप्रतिषेधो नापि मद्यप्रतिषेधः ॥ ३.२५३ ॥

प्रायश्चित्तान्तरम् आह ।

वालवासा जटी वापि ब्रह्महत्याव्रतं चरेत् ।
पिण्याकं वा कणान् वापि भक्षयेत् त्रिसमा निशि ॥ या०ध०३.२५४

गोछागादिलोमनिर्मितवस्त्रप्रावृतो वालवासाः । वालवासोग्रहणं चीरवल्कलयोर् उपलक्षणार्थम्, "सुरापगुरुतल्पगौ चीरवल्कवाससौ ब्रह्महत्याव्रतं चरेयाताम्" इति प्रचेतःस्मरणात् । जटिग्रहणं मुण्डित्वनिराकरणार्थम् । "ब्रह्महत्याव्रतं चरेद्" इत्य् अनेनैव सिद्धे यद् वालवसनादिग्रहणं तद् अन्यत्र संभवि स्वयं मारितशिरःकपालादिनिवृत्त्यर्थम् । इदम् अकामतो जलबुद्ध्या यः सुरां पिबति तद्विषयम्,

"इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् ।" (मा०ध० ११.९०)

इत्य् अकामित्वोपाधित्वेन विहितस्यैव द्वादशवार्षिकस्यातिदेशात् । अत्र च सुरापानस्य महापातकत्वात् सत्य् अप्य् आतिदेशिकत्वे संपूर्णम् एव द्वादशवार्षिकं कुर्यान् न पादोनम् । अत एव वृद्धहारीतः "द्वादशभिर् वर्षैर् महापातकिनः पूयन्ते" इति । अथ वा पिण्याकं पिण्डितं त्रिसमाः वर्षत्रयपर्यन्तं रात्रौ भक्षयेत् । कणास् तन्दुललवास् तान् वा पूर्ववद् भक्षयेत् । एतच् च सकृद् एव कार्यम्,

"कणान् वा भक्षयेद् अब्दं पिण्याकं वा सकृन् निशि ।" (मा०ध० ११.९३)

इति मनुस्मरणात् । अस्य च पिण्याकादिभक्षणस्य भोजनकार्ये विहितत्वाद् अशनान्तरपरित्यागः । एतच् चोदकबुद्ध्या सुरापाने छर्दनोत्तरकाले वेदितव्यम्,

"एतद् एव व्रतं कुर्यान् मद्यपश् छर्दने कृते ।
पञ्चगव्यं च तस्योक्तं प्रत्यहं कायशोधनम् ॥"

इति व्यासवचनात् । न च सुरासंसृष्टेषदुपलभ्यमानतद्गन्धरसोदकपानविषयम् इदम् इति सुन्दरम्, संसर्गेऽपि सुरात्वस्यानपायात्, यथाज्यत्वस्य पृषदाज्ये । अत एव "आज्यपा इति निगमाः कार्याः न पृष्दाज्यपाः" इत्येवम् उक्तं न्यायविद्भिः । यत् पुनर् आपस्तम्बवचनम्, "स्तेयं कृत्वा सुरां पीत्वा गुरुदारान् गत्वा ब्रह्महत्यां च कृत्वा चतुर्थं कालं मितभोजनो योऽभ्युपेयात् सवनानुकल्पं स्थानासनाभ्यां विहरंस् त्रिभिर् वर्षैः पापं व्यपनुदति" (आ०ध० १.२९.९–१०) इति । यत् त्व् अङ्गिरोवचनम्,

"महापातकसंयुक्ता वर्षैः शुध्यन्ति ते त्रिभिः ।"

इति, तद् उभयम् अपि, "पिण्याकं वा कणान् वा" इत्य् अनेनैकविषयम् । यद् अपि यमेन प्रायश्चित्तद्वयम् उक्तम्,

"बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः ।
समत्वं ब्राह्मणैर् गच्छेद् इत्य् एषा वैदिकी श्रुतिः ॥
भूमिप्रदानं यः कुर्यात् सुरां पीत्वा द्विजोत्तमः ।
पुनर् न च पिबेत् तां तु संस्कृतः स विशुध्यति ॥"

इति तद् उभयम् अपि पूर्वेण सहैकविषयम् । यद् वा अतिरिक्तदक्षिणाकल्पाश्रयणाद् द्वादशवार्षिकेण सह विकल्प्यते । अत्रापि बालवृद्धादीनां सार्धैकवर्षीयम् अनुपनीतानां तु नवमासिकम् इत्य् एवं कल्पना कार्या । यत् तु मनुवचनम्,

"कणान् वा भक्षयेद् अब्दं पिण्याकं वा सकृन् निशि ।
सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥" (मा०ध० ११.९३)

इति तत् तालुमात्रसंयोगे सुराया अबुद्धिपूर्वे द्रष्टव्यम् ।

ननु च द्रवद्रव्यस्याभ्यवहरणं पानम् इत्य् उच्यते । अभ्यवहरणं च कण्ठाद् अधोनयनं न ताल्वादिसंयोगमात्रम् । अतः कथं तत्र पाननिमित्तं प्रायश्चित्तम् ।

उच्यते । येन ताल्वादिसंयोगेन विना पानक्रिया न निर्वर्तते सोऽपि पानक्रियाप्रतिषेधेन प्रतिषिद्धः । अतो यद्य् अपि मुख्यपानाभावान् न महापातकत्वं तथापि तत्प्रतिषेधेन तदङ्गभूताव्यभिचारिताल्वादिसंयोगस्यापि प्रतिषिद्धत्वेन दोषस्य विद्यमानत्वाद् भवत्य् एव प्रायश्चित्तम् ।

चरेद् व्रतम् अहत्वापि घातार्थं चेत् समागतः । (या०ध० ३.२५२)

इति, यथा हननप्रतिषेधेन तदङ्गभूताध्यवसायादेर् अपि प्रतिषिद्धत्वात् प्रायश्चित्तविधानम् । यत् तु बौधायनीयम् "त्रैमासिकम् अमत्या सुरापाने कृच्छ्राब्दपादं चरित्वा पुनर् उपनयनम्" (बौ०ध० २.१.१९) इति, यच् च याम्यम्,

"सुरां पीत्वा द्विजं हत्वा रुक्मं हृत्वा द्विजन्मनः ।
संयोगं पतितैर् गत्वा द्विजश् चान्द्रायणं चरेत् ॥" इति ।

यद् अपि बार्हस्पत्यम्,

"गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत् ।
तप्तकृच्छ्रं पराकं च चान्द्रायणम् अनुक्रमात् ॥" इति ।

तत् त्रितयम् अप्य् अनन्यौषधसाध्यव्याध्युपशमार्थे पाने वेदितव्यम्, प्रायश्चित्तस्याल्पत्वात् । यदा तु सुरासंसृष्टं शुष्करसम् एवान्नं भक्षयति तदा पुनर् उपनयनम् । यथाह मनुः ।

"अज्ञानात् प्राश्य विण्मूत्रं सुरासंसृष्टम् एव च ।
पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥" इति । (मा०ध० ११.१५१)

यदा च शुष्कसुराभाण्डस्थोदकं पिबति तदा शातातपोक्तं कुर्यात् "सुराभाण्डोदकपाने छर्दनं घृतप्राशनम् अहोरात्रोपवासश् च" इति । यत् तु बौधायनीयम्,

"सुरापानस्य यो भाण्डेष्व् अपः पर्युषिताः पिबेत् ।
शङ्खपुष्पीविपक्वं तु क्षीरं सर्पिः पिबेत् त्र्यहम् ॥" (बौ०ध० २.१.२२)

इति तत् पर्युषितत्वाद् अधिकम् । अकामतोऽभ्यासे पुनर् मनुनोक्तम् (११/१४९) ।

"अपः सुराभाजनस्था मद्यभाण्डस्थितास् तथा ।
पञ्चरात्रं पिबेत् पीत्वा शङ्खपुष्पीशृतं पयः ॥" इति । (मा०ध० ११.१४८)

यत् तु विष्णूक्तम्, "अपः सुराभाजनस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं पयः पिबेत्" इति, तन् मतिपूर्वकपाने । ज्ञानतोऽभ्यासे तु बृहद्यम आह ।

"सुराभाण्डस्थितं तोयं यदि कश्चित् पिबेद् द्विजः ।
स द्वादशाहं क्षीरेण पिबेद् ब्राह्मीं सुवर्चलाम् ॥" इति ।

सुरापस्य मुखगन्धाघ्राणे तु मानवम्,

"ब्राह्मणस् तु सुरापस्य गन्धम् आघ्राय सोमपः ।
प्राणान् अप्सु त्रिर् आयम्य घृतं प्राश्य विशुध्यति ॥" (मा०ध० ११.१५०)

इति, तत् सोमयाजिन एवामतिपूर्वे । मतिपूर्वे तु द्विगुणम् । अपीतसोमस्य तु कल्प्यम् । साक्षात् सुरागन्धाघ्राणस्य तु "घ्रातिर् अघ्रेयमद्ययोः" इति जातिभ्रंशकरत्वात्,

"जातिभ्रंशकरं कर्म कृत्वान्यतमम् इच्छया ।
चरेत् सांतपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ॥" (मा०ध० ११.१२५)

इति मनूक्तं द्रष्टव्यम् ॥ ३.२५४ ॥

एवं मुख्यसुरापाने प्रायश्चित्तम् उक्त्वा, मद्यपाने प्रायश्चित्तम् आह ।

अज्ञानात् तु सुरां पीत्वा रेतो विण्मूत्रम् एव च ।
पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥ या०ध०३.२५५

यः पुनर् अज्ञानाद् उदकबुद्ध्या सुरां मद्यं ब्राह्मणः पिबति, ये च ब्राह्मणादयो रेतो विण्मूत्राणि प्राश्नन्ति, ते त्रयोऽपि द्विजातयो वर्णास् तप्तकृच्छ्रपूर्वकं पुनरुपनयनं प्रायश्चित्तम् अर्हन्ति । अत्र मद्यपाने योऽयं पुनःसंस्कारः स ब्राह्मणस्यैव, क्षत्रियविशोस् तदभ्यनुज्ञानस्य दर्शितत्वात् । सुराशब्दश् चात्र मद्यपरः, प्रायश्चित्तस्यातिलघुत्वात्, अज्ञानतो मुख्यसुरापाने द्वादशवार्षिकस्य विहितत्वाच् च । अत एव गौतमेनत्र मद्यशब्दः प्रयुक्तः : "अमत्या मद्यपाने पयो घृटम् उदकं वा त्र्यहं तप्तानि पिबेत् स तप्तकृच्छ्रस् ततोऽस्य संस्कारो मूत्रपुरीषकुणपरेतसाण् प्राशने च" इति (गौ०ध० १३.२) । यद् अप्य् अस्मिन्न् एव विषये मनुनोक्तम्,

"अज्ञानाद् वारुणीं पीत्वा संस्कारेण विशुध्यति ।" (मा०ध० ११.१४७)

इति, तद् अपि तप्तकृच्छ्रपूर्वकम् एव, गौतमवाक्यानुरोधात् । पुनःसंस्कारश् च पुनरुपनयनम् । तच् च आश्वलायनाद्युक्तक्रमेण कर्तव्यम् । यथोक्तम् : "अथोपेतपूर्वस्य कृताकृतं केश्वपनं मेघाजननं चानिरुक्तं परिदानं कालश् च तत् सवितुर् वृणीमह इति सावित्रीम्" (आश्व०गृ०ृ १.२२.२४–२९) इति । मतिपूर्वमद्यपाने वसिष्ठोक्तं द्रष्टव्यम् : "मत्या मद्यपाने त्व् असुरायाः सुरायाश् चाज्ञाने कृच्छ्रातिकृच्छ्रौ घृतप्राशनं पुनःसंस्कारश् च" (व०ध० २०.१९) इति । चान्द्रायणं वा शङ्खोक्तम् : "असुरामद्यपायी चान्द्रायणं चरेत्" इति । मुखमात्रप्रवेशे तु मद्यस्यापस्तम्बीयं षड्रात्रम् :

"अभक्ष्याणाम् अपेयानाम् अलेह्यानां च भक्षाणे ।
रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् ।
पद्मोदुम्बरबिल्वानां पलाशस्य कुशस्य च ।
एतेषाम् उदकं पीत्वा षड्रात्रेण विशुध्यति ॥" इति ।

एतच् च तालादिमद्यविषयम् । गौडीमाध्व्योः पुनर् अज्ञानतः पाने "असुरायाः सुरायाश् चाज्ञानतः" (व०ध० २०.१९) इति वसिष्ठोक्तः कृच्छ्रातिकृच्छ्रसहितः पुनःसंस्कारो घृतप्राशश् च द्रष्टव्यः । तयोर् मतिपूर्वपाने तु "पिण्याकं वा कणान् वा" इति त्रैवार्षिकम् । कामतस् तु तत्पानाभ्यासे "अभ्यासे तु सुराया अग्निवर्णां सुरां पिबेन् मरणात्पूतो भवति" (व०ध० २०.२२) इति वासिष्ठम् मरणान्तिकं द्रष्टव्यम् । नात्र सुराशब्दः पैष्ट्यभिप्रायः, तस्याः सकृत्पानेऽपि मरणान्तिकस्य दर्शितत्वात् । मद्यवासितशुष्कभाण्डस्थोदकस्याज्ञानतः पाने बृहद्यमोक्तम् ।

"मद्यभाण्डस्थितं तोयं यदि कश्चित् पिबेद् द्विजः ।
कुशमूलविपक्वेन त्र्यहं क्षीरेण वर्तयेत् ॥" इति ।

अज्ञानतोऽभ्यासे तु वसिष्ठेनोक्तम् :

"मद्यभाण्डस्थितं तोयं यदि कश्चित् पिबेद् द्विजः ।
पद्मोदुम्बरबिल्वानां पलाशस्य कुशस्य च ॥
एतेषाम् उदकं पीत्वा त्रिरात्रेण विशुध्यति ॥" इति । (chf. व०ध० २०.२१)

ज्ञानतः पाने तु विष्णूक्तं "मद्यभाण्डस्थितं तोयं पीत्वा पञ्चरात्रं शङ्खपुष्पीशृतं पयः पिबेत्" (वि०ध० ५१.२३–२४) इति । ज्ञानतोऽभ्यासे तु शङ्खेनोक्तम् : "मद्यभाण्डस्थितं तोयं पीत्वा सप्तरात्रं गोमूत्रयावकं पिबेत्" इति ॥ अत्यन्ताभासे तु हारीतोक्तम् ।

"मद्यभाण्डस्थितं तोयं यदि कश्चित् पिबेद् द्विजः ।
द्वादशाहं तु पयसा पिबेद् ब्राह्मीं सुवर्चलाम् ।"। इति ।

एषु च वाक्येषु द्विजग्रहणं ब्राह्मणाभिप्रायम् क्षत्रियवैश्ययोर् अप्रतिषेधाद् इति दर्शितं प्राक् । इदं च गौडीमाध्वीभाण्डस्थजलपानविषयं, गुरुत्वात् प्रायश्चित्तस्य । तालादिमद्यभाण्डोदकपाने तु कल्प्यम् ॥ ३.२५५ ॥

द्विजातिभार्यां प्रत्य् आह ।

पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् ।
इहैव सा शुनी गृध्री सूकरी चोपजायते ॥ या०ध०३.२५६

या द्विजातिभार्या सुरां पिबति सा कृतपुण्यापि सती पतिलोकं न याति किं त्व् इहैव लोके श्वगृध्रसूकरलक्षितां तिर्यग्योनिं क्रमेण प्राप्नोति । ब्राह्मणीग्रहणं चात्र "तिस्रो वर्णानुपूर्व्येण" (या०ध० १.५७) इति न्यायेन यस्य द्विजातेर् यावत्यो भार्यास् तासाम् उपलक्षणम् । अत एव मनुः ।

"पतत्य् अर्धं शरीरस्य यस्य भार्या सुरां पिबेत् ।
पतितार्धशरीरस्य निष्कृतिर् न विधीयते ॥" इति । (chf. ढ़्ष्म् १०.२६)

धर्मार्थकामेषु सहाधिकाराद् दम्पत्योर् एकशरीरत्वम् एव अतो यस्य द्विजातेर् भार्या सुरां पिबति तस्य भार्यारूपम् अर्धं शरीरं पतति । पतितस्य च भार्यारूपस्यार्धशरीरस्य निष्कृतिर् न विधीयते । तस्माद् द्विजातिभार्यया ब्राह्मण्याद्यया न सुरा पेया ।

"तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न सुरां पिबेत् ।" (मा०ध० ११.९४)

इति निषेधविधौ लिङ्गस्याविवक्षितत्वेन वर्णत्रयभार्याणाम् अपि प्रतिषेधे सिद्धे, पुनर्वचनं द्विजातिभार्यायाः शूद्राया अपि सुराप्रतिषेधप्राप्त्यर्थम् । अतो द्विजातिभार्याभिः सुरापाने प्रायश्चित्तस्यार्धं कार्यम् । शूद्रभार्यायास् तु शूद्रायाः शूद्रवद् एव न प्रतिषेधः । सुरापानसमेषु तु निषिद्धभक्षणादिषु सुरापानप्रायश्चित्तार्धम् इत्य् उक्तं प्राक् ॥ ३.२५६ ॥

इति सुरापानप्रायश्चित्तप्रकरणम्

क्रमप्राप्तं सुवर्णस्तेयप्रायश्चित्तम् आह ।

ब्राह्मणस्वर्णहारी तु राज्ञे मुसलम् अर्पयेत् ।
स्वकर्म ख्यापायंस् तेन हतो मुक्तोऽपि वा शुचिः ॥ या०ध०३.२५७

ब्राह्मणस्वामिकं सुवर्णं योऽपहरत्य् असौ "सुवर्णस्तेयं मया कृतम्" इत्य् एवं स्वकर्म ख्यापयन् राज्ञे मुसलं समर्पयेत् । मुसलसमर्पणस्य दृष्टार्थत्वात् तेन मुसलेन राजा तं हन्यात् । तेन राज्ञा हतो मुक्तो वा शुद्धो भवति । अपहरणशब्देन च समक्षं परोक्षं वा बलाच् चौर्येण वा क्रयादिस्वत्वहेतुं विना ग्रहणम् उच्यते । "मुसलं समर्पतेत्" इति यद्य् अपि सामान्येनोक्तं तथापि तस्य हननार्थत्वात् तत्समर्थस्यायोमयादेर् ग्रहणम् । अत एव मनुनोक्तम् ।

"स्कन्धेनादाय मुसलं लकुटं वापि खादिरम् ।
अस्ंसि चोभयतस् तीक्ष्णाम् आयसं दण्डम् एव वा ॥" इति ॥ (मा०ध० ८.३१५)

शङ्खेनाप्य् अत्र विशेष उक्तः : "सुवर्णस्तेनः प्रकीर्णकेश आर्द्रवासा आयसं मुसलम् आदाय राजानम् उपतिष्टेद् इदं मया पापं कृतम् अनेन मुसलेन मां घातयस्वेति । स राज्ञा शिष्टः सन् पूतो भवति" इति । हननं चावृत्तिविधानाभावात् सकृद् एव कार्यम् । अत एव मनुनोक्तम् ।

"ततो मुसलम् आदाय सकृद् धन्यात् तु तं स्वयम् ।" इति । (मा०ध० ११.१०१)

एवं सकृत् ताडनेन राज्ञा हतो मृतः शुध्येत्, मुक्तो वा मरणाज् जीवन्न् अपि विशुध्येद् इति यावत् । तथा च संवर्तेनोक्तम् ।

"ततो मुसलम् आदाय सकृद् धन्यात् तु तं स्वयम् ।
यदि जीवति स स्तेनस् ततः स्तेयाद् विशुध्यति ।" इति ।

यथोक्तम् ब्राह्मणवधे "मृतकल्पः प्रहारार्तो जीवन्न् अपि विशुध्यति" इति ।

ननु अताडित एव राज्ञा मुक्तः स्तेनः शुध्येद् इत्य् अयम् अर्थः कस्मान् नेष्यते ।

उच्यते, "अनघ्नन्न् एनस्वी राजा" (गौ०ध० १२.४५) इति गौतमीये ताडनम् अकुर्वतो राज्ञो दोषाभिधानात् ।

भवतु राज्ञो दोषस् तथाप्य् अतिक्रान्तनिषेधेन राज्ञा स्नेहादिना मुक्तः स्तेनः कथं न शुध्येद् इति चेत् ।

उच्यते । एवं च सत्य् अकारणिका शुद्धिर् आपतेत् ।

अथोच्यते । मोक्षोत्तरकालं द्वादशवार्षिकाद्यनुष्ठानेन शुद्ध्यङ्गीकरणान् नाकारणिकेति ।

तद् अप्य् असुन्दरम्, मुक्तः शुचिर् इति मोक्षस्यैव शुद्धिहेतुत्वाभिधानात् । अतः प्राच्येव व्याख्या ज्यायसी । मुक्तो वा मरणाज् जीवन्न् अपि विशुध्येद् इति यावत् । इदं च मरणान्तिकं सार्ववर्णिकस्यापहर्तुर् न तु ब्राह्मणस्यैव, ब्राह्मणस्वर्णहारीति नैमित्तिकवाक्ये विशेषानुपादानात्, क्षत्रियादीनां च महापातकित्वाविशेषात्, प्रायश्चित्तान्तरस्यानाम्नानाच् च । यत् पुनर् मानवे "सुवर्णस्तेयकृद् विप्रः" (मा०ध० ११.१००) इति विप्रग्रहणं तन् नरमात्रोपलक्षणम्, "प्रायश्चित्तीयते नरः" (मा०ध० ११.४४) इति तस्यैव प्रकृतत्वात्, "ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः" (मा०ध० ११.५५) इति निमित्तवाक्ये विशेषानुपादानाच् च । तत्सापेक्षनैमित्तिकवाक्ये "सुवर्णस्तेयकृद् विप्रः" (मा०ध० ११.१००)त्य् अत्र श्रूयमाणम् अप्य् उपलक्षणम् एव युक्तम्, यथा "अभ्युदितेष्ट्यां यस्य हविर्" इति वाक्ये तन्दुलग्रहणं हविर्मात्रस्य । इदं च राज्ञा हननं ब्राह्मणव्यतिरिक्तस्य,

"न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अपि स्थितम् ।" (मा०ध० ८.३८०)

इति मानवे ब्राह्मणवधस्य निषिद्धत्वात् । यदि कथंचिद् अतिक्रान्तनिषेधे राज्ञा हन्यते तथापि शुद्धो भवति,

"वधेन शुध्यति स्तेनो ब्राह्मणस् तपसैव वा ।" मा०ध० ११.१०१)

इति ब्राह्मणस्पापि वधेन शुद्ध्यभिधानात् । न च "तपसैव वा" (या०ध० १.२००) इत्य् एवकारेण वधनिषेधः, तस्य केवलतपसापि शुद्ध्यभिधानपरत्वात् । यदि वधो निषिद्धस् तार्हि "तपसैव वा" इति विकल्पाभिधानम् अनुपपन्नम् । न च दण्डाभिप्रायं विकल्पाभिधानम्, तस्यानिर्दिष्टत्वात् । किं च एकार्थास् तु विकल्पेरन् इति न्यायेनैकार्थानाम् एव विकल्पो व्रीहियवयोर् इव । न च दण्डतपसोर् एकार्थत्वम्, दण्डस्य दमनार्थत्वात् तपसश् च पापक्षयहेतुत्वात् । न च "वधेन शुध्यति स्तेनः" (मा०ध० ११.१०१) इति सामान्यविषयेण वधेन ब्राह्मणस् तपसैव वेति विशिष्टविषयस्य तपसो विकल्पोपपत्तिः । न हि भवति ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय वेति विकल्पस् तस्माद् द्वयोर् अपि सामान्यविषयत्वम् एव । यद् वा क्षत्रियस्यापि न निषेधः, मनुना "सुवर्णस्तेयकृद् विप्रः" (मा०ध० ११.१००) इत्य् अभिधाय,

"गृहीत्वा मुसलं राजा सकृद् धन्यात् तु तं स्वयम् ।" (मा०ध० ११.१०१)

इति सर्वनाम्ना प्रकृतब्राह्मणपरामर्शेनैव हननविधानात्, "न जातु ब्राह्मणं हन्यात्" (मा०ध० ८.३८०) इत्य् अस्य प्रायश्चित्तव्यतिरिक्तदण्डरूपहननविषयत्वेनाप्य् उपपत्तेः । एतच् च मरणान्तिकं मतिपूर्वसुवर्णस्तेयविषयम्,

"मरणान्तिकं हि यत् प्रोक्तं प्रायश्चित्तं मनीषिभिः ।
तत् तु कामकृते पापे विज्ञेयं नात्र संशयः ॥"

इति मध्यमाङ्गिरःस्मरणात् । अत्र च सुवर्णशब्दः परिमाणविशिष्टहेमद्रव्यवचनो न जातिमात्रवचनः,

जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ।

तेऽष्टौ लिक्षा तु तास् तिस्रो राजसर्षप उच्यते ॥

गौरस् तु ते त्रयः षड्भिर् यवो माषस् तु ते त्रयः ।

कृष्णलः पञ्च ते माषस् ते सुवर्णस् तु षोडश ॥ (या०ध० १.३६२–६३)

इति षोडशमाषपरिमिते हेमनि सुवर्णशब्दस्य परिभाषितत्वात् । अतो ब्राह्मणसुवर्णापहरणं महापातकम् इत्यादिप्रयोगेषु कृतपरिमाणस्यैव सुवर्णस्य ग्रहणं युक्तम्, परिमाणकरणस्य दृष्टार्थत्वात् । न ह्य् अदृष्टार्थपरिमाणस्मरणम् । नापि लोकव्यवहारार्थम्, अतत्परत्वात् स्मृतिकारप्रवृत्तेः । अत एवोक्तं न्यायविद्भिः "कार्यकाले संज्ञापरिभाषयोर्" उपस्थानम् इति । तथा नामानि गुणफलोपबन्धेनार्थवद् इत्य् उक्तं पञ्चदशान्य् आज्यानीत्य् अत्र । न च दण्डमात्रोपयोगिपरिमाणस्मरणम् इत्य् उक्तम् इति युक्तम्, तावन्मात्रार्थत्वे प्रमाणाभावात् । अतोऽविशेषात् सर्वशेषत्वम् एव युक्तम् । किं च, दण्डस्य दमनार्थत्वाद् दमनस्य च परिमाणविशेषम् अन्तरेणापि सिद्धेर् नातीव परिमाणस्मरणम् उपयुज्यते । शब्दैकसमधिगम्ये तु महापातिकत्वादाव् एकान्ततः स्मरणम् उपयुज्यते । अतः षोडशमाषात्मकसुवर्णपरिमितहेमहरण एव महापातकित्वं तन्निमित्तं मरणान्तिकादिप्रायश्चित्तविधानं च । द्वित्रादिमाषात्मकहेमहरणं तु क्षत्रियादिहेमहरणवद् उपपातकम् एवेति युक्तम् । किं च । सुवर्णान् न्यूनपरिमाणहेमहरणे प्रायश्चित्तान्तरोपदेशात् तत्परिमाणस्यैव हेम्नो हरणे मरणान्तिकादिप्रायश्चित्तम् इति युक्तम् । तथाचोक्तं षट्त्रिंशन्मते ।

"वालाग्रमात्रेऽपहृते प्राणायामं समाचरेत् ।
लिक्षामात्रेऽपि च तथा प्राणायामत्रयं बुधः ॥
राजसर्षपमात्रे तु प्राणायामचतुष्टयम् ।
गायत्र्यष्टसहस्रं च जपेत् पापविशुद्धये ॥
गौरसर्षपमात्रे तु सावित्रीं वै दिनं जपेत् ।
यवमात्रे सुवर्णस्य प्रायश्चित्तं दिनद्वयम् ॥
सुवर्णकृष्णलं ह्य् एकम् अपहृत्य द्विजोत्तमः ।
कुर्यात् सान्तपनं कुर्यात् तत्पापस्यापनुत्तये ॥
अपहृत्य सुवर्णस्य माषामात्रं द्विजोत्तमः ।
गोमूत्रयावकाहारस् त्रिभिर् मासैर् विशुध्यति ॥
सुवर्णस्यापहरणे वत्सरं यावकी भवेत् ।
ऊर्ध्वं प्राणान्तिकं ज्ञेयम् अथवा ब्रह्महव्रतम् ॥"

इदं च वत्सरं यावकाशनं किंचिन्न्यूनसुवर्णापहारविषयम्, सुवर्णापहारे मन्वादिमहास्मृतिषु द्वादशवार्षिकविधानात् ।

"बलाद् ये कामकारेण गृह्णन्ति स्वं नराधमाः ।
तेषां तु बलहर्तॄणां प्राणान्तिकम् इहोच्यते ॥"

सुवर्णपरिमाणाद् अर्वाग् अपीत्य् अभिप्रेतम् । इदं च स्तेयप्रायश्चित्तम् अपहृतधनं तत्स्वामिने दत्त्वैव कार्यम्,

"स्तेये ब्रह्मस्वभूतस्य सुवर्णादेः कृते पुनः ।
स्वामिनेऽपहृतं देयं हर्त्रा त्व् एकादशाधिकम् ॥"

इति स्मरणात्, तथा,

"चरेत् सान्तपनं कृच्छ्रं तन्निर्यात्य् आत्मशुद्धये ।" (मा०ध० ११.१६५)

इति मनुस्मरणाच् च । दण्डप्रकरणेऽप्य् उक्तम् :

"शेषेष्व् एकादशगुणं दाप्यस् तस्य च तद् धनम् ॥" (मा०ध० ८.३२०) इति ।

यद् वात्यशक्त्या राजा हन्तुम् असमर्थस् तदा वसिष्ठोक्तम् द्रष्टव्यम् : "स्तेनः प्रकीर्णकेशो राजनम् अभियाचेत् । ततस् तस्मै राजौदुम्बरं शस्त्रं दद्यात् तेनात्मानं प्रमापयेत् । मरणात् पूतो भवीति विज्ञायते" (व०ध० २०.४१) इति । औदुम्बरं ताम्रमयम् । यद् अपि द्वितीयं प्रायश्चित्तं तेनोक्तम् "निष्कालको गोघृताक्तो गोमयाग्निना पादप्रभृत्यात्मानं प्रमापयेन् मरणात् पूतो भवतीति विज्ञायते" (व०ध० २०.४२) इति, तद् अपि गुरुश्रोत्रिययागस्थादिविप्रद्रव्यापहारविषयं क्षत्रियाद्यपहर्तृविषयं वा । तत्र निष्कालक इति निर्गतकेशश्मश्रुलोमाभिधीयते । तथाश्वमेधाद्यनुष्ठानेन वा । तथा प्रचेतसा मरणान्तिकम् अभिधायोक्तम् :

"इष्ट्वा वाश्वमेधेन गोसवेन वा विशुध्येत् ।" इति ।

एतच् च विट्क्ष्तरियाद्यपहर्तृविषयम् ॥ ३.२५७ ॥

प्रायश्चित्तान्तरम् आह ।

अनिवेद्य नृपे शुध्येत् सुरापव्रतम् आचरन् ।
आत्मतुल्यं सुवर्णं वा दद्याद् वा विप्रतुष्टिकृत् ॥ या०ध०३.२५८

स्वीयं स्तेयं राजन्य् अनिवेद्य सुरापव्रतं द्वादशवार्षिकम् आचरन् शुध्येत् । शवशिरोध्वाजे तत्कपालधारणनिराकरणार्थं सुरापव्रतम् इत्य् उक्तम् । एतच् चाकामकारविषयम्,

"इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् ।" (मा०ध० ११.९०)

इत्य् अकामतो विहितस्यैव द्वादशवार्षिकस्यातिदेशात् ।

ननु अकामतोऽपहार एव न संभवतीति कथं तद्विषयत्वम् ।

उच्यते । यदा वस्त्रप्रान्तग्रथितं सुवर्णादिकम् अज्ञानाद् अपहरति रजतादिद्रव्यान्तरबुद्ध्या वा हृत्वा चानन्तरम् एवान्यस्मै दत्तं नाशितं वा न पुनः स्वामिने प्रत्यर्पितं तदा संभवत्य् एवाकामतोऽपहारः । यस् तु ताम्रादिकस्य रसवेधाद्यापादितसुवर्णरूपस्यापहारो न तत्रेदं प्रायश्चित्तम्, मुख्यजातिसमवायाभावात् । न च मुख्यसादृश्यमात्रेण गौणे मुख्यधर्मा भवन्ति । यद्य् अपीदृशम् एवासुवर्णं सुवर्णभ्रान्त्यापहरति तथापि नेदं प्रायश्चित्तम्, असुवर्णापहारित्वाद् एव । न च "सृष्टश् चेद् ब्राह्मणवधे अहत्वापि" (गौ०ध० २२.११) इतिवद् अत्रापि दोष इति वाच्यम्, असुवर्णे प्रवृत्तत्वाद् एव । न ह्य् अब्राह्मणः सृष्टश् चेद् इत्य् अस्य विषयः । यच् चेदं "मनसा पापं ध्यात्वा प्रणवपूर्वकं व्याहृतीर् मनसा जपेत् । व्याहृत्या प्राणायामं त्रिर् आचरेत् । प्रवृत्तौ कृच्छ्रं द्वादशरात्रं चरेत्" (chf. व०ध० २३.२३) इति तद् अपि सम्यगर्थप्रवृत्तिविषयम् । अतो नेदृशम् अज्ञानतः सुवर्णापहारः प्रायश्चित्तस्य निमित्तं किं तु रजतादिबुद्ध्या पूर्वोक्त एव स्वर्णापहारः । अस्मिन्न् एव विषये यदापहर्तात्यन्तमहाधनः तदात्मतुलितं सुवर्णं दद्यात् । अथ तावद् धनं नास्ति तपश्चर्यायां चाशक्तस् तदा विप्रतुष्टिकृद् विप्रस्य यावज्जीवं कुटुम्बभरणपर्याप्ततया तुष्टिकरं धनं दद्यात् । यदा तु निर्गुणस्वामिकं द्रव्यम् अपहरति तदा "एतद् एव व्रतं स्तेनः पादन्यूनं समाचरेत्" इति व्यासेनोक्तम् नववार्षिकं द्रष्टव्यम् । यदा पुनर् ईदृशम् एव क्षुत्क्षामकुटुम्बपरिरक्षणार्थम् अपहरति तदा अत्रिप्रतिपादितं षड्वार्षिकं स्वर्जिदादिं वा क्रतुं कुर्यात् तीर्थयात्रां वा,

"षडब्दं वाचरेत् कृच्छ्रं यजेद् वा क्रतुना द्विजः ।
तीर्थानि वा भ्रमन्विद्वांस् ततः स्तेयाद् विमुच्यते ॥" इति ।

यदा त्व् अपहारसमनन्तरम् एव "हा कष्टं मया कृतम्" इति जातानुतापः प्रत्यर्पयति त्यजति वा तद् आपस्तम्बीयं चतुर्थकालमिताशनेन त्रिवर्षम् अवस्थानम्, आङ्गिरसं वा वज्राख्यं त्रैवार्षिकं द्रष्टव्यम् ।

ननु प्रत्यर्पणे त्यागे वापहारधात्वर्थस्य निष्पन्नत्वात् कथं प्रायश्चित्ताल्पत्वम् । अथानिष्पन्नस् तदा प्रायश्चित्ताभाव एव स्यान्, न तु प्रायश्चित्ताल्पत्वम् ।

मैवम् । अपहारस्योपभोगादिफलपर्यन्तत्वाद् उपभोगात् प्राङ् निवृत्तौ च पुष्कलस्यापहारार्थस्याभावाद् युक्तम् एव प्रायश्चित्ताल्पत्वं, पीतवान्त इवापेयद्रव्ये ।

ननु एवं सति चौरहस्ताद् बलाद् आकृष्य ग्रहणेऽपि तस्योपभोगलक्षणफलाभावात् प्रायश्चित्ताल्पत्वप्रसङ्गः ।

मैवम्, तस्य त्यागे स्वतःप्रवृत्त्यभावात् फलपर्यन्तेऽपहारे स्वतःप्रवृत्तत्वाच् च । यस् तु रजतताम्रादिसंसृष्टसुवर्णापहारी न तत्रेदं लघुप्रायश्चित्तम्, यतः संसर्गेऽपि सुवर्णत्वं नापैति, आज्यत्वम् इव पृषदाज्ये । अतस् तत्र द्वादशवार्षिकम् एवेति युक्तम् । अथ लघुप्रायश्चित्तादि द्रव्यान्तरम् एवेति लघुप्रायश्चित्तम् उच्यते । न तर्हि तत्र त्रैवार्षिकादिविषयता असुवर्णत्वाद् एव, किं तूपपातकप्रायश्चित्तम् एव । यद् अप्य् अपरम् आपस्तम्बोक्तम्,

"स्तेयं कृत्वा सुरां पीत्वा कृच्छ्रं सांवत्सरं चरेत् ।"

।िति, तत् सुवर्णपरिमाणाद् अर्वाङ् माषाच् चाधिकपरिमाणद्रव्यविषयम् । यत् तूक्तं सुमन्तुना "सुवर्णस्तेयी मासं सावित्र्याष्टसहस्रम् आज्याहुतीर् जुहुयात् । प्रत्यहं त्रिरात्रम् उपवासस् तप्तकृच्छ्रेण च पूतो भवति" इति, तत् पूर्वोक्तमाषपरिमाणसुवर्णापहारप्रायश्चित्तेन सह विकल्प्यते । यद् अप्य् अपरं तेनैवोक्तम् "सुवर्णस्तेयी द्वादशरात्रं वायुभक्षः पूतो भवति" इति, तन् मनसापहारे प्रवृत्तस्य स्वत एवोपरतजिहीर्षस्य वेदितव्यम् । अत्रापि स्त्रीबालवृद्धादिष्व् अप्य् अर्धम् एव प्रायश्चित्तं वेदितव्यम् । यानि च अश्वरत्नमनुष्यस्त्रीभूधेनुहरणं "तथा" इत्यादिना सुवर्णस्तेयसमत्वेन प्रतिपादितानि तेष्व् अप्य् अर्धम् एव कार्यम् । यत् पुनश् चतुर्विंशतिमतवचनम्,

"रूप्यं हृत्वा द्विजो मोहाच् चरेच् चान्द्रायणव्रतम् ।
गद्याणदशकाद् ऊर्ध्वम् आ शताद् द्विगुणं चरेत् ॥
आ सहस्रात् तु त्रिगुणम् ऊर्ध्वं हेमविधिः स्मृतः ।
सर्वेषां धातुलोहानां पराकं तु समाचरेत् ॥
धान्यानां हरणे कृच्छ्रं तिलानाम् ऐन्दवं स्मृतम् ॥
रत्नानां हरणे विप्रश् चरेच् चान्द्रायणव्रतम् ॥" इति ।

तद् अपि गद्याणसहस्राधिकरजतहरणे सुवर्णस्तेयसमप्रायश्चित्तप्रतिपादनार्थं न पुनस् तन्निवृत्त्यर्थम् । यद् अपि रत्नापहारे चान्द्रायणम् उक्तं तद् अपि गद्याणसहस्राद् धीनमूल्यरत्नापहारे द्रष्टव्यम् । ऊर्ध्वं पुनः सुवर्णस्तेयसमम् ॥ ३.२५८ ॥

इति सुवर्णस्तेयप्रायश्चित्तप्रकरणम्

उद्देशक्रमप्राप्तं गुरुतल्पिप्रायश्चित्तम् आह ।

तप्तेऽयःशयने सार्धम् आयस्या योषिता स्वपेत् ।
गृहीत्वोत्कृत्य वृषणौ नैरृत्यां चोत्सृजेत् तनुम् ॥ या०ध०३.२५९

"समा वा गुरुतल्पगः" (या०ध० ३.२६०) इति वक्ष्यमाणश्लोकगतं गुरुतल्पगपदम् अत्र संबध्यते । तप्तेऽयःशयने यथा मरणक्षमं भवति तथा तप्ते अग्निवर्णे कृते कार्ष्णायसे शयने अयोमय्या स्त्रीप्रतिकृत्या तप्तया सह गुरुतल्पगः स्वप्यात् । एवं सुप्त्वा तनुं देहं उत्सृजेत् । म्रियेतेति यावत् । शयनं च गुर्वङ्गनागमनं मया कृतम् इत्य् एवं स्वकर्म विख्याप्य कुर्यात्, "गुरुतल्प्य् अभिभाष्यैनः" (मा०ध० ११.१०४) इति मनुस्मरणात् । तथा स्त्रियम् आलिङ्ग्य कार्यम्, "गुरुतल्पगो मृन्मयीम् आयसीं वा स्त्रियः प्रतिकृतिम् अग्निवर्णां कृत्वा कार्ष्णायसशयने (अयोमय्या स्त्रीप्रतिकृत्या कृत्वा) ताम् आलिङ्ग्य पूतो भवति" इति वृद्धहारीतस्मरणात् । तथा मुण्डितलोमकेशेन घृताभ्यक्तेन च कर्तव्यम्, "निष्कालको घृताभ्यक्तस् तप्तां तां सूर्मीं मृन्मयीं वा परिष्वज्य मरणात् पूतो भवतीति विज्ञायते" (व०ध० २०.१४) इति वसिष्ठस्मरणात् । न च,

"गुरुतल्प्य् अभिभाष्यैनस् तप्ते स्वप्याद् अयोमये ।
सूर्मीं ज्वलन्तीं स्वाश्लिष्येन् मृत्युना स विशुध्यति ॥" (मा०ध० ११.१०४)

इति मनुवाक्यानुरोधेन तप्तलोहशयनं तप्तलोहयोषिदालिङ्गनं च निरपेक्षं प्रायश्चित्तद्वयम् इत्य् आशङ्कनीयम् । आयस्या योषिता स्वपेत् । कुत्रेत्य् आकाङ्क्षायां तप्तेऽयःशयन इति परस्परसापेक्षतयैकत्वावगमाद् एककल्पत्वम् एव युक्तम् । अथ वा वृषणौ सलिङ्गौ स्वयम् उत्कृत्य छित्त्वाञ्जलिना गृहीत्वा नैरृत्यां दक्षिणस्यां प्रतीच्यां दिशि देहपातान्तम् अकुटिलगतिर् गत्वा तनुम् उत्सृजेत् । यथाह मनुः ।

"स्वयं वा शिश्नवृषणाव् उत्कृत्याधाय चाञ्जलौ ।
नैरृतीं दिशम् आतिष्ठेद् आ निपाताद् अजिह्मगः ॥" इति । (मा०ध० ११.१०५)

गमनं पृष्टतोऽनीक्षमाणेन कर्तव्यम्, "क्षुरेण शिश्नवृषणाव् उत्कृत्यानवेक्षमाणो व्रजेत्" इति शङ्खलिखितस्मरणात् । एवं गच्छन् यत्र कुड्यादिना प्रतिबध्यते तत्रैव मरणान्तं तिष्थेत्, "सवृषणं शिश्नम् उत्कृत्याञ्जलाव् आधाय दक्षिणाभिमुखो गच्छेद् यत्रैव प्रतिहतस् तत्रैव तिष्ठेद् आ प्रलयात्" (व०ध० २०.१३) इति वसिष्थस्मरणात् । दण्डोऽप्य् अत्रायम् एव । यथाह नारदः ।

"आसाम् अन्यतमां गच्छन् गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनात् तत्र नान्यो दण्डो विधीयते ॥"

एवं दण्डार्थम् अपि लिङ्गाद्युत्कर्तनं पापक्षयार्थम् अपि भवति । इदम् एव मरणान्तिकं दण्डम् अभिप्रेत्योक्तं मनुना ।

"राजभिर् धृतदण्डास् तु कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥" इति । (मा०ध० ८.३१८)

धनदण्डेन पुनः प्रायश्चित्तं भवत्य् एव,

"प्रायश्चित्तं तु कुर्वाणाः सर्वे वर्णा यथोदितम् ।
नाङ्क्या राज्ञा ललाटे स्युर् दाप्यास् तूत्तमसाहसम् ॥" (मा०ध० ९.२४०)

इति तेनैवोक्तत्वात् । अनयोश् च मरणान्तिकयोर् अन्यतरानुष्ठानेन गुरुतल्पगः शुध्येत् । गुरुशब्दश् चात्र मुख्यया वृत्त्या पितरि वर्तते,

"निषेकादीनि कर्माणि यः करोति यथाविधि ।
संभावयति चान्नेन स विप्रो गुरुर् उच्यते ॥" (मा०ध० २.१४२)

इति मनुना गुरुत्वप्रतिपादनपरे वाक्ये निषेकादिकर्तुर् जनकस्यैव गुरुत्वाभिधानात् । योगीश्वरेण च निषेकादिकर्माभिप्रायेणोक्तम् : "स गुरुर्यः क्रियां कृत्वा वेदम् अस्मै प्रयच्छति" (या०ध० १.३४) इति ।

ननु गुरुशब्दस्यान्यत्रापि प्रयोगो दृश्यते : "उपनीय गुरुः शिष्यम्" (मा०ध० २.६९)इत्यादिनाचार्ये "स्वल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । तम् अपीह गुरुं विद्यात्" (मा०ध० २.१४९) इत्य् उपाध्याये । व्यासेनाप्य् अत्र प्रयोगो दर्शितः : "गुरवो मातृपितृपत्यार्यविद्यादातृज्येष्ठभ्रातर ऋत्विजो भयत्रातान्नदाता च" इति । न चानेकार्थकल्पनादोषः, गुरुशब्दस्य प्रवृत्तिनिमित्तभूतायाः पूजार्हतायाः सर्वत्रानुस्यूतेः । दर्शितं च तस्याः प्रवृत्तिनिमित्तत्वं योगीश्वरेण "एते मान्या यथापूर्वम् एभ्यो माता गरीयसी" इति (या०ध० १.३५) "मान्याः" इत्य् उपक्रम्य गरीयसीत्य् उपसंहारं कुर्वता । न च,

"उपाध्यायाद् दशाचार्य आचार्याणां शतं पिता ।" (मा०ध० २.१४५)

इत्य् उपाध्यायाद् अधिकाचार्यात् पितुर् अतिशयितत्ववचनात् स एव मुख्य इति वाच्यम्, आचार्येऽप्य् अतिशयितत्वस्याविशिष्टत्वात्,

"उत्पादकब्रह्मदात्रोर् गरीयान् ब्रह्मदः पिता ।" इति । (मा०ध० २.१४६)

गौतमेनाप्य् उक्तम् "आचार्यः श्रेष्ठो गुरूणाम्" इति (गौ०ध० २.५०) । किं च यद्य् अतिशयितत्वमात्रेण मुख्यत्वम् उच्यते, तर्हि सहस्रम् इति वचनान् मातुर् एव गुरुत्वं स्यात् । तस्मात् सर्वे गुरवस्, तत्पत्नीगमनं गुर्वङ्गनागमनम् इति युक्तम् ।

उच्यते । "निषेकादीनि" इति मनुवचनं निषेकादिकर्तुर् जनकस्य गुरुत्वप्रतिपादनपरम् अनन्यपरत्वात् । यत् पुनर् व्यासगौतमवचनं, तत् परिचर्यापूजादिविधिशेषतया स्तुत्यर्थत्वेनान्यपरम् । अतो गुरुत्वप्रतिपादनपरान् निषेकादीति मनुवचनात् पितुर् एव मुख्यं गुरुत्वम् इति स्थितम् । अत एव वसिष्ठेन "आचार्यपुत्रशिष्यभार्यासु चैवम्" (व०ध० २०.१५) इत्य् आचार्यदारेष्व् आतिदेशिकं गुरुतल्पप्रायश्चित्तम् उक्तम् । तथा जातूकर्ण्यादिभिर् अप्य् उक्तम् :

"आचार्यादेस् तु भार्यासु गुरुतल्पव्रतं चरेत् ।"

इत्यादि । आचार्यादेर् मुह्क्यगुरुत्वे तूपदेशत एव व्रतप्राप्तेर् अतिदेशोऽनर्थक एव स्यात् । किं च संवर्तेन स्पष्टम् एव पितृदारग्रहणं कृतम् ।

"पितृदारान् समारुह्य मातृवर्ज्यं नराधमः ।" इति ।

षट्रिंशन्मतेऽपि ।

"पितृभार्यां तु विज्ञाय सवर्णां योऽधिगच्छति ।" इति ।

अतोऽपि निषेकादिकर्ता पितैव मुख्यो गुरुः । तच् च गुरुत्वं वर्णचतुष्टयेऽप्य् अविशिष्टम्, निषेकादिकर्तृत्वस्याविशेषात् । अतः "स विप्रो गुरुर् उच्यते" इति विप्रग्रहणम् उपलक्षणम् । अतः पितृपत्नीगमनम् एव महापातकम् । गमनं च चरमधातुविसर्गपर्यन्तं कथ्यते । अतस् ततोऽर्वाङ् निवृत्तौ न महापातकित्वम् । तत्र चेदं "तप्तेऽयःशयने सार्धम् आयस्या" इत्याद्युक्तं मरणान्तिकं प्रायश्चित्तद्वयम् । तच् च जनन्याम् अकामकृते, तत्सपत्न्यां तु सवर्णायाम् उत्तमवऋनायां च कामकृते द्रष्टव्यम्,

"पितृभार्यां तु विज्ञाय सवर्णां योऽधिगच्छति ।
जननीं चाप्य् अविज्ञाय नामृतः शुद्धिम् आप्नुयात् ॥"

इति षट्त्रिंशन्मतेऽभिधानात् । जनन्यां तु कामकृते वासिष्ठं "निष्कालको घृताभ्यक्तो गोमयाग्निना पादप्रभृत्यात्मानम् अवदाहयेत्" (व०ध० २०.१४) इति द्रष्टव्यम् । अकामतोऽभ्यासेऽप्य् एतद् एव ।

ननु च,

मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा ।

आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः ॥ (या०ध० ३.२३२–३३)

इत्य् अतिदेशाभिधानान् मातृसपत्नीगमने त्व् औपदेशिकं प्रायश्चित्तम् अयुक्तम् ।

उच्यते । "पितृभार्यां सवर्णाम्" इत्य् अस्माद् एव वचनात् सवर्णग्रहणाद् धीनवर्णसपत्नीविषयम् इदम् आतिदेशिकम् इति न विरोधः । इदं च मुख्यस्यैव पुत्रस्य । इतरेषां पुनः पुत्रकार्यकरत्वम् एव न पुत्रत्वम् । यथाह मनुः ।

"क्षेत्रजादीन् सुतान् एतान् एकादश यथोचितान् ।
पुत्रप्रतिनिधीन् आहुः क्रियालोपान् मनीषिणः ॥" इति । (मा०ध० ९.१८०)

तत्रोभयेच्छातः प्रवृत्तौ "तप्तेऽयःशयने" इति प्रथमं प्रायश्चित्तम् । स्वेन प्रोत्साहने तु "गृहीत्वोत्कृत्य वृषणौ" इति द्वितीयम्, अनुबन्धातिशयने प्रायश्चित्तगुरुत्वस्योक्तत्वात् । तया प्रोत्साहितस्य तु मानवं तप्तलोहशयनज्वलत्सूर्म्यालिङ्गनयोर् अन्यतरं द्रष्टव्यम् । यत् तु शङ्खेन द्वादशवार्षिकम् उक्तम्,

"अधःशायी जटाधारी पर्णमूलफलाशनः ।
एककालं समश्नीत वर्षे तु द्वादशे गते ॥
रुक्मस्तेयी सुरापश् च ब्रह्महा गुरुतल्पगः ।
व्रतेनैतेन शुध्यन्ति महापातकिनस् त्व् इमे ॥" इति

तत् समवर्णोत्तमवर्णपितृदारगमने अकामकृते वा द्रष्टव्यम् । तत्रैव कामतः प्रवृत्तस्य रेतःसेकाद् अर्वाङ् निवृत्तौ षड्वार्षिकम् । अकामतस् तु त्रैवार्षिकम्, जनन्यां तु कामतः प्रवृत्तस्य रेतःसेकात् प्राङ् निवृत्तौ द्वादशवार्षिकम्, अकामतस् तु षड्वार्षिकम्, इति कल्प्यम् । यत् तु संवर्तेन,

"पितृदारान् समारुह्य मातृवर्ज्यं नराधमः ।"

इत्यादिना समारोहणमात्रे तप्तकृच्छ्र उक्तः, स हीनवर्णगुरुदारेषु रेतःसेकाद् अर्वाग् द्रष्टव्यः ॥ ३.२५९ ॥

प्रायश्चित्तान्तरम् आह ।

प्राजापत्यं चरेत् कृच्छ्रं समा वा गुरुतल्पगः ।
चान्द्रायणं वा त्रीन् मासान् अभ्यसेद् वेदसंहिताम् ॥ या०ध०३.२६०

अथ वा प्राजापत्यं कृच्छ्रं वक्ष्यमाणलक्षणं समाः वर्षत्रयं चरेत् । एतच् च ब्राह्मणीपुत्रस्य शूद्रजातीयगुरुभार्यागमने मतिपूर्वे द्रष्टव्यम् । यदा तु गुरुपत्नीं सवर्णां व्यभिचारिणीम् अबुद्धिपूर्वं गच्छति, तदा वेदजपसहितं चान्द्रायणत्रयं कुर्यात् । तत्रैव कामतः प्रवृत्ताव् औशनसं : "गुरुतल्पाभिगामी संवत्सरं ब्रह्महव्रतं षण्मासान् वा तप्तकृच्छ्रं चरेत्" इति । क्षत्रियागमने तु मतिपूर्वे याज्ञवल्क्यीयं,

मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा । (या०ध० ३.२३२)

इति गुरुतल्पव्रतातिदेशान् नववार्षिकम् । इदं चातिदेशिकं सवर्णगुरुभार्यागमनविषयं न भवति, तत्र कामतो मरणान्तिकस्याकामतो द्वादशवार्षिकस्य विहितत्वात् । अतः क्षत्रियादिविषयम् एवेति युक्तम् । तत्रैव कामतोऽभ्यासे मरणान्तिकम्,

"मत्या गत्वा पुनर् भार्यां गुरोः क्षत्रसुतां द्विजः ।
अण्डाभ्यां रहितं लिङ्गम् उत्कृत्य स ंृतः शुचिः ॥"

इति कण्वस्मरणात् । अत्रैव विषये प्रायश्चित्तं यदा न चिकीर्षति, तदा

छित्त्वा लिङ्गं वधस् तस्य सकामायाः स्त्रियास् तथा । (या०ध० ३.२३३)

इति याज्ञवल्क्यीयो वधदण्डः प्रायश्चित्तस्थाने द्रष्टव्यः । वैश्यायां तु गुरुभार्यायां कामतो गमने षड्वार्षिकम् । अत एव स्मृत्यन्तरम् "ब्राह्मणीपुत्रस्य क्षत्रियायां मातरि गमने पादहान्या द्वादशवार्षिकम् । एवम् अन्यवर्णास्व् अपि" । अयम् अर्थः । ब्राह्मणीपुत्रस्य क्षत्रियायां मातुः सपत्न्यां गमने पादन्यूनं द्वादशवार्षिकं यावत्, तस्यैव तथाभूतायां वैश्यायां षड्वार्षिकम्, शूद्रायां तु त्रैवार्षिकं प्रायश्चित्तम् इति । एवं क्षत्रियापुत्रस्य वैश्यायां मातरि नववार्षिकम्, शूद्रायां तु षड्वार्षिकम् । एवम् एव वैश्यापुत्रस्यापीति । वैश्यायां तु कामतोऽभ्यासे मरणान्तिकम् एव,

"गुरोर् भार्यां तु यो वैश्यां मत्या गच्छेत् पुनः पुनः ।
लिङ्गाग्रं छेदयित्वा तु ततः शुध्येत् स किल्बिषात् ॥"

इति लौगाक्षिस्मरणात् । शूद्रायां तु कामतोऽभ्यासे द्वादशवार्षिकम्,

"पुनः शूद्रां गुरोर् गत्वा बुद्ध्या विप्रः समाहितः ।
ब्रह्मचर्यम् अदुष्टात्मा संचरेद् द्वादशाब्दिकम् ॥"

इत्य् उपमन्युस्मरणात् । क्षत्रियायां तु गुरुभार्यायाम् अबुद्धिपूर्वगमने यमोक्तं त्रैवार्षिकम् अष्टमकालाशनं द्रष्टव्यम् :

"कालेऽष्टमे वा भुञ्जानो ब्रह्मचारी सदा व्रती ।
स्थानासनाभ्यां विहरंस् त्रिर् अह्नोऽभ्युपयन्न् अपः ।
अधःशायी त्रिभिर् वर्षैस् तद् अपोहेत पातकम् ॥" इति ।

अत्रैवाभ्यासे जातूकर्ण्योक्तम् :

"गुरोः क्षत्रसुतां भार्यां पुनर् गत्वा त्व् अकामतः ।
अण्डमात्रं समुत्कृत्य शुध्येज् जीवन् मृतोऽपि वा ॥" इति ।

वैश्यायां त्व् अकामतो गमने "प्राजापत्यं चरेत् कृच्छ्रम्" (या०ध० ३.२६०) इत्य् एतद् एव याज्ञवल्क्यीयम् । तथा च वृद्धमनुः ।

"गमने गुरुभार्यायाः पितृभार्यागमे तथा ।
अब्दत्रयम् अकामात् तु कृच्छ्रं नित्यं समाचरेत् ॥" इति ।

तत्रैवाभ्यासे हारीतोक्तं मरणान्तिकं ब्रह्मचर्यम् ।

"अभ्यस्य विप्रो वैश्यायां गुरोर् अज्ञानमोहितः ।
षडङ्गं ब्रह्मचर्यं च स चरेद् यावद् आयुषम् ॥" इति ।

गुरुभार्यायां शूद्रायां त्व् अमतिपूर्वे मानवम् ।

"खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने ।
प्राजापत्यं चरेत् कृच्छ्रम् अब्दम् एकं समाहितः ॥" इति । (मा०ध० ११.१०६)

अथ वा "गुरुदाराभिगामी संवत्सरं कण्टकिनीं शाखां परिष्वज्याधःशायी त्रिषवणी भैक्षाहार्ः पूतो भवति" इति सुमन्तूक्तं कुर्यात् । तत्रैवाभ्यासे मानवम् ।

"चान्द्रायणं वा त्रीन् मासान् अभ्यस्येन् नियतेन्द्रियः ।" इति । (मा०ध० ११.१०७)

क्षत्रियायां कामतः प्रवृत्तस्य रेतःसेकाद् अर्वाङ् निवृत्तौ व्याघ्रोक्तम् ।

"कृच्छ्रं चैवातिकृच्छ्रं च तथा कृच्छ्रातिकृच्छ्रकम् ।
चरेन् मासत्रयं विप्रः क्षत्रियागमने गुरोः ॥" इति ।

अत्रेयं व्यवस्था । तया प्रोत्साहितस्य त्रैमासिकं प्राजापत्यचरणम् । उभयेच्छातः प्रवृत्तस्यातिकृच्छ्रचरणं तावद् एव । स्वेन प्रोत्साहितायां पुनः कृच्छ्रातिकृच्छ्रानुष्ठानं च तावद् एवेति । तत्रैव कामतः प्रवृत्तस्य रेतःसेकात् पूर्वं कण्वोक्तं द्रष्टव्यम् ।

"चान्द्रायणं तप्तकृच्छ्रम् अतिकृच्छ्रं तथैव च ।
सकृद् गत्वा गुरोर्भार्याम् अज्ञानात् क्षत्रियां द्विजः ॥" इति ।

तया प्रोत्साहितस्यातिकृच्छ्रः । उभयेच्छातः प्रवृत्तस्य तप्तकृच्छ्रः । स्वेन प्रोत्साहितायां तु चान्द्रायाणम् । वैश्यायां कामतः प्रवृत्तस्य रेतःसेकात् पूर्वं निवृत्तौ कण्वोक्तम् ।

"तप्तकृच्छ्रं पराकं च तथा सान्तपनं गुरोः ।
भार्यां वैश्यां सकृद् गत्वा बुद्ध्या मासं चरेद् द्विजः ॥" इति

अत्रोभयोर् इच्छातः प्रवृत्तौ तप्तकृच्छ्रः । स्वेन प्रोत्साहितायां पराकः । तया प्रोत्साहितस्य सान्तपनम् । तत्रैवाकामतः प्रवृत्तस्य प्रजापतिर् आह ।

"पञ्चरात्रं तु नाश्नीयात् सप्ताष्टौ वा तथैव च ।
वैश्यां भार्यां गुरोर् गत्वा सकृद् अज्ञानतो द्विजः ॥" इति ।

तया प्रोत्साहितस्य तु पञ्चरात्रम् । उभयेच्छातः प्रवृत्तौ सप्तरात्रम् । स्वेन प्रोत्साहितायाम् अष्टरात्रम् । शूद्रायां तु कामतः प्रवृत्तस्य रेतःसेकात् पूर्वं निवृत्तौ जाबालिर् आह ।

"अतिकृच्छ्रं तप्तकृच्छ्रं पराकं वा तथैव च ।
गुरोः शूद्रां सकृद् गत्वा बुद्द्या विप्रः समाचरेत् ॥" इति ।

तया प्रोत्साहितस्यातिकृच्छ्रः । उभयेच्छातः प्रवृत्तौ तप्तकृच्छ्रः । स्वेन प्रोत्साहितायां पराकः । तत्रैवाकामतः प्रवृत्तस्य दैर्घतमसम् ।

"प्राजापत्यं सान्तपनं सप्तरात्रोपवासकम् ।
गुरोः शूद्रां सकृद् गत्वा चरेद् विप्रः समाहितः ॥" इति ।

तया प्रोत्साहितस्य प्राजापत्यम् । उभयेच्छातः प्रवृत्तौ सान्तपनम् । स्वेन प्रोत्साहितायां सप्तरात्रोपवास इति । अनयैव दिशान्येषाम् अपि स्मृतिवचसां विषयव्यवस्थोहनीया । पुरुषवच् च स्त्रीणाम् अप्य् अत्र महापातकित्वम् अविशिष्टम् । तथाहि कात्यायनः ।

"एवं दोषश् च शुद्धिश् च पतितानाम् उदाहृता ।
स्त्रीणाम् अपि प्रसक्तानाम् एष एव विधिः स्मृतः ॥" इति ।

सतस् तस्या अपि कामतः प्रवृत्तौ मरणान्तिकम् अविशिष्टम् । अत एव पुरुषस्य मरणान्तिकम् उक्त्वा स्त्रिया अपि योगीश्वरेण मरणान्तिकं दर्शितम् ।

छित्त्वा लिङ्गं वधस् तस्य सकामायाः स्त्रियास् तथा । इति । (या०ध० ३.२३३)

अकामतस् तु मनुनोक्तम् ।

"एतद् एव व्रतं कार्यं योषित्सु पतितास्व् अपि ।" इति । (मा०ध० ११.१८९)

द्वादशवार्षिकम् एवार्धकल्पनया कार्यम् । यानि पुनर् गुरुतल्पसमानि,

सखिभार्याकुमारीषु स्वयोनिष्व् अन्त्यजासु च ।

सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥ (या०ध० ३.२३१)

इति प्रतिपादितानि, यानि चातिदेशविषयभूतानि

पितुः स्वसारं मातुश् च मातुलानीं स्नुषाम् अपि ।

मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा ॥

आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः ॥ (या०ध० २३२–३३)

इति प्रतिपादितानि, तेष्व् एकरात्राद् ऊर्ध्वम् अकामतोऽभ्यस्तेषु यथाक्रमेण षड्वार्षिकं नववार्षिकं च प्रायश्चित्तं विज्ञेयम् । अस्मिन्न् एव विषये कामतोऽत्यन्ताभ्यासे मरणान्तिकम् । तथा च बृहद्यमः ।

"रेतः सिक्त्वा कुमारीषु स्वयोनिष्व् अन्त्यजासु च ।
सपिण्डापत्यदारेषु प्राणत्यागो विधीयते ॥" इति ।

अन्त्यजाश् चात्र,

"चण्डालः श्वपचः क्षत्ता सूतो वैदेहिकस् तथा ।
मागधायोगवौ चैव सप्तैतेऽन्त्यावसायिनः ॥"

इति मध्यमाङ्गिरोदर्शिता ज्ञातव्याः । न तु "रजकश् चर्मकारश् च" इत्यादिप्रतिपादिताः, तेषु लघुप्रायश्चित्तस्योक्तत्वात् ॥ तथा,

"चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्य् अज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥" (मा०ध० ११.१७६)

इति चाण्डालादिसाम्यं प्रतिपादयता मनुनापि कामतोऽत्यन्ताभ्यासे मरणान्तिकं दर्शितम् । तथा ह्य् अज्ञानतश् चण्डालीगमनाभ्यासे पतत्य् अतः पतितप्रायश्चित्तं द्वादशवार्षिकं कुर्यात् । कामतोऽत्यन्ताभ्यासे चण्डालैः साम्यं गच्छति । अतो द्वादशवार्षिकाधिकं मरणान्तिकं कुर्यात् । एतच् च बहुकालाभ्यासविषयम् । एकरात्राभ्यासे तु वर्षत्रयम् । यथाह मनुः ।

"यत् करोत्य् एकरात्रेण वृषलीसेवनाद् द्विजः ।
तद् भैक्षभुज् जपन् नित्यं त्रिभिर् वर्षैर् व्यपोहति ॥" इति । (मा०ध० ११.१७९)

अत्र वृषलीशब्देन चण्डाल्यभिधीयते,

"चण्डाली बन्धकी वेश्या रजःस्था या च कन्यका ।
ऊढा या च सगोत्रा स्याद् वृषल्यः पञ्च कीर्तिताः ॥"

इति स्मृत्यन्तरे चण्डाल्यां वृषलीशब्दप्रयोगदर्शनात् । बन्धकी स्वैरिणी ।

कथं पुनर् अत्राभ्यासावगमः ।

उच्यते । "यत् करोत्य् एकरात्रेण" (मा०ध० ११.१७९) इत्य् अत्यन्तसंयोगापवर्गवाचिन्या स्मृतीयाया दर्शनात् । एकरात्रेण चात्यन्तसंयोगो गमनस्याभ्यासं विनानुपपन्न इति गमनाभ्यासोऽवगम्यते । अत एवैकरात्राद् बहुकालाभ्यासविषयं प्रागुक्तं द्वादशवर्षादिगुरुतल्पव्रतातिदेशिकं मरणान्तिकं च । यदा पुनर् ज्ञानतोऽज्ञानतो वा चण्डाल्याद्याः सकृद् गच्छति तदा,

"चण्डालपुल्कसानां तु भुक्त्वा गत्वा च योषितम् ।
कृच्छ्राब्दम् आचरेज् ज्ञानाद् अज्ञानाद् ऐन्दवद्वयम् ॥"

इति यमाद्युक्तं संवत्सरं कृच्छ्रानुष्ठानं चान्द्रायणद्वयं यथाक्रमेण द्रष्टव्यम् । "स्वयोनिष्व् अन्त्यजासु च" इत्य् एकवाक्यसमभिव्याहाराद् भगिन्यादिष्व् अपीयम् एव व्यवस्था वेदितव्या । मरणान्तिकं चात्राग्निप्रवेशनम्,

"जनन्यां च भगिन्यां च स्वसुतायां तथैव च ।
स्नुषायां गमनं चैव विज्ञेयम् अतिपातकम् ॥
अतिपातकिनस् त्व् एते प्रविशेयुर् हुताशनम् ॥" इति कात्यायनस्मरणात् । जनन्यां सकृद् गमने भगिन्यादिषु चासकृद् गमने अग्निप्रवेश इति द्रष्टव्यम्, महापातकस्य जननीगमनस्य तदतिदेशविषयभूतातिपातकस्य भगिन्यादिगमनस्य च तुल्यत्वायोगात् । यत् तु बृहद्यमेनोक्तम्,

"चाण्डालीं पुल्कसीं म्लेच्छीं स्नुषां च भगिनीं सखीम् ।
मातापित्रोः स्वसारं च निक्षिप्तां शरणागताम् ॥
मातुलानीं प्रव्रजितां स्वगोत्रां नृपयोषितम् ।
शिष्यभार्यां गुरोर् भार्यां गत्वा चान्द्रायणं चरेत् ॥"

इति, यच् चाङ्गिरोवचनम्,

"पतितान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
मासोपवासं कुर्वीत चान्द्रायणम् अथापि वा ॥"

इति, तद् उभयम् अपि गुरुतल्पातिदेशविषयेषु कामतः प्रवृत्तस्य रेतःसेकाद् अर्वाङ् निवृत्तौ द्रष्टव्यम् । यद् अपि संवर्तवचनम्,

"भगिनीं मातुर् आप्तां च स्वसारं चान्यमातृजाम् ।
एता गत्वा स्त्रियो मोहात् तप्तकृच्छ्रं समाचरेत् ॥"

इति तद् अनन्तरोक्त एव विषये अकामतः प्रवृत्तस्य रेतःसेकाद् अर्वाङ् निवृत्तौ द्रष्टव्यम् । यदा पुनर् एता एवात्यन्तव्यभिचारिणीर् गच्छति तदापीदम् एव प्रायश्चित्तयुगलं चान्द्रायणतप्तकृच्छ्रात्मकं क्रमेण कामतोऽकामतश् च प्रवृत्तौ द्रष्टव्यम् । साधारणस्त्रीषु तु गुरुणोपभुक्तास्व् अपि गमने गुरुतल्पत्वदोषो नास्ति,

"जात्युक्तं पारदार्यं च कन्यादूषणम् एव च ।
साधारणस्त्रियां नास्ति गुरुतल्पत्वम् एव च ॥"

इति व्याघ्रस्मरणात् । एवम् अन्यान्य् अपि स्मृतिवचनान्य् उच्चावचप्रायश्चित्तप्रतिपत्तिपराण्य् अन्विष्य विषयव्यवस्थोहनीया, ग्रन्थगौरवभयान् न लिख्यन्ते ॥ ३.२६० ॥

इति गुरुतल्पप्रायश्चित्तप्रकरणम्

एवं ब्रह्महादिमहापातकिप्रायश्चित्तान्य् अभिधायावसरप्राप्तं तत्संसर्गिप्रायश्चित्तम् आह ।

एभिस् तु संवसेद् यो वै वत्सरं सोऽपि तत्समः । या०ध०३.२६१अब्

एभिः पूर्वोक्तैर् ब्रह्महादिभिर् एकं संवत्सरं योऽत्यन्तं संवसति सहाचरति सोऽपि तत्समः । यो येन सहाचरति स तदीयम् एव प्रायश्चित्तं कुर्याद् इति तदीयप्रायश्चित्तातिदेशार्थं तत्समग्रहणम्, न पुनः पातकित्वातिदेशार्थम्, तस्य "यश् च तैः सह संवसेत्" (या०ध० ३.२२३) इत्य् उपदेशत एव सिद्धत्वात् । अत्र च सत्य् अप्य् अतिदेशत्वे कृत्नम् एव द्वादशवार्षिकं कार्यं, साक्षान् महापातकित्वात् संसर्गिणः । अपिशब्दान् न केवलं महापातकिसंयोगी तत्समः किं त्व् अतिपातकीपातक्युपपातक्यादीनां मध्ये यो येन सह संसर्गं करोति सोऽपि तत्सम इति तदीयम् एव प्रायश्चित्तं कुर्याद् इति दर्शयति । अत एव मनुना सकलं प्रायश्चित्तजातम् अभिधायाभिहितम् ।

"यो येन पतितेनैषां संसर्गं याति मानवः ।
स तस्यैव व्रतं कुर्यात् तत्संसर्गविशुद्धये ।"। इति । (मा०ध० ११.१८२)

विष्णुनापि सामान्येनोपपातक्याद् एनस्विमात्रसंषर्गे तत्प्रायश्चित्तभाक्त्वं दर्शितम् : "पापात्मना येन सह यः संसृज्यते स तस्यैव व्रतं कुर्यात्" (वि०ध० ५४.१) इति । अत एव मनुना सामान्येनैनस्विमात्रप्रतिषेधः कृतः ।

"एनस्विभिर् अनिर्णिक्तैर् नार्थं कंचित् समाचरेत् ।" इति । (मा०ध० ११.१९०)

तथा,

"न संसर्गं भजेत् सद्भिः प्रायश्चित्ते कृते सति ।" (मा०ध० ११.४७)

इति च । एतच् च द्वादशवार्षिकादिपतितप्रायश्चित्तं बुद्धिपूर्वसंसर्गविषयम्,

"पतितेन सहोषित्वा जानन् संवत्सरं नरः ।
मिश्रितस् तेन सोऽब्दान्ते स्वयं च पतितो भवेत् ॥"

इति देवलस्मरणात् । अज्ञानतः संसर्गे पुनर् वसिष्ठोक्तम् : "पतितसंप्रयोगे तु ब्राह्मेन वा यौनेन वा स्रौवेण वा यास् तेभ्यः सकाशान् मात्रा उपलब्धास् तासां परित्यागतस् तैश् च न संवसेद् उदीचीं दिशं गत्वानश्नन् संहिताध्ययनम् अधीयानः पूतो भवतीति विज्ञायते" (व०ध० १.४५–४६) इति । तथा,

"ब्रह्महा मद्यपः स्तेनस् तथैव गुरुतल्पगः ।
एते महापातकिनो यश् च तैः सह संवसेत् ॥" इति ।

तैर् इति तृतीयया सर्वनामपरामृष्टप्रकृतब्रह्महादिचतुष्टयसंसर्गिण एव महापातकित्ववचनात् तत्संसर्गिणो न महापातकित्वम् ।

ननु महापातकिसंसर्ग एव महापातकित्वे हेतुर् न ब्रह्महादिविशेषसंसर्गः, तस्य व्यभिचारात् । अतोऽत्र ब्रह्महादिसंसर्गिसंसर्गिणोऽपि महापातकिसंषर्गो विद्यत इति तस्यापि महापातकित्वं स्यान् न च प्रतिषेधः ।

उच्यते । स्याद् एवं यदि प्रमाणान्तरगम्यं महापातकित्वं स्यात् । शब्दैकसमधिगम्ये तु तस्मिन्न् एव भवितुम् अर्हतीति, तैर् इति प्रकृतविशेषपरामर्शिना सर्वनाम्ना ब्रह्महादिविशेषसंसर्गस्यैव महापातकित्वहेतुत्वस्यावगमितत्वात् । एवं च सति प्रतिषेधाभावोऽप्य् अहेतुः प्राप्त्यभावाद् एव । अतः संषर्गिसंसर्गिणां द्विजातिकर्मभ्यो हानिर् न भवति, प्रायश्चित्तं तु भवत्य् एव । न च संसर्गिसंसर्गिणः पातित्याभावे कथं प्रायश्चित्तम् इति वाच्यम्,

"एनस्विभिर् अनिर्णिक्तैर् नार्थं कंचित् समाचरेत् ।" (मा०ध० ११.१९०)

इति सामान्येनैनस्विमात्रसंसर्गप्रतिषेधेन महापातकिसंसर्गिसंसर्गस्यापि प्रतिषिद्धत्वात्, पातित्याभावेऽपि युक्तम् एव प्रायश्चित्तम् । तच् च पादहीनम् ।

"यो येन संवसेद् वर्षं सोऽपि तत्समताम् इयात् ।
पादहीनं चरेत्सोऽपि तस्य तस्य व्रतं द्विजः ॥"

इति व्यासोक्तं द्रष्टव्यम् । एवं चतुर्थपञ्चमयोर् अपि कामतः संसर्गिणोर् अर्धहीनं त्रिपादोनं च द्रष्टव्यम् । अतः साक्षाद् ब्रह्महादिसंसर्गिण एव तदीयप्रायश्चित्ताधिकारो न संसर्गिसंसर्गिण इति सिद्धम् । अत्र च ब्रह्महादिषु यद्य् अपि कामतो मरणान्तिकम् उपदिष्टं तथापि संषर्गिणस् तन् नातिदिश्यते, "स तस्यैव व्रतं कुर्यात्" इति व्रतस्यैवातिदेशात्, मरणस्य च व्रतशब्दवाच्यत्वाभावात् । अतोऽत्र कामकृतेऽपि संसर्गे द्वादशवार्षिकम् अकामतस् तु तद् अर्धम् । संसर्गश् च स्वनिबन्धनकर्मभेदाद् अनेकधाभिद्यते । यथाह वृद्धबृहस्पतिः ।

"एकशय्यासनं पङ्क्तिर् भाण्डपङ्क्त्यन्नमिश्रणम् ।
याजनाध्यापने योनिस् तथा च सहभोजनम् ॥
नवधा संकरः प्रोक्तो न कर्तव्योऽधमैः सह ॥" इति ।

देवलोऽपि ।

"संलापस्पर्शनिःश्वाससहयानासनाशनात् ।
याजनाध्यापनाद् यौनात् पापं संक्रमते नृणाम् ॥" इति ।

एकशय्यासनम् एकखट्वाशयनम् एकपङ्क्तिभोजनम् एकभाण्डपचनम् अन्नेन मिश्रणं संसर्गस् तदीयान्नभोजनम् इति यावत् । याजनं पतितस्य स्वस्य वा तेन । अध्यापनं तस्य स्वस्य वा तेन । यौनं तस्मै कन्यादानं तत्सकाशाद् वा कन्यायाः प्रतिग्रहः । सहभोजनम् एकामत्रभोजनम् । संलापः संभाषणम् । स्पर्शो गात्रसंमर्दः । निःश्वासः पतितमुखवायुसंपर्कः । सहयानम् एकतुरगाद्यारोहणम् । एतेषां मध्ये केन कर्मणा कियता कालेन पातित्यम् इत्य् अपेक्षायां बृहद्विष्णुनोक्तम् : "संवत्सरेण पतति पतितेन सहाचरन्न् एकयानभोजनासनशयनैः यौनस्रौवमुख्यैस् तु संबन्धैः सद्य एव" इति । अत्रैकभोजनम् एकपङ्क्तिभोजनम् । एकामत्रभोजने तु सद्यःपातित्यम् । याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम्,

"याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम् ।
कृत्वा सद्यः पतत्य् एव पतितेन न संशयः ।"

इति देवलस्मरणात् । स्रौवशब्देन याजनम् अभिधीयते । मुख्यशब्देन मुखभवत्वेनाध्यापनम् । यौनस्रौवमुख्यैर् इति सत्य् अपि द्वन्द्वनिर्देशे प्रत्येकम् एव तेषां सद्यः पतनहेतुत्वम्, "यः पतितैः सह यौनमुख्यस्रौवानां संबन्धानाम् अन्यतमं संबन्धं कुर्यात् तस्याप्य् एतद् एव प्रायश्चित्तम्" इति सुमन्तुस्मरणात् । एकयानादिचतुष्टयस्य तु समुदितस्यैव पतनहेतुत्वम्, "एकयानभोजनासनशयनैः" इति इतरेतरयुक्तानां निर्देशात् । प्रत्येकानुष्ठानस्य तु पतनहेतुत्वाभावेऽपि दोषहेतुत्वम् अस्त्य् एव,

"आसनाच् छयनाद् यानात् संभाषात् सहभोजनात् ।
संक्रामन्ति हि पापानि तैलबिन्दुर् इवाम्भसि ॥"

इति पराशारवचनेन निरपेक्षाणाम् अपि पापहेतुत्वावगमात् । संलापस्पर्शनिःश्वासानां तु यानादिचतुष्टयेनानुषङ्गिकतया समुच्चितानाम् एव पतनहेतुत्वं न पृथग्भूतानाम्, अल्पत्वात् । पापहेतुत्वं पुनर् अस्त्य् एव, "संलापस्पर्शनिःश्वास" इति देवलवचनस्य दर्शितत्वात् । अतः संलापादिरहिते सहयानादिचतुष्टये कृते पञ्चमभागोनं द्वादशवार्षिकं प्रायश्चित्तं कुर्यात् । तत्सहिते तु पूर्णम् । एवं च सति "एभिस् तु संवसेद् यो वै वत्सरं सोऽपि तत्समः" इति योगीश्वरवचनम् अपि सहयानादिचतुष्टयपरम् एव युक्तम् । यतः संलापादीनां पृथक्पातित्यहेतुत्वं नास्ति । अत एव मनुना,

"संवत्सरेण पतति पतितेन सहाचरन् ।
याजनाध्यापनाद् यौनान् न तु यानासनाशनात् ॥" (मा०ध० ११.१८१)

इति यानादिचतुष्टयस्यैव संवत्सरेण पातित्यहेतुत्वम् उक्तम् । अत्रासनग्रहणं शयनस्याप्य् उपलक्षणम्, अत्र च "संवत्सरेण पतति पतितेन सहाचरन्" (व०ध० १.२२) "यानाशनासनात्" (व०ध० १.२२) इति व्यवहितेन संबन्धः, प्राग्दर्शितविष्णुवचनानुरोधात्, तथा,

"संवत्सरेण पतति पतितेन सहाचरन् ।
भोजनासनशय्यादि कुर्वाणः सार्वकालिकम् ॥"

इति देवलवचनाच् च । न चानन्वयदोषः, यानासनाशनादिहेतोर् आचरन्न् आचारं कुर्वन्न् इति भेदविवक्षया संबन्धोपपत्तेः । यथा एतया पुनराधेयसंमितयेष्ट्येष्ट्वेति । यद् वा आचरन्न् इति शत्रा हेत्वर्थस्य गमितत्वात् । यानाशनासनाद् इति द्वितीयार्थे पञ्चमी । याजनाध्यापनाद् यौना(त् सहभोजना)न् न तु संवस्तरेण पतति, किं तु सद्य एव प्राचीनवचननिचयानुरोधाद् एव । अतो यौनादिचतुष्टयेन सद्यः पतति, यानादिचतुष्टयेन तु संवत्सरं निरन्तराभ्यासेनेति युक्तं "वत्सरं सोऽपि तत्समः" इत्य् अत्यन्तसंयोगवाचिन्या द्वितीयया दर्शनाद् अन्तरितदिवसगणना कार्या । यथा षष्ट्यधिकशतत्रयदिवसव्यापित्वं संसर्गस्य भवति ततो न्यूने तु न पतितप्रायश्चित्तं किं त्व् अन्यद् एव । यथाह पराशरः ।

"संसर्गम् आचरन् विप्रः पतितादिष्व् अकामतः ।
पञ्चाहं वा दशाहं वा द्वादशाहम् अथापि वा ।
मासार्धं मासम् एकं वा मासत्रयम् अथापि वा ।
अब्दार्धम् एकम् अब्दं वा भवेद् ऊर्ध्वं तु तत्समः ॥
त्रिरात्रं प्रथमे पक्षे द्वितीये कृच्छ्रम् आचरन् ।
चरेत् सान्तपनं कृच्छ्रं तृतीये पक्ष एव तु ।
चतुर्थे दशरात्रं स्यात् पराकः पञ्चमे ततः ।
षष्ठे चान्द्रायणं कुर्यात् सप्तमे त्व् ऐन्दवद्वयम् ॥
अष्टमे च तथा पक्षे षण्मासान् कृच्छ्रम् आचरेत् ॥" इति ।

कामतः संसर्गे पुनर् विशेषः स्मृत्यन्तरेऽभिहितः । सुमन्तुः :

"पञ्चाहे तु चरेत् कृच्छ्रं दशाहे तप्तकृच्छ्रकम् ।
पराकस् त्व् अर्धमासे स्यान् मासे चान्द्रायणं चरेत् ॥" इति ।

"मासत्रये प्रकुर्वीत कृच्छ्रं चान्द्रायणोत्तरम् ।
षाण्मासिके तु संसर्गे कृच्छ्रं त्व् अब्दार्धम् आचरेत् ॥
संसर्गे त्व् आब्दिके कुर्याद् अब्दं चान्द्रायणं नरः ॥" इति ।

अत्र चाब्दिके संसर्गे इति किंचिन् न्यून इति द्रष्टव्यम्, पूर्णे तु वत्सरे मन्वादिभिर् द्वादशवार्षिकस्मरणात् । यत् तु बार्हस्पत्यं वचनम्,

"षाण्मासिके तु संसर्गे याजनाध्यापनादिना ।
एकत्रासनशय्याभिः प्रायश्चित्तार्धम् आचरेत् ॥" इति ।

याजनाध्यापनयानैकपात्रभोजनानां षण्मासात् पातित्यवचनम् एतद् अकामतोऽत्यन्तापदि पञ्चमहायज्ञादिप्राये याजनेऽङ्गाध्यापने दुहितृभगिनीव्यतिरिक्ते च योनिसंबन्धे द्रष्टव्यम्, प्रकृष्टयाजनादिभिः सद्यः पातित्यस्योक्तत्वात् । एतद् दिगवलम्बनेनैव दुहितृभगिनीस्नुषागाम्यतिपातकिसंसर्गिणां कामतो नववार्षिकम् अकामतः सार्धचतुर्वार्षिकं कल्पनीयम् । सखिपितृव्यदारादिगामिपातकिसंसर्गिणां कामतः षड्वार्षिकम् अकामतस् त्रैवार्षिकम् । अथोपपातक्यादिसंसर्गिणाम् अपि कामतस् तदीयम् एव त्रैमासिकम् अकामतोऽर्धम् इत्य् ऊहनीयम् । पुरुषवत् स्त्रिणाम् अपि महापातक्यादिसंसर्गात् पातित्यम् अविशिष्टम् । यथाह शौनकः : "पुरुषस्य यानि पतननिमित्तानि स्त्रीणाम् अपि तान्य् एव । ब्राह्मणी हीनवर्णसेवायाम् अधिकं पतति" इति । अतस् तासाम् अपि महापातकिप्रभृतीनां मध्ये येन सह संसर्गस् तदीयम् एव प्रायश्चित्तम् अर्धकृत्या योजनीयम् । एवं बालवृद्धातुराणाम् अपि कामतोऽर्धम् अकामतः पादः । तथानुपनीतस्यापि बालस्य कामतः पादोऽकामतस् तदर्धम् इत्य् एषा दिक् ॥

पतितसंसर्गप्रतिषेधेन प्रतिषिद्धस्य यौनसंबन्धस्य क्वचित् प्रतिप्रसवम् आह ।

कन्यां समुद्वहेद् एषां सोपवासाम् अकिंचनाम् ॥ या०ध०३.२६१च्द्

एषां पतितानां कन्यां पतितावस्थायाम् उत्पन्नां सोपवासां कृतसंसर्गकालोचितप्रायश्चित्ताम् अकिंचनाम् अगृहीतवस्त्रालंकारादिपितृधनाम् उद्वहेत् । "कन्यां समुद्वहेद्" इति वदन् स्वयम् एव कन्यां त्यक्तपतितसंसर्गां समुद्वहेन् न पुनः पतितहस्तात् प्रतिगृह्णीयाद् इति दर्शयति । एवं च सति पतितयौनसंसर्गप्रतिषेधविरोधोऽपि परिहृतो भवति । अयं चार्थो बृहद्धारीतेन स्पष्टीकृतः : "पतितस्य तु कुमारीं विवस्त्राम् अहोरात्रोपोषितां प्रातः शुक्लेनाहतेन वाससाच्छादितांऽनाहम् एतेषां न ममैतेऽ इति त्रिर् उच्चैर् अभिदधानां तीर्थे स्वगृहे वोद्वहेत्" इति । तथा "एषां कन्यां समुद्वहेद्" इति वचनात्, स्त्रीव्यतिरिक्ततदीयापत्यस्य संसार्गानर्हतां दर्शयति । अत एव वसिष्ठ । "पतितेनोत्पन्नः पतितो भवत्य् अन्यत्र स्त्रियाः, सा हि परगामिनी ताम् अरिक्थाम् उद्वहेत्" (व०ध० १३.५१–५३) इति ॥ ३.२६१ ॥

इति संसर्गप्रायश्चित्तप्रकरणम्

निषिद्धसंसर्गप्रसङ्गान् निषिद्धसंसर्गोत्पन्नप्रतिलोमवधे प्रायश्चित्तम् आह ।

चान्द्रायणं चरेत् सर्वान् अवकृष्टान् निहत्य तु । या०ध०३.२६२अब्

अवकृष्टाः सूतमागधादयः प्रतिलोमोत्पन्नास् तेषां प्रत्येकं हनने चान्द्रायणम् । तथा च शङ्खः : "सर्वेषाम् अवकृष्टानां वधे प्रत्येकं चान्द्रायणम्" इति । यद् वाङ्गिरसोक्तम्,

"सर्वान्त्यजानां गमने भोजने संप्रमापणे ।
पराकेण विशुद्धिः स्याद् इत्य् आङ्गिरसभाषितम् ॥"

इति पराकं कुर्यात् । तत्र कामतः सूतादिवधे चान्द्रायणम् । अकामतस् तु सूतवधे पराकः । वैदेहकवधे पादोनम् । चण्डालवधे द्विपादः । मागधवधे पादोनः पराकः । क्षत्तरि द्विपादः । आयोगवे च पादद्वयम् । अनयैव दिशा चान्द्रायणस्यापि तारतम्यं कल्प्यम् । यत् तु ब्रह्मगर्भवचनम्,

"प्रतिलोमप्रसूतानां स्त्रीणां मासावधि स्मृतः ।
अन्तरप्रभवानां च सूतादीनां चतुर्द्विषट् ॥"

इति, तद् आवृत्तिविषयम् । तत्र सूतवधे षण्मासाः वैदेहकवधे चत्वारः चण्डालवधे द्वाव् इति योग्यतयान्वयः । तथा मागधवधे चत्वारः क्षत्तरि द्वैमासिकं अयोगवे च द्वैमासिकम् इति व्यवस्था ॥

नैमित्तिकव्रतानां जपादिसाध्यत्वाद् विद्याविरहिणां च शूद्रादीनां तदनुपपत्तेर् आज्यावेक्षणादिसाध्येष्व् इवान्धानाम् अनधिकारम् आशङ्क्याह ।

शूद्रोऽधिकारहीनोऽपि कालेनानेन शुध्यति ॥ या०ध०३.२६२च्द्

यद्य् अपि शूद्रो जपाद्यधिकारहीनस् तथाप्य् अनेन द्वादशवार्षिकादिकालसंपाद्येन व्रतेन शुध्यति । शूद्रग्रहणं स्त्रीणां प्रतिलोमजानां चोपलक्षणम् । यद्य् अपि तस्य गायत्र्यादिजपासंभवस् तथापि नमस्कारमन्त्रजपो भवति । अत एव स्मृत्यन्तरेऽभिहितम् : "उच्छिष्टं चास्य भोजनम् अनुज्ञातोऽस्य नमस्कारो मन्त्रः" इति । यद् वा वचनबलाज् जपादिरहितम् एव व्रतं कुर्यात्,

"तस्माच् छूद्रं समासाद्य सदा धर्मपथे स्थितम् ।
प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥"

इत्य् अङ्गिरःस्मरणात् । तथापरम् अपि तेनैवोक्तम् ।

"शूद्रः कालेन शुध्येत गोब्राह्मणहिते रतः ।
दानैर् वाप्य् उपवासैर् वा द्विजशुश्रूषया तथा ॥" इति ।

यत् तु मानवम्,

"न चास्योपदिशेद् धर्मं न चास्य व्रतम् आदिशेत् ।" (मा०ध० ४.८०)

इति शूद्रस्य व्रतोपदेशनिषेधपरं वचनं, तद् अनुपसन्नशूद्राभिप्रायम् । यद् अपि स्मृत्यन्तरवचनं,

"कृच्छ्राण्य् एतानि कार्याणि सदा वर्णत्रयेण तु ।
कृच्छ्रेष्व् एतेषु शूद्रस्य नाधिकारो विधीयते ॥"

इति, तत् काम्यकृच्छ्राभिप्रायम् । अतः स्त्रीशूद्रयोः प्रतिलोमजानां च त्रैवर्णिकवद् व्रताधिकार इति सिद्धम् । यत् तु गौतमवचनम् "प्रतिलोमा धर्महीनाः" (गौ०ध० ४.२५) इति, तद् उपनयनादिविशिष्टधर्माभिप्रायम् ॥ ३.२६२ ॥

इति पञ्चमहापातकप्रायश्चित्तप्रकरणम्

महापातकादिपञ्चकमध्ये महापातकातिपातकानुपातकप्रायश्चित्तान्य् उक्त्वा, अधुनोपपातकप्रायश्चित्तानि व्याचक्षाणः पाठक्रमप्राप्तं गोवधप्रायश्चित्तं तावद् आह ।

पञ्चगव्यं पिबेद् गोघ्नो मासम् आसीत संयतः ।
गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति ॥ या०ध०३.२६३

कृच्छ्रं चैवातिकृच्छ्रं च चरेद् वापि समाहितः ।
दद्यात् त्रिरात्रं चोपोष्य वृषभैकादशास् तु गाः ॥ या०ध०३.२६४

गां हन्तीति गोघ्नः । मूलविभुजादित्वात् कप्रत्ययः । असौ मासं समाहित आसीत । किं कुर्वन् । पञ्च च तानि गव्यानि गोमूत्रगोमयक्षीरदधिघृतानि यथाविधि मिश्रितानि पिबन् आहारान्तरपरित्यागेन, भोजनकार्ये तस्य विधानात् । तथा गोष्ठेशयः । प्राप्तशयनानुवादेन गोष्ठविधानाद् दिवा च स्वापप्रतिषेधाद् रात्रौ गोशालायां शयानः । गा अनुगच्छति तद् अस्य व्रतम् इति गोऽनुगामी । व्रते णिनिः । अतश् च यासां गोष्ठे शेते सन्निधानात् ता एव गाः प्रातर् वनं विचरन्तीर् अनुगच्छेत् । अनुगच्छेद् इति वचनाद् यदा ता गच्छन्ति तदैव स्वयम् अनुगच्छेत् । यदा तु तिष्ठन्त्य् आसते वा तदा पश्चाद्गमनस्याशक्यकरणत्वात् स्वयम् अपि तिष्ठेद् आसीत वेति गम्यते । अनुगमनविधानाद् एव ताभिः सायं गोष्ठं व्रजन्तीभिः सह गोष्ठप्रवेशोऽप्य् अर्थसिद्धः । एवं कुर्वन् मासान्ते गोप्रदानेन एकां गां दत्त्वा तावता शास्त्रार्थस्य संपत्तेर् गोहत्यायाः शुध्यतीत्य् एकं व्रतम् । मासं गोश्ठेशयो गोऽनुगामीत्य् अनुवर्तते । पञ्चगव्याहारस्य तु निवृत्तिः कृच्छ्रविधानाद् एव । अतश् च मासं निरन्तरं कृच्छ्रं समाहितश् चरेद् इत्य् अपरम् । अत एव जाबालेन मासप्राजापत्यस्य पृथक् प्रायश्चित्तत्वम् उक्तम् ।

"प्राजापत्यं चरेन् मासं गोहन्ता चेद् अकामतः ।
गोहितो गोऽनुगामी स्याद् गोप्रदानेन शुध्यति ॥" इति ।

अतिकृच्छ्रं वा तथैव समाचरेद् इत्य् अन्यत् । कृच्छ्रातिकृच्छ्रयोर् लक्षणम् उत्तरत्र वक्ष्यते । अथ वा त्रिरात्रम् उपवासं कृत्वा वृषभ एकादशो यासां गवां ता दद्याद् इति व्रतचतुष्टयम् । तत्राकामकृते जातिमात्रब्राह्मणस्वामिकगोमात्रवधे उपवासं कृत्वा व्र्षभैकादशगोदानसहितस् त्रिरात्रोपवासो द्रष्टव्यः, विशिष्टस्वामिकाया विषिष्टगुणवत्याश् च वधे गुरुप्रायश्चित्तस्य वक्ष्यमाणत्वात् । क्षत्रियसंबन्धिन्यास् तु तादृग्विधे व्यापादने मासं पञ्चगव्याशित्वं प्रथमं प्रायश्चित्तम् । अत्र मासपञ्चगव्याशनस्यातिस्वल्पत्वान् मासोपवासतुल्यत्वम् । ततश् च षड्भिः षड्भिर् उपवासैर् एकैकप्राजापत्यकल्पनया पञ्चकृच्छ्राणां प्रत्याम्नायेन पञ्च धेनवो मासान्ते च दीयमाना गौर् एकेति षट् धेनवो भवन्तीति वृषभैकादशगोदानसहितत्रिरात्रव्रताल् लघीयस्त्वम् । कथं पुनर् ब्राह्मणगवीनां गुरुत्वम् ।

"वेदब्राह्मणराज्ञां तु विज्ञेयं द्रव्यम् उत्तमम् ।"

इति नारदेन (ना०स्मृ० १४.१३) तद्द्रव्यस्योत्तमत्वाभिधानात्, "गोषु ब्राह्मणसंस्थासु" (ना०स्मृ० १९.४०) इति दण्डभूयस्त्वदर्शनाच् च । वैश्यसंबन्धिन्यास् तु तादृग्विधे व्यापादने मासम् अतिकृच्छ्रं कुर्यात् । अतिकृच्छ्रे त्व् आद्ये त्रिरात्रत्रये पाणिपूरान्नभोजनम् उक्तम् । अन्त्ये त्रिरात्रेऽनशनम् । अतोऽतिकृच्छ्रधर्मेण मासव्रते क्रियमाणे षड्रात्रम् उपवासो भवति । चतुर्विंशत्यहे च पाणिपूरान्नभोजनम् । ततश् च कृच्छ्रप्रत्याम्नायकल्पनया किंचिन्न्यूनं धेनुपञ्चकं भवतीति पूर्वस्माद् व्रतद्वयाल् लघिष्ठत्वेन वैश्यस्वामिकगोवधविषयता युक्ता । तादृश एव विषये शूद्रस्वामिकगोहत्यायां मासं प्राजापत्यव्रतं द्वितीयम् । तत्र च सार्धप्राजापत्यद्वयात्मकेन प्रत्याम्नायेन किंचिदधिकं धेनुद्वयं भवतीति पूर्वेभ्यो लघुतमत्वाच् छूद्रविषयतोचिता । अथ चैतत् प्रायश्चित्तचतुष्टयं साक्षात्कर्त्रनुग्राहकप्रयोजकानुमन्तृषु गुरुलघुभावतारतम्यापेक्षया पूर्वोक्त एव विषये योजनीयम् । यत् तु वैष्णवं व्रतत्रयम्,

"गोघ्नस्य पञ्चगव्येन मासम् एकं पलत्रयम् ।
प्रत्यहं स्यात् पराको वा चान्द्रायणम् अथापि वा ॥"

इति, यच् च काश्यपीयम् "गां हत्वा तच्चर्मणा प्रावृतो मासं गोष्ठेशयस् त्रिषवणस्नायी नित्यं पञ्चगव्याहारः" इति, यच् च शातातपीयम् "मासं पङ्चगव्याहारः" इति, तत् पञ्चकम् अपि याज्ञवल्क्यीयपञ्चगव्याहारसमानविषयम् । यच् च शङ्खप्रचेतोभ्याम् उक्तम् "गोघ्नः पञ्चगव्याहारः पञ्चविंशतिरात्रम् उपवसेत् सशिखं वपनं कृट्वा गोचर्मणा प्रावृतो गाश् चानुगच्छन् गोष्ठेशयो गां च दद्यात्" इति, एतच् च याज्ञवल्क्यीयमासातिकृच्छ्रव्रतसमानविषयम् । "दद्यात् त्रिरात्रं चोपोष्य" इत्य् एतद्विषयं वात्यन्तगुणिनो हन्तुर् वेदितव्यम् । अत्रैव विषये पञ्चगव्याशक्तस्य तु द्वितीयं काश्यपीयं "मासं पञ्चगव्येन" इति प्रतिपाद्य, "षष्ठे काले पयोभक्षो वा गच्छन्तीष्व् अनुगच्छेत् तासु सुखोपविष्टासु चोपविशेन् नातिप्लवं गच्छेन् नातिविषमेणावतारयेन् नाल्पोदके पाययेद् अन्ते ब्राह्मणान् भोजयित्वा तिलधेनुं दद्यात्" इति द्रष्टव्यम् । अत्राप्य् अशक्तस्य "गोघ्नो मासं यवागूं प्रसृतितन्दुलशृतं भुञ्जानो गोभ्यः प्रियं कुर्वन् शुध्यति" इति पैठीनसिनोक्तं वेदितव्यम् । यत् तु सौमन्तम् "गोघ्नस्य गोप्रदानं गोष्ठे शयनं द्वादशरात्रं पञ्चगव्याशनं गवानुगमनं च" इति, य च्च संवर्तेनोक्तम्,

"सक्तुयावकभैक्षाशी पयो दधि घृतं सकृत् ।
एतानि क्रमशोऽश्नीयान् मासार्धं सुसमाहितः ॥
ब्राह्मणान् भोजयित्वा तु गां दद्याद् आत्मशुद्धये ॥"

इति, यच् च बार्हस्पत्यम् "द्वादशरात्रं पञ्चगव्याहारः" इति, तत् त्रितयम् अपि याज्ञवल्क्यीयमासप्राजापत्येन समानविषयं, मृतकल्पगोहत्याविषयं वा, विषमप्रदेशत्रासेन जनितव्याधितो मरणविषयम् वा वेदितव्यम् । तद् इदं सर्वं प्राग् उक्तम् अकामविषयम् । यदा पुनर् ईदृग्विधाम् अविशिष्टविप्रस्वामिकाम् अविशिष्टां गां कामतः प्रमापयति तदा मनुना मासं यवागूपानं, मासद्वयं हविष्येण चतुर्थकालभोजनं, मासत्रयं वृषभैकादशगोदानयुक्तं शाकादिना वर्तनम् इति व्रतत्रितयम् आम्नातम् । यथाह ।

"उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् ।
कृतवापो वसेद् गोष्ठे चर्मणार्द्रेण संवृतः ॥
चतुर्थकालम् अश्नीयाद् अक्षारलवणं मितम् ।
गोमूत्रेण चरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ॥
दिवानुगच्छेत् ता गास् तु तिष्ठन्न् ऊर्ध्वं रजः पिबेत् ।
शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ॥
तिष्ठन्तीष्व् अनुतिष्ठेत् तु व्रजन्तीष्व् अप्य् अनुव्रजेत् ।
आसीनासु तथासीनो नियतो वीतमत्सरः ॥
आतुराम् अभिशस्तां वा चौरव्याघ्रादिभिर् भयैः ।
पतितां पङ्कलग्नां वा सर्वोपायैर् विमोचयेत् ॥
उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।
न कुर्वीतात्मनस् त्राणं गोर् अकृत्वा तु शक्तितः ॥
आत्मनो यदि वान्येषां गृहे क्षेत्रेऽथ वा खले ।
भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ॥
अनेन विधिना यस् तु गोघ्नो गा अनुगच्छति ।
स गोहत्याकृतं पापं त्रिभिर् मासैर् व्यपोहति ॥
वृषभैकादशा गाश् च दद्यात् सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥" इति । (मा०ध० ११.१०९–१७)

एतत् त्रितयं याज्ञवल्क्यीयमासप्राजापत्यमासपञ्चगव्याशनवृषभैकदशगोदान-युक्तत्रिरात्रोपवासरूपव्रतत्रितयविषयं यथाक्रमेण द्रष्टव्यम् । यत् त्व् अङ्गिरसा मानवेतिकर्तव्यतायुक्तं त्रैमासिकम् अभिधायाधिकम् अभिहितम्,

"अक्षारलवणं रुक्षं षष्ठे कालेऽस्य भोजनम् ।
गोमतीं वा जपेद् विद्याम् ओङ्कारं वेदम् एव च ॥
व्रतवद् धारयेद् दण्डं समन्त्रां चैव मेखलाम् ॥"

इति, तन् मानवविषयम् । एवं पुष्टितारुण्यादिकिंचिदुणातिशययोगिन्यां द्रष्टव्यम्,

"अतिबालाम् अतिकृशाम् अतिवृद्धां च रोगिणीम् ।
हत्वा पूर्वविधानेन चरेद् अर्धं व्रतं द्विजः ॥"

इति पुष्टितारुण्यादिरहितायां गव्य् अर्धप्रायश्चित्तदर्शनात् । यदा तु याज्ञवल्क्यीयमासातिकृच्छ्रव्रतनिमित्तभूतां गाम् अविशिष्टस्वामिकां जातिमात्रयोगिनीं कामतो व्यापादयति, तदा,

"विहितं यद् अकामानां कामात् तद्द्विगुणं चरेत् ।"

इति न्यायेन पूर्वोक्तम् एवाकामविहितं मासातिकृच्छ्रव्रतं द्विगुणं कुर्यात् । यत् तु हारीतेन "गोघ्नस् तच्चर्मौर्ध्ववालं परिधाय" इत्यादिना मानवीम् इतिकर्तव्यताम् अभिधायोक्तम्, "वृषभैकादशाश् च गा दत्त्वा त्रयोदशे मासे पूतो भवति" इति, तत् सवनस्थश्रोत्रियगोवधे अकामकृते द्रष्टव्यम् । यत् तु वसिष्ठेन – "गां चेद् धन्यात् तस्याश् चर्मणार्द्रेण परिवेष्टितः षण्मासान् कृच्छ्रतप्तकृच्छ्राव् आतिष्ठेत्, ऋषभवेहतौ दद्यात्" (व०ध० २१.१८, २२) इति षाण्मासिकं कृच्छ्रतप्तकृच्छ्रानुष्ठानम् उक्तम्, यद् अपि देवलेव "गोघ्नः षण्मासांस् तच्चर्मपरिवृतो गोव्रजनिवासी गोभिर् एव सह चरन् प्रमुच्यते" इति, तत् द्वयम् अपि हारीतीयेन समानविषयम् । तत्रैव कामकारकृते कात्यायनीयं त्रैवार्षिकम् :

"गोघ्नस् तच्चर्मसंवीतो वसेद् गोष्ठेऽथ वा पुनः ।
गाश् चानुगच्छेत् सततं माउनी वीरासनादिभिः ॥
वर्षशीतातपक्लेशवह्निपङ्कभयार्दितः ।
मोक्षयेत् सर्वयत्नेन पूयते वत्सरैस् त्रिभिः ॥"

इति द्रष्टव्यम् । यच् च शाङ्खं त्रैवार्षिकम् :

"पादं तु शूद्रहत्यायाम् उदक्यागमने तथा ।
गोवधे च तथा कुर्यात् परस्त्रीगमने तथा ॥"

इति, तद् अपि कात्यायनीयव्रतसमानविषयम् । यत् तु यमेन आङ्गिरसीम् इतिकर्तव्यताम् अभिधाय,

"गोसहस्रं शतं वापि दद्यात् सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥"

इति गोसहस्रयुक्तं गोशतयुक्तं च द्वैमासिकं व्रतद्वयम् अभिहितम्, तत्र यदा सवनस्थश्रोत्रियादिदुर्गतबहुकुटुम्बिब्राह्मणसंबन्धिनीं कपिलां कर्माङ्गभूतां गर्भिणीं बहुक्षीरतरुणिमादिगुणशालिनीं निर्गुणो धनवान् सप्रतिज्ञं खड्गादिना व्यापादयति तदा गोसहस्रयुक्तं द्वैमासिकं कुर्यात्,

"गर्भिणीं कपिलां दोघ्रीं होमधेनुं च सुव्रताम् ।
खड्गादिना घातयित्वा द्विगुणं व्रतम् आचरेत् ॥"

इति विशिष्टायां गवि बार्हस्पत्ये प्रायश्चित्तविशेषदर्शनात् । अत एव प्रचेतसा, "स्त्रीगर्भिणीबालवृद्धवधेषु भ्रूंहा भवति" इति ईदृग्विधम् एव गोवधम् अभिसंधाय ब्रह्महत्याव्रतम् अतिदिष्टम् । द्वितीयं तु याम्यं गोशतदानयुक्तं व्रतं कात्यायनीयव्रतविषये धनवतो द्रष्टव्यम् । यत् तु गौतमेन वृषभैकशतगोदानसमुच्चितं ब्रह्मचर्यं वैश्यवधेऽभिधाय गोवधेऽतिदिष्टम् : "गां च हत्वा वैश्यवत्" (गौ०ध० २२.१८) इति, एतच् च त्रैवार्षिकव्रतप्रत्याम्नायभूतनवतिधेनुभिः सार्धं वृषभैकशता गावो नवन्यूनं द्विशतं भवतीति गोसहस्रयुक्तत्रैमासिकव्रतान् न्यूनत्वात् पूर्वोक्तविषये एव कामतो वधे । यद् वा तत्रैव विषये गर्भरहितायाः कामतो वधे द्रष्टव्यम् । तादृग्विधाया एव गर्भरहितायास् त्व् अकामतो हननेऽपि कात्यायनीयम् एव त्रैवार्षिकं कल्प्यम् । यत् तु यमेनोक्तं,

"काष्ठलोष्टाश्मभिर् गावः शस्त्रैर् वा निहता यदि ।
प्रायश्चित्तं कथं तत्र शस्त्रेऽशस्त्रे विधीयते ॥
काष्ठे सान्तपनं कुर्यात् प्राजापत्यं तु लोष्टके ।
तप्तकृच्छ्रं तु पाषाणे शस्त्रे चाप्य् अतिकृच्छ्रकम् ॥
प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् ।
त्रिशद् गा वृषभं चैकं दद्यात् तेभ्यश् च दक्षिणाम् ॥"

इति, तत् पूर्वोक्तगोसहस्रशतादिदानत्रैवार्षिकादिव्रतविषयेष्व् एव काष्ठादिसाधनविशेषजनितवधनिमित्तसान्तपनादिपूर्वकत्वप्रतिपादनपरं, न तु निरपेक्षं, लघुत्वाद् व्रतस्य । तथा वयोविशेषाद् अपि प्रायश्चित्तविशये उक्तः :

"अतिवृद्धाम् अतिकृशाम् अतिबालां च रोगिणीम् ।
हत्वा पूर्वविधानेन चरेद् अर्धव्रतं द्विजः ॥
ब्राह्मणान् भोजयेच् छक्त्या दद्याद् धेमतिलांस् तथा ॥"

इति नीरोगादिवधे यद् विहितं तस्यार्धम् । बृहत्प्रचेतसाप्य् अत्र विशेष उक्तः ।

"एकवर्षे हते वत्से कृच्छ्रपादो विधीयते ।
अबुद्धिपूर्वो पुंसः स्याद् द्विपादस् तु द्विहायने ।
त्रिहायने त्रिपादः स्यात् प्राजापत्यम् अतः परम् ॥" इति ॥

तथा गर्भिण्या वधे यदा गर्भोऽपि निहतो भवति तदा "प्रतिनिमित्तं नैमित्तिकम् आवर्तते" इति न्यायेनाविशेषेण द्विगुणव्रतप्राप्तौ षट्त्रिंशन्मते विशय उक्तः :

"पाद उत्पन्नमात्रे तु द्वौ पादौ दृढतां गते ।
पादोनं व्रतम् उद्दिष्टं हत्वा गर्भम् अचेतनम् ॥
अङ्गप्रत्यङ्गसंपूर्णे गर्भे चेतःसमन्विते ।
द्विगुणं गोव्रतं कुर्याद् एषा गोघ्नस्य निष्कृतिः ॥" इति ।

बहुकर्तृके तु हनने संवर्तापस्तम्बौ विशेषम् आहतुः :

"एका चेद् बहुभिः काचिद् दैवाद् व्यापादिता क्वचित् ।
पादं पादं तु हत्यायाश् चरेयुस् ते पृथक् पृथक् ॥" इति ।

यादृग्विधगोहत्यायां यद्व्रतम् उपदिष्टं तत्पादं प्रत्येकं कुर्युः, वचनात् । "एका चेत्" इत्य् उपलक्षणम् । अतो बहुभिर् द्वयोर् बहूनां च व्यापादने प्रतिपुरुषं पादद्वयं पादोनं वा कल्पनीयम् । एतच् चाकामतो वधे द्रष्टव्यं, "दैवाद्" इति विशेषणोपादानात् । कामकारे तु बहूनाम् अपि प्रत्येकं कृत्स्नदोषसंबन्धात्, कृत्स्नव्रतसंबन्धो युक्तः, सत्रिणाम् इव प्रतिपुरुषं कृत्स्नव्यापारसमवायात्,

"एकं घ्नतां बहूनां तु यथोक्ताद् द्विगुणो दमः ।"

इति प्रत्येकं दण्डद्वैगुण्यदर्शनाच् च । यदा त्व् एकेनैव रोधनादिव्यापारेण बहवो गावो व्यापादितास् तत्र संवर्तापस्तम्बौ विशेषम् आहतुः :

"व्यापन्नानां बहूनां तु रोधने बन्धनेऽपि वा ।
भिषङ् मिथ्योपचारे च द्विगुणं ग्रोव्रतं चरेत् ॥" इति ।

बहुष्व् अपि व्यापन्नेषु न प्रतिनिमित्तं नैमित्तिकानुष्ठानं, नापि तन्त्रेण किं तु वचनबलाद् द्विगुणम् एव । तथा भिषग् अपि विरुद्धौषधदानेनैकस्या अप्य् अकामतो व्यापादने द्विगुणं गोव्रतं कुर्यात् । भिषग्व्यतिरिक्तस्य केवलम् उपकारार्थं प्रवृत्तस्य त्व् अकामतः प्रतिकूलौषधदाने व्यास आह ।

"औषधं लवणं चैव पुण्यार्थम् अपि भोजनम् ।
अतिरिक्तं न दातव्यं काले स्वल्पं तु दापयेत् ॥
अतिरिक्ते विपत्तिश् चेत् कृच्छ्रपादो विधीयते ॥" इति ।

यत् त्व् आपस्तम्बेनोक्तम्,

"पादम् एकं चरेद् रोधे द्वौ पादौ बन्धने चरेत् ।
योजने पादहीनं स्याच् चरेत् सर्वं निपातने ।"

इति, तद् व्यवहितव्यापारिणो निमित्तकर्तुर् विज्ञय न साक्षात् कर्तुः । साक्षात् कर्तृनिमित्तनोश् च भेदस् तेनैव दर्शितः :

"पाषाणैर् लकुटैर् वापि शस्त्रेणान्येन वा बलात् ।
निपातयन्ति ये गास् तु कृत्स्नं कुर्युर् व्रतं हि ते ॥
तथैव बाहुजङ्घोरुपार्श्वग्रीवाङ्ग्रिमोटनैः ॥" इति ।

एतद् उक्तं भवति : पाषाणखड्गादिभिर् ग्रीवामोटनादिना वा ये गां निपातयन्ति, ते साक्षाद् घन्तारस् तेष्व् एव कृत्स्नं प्रायश्चित्तम् । ये तु व्यवहितरोधबन्धादिव्यापारयोगिनस् ते निमित्तिनस् तेषां न कृत्स्नव्रतसंबन्धः । किं तु तदवयवैर् एव पादद्विपादादिभिर् इति । तत्र च रोधादीनां व्यवहितव्यापारत्वाविशेषेऽपि वचनात् क्वचित् पादः क्वचिद् द्विपादः पादोनं क्वचिद् इति युक्तम् । अत्राह पराशरः ।

"गवा बन्धनयोक्त्रैस् तु भवेन् मृत्युर् अकामतः ।
अकामकृतपापस्य प्राजापत्यं विनिर्दिशेत् ॥
प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मण भोजनम् ।
अनडुत्सहितां गां च दद्याद् विप्राय दक्षिणाम् ॥" इति ॥

अयं च प्राजापत्यो यदि रोधादिकं कृत्वा तज्जन्यप्रमादपरिजिहीर्षया प्रत्यवेक्षमाण आस्ते तदा द्रष्टव्यः, "अकामकृतपापस्य" इति विशेषणोपादानात् । यदा तु न प्रमादसंरक्षणं करोति तदा,

"पादम् एकं चरेद् रोधे द्वौ पादौ बन्धने चरेत् ।
योजने पादहीनं स्याच् चरेत् सर्वं निपातने ॥"

इत्य् अङ्गिरोदृष्टं त्रैमासिकपादं किंचिदधिकं वा विंशत्यहर्गोवधव्रतं कुर्यात् । आपस्तम्बेनापि विशेष उक्तः ।

"अतिदाहातिवाहाभ्यां नासिकाच्छेदने तथा ।
नदीपर्वतसंरोधे सृते पादोनम् आचरेत् ॥" इति ।

लक्षणमात्रोपयोगिनि तु दाहे न दोषः,

"अन्यत्राङ्कनलक्षाभ्यां वाहने मोचनेऽपि वा ।
सायं सङ्गोपनार्थं च न दुष्येद् रोधबन्धने ॥"

इति पराशरस्मरणात् । अङ्कनं स्थिरचिह्नकरणम्, लक्षणं सांप्रतोपलक्षणम् । वाहने शास्त्रोक्तमार्गेण रक्षणाथम् अपि नालिकेरादिभिर् बन्धने भवत्य् एव दोषः,

"न नालिकेलेण न शाणवालैर् न चापि मौञ्जेन न बन्धशृङ्खलैः ।
एतैस् तु गावो न निबन्धनीया बध्वा तु तिष्ठेत् परशुं गृहीत्वा ॥
कुशैः काशैश् च बध्नीयात् स्थाने दोषविवर्जिते ॥"

इति व्यासस्मरणात् ॥ तथान्योऽपि विशेषस् तेनैवोक्तः :

"घण्टाभरणदोषेण विपत्तिर् यत्र गोर् भवेत् ।
कृच्छ्रार्धं तु भवेत् तत्र भूषणार्थं हि तत् स्मृतम् ॥
अतिदोहेऽतिदमने संघाते चैव योजने ।
बद्ध्वा शृङ्खलपाशैश् च मृते पादोनम् आचरेत् ॥"

इति पालनाकरणादिनोपेक्षयां क्वचित् प्रायश्चित्तविशेषस् तेनैवोक्तः :

"जलौघपल्वले मग्ना मेघविद्युद्धतापि वा ।
श्वभ्रे वा पतिताकस्माच् छ्वापदेनापि भक्षिता ॥
प्राजापत्यं चरेत् कृच्छ्रं गोस्वामी व्रतम् उत्तमम् ।
शीतवाताहता वा स्याद् उद्बन्धनहतापि वा ॥
शून्यागार उपेक्षायां प्राजापत्यं विनिर्दिशेत् ॥" इति ।

इदं तु कार्यान्तरविरहेऽप्य् उपेक्षायां वेदितव्यम् । कार्यान्तरव्यग्रतयोपेक्षायां त्व् अर्धम्,

"पल्वलौघमृगव्याघ्रश्वापदादिनिपातने ।
श्वभ्रप्रपातसर्पाद्यैर् मृते कृच्छ्रार्धम् आचरेत् ॥
उपालत्वात् तु कृच्छ्रं स्याच् छून्यागार उपप्लवे ॥"

इति विष्णुस्मरणात् । तथा सत्य् अपि व्यापादने क्वचिद् उपकारार्थप्रवृत्तौ वचनाद् दोषाभावः । यथाह संवर्तः ।

"यन्त्रणे गोचिकित्सार्थे मूढगर्भविमोचने ।
यत्ने कृते विपत्तिः स्यान् न स पापेन लिप्यते ॥" इति ।

यन्त्रणं व्याध्यादिनिर्यातनार्थं संदंशाङ्कुशादिप्रवेशनम् । तथा,

"औषधं स्नेहम् आहारं ददद् गोब्राह्मणे द्विजः ।
दीयमाने विपत्तिश् चेन् न स पापेन लिप्यते ॥
ग्रामघाते शरौघेण वेश्मभङ्गान् निपातने ।
दाहच्छेदशिराभेदप्रयोगैर् उपकुर्वताम् ।
द्विजानां गोहितार्थं च प्रायश्चित्तं न विद्यते ॥"

अत्र पराशरोऽप्य् आह ।

"ग्रामघाते शरौघेण वेश्मभङ्गान् निपातने ।
अतिवृष्टिहतानां च प्रायश्चित्तं न विद्यते ॥" इति ॥

तथा,

"कूपखाते च धर्मार्थे गृहदाहे च या मृता ।
ग्रामदाहे तथा घोरे प्रायश्चित्तं न विद्यते ॥" इति ॥

इदं तु बन्धनरहितस्यैव पशोः कथञ्चिद् गृहादिदाहेन मृतविषयम् । इतरथा त्व् आपस्तम्बेनोक्तम् ।

"कान्तारेष्व् अथ दुर्गेषु गृहदाहे खलेषु च ।
यदि तत्र विपत्तिः स्यात् पाद एको विधीयते ॥" इति ।

तथाऽस्थ्यादिभङ्गे मरनाभावेऽपि क्वचित् प्रायश्चित्तम् उक्तम् ।

"अस्थिभङ्गं गवां कृत्वा लाङ्गूलच्छेदनं तथा ।
पाटनं दन्तशृङ्गाणां मासार्धं तु यवान् पिबेद् ॥" इति ।

यत् त्व् आङ्गिरसं,

"शृङ्गभङ्गेऽस्थिभङ्गे वा चर्मनिर्मोचनेऽपि वा ।
दशरात्रं पिबेद् वज्रं स्वस्थापि यदि गौर् भवेत् ॥"

इति वज्रशब्दवाच्यं क्षीरादिवर्तनम् उक्तं, तद् अशक्तविषयम् । इदं च प्रायश्चित्तं गोस्वामिने व्यापन्नगोसदृशीं गां दत्त्वैव कार्यम् । यदाह पराशरः ।

"प्रमापणे प्राणभृतां दद्यात् तत्प्रतिरूपकम् ।
तस्यानुरूपं मूल्यं वा दद्याद् इत्य् अब्रवीद् यमः ॥" इति ।

मनुर् अपि ।

"यो यस्य हिंस्याद्द्रव्याणि ज्ञानतोऽज्ञानतोऽपि वा ।
स तस्योत्पादयेत् तुष्टिं राज्ञे दद्याच् च तत्समम् ॥" इति । (मा०ध० ८.२८८)

एतत् तु पूर्वोक्तं प्रायश्चित्तजातं ब्राह्मणस्यैव हन्तुर् वेदितव्यम् । क्षत्रियादेस् तु हन्तुर् बृहद्विष्णुना विशेषोऽभिहितः :

"विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् ।
वैश्येऽर्धं पाद एकस् तु शूद्रजातिषु शस्यते ॥" इति ।

यत् त्व् अङ्गिरोवचनम्,

"पर्षद् या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता ।
वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच् च व्रतं स्मृतम् ॥"

इति, तत् प्रातिलोम्येन वाग्दण्डपारुष्यादिविषयम् । तथा स्त्रीबालवृद्धादीनां त्व् अर्धं, अनुपनीतस्य बालस्य पाद इति च प्रागुक्तम् अनुसंधेयम् ॥ स्त्रीणां पराशरेण विशेषोऽभिहितः ।

"वपनं नैव नारीणां नानुव्रज्या जपादिकम् ।
न गोष्ठे शयनं तासां न वसीरन् गवाजिनम् ॥
सर्वान् केशान् समुद्धृत्य छेदयेद् अङ्गुलद्वयम् ।
सर्वत्रैवं हि नारीणां शिरसो मुण्डनं स्मृतम् ॥" इति ।

पुरुषेषु च विशेषः संवर्तेन दर्शितः ।

"पादेऽङ्गरोमवपनं द्विपादे श्मश्रुणोऽपि च ।
त्रिपादे तु शिखावर्जं सशिखं तु निपातने ॥" इति ।

पादप्रायश्चित्तार्हस्य कण्ठाद् अधस्तनाङ्गरोम्णाम् एव वपनम् । अर्धप्रायश्चित्तार्हस्य तु श्मश्रूणाम् अपि । पादोनप्रायश्चित्तार्हस्य पुनः शिरोगतानाम् अपि शिखावर्जितानाम् । पादचतुष्टयार्हस्य तु सशिखस्य सकलकेशजातस्येति । एवम् एतद् दिगवलम्बनेनान्येषाम् अपि स्मृतिवचसा विषयो निरूपणीयः ॥ ३.२६३ ॥ ३.२६४ ॥

इति गोवधप्रायश्चित्तप्रकरणम्

अधुनान्येषाम् उपपातकानां प्रायश्चित्तम् आह ।

उपपातकशुद्धिः स्याद् एवं चान्द्रायणेन वा ।
पयसा वापि मासेन पराकेणाथवा पुनः ॥ या०ध०३.२६५

एवम् उक्तेन गोवधव्रतेन मासं पञ्चगव्याशनादिनान्येषां व्रात्यतादीनाम् उपपातकानां शुद्धिर् भवेत् । चान्द्रायणेन वा वक्ष्यमाणलक्षणेन मासं पयोव्रतेन वा पराकेण वा शुद्धिर्भवेत् । अत्रातिदेशसाम् अर्थ्याद् गोचर्मवसनगोपरिचर्यादिभिर् गोवधासाधारणैः कतिपयैर् न्यूनत्वम् अवगम्यते । एतच् च व्रतचतुष्टयम् अकामकारे शक्त्यपेक्षया विकल्पितं द्रष्टव्यम् । कामकारे तु,

"एतद् एव व्रतं कुर्युर् उपपातकिनो द्विजाः ।
अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणम् अथापि वा ॥" (मा०ध० ११.११८)

इति मनूक्तं त्रैमासिकं द्रष्टव्यम् । अत एव वचनाद् अयं प्रायश्चित्तातिदेशः सर्वेषाम् उपपातकगणपठितानाम् उक्तप्रायश्चित्तानाम् अनुक्तप्रायश्चित्तानां चावकीर्णिवर्जितानाम् अविशेषेन वेदितव्यः । अवकीर्णिनस् तु प्रतिपदोक्तम् एव ।

ननु अनुक्तप्रायश्चित्तविषयतयैवातिदेशस्य युक्ता, इतरथा प्रतिपदोक्तप्रायश्चित्तबाधसापेक्षत्वप्रसङ्गात् ।

मैवम् । तथा सत्य् उक्तनिष्कृतीनाम् उपपातकगणपाठोऽनर्थकः स्यात् । यदि परम् उपपातकमध्ये सामान्यतः पठितस्यान्यत्र विशेषतः प्रायश्चित्तान्तरम् उच्यते । यथा, "अयाज्यानां च याजनं । त्रीन् कृच्छ्रान् आचरेद् व्रात्ययाजकोऽविचरन्न् अपि" इति स एव विषयः केवलं परिह्रियते न पुनर् विशेषतः पठितस्यैवान्यत्रापि विशेषत एव यत्र प्रायश्चित्तम् उच्यते सोऽपि यथा "इन्धनार्थं द्रुमच्छेदः" "वृक्षगुल्मलतावीरुच्छेदने जप्यम् ऋक्शतम्" इति । अतो व्रात्यतादिषु अस्मिन् शास्त्रे शास्त्रान्तरे वा दृष्तैः प्रायश्चित्तैः सह "उपपातकशुद्धिः स्याद् एवम्" इत्यादिना प्रतिपादितव्रतचतुष्टयस्य समविषयताकल्पनेन विकल्पो विषयविभागो वाश्रयणीयः । तानि च स्मृत्यन्तरदृष्टप्रायश्चित्तानि पाठक्रमेण व्रात्यादिषु योजयिष्यामः । तत्र व्रात्यतायां मनुनेदम् उक्तम्,

"येषां द्विजानां सावित्री नानूच्येत यथावधि ।
तांश् चारयित्वा त्रीन् कृच्छ्रान् यथाविध्य् उपनाययेत् ॥" (मा०ध० ११.१९२)

इति, यच् च यमेनोक्तम्,

"सावित्री पतिता यस्य दशवर्षाणि पञ्च च ।
सशिखं वपनं कृत्वा व्रतं कुर्यात् समाहितः ॥
एकविंशतिरात्रं च पिबेत् प्रसृतियावकम् ।
हविषा भोजयेच् चैव ब्राह्मणान् सप्त पञ्च वा ॥
ततो यावकशुद्धस्य तस्योपनयनं स्मृतम् ॥"

इति, तद् उभयम् अपि याज्णवल्क्यीयमासपयोव्रतविषयम् । यत् तु वसिष्ठेनोक्तम् : "पतितसावित्रीक उद्दालकव्रतं चरेत् । द्वौ मासौ यावकेन वर्तयेन् मासं पयसा पक्षम् आमिक्षयाष्टरात्रण् घृतेन षड्रात्रम् अयाचितेन त्रिरात्रम् अबभक्षोऽहोरात्रम् उपवसेत् । अश्वमेधावभृथं गच्छेद् व्रात्यस्तोमेन वा यजेत" (व०ध० ११.७६–७८) इति । अत्रेयं व्यवस्था । यस्योपनेत्राद्यभावेन तत्कालातिक्रमस् तस्य याज्ञवल्क्यीयव्रतानाम् अन्यतमं शक्त्यपेक्षया भवति । अनापद्य् अतिक्रमे तु मानवं त्रैमासिकम् । तत्रैव पञ्चदशवर्षाद् ऊर्ध्वम् अपि कियत्कालातिक्रमे तूद्दालकव्रतं व्रात्यस्तोमो वेति । येषां तु पित्रादयोऽप्य् अनुपनीतास् तेषाम् आपस्तम्बोक्तम् : "यस्य पितापितामहाव् अनुपेतौ स्यातां तस्य संवत्सरं त्रैविद्यकं ब्रह्मचर्यम् । यस्य प्रपितामहादेर् नानुस्मर्यत उपनयनं तस्य द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यम्" (chf. आ०ध० १.१.३२, १.२.५) ।

(इति व्रात्यता)ठिस् एन्दिन्ग्स् अरे given ओन्ल्य् in NSP and Pandeya ; ओमित्तेद् by Seltur. ई हवे प्लचेद् थेम् within परेन्थेसेस्. ठेय् मय् हवे बेएन् इन्सेर्तेद् by the एदितोर्स् ओf the NSP.

तथा स्तेयेऽप्य् उपपातकसाधारणप्राप्तव्रतचतुष्टयापवादकं प्रायश्चित्तं मनुनोक्तम् ।

"धान्यान्नधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः ।
सजातीयगृहाद् एव कृच्छ्राब्देन विशुध्यति ॥" इति । (मा०ध० ११.१६३)

द्विजोत्तमस्य सजातीयो ब्राह्मण एवातो विप्रपरिग्रहे ब्राह्मणस्य हर्तुर् इदम् । क्षत्रियादेस् त्व् अल्पं कल्प्यम् । अथ "अष्टापाद्यं स्तेयकिल्बिषं शूद्रस्य, द्विगुणोत्तराणीतरेषां प्रतिवर्णं, विदुषोऽतिक्रमे दण्डभूयस्त्वम्" (गौ०ध० १२.१५–१७) इति क्षत्रियादेर् अपहर्तुर् दण्डाल्पत्वस्य दर्शनात्, तथा,

"विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् ।"

इति पादपादहान्या प्रायश्चित्तदर्शनात् । तथा क्षत्रियादिपरिग्रहेणापि दण्डानुसारेण प्रायश्चित्ताल्पत्वं कल्प्यम् । अतः क्षत्रियपरिग्रहे चौर्ये षाण्मासिकम्, वैश्यपरिग्रहे त्रैमासिकं गोवधव्रतम्, शूद्रापरिग्रहे चान्द्रायणं कल्प्यम् । एवम् उत्तरत्राप्य् ऊहनीयम् । इदं च दशकुम्भधान्यापहारविषयम्, अधिके तु,

"धान्यं दशभ्यः कुम्भेभ्यो हरतो दम उत्तमः ।" (मा०ध० ८.३२०)

"पलसहस्राद् अधिके वधः ।" (chf. मा०ध० ८.३२१)

इति वधदर्शनात् । कुम्भश् च पञ्चसहस्रपलपरिमाणः । धान्यसाहचर्याद् अन्नधने चैतावद्धान्यपरिमिते वेदितव्ये । अन्नशब्देन तन्दुलादिकम् अभिधीयते, धनशब्देन ताम्ररजतादिकम् । इदं तु प्रायश्चित्तं कामकारविषयम् । अकामतस् तु त्रैमासिकं गोवधव्रतम् । तथा,

"मनुष्याणां च हरणे स्त्रीणां क्षेत्रगृहस्य च ।
कूपवापीजलानां च शुद्धिश् चान्द्रायणेन तु ॥" (मा०ध० ११.१६४)

इति सार्धशतद्वयपणलभ्यजलापहार इदं चान्द्रायणं प्राप्तम् अपीतरगोवधव्रतनिवृत्त्यर्थं विधीयते,

"तावन्मूल्यजलापहारे पानीयस्य तृणस्य च ।
तन्मूल्याद् द्विगुणो दण्डः ।"

इति पञ्चशतदण्डविधानात्, तावत्पणयोर् दण्डचान्द्रायणयोर् गोवधादौ सहचरितत्वात्, तथा,

"कृच्छ्रातिकृच्छ्रैन्दवयोः पणपञ्चशतं तथा ।"

इति चान्द्रायणविषये पञ्चशतपणदण्डविधानाच् च । एतच् च क्षत्रियादिद्रव्यापहारे द्रष्टव्यम् । (ब्राह्मसंबन्धिद्रव्यापहारे तु,

"निक्षेपस्यापहरणं नराश्वरजतस्य च ।
भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥" (मा०ध० ११.५८)

इति द्रष्टव्यम् ) । तथा,

"द्रव्याणाम् अल्पसाराणां स्तेयं कृत्वान्यवेश्मतः ।
चरेत् सांतपनं कृच्छ्रं तन् निर्यात्य् आत्मशुद्धये ॥" (मा०ध० ११.१६५)

इत्य् अनेनाल्पप्रयोजनत्रपुसीसादिद्रव्यापहारविशेषेण स्तेयसामान्योपपातकप्रायश्चित्तापवादः । इदं च चान्द्रायणनिमित्तभूतार्धतृतीयशतमूल्यस्य पञ्चदशांशार्धत्रपुसीसाद्यपहारे प्रायश्चित्तम्, चान्द्रायणपञ्चदशांशत्वात् तस्य । तथा द्रव्यविशेषेणाप्य् उपपातकसामान्यप्राप्तव्रतापवादः :

"भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ।
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ।" इति । (मा०ध० ११.१६६)

एकवारभोजनपर्याप्तभक्षभोज्यापहार इदम् । द्वित्रिवारभोजनपर्याप्ताहारे त्रिरात्रम् । यथाह पैठीनसिः : "भक्ष्यभोज्यान्नस्योदरपूरणमात्रहरणे त्रिरात्रम् एकरात्रं वा पञ्चगव्याहारश् च" इति । यानादीनाम् अप्य् एतत्साहचर्याद् एतावन्मूल्यानाम् एवापहरणे एतत् प्रायश्चित्तम् । सर्वत्रापि ह्रियमाणद्रव्यन्यूनाधिकभावेन प्रायश्चित्तस्यापि लघुगुरुभावः कल्पनीयः । तथा,

"तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।
तैलचर्मामिषाणां च त्रिरात्रं स्याद् अभोजनम् ॥" इति । (मा०ध० ११.१६७)

एषां च तृणादीनां भक्ष्यादित्रिगुणत्रिरात्रप्रायश्चित्तस्य दर्शनात्, तत्त्रिगुणमूल्यार्धाणाम् एतत् प्रायश्चित्तम् । तथा,

"मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।
अयस्कांस्योपलानां च द्वादशाहं कणान्नता ॥" इति । (मा०ध० ११.१६८)

अत्रापि भक्ष्यादिवत् द्वादशगुणप्रायश्चित्तदर्शनात्, तन्मूल्यद्वादशगुणमूल्यमणिमुक्ताद्यपहार एतत् प्रायश्चित्तं द्रष्टव्यम् । तथा,

"कार्पासकीटजौर्णानां द्विखुरैकखुरस्य च ।
पक्षिगन्धौषधीनां च रज्ज्वाश् चैव त्र्यहं पयः ॥" इति । (मा०ध० ११.१६९)

अत्रापि भक्ष्यादित्रिगुणप्रायश्चित्तदर्शनात्, तत्त्रिगुणमूल्यानाम् अपहार एवैतत् प्रायश्चित्तं ज्ञेयम् । ह्रियमाणद्रव्यन्यूनाधिकभावेन प्रायश्चित्ताल्पत्वमहत्त्वं कल्प्यम् एव । इदं च स्तेयप्रायश्चित्तम् अपहृतद्रव्यदानोत्तरकालम् एव द्रष्टव्यम् । यथाह विष्णुः :

"दत्त्वैवापहृतं द्रव्यं स्वामिने व्रतम् आचरेत् ।" इति ।

(इति स्तेयम्)

ऋणापाकरणे च "पुत्रपौत्रैर् ऋणं देयम्" (या०ध० २.५०) इति विहितं तस्यानपाकरणे तथा वैदिकस्य च "जायमानो वै ब्राह्मणः" इत्येतद्वाक्येनर्णसंस्तुतयज्ञादिकरणे च "उपपातकशुद्धिः स्याद् एवम्" इत्यादिनोपपातकसामान्यविहितं व्रतचतुष्टयं शक्त्यपेक्षया योज्यम् । प्रायश्चित्तान्तरम् अप्य् अत्र मनुनोक्तम् :

"इष्टिं वैश्वानरीं चैव निर्वपेद् अब्दपर्यये ।
लूप्तानां पशुसोमानां निष्कृत्यर्थम् असंभवे ॥" इति । (मा०ध० ११.२७)

अब्दपर्यये संवत्सरान्ते ।

(इति ऋणानपाकरणम्)

तथाधिकृतस्यानाहिताग्नित्वेऽप्य् एतद् एव व्रतचतुष्टयं वत्सराद् ऊर्ध्वम् आपदि शक्त्यपेक्षया योज्यम् । अनापदि तु मानवं त्रैमासिकम् । अर्वाक् पुनर् वत्सरात् कार्ष्णाजिनिर् विशेषम् आह ।

"काले त्व् आधाय कर्माणि कुर्याद् विप्रो विधानतः ।
तद् अकुर्वंस् त्रिरात्रेण मासि मासि विशुध्यति ॥
अनाहिताग्नौ पित्रादौ यक्ष्यमाणः सुतो यदि ।
स हि व्रात्येन पशुना यजेत् तन्निष्क्रयाय तु ॥" इति ।

एकाग्नेर् अपि विशेषस् तेनैवोक्तः ।

"कृतदारो गृहे ज्येष्टो यो नादध्याद् उपासनम् ।
चान्द्रायणं चरेद् वर्षं प्रतिमासम् अहोऽपि वा ॥"

(इत्य् अनाहिताग्निता)

Bएfओरे this the NSP and Pandeya adds a passage within परेन्थेसेस् थत् is fओउन्द् in ओने म्स्. ईत् is प्रोबब्ल्य् an इन्तेर्पोलतिओन् : (विक्रये यद् व्रतं प्रोक्तं हरणे द्विगुणं हि तत् । सुराविक्रये सोम्ये चतुष्टयं लाक्षालवणमांसमध्वाज्यतिलहोमानां चान्द्रायणत्रयं पयःपायसापूपदधीक्षुरसगुडखण्डादिस्नेहपक्वादिषु पराकः । सिद्धान्नविक्रये प्राजापत्यं । पनसस्य त्रिदिनं । कदलीनारिकेरजम्बीरबीजपूरकनारङ्गानां पादकृच्छ्रं । कस्तूरिकाविक्रये गन्धानां च कृच्छ्रं । कर्पूरेऽर्धं हिंग्वादिविक्रये दिनम् उपवासः । शुक्लकृष्णपीतवस्त्रविक्रये त्रिदिनं । अजानाम् ऐन्दवं । खराश्वतरकरभाणां पराकः । शुनां द्विगुणं । एकाहाद् वेदविक्रये चान्द्रं । अङ्गानां पराकः । स्मृतीनां कृच्छ्रं । इतिहासपुराणानां सांतपनं । रहस्यानां कृच्छ्रं । गाथानां शिशिरातत्त्वविद्यानां पादं ।)तथा अपण्यानां विक्रये च स्मृत्यन्तरे प्रायश्चित्तविशेष उक्तः । यथाह हारीतः : "गुडतिलपुष्पमूलफलपक्वान्नविक्रये सोमपानं सौम्यः कृच्छ्रः । लाक्षालवणमधुमांसतैलक्षीरदधितक्रघृतगन्धचर्मवाससाम् अन्यतमविक्रये चान्द्रायणम् । तथा । ऊर्णाकेशकेसरिभूधेनुवेश्माश्मशस्त्रविक्रये च भक्ष्यमांसस्नाय्वस्थिशृङ्गनखशुक्तिविक्रये तप्तकृच्छ्रः । हिङ्गुगुग्गुलुहरितालमनःशिलाञ्जनगैरिकक्षारलवणमणिमुक्ताप्रवालवैणवमृन्मयेषु च तप्तकृच्छ्रः । आरामतडागोदपानपुष्करिणीसुकृतविक्रये त्रिषवणस्नाय्य् अधःशायी चतुर्थकालाहारो दशसहस्रं जपन् संवत्सरेण पूतो भवति । हीनमानोन्मानसंकरसंकीर्णविक्रये च" इति । एवम् अन्यैर् अपि शङ्खविष्ण्वाद्युक्तवचनैर् यत्र प्रायश्चित्तविशेषो नोक्तस् तत्रानापादि मानवम् उपपातकसाधारणतः प्राप्तं त्रैमासिकम् । आपदि तु याज्ञवल्क्यीयं व्रतचतुष्टयं शक्त्यपेक्षया योज्यम् ॥

(इत्य् अपण्यविक्रयः)

तथा परिवेत्तरि च वसिष्ठेन प्रायश्चित्तविशये उक्तः : "परिविविदानः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्त्वा पुनर् निविशेत तां चैवापयच्छेत" (व०ध० २०.८) इति । परिविविदानः परिवेत्तोच्यते । तत्स्वरूपं च प्राग् व्याख्यातम् । असौ कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै ज्येष्ठाय तां स्वोढां दत्त्वा ब्रह्मचर्याहृतभैक्षवद् गुरुपरिभवपरिहारार्थं निवेद्य पुनर् उद्वहेत् । काम् इत्य् अपेक्षायाम् उक्तं "ताम् एवोपयच्छेत" इति । ताम् एव स्वोढां ज्येष्ठाय निवेदितां तेन चानुज्ञाताम् उद्वहेत् । यत् तु हारीतेनोक्तम्, "ज्येष्ठेऽनिविष्टे कनीयान् निविशमानः परिवेत्ता भवति परिवित्तिर् ज्येष्ठः परिवेदनी कन्या परिदायी दाता परियष्टा याजकस् ते सर्वे पतिताः संवत्सरं प्राजापत्येन कृच्छेण पावयेयुः" इति, यद् अपि शङ्खेनोक्तम्, "परिवित्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयाताम्" इति, तद् उभयम् अपि कामकारेण कन्यापित्राद्यननुज्ञातोद्वाहविषयम्, प्रायश्चित्तस्य गुरुत्वात् । यदा पुनः कामतः कन्यां पित्रादिदत्ताम् एव परिणयति तदा मानवं त्रैमासिकम् । पूर्वोक्तौ कृच्छ्रातिकृच्छ्रौ याज्ञवल्क्यीयं च व्रतचतुष्टयम् अज्ञातविषयम् । यमेनाप्य् अत्र विशेष उक्तः :

"कृच्छ्रौ द्वयोः पारिवेद्ये कन्यायाः कृच्छ्र एव च ।
अतिकृच्छ्रं चरेद् दाता होता चान्द्रायणं चरेत् ॥" इति ।

एतच् च पर्याहिताग्न्यादीनाम् अपि समानम्, एकयोगनिर्देशात् । यथाह गौतमः : "परिवित्तिपरिवेत्तृपर्याहितपर्याधात्रग्रेदिधिषूदिधिषूपतीनां संवस्तरं प्राकृतं ब्रह्मचर्यम्" (not in गौ०ध०) इति । अत एव वसिष्ठेनाग्रेदिधिषूपत्यादाव् इदम् एव प्रायश्चित्तम् उक्तम् : "अग्रेदिधिषूपतिः कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत तां चैवोपयच्छेत । दिधिषूपतिः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्तां पुनर् निविशेत" (व०ध० २०.९–१०) इति । अग्रेदिधिष्वादेर् लक्षणं स्मृत्यन्तरेऽभिहितम् :

"ज्येष्ठायां यद्य् अनूढायां कन्यायाम् ऊह्यतेऽनुजा ।
या साग्रेदिधिषूर् ज्ञेया पूर्वा तु दिधिषूः स्मृता ॥" इति ।

तत्राग्रेदिधिषूपतिः प्राजापत्यं कृत्वा ताम् एव ज्येष्ट्ःां पश्चाद् अन्येनोढाम् उद्वहेत् । दिधिषूपतिस् तु कृच्छ्रातिकृच्छ्रौ कृत्वा स्वोढां ज्येष्टां कनीयस्याः पूर्वविवोढ्रे दत्त्वान्याम् उद्वहेद् ।

(इति परिवेदनम्)

तथा भृतकाध्यापकभृतकाध्यापितयोश् च पयसा ब्रह्मसुवर्चलां पिबेद् इत्य् अधिकृत्य विष्णुनोक्तम् :

"भृतकाध्यापनं कृत्वा भृतकाध्यापितस् तथा ।
अनुयोगप्रदानेन त्रीन् पक्षान् नियतः पिबेत् ॥" इति ।

उत्कर्षहेतोर् अधीयानस्य किं पठसि नाशितं त्वयेत्य् एवं पर्यनुयोगोऽनुयोगप्रदानम् । अत एव स्मृत्यन्तरे,

"दत्तानुयोगान् अध्येयुः पतितान् मनुर् अब्रवीत् ।"

इत्य् उक्तम् । अत्रापि पूर्वोक्तव्रतैः सहास्य शक्त्यपेक्षया विकल्पः ।

इति भृतकाध्यापकभृतकाध्यापितप्रकरणम् ।

तथा पारदार्येऽप्य् उपपातकसामान्यप्राप्तमानवत्रैमासिकस्य याज्ञवल्क्यव्रतचतुष्टयस्यापि गुरुदारादाव् अपवाद उक्तः । तथान्यत्रापि गौतमादिभिः पारदार्यविशेषेणापवाद उक्तः । यथाह गौतमः : "द्वे परदारे त्रीणि श्रोत्रियस्य" (गौ०ध० २२.२९–३०) इति । तथा वार्षिकं प्राकृतं ब्रह्मचर्यं प्रस्तुत्य तेनैवेदम् अभिहितम् : "उपपातकेषु चैवम्" (गौ०ध० २२.३४) इति । तत्रेयं व्यवस्था : ऋतुकाले कामतो जातिमात्रब्राह्मणीगमने वार्षिकं प्राकृतं ब्रह्मचर्यं, तस्मिन्न् एव काले कर्मसाधनत्वादिगुणशालिन्या ब्राह्मण्या गमने द्वे वर्षे प्राकृतं ब्रह्मचर्यम्, तादृश्या एव श्रोत्रियभार्याया गमने त्रीणि वर्षाणि प्राकृतं ब्रह्मचर्यम्, यद् वा श्रोत्रियपत्न्यां गुणवत्यां ब्राह्मण्यां त्रैवार्षिकम्, तादृग्विधायाम् एव क्षत्रियायां द्वैवार्षिकम्, तादृश्याम् एव वैश्यायां वार्षिकम् इति व्यवस्था । एतत्समानदृष्ट्या शूद्रायां षाण्मासिकं प्राकृतं ब्रह्मचर्यं कल्पनीयम् । अत एव शङ्खेन "वैश्याम् अवकीर्णः संवत्सरं ब्रह्मचर्यं त्रिषवणं चानुतिष्ठेत्, क्षत्रियायां द्वे वर्षे, त्रीणि ब्राह्मण्यां वैश्यावच् च शूद्रायां ब्राह्मणपरिणीतायाम्" इति वर्णक्रमेण ह्रासो दर्शितः । एवं क्षत्रियस्यापि क्षत्रियादिस्त्रीषु क्रमेण द्विवार्षिकैकवार्षिकैकषाण्मासिकानि पूर्वोक्त एव विषये योजनीयानि । वैश्यस्य च वैश्याशूद्र्योर् वार्षिकषाण्मासिके । शूद्रस्य शुद्र्यां परभार्यायां षाण्मासिकम् एव । यत् त्व् आपस्तम्बीयम् "सवर्णायाम् अनन्यपूर्वायां सकृत् संनिपाते पादः, पतत्य् एवम् अभ्यासे पादः पादश्, चतुर्थे सर्वम्" (आ०ध० २.२७.११–१३) इति, तद् गौतमीयत्रिवार्षिकेण समानविषयम् । अनन्यपूर्विकायां तु चतुरभ्यासे द्वादशवार्षिकप्रायश्चित्तविधानाद् एकस्याम् एव गमनाभ्यासे नेदं प्रायश्चित्तं किं तु प्रतिगमनं पादन्यूनं कल्प्यम् । एतत् सर्वं कामकारविषयम् । अकामतः पुनर् एतद् एवार्धकॢप्त्या पूर्वोक्तविषये योजनीयम् । अनृतुकाले तु जातिमात्रब्राह्मण्यां कामतो गमने मानवं त्रैमासिकम् । जातिमात्रक्षत्रियादिस्त्रीषु पुनर् अस्मिन्न् एव विषये तदीयान्य् एव द्वैमासिकचान्द्रायणमासिकानि योजनीयानि, क्षत्रियादीनां च क्षत्रियादिस्त्रीषु द्वैमासिकादीन्य् एव । अकामतः पुनर् एतासु त्रैवर्णिकानां याज्ञवल्कीयम् ऋषभैकादशगोदानं मासं पञ्चगव्याशनं मासं प्राजापत्याचरणं च क्रमेण द्रष्टव्यम् । शूद्रागमने तु कामतो विहितं मासव्रतम् एवार्धकॢप्त्या योजनीयम् । अत एव संवर्तः ।

"शूद्रां तु ब्राह्मणो गत्वा मासं मासार्धम् एव वा ।
गोमूत्रयावकाहारस् तिष्ठेत् तत्पापमुक्तये ॥" इति ।

अकामतोऽर्धमासिकम् इत्य् अभिप्रेतम् । "ब्राह्मणश् चेदं प्रेक्षापूर्वकं ब्राह्मणदारान् अभिगच्छेत् तन्निवृत्तधर्मकर्मणः कृच्छ्रोऽनिवृत्तधर्मकर्मणोऽतिकृच्छ्रः" इति तद् ब्राह्मणभार्यायां शूद्रायां द्रष्टव्यम्, द्विजातिस्त्रीषु वा विप्रोढासु द्विस्त्रिर्व्यभिचरितासु अबुद्धिपूर्वगमने वा । तथा च संवर्तः ।

"विप्राम् अस्वजनां गत्वा प्राजापत्यं समाचरेत् ।" इति ।

कामतस् तु,

"राज्ञीं प्रव्रजितां धात्रीं साध्वीं वर्णोत्तमाम् अपि ।
क्र्च्छ्रद्वयं प्रकुर्वीत सगोत्राम् अभिगम्य च ॥"

इति यमोक्तं कृच्छ्रद्वयं द्रष्टव्यम् । चतुराद्यभ्यासे तु व्यभिचारस्य स्वैरिण्यां वृषल्याम् अवकीर्णः सचैलस् नात उदकुम्भं दद्याद् ब्राह्मणाय । वैश्यायां च चतुर्थकालाहारो ब्राह्मणान् भोजयेद् यवसभारं च गोभ्यो दद्यात् । क्षत्रियायां त्रिरात्रोपोषितो घृतपात्रं दद्यात् । ब्राह्मण्यां षड्रात्रोपोषितो गां दद्याद् गोष्व् अवकीर्णः प्राजापत्यं चरेत् । "अनूढायाम् अवकीर्णः पलालभरं सीसमाषकं च दद्यात्" इति शङ्खोक्तं वेदितव्यम् । चतुराद्यभ्यासविषयत्वं चास्य,

"चतुर्थे स्वैरिणी प्रोक्ता पञ्चमे बन्धकी मता ।"

इति स्मृत्यन्तरादव् अगम्यते । अत्रैव विषये षट्त्रिंशन्मतेऽप्य् उक्तम् :

"ब्राह्मणीं बन्धकीं गत्वा किंचिद् दद्याद् द्विजातये ।
राजन्यां चेद् धनुर् दद्याद् वैश्यां गत्वा तु चैलकम् ॥
शूद्रां गत्वा तु वै विप्र उदकुम्भं द्विजातये ।
दिवसोपोषितो वा स्याद् दद्याद् विप्राय भोजनम् ॥" इति

Bएfओरे this NSP and Pandeya add a passage within परेन्थेसेस्, which is ओमित्तेद् by Seltur. The passage in ॠउएस्तिओन् is प्रोबब्ल्य् an इन्तेर्पोलतिओन् : (अनुलोमव्यवाये गर्भे द्विगुणं यदि सा अतिदूषिता न प्रतिलोमगा भवति तदैव । अन्यजातिगमने द्वैगुण्यं प्रतिलोमदूषितासु अन्त्यावसायिस्त्रीषु च चाण्डालीगर्भे यथा गुरुतल्पत्वं तथा किंचिन् न्यूनं तारतम्यं कल्प्यम् । चाण्डालीगमने वार्षिकम् । गर्भे गुरुतल्पत्वं तथैव ज्ञेयम् ।)इदं प्रायश्चित्तजातं गर्भानुत्पत्तिविषयम् । तदुत्पत्तौ तु यद्विशेषेण यत्प्रायश्चित्तम् उक्तं तद् एव तत्र द्विगुणं कुर्यात्,

"गमने तु व्रतं यत् स्याद् गर्भे तद्द्विगुणं चरेत् ।"

इत्य् उशनःस्मरणात् । शूद्र्यां गर्भम् आदधतश् चतुर्विंशतिमते विशेष उक्तः : "वृषल्याम् अभिजातस् तु त्रीणि वर्षाणि चतुर्थकालसमये नक्तं भुञ्जीत" इति । यत् तु मनुवचनम्,

"शूद्रां शयनम् आरोप्य ब्राह्मणो यात्य् अधोगतिम् ।
जनयित्वा सुतं तस्यां ब्राह्मण्याद् एव हीयते ॥" (मा०ध० ३.१७)

इति तत् पापगौरवख्यापनपरम् । प्रातिलोम्यव्यवाये तु सर्वत्र पुरुषस्य वध एव,

"प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ।"

इति वचनात् । यत् तु वृद्धप्रचेतोवचनम्,

"शूद्रस्य ब्राह्मणीं मोहाद् गच्छतः शुद्धिम् इच्छतः ।
पूर्णम् एतद् व्रतं देयं माता यस्माद् धि तस्य सा ॥
पादहान्यान्यवर्णासु गच्छतः सार्ववर्णिकम् ॥"

इति द्वादशवार्षिकातिदेशकं, तत् स्वभार्याभ्रान्त्या गच्छतो वेदितव्यम्, मोहाद् इति विशेषणोपादानात् । यत् तु संवर्तवचनम्,

"कथंचिद् ब्राह्मणीं गच्छेत् क्षत्रियो वैश्य एव वा ।
कृच्छ्रं सान्तपनं वा स्यात् प्रायश्चित्तं विशुद्धये ॥
शूद्रस् तु ब्राह्मणीं गच्छेत् कथंचित् काममोहितः ।
गोमूत्रयावकाहारो मासेनैकेन शुध्यति ॥"

तद् अत्यन्तव्यभिचरितब्राह्मणीविषयम् । अन्त्यजागमनेऽपि प्रायश्चित्तं बृहत्संवर्तेनोक्तम् :

"रजकव्याधशैलूषवेणुचर्मोपजीविनाम् ।
एतास् तु ब्राह्मणो गत्वा चरेच् चान्द्रायणद्वयम् ॥" इति ।

इदं ब्राह्मणस्य कामतः सकृद् गमनविषयम् । क्षत्रियादीनां तु पादपादहीनं कल्प्यम् । अत्रैवापस्तम्बेनोक्तम् :

"म्लेच्छी नटी चर्मकारी रजकी बुरुडी तथा ।
एतासु गमनं कृत्वा चरेच् चान्द्रायणद्वयम् ॥" इति ।

अन्त्यजाश् च तेनैव दर्शिताः ।

"रजकश् चर्मकारश् च नटो बुरुड एव च ।
कैवर्तमेदमिल्लाश् च सप्तैते ह्य् अन्त्यजाः स्मृताः ॥" इति ।

ये तु चाण्डालादयोऽन्त्यावसायिनस् तत्स्त्रीगमने गुरुतरं प्रायश्चित्तं गुरुतल्पप्रकरणे दर्शितम् । एतासां चान्त्यजस्त्रीणां मध्ये यद् एकस्यां व्यवाये प्रायश्चित्तम् अभिहितं तत् सर्वासु भवति, सर्वासां सदृशत्वात् । यथाह उशना ।

"बहूनाम् एकधर्माणाम् एकस्यापि यद् उच्यते ।
सर्वेषां तद् भवेत् कार्यम् एकरूपा हि ते स्मृताः ॥" इति ।

अकामतस् तु गमने,

"चण्डालमेदश्वपचकपालव्रतचारिणाम् ।
अकामतः स्त्रियो गत्वा पराकव्रतम् आचरेत् ॥"

इत्य् आपस्तम्बोक्तं द्रष्टव्यम् । यच् च संवर्तवचनम्,

"रजकव्याधशैलूषवेणुचर्मोपजीविनाम् ।
स्त्रियो विप्रो यदा गच्छेत् कृच्छ्रं चान्द्रायणं चरेत् ॥"

इति तद् अप्य् अकामविषयम् । यत् तु शातातपेनोक्तम्,

"कैवर्तां रजकीं चैव वेणुचर्मोपजीविनीम् ।
प्राजापत्यविधानेन कृच्छ्रेणैकेन शुध्यति ॥"

इति तद् रेतःसेकात् प्राङ् निवृत्तिविषयम् । यत् तु उशनसोक्तम्,

"कपालिकान्नभोक्तॄणां तन्नारीगामिनां तथा ।
ज्ञानात् कृच्छ्राब्दम् उद्दिष्टम् अज्ञानाद् ऐन्दवद्वयम् ॥"

इति तद् अभ्यासविषम् । यदा तु चाण्डाल्यादिषु गच्छतो गर्भो भवति तदा,

"चाण्डाल्यां गर्भम् आरोप्य गुरुतल्पव्रतं चरेत् ।"

इत्य् उशनसोक्तं द्वादशवार्षिकं द्रष्टव्यम् । यत् तु,

"अन्त्यजायां प्रसूतस्य निष्कृतिर् न विधीयते ।
निर्वासनं कृताङ्कस्य तस्य कार्यम संशयम् ॥"

इत्य् आपस्तम्बवचनं, तत् कामकारविषयम् । स्त्रीणाम् अपि सवर्णानुलोमव्यवाये यत् पुरुषस्योक्तं त्रैवार्षिकादि तद् एव भवति,

"यत् पुंसः परदारेषु तच् चैनां चारयेद् व्रतम् ।" (मा०ध० ११.१७७)

इति मनुस्मरणात् । प्रातिलोम्येन व्यवाये एव परस्त्रीपुंसयोः प्रायश्चित्तभेदः । यथाह वसिष्ठः : "शूद्रश् चेद् ब्राह्मणीम् अभिगच्छेद् वीरणैर् वेष्टयित्वा शूद्रम् अग्नौ प्रास्येत् ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां खरम् आरोप्य महापथम् अनुव्राजयेत् पूता भवतीति विज्ञायते" (व०ध० २१.१) इति । तथा "वैश्यश् चेद् ब्राह्मणीम् अभिगच्छेल् लोहितदर्भैर् वेष्टयित्वा वैश्यम् अग्नौ प्रास्येद् ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां खरम् आरोप्य महापथम् अनुव्राजयेत् पूता भवतीति विज्ञायते" (व०ध० २१.२) इति । तथा "राजन्यश् चेद् ब्राह्मणीम् अभिगच्छेच् छरपत्रैर् वेष्टयित्वा राजन्यम् अग्नौ प्रास्येत् ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां गौरखरम् आरोप्य महापथम् अनुसंव्राजयेत् पूता भवतीति विज्ञायत" (व०ध० २१.३) इति । एवं वैश्यो राजन्यां शूद्रश् च राजन्यावैश्ययोर् इति । "पूता भवति" इति वचनाद्, राजवीथिपरिव्राजनम् एव दण्डरूपं प्रायश्चित्तान्तरनिरपेक्षं शुद्धिसाधनम् इति दर्शयति ॥

ब्राह्मण्याः प्रातिलोम्येन द्विजातिव्यवाये प्रायश्चित्तान्तरम् अप्य् उक्तं संवर्तेन :

"ब्राह्मण्य् अकामा गच्छेच् चेत् क्षत्रियं वैश्यम् एव वा ।
गोमूत्रयावकैर् मासात् तदर्धाच् च विशुध्यति ॥" इति ।

कामतस् तु तद्द्विगुणं कर्तव्यम्, "कामात् तद्द्विगुणं भवेत्" इति वचनात् । षट्त्रिंशन्मतेऽपि "ब्राह्मणी क्षत्रियवैश्यसेवायाम् अतिकृच्छ्रं कृच्छ्रातिकृच्छ्रौ चरेत् । क्षत्रिययोषित् ब्राह्मणराजन्यवैश्यसेवायां कृच्छ्रार्धं प्राजापत्यम् अतिकृच्छ्रम् । वैश्ययोषिद् ब्राह्मणराजन्यवैश्यसेवायां कृच्छ्रपादं कृच्छ्रार्धं प्राजाप्त्यम् । शूद्रायाः शूद्रसेवने प्राजापत्यम् । ब्राह्मणराजन्यवैश्यसेवायां त्व् अहोरात्रं त्रिरात्रं कृच्छ्रार्धम्" इति । शूद्रसेवायां तु विशेषो बृहत्प्रचेतसोक्तः ।

"विप्रा शूद्रेण संपृक्ता न चेत् तस्मात् प्रसूयते ।
प्रायश्चित्तं स्मृतं तस्याः कृच्छ्रं चान्द्रायणत्रयम् ॥"

एतद् अनिच्छन्त्यां स्वपतिभ्रान्त्या वा वेदितव्यम् ।

"चान्द्रायणे द्वे कृच्छ्रश् च विप्राया वैश्यसेवने ।
कृच्छ्रचान्द्रायणे स्यातां तस्याः क्षत्रियसंगमे ॥
क्षत्रिया शूद्रसंपर्के कृच्छ्रं चान्द्रायणद्वयम् ।
चान्द्रायणं सकृच्छ्रं तु चरेद् वैश्येन संगता ॥
शूद्रं गत्वा चरेद् वैश्या कृच्छ्रं चान्द्रायणोत्तरम् ।
आनुलोम्ये प्रकुर्वीत कृच्छ्रं पादावरोपितम् ॥" इति ।

प्रजातायास् तु चतुर्विंशतिमते विशये उक्तः ।

"विप्रगर्भे पराकः स्यात् क्षत्रियस्य तथैन्दवम् ।
ऐन्दवश् च पराकश् च वैश्यस्याकामकारतः ॥
शूद्रगर्भे भवेत् त्यागश् चाण्डालो जायते यतः ।
गर्भस्रावे धातुदोषैश् चरेच् चान्द्रायणत्रयम् ॥" इति ।

अकामकारत इति विशेषणोपादानात् कामकारे पुनः पराकादिकं द्विगुणं कुर्यात् । यदा त्व् अनिःसृतगर्भैव दशमासं स्थित्वा प्रजायते तदा प्रायश्चित्ताभावः,

"ब्राह्मणक्षत्रियविशां भार्याः शूद्रेण संगताः ।
अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥" (व०ध० २१.१२)

इति वसिष्ठस्मरणात् । यदा त्व् आहितगर्भैव पश्चाच् छूद्रादिभिर् व्यभिचरति तदा गर्भपातशङ्कया प्रसवोत्तरकाल एव प्रायश्चित्तं कुर्यात्,

"अन्तर्वत्नी तु या नारी समेताक्रम्य कामिना ।
प्रायश्चित्तं न कुर्यात् सा यावद् गर्भो न निःसृतः ॥
जाते गर्भे व्रतं पश्चात् कुर्यान् मासं तु यावकम् ।
न गर्भदोषस् तस्यास्ति संस्कार्यः स यथाविधि ॥"

इति स्मृत्यन्तरदर्शनात् । यदा त्व् औद्धत्यात् प्रायश्चित्तं न कुर्वन्ति तदा नार्याः कर्णादिकर्तनम् इति द्रष्टव्यम् । अन्त्यजादिगमनेऽपि स्त्रीणां स्मृत्यन्तरे प्रायश्चित्तं दर्शितम् ।

"रजकव्याधशैलूषवेणुचर्मोपजीविनः ।
ब्राह्मण्य् एतान् यदा गच्छेद् अकामाद् ऐन्दवत्रयम् ॥" इति ।

तथा चाण्डाल्याद्यन्त्यजागमनेऽपि,

"चाण्डालं पुल्कसं म्लेच्छं श्वपाकं पतितं तथा ।
ब्राह्मण्य् अकामतो गत्वा चान्द्रायणचतुष्टयम् ॥" इति ।

अकामत इति वचनात् कामतो द्विगुणं कल्प्यम् । तथा,

"चाण्डालेन तु संपर्कं यदि गच्छेत् कथंचन ।
सशिखं वपनं कुर्याद् भुञ्जीयाद् यावकौदनम् ॥
त्रिरात्रम् उपवासः स्याद् एकरात्रं जले वसेत् ।
आत्मना संमिते कूपे गोमयोदककर्दमे ॥
तत्र स्थित्वा निराहारा सा त्रिरात्रं ततः क्षिपेत् ।
शङ्खपुष्पीलतामूलं पत्रं वा कुसुमं फलम् ।
क्षीरं सुवर्णसंमिश्रं क्वाथयित्वा ततः पिबेत् ॥
एकभक्तं चरेत् पश्चाद् यावत् पुष्पवती भवेत् ।
बहिस् तावच् च निवसेद् यावच् चरति तद् व्रतम् ॥
प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् ।
गोद्वयं दक्षिणां दद्याच् छुद्ध्यै स्वायंभुवोऽब्रवीत् ॥" इति ।

एतद् अप्य् अकामविषयम् एव,"यदि गच्छेत् कथंचन" इति वचनात् । ऋष्यशृण्गेणाप्य् अन्त्यजव्यवाये प्रायश्चित्तान्तरम् उक्तम् ।

"संपृक्ता स्याद् अथान्त्यैर् या सा कृच्छ्राब्दं समाचरेत् ।" इति ।

कामतः सकृद् गमने इदम् । यदा त्व् आहितगर्भाया एव पश्चाच् चाण्डालादिव्यवायस् तदा तेनैव विशेष उक्तः ।

"अन्तर्वत्नी तु युवतिः संपृक्ता चान्त्ययोनिना ।
प्रायश्चित्तं न सा कुर्याद् यावद् गर्भो न निःसृतः ॥
न प्रचारं गृहे कुर्यान् न चाङ्गेषु प्रसाधनम् ।
न शयीत समं भर्त्रा न वा भुञ्जीत बान्धवैः ॥
प्रायश्चित्तं गते गर्भे विधिं कृच्छ्राब्दिकं चरेत् ।
हिरण्यम् अथ वा धेनुं दद्याद् विप्राय दक्षिणाम् ॥" इति ।

यदा तु कामतोऽत्यन्तसंपर्कं करोति तदा,

"अन्त्यजेन तु संपर्के भोजने मैथुने कृते ।
प्रविशेत् संप्रदीप्तेऽग्नौ मृत्युना सा विशुध्यति ॥"

इत्य् उशनसोक्तं द्रष्टव्यम् । यदा तूक्तं प्रायश्चित्तं न करोति तदा पुंलिङ्गेनाङ्कनीया वध्या वा भवेत्,

"हीनवर्णोपभुक्ता या साङ्क्या वध्याथवा भवेत् ।"

इति पराशरस्मरणात् ।

(इति पारदार्यप्रकरणम्)

तथा परिवित्तिप्रायश्चित्तानाम् अपि परिवेत्तृप्रायश्चित्तवद् व्यवस्था विज्ञेया । इयांस् तु विशेषः । परिवेत्तुर् यस्मिन् विषये कृच्छ्रातिकृच्छ्रौ तत्र परिवित्तेः प्राजापत्यम् इति, "परिवित्तिः कृच्छ्रं द्वादशरात्रं चरित्वा पुनर् निविशेत तां चैवोपयच्छेत्" इति वसिष्ठस्मरणात् ।

(इति परिवित्तिप्रकरणम्)

वार्धुष्यलवणक्रययोस् तु मनुयोगीश्वरोक्तसामान्योपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योज्यानि ॥ ३.२६५ ॥

लवणक्रयानन्तरं स्त्रीशूद्रविट्क्षत्रवध इत्य् उपपातकमध्ये पठितं तत्र प्रायश्चित्तान्तरम् अप्य् आह ।

ऋषभैकसहस्रा गा दद्यात् क्षत्रवधे पुमान् ।
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ॥ या०ध०३.२६६

वैश्यहाब्दं चरेद् एतद् दद्याद् वैकशतं गवाम् ।
षण्मासाच् छूद्रहाप्य् एतद् धेनुर् दद्याद् दशाथ वा ॥ या०ध०३.२६७

एकम् अधिकं यस्मिन् सहस्रे तद् एकसहस्रं, तस्य पूरण एकसहस्रः, ऋषभ एकसहस्रो यासां गवां ताः ऋषभैकसहस्रास् ताः क्षत्रवधे दद्यात् । अथ वा बृहत्प्रायश्चित्तं ब्रह्महत्याव्रतं वर्षत्रयं कुर्यात् । वैश्यघाती पुनर् एतत् ब्रह्महत्याव्रतम् एकवर्षं चरेत् । गवाम् ऋषभैकशतं वा दद्यात् । शूद्रघाती तु ब्रह्महत्याव्रतं षण्मासं चरेत् । यद् वा दशधेनूर् अचिरप्रसूताः सवत्सा दद्यात् । इदम् अकामतो जातिमात्रक्षत्रियादिवधविषयम्, "अकामतस् तु राजन्यं विनिपात्य" (मा०ध० ११.१२८) इति प्रक्रम्यैतेषाम् एव प्रायश्चित्तानां मानवेऽभिधानात् । दानतपसोश्च शक्त्यपेक्षया व्यवस्था । ईषद्वृत्तस्थयोस् तु विट्शूद्रयोः,

"तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः ।
वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस् तु षोडशः ॥" (मा०ध० ११.१२७)

इति मनूक्तं द्रष्टव्यम् । वृत्तस्थे क्षत्रिये तु सार्धचतुर्वार्षिकं कल्प्यम् । वृत्तशब्देन चात्र गुणादिकम् उच्यते,

"गुरुपूजा घृणा शौचं सत्यम् इन्द्रियनिग्रहः ।
प्रवर्तनं हितानां च तत्सर्वं वृत्तम् उच्यते ॥"

इति मनुस्मरणात् । यत् तु वृद्धहारीतवचनम्,

"ब्राह्मणः क्षत्रियं हत्वा षड्वर्षाणि व्रतं चरेत् ।
वैश्यं हत्वा चरेद् एवं व्रतं त्रैवार्षिकं द्विजः ॥
शूद्रं हत्वा चरेद् वर्षं वृषभैकादशाश् च गाः ॥"

इति, तत् कामकारविषयम् । श्रोत्रियक्षत्रियादिवधे तु,

"तुरीयोनं क्षत्रियस्य वधे ब्रह्महणि व्रतम् ।
अर्धं वैश्यवधे कुर्यात् तुरीयं वृषलस्य तु ॥"

इति वृद्धहारीतोक्तं द्रष्टव्यम् । यत् तु वसिष्ठवचनम्, "ब्राह्मणो राजन्यं हत्वाष्टौ वर्षाणि व्रतं चरेत्, षड् वैश्यं, त्रीणि शूद्रम्" (व०ध० २०.३१–३३) इति, तद् अपि हारीतीयेन समानविषयम् । क्षत्रिये त्व् ईषद्गुणन्यून इत्य् एतावान् विशेषः । यदा तु श्रोत्रियो वृत्तस्थश् च भवति तदा पूर्वयोर् वर्णयोर् "यो वेदाध्यायिनं हत्वा" इत्य् आपस्तम्बोक्तं द्वादशवार्षिकं द्रष्टव्यम् । प्रारब्धयोगे त्व् अश्रोत्रिये क्षत्रियादौ व्यापादिते "यागस्थक्षत्रविड्घाती चरेद् ब्रह्मणि व्रतम्" (या०ध० ३.२५१) इति द्रष्टव्यम् । श्रोत्रिये पुनर् यागस्थे क्षत्रियादौ "ब्राह्मणस्य राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यम् ऋषभैकसहस्राश् च गा दद्यात्, वैश्यवधे त्रिवार्षिकम् ऋषभैकशताश् च गा दद्यात्, शूद्रवधे सांवत्सरिकम् ऋअभैकादशाश् च गा दद्याद्" (गौ०ध० २२.१४–१६) इति गौतमोक्तो दानतपसोः समुच्चयो द्रष्टव्यः । एतच् चामतिपूर्वविषयम् । पूर्ववद् "अमतिपूर्वं चतुर्षु वर्णेषु प्रमाप्य द्वादश षट् त्रीन् संवस्तरं च व्रतान्य् आदिशेत् तेषाम् अन्ते गोसहस्रं च ततोऽर्धं तस्यार्धम् अर्धं च दद्यात् सर्वेषाम् आनुपूर्व्येण" इति शङ्खस्मरणात् । इदं च द्वादशवार्षिकं गौतमीयविषयम् एव किंचिन्न्यूनगुणे क्षत्रिये गुणाधिकयोर् वैश्यशूद्रयोश् च द्रष्टव्यम् । स्त्रीशूद्रविट्क्षत्रवध इत्य् उपपातकमध्ये विशेषत एव पठितत्वेनोत्सर्गापवादन्यायगोचरत्वाभावाद् उपपातकसामान्यप्राप्तान्य् अपि प्रायश्चित्तान्य् अत्र योजनीयानि । तत्र दुर्वृत्तक्षत्रियादौ कामतो व्यापादिते मानवं त्रैमासिकं त्रैवार्षिकं द्वैमासिकं चान्द्रायणं च वर्णक्रमेण योज्यम् । अकामतस् तु योगीश्वरोक्तं त्रिरात्रोपवाससहितम् ऋषभैकादशगोदानं मासं पञ्चगव्याशनं मासिकं च पयोव्रतं यथाक्रमेण योज्यम् । एतच् च प्राग् उक्तं व्रतजातं ब्राह्मणकर्तृके क्षत्रियादिवधे द्रष्टव्यम् ।

"अकामतस् तु राजन्यं विनिपात्य द्विजोत्तमः ।" (मा०ध० ११.१२८)

तथा,

"ब्राह्मण (ओ?) राजन्यवधे षड्वार्षिकं ।" (गौ०ध० २२.१४

तथा,

"ब्राह्मणः क्षत्रियं हत्वा ।" (व०ध० २०.३१)

इत्यादिषु मनुगौतमहारीतवसिष्ठवाक्येषु ब्राह्मणग्रहणात् क्षत्रियादिकर्तृके तु क्षत्रियादिवधे पादन्यूनं द्रष्टव्यम्,

"विप्रे तु सकलं देयं पादोनं क्षत्र्यिये स्मृतम् ।
वैश्येऽर्धम् एकपादस् तु शूद्रजातिषु शस्यते ॥"

इति वृद्धविष्णुस्मरणात् । यत् तु,

"पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता ।
वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच् च व्रतं स्मृतम् ॥"

इत्य् अङ्गिरोवचनं, तत् प्रातिलोम्येन वाग्दण्डपारुष्यविषयम् इत्य् उक्तं गोवधप्रकरणे । मूर्धावसिक्तादीनां वधे एतत् प्रायश्चित्तजातं न भवति, तेषां क्षत्रियादित्वाभावात् । अतो दण्डानुसारेणैव तद्वधे पूर्वोक्तव्रतकदम्बस्य वृद्धिह्रासौ कल्पनीयौ । दण्डस्य च वृद्धिह्रासौ दर्शितौ, "दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरे" इत्य् अत्र ॥ ३.२६६ ॥ ३.२६७ ॥

(इति क्षत्रियादिवधप्रायश्चित्तप्रकरणम्)

स्त्रीवधे प्रायश्चित्तम् आह ।

दुर्वृत्तब्रह्मविट्क्षत्रशूद्रयोषाः प्रमाप्य तु ।
दृतिं धनुर् बस्तम् अविं क्रमाद् दद्याद् विशुद्धये ॥ या०ध०३.२६८

ब्राह्मणादिभार्या दुर्वृत्ताः स्वैरिणीः प्रमाप्य क्रमेण दृतिं जलाधारचर्मकोशं धनुः कार्मुकं बस्तं छागं अविं मेषं च विशुद्धये दद्यात् । इदं च प्रातिलोम्येनान्त्यजातिप्रसूतानां ब्राह्मण्यादीनाम् अकामतो वधविषयम् । कामतस् तु ब्रह्मगर्भ आह ।

"प्रतिलोमप्रसूतानां स्त्रीणां मासावधिः स्मृतः ।
अन्तरप्रभवानां च सूतादीनाम् चतुर्द्विषट् ॥" इति ।

ब्राह्मण्यादिवधे षण्मासाः क्षत्रियायाश् चत्वारो वैश्याया द्वाव् इत्य् एवं यथार्थतयान्वयः । यदा तु वैश्यकर्मणा जीवन्तीं व्यापादयति तदा किंचिद् देयम्, "वैशिके न किंचित्" (गौ०ध० २२.२७) इति गौतमस्मरणात् । वैशिकेन वैश्यकर्मणा जीवन्त्यां व्यापादितायां किंचिद् एव देयं तच् च जलम्,

"कोशं कूपे च विप्रे वा ब्राह्मण्याः प्रतिपादयेत् ।
वधे धेनुः क्ष्तरियाया बस्तो वैश्यावधे स्मृतः ॥
शूद्रायाम् आविकं वैश्यां हत्वा दद्याज् जलं नरः ॥"

इत्य् अङ्गिरःस्मरणात् । यदा पुनः क्षत्रियादिभिः प्रातिलोम्येन व्यभिचरिता ब्राह्मणाद्या व्यापाद्यन्ते तदा गोवधप्रायश्चित्तानि यथार्हं योज्यानि ॥ ३.२६८ ॥

ईषद्व्यभिचरितब्राह्मण्यादिवधे विशेषम् आह ।

अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् । या०ध०३.२६९अब्

यदा त्व् अप्रकर्षेण दुष्टाम् ईषद्व्यभिचारिणीं ब्राह्मण्यादिकां व्यापादयति, तदा शूद्रहत्याव्रतं षाण्मासिकं कुर्यात् । यद् वा दशधेनूर् दद्यात् । इदं च षाण्मासिकम् अकामतो ब्राह्मण्या व्यापादने क्षत्रियावधे तु कामकृते द्रष्टव्यम् । कामतो वैश्यावधे दशधेनूर् दद्यात् । कामतः शूद्रावधे तु उपपातकसाधारणप्राप्तं मासं पञ्चगव्याशनम् । यदा तु कामतो ब्राह्मणीं व्यापादयति तदा द्वादशमासिकम् । क्षत्रियादीनां त्व् अकामतो व्यापादने त्रैमासिकसार्धमासिकसार्धद्वाविंशत्यहानि । यथाह प्रचेताः : "अनृतुमतीं ब्राह्मणीं हत्वा कृच्छ्राब्दं षण्मासान् वेति । क्षत्रियां हत्वा षण्मासान् मासत्रयं वेति । वैश्यां हत्वा मासत्रयं सार्धमासं वेति । शूद्रां हत्वा सार्धमासं सार्धद्वाविंशत्यहानि वा" । इति ।

यत् तु हारीतेन षड्वर्षाणि राजन्ये प्राक्र्टं ब्रह्मचर्यं त्रीणि वैश्ये सार्धं शूद्र इति प्रतिपाद्योक्तं "क्षत्रियवद् ब्राह्मणीषु वैश्यवत् क्षत्रियायां शूद्रवद् वैश्यायां शूद्रां हत्वा नवमासान्" इत् युक्तं, तद् अपि कर्मसाधनत्वादिगुणयोगिनीनां कामतो व्यापादने द्रष्टव्यम् । अकामतस् तु सर्वत्रार्धं कल्प्यम् । आत्रेय्यां तु प्राग् उक्तम् ॥

(इति स्त्रीवधप्रायश्चित्तप्रकरणम्)

हिंसाप्रायश्चित्तप्रसङ्गात्, प्रकीर्णकपदाभिधेयानुपपातकप्राणिवधेऽपि प्रायश्चित्तम् आह ।

अस्थिमतां सहस्रं तु तथानस्थिमताम् अनः ॥ या०ध०३.२६९च्द्

अस्थिमतां प्राणिनां कृकलासप्रभृतीनाम् अनुक्तनिष्कृतीनां सहस्रं हत्वा अनस्थिमतां च यूकामत्कुणदंशमशकप्रभृतीनाम् अनः शकटं तत्परिपूर्णमात्रं हत्वा शूद्रहत्याव्रतं षाण्मासिकं प्राकृतं ब्रह्मचर्यं चरेद् दशधेनूर् वा दद्यात् । सहस्रम् इति परिमाणनियमात् ततोऽधिकवधे त्व् अतिरिक्तं कल्प्यम् । अर्वाक् पुनः प्रत्येकं वधे तु किंचित् सास्थिवधे देयं प्राणायामस् त्व् अनस्थिके इति वक्ष्यति । तथानस्थिमताम् अन इत्य् एतच् च क्षोदिष्ठजन्तुविषयम् । स्थविष्ठानस्थिघुणादिजन्तुवधे तु "कृमिकीटवयो हत्वा" (मा०ध० ११.७१) इत्य् आदिना मलिनीकरणीयान्य् अभिधाय "मलिनीकरणीयेषु तप्तः स्याद् यवकस् त्र्यहम्" (मा०ध० ११.१२६) इति मनूक्तं द्रष्टव्यम् ॥ ३.२६९ ॥

किं च ।

मार्जारगोधानकुलमण्डूकांश् च पतत्रिणः ।
हत्वा त्र्यहं पिबेत् क्षीरं कृच्छ्रं वा पादिकं चरेत् ॥ या०ध०३.२७०

मार्जारादयः प्रसिद्धाः पतत्रिणश् चाषकाकोलूकास् तान् हत्वा त्रिरात्रं पयः पिबेत् पादकृच्छ्रं वाचरेत् । वाशब्दाद् योजनगमनादिकं वा कुर्यात् । यथाह मनुः ।

"पयः बिबेत् त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ।
अपः स्पृशेत् स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥" इति । (मा०ध० ११.१३३)

इदं च प्रत्येकवधविषयम् । समुदितवधे तु,

"मार्जारनकुलौ हत्वा चाषं मण्डूकम् एव च ।
श्वगोधोलूककाकांश् च शूद्रहत्याव्रतं चरेत् ॥" (मा०ध० ११.१३२)

इति मनूक्तं षाण्मासिकं द्रष्टव्यम् । यत् पुनर् वसिष्ठेनोक्तम्, "श्वमार्जारनकुलमण्डूकसर्पदहरमूषिकान् हत्वा कृच्छ्रं द्वादशरात्रं चरेत् किंचिद् दद्यात्" (व०ध० २१.२४) इति, तत् कामतोऽभ्यासविषयम् वेदितव्यम् । दहरोऽल्पमूषक छुछुन्दरी वा ॥ ३.२७० ॥

किं च ।

गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः ।
खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायनः ॥ या०ध०३.२७१

दन्तिनि व्यापादिते पञ्च नीलवृषा देयाः । शुके पक्षिणि द्विवर्षो वत्सः । रासभच्छागैडकेषु व्यापादितेषु प्रत्येकम् एको वृषः । क्रौञ्चे पक्षिणि त्रिहायनो वत्सः । देय इति सर्वत्रानुषङ्गः । मनुनाप्यत्र विशेष उक्तः ।

"वासो दद्याद् धयं हत्वा पञ्च नीलान् वृषान् गजम् ।
अजमेषाव् अनड्वाहं खरं हत्वैकहायनम् ॥" इति ॥ (मा०ध० ११.१३७) ३.२७१ ॥

किं च ।

हंसश्येनकपिक्रव्याज्जलस्थलशिखण्डिनः ।
भासं च हत्वा दद्याद् गाम् अक्रव्यादस् तु वत्सिकाम् ॥ या०ध०३.२७२

क्रव्यम् अपक्वं मांसम् अत्तीति क्रव्याव्याद् व्याघ्रसृगालादिर् मृगविशेषः, वानरसाहचर्यात् । तथा हंसश्येनसमभिव्याहारात् कङ्कगृध्रादिः पक्षिविशेषश् च गृह्यते । जलशब्देन जलचरा बकादयो गृह्यन्ते । स्थलशब्देन स्थलचरा बलाकादयः । शिखण्डी मयूरः । भासः पक्षिविशेषः । शेषाः प्रसिद्धाः । एषां प्रत्येकं वधे गाम् एकां दद्यात् । अक्रव्यादस् तु हरिणादिमृगान् खञ्जरीटादिपक्षिविशेषान् हत्वा वत्सतरीं दद्यात् । तथा च मनुः ।

"हत्वा हंसं बलाकां च बकं बर्हिणम् एव च ।
वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ॥
वासो दद्याद् धयं हत्वा पञ्च नीलान् वृषान् गजम् ।
अजमेषाव् अनड्वाहं खरं हत्वैकहायनम् ॥
क्रव्यादस् तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् ।
अक्रव्यादो वत्सतरीम् उष्ट्रं हत्वा तु कृष्णलम् ॥" इति ॥ (मा०ध० ११.१३६–३८) ३.२७२ ॥

किं च ।

उरगेष्व् आयसो दण्डः पण्डके त्रपु सीसकम् ।
कोले घृतघटो देय उष्ट्रे गुञ्जा हयेऽंशुकम् ॥ या०ध०३.२७३

सरीसृपेषु व्यापादितेषु अयोमयो दण्डस् तीक्ष्णप्रान्तो देयः । पण्डके नपुंसके व्यापादिते त्रपु सीसकं च माषपरिमितं दद्यात् पलालभारं वा, "पण्डकं हत्वा पलालभारं त्रपु सीसकं वा दद्यात्" इति स्मृत्यन्तरदर्शनात् । यद्य् अपि,

"पण्डको लिङ्गहीनः स्यात् संस्कारार्हश् च नैव सः ।"

इति देवलवचनेन सामान्येनैव स्त्रीपुंलिङ्गरहितो निर्दिष्टस् तथापि न गोब्राह्मणरूपस्येह विवक्षा । गोब्राह्मणवधनिषेधस्य जात्यवच्छेदेन प्रवृत्तेः लिङ्गविरहिणि च पण्डे जातिसमवायाविशेषात् तन्निमित्तम् एव लघुप्रायश्चित्त मुक्तम् । तस्मान् मृगपक्षिण एव विवक्षिताः, मृगपक्षिसमभिव्याहाराच् च । कोले सूकरे व्यापादिते घृतकुम्भो देयः । उष्ट्रे गुञ्जा देया । वाजिनि विनिपातितेऽंशुकं वस्त्रं देयम् । तथा च मनुः ।

"अभ्रिं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः ।
पलालभारकं षण्ढे सैसकं चैकमाषकम् ॥" इति ॥ (मा०ध० ११.१३४) ३.२७३ ॥

किं च ।

तित्तिरौ तु तिलद्रोणं गजादीनाम् अशक्नुवन् ।
दानं दातुं चरेत् कृच्छ्रम् एकैकस्य विशुद्धये ॥ या०ध०३.२७४

तित्तिरौ पतत्त्रिणि व्यापादिते तिलद्रोणं दद्यात् । द्रोणशब्दश् च परिमाणविशेषवचनः ।

"अष्टमुष्टि भवेत् किंचित् किंचिद् अष्टौ तु पुष्कलम् ।
पुष्कलानि तु चत्वार्य् आढकः परिकीर्तितः ॥
चतुराढको भवेद् द्रोण इत्य् एतन् मानलक्षणम् ॥"

इति स्मरणात् । पूर्वोक्तानां गजादीनां व्यापादने निर्धनत्वेन नीलवृषपञ्चकादिदानं कर्तुम् अशक्नुवन् प्रत्येकं कृच्छ्रं चरेद् विशुद्ध्यर्थम् । कृच्छ्रशब्दश् चात्र लक्षणया क्लेशसाध्ये तपोमात्रे द्रष्टव्यः । तपांसि च गौतमेन दर्शितानि : "संवत्सरः षण्मासाश् चत्वारस् त्रयो द्वाव् एकश् चतुर्विंशत्यहो द्वादशाहः षडहस् त्र्यहोऽहोरात्र इति कालः । एतान्य् एवानादेशे विकल्पेन क्रियेरन्न् एनसि गुरुणि गुरूणि लघुनि लघूनि" (गौ०ध० १९.१७–१९) इति । यदि कृच्छ्रशब्देन मुख्योऽर्थो गृह्यते तर्हि गजे शुके वा विशेषेण प्रजापत्य एव स्यात् । न च तद् युक्तम् । तपोमात्रपरत्वे तु दानगुरुलघुभावाकलनया तपसोऽपि गुरुलघुभावो युज्यते । ततश् च गजे द्विमासिकं यावकाशनं शुके तूपवास इति । एवम् अन्यत्रापि दानानुसारेण प्रायश्चित्तं कल्प्यम् ॥ ३.२७४ ॥

किं चाह ।

फलपुष्पान्नरसजसत्त्वघाते घृताशनम् । या०ध०३.२७५अब्

उदुम्बरादौ फले मधूकादौ च कुसुमे चिरस्थितभक्तसक्त्वाद्यन्ने च रसे गुडादौ च यानि सत्त्वानि प्राणिनो जायन्ते तेषां घाते घृतप्राशनं शुद्धिसाधनम् । इदं च घृतप्राशनं भोजनकार्ये एव विधीयते, प्रायश्चित्तानां तपोरूपत्वात् । दर्शितं च तपोरूपत्वम् आङ्गिरसे प्रायश्चित्तपदनिर्वचनव्याजेन ।

"प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते ।
तपोनिश्चयसंयुक्तं प्रायश्चित्तं तद् उच्यते ॥" इति ॥

प्रतिप्राणिप्रायश्चित्तस्यानन्त्यात् पृष्टाकोटेनापि वक्तुम् अशक्यत्वात् सामान्येन प्रायश्चित्तम् आह ।

किंचित् सास्थिवधे देयं प्राणायामस् त्व् अनस्थिके ॥ या०ध०३.२७५च्द्

अस्थिमतां कृकलासादिप्राणिनां न्यूनसहस्रसंख्यानां प्रत्येकं वधे किंचित् स्वल्पं धान्यहिरण्यादि देयम् । अनस्थिके त्व् एकः प्राणायामः । तत्र किंचिद् इति यदा हिरण्यं दीयते तदा पणमात्रम्, "अस्थिमतां वधे पणो देयः" इति सुमन्तुस्मरणात् । यदा तु धान्यं देयं तदाष्टमुष्टि देयम् "अष्टमुष्टि भवेत् किंचित्" इति स्मरणात् । एतच् चानुक्तनिष्कृतिप्राणिवधविषयम् । यत्र तु प्रायश्चित्तविशेषः श्रूयते तत्र स एव भवति । यथाह पराशरः ।

"हंषसारसचक्राह्वक्रौञ्चकुक्कुटघातकः ।
मयूरमेषौ हत्वा च एकभक्तेन शुध्यति ॥
मद्गुं च टिट्टिभं चैव शुकं पारावतं तथा ।
आडिकां च बकं हत्वा शुध्येद् वै नक्तभोजनात् ॥
चाषकाककपोतानां सारीतित्तिरघातकः ।
अन्तर्जल उभे संध्ये प्राणायामेन शुध्यति ॥
गृध्रश्येनविहङ्गानाम् उलूकस्य च घातकः ।
अपक्वाशी दिनं तिष्टेद् द्वौ कालौ मारुताशनः ॥
हत्वा मूषिकमार्जारसर्पाजगरडुण्डुभान् ।
प्रत्येकं भोजयेद् विप्रांल् लोहदण्डश् च दक्षिणा ॥
सेधाकच्छपगोधानां शशशल्यकघातकः ।
वृन्ताकफलगुञ्जाश्य् अहोरात्रेण शुध्यति ॥
मृगरोहिवराहाणाम् अविकाबस्तघातने ।
वृकजम्बूकऋक्षाणां तरक्षूणां च घातकः ॥
तिलप्रस्थं त्व् असौ दद्याद् वायुभक्षो दिनत्रयम् ।
गजमेषतुरङ्गोष्ट्रगवयानां निपातने ॥
प्रायश्चित्तम् अहोरात्रं त्रिसंध्यं चावगाहनम् ।
खरवानरसिंहानां चित्रकव्याघ्रघातकः ॥
शुद्धिम् एति त्रिरात्रेण ब्राह्मणानां च भोजनैः ॥" इति ॥

एवम् अन्येषाम् अपि स्मृतिवचसां देशकालाद्यपेक्षया विषयव्यवस्था कल्पनीया ॥ ३.२७५ ॥

(इति हिंसाप्रायश्चित्तप्रकरणम्)

"इन्धनार्थं द्रुमच्छेदः" (या०ध० ३.२४०) इत्य् उपपातकोद्देशे पठितं हिंसाप्रसङ्गलोभेन तद्व्युत्क्रमपठितम् अपपकृष्य तत्र प्रायश्चित्तम् आह ।

वृक्षगुल्मलतावीरुच्छेदने जप्यम् ऋक्शतम् ।
स्याद् ओषधिवृथाछेदे क्षीराशी गोऽनुगो दिनम् ॥ या०ध०३.२७६

फलदानां आम्रपनसादिवृक्षणां गुल्मादीनां च यज्ञाद्यदृष्टार्थं विना छेदने ऋचां गायत्र्यादीनां शतं जप्तव्यम् । ओषधीनां तु ग्राम्यारण्यानां वृथैव छेदने दिनं कृत्स्नम् अहर् गवां परिचर्यार्थम् अनुगम्यान्ते क्षीरं पिबेद् आहारान्तरपरित्यागेन । पञ्चयज्ञार्थे तु न दोषः । एतच् च फलादिद्वारेणोपयोगिषु द्रष्टव्यम्,

"फलदानां तु वृक्षाणां छेदने जप्यम् ऋच्छतम् ।
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥" (मा०ध० ११.१४३)

इति मनुस्मरणात् । दृष्टार्थत्वेऽपि कर्षणाङ्गभूतहलाद्यर्थत्वे न दोषः, "फलपुष्पोपगान् पादपान् न हिंस्यात् कर्षणकरणार्थं चोपहन्यात्" (व०ध० १९.११–१२) इति वसिष्ठस्मरणात् । यत्र तु स्थानविशेषाद् दण्डाधिक्यं तत्र प्रायश्चित्ताधिक्यम् अपि कल्पनीयम् । तद् उक्तम् ।

चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये ।

जातद्रुमाणां द्विगुणो दमो वृक्षेऽथ विश्रुते ॥ इति । (या०ध० २.२२८)

अयं च ऋक्शतजपो द्विजातिविषयो न पुनः शूद्रादिविषयः, तेषां जपेऽनधिकारात् । अतस् तेषां दण्डानुसारेण द्विरात्रादिकं कल्पनीयम् । उपपातकमध्ये विशेषतः पाठस्यानर्थक्यपरिहारार्थम् उपपातकसाधारणप्राप्तं प्रायश्चित्तम् अप्य् अत्र भवति । तच् च गुरुत्वाद् अभ्यासविषयं कल्प्यम् ॥ ३.२७६ ॥

पुंश्चलीवानरादिवधप्रायश्चित्तप्रसङ्गात् तद्दंशनिमित्तं प्रायश्चित्तम् आह ।

पुंश्चलीवानरखरैर् दष्टः श्वोष्ट्रादिवायसैः ।
प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति ॥ या०ध०३.२७७

पुंश्चल्यादयः प्रसिद्धाः एतैर् दष्टः पुमान् अन्तर्जले प्राणायामः कृत्वा घृतं प्राश्य विशुध्यति । आदिग्रहणाच् छृगालादीनां ग्रहणम् । यथाह मनुः ।

"श्वसृगालखरैर् दष्टो ग्राम्यैः क्रव्याद्भिर् एव च ।
नराश्वोष्ट्रवराहैश् च प्राणायामेन शुध्यति ॥" इति । (मा०ध० ११.२००)

अयं च घृतप्राशो भोजनप्रत्याम्नायो द्रष्टव्यः, प्रायश्चित्तानां तपोरूपत्वेन शरीरसंतापनार्थत्वात् । एतद् अशक्तविषयम् । "श्वसृगालमृगमहिषाजाविकखरकरभनकुलमार्जारमूषकप्लवबककाकपुरुषदष्टानाम् आपोहिष्टेत्यादिभिः स्नानं प्राणायामत्रयं च" इति यत् सुमन्तुवचनं, तन् नाभेर् अधःप्रदेश ईषद्दष्टविषयम् । यत् त्व् अङ्गिरोवचनम्,

"ब्रह्मचारी शुना दष्टस् त्र्यहं सायं पिबेत् पयः ।
गृहस्थश् चेद् द्विरात्रं तु एकाहं योऽग्निहोत्रवान् ॥
नाभेर् ऊर्ध्वं तु दष्टस्य तद् एव द्विगुणं भवेत् ।
स्याद् एतत्त्रिगुणं वक्त्रे मस्तके तु चतुर्गुणम् ॥"

इति, तत् सम्यग्दष्टविषयम् । क्षत्रियवैश्ययोस् तु पादपादन्यूनं कल्पनीयम् । शूद्रस्य तु,

"शूद्राणां चोपवासेन शुद्धिर् दानेन वा पुनः ।
गां वा दद्याद् वृषं चैकं ब्राह्मणाय विशुद्धये ॥"

इति बृहदङ्गिरसोक्तं द्रष्टव्यम् । यत् तु वसिष्ट्ःवचनम्,

"ब्राह्मणस् तु शुना दष्टो नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥" (व०ध० २३.३१)

इति, तद् उत्तमाङ्गदंशविषयम् ॥ स्त्रीणां तु,

"ब्राह्मणी तु शुना दष्टा जम्बुकेन वृकेण वा ।
उदितं ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर् भवेत् ॥"

इति पराशरोक्तं द्रष्टव्यम् । कृच्छ्रादिव्रतस्थायाः पुनस् तेनैव विशेषो दर्शितः ।

"त्रिरात्रम् एवोपवसेच् छुना दष्टा तु सुव्रता ।
सघृतं यावकं भुक्त्वा व्रतशेषं समापयेत् ॥" इति ।

रजस्वलायाम् अपि विशेषः पुलस्त्येन दर्शितः ।

"रजस्वला यदा दष्टा शुना जम्बुकरासभैः ।
पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥
ऊर्ध्वं तु द्विगुणं नाभेर् वक्त्रे तु त्रिगुणं तथा ।
चतुर्गुणं स्मृतं मूर्ध्नि दष्टेऽन्यत्राप्लुतिर् भवेत् ॥" इति ।

अन्यत्रारजस्वलावस्थायाम् । यस् तु श्वादिभिर् घ्राणादिनोपहन्यते तस्य शातातपेन विशेष उक्तः ।

"शुना घ्राणावलीढस्य नखैर् विलिखितस्य च ।
अद्भिः प्रक्षालनं शौचम् अग्निना चोपचूलनम् ॥" इति ।

उपचूलनं तापनम् । यदा तु श्वादिदंशशस्त्रघातादिजनितव्रणे कृमय उत्पद्यन्ते, तदा मनुना विशेष उक्तः ।

"ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे ।
कृमिर् उत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥
गवां मूत्रपुरीषेण त्रिसंध्यं स्नानम् आचरेत् ।
त्रिरात्रं पञ्चगव्याशी त्व् अधोनाभ्या विशुध्यति ॥
नाभिकण्ठान्तरोद्भूते व्रणे चोत्पद्यते कृमिः ।
षड्रात्रं तु त्र्यहं पञ्चगव्याशनम् इति स्मृतम् ॥" (not in मा०ध०)

तत्र श्वादिदंशव्रणे तद्दंशप्रायश्चित्तानन्तरम् इदं कर्तव्यम् । शस्त्रादिजनितव्रणे त्व् एतद् एव त्र्यहं पञ्चगव्याशनादिकम् इति शेषः । क्षत्रियादिषु तु प्रतिवर्णं पादपादह्रासः कल्पनीयः ॥ ३.२७७ ॥

शारीरत्वग्धातुविच्छेदकदंशप्रायश्चित्तप्रसङ्गाच् छारीरचरमधातुविच्छेदकस्कन्दने प्रायश्चित्तम् आह ।

यन् मेऽद्य रेत इत्य् आभ्यां स्कन्नं रेतोऽभिमन्त्रयेत् ।
स्तनान्तरं भ्रुवोर् मध्यं तेनानामिकया स्पृशेत् ॥ या०ध०३.२७८

यदि कथंचित् स्त्रीसंभोगम् अन्तरेणापि हत्ःाच् चरमधातुर् विसृष्टस् तदा तत् स्कन्नं रेतो "यन् मेऽद्य रेतः पृथिवीम् अस्कन्", "पुनर् माम् ऐत्व् इन्द्रियम्" (तै०आ० १.३०.१) इत्य् आभ्यां मन्त्राभ्याम् अभिमन्त्रयेत् । तेन चाभिमन्त्रितेन रेतसा स्तनयोर् भ्रुवोश् च मध्यम् उपकनिष्टिकया स्पृशेत् । अन्ये तु स्कन्नस्य रेतसोऽशुचित्वेन स्पर्शकर्मण्य् अयोग्यत्वात् तेनेत्य् अनामिकासाहचर्यात् स्वबुद्धिस्थाङ्गुष्ठपरत्वेन व्याचक्षते । तेनाङ्गुष्ठेनानामिकया चेत्य् अङ्गुष्ठपदग्रहणे वृत्तभङ्गप्रसङ्गात् तेनेति निर्दिष्टम् इति । तद् असत्, अङ्गुष्ठस्याबुद्धिस्थत्वात् । न च शब्दसंनिहितपरित्यागेनार्थाद् बुद्धिस्थस्यान्वयो युक्तः । तद् उक्तम् ।

"गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् ।
शब्दान्तरैर् विभक्त्या वा धूमोऽयं ज्वलतीति वत् ॥" इति ।

न च रेतसोऽशुचित्वेन स्पर्शायोग्यत्वम् । विधानाद् एव प्रायश्चित्तार्थरूपस्पर्शे योग्यत्वम् अवगम्यते प्रायश्चित्तरूपपान इव सुरायाः । इदं च प्रायश्चित्तं गृहस्थस्यैवाकामतः स्कन्नविषयम्, ब्रह्मचारिणः स्वप्ने जागरणावस्थायां च गुरुप्रायश्चित्तस्य दर्शनात् । यत् तु यमवचनम्, NSP reads : मनुवचनम्.

"गृहस्थः कामतः कुर्याद् रेतसः स्कन्दनं भुवि ।
सहस्रं तु जपेद् देव्यः प्राणायामैस् त्रिभिः सह ॥"

इति, तत् कामकारविषयम् ॥ ३.२७८ ॥

किं च ।

मयि तेज इति छायां स्वां दृष्ट्वाम्बुगतां जपेत् ।
सावित्रीम् अशुचौ दृष्टे चापल्ये चानृतेऽपि च ॥ या०ध०३.२७९

स्वीयं प्रतिबिम्बम् अम्बुगतं दृष्टं चेत् तदा "मयि तेज इन्द्रियम्" इतीमं मन्त्रं जपेत् । अशुचिद्रव्यदर्शने पुनः सावित्रीं सवितृदैवत्यां "तत् सवितुर्" इत्यादिकाम् ऋचं जपेत् । तथा वाक्पाणिपादादिचापल्यकरणे ताम् एव जपेत्, अनृतवचने च । एतत् कामकारे द्रष्टव्यम् । अकामकृते तु,

"सुप्त्वा भुक्त्वा च क्षुत्वा च निष्टीव्योक्त्वानृतानि च ।
पीत्वापोऽध्येष्यमाणश् च आचामेत्प्रयतोऽपि सन् ॥" (मा०ध० ५.१४५)

इति मनूक्तमाचमनं द्रष्टव्यम् । यत्तु संवर्तवचनम्,

"क्षुते निष्टीवने चैव दन्तश्लिष्टे तथानृते ।
पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥"

इति, तद् अल्पप्रयोजने जलाभावे वा द्रष्टव्यम् । स्त्रीशूद्रविट्क्षत्रवधानन्तरं निन्दितार्थोपजीवनं पठितं तत्र च मनुयोगीश्वरप्रोक्तान्य् उपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया वेदितव्यानि । नास्तिक्येऽपि तानि प्रायश्चित्तानि तथैव प्रयोज्यानि, नास्तिक्यशब्देन च वेदनिन्दनं, तेन जीवनम् उच्यते तत्रोभयत्रापि वसिष्ठेन प्रायश्चित्तान्तरम् अप्य् उक्तम् : "नास्तिकः कृच्छ्रं द्वादशरात्रं चरित्वा विरमेन् नास्तिक्यान् नास्तिकवृत्तिस् त्व् अतिकृच्छ्रम्" (व०ध० २१.२९–३०) इति । एतच् च सकृत्करणविषयम् । उपपातकप्रायश्चित्तान्य् अभ्यासविषयाणि । यच् च शङ्खेनोक्तम् "नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी मिथ्याभिशंसी इत्य् एते पञ्चसंवत्सरं ब्राह्मणगृहे भैक्षं चरेयुः" इति, यच् च हारीतेन "नास्तिको नास्तिकवृत्तिः" इति प्रक्रम्य, "पञ्चतपोऽभ्रावकाशजलशयनान्य् अनुतिष्ठेयुर् ग्रीष्मवर्षाहेमन्तेषु" इति, तद् उभयम् अप्य् अन्ताभिनिवेशेन बहुकालाभ्यासविषयम् ॥ ३.२७९ ॥

"नास्तिक्यानन्तरं व्रतलोपश् च" (या०ध० ३.२३६)इत्य् उक्तम् । तत्रावकीर्णस्याप्रसिद्धत्वात् तल्लक्षणकथनपूर्वकं प्रायश्चित्तम् आह ।

अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम् ।
गर्दभं पशुम् आलभ्य नैरृतं स विशुध्यति ॥ या०ध०३.२८०

ब्रह्मचार्य् उपकुर्वाणको नैष्टिकश् चासौ योषितं गत्वावकीर्णी भवति । चरमधातोर् विसर्गोऽवकीर्णं, तद् यस्यास्ति सोऽवकीर्णी, स निरृतिदैवत्येन गर्दभपशुना यागं कृत्वा विशुध्यति । गर्दभस्य पशुत्वे सिद्धेऽपि पुनः पशुग्रहणं "अथ पशुकल्पः" (आश्व०गृ०ृ १.११.१) इत्य् आश्वलायनादिगृह्योक्तपशुधर्मप्राप्त्यर्थम् । एतच् चारण्ये चतुष्पथे लौकिकेऽग्नौ कार्यम्, "ब्रह्मचारी चेत् स्त्रियम् उपेयाद् अरण्ये चतुष्पथे लौकिकेऽग्नौ रक्षोदैवतं गर्दभं पशुम् आलभेत" (व०ध० २३.१) इति वसिष्ठस्मरणात् ॥ तथा रात्राव् एकाक्षिविकलेन यष्टव्यम् । तथा च मनुः ।

"अवकीर्णी तु काणेन रसभेन चतुष्पथे ।
पाकयज्ञविधानेन यजेत निरृतिं निशि ॥" इति । (मा०ध० ११.११९)

पशोर् अभावे चरुणा यष्टव्यम्, "निरृतिं वा चरुं निर्वपेत् । तस्य जुहुयात् कामाय स्वाहा कामकामाय स्वाहा निरृत्यै स्वाहा रक्षोदेवताभ्य स्वाहा" (व०ध० २३.२–३) इति वसिष्ठस्मरणात् । एतच् चाशक्तविषयम् । शक्तस्य पुनर् गर्दभेनावकीर्णी निरृतिं चतुष्पथे यजेत् । "तस्याजिनम् ऊर्ध्ववालं परिधाय लोहितपात्रः सप्तगृहान् भैक्षं चरेत् कर्माचक्षाणः, संवत्सरेण शुध्यति" (गौ०ध० २३.१८–१९) इति गौतमोक्तो वार्षिकतपःसमुचितः पशुयागश् चरुर् वा द्रष्टव्यः । तथा त्रिषवणस्नानम् एककालभोजनं च द्रष्टव्यम्,

"एतस्मिन्न् एनसि प्राप्ते वसित्वा गर्दभाजिनम् ।
सप्तागारां चरेद् भैक्षं स्वकर्म परिकीर्तयन् ॥
तेभ्यो लब्धेन भैक्षेण वर्तयन्न् एककालिकम् ।
उपस्पृशंस् त्रिषवणं त्व् अब्देन स विशुध्यति ॥" (मा०ध० ११.१२३–२४)

इति मनुस्मरणात् । इदं च वार्षिकम् अश्रोत्रियब्राह्मणपत्न्यां वैश्यायां श्रोत्रियपत्न्यां च द्रष्टव्यम् । यदा तु गुणवत्योर् ब्राह्मणीक्षत्रिययोः श्रोत्रियभार्ययोर् अवकिरति तदा त्रिवार्षिकं द्विवार्षिकं च क्रमेण द्रष्टव्यम् । यथाहतुः शङ्खलिखितौ "गुप्तायां वैश्यायाम् अवकीर्णः संवत्सरं त्रिषवणम् अनुतिष्ठेत् । क्षत्रियायां तु द्वे वर्षे ब्राह्मण्यां त्रीणि वर्षाणि" इति । यत् त्व् अङ्गिरोवचनम्,

"अवकीर्णनिमित्तं तु ब्रह्महत्याव्रतं चरेत् ।
चीरवासास् तु षण्मासांस् तथा मुच्येत किल्बिषात् ॥"

इति, तद् अकामतो मानवाब्दिकविषयम् ईषद्व्यभिचारिणीविषयं वा । अत्यन्तव्यभिचरितासु पुनः "स्वैरिण्यां वृषल्याम् अवकीर्णः सचैलं स्नात उदकुम्भं दद्याद् ब्राह्मणाय । वैश्यायां त्रिरात्रम् उपोषितो घृतपात्रं दद्यात् । ब्राह्मण्यां षड्रात्रम् उपोषितो गां च दद्यात् । गोष्व् अवकीर्णः प्राजपत्यं चरेत् । षण्ढायाम् वकीर्णः पलालभारं सीसमाषकं च दद्यात्" इति शङ्खलिखितोदितं वेदितव्यम् । एतच् चावकीर्णिप्रायश्चित्तं त्रैवर्णिकस्यापि ब्रह्मचारिणः समानम्,

"अवकीर्णी द्विजो राजा वैश्यश् चापि खरेण तु ।
इष्ट्वा भैक्षाशनो नित्यं शुध्यन्त्य् अब्दात् समाहिताः ॥"

इति शाण्डिल्यस्मरणात् । यदा स्त्रीसंभोगम् अन्तरेण कामतश् चरमधातुं विसृजति दिवा च स्वप्ने वा विसृजति, तदा नैरृटयागमात्रं द्रष्टव्यम्, "एतद् एव रेतसः प्रयत्नोत्सर्गे दिवा स्वप्ने च" (व०ध० २३.४) इति वसिष्ठेन यागमात्रस्यातिदिष्टत्वात् । व्रतान्तरेषु कृच्छ्रचान्द्रायणादिष्व् अतिदिष्टब्रह्मचर्येषु स्कन्दने सत्य् एतद् एव यागमात्रम्, "व्रतान्तरेषु चैवम्" (व०ध० २३.४) इति तेनैवातिदिष्टत्वात् । स्वप्नस्कन्दने तु मनूक्तं द्रष्टव्यम् ।

"स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रम् अकामतः ।
स्नात्वार्कम् अर्चयित्वा त्रिः पुनर् माम् इत्य् ऋचं जपेत् ॥" इति । (मा०ध० २.१८१)

वानप्रस्थादीनां चेदम् एव ब्रह्मचर्यखण्डने अवकीर्णिव्रतं कृच्छ्रत्रयाधिकं भवति,

"वानप्रस्थो यतिश् चैव स्कन्दने सति कामतः ।
पराकत्रयसंयुक्तम् अवकीर्णिव्रतं चरेत् ॥"

इति शाण्डिल्यस्मरणात् । यदा गार्हस्थ्यपरिग्रहेण संन्यासात् प्रच्युतो भवति तदा संवर्तोक्तं द्रष्टव्यम् ।

"संन्यस्य दुर्मतिः कश्चित् प्रत्यापत्तिं व्रजेद् यदि ।
स कुर्यात् कृच्छ्रम् अश्रान्तः षण्मासात् प्रत्यनन्तरम् ॥" इति ।

प्रत्यापत्तिर् गार्हस्थ्यपरिग्रहः । अत एव वसिष्ठः ।

"यस् तु प्रव्रजितो भूत्वा पुनः सेवेत मैथुनम् ।
षष्टिवर्षसहस्राणि विष्टायां जायते कृमिः ॥" इति ।

तथा च पराशरः ।

"यः प्रत्यवसितो विप्रः प्रव्रज्यातो विनिर्गतः ।
अनाशकनिवृत्तश् च गार्हस्थ्यं चेच् चिकीर्षति ॥
स चरेत् रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ।
जातकर्मादिभिः सर्वैः संस्कृतः शुद्धिम् आप्नुयात् ॥" इति ।

तत्र ब्राह्मणस्य षाण्मासिकः कृच्छ्रः पुनः संन्याससंस्कारश् च, क्षत्रियस्य चान्द्रायणत्रयम्, वैश्यस्य कृच्छ्रत्रयम् इति व्यवस्था । अथ वा ब्राह्मणस्यैव शक्तिसकृदभ्यासाद्यपेक्षया व्यवस्थितं प्रायश्चित्तत्रयं द्रष्टव्यम् ।NSP and Pandeya add हेरे a passage within परेन्थेसेस् : (चितिभ्रष्टा तु या नारी मोहाद्विचलिता क्वचित् । प्राजापत्येन शुध्येत् तु तस्माद् एवापकर्मणः ॥ चितिभ्रष्टा भर्तुर् अनुगमने आपस्तम्बस्मरणात् क्वचिद् इत्य् उक्तम् ।) ठिस् is ओमित्तेद् by Seltur. तथा मरणसंन्यासिनाम् अपि यमेन प्रायश्चित्तम् उक्तम् ।

"जलाग्न्युद्बन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः ।
विषप्रपतनप्रायशस्त्रघातच्युताश् च ये ॥
नवैते प्रत्यवसिताः सर्वलोकबहिष्कृताः ।
चान्द्रायणेन शुध्यन्ति तप्तकृच्छ्रद्वयेन वा ॥" इति ।

इदं च चान्द्रायणं तप्तकृच्छ्रद्वयात्मकं प्रायश्चित्तद्वयं शक्त्याद्यपेक्षया व्यवस्थितं विज्ञेयम् । यदा तु "शस्त्रघातहताश् च" इति पाठः तदात्मत्यागाद्यशास्त्रीयमरणनिमित्तस् तत्पुत्रादेर् उपदेशो द्रष्टव्यः । यत् पुनर् वसिष्ठेनोक्तम् "जीवन्न् आत्मत्यागी कृच्छ्रं द्वादशरात्रं चरेत् त्रिरात्रं चोपवसेत्" (व०ध० २३.१९) इति, तद् अप्य् अध्यवसिताशास्त्रीयमरणस्यैव कथंचिज्जीवने शक्त्यपेक्षया द्रष्टव्यम् । अथ वाध्यवसायमात्रे त्रिरात्रं शस्त्रादिक्षतस्य द्वादशरात्रम् इति व्यवस्था । इदं चावकीर्णिप्रायश्चित्तं गुरुदारतत्समव्यतिरिक्तागम्यागमनविषयम्, तत्र गुरुतरप्रायश्चित्तस्य दर्शितत्वात् । न च लगुनावकीर्णिव्रतेन द्वादशवार्षिकाद्यपनोद्यमहापातकदोषनिबर्हणम् उचितम् । न च ब्रह्मचारित्वोपाधिकं लघुप्रायश्चित्तविधानम् इति युक्तम्, आश्रमान्तराणां द्वैगुण्यादिवृद्धेर् ब्रह्महत्याप्रकरणे दर्शितत्वात् । न चात्रागम्यागमनप्रायश्चित्तं पृथक् कर्तव्यम्, ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनेनान्तरीयकत्वात्, अतोऽन्यत्रापि यस्मिन् निमित्ते यन्निमित्तान्तरं समं न्यूनं वावश्यंभाविनः । तत् पृथक् नैमित्तिकं प्रयुङ्क्ते । यथा,

"अवगूर्य चरेत् कृच्छ्रम् अतिकृच्छ्रं निपातने ।
कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽभ्यन्तरशोणिते ॥" (मा०ध० ११.२०९)

इत्य् अत्र शोणितोत्पादननिमित्तेऽवगूरणनिपातलक्षणं निमित्तद्वयम् अवश्यंभावित्वेन स्वनैमित्तिकं कृच्छ्रम् अतिकृच्छ्रं च न प्रयुङ्क्ते, एवम् अन्यत्राप्य् ऊहनीयम् । यत्र पुनर् निमित्तानाम् अन्तर्भावनियमो नास्ति तत्र पुनर् नैमित्तिकानि पृथक् प्रयुज्यन्ते । निमित्तानि यथा : "यदा पर्वणि परभार्यां रजस्वलां तैलाभ्यक्तो दिवा जले गच्छति" इति ।

ननु ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनान्तरीयकत्वं नास्त्य् एव, पुत्रिकागमनेऽगम्यागमनदोषाभावात् । तथा हि न तावत् पुत्रिका कन्या अक्षतयोनित्वात्, नापि परभार्या प्रदानाभावात्, नापि वेश्या अतद्वृत्तित्वात्, नापि विधवा भर्तृमरणाभावात् । अतः पुत्रिकायाः क्वाप्य् अनन्तर्भावाद् अप्रतिषिद्धेति तत्रैव विप्लुतस्य केवलम् अवकीर्णिव्रतम् । अन्यत्र विप्लुतस्य तु निमित्तान्तरसंनिपाताद् अवकीर्णिव्रतं नैमित्तिकान्तरम् अपि प्रयोक्तव्यम् इति ।

तद् असत्, पुत्रिकाया परभार्यास्व् अन्तर्भावात् । प्रदानाभावेऽपि विवाहसंस्कारेण संस्कृतत्वात्, गान्धर्वादिविवाहपरिणीतावत् । न च,

"यस्यास् तु न भवेद् भ्राता न विज्ञायेत वा पिता ।
नोपयच्छेत् तु तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥" (मा०ध० ३.११)

इति प्रतिषेधात्, सगोत्रास्व् इव भार्यात्वं नोत्पद्यत इति वाच्यम्, दृष्टार्थत्वात् प्रतिपेधस्य व्यङ्गांग्यादिप्रतिषेधवत् । दृष्टार्थत्वं च पुत्रिकाधर्मशङ्कयेति हेतूपादानात् । न च पुत्रार्थम् एव परिणयनं, अपि तु धर्मार्थम् अपि । अतश् चोत्पादितपुत्रस्य मृतभार्यस्य धर्मार्थं पुत्रिकापरिणयने को विरोधः । प्रपञ्चितं चैतत् पुरस्ताद् इत्य् अलम् अतिप्रसङ्गेन । तस्माद् ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनानन्तरीयकत्वान् न पृथङ् नैमित्तिकं प्रयोक्तव्यम् इति सुष्टूक्तम् ॥ ३.२८० ॥

ब्रह्मचारिप्रायश्चित्तप्रसङ्गाद् अन्यद् अप्य् अनुपातकप्रायश्चित्तम् आह ।

भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रम् अनातुरः ।
कामावकीर्ण इत्य् आभ्यां जुहुयाद् आहुतिद्वयम् ॥ या०ध०३.२८१

उपस्थानं ततः कुर्यात् सं मा सिञ्चन्त्व् अनेन तु । या०ध०३.२८२अब्

यस् त्व् अनातुर एव ब्रह्मचारी निरन्तरं सप्तरात्रं भैक्षम् आग्निकार्यं वा त्यजत्य् असौ "कामावकीर्णोऽस्म्य् अवकीर्णोऽस्मि कामकामाय स्वाहा । कामावपन्नोऽस्म्य् अवपन्नोऽस्मि कामकामाय स्वाहा" (गौ०ध० २५.४) इत्य् एताभ्यां मन्त्राभ्याम् आहुती हुत्वा, "सं मा सिंचन्तु मरुतः सम् इन्द्रः सं बृहस्पतिः । सं मायम् अग्निः सिंचन्तां यशसा ब्रह्मवर्चसेन" इत्य् अनेन मन्त्रेणाग्निम् उपतिष्ठेत् ॥ एतच् च गुरुपरिचर्यादिगुरुतरकार्यव्यग्रतया अकरणे द्रष्टव्यम् । यदा त्व् अव्यग्र एवोभे भैक्षाग्निकार्ये त्यजति तदा,

"अकृत्वा भैक्षचरणम् असमिध्य च पावकम् ।
अनातुरः सप्तरात्रम् अवकीर्णिव्रतं चरेत् ॥" (मा०ध० २.१८७)

इति मानवं द्रष्टव्यम् । यज्ञोपवीतविनाशे तु हारीतेन प्रायश्चित्तम् उक्तम् : "मनोव्रतपतीभिश् चतस्र आज्याहूतीर् हुत्वा पुनर् यथार्थं प्रतीयाद् असद्भैक्षभोजनेऽभ्युदितेऽभिनिर्मुक्ते वान्ते दिवा स्वप्ने नग्नस्त्रीदर्शने नग्नस्वापे श्मशानम् आक्रम्य हयादींश् चारुह्य पूज्यातिक्रमे चैताभिर् एव जुहुयाद् अग्निसमिन्धने स्थावरसरीसृपादीनां वधे यद् देवादेव हेऌअनम् इति कूष्माण्डीभिर् आज्यं जुहुयात्, मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत्" इति । मनोव्रतपतीभिर् इति मनोज्योतिर् इत्यादिमनोलिङ्गाभिस् "त्वम् अग्ने व्रतपा असि" इत्यादिव्रतलिङ्गाभिर् इत्य् अर्थः । यथार्थं प्रतीयाद् इति उपनयनोक्तमार्गेण समन्त्रकं गृह्णीयाद् इत्य् अर्थः । यज्ञोपवीतं विना भोजनादिकरणे तु,

"ब्रह्मसूत्रं विना भुङ्क्ते विण्मूत्रं कुरुतेऽथवा ।
गायत्र्यष्टस्हस्रेण प्राणायामेन शुध्यति ॥"

इति मरीच्युक्तं द्रष्टव्यम् ॥ ३.२८१ ॥

किं च ।

मधुमांसाशने कार्यः कृच्छ्रः शेषव्रतानि च ॥ या०ध०३.२८२च्द्

प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति । या०ध०३.२८३अब्

ब्रह्मचारिणा अमत्या मधुमांसभक्षणे कृच्छ्रः कार्यः । तदनन्तरम् अवशिष्टानि व्रतानि समापयेत् । एतच् च शिष्टभोजनार्हशशादिमांसभक्षणविषयम्, "ब्रह्मचारी चेन् मांसम् अश्नीयाच् छिष्टभोजनीयं कृच्छ्रं द्वादशरात्रं चरित्वा व्रतशेषं समापयेत्" (व०ध० २३.११) इति वसिष्ठस्मरणात् । द्वादशरात्रग्रहणं तु मतिपूर्वाभ्यासापेक्षयातिकृच्छ्रपराकादेर् अपि प्राप्त्यर्थम् । यदा तु मांसैकापनोद्यव्याध्यभिभूतस् तदा मांसं गुरोर् उच्छिष्टं कृत्वा भक्षणीयम्, "स चेद् व्याधितः कामं गुरोर् उच्छिष्टं भैषज्यार्थं सर्वं प्राश्नीयात्" (व०ध० २३.९) इति तेनैवोक्तत्वात् । सर्वग्रहणं मांसलशुनाद्यभक्ष्यमात्रसंग्रहार्थम् । तद्भक्षणेन चापगतव्याधिर् आदित्यम् उपतिष्ठेत । तथा च बौधायनः : "येनेच्छेत् तु चिकित्सितुं स यदागदो भवति तदोत्थायादित्यम् उपतिष्ठेत हंसः शुचिषत्" (बौ०ध० २.१.२८) इति । मधुनोऽप्य् अज्ञानतः प्राशनोपपत्तौ न दोषः, "अकामोपनतं मधु वाजसनेयके न दुष्यति" (व०ध० २३.१३) इति वसिष्ठस्मरणात् । अन्तसूतकान्नादिभक्षणप्रायश्चित्तं त्व् अभक्ष्यप्रायश्चित्तप्रकरणे वक्ष्यामः । आज्ञाप्रतिघातादिना गुरोः प्रतिकूलम् आचरन् पादप्रणिपातादिना गुरुं प्रसाद्य विशुध्यति ॥ ३.२८२ ॥

ब्रह्मचारिप्रायश्चित्तप्रसङ्गाद् गुरोर् अपि प्रायश्चित्तम् आह ।

कृच्छ्रत्रयं गुरुः कुर्यान् म्रियते प्रहितो यदि ॥ या०ध०३.२८३च्द्

यस् तु गुरुश् चौरोरगव्याघ्रादिभयाकुलप्रदेशे सान्द्रतरान्धकाराकुलितनिशीथावसरे कार्यार्थं शिष्यं प्रेरयति, स च गुरुणा प्रेरितो दैवान् मृतस्, तदा स गुरुः क्र्च्छ्राणां प्राजाप्त्यादीनां त्रयं कुर्यात् । न पुन स्त्रयः प्राजापत्याः, तथा सति पृथक्त्वनिवेशिनी संख्यानुपपन्ना स्यात् । न च "एकादश प्रयाजान् यजति" इतिवद् आवृत्त्यपेक्षा संख्येति चतुरस्रम् । स्वरूपपृथक्त्वे संभवत्य् आवृत्त्यपेक्षाया अन्याय्यत्वात् । यद् इयम् उत्पन्नगता संख्या स्यात् तदा स्याद् अपि कथंचिद् आवृत्त्यपेक्षा । किं तूत्पत्तिगतेयं, अतस् तिस्र आज्याहुतीर् जुहोतीतिवत् स्वरूपपृथक्त्वापेक्षयैव त्रित्वसंख्याघटना युक्ता ॥ ३.२८३ ॥

सकलहिंसाप्रायश्चित्तापवादम् आह ।

क्रियमाणोपकारे तु मृते विप्रे न पातकम् । या०ध०३.२८४अब्

[विपाके गोवृषाणां तु भेषजाग्निक्रियासु च ॥]

आयुर्वेदोपदेशानुसरेणौषधपथ्यान्नप्रदानादिभिश् चिकित्सादिना क्रियमाण उपकारे यस्य ब्राह्मणादेस् तस्मिन् दैवात् कथंचिन् मृतेऽपि पातकं नैव भवति । विप्रग्रहणं प्राणिमात्रोपलक्षणार्थम् । अत एव,

"यन्त्रणे गोचिकित्सार्थे गूढगर्भविमोचने ।
यत्ने कृते विपत्तिः स्यान् न स पापेन लिप्यते ॥"

इत्यादि संवर्ताद्यैर् उक्तम् । एतच् च प्रपञ्चितं प्राक् ॥

मिथ्याभिशंसिनः प्रायश्चित्तविवक्षया तदुपयोग्यर्थवादं तावद् आह ।

मिथ्याभिशंसिनो दोषो द्विः समो भूतवादिनः । या०ध०३.२८४च्द्

मिथ्याभिशस्तदोषं च समादत्ते मृषा वदन् ॥

यस् तु परोत्कर्षेर्ष्याजनितरोषकलुषितान्तःकरणो जनसमक्षं मिथ्यैवाभिशापं "ब्रह्महत्यादिकम् अनेन कृतम्" इत्य् आरोपयति, तस्य तद् एव द्विगुणं भवति । यस् तु विद्यमानम् एव दोषम् अलोकविदितं जनसमक्षं प्रकाशयति, तस्यापि तत्पातकिसमदोषभाक्त्वम् । तथा चापस्तम्बः : "दोषं बुद्ध्वा न पूर्वः परेभ्यः पतितस्य समाख्याता स्यात् परिहरेच् चैनं धर्मेषु" इति (आ०ध० १.२१.२०) । न केवलं मिथ्याभिशंसी द्विगुणदोषभाक्, अपि तु मिथ्याभिशस्तस्य यद् अन्यद् दुरितजातं तद् अपि समादत्त इति वक्ष्यमाणप्रायश्चित्तेऽर्थवादः, न पुनः पापद्वैगुण्यादिप्रतिपादनम् अत्र विवक्षितम्, निमित्तस्य लघुत्वाल् लघुप्रायश्चित्तस्योपदेक्ष्यमाणत्वात् कृतनाशाकृताभ्यागमप्रसङ्गाच् च ॥ ३.२८४ ॥

तत्र प्रायश्चित्तम् आह ।

महापापोपपापाभ्यां योऽभिशंसेन् मृषा परम् ।
अब्भक्षो मासम् आसीत स जापी नियतेन्द्रियः ॥ या०ध०३.२८५

यस् तु महापापेन ब्रह्महत्यादिना गोवधाद्युपपापेन वा मृषैव परम् अभिशंसति, स मासं यावज् जलाशनो जपशीलो जितेन्द्रियश् च भवेत् । जपश् च शुद्धवतीनां कार्यः, "ब्राह्मणम् अनृतेनाभिशस्य पतनीयेनोपपातकेन वा मासम् अब्भक्षः शुद्धवतीर् आवर्तयेद् अश्वमेधावभृथं वा गच्छेत्" इति (व०ध० २३.३९–४०) वसिष्ठस्मरणात् । महापापोपपापग्रहणम् अन्येषाम् अप्य् अतिपातकादीनाम् उपलक्षणम् । एतच् च ब्राह्मणस्यैव ब्राह्मणेनाभिशंसने कृते द्रष्टव्यम् । यदा तु ब्राह्मणः क्षत्रियादेर् अभिशंसनं करोति, क्षत्रियादिर् वा ब्राह्मणस्य, तदा,

प्रतिलोमापवादेषु द्विगुणस् त्रिगुणो दमः ।

वर्णानाम् आनुलोम्येन तस्माद् अर्धार्धहानितः ॥ (या०ध० २.२०७)

इति दण्डानुसारेण प्रायश्चित्तस्य वृद्धिह्रासौ कल्पनीयौ । भूताभिशंसिनस् तु पूर्वोक्तार्थवादानुसारेण दण्डानुसारेण च तदर्थं कल्पनीयम् । तथातिपातकाभिशंसिन एतद् एव व्रतं पादोनम्, पातकाभिशंसिनस् त्व् अर्धम्, उपपातकाभिशंसिनस् तु पादः,

"तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः ।" (मा०ध० ११.१२६)

इत्य् उपपातकभूतक्षत्रियादिवधे महापातकप्रायश्चित्ततुरीयांशस्य दर्शनात् । एवं प्रकीर्णाभिशंसिनोऽपि उपपातकान् न्यूनं कल्पनीयम्,

"शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ।" (मा०ध० ११.२१०))

इति स्मरणात् । यत् तु शङ्खलिखिताभ्यां "नास्तिकः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नो मिथ्याभिशंसी चेत्य् एते षड्वर्षाणि ब्राह्मणगृहेषु भैक्षं चरेयुः संवत्सरं धौतभैक्षम् अश्नीयुः षण्मासान् वा गा अनुगच्छेयुः" इति गुरुप्रायश्चित्तम् उक्तम्, तद् अभ्यासतारतम्यापेक्षया योजनीयम् ॥ ३.२८५ ॥

अभिशंसिप्रायश्चित्तप्रसङ्गाद् अभिशस्तप्रायश्चित्तम् आह ।

अभिशस्तो मृषा कृच्छ्रं चरेद् आग्नेयम् एव वा ।
निर्वपेत् तु पुरोडाशं वायव्यं पशुम् एव वा ॥ या०ध०३.२८६

यः पुनर् मिथ्याभिशस्तः स कृच्छ्रं प्राजापत्यं चरेत् । अग्निदैवत्येन वा पुरोडाशेन यजेत । वायुदैवत्येन वा पुरोडाशेन यजेत । वायु दैवत्येन वा पशुना । एषां च पक्षाणां शक्तिसंभवापेक्षया व्यवस्था । यत् तु वसिष्ठेन "मासम् अब्भक्षणम् उक्तम् एतेनैवाभिशस्तो व्याख्यातः" (व०ध० २४.३७) इति तद् अभिशस्तस्यैव किंचित् कालम् अकृतप्रायश्चित्तस्य सतो द्रष्टव्यम्,

"संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः ।" (मा०ध० ८.३७३)

इति दण्डातिरेकदर्शनात् । यत् तु पैठीनसिनोक्तम् "अनृतेनाभिशस्यमानः कृच्छ्रं चरेन् मासं पातकेषु महापातकेषु द्विमासम्" इति, तद् अपि वासिष्ठेन समानविषयम् । यत् तु बौधायनेनोक्तम् "पातकाभिशंसिने कृच्छ्रस् तदर्धम् अभिशस्तस्य" इति, तद् उपपातकादिविषयं अशक्तविषयं वा । एवम् अन्येषाम् अप्य् उच्चावचप्रायश्चित्तानाम् अभिशस्तविषयाणां कालशक्त्याद्यपेक्षया व्यवस्था विज्ञेया । यथाह मनुः ।

"षष्ठान्नकालता मासं संहिताजप एव वा ।
होमाश् च शाकला नित्यम् अपाङ्क्तानां विशोधनम् ॥" इति । (मा०ध० ११.२०१)

अपाङ्क्तानां मध्ये अभिशस्तादयः पठिताः । यद्य् अप्य् अत्राभिशस्तस्य निषिद्धाचरणं नोपलभ्यते तथापि मिथ्याभिशस्तत्वलिङ्गानुमितप्राग्भवीयनिषिद्धाचरणापूर्वनिबन्धनम् इदं प्रायश्चित्तं कृमिदष्टानाम् इवेति न विरोधः ॥ ३.२८६ ॥

किं च ।

अनियुक्तो भ्रातृजायां गच्छंश् चान्द्रायणं चरेत् । या०ध०३.२८७अब्

यस् तु नियोगं विना भ्रातुर् ज्येष्टस्य कनिष्टस्य वा भार्यां गच्छति स चान्द्रायणं चरेत् । एतच् च सकृद् अमतिपूर्वविषयम् द्रष्टव्यम् । यत् तु शङ्खवचनम् "परिवित्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयातां ज्येष्ठभार्याम् अनियुक्तो गच्छंस् तद् एव कनिष्ठभार्यां च" इति तत् कामकारविषयम् ॥

किं चाह ।

त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति ॥ या०ध०३.२८७च्द्

यः पुनर् उदक्यां रजस्वलां स्वभार्याम् अपि गच्छति स त्रिरात्रम् उपोष्यान्ते घृतं प्राश्य विशुध्यति । इदम् अकामतः सकृद् गमनविषयम् । तत्रैवाभ्यासे "रजस्वलागमने सप्तरात्रम्" इति शातातपेनोक्तं द्रष्टव्यम् । कामतः सकृद् गमनेऽप्य् एतद् एव । यत् तु बृहत्संवर्तेनोक्तं,

"रजस्वलां तु यो गच्छेद् गर्भिणीं पतितां तथा ।
तस्य पापविशुद्ध्यर्थम् अतिकृच्छ्रं विशोधनम् ॥"

इति, तत् कामतोऽभ्यासविषयम् । यत् पुनः शङ्खेन त्रिवार्षिकम् उक्तम्,

"पादस् तु शूद्रहत्यायाम् उदक्यागमने तथा ।"

इति तत् कामतोऽत्यन्तानवच्छिन्नाभ्यासविषयम् । रजस्वलायास् तु रजस्वलादिस्पर्शे प्रायश्चित्तं स्मृत्यन्तरोक्तं द्रष्टव्यम् । तथा च बृहद्वसिष्ठः ।

"स्पृष्टे रजस्वलेऽन्योन्यं सवर्णे त्व् एकभर्तृके ।
कामाद् अकामतो वापि सद्यः स्नानेन शुध्यतः ॥" इति ।

असपत्न्योस् तु सवर्णयोर् अकामतः स्नानमात्रम् ।

"उदक्या तु सवर्णा या स्पृष्टा चेत् स्याद् उदक्यया ।
तस्मिन्न् एवाहनि स्नात्वा शुद्धिम् आप्नोत्य् असंशयम् ॥"

इति मार्कण्डेयस्मरणात् । यत् तु कश्यपवचनम्,

"रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राह्मणी यदि ।
एकरात्रं निराहारा पञ्चगव्येन शुध्यति ॥"

इति, तत् कामकारविषयम् । असवर्णास्पर्शे तु बृहद्वसिष्ठेन विशेषो दर्शितः ।

"स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजापि च ।
कृच्छ्रेण शुध्यते पूर्वा शूद्री दानेन शुध्यति ॥"

दानेनेति पादकृच्छ्रप्रत्याम्नायभूतनिष्कचतुर्थांशदानेन शुध्यतीति ।

"स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी वैश्यजापि च ।
पादहीनं चरेत् पूर्वा पादकृच्छ्रं तथोत्तरा ॥
स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा ।
कृच्छ्रार्धाच् छुध्यते पूर्वा तूत्तरा च तदर्धतः ॥
स्पृष्ट्वा रजस्वलान्योन्यं क्षत्रिया शूद्रजापि च ।
उपवासैस् त्रिभिः पूर्वा त्व् अहोरात्रेण चोत्तरा ॥
स्पृष्ट्वा रजस्वलान्योन्यं क्षत्रिया वैश्यजापि च ।
त्रिरात्राच् छुध्यते पूर्वा त्व् अहोरात्रेण चोत्तरा ॥
स्पृष्ट्वा रजस्वलान्योन्यं वैश्या शूद्रा तथैव च ।
त्रिरात्राच् छुध्यते पूर्वा तूत्तरा च दिनद्वयात् ॥
वर्णानां कामतः स्पर्शे शुद्धिर् एषा पुरातनी ॥" इति ।

अकामतस् तु बृहद्विष्णुनोक्तं स्नानमात्रम् "रजस्वलां हीनवर्णां रजस्वला स्पृष्ट्वा न तावद् अश्नीयाद् यावन् न शुद्धा स्यात् । सवर्णाम् अधिकवर्णा वा स्पृष्ट्वा सद्यः स्नात्वा विशुध्यति" इति । चण्डालादिस्पर्शे तु बृहद्वसिष्ठेन विशेष उक्तः ।

"पतितान्त्य् अश्वपाकेन संस्पृष्टा चेद् रजस्वला ।
तान्य् अहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥
प्रथमेऽह्नि त्रिरात्रं स्याद् द्वितीये द्व्यहम् एव तु ।
अहोरात्रं तृतीयेऽह्नि परतो नक्तम् आचरेत् ॥
शूद्रयोच्छिष्टया स्पृष्ट्वा शुना चेद् द्व्यहम् आचरेत् ॥" इति ।

तान्य् अहानि व्यतिक्रम्य अनाशकेन नीत्वेति यावत् । एतत् कामतः स्पर्शविषयम् । अकामतस् तु,

"रजस्वला तु संस्पृष्टा चाण्डालान्त्यश्ववायसैः ।
तावत् तिष्ठेन् निराहारा यावत्कालेन शुध्यति ॥"

इति बौधायनेनोक्तं द्रष्टव्यम् । यत् पुनस् तेनैवोक्तम्,

"रजस्वला तु संस्पृष्टा ग्रामकुक्कुटसूकरैः ।
श्वभिः स्नात्वा क्षिपेत् तावद् यावच् चन्द्रस्य दर्शनम् ॥"

इति, तद् अशक्तविषयम् । यदा तु भुञ्जानायाः श्वादिस्पर्शो भवति तदा स्मृत्यन्तरे विशेष उक्तः ।

"रजस्वला तु भुञ्जाना श्वान्त्यजादीन् स्पृशेद् यदि ।
गोमूत्रयावकाहारा षड्रात्रेण विशुध्यति ॥
अशक्तौ काञ्चनं दद्याद् विप्रेभ्यो वापि भोजनम् ॥" इति ॥

यदा तूच्छिष्टयोः परस्परस्पर्शनं भवति तदा,

"उच्छिष्टोच्छिष्टया स्पृष्टा कदाचित् स्त्री रजस्वला ।
कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानैर् उपोषिता ॥"

इत्य् अत्रिणोक्तं द्रष्टव्यम् ॥ यदा तूच्छिष्टान् द्विजान् रजस्वला स्पृशति तदा,

"द्विजान् कथंचिद् उच्छिष्टान् रजःस्था यदि संस्पृशेत् ।
अधोच्छिष्टे त्व् अहोरात्रम् ऊर्ध्वोच्छिष्टे त्र्यहं क्षिपेत् ॥"

इति मार्कण्डेयोक्तं द्रष्टव्यम् ॥ एवम् अवकीर्णिप्रायश्चित्तप्रसङ्गात् कानिचिद् अनुपातकभूतप्रायश्चित्तान्य् अपि व्याख्याय, प्रकृतम् अनुसरामः । तत्रावकीर्णानन्तरं "सुतानां चैव विक्रयः" (या०ध० ३.२६६) इत्य् उक्तं, तत्र मनुयोगीश्वरोक्तानि त्रैमासिकादीनि कामाकामजातिशक्त्याद्यपेक्षया पूर्ववद् व्यवस्थापनीयानि । यत् तु शङ्खवचनम्, "देवगृहप्रतिश्रयोद्यानारामसभाप्रपातडागपुण्यसेतुसुतविक्रयं कृत्वा तप्तकृच्छ्रं चरेत्" इति, यच् च पराशरेणोक्तम्,

"विक्रीय कन्यकां गां च कृच्छ्रं सान्तपनं चरेत् ।"

इति, तद् उभयम् अप्य् आपद्य् अकामतो द्रष्टव्यम् । कामतस् तु,

"नारीणां विक्रयं कृत्वा चरेच् चान्द्रायणव्रतम् ।
द्विगुणं पुरुषस्यैव व्रतम् आहुर् मनीषिणः ॥"

इति चतुर्विंशतिमतोक्तं द्रष्टव्यम् । यत् तु पैठीनसिनोक्तम्, "आरामतडागोदपानपुष्करिणीसुकृतसुतविक्रये त्रिषवणस्नाय्य् अधःशायी चतुर्थकालाहारः संवत्सरेण पूतो भवति" इति तद् एकपुत्रविषयम्, तदनन्तरं "धान्यकुप्यपशुस्तेयम्" इत्य् उक्तं, तत्प्रायश्चित्तानि च स्तेयप्रकरणे प्रपञ्चितानि ॥ ३.२८७ ॥

अनन्तरम् "अयाज्यानां च याजनम्" (या०ध० ३.२३७) इत्युक्तं, तत्र प्रायश्चित्तम् आह ।

त्रीन् कृच्छ्रान् आचरेद् व्रात्ययाजकोऽभिचरन्न् अपि ।
वेदप्लावी यवाश्य् अब्दं त्यक्त्वा च शरणागतम् ॥ या०ध०३.२८८

यस् तु सावित्रीपतितानां याजनं करोति स प्राजापत्यप्रभृतींस् त्रीन् कृच्छ्रान् आचरेत् । एतेषां च गुरुलघुभूतानां कृच्छ्राणां निमित्तं गुरुलघुभावेन कल्पनीयम् । तथा अभिचरन्न् अपीदम् एव प्रायश्चित्तं कुर्यात् । एतच् चाग्निदाद्याततायिव्यतिरेकेण, "षट्स्व् अभिचरन्न पतति" इति वसिष्ठस्मरणात् । अपिशब्दो हीनयाजकान्त्येष्टियाजकयोः संग्रहार्थः । अत एवोक्तं मनुना ।

"व्रात्यानां याजनं कृत्वा परेषाम् अन्त्यकर्म च ।
अभिचारम् अहीनं च त्रिभिः कृच्छ्रैर् व्यपोहति ॥" इति । (मा०ध० ११.१९८)

परेषाम् अन्त्यकर्मेत्य् अत्यन्ताभ्यासविषयं शूद्रान्त्यकर्मविषयं वा, प्रायश्चित्तस्य गुरुत्वात् । अहीनो द्विरात्रादिर् द्वादशाहपर्यन्तोऽहर्गणयागः । यत् तु शातातपेनोक्तम्, "पतितसावित्रीकान् नोपनयेन् नाध्यापयेन् न याजयेत्, य एतान् उपनयेद् अध्यापयेद् याजयेद् वा स उद्दालकव्रतं चरेत्" इति, तत् कामकारविषयम् । उद्दालकव्रतं च प्राग् दर्शितम् । एतच् च कृच्छ्रत्रयं साधारणोपपातकप्रायश्चित्तस्यापवादकं, अत उपपातकसाधारणप्रायश्चित्तं शूद्राद्ययाज्ययाजने व्यवतिष्ठते । तत्र कामतस् त्रैमासिकम् । अकामतस् तु योगीश्वरोक्तं मासव्रतादि । यत् तु प्रचेतसा शूद्रयाजकादीन् पठित्वोक्तम् "पञ्चतपोऽभ्रावकाशजलशयनान्य् अनुतिष्ठेयुः । क्रमेण ग्रीष्मवर्षाहेमन्तेषु मासं गोमूत्रयावकम् अश्नीयुः" इति, तत् कामतोऽभ्यासविषयम् । यत् तु यमेनोक्तम्,

"पुरोधाः शूरवर्णस्य ब्राह्मणो यः प्रवर्तते ।
स्नेहाद् अर्थप्रसङ्गाद् वा तस्य कृच्छ्रो विशोधनम् ॥"

इति, तद् अशक्तविषयम् । यच् च पैठीनसिनोक्तम् "शूद्रयाजकः सर्वद्रव्यपरित्यागात् पूतो भवति प्राणायामसहस्रेषु दशकृत्वोऽभ्यस्तेषु" इति, तद् अप्य् अकामतोऽभ्यासविषयम् । यत् तु गौतमेनोक्तम् "निषिद्धमन्त्रप्रयोगे सहस्रवाग् उपतिष्ठेत्" (गौ०ध० २२.२३) इति निषिद्धानां पतितादीनां याजनाध्यापनात्मके मन्त्रप्रयोगे बहुशोऽभ्यस्ते प्राकृतं ब्रह्मचर्यम् उपदिष्टं, तत् कामतोऽभ्यासविषयम् । तथा यः स्ववेदं विप्लावयति यश् च रक्षणक्षणोऽपि तस्करव्यतिरिक्तं शरणागतम् उपेक्षते, सोऽपि संवत्सरं यवोदनं भुञ्जानः शुध्यति । तत्र विप्लवो नाम पर्वचाण्डालश्रोत्रावकाशाद्यनध्यायेष्व् अध्ययनम् । उत्कर्षहेतोर् अधीयानस्य किं पठसि नाशितं त्वयेत्य् एवं पर्यनुयोगदानं वा विप्लावनम् उच्यते । अत एवोक्तं स्मृत्यन्तरे ।

"दत्तानुयोगानध्येतुः पतितान् मनुर् अब्रवीत् ।" इति ।

यत् तु वसिष्ठेनोक्तम् "पतितचाण्डालशवश्रावणे त्रिरात्रं वाग्यता अनश्नन्त आसीरन् सहस्रपरमं वा तदभ्यस्यन्तः पूता भवन्तीति विज्ञायते" (व०ध० २३.३४–३५) इति, "एतेनैव गर्हिताध्यापकयाजका व्याख्याताः दक्षिणात्यागाच् च पूता भवन्तीति विज्ञायते" (व०ध० २३.३६) इति, तद् बुद्धिपूर्वविषयम् । यत् तु षट्त्रिंशन्मतेऽभिहितम् "चाण्दालश्रोत्रावकाशे श्रुतिस्मृतिपाठे एकरात्रम् अभोजनम्" इति तद् अबुद्धिपूर्वविषयम् । यदा सर्पाद्यन्तरागमनमात्रं भवति न पुनस् तत्राधीते तत्रापि प्रायश्चित्तं यमेनोक्तम् ।

"सर्पस्य नकुलस्याथ अजमार्जारयोस् तथा ।
मूषकस्य तथोष्ट्रस्य मण्डूकस्य च योषितः ॥
पुरुषस्यैडकस्यापि शुनोऽश्वस्य खरस्य च ।
अन्तरागमने सद्यः प्रायश्चित्तम् इदं शृणु ॥
त्रिरात्रम् उपवासश् च त्रिर् अह्नश् चाभिषेचनम् ।
ग्रामान्तरं वा गन्तव्यं जानुभ्यां नात्र संशयः ॥" इति ॥

पितृमातृसुतत्यागतडागारामविक्रयेषु मनुयोगीश्वरोक्तोपपातकसाधारणप्रायश्चित्तानि पूर्ववज् जातिशक्तिगुणाद्यपेक्षया योज्यानि । तत्र पितृमात्रादित्यागस्य,

"अकारणपरित्यक्ता मातापित्रोर् गुरोस् तथा ।"

इत्य् अपाङ्क्तेयमध्ये पाठात् तन्निमित्तम् अपि प्रायश्चित्तं भवति । यथाह मनुः ।

"षष्ठान्नकालता मासं संहिताजप एव वा ।
होमाश् च शाकला नित्यम् अपाङ्क्तानां विशोधनम् ॥" इति । (मा०ध० ११.२०१)

अपाङ्क्ताश् च श्राद्धकाण्डे "ये स्तेनपतितक्लीबाः" (मा०ध० ३.१५०) इत्यादिवाक्यैर् दर्शिताः । तडागारामविक्रयेषु च कतिचिद्विशेषद्वैमासिकप्रायश्चित्तानि सविषयाणि सुतविक्रयप्रायश्चित्तकथनावसरे कथितानि । अनन्तरं "कन्याया दूषणम्" (मा०ध० ११.६२) इत्य् उक्तं, तत्र च त्रैमासिकद्वैमासिकचान्द्रायणादीनि वर्णानां सवर्णाविषये योज्यानि । आनुलोम्ये पुनर् मासिकपयोऽशनं प्राजापत्यं वा,

सकामास्व् अनुलोमासु न दोषस् त्व् अन्यथा दमः । (या०ध० २.२८८)

इति दण्डाल्पत्वदर्शनात् । यत् तु शङ्खेनोक्तम् "कन्यादूषी सोमविक्रयी च कृच्छ्रम् अब्भक्षं चरेयाताम्" इति, य च्च हारीतवचनम् "कन्यादूषी सोमविक्रयी वृषलीपतिः कौमारदारत्यागी सुरामद्यपः शूद्रयाजको गुरोः प्रतिहन्ता नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नो मिथ्याभिशंसी पतितसंव्यवहारी मित्रध्रुक् शरणागतघाती प्रतिरूपकवृत्तिर् इत्य् एते पञ्चतपोऽभ्रावकाशजलशयनान्य् अनुतिष्ठेयुर् ग्रीष्मवर्षाहेमन्तेषु मासं गोमूत्रयावकम् अश्नीयुः" इति, तद् उभयम् अपि क्षत्रियवैश्ययोः प्रातिलोम्येन दूषणे योज्यम् । शूद्रस्य तु वध एव,

दूषणे तु करच्छेद उत्तमायां वधस् तथा । (या०ध० २.२८८)

इति वधदर्शनात् । परिविन्दकयाजनकन्याप्रदानयोः कौटिल्ये शिष्टाप्रतिषिद्धव्रतलोपे चात्मार्थपाकक्रियारम्भे मद्यपस्त्रीनिषेवणे च साधारणोपपातकप्रायश्चित्तं प्राग्वद् व्यस्थापनीयम् । आद्ययोस् तु विशेषप्रायश्चित्तानि परिवेदनायाज्ययाजनप्रायश्चित्तकथनप्रस्तावे दर्शितानि । अनन्तरं "स्वाध्यायाग्निसुतत्यागः" (या०ध० ३.२३९) इत्य् उक्तं, तत्र व्यसनाशक्त्या त्यागे "अधीतस्य च नाशनम्" (या०ध० ३.२२८) इति ब्रह्महत्यासमप्रायश्चित्तम् उक्तम् । शास्त्रश्रवणाद्याकुलतया त्यागे तु त्रैमासिकाद्युपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योज्यानि । यत् तु वसिष्ठेनोक्तम् "ब्रह्मोज्झः कृच्छ्रं द्वादशरात्रं चरित्वा पुनर् उपयुञ्जीत वेदम् आचार्यात्" (व०ध० २०.१२) इति, तद् अत्यन्तापद्विषयम् । अग्नित्यागेऽपि तेनैव विशेषो दर्शितः : "योऽग्नीन् अपविध्येत् स कृच्छ्रं द्वादशरात्रं चरित्वा पुनराधेयं कारयेत्" (व०ध० २१.२७) इति । द्वादशरात्रग्रहणम् उत्सन्नकालापेक्षया प्राजाप्त्यादिगुरुलघुकृच्छ्राणां प्राप्त्यर्थम् । तत्र मासद्वये प्राजापत्यं मासचतुष्टयेऽतिकृच्छ्रः, षण्मासोच्छिन्ने पराकः, षण्मासाद् ऊर्ध्वं योगीश्वरोक्तान्य् उपपातकसामान्यप्रायश्चित्तानि कालाद्यपेक्षया योज्यानि, संवत्सराद् ऊर्ध्वं तु मानवं त्रैमासिकं द्वैमासिकम् इति व्यवस्था । एतच् च नास्तिक्येन त्यागविषयम् । तथा च व्याघ्रः ।

"योऽग्निं त्यजति नास्तिक्यात् प्राजापत्यं चरेद् द्विजः ।" इति ।

यदा तु प्रमादात् त्यजति तदा भारद्वाजगृह्ये विशेष उक्तः : "प्राणायामशतम् आ त्रिरात्राद् उपवासः स्याद् आ विंशतिरात्राद् अत ऊर्ध्वम् आ षष्टिरात्रात् तिस्रो रात्रीर् उपवसेद् अत ऊर्ध्वम् आ संवत्सरात् प्राजापत्यं चरेत्, अत ऊर्ध्वं कालबहुत्वे दोषगुरुत्वम्" इति । यदा त्व् आलस्यादिना त्यजति तद् अपि तेनैव विशेष उक्तः : "द्वादशाहातिक्रमे त्रहम् उपवासो मासातिक्रमे द्वादशाहम् उपवासः संवत्सरातिक्रमे मासोपवासः पयोभक्षणं वा" इति । संवत्सराद् ऊर्ध्वं तु वृद्धहारीतेन विशेष उक्तः : "संवत्सरोत्सन्नेऽग्निहोत्रे चान्द्रायणं कृत्वा पुनर् आदध्यात् । द्विवर्षोत्सन्ने चान्द्रायणं सोमायनं च कुर्यात् । त्रिवर्षोत्सन्ने संवत्सरं कृच्छ्रम् अभ्यस्य पुनर् आदध्यात्" इति । सोमायनं कृच्छ्रकाण्डे वक्ष्यते । शङ्खेनापि विशेष उक्तः : "अग्न्युत्सादी संवत्सरं प्राजाप्त्यं चरेद् गां च दद्यात्" इति ॥ सुतत्यागे बन्धुत्यागे च त्रैमासिकं गोवधव्रतं कामतः । अकामतस् तु योगीश्वरोक्तं व्रतचतुष्टयं शक्त्याद्यपेक्षया योज्यम् । द्रुमच्छेदे प्रायश्चित्तं प्रागुक्तं । स्त्रीप्राणिवधवशीकरणादिभिर् जीवने तिलेक्षुयन्त्रप्रवर्तने च तान्य् एव प्रायश्चित्तानि तथैव योज्यानि । व्यसनेषु च द्यूतमृगयादिषु तान्य् एव व्रतानि तथैव योज्यानि । यत् तु बौधयनेन "अथाशुचिकराणि । द्यूतम् अभिचारोऽनाहिताग्नेर् उञ्छवृत्तिः समावृत्तस्य च भैक्षचर्या तस्य च गुरुकुले वास ऊर्ध्वं चतुर्भ्यो मासेभ्यो यश् च तम् अध्यापयति नक्ष्त्रनिर्देशनं चेति । द्वादशमासान् द्वादशार्धमासान् द्वादशाहान् द्वादशषडहान् द्वादशत्र्यहांश् च त्र्यहम् एकाहम् इत्य् अशुचिकरनिर्देशः" (बौ०ध० २.२.१५–१७) इति द्यूते वार्षिकव्रतम् उक्तं, तद् अभ्यासविषयम् । यत् तु प्रचेतसोक्तम् "अनृतवाक् तस्करो राजभृत्यो वृक्षारोपकवृत्तिर् गरदोऽग्निदोऽश्वरथगजारोहणवृत्ती रङ्गोपजीवी श्वागणिकः शूद्रोपाध्यायो वृषलीपतिर् भाण्डिको नक्षत्रोपजीवी श्ववृत्तिर् ब्रह्मजीवी चिकित्सको देवलकः पुरोहितः कितवो मद्यपः कूटकारकोऽपत्यविक्रयी मनुष्यपशुविक्रेता चेति तान् उद्धरेत् समेत्य न्यायतो ब्राह्मणव्यवस्थया सर्वद्रव्यत्यागे चतुर्थकालाहाराः संवत्सरं त्रिषवणम् उपपृशेयुस् तस्यान्ते देवपितृतर्पणं गवाह्निकं चेत्य् एवं व्यवहार्या" इति ,तद् अपि बौधायनेन समानविषयम् । श्वागणिको यः श्वगणेन जीवति । भाण्डिको बन्दिव्यतिरिक्तो राज्ञां तूर्यादिस्वनैः प्रबोधयिता, बन्दिनः पृथगुपादानात् । श्ववृत्तिः सेवकः । ब्रह्मजीवी ब्राह्मणकार्येषु मूल्येन परिचारकः । मनूक्तान्य् अप्य् अपाङ्क्तेयप्रायश्चित्तानि षष्ठान्नकालता मासम् इत्यादीन्य् अपि जात्याद्यपेक्षया योज्यानि, तदुक्तापाङ्क्त्यमध्येऽपि कितवादिव्यसनिनां पठितत्वात् । आत्मविक्रये शूद्रसेवायां च सामान्यप्रायश्चित्तानि प्राग्वद् एव योज्यानि । यत् तु बौधायनेनोक्तम् "समुद्रयानं ब्राह्मणस्य न्यासापहरणं सर्वपण्यैर् व्यवहरणं भूम्यनृतं शूद्रसेवा यश् च शूद्रायाम् अभिजायते तेन यद् अपत्यं च भवति तेषां तु निर्देशः ।"

"चतुर्थकालं मितभोजिनः स्युर्
अपोऽभ्युपेयुः सवनानुकल्पम् ।
स्थानासनाभ्यां विहरन्त एतैस्
त्रिभिर् वर्षैस् तद् अपहरन्ति पापम् ॥" (बौ०ध० २.२.२–१०)

इति, तद् बहुकालसेवाविषयम् । हीनजातिभिः सख्ये तूपपातकसामान्यप्रायश्चित्तान्य् एव । यत् तु प्रचेतसोक्तम् "मित्रभेदनकरणाद् अहोरात्रम् अनश्नन् हुत्वा पयः पिबेत्" इति, तद् अहीनसख्यभेदनविषयम् । हीनयोनिनिषेवणेऽप्य् उपपातकसामान्यप्रायश्चित्तानि योज्यानि । यत् तु शातातपेनोक्तम् "ब्राह्मणो राजकन्यापूर्वी कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत् तां चैवोपयच्छेद् वैश्यापूर्वीं तु तप्तकृच्छ्रं शूद्रापूर्वीं तु कृच्छ्रातिकृच्छ्रं राजन्यश् चेद् वैश्यापूर्वी कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत् तां चैवोपयच्छेच् छूद्रापूर्वी त्व् अतिकृच्छ्रं वैश्यश् चेच् छूद्रापूर्वी कृच्छ्रं द्वादशरात्रं चरित्वा तां चोपयच्छेत्" इति, तत्र निविशेत् तां चोपयच्छेद् इति कृच्छ्रानुष्ठानोत्तरकालं सवर्णापरिणयनाद् ऊर्ध्वं तां च राजन्यादिकाम् उपयच्छेद् इत्य् अर्थः । इदं चाज्ञानविषयम् । ज्ञानतस् तूपपातकसामान्यप्रायश्चित्तं व्यवस्थितम् एव द्रष्टव्यम् । साधारणस्त्रीसंभोगे च हीनयोनिनिषेवणम् इत्य् उक्तं तत्रापि,

"पशुवेश्याभिगमने प्राजापत्यं विधीयते ।"

इति संव्रतोक्तम् अकामतो द्रष्टव्यम् । कामतस् तु यमेनोक्तं द्रष्टव्यम् :

"वेश्यागमनजं पापं व्यपोहन्ति द्विजातयः ।
पीत्वा सकृत् सकृत् तप्तं सप्तरात्रं कुशोदकम् ॥" इति ।

उपपातकसामान्यप्रायश्चित्तानि च कामाकामतोऽभ्यासापेक्षया योज्यानि । तत्र मत्याभ्यासे तु "प्रतिनिमित्तं नैमित्तिकम् आवर्तते" इति न्यायात्, प्रतिनिमित्तं नैमित्तिकावृत्तौ प्रसक्ताया लौगाक्षिणा विशेष उक्तः :

"अभ्यासेऽहर्गुणा वृद्धिर् मासाद् अर्वाग् विधीयते ।
ततो मासगुणा वृद्धिर् यावत् संवत्सरं भवेत् ॥
ततः संवत्सरगुणा यावत् पापं समाचरेत् ॥" इति ।

इदं मतिपूर्वविषयम् । अमतिपूर्वावृत्तौ चतुर्विंशतिमते विशेष उक्तः :

"सकृत्कृते तु यत् प्रोक्तं त्रिगुणं तन्त्रिभिर् दिनैः ।
मासात् पञ्चगुणं प्रोक्तं षण्मासाद् दशधा भवेत् ॥
संवत्सरात् पञ्चदशं त्र्यब्दाद् विंशगुणं भवेत् ।
ततोऽप्य् एवं प्रकल्प्यं स्याच् छातातपवचो यथा ॥" इति ॥

यत् पुनः "विधेः प्राथमिकाद् अस्मात् द्वितीये द्विगुणं चरेत्" इति प्रतिनिमित्तम् आवृत्तिविधायकं तन् महापातकविषयम् इत्य् उक्तं प्राक् । यत् तु यमेन साधारणस्त्रीगमनम् अधिकृत्य गुरुतल्पव्रतम् अतिदिष्टम् :

"गुरुतल्पव्रतं केचित् केचिच् चान्द्रायणव्रतम् ।
गोघ्नस्येच्छन्ति केचित् तु केचिद् एवावकीर्णिनः ॥"

इति, एतच् च जन्मप्रभृतिसानुबन्धानवच्छिन्नाभ्यासविषयम् । अनन्तरं "तथैवानाश्रमे वास" (या०ध० ३.२४१) इत्य् उक्तं, तत्र हारीतेन विशेष उक्तः : "अनाश्रमी संवत्सरं प्राजापत्यं कृच्छ्रं चरित्वाश्रमम् उपेयात् । द्वितीयेऽतिकृच्छ्रं तृतीये कृच्छ्रातिकृच्छ्रम् अत ऊर्ध्वं चान्द्रायणम्" इति । एतद् असंभवविषयम् । संभवे तु सामान्येनोपपातकप्रायश्चित्तानि कामाकामतो व्यवस्थापनीयानि । परपाकरुचित्वासच्छास्त्राधिगमनाकराधिकारभार्याविक्रयेषु च मनुयोगीश्वरप्रतिपादितोपपातकसामान्यप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया व्यवस्थापनीयानि ॥ ३.२८९ ॥

"भार्याया विक्रयश् चैषाम्" (या०ध० ३.२४२) इत्य् अत्र चशब्दो मन्वाद्युक्तासत्प्रतिग्रहनिन्दितान्नादनादीनाम् उपलक्षणार्थम् इत्य् उक्तम् । तत्रासत्प्रतिग्रहे प्रायश्चित्तविशेषम् आह ।

गोष्ठे वसन् ब्रह्मचारी मासम् एकं पयोव्रतम् ।
गायत्रीजप्यनिरतः शुध्यतेऽसत्प्रतिग्रहात् ॥ या०ध०३.२८९

यस् त्व् असत्प्रतिग्रहं निषिद्धप्रतिग्रहं करोति स ब्रह्मचर्ययुक्तो गोष्ठे वसन् गायत्रीजप्यनिरतो गायत्रीजपशीलो मासं पयोव्रतेन शुध्यतीति । प्रतिग्रहस्य चासत्त्वं दातुर् जातिकर्मनिबन्धनं यथा चण्डालादेः पतितादेश् च । तथा देशकालनिबन्धनं च यथा कुरुक्षेत्रोपरागादौ तथा प्रतिग्राह्यद्रव्यनिबन्धनं च यथा सुरामेषीमृतशय्योभयतोमुख्यादेः । यदा तु पतितादेर् मेष्यादिकं प्रतिगृह्णाति तदैतद् गुरुप्रायश्चित्तं द्रष्टव्यम्, व्यतिक्रमद्वयदर्शनेन निमित्तस्य गुरुत्वात् । तत्र जपे मनुना संख्याविशेष उक्तः,

"जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।
मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥" (मा०ध० ११.१९५)

इति प्रत्यहं त्रिसहस्रजपो द्रष्टव्यः । मासम् इति द्वितीयया त्रिसहस्रसंख्याकस्य जपस्य प्रतिदिवसव्यापित्वावगमात् । यदा तु न्यायवर्तिब्राह्मणादेः सकाशान् निषिद्धं मेषादिकं गृह्णाति पतितादेर् वा भूम्यादिकम् अनिषिद्धं, तदा षट्त्रिंशन्मतोक्तं द्रष्टव्यम् :

"पवित्रेष्ट्या विशुध्यन्ति सर्वे घोराः प्रतिग्रहाः ।
ऐन्दवेन मृगारेष्ट्या कदाचिन् मित्रविन्दया ।
देव्या लक्षजपेनैव शुध्यन्ते दुष्प्रतिग्रहात् ॥" इति ।

यत् तु बृहद्धारीतवचनम्,

"राज्ञः प्रतिग्रहं कृत्वा मासम् अप्सु सदा वसेत् ।
षष्ठे काले पयोभक्षः पूर्णे मासे विशुध्यति ॥"

"तर्पयित्वा द्विजान् कामैः सततं नियतव्रतः ॥"

इति, तत् पूर्वोक्तविषयेऽभ्यासे द्रष्टव्यम् । अथ वा पतितादेः कुरुक्षेत्रोपरागादौ कृष्णाजिनादिप्रतिग्रहविषयम् । तथा प्रतिग्राह्यद्रव्याल्पतया प्रायश्चित्ताल्पत्वम् । यथाह हारीतः : "मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत्" इति । तथा षट्त्रिंशन्मतेऽपि :

"भिक्षामात्रे गृहीते तु पुण्यं मन्त्रम् उदिरयेत् ।
प्रतिग्रहेषु सर्वेषु षष्ठम् अंशं प्रकल्पयेत् ॥"

इतीदं च प्रायश्चित्तजातं द्रव्यत्यागोचरकालं द्रष्टव्यम्,

"यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥" (मा०ध० ११.१९४)

इति मनुस्मरणात् । एवम् अन्यान्य् अपि स्मृतिवाक्यानि द्रव्यसाराल्पत्वमहत्त्वाभ्यां विषयेषु व्यवस्थापनीयानि ॥

इत्य् उपपातकप्रायश्चित्तप्रकरणम् ।

जात्याश्रयादिदोषेण निन्द्यान्नादेश् च शब्दतः ।

योगीन्द्रोक्तव्रतव्रातः सांप्रतं तु प्रतन्यते ॥

तत्र जातिदुष्टपलाण्ड्वादिभक्षणे कामतः सकृत्कृते "पलाण्डुं विड्वराहं च" (या०ध० १.१७६) इत्यादिना चान्द्रायणम् उक्तम् । कामतोऽभ्यासे तु "निषिद्धभक्षणं जैह्म्यं" (या०ध० ३.२२९) इत्यादिनोक्तं सुरापानसमप्रायश्चित्तम् । अकामतः सकृद्भक्षणे सान्तपनम्, तत्रैवाभ्यासे यतिचान्द्रायणं,

"अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सांतपनं चरेत् ।
यतिचान्द्रायणं वापि शेषेषूपवसेद् अहः ॥" (मा०ध० ५.२०)

इति मनुस्मरणात् । यत् तु वृद्धयमेनोक्तम्,

"खट्वार्ताककुम्भीकव्रश्चनप्रभवाणि च ।
भूतृणं शिग्रुकं चैव खुखण्डं कवकानि च ॥
एतेषां भक्षणं कृत्वा प्राजापत्यं चरेद् द्विजः ॥"

इति, तत् कामतोऽभ्यासविषयम्,

मत्स्यांश् च कामतो जग्ध्वा सोपवासस्त्र्यहं क्षिपेत् । (या०ध० १.१७५)

इति योगीश्वरेण कामतः सकृद्भक्षणे त्र्यहस्योक्तत्वात् । खट्वाख्यः पक्षी, कुसुम्भम् इत्य् अन्ये । कवकं राजसर्षपाख्यं शाकम् । खुखण्डं तद्विशेषो गोबलीवर्दन्यायेन निर्दिष्टः । यत् तु यमेनोक्तम्,

"तन्दुलीयककुम्भीकव्रश्चनप्रभवांस् तथा ।
नालिकां नारिकेलीं च श्लेष्मातकफलानि च ॥
भूतृणं शिग्रुकं चैव खट्वाख्यं कवकं तथा ।
एतेषां भक्षणं कृत्वा प्राजापत्यं व्रतं चरेत् ॥"

इति तद् अपि मतिपूर्वाभ्यासविषयम् । नालिका नारिकेली च शाकविशेषौ, खट्वाख्यश् च । अकामतः सकृद्भक्षणे तु "शेषेषूपवसेद् अहः" (मा०ध० ५.२०) इति मनूक्तं द्रष्टव्यम् । तत्रैवाभ्यासे त्व् आवृत्तिः कल्प्या । अत्यन्ताभ्यासे तु,

"संसर्गदुष्टं यच् चान्नं क्रियादुष्टम् अकामतः ।
भुक्त्वा स्वभावदुष्टं च तप्तकृच्छ्रं समाचरेत् ॥"

इति प्रचेतोऽभिहितं द्रष्टव्यम् । नील्यास् त्व् अकामतः सकृद्भक्षणे चान्द्रायणम्,

"भक्षयेद् यदि नीलीं तु प्रमादाद् ब्राह्मणः क्वचित् ।
चान्द्रायणेन शुद्धिः स्याद् आपस्तम्बोऽब्रवीन् मुनिः ॥"

इत्य् आपस्तम्बस्मरणात् । कामतोऽभ्यासे चावृत्तिः कल्प्या । यद् अपि षट्त्रिंशन्मतेऽभिहितम्,

"शणपुष्पं शाल्मलं च करनिर्मथितं दधि ।
बहिर्वेदिपुरोडाशं जग्ध्वा नाद्याद् अहर्निशम् ॥"

इति, तद् अप्य् अकामविषयम् । यत् तु सुमन्तुनोक्तम् "लशुनपलाण्डुगृञ्जनकवकभक्षणे सावित्र्यष्टसहस्रेण मूर्ध्नि संपातान् नयेत्" इति, तद् बलात्कारेणानिच्छतो भक्षणविषयम्, तद् एकसाध्यव्याध्युपशमार्थे वा भक्षणे द्रष्टव्यम् । अत एवानन्तरं तेनैवोक्तम् : "एतान्य् एव व्याधितस्य भिषक्क्त्रियायाम् अप्रतिषिद्धानि भवन्ति । यानि चैवंप्रकाराणि तेष्व् अपि न दोषः" इति । संपातान् नयेद् उदकबिन्दून् प्रक्षिपेत् ॥

अथ जातिदुष्टसंधिन्यादिक्षीरपाने प्रायश्चित्तम् । तत्र चाकामतः सकृत्पाने,

"अनिर्दशाया गोः क्षीरम् औष्ट्रम् ऐकशफं तथा ।
आविकं संधिनीक्षीरं विवत्सायाश् च गोः पयः ॥
आरण्यानां च सर्वेषां मृगाणां माहिषीं विना ।
स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥
दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसम्भवम् ॥" (मा०ध० ५.८–१०)

इत्युक्त्वा "शेषेषूपवसेद् अहः" इति (मा०ध० ५.२०) मनूक्त उपवासो द्रष्टव्यः । कामतस् तु योगीश्वरोक्तस् त्रिरात्रोपवासो द्रष्टव्यः । यत् तु पैठनसिनोक्तम् : "अविखरोष्ट्रमानुषीक्षीरप्राशने तप्तकृच्छ्रः पुनर् उपनयनं च । अनिर्दशाहगोमहिषीक्षीरप्राशने षड्रात्रम् अभोजनम् । सर्वासां द्विस्तनीनां क्षीरपानेऽप्य् अजावर्जम् एतद् एव" इति । यच् च शङ्खेन,

"क्षीराणि यान्य् अभक्ष्याणि तद्विकाराशने बुधः ।
सप्तरात्रं व्रतं कुर्यात् प्रयत्नेन समाहितः ॥"

इति यावकव्रतम् उक्तं, तद् उभयम् अपि कामतोऽभ्यासविषयम् । यत् तु शङ्खेन संधिन्यमेध्यभक्षयोः क्षीरप्राशने पक्षव्रतम् उक्तम्,

"संधिन्यमेध्यभक्षयोर् भुक्त्वा पक्षव्रतं चरेत् ।"

इति, तद् अप्य् अभ्यासविषयम्, "सकृत्पाने गोऽजामहिषीवर्ज्यं सर्वाणि पयांसि प्राश्योपवसेत् । अनिर्दशाहं तान्य् अपि संधिनीयम् असूस्यन्दिनीविवत्साक्षीरं चामेध्यभुजश् च" इति विष्णुनोपवासस्योक्तत्वात् । तथा वर्णनिबन्धनश् च प्रतिषेधः,

"क्षत्रियश् चापि वृत्तस्थो वैश्यः शूद्रोऽथवा पुनः ।
यः पिबेत् कपिलाक्षीरं न ततोऽन्योऽस्त्य् अपुण्यकृत् ॥"

इत्य् एवमादौ च यत्र प्रतिपदोक्तं प्रायश्चित्तं न दृश्यते तत्र "शेषेषूपवसेद् अहः" (मा०ध० ५.२०) इति साधारणप्रायश्चित्तं मनूक्तं द्रष्टव्यम् ॥

अथ स्वभावदुष्टमांसादिभक्षणे प्रायश्चित्त मुक्तम् । तत्र कामतः सकृद्भक्षणे "शेषेषूपवसेद् अहः" (मा०ध० ५.२०) इति मनूक्तं साधारणं प्रायश्चित्तं द्रष्टव्यम् । कामतस् तु,

"चाषांश् च रक्तपादांश् च सौनं वल्लूरम् एव च ।
मत्स्यांश् च कामतो जग्ध्वा सोपवासस् त्र्यहं वसेत् ॥"

इति योगीश्वरोक्तं द्रष्टव्यम् । कामतोऽभ्यासे तु,

"जग्ध्वा मांसमभक्ष्यं तु सप्तरात्रं यवान्पिबेत् ।" (मा०ध० ११.१५३)

इति मनूक्तं द्रष्टव्यम् । इदं च विट्सूकरादिमांसव्यतिरिक्तविषयम्,

"क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे ।
नरकाकखराणां च तप्तकृच्छ्रं विशोधनम् ॥" (मा०ध० ११.१५७)

इति मनुना जातिविशेषेण प्रायश्चित्तविशेषस्योक्तत्वात् । एतन् मूत्रपुरीषप्राशनेऽप्य् एतद् एव,

"वराहैकशफानां च काककुक्कुटयोस् तथा ।
क्रव्यादानां च सर्वेषाम् अभक्ष्या ये च कीर्तिताः ॥
मांसमूत्रपुरीषाणि प्राश्य गोमांसम् एव च ।
श्वगोमायुकपीनां च तप्तकृच्छ्रं विधीयते ॥
उपोष्य वा द्वादशाहं कूष्माण्डैर् जुहुयाद् घृतम् ॥"

इति बृहद्यमस्मरणात् । तत्र कामतस् तप्तकृच्छ्रः, अभ्यासे तु कूष्माण्डसहितः पराक इति व्यवस्था । तथा प्रचेतसाप्य् उक्तम् "श्वसृगालकाककुक्कुटपार्षतवानरचित्रकचाषक्रव्याद-खरोष्ट्रगजवाजिविड्वराहगोमानुषमांसभक्षणे तप्तकृच्छ्रम् आदिशेद् एषां मूत्रपुरीषभक्षणे त्व् अतिकृच्छ्रम्" इति । इदं च कामकारविषयम् । यत् तु उशनसो वचनम्,

"नरमांसं श्वमांसं वा गोमांसं वाश्वम् एव वा ।
भुक्त्वा पञ्चनखानां च महासान्तपनं चरेत् ॥"

इति, तद् अकामविषयम् । यत् त्व् अङ्गिरोवचनम्,

"बलाकाभासगृघ्राखुखरवानरसूकरान् ।
दृष्ट्वा चैषाम् अमेध्यानि स्पृष्ट्वाचम्य विशुध्यति ॥
इच्छयैषाम् अमेध्यानि भक्षयित्वा द्विजातयः ।
कुर्युः सान्तपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ॥"

इति, तद् भक्षितोद्गारितविषयम् । सान्तपनशब्देन चात्र महासान्तपनम् उच्यते, अकामतः प्राजापत्यविधानात् । यत् पुनर् अङ्गिरोवचनम्,

"नरकाकखराश्वानां जग्ध्वा मांसं गजस्य च ।
एषां मूत्रपुरिषाणि द्विजश् चान्द्रायणं चरेत् ॥"

इति, यच् च बृहद्यमेनोक्तम्,

"शुष्कमांसाशने विप्रो व्रतं चान्द्रायणं चरेत् ।"

इति, तद् उभयम् अपि कामतोऽभ्यासविषयम् । यत् पुनः शङ्खेनोक्तम्,

"भुक्त्वा चोभयतोदन्तांस् तथा चैकशफान् अपि ।
औष्ट्रं गव्यं तथा जग्ध्वा षण्मासान् व्रतम् आचरेत् ॥"

इति, तत् कामतोऽत्यन्ताभ्यासविषयम् । यत् तु स्मृत्यन्तरोक्तम्,

"जग्ध्वा मांसं नराणां च विड्वराहं खरं तथा ।
गवाश्वकुञ्जरोष्ट्राणां सर्वं पाञ्चनखं तथा ।
क्रव्यादं कुक्कुटं ग्राम्यं कुर्यात् संवत्सरव्रतम् ॥"

इति, तद् अत्यन्तानवच्छिन्नाभ्यासविषयम् । अत्र प्रकरणे मूत्रपुरीषग्रहणं वसाशुक्रासृङ्मज्जानाम् उपलक्षणम् । कर्णविट्प्रभृतिमलषट्के त्व् अर्धं कल्पनीयम् ।

केशादिषु पुनः षट्त्रिंशन्मते विशेष उक्तः : "अजाविमहिषमृगाणाम् आममांसभक्षणे केशनखरुधिरप्राशने बुद्धिपूर्वे त्रिरात्रम् अज्ञानाद् उपवासः" इति । यत् तु प्रचेतसोक्तम् : "नखकेशमृल्लोष्टभक्षणेऽहोरात्रम् अभोजनाच् छुद्धिः" इति, तद् अप्य् अकामतः सकृत्प्राशनविषयम् । यत् तु स्मृत्यन्तरवचनम्,

"केशकीटनखं प्राश्य मत्स्यकण्टकम् एव च ।
हेमतप्तं घृतं पीत्वा तत्क्षणाद् एव शुध्यति ॥"

इति, तन् मुखमात्रप्रवेशविषयम् । यदा तु भाजनस्थम् अन्नं केशादिदूषितं भवति, तदा,

"अन्ने भोजनकाले तु मक्षिकाकेषदूषिते ।
अनन्तरं स्पृशेद् आपस् तच् चान्नं भस्मना स्पृशेत् ॥"

इति प्रचेतसाभिहितं वेदितव्यम् । प्रासङ्गिकोऽयं श्लोकः । सूक्ष्मतरकृमिकीटास्थिभक्षणे पुनर् हारीतेन विशेष उक्तः : "कृमिकीटपिपीलिकाजलौकःपतङ्गास्थिप्राशने गोमूत्रगोमयाहारस् त्रिरात्रेण विशुध्यति" इति । जलौको मत्स्यादिः । एवं च पशुपतत्त्रिजलचरनरमांसादिप्राशने संक्षेपतः प्रायश्चित्तानि प्रदर्शितानि ग्रन्थगौरवभयात् प्रतिव्यक्ति न लिख्यते ॥

अथाशुचिसंस्पृष्टभक्षणे प्रायश्चित्तं तत्र तावद् उच्छिष्टाभक्ष्यभक्षणे वक्ष्यते । तत्र मनुः :

"बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च ।
केशकीटावपन्नं च पिबेद् ब्रह्मीं सुवर्चलाम् ॥" (मा०ध० ११.१६०)

इति कालविशेषानुपादानाद् एकरात्रम् । इदं च कामतो द्रष्टव्यम् । यत् तु विष्णुनोक्तम्,

"पक्षिश्वापदजग्धस्य रसस्यान्नस्य भूयसः ।
संस्काररहितस्यापि भोजने कृच्छ्रपादकम् ॥"

इति, तत् कामकारविषयम् । संस्कारश् च मानवे "देवद्रोण्याम्" इत्यादिना द्रव्यशुद्धिप्रकरणोक्तो द्रष्टव्यः । यत् तु शातातपेनोक्तम् "श्वकाकाद्यवलीढशूद्रोच्छिष्टभोजने त्व् अतिकृच्छ्रः"इति, तद् अकामतोऽभ्यासविषयम् । यत् तु शङ्खेन,

"शुनाम् उच्छिष्टकं भुक्त्वा मासम् एकं व्रती भवेत् ।
काकोच्छिष्टं गवा घ्रातं भुक्त्वा पक्षं व्रती भवेत् ॥"

इति यावकव्रतम् उक्तं, तत् कामतोऽभ्यासविषयम् । ब्राह्मणाद्युच्छिष्टभोजने तु बृहद्विष्णुनोक्तं : "ब्राह्मणः शूद्रोच्छिष्टाशने सप्तरात्रं पञ्चगव्यं पिबेत्, वैश्योच्छिष्टाशने पञ्चरात्रं, राजन्योच्छिष्टाशने त्रिरात्रं, ब्राह्मणोच्छिष्टाशने त्व् एकाहम्" इति, तत् कामकारविषयम् । यत् तु यमवचनम्,

"भुक्त्वा सह ब्राह्मणेन प्राजापत्येन शुध्यति ।
भूभुजा सह भुक्त्वान्नं तप्तकृच्छ्रेण शुध्यति ॥
वैश्येन सह भुक्त्वान्नम् अतिकृच्छ्रेण शुध्यति ।
शूद्रेण सह भुक्त्वान्नं चान्द्रायणम् अथाचरेत् ॥"

इति, तत् कामतोऽभ्यासविषयम् । यत् पुनः शङ्खवचनम् "ब्राह्मणोच्छिष्टाशने महाव्याहृतिभिर् अभिमन्त्र्यापः पिबेत्, क्षत्रियोच्छिष्टाशने ब्राह्मीरसविपक्वेन त्र्यहं क्षीरेण वर्तयेत्, वैश्योच्छिष्टाशने त्रिरात्रोपोषितो ब्राह्मीं सुवर्चलां पिबेत्, शूद्रोच्छिष्टभोजने षड्रात्रम् अभोजनम्" इति, तद् अकामविषयम् । तत्राभ्यासे द्वैगुण्यादिकं कल्प्यम् । एतच् च पित्रादिव्यतिरेकेण, "पितुर् ज्येष्ठस्य च भ्रातुर् उच्छिष्टं भोज्यम्" (आ०ध० १.४.११) इत्य् आपस्तम्बस्मरणात् । यत् तु बृहद्व्यासवचनम् :

"माता वा भगिनी वापि भार्या वान्याश् च योषितः ।
न ताभिः सह भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥"

इति, तत् सहभोजनविषयम् । उच्छिष्टमात्रभोजने तु "शूद्रोच्छिष्टभोजने सप्तरात्रम् अभोजनं स्त्रीणां च" (आ०ध० १.२६.४–५) इत्य् आपस्तम्बोक्तं द्रष्टव्यम् । यत् त्व् अङ्गिरोवचनम् :

"ब्राह्मण्या सह योऽश्नीयाद् उच्छिष्टं वा कदाचन ।
तत्र दोषं न मन्यन्ते सर्व एव मनीषिणः ॥"

इति, तद् विवाहविषयम् आपद्विषयं वा । अन्त्योच्छिष्टभोजने तु,

"अन्त्यानां बुक्तशेषं तु भक्षयित्वा द्विजातयः ।
चान्द्रं कृच्छ्रं तदर्धं च ब्रह्मक्षत्रविशां विधिः ॥"

इत्य् आपस्तम्बोक्तं द्रष्टव्यम् । अत्र चान्द्रं चान्द्रायणम् । अन्त्यावसाय्युच्छिष्टभोजने तु,

"चण्डालपतितादीनाम् उच्छिष्टान्नस्य भक्षणे ।
चान्द्रायणं चरेद् विप्रः क्षत्रः सान्तपनं चरेत् ॥
षड्रात्रं च त्रिरात्रं च वर्णयोर् अनुपूर्वशः ॥"

इत्य् अङ्गिरोभिहितं सान्तपनम् अत्र महासन्तपनं द्रष्टव्यम् । आपदि तु,

"आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि ।
मनस्तापेन शुध्येत् तु द्रुपदानां शतं जपेत् ॥"

इति पराशरोक्तं वेदितव्यम् । यत् तु बृहच्छातातपेनोक्तम्,

"पीतशेषं तु यत् किंचिद् भाजने मुखनिःसृतम् ।
अभोज्यं तद् विजानीयाद् भुक्त्वा चान्द्रायणं चरेत् ॥"

इति, तद् अभ्यासविषयम्, निमित्तस्यातिलघुत्वात् ।

"पीतोच्छिष्टं च पानीयं पीत्व तु ब्राह्मणः क्वचित् ।
त्रिरात्रं तु व्रतं कुर्याद् वामहस्तेन वा पुनः ॥"

इति एतद् बुद्धिपूर्वविषयम् । अकामतस् त्व् अर्धं कल्प्यम् । दीपोच्छिष्टे तु,

"दीपोच्छिष्टं तु यत् तैलं रात्रौ रथ्याहृतं च यत् ।
अभ्यङ्गाच् चैव यच् छिष्टं भुक्त्वा नक्तेन शुध्यति ॥"

इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् ॥

अथाशुचिद्रव्यसंस्पृश्टभक्षणे प्रायश्चित्तम् । तत्राह संवर्तः :

"केशकीटावपन्नं च नीलीलाक्षोपघातितम् ।
स्नाय्वस्थिचर्मसंस्पृष्टं भुक्त्वा तूपवसेद् अहः ॥" इति ।

तथाह शातातपः : "केशकीटावपन्नं च रुधिरमांसास्पृश्यस्पृष्टभ्रूणघ्नावेक्षित-पतत्त्र्यवलीढश्वसूकरगवाघ्रातशुक्तपर्युषितवृथापक्वदेवान्नहविषां भोजने उपवासः पञ्चगव्याशनं च" इति एतच् चोभयम् अप्य् अकामविषयम् । कामतस् तु,

"मृद्वारिकुसुमादींश् च फलकन्देक्षुमूलकान् ।
विण्मूत्रदूषितान् प्राश्य कृच्छ्रपादं समाचरेत् ॥
संनिकृष्टेऽर्धम् एव स्यात् कृच्छ्रः स्याच् छुचिशोधनम् ॥"

इति विष्णूक्तं वेदितव्यम् । अल्पसंसर्गे पादो महासंसर्गेऽर्धक्र्च्छ्र इति व्यवस्था । यत् तु व्यासेनोक्तम्,

"संसर्गदुष्टं यच् चान्नं क्रियादुष्टं च कामतः ।
भुक्त्वा स्वभावदुष्टं च तप्तकृच्छ्रं समाचरेत् ॥"

इति, एतच् च संसृष्टामेध्यादिरसोपलब्धौ वदितव्यम् । रजस्वलादिस्पृशे तु शङ्खोक्तम् : "अमेध्यपतितचण्डालपुल्कसरजस्वलावधूतकुणिकुष्टिकुनखिसंस्पृष्टानि भुक्त्वा कृच्छ्रं चरेत्" । इति । कुणिर् हस्तविकलः । एतत् कामकारविषयम् । अकामतोऽर्धम् ।

"भुक्त्वास्पृश्यैस् तथाशौचिकेशकीटैश् च दूषितम् ।
कुशोदुम्बरबिल्वाद्यैः पनसाम्बुजपत्रकैः ।
शङ्खपुष्पीसुवर्चादिक्वाथं पीत्वा विशुध्यति ॥"

इति यद् विष्णुनोक्तं, तद् अशक्तविषयं रजकादिस्पृष्टविषयं वा । शूद्राद्युपहते तु हारीतोक्तं विज्ञेयम् : "शूद्रेणोपहतं भोज्यं कीटैर् वामेध्यसेविभिः । भुञ्जानेषु वा यत्र शूद्र उपस्पृशेद् अनर्हत्वात् स पङ्क्तौ तु भुञ्जानेषु वा यत्रोत्थायोच्छिष्टं प्रयच्छेद् आचामेद् वा कुत्सित्वा वा यत्रान्नं दद्युस् तत्र प्रायश्चित्तम् अहोरात्रम्" इति । उच्छिष्टपङ्क्तिभोजनेऽप्य् एतद् एव,

"यस् तु भुङ्क्ते द्विजः पण्क्त्याम् उच्छिष्टायां कदाचन ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥"

इति क्रतुस्मरणात् । वामकरनिर्मुक्तान्नभोजने तु,

"समुत्थितस् तु यो भुङ्क्ते यो भुङ्क्ते मुक्तभाजने ।
एवं वैवस्वतः प्राह भुक्त्वा सान्तपनं चरेत् ॥"

इति षट्त्रिंशन्मतोक्तं वेदितव्यम् । तथा पराशरेणाप्य् अत्रोक्तम् ।

"एकपङ्क्त्युपविष्टानां विप्राणां सह भोजने ।
यद्य् एकोऽपि त्यजेत् पात्रं शेषम् अन्नं न भोजयेत् ॥
मोहाद् भुञ्जीत यस् तत्र पङ्क्त्याम् उच्छिष्टभोजनः ।
प्रायश्चित्तं चरेद् विप्रः कृच्छ्रं सान्तपनं तथा ॥" इति ॥

शवादिसंपृक्तकूपाद्युदकपाने तु विष्णुर् आह : "मृतपञ्चनखात् कूपाद् अत्यन्तोपहताद् वोदकं पीत्वा ब्राह्मणस् त्र्यहम् उपवसेत्, द्व्यहं राजन्यः, एकाहं वैश्यः, शूद्रो नक्तम् । सर्वे चान्ते पञ्चगव्यं पिबेयुः" (वि०ध० ५४.२–६) इति । अत्यन्तोपहताद् वेति मूत्रपुरीषादिभिर् वेत्य् अभिप्रेतम् । यदा तु तत्रैव शवम् उच्छूनतयोद्भिन्नं भवति, तदा हारीतो विशेषम् आह ।

"क्लिन्ने भिन्ने शवे तोयं तत्रस्थं यदि चेत् पिबेत् ।
शुद्ध्यै चान्द्रायणं कुर्यात् तप्तकृच्छ्रम् अथापि वा ॥
यदि कश्चित् ततः स्नायात् प्रमादेन द्विजोत्तमः ।
जपंस् त्रिषवणस्नाय्य् अहोरात्रेण शुध्यति ॥" इति ।

इदं चान्द्रायणं कामतो मानुषशवोपहतकूपजलपानविषयम् । अकामतस् तु षड्रात्रम्,

"क्लिन्नं भिन्नं शवं चैव कूपस्थं यदि दृश्यते ।
पयः पिबेत् त्रिरात्रेण मानुषे द्विगुणे स्मृतम् ॥"

इति देवलस्मरणात् । यदा चाण्डालकूपादिगतं जलं पिबति तदा आपस्तम्बोक्तं द्रष्टव्यम् ।

"चाण्डालकूपभाण्डस्थं नरः कामाज् जलं पिबेत् ।
प्रायश्चित्तं कथं तत्र वर्णे वर्णे विनिर्दिशेत् ॥
चरेत् सान्तपनं विप्रः प्राजापत्यं च भूमिपः ।
तदर्धं तु चरेद् वैश्यः शूद्रे पादं विनिर्दिशेत् ॥" इति ।

इदं च कामकारविषयम् । अकामतस् तु,

"चाण्डालकूपभाण्डस्थम् अज्ञानाद् उदकं पिबेत् ।
स तु त्र्यहेण शुध्येत शूद्रस् त्व् एकेन शुध्यति ॥"

इति देवलोक्तं द्रष्टव्यम् । चाण्डालादिसंबद्धाल्पजलाशयेष्व् अपि कूपवच् छुद्धिः,

"जलाशयेष्व् अथाल्पेषु स्थावरेषु महीतले ।
कूपवत् कथिता शुद्धिर् महत्सु तु न दूषणम् ॥" (वि०ध० २३.४६)

इति विष्णुस्मरणात् । पुष्करिण्यादिषु पुनः,

"म्लेच्छादीनां जलं पीत्वा पुष्करिण्यां हृदेऽपि वा ।
जानुदध्नं शुचि ज्ञेयम् अधस्ताद् अशुचि स्मृतम् ॥
तत् तोयं यः पिबेद् विप्रः कामतोऽकामतोऽपि वा ।
अकामान् नक्तभोजी स्याद् अहोरात्रं तु कामतः ॥"

इत्य् आपस्तम्बोक्तं द्रष्टव्यम् । रजकादिभाण्डगततोये तु,

"भाण्डस्थम् अन्त्यजानां तु जलं दधि पयः पिबेत् ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् चैव प्रमादतः ॥
ब्रह्मकूर्चोपवासेन द्विजातीनां तु निष्कृतिः ॥
शूद्रस्य चोपवासेन तथा दानेन शक्तितः ॥"

इति पराशरोक्तं वेदितव्यम् । कामतस् तु द्विगुणम्,

"अन्त्यजैः खानिताः कूपास् तडागा वाप्य एव वा ।
एषु स्नात्व च पीत्वा च प्राजापत्येन शुध्यति ॥"

इत्य् आपस्तम्बोक्तम् अभ्यासविषयं वेदितव्यम् । यत् त्व् आपस्तम्बेन चण्डालादितडागकूपादिजलपाने पञ्चगव्यमात्रं भक्ष्यम् उक्तम्,

"प्रपास्व् अरण्ये घटके च सौरे द्रोण्यां जलं कोशविनिर्गतं च ।
श्वपाकचण्डालपरिग्रहेषु पीत्वा जलं पञ्चगव्येन शुध्येत् ॥"

इति, तद् अशक्तविषयम् ।

"प्रपां गतो विना तोयं शरीरं यो निषिञ्चति ।
एकाहक्षपणं कृत्वा सचैलं स्नानम् आचरेत् ॥
सुराघटप्रपातोये पीत्वा नाव्यं जलं तथा ।
अहोरात्रोषितो भूत्वा पञ्चगव्यं जलं पिबेत् ॥" इति ॥

अथ भावदुष्टभक्षणे प्रायश्चित्तम् । भावदुष्टं च यद् वर्णत आकारतो वा विसदृशतया जुगुप्सितशारीरमलादिवासनां जनयति तद् उच्यते, अरिप्रयुक्तगरलादिशङ्कायां वा । तत्र च पराशरः ।

"वाग्दुष्टं भावदुष्टं च भाजने भावदूषिते ।
भुक्त्वान्नं ब्राह्मणः पश्चात् त्रिरात्रेण वुसिध्यति ॥" इति ।

एतत् कामकारविषयम् । यत् तु गौतमेन "भावदुष्टं" "केवलम्" (गौ०ध० १७.१३, १४) इत्यादि प्राक् पञ्चनखेभ्यः पठित्वा प्रायश्चित्तम् उक्तम् "प्राक् पञ्चनखेभ्यश् छर्दनं घृतप्राशनं च" (गौ०ध० २३.२६) इति, तद् अकामविषयम् । शङ्कायां तु,

"शङ्कास्थाने समुत्पन्ने अभोज्याभक्ष्यसंज्ञितम् ।
आहारशुद्धिं वक्ष्यामि तन् मे निगदतः शृणु ॥
अक्षारलवणां रूक्षां पिबेद् ब्राह्मीं सुवर्चलाम् ।
त्रिरात्रं शङ्खपुष्पीं वा ब्राह्मणः पयसा सह ॥
पलाशबिल्वपत्राणि कुशान् पद्मम् उदुम्बरम् ।
अपः पिबेत् क्वाथयित्वा त्रिरात्रेण विशुध्यति ॥" (व०ध० १०–१२)

इति वसिष्ठोक्तं द्रष्टव्यम् । मनुनाप्य् अभोज्यभोजनशङ्कायाम् उक्तम् ।

"संवत्सरस्यैकम् अपि चरेत् कृच्छ्रं द्विजोत्तमः ।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥" इति ॥ (मा०ध० ५.२१)

अथ कालदुष्टभक्षणे प्रायश्चित्तम् । कालदुष्टं च पर्युषितानिर्दशगोक्षीरादि । तत्र चाकामतः "शेषेषूपवसेद् अहः" इति (मा०ध० ५.२०) मनूक्तं वेदितव्यम् । कामतस् तु,

"केवलानि च शुक्तानि तथा पर्युषितं च यत् ।
ऋजीषपक्वं भुक्त्वा च त्रिरात्रं तु व्रती भवेत् ॥"

इति शङ्खोक्तं वेदितव्यम् । केवलान्य् अस्नेहोक्तानि । अनिर्दशगोक्षीरादिषु प्रायश्चित्तं प्राक् प्रदर्शितम् । नवोदकस्य पाने तु पञ्चगव्यप्राशनम्,

"शृङ्गास्थिदन्तजैः पात्रैः शङ्खशुक्तिकपर्दकैः ।
पीत्वा नवोदकं चैव पञ्चगव्येन शुध्यति ॥"

इति बृहद्याज्ञवल्क्यस्मरणात् । कामतस् तूपवासः कर्तव्यः,

"काले नवोदकं शुद्धं न पिबेच् च त्र्यहं हि तत् ।
अकाले तु दशाहं स्यात् पीत्वा नाद्याद् अहर्निशम् ॥"

इति स्मृत्यन्तरदर्शनात् । ग्रहणकालभोजने तु चान्द्रायणम्,

"नवश्राद्धग्रामयाजकान्नसग्रहभोजने ।
नारीणां प्रथमे गर्भे भुक्त्वा चान्द्रायणं चरेत् ॥"

इति शातातपस्मरणात् । यदा तु सग्रहाद् अन्यत्र निषिद्धकाले भुङ्क्ते तदाह मार्कण्डेयः ।

"चन्द्रस्य यदि वा भानोर् यस्मिन्न् अहनि भार्गव ।
ग्रहणं तु भवेत् तस्मिन् न पूर्वं भोजनक्रियाम् ॥
नाचरेत् सग्रहे चैव तथैवास्तमुपागते ।
यावत् स्यान् नोदयस् तस्य नाश्नीयात् तावद् एव तु ॥"

तथा,

"ग्रहणं तु भवेद् इन्दोः प्रथमाद् अधियामतः ।
भुञ्जीतावर्तनात् पूर्वं प्रथमे प्रथमाद् अधः ॥"

तथा,

"अपराह्णे न मध्याह्ने सायाह्ने न तु सङ्गवे ।
भुञ्जीत सङ्गवे चेत् स्यान् न पूर्वं भोजनक्रिया ॥" इति ।

यच् च मनुनोक्तम्,

"नाश्नीयात् संधिवेलायां नातिप्रगे नातिसायम् ।" (मा०ध० ४.५५)

इत्य् एवमादि, यच् च बृहच्छातातपेनोक्तम्,

"धाना दधि च सक्तूंश् च श्रीकामो वर्जयेन् निशि ।
भोजनं तिलसंबद्धं स्नानं चैव विचक्षणः ॥"

इत्य् एवमादिष्व् अनादिष्टप्रायश्चित्तेषु,

प्राणायामशतं कार्यं सर्वपापापनुत्तये ।

उपपातकजातानाम् अनादिष्टस्य चैव हि ॥ (या०ध० ३.३०५)

इति योगीश्वरोक्तं प्राणायामशतं द्रष्टव्यम् । अकामतस् तु "शेषेषूपवसेद् अहः" (मा०ध० ५.२०) इति मनूक्तोपवासो द्रष्टव्यः ॥

अथ गुणदुष्टशुक्तादिभक्षणे प्रायश्चित्तम् । तत्र मनुः ।

"शुक्तानि च कषायांश् च पीत्वामेध्यान्य् अपि द्विजः ।
तावद् भवत्य् अप्रयतो यावत् तन् न व्रजत्य् अधः ॥" इति । (मा०ध० ११.१५४)

अत्राकामतः "शेषेषूपवसेद् अहः" (मा०ध० ५.२०) इत्य् उपवासो द्रष्टव्यः । कामतस् तु,

"केवलानि च शुक्तानि तथा पर्युषितं च यत् ।
ऋजीषपक्वं भुक्त्वा च त्रिरात्रं तु व्रती भवेत् ॥"

इति शङ्खोक्तं द्रष्टव्यम् । एतच् चामलकादिफलयुक्तकाञ्जिकादिव्यतिरेकेण द्रष्टव्यम् ।

"कुण्डिका सफला येषु गृहेषु स्थापिता भवेत् ।
तस्यास् तु काञ्जिका ग्राह्या नेतरस्याः कदाचन ॥"

इति स्मरणात् । उद्धृतस्नेहादिषु तु "उद्धृतस्नेहविलयनपिण्याकमथितप्रभृतीनि चात्तवीर्याणि नाश्नीयात्" (गौ०ध० ९.५८) इत्य् उक्त्वा, "प्राक् पञ्चनखेभ्यश् छर्दनं घृतप्राशनं च" (गौ०ध० २३.२६) इति गौतमोक्तं द्रष्टव्यम् । विलयनं घृतादिमलम् । अनाहुताद्यन्नभोजने तु लिखित आह ।

"यस्य चाग्नौ न क्रियते यस्य चाग्रं न दीयते ।
न तद् भोज्यं द्विजातीनां भुक्त्वा चोपवसेद् अहः ॥
वृथा कृसरसंयावपायसापूपशष्कुलीः ।
आहिताग्निर् द्विजो भुक्त्वा प्राजापत्यं समाचरेत् ॥" इति ॥

अनाहिताग्नेस् तु "शेषेषूपवसेद् अहः" (मा०ध० ५.२०) इत्य् उपवासो द्रष्टव्यः । भिन्नभाजनादिषु तु भोजने संवर्तेनोक्तम् ।

"शूद्राणां भाजने भुक्त्वा भुक्त्वा वा भिन्नभाजने ।
अहोरात्रोषितो भुक्त्वा पञ्चगव्येन शुध्यति ॥" इति ।

तथा स्मृत्यन्तरेऽप्य् उक्तम् ।

"वटार्काश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयोः ।
कोविदारकदम्बेषु भुक्त्वा चान्द्रायणं चरेत् ॥" इति ।

तथा,

"पलाशपद्मपत्रेषु गृही भुक्त्वैन्दवं चरेत् ।
वानप्रस्थो यतिश् चैव लभते चान्द्रिकं फलम् ॥" इति ॥

अथ हस्तदानादिक्रियादुष्टाभोज्यभक्षणे प्रायश्चित्तम् । तत्र पराशरः।

"माक्षिकं फाणितं शाकं गोरसं लवणं घृतम् ।
हस्तदत्तानि भुक्त्वा तु दिनम् एकम् अभोजनम् ॥" इति ।

कामतस् तु, "हस्तदत्तभोजने अब्राह्मणसमीपे भोजने दुष्टपङ्क्तिभोजने पङ्क्त्यग्रतो भोजनेऽभ्यक्तमूत्रपुरीषकरणे मृतसूतकशूद्रान्नभोजने शूद्रैः सह स्वप्ने त्रिरात्रम् अभोजनम्" इति हारीतोक्तं विज्ञेयम् । पर्यायान्नदानदुष्टे तु,

"ब्राह्मणान्नं ददच् छूद्रः शूद्रान्नं ब्राह्मणो ददत् ।
द्वयम् एतद् अभोज्यं स्याद् भुक्त्वा तूपवसेद् अहः ॥"

इति वृद्धयाज्ञवल्क्योक्तम् अवगन्तव्यम् । शूद्रहस्तेन भोजने तु,

"शूद्रहस्तेन यो भुङ्क्ते पानीयं वा पिबेत् क्वचित् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥"

इति क्रतूक्तं विज्ञेयम् । धमनदुष्टेऽपि,

"आसनारूढपादो वा वस्त्रार्धप्रावृतोऽपि वा ।
मुखेन धमितं भुक्त्वा कृच्छ्रं सान्तपनं चरेत् ॥"

इति तेनैवोक्तम् । पित्राद्युद्देशेन त्यक्तान्नभोजने तु,

"भुङ्क्ते चेत् पार्वणश्राद्धे प्राणायामान् षड् आचरेत् ।
उपवासस् त्रिमासादि वत्सरान्तं प्रकीर्तितः ॥
प्राणायामत्रयं वृद्धाव् अहोरात्रं सपिण्डने ।
असरूपे स्मृतं नक्तं व्रतपारणके तथा ॥
द्विगुणं क्षत्रियस्यैतत् त्रिगुणं वैश्यभोजने ।
साक्षाच् चतुर्गुणं ह्य् एतत् स्मृतं शूद्रस्य भोजने ॥
अतिथौ तिष्ठति द्वारि ह्य् अपः प्राश्नन्ति ये द्विजाः ।
रुधिरं तद् भवेद् वारि भुक्त्वा चान्द्रायणं चरेत् ॥"

इति भारद्वाजोक्तम् अवगन्तव्यम् । हारीतेनाप्य् उक्तम् ।

"एकादशाहे भुक्त्वान्नं भुक्त्वा संचयने तथा ।
उपोष्य विधिवत् स्नात्वा कूष्माण्डैर् जुहुयाद् घृतम् ॥" इति ।

विष्णुनाप्य् उक्तम् ।

"प्राजापत्यं नवश्राद्धे पादोनं चाद्यमासिके ।
त्रैपक्षिके तदर्धं तु पञ्चगव्यं द्विमासिके ॥" इति ।

इदं चापद्विषयम् । अनापदि तु,

"चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मिश्रके ।
एकाहस् तु पुराणेषु प्राजापत्यं विधीयते ॥"

इति हारीतोक्तं द्रष्टव्यम् । "प्राजापत्यं तु मिश्रके" इत्य् एतद् आद्यमासिकविष्यं द्रष्टव्यम् । द्वितीयादिषु तु,

"प्राजापत्यं नवश्राद्धे पदोनं चाद्यमासिके ।
त्रैपक्षिके तदर्धं स्यात् पादो द्वैमासिके तथा ।
पादोनकृच्छ्रम् उद्दिष्टं षण्मासे च तथाब्दिके ।
त्रिरात्रं चान्यमासेषु प्रत्यहं चेद् अहः स्मृतम् ॥"

इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् । क्षत्रियादिश्राद्धभोजने त्व् अनापदि तत्रैव उक्तः ।

"चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः ।
त्रैपक्षिके सान्तपनं कृच्छ्रो मासद्वये स्मृतः ॥
क्षत्रियस्य नवश्राद्धे व्रतम् एतद् उदाहृतम् ।
वैश्यस्यार्धाधिकं प्रोक्तं क्षत्रियात् तु मनीषिभिः ॥
शूद्रस्य तु नवश्राद्धे चरेच् चान्द्रायणद्वयम् ।
सार्धं चान्द्रायणं मासे त्रिपक्षे त्व् ऐन्दवं स्मृतम् ॥
मासद्वये पराकः स्याद् ऊर्ध्वं सान्तपनं स्मृतम् ॥" इति ।

यत् तु शङ्खवचनम्,

"चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः ।
पक्षत्रयेऽतिकृच्छ्रः स्यात् षण्मासे कृच्छ्र एव तु ॥
आब्दिके पादकृच्छ्रः स्याद् एकाहः पुनर् आब्दिके ।
अत ऊर्ध्वं न दोषः स्याच् छङ्खस्य वचनं यथा ॥"

इति, तत् सर्पादिहतविषयम्, "ये स्तेनाः पतिताः क्लीबाः" (मा०ध० ३.१५०) इत्याद्यपाङ्क्तेयविषयं वा ।

"चण्डालाद् उदकात् सर्पाद् ब्राह्मणाद् वैद्युताद् अपि ।
दंष्ट्रिभ्यश् च पशुभ्यश् च मरणं पापकर्मणाम् ॥
पतनानाशकैश् चैव विषोद्बन्धनकैस् तथा ।
भुक्त्वैषां षोडशश्राद्धे कुर्याद् इन्दुव्रतं द्विजः ॥" इति ।

तथा,

"अपाङ्क्तेयान् यदुद्दश्य श्राद्धम् एकादशेऽहनि ।
ब्राह्मणस् तत्र भुक्त्वान्नं शिशुचान्द्रायणं चरेत् ॥" इति ।

"आमश्राद्धे तथा भुक्त्वा तप्तकृच्छेण शुध्यति ।
संकल्पिते तथा भुक्त्वा त्रिरात्रं क्षपणं भवेत् ॥"

इति भरद्वाजेन गुरुप्रायश्चित्ताभिधानात् ।

ब्रह्मचारिणस् तु बृहद्यमो विशेषम् आह ।

"मासिकादिषु योऽश्नीयाद् असमाप्तव्रतो द्विजः ।
त्रिरात्रम् उपवासोऽस्य प्रायश्चित्तं विधीयते ॥
प्राणायामत्रयं कृत्वा घृतं प्राश्य विशुध्यति ॥" इति ।

इदम् अज्ञानविषयम् । कामतोऽपि स एवाह ।

"मधु मांसं तु योऽश्नीयाच् छ्राद्धे सूतक एव वा ।
प्राजापत्यं चरेत् कृच्छ्रं व्रतशेषं समापयेत् ॥" इति ।

आमश्राद्धे तु सर्वत्रार्धम्,

"आमश्राद्धे तदर्धं तु प्राजापत्यं तु सर्वदा ।"

इति षट्त्रिंशन्मतेऽभिधानात् । यत् तु उशनसोक्तम्,

"दशकृत्वः पिबेच् चापो गायत्र्या श्राद्धभुग् द्विजः ।
ततः संध्याम् उपासीत शुध्येत् तु तदनन्तरम् ॥"

इति, तद् अनुक्तप्रायश्चित्तश्राद्धविषयम् । संस्काराङ्गभूतश्राद्धभोजने तु व्यासेन विशेष उक्तः ।

"निर्वृत्तचूडाहोमे तु प्राङ्नामकरणात् तथा ।
चरेत् सान्तपनं भुक्त्वा जातकर्मणि चैव हि ॥
अतोऽन्येषु तु भुक्त्वान्नं संस्कारेषु द्विजोत्तमः ।
नियोगाद् उपवासेन शुध्यते निन्द्यभोजने ॥" इति ॥

सीमन्तोन्नयनादिषु पुनर् धौम्यो विशेषम् आह ।

"ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा ।
जातश्राद्धे नवश्राद्धे द्विजश् चान्द्रायणं चरेत् ॥" इति ।

अत्र ब्रह्मौदनाख्यं कर्माधानाङ्गभूतम्, सोमसाहचर्यात् ॥

अथ परिग्रहाभोज्यभोजने प्रायश्चित्तम् । "यत् स्वरूपतोऽनिषिद्धम् अपि विशिष्टपुरुषस्वामिकतयाभोज्यं भण्यते तत्परिग्रहाशुचि" । तत्र योगीश्वरेण,

अदत्तान्य् अग्निहीनस्य नान्नम् अद्याद् अनापदि । (या०ध० १.१६०)

इत्य् आरभ्य सार्धपञ्चभिः श्लोकैर् अभोज्यान्नाः प्रतिपादिताः (या०ध० १.१६१–६५) । मनुनापि त एव किंचिदधिकाः प्रतिपादिताः ।

"नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा ।
स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्वचित् ॥
मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन ।
गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ॥
स्तेनगायनयोश् चान्नं तक्ष्णो वार्द्धुषिकस्य च ।
दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥
अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च ।
चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ॥
उग्रान्नं सूतिकान्नं च पर्याचान्तम् अनिर्दशम् ।
अनर्चितं वृथामांसम् अवीरायाश् च योषितः ॥
द्विषदन्नं नगर्यन्नं पतितान्नम् अवक्षुतम् ।
पिशुनानृतिनोश् चैव क्रतुविक्रयिणस् तथा ॥
शैलूषतुन्नवायान्नं कृतघ्नस्यान्नम् एव च ।
कर्मारस्य निषादस्य रङ्गावतारणस्य च ॥
सुवर्णकर्तुर् वेणस्य शस्त्रविक्रयिणस् तथा ।
श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च ॥
रजकस्य नृशंसस्य यस्य चोपपतिर् गृहे ।
मृष्यन्ति ये चोपपतिं स्त्रीजितानाम् च सर्वशः ॥
अनिर्दशं च प्रेतान्नम् अतुष्टिकरम् एव च ॥" इति ॥ (मा०ध० ४.२०५–१७)

अत्र च पदार्था अभक्ष्यकाण्डे श्राद्धकाण्डे च व्याख्याताः । अत्र प्रायश्चित्तम् आह ।

"भुक्त्वातोऽन्यतमस्यान्नम् अमत्या क्षपणं त्र्यहम् ।
मत्या भुक्त्वाचरेत् कृच्छ्रं रेतोविण्मूत्रम् एव च ॥" इति । (मा०ध० ४.२२२)

पैठीनसिनाप्य् अकामतस् त्रिरात्रम् एवोक्तम् : "कुनाखी श्यावदन्तः पित्रा विवदमानः स्त्रीजितः कुष्ठी पिशुनः सोमविक्रयी वाणिजको ग्रामयाजकोऽभिशस्तो वृषल्याम् अभिजितः परिवित्तिः परिविन्दानो दिधिषूपतिः पुनर्भूपुत्रश् चौरः काण्डपृष्ठः सेवकश् चेत्य् अभोज्यान्ना अपाङ्क्तेया अश्राद्धार्हाः एषां भुक्त्वा दत्त्वा वाविज्ञानात् त्रिरात्रम्" इति ॥ शङ्खेन त्व् एतान् एव किंचिदधिकान् पठित्वा चान्द्रायणम् उक्तं, तद् अभ्यासविषयम् ॥ गौतमेन पुनर् "उच्छिष्टपुंश्चल्यभिशस्ताः" (गौ०ध० १७.१७) इत्यादिना अभोज्यान् पठित्वा, "प्राक् पञ्चनखेभ्यश् छर्दनं घृतप्राशनं च" (गौ०ध० २३.२६) इति प्रायश्चित्तम् उक्तं, तद् आपद्विषयम् । यस् तु बलात्कारेण भोज्यते तस्यापस्तम्बेन विशेष उक्तः ।

"बलाद् दासीकृता ये तु म्लेच्छचण्डालदस्युभिः ।
अशुभं कारिताः कर्म गवादिप्राणिहिंसनम् ॥
उच्छिष्टमार्जनं चैव तथोच्छिष्टस्य भोजनम् ।
खरोष्ट्रविड्वराहाणाम् आमिषस्य च मक्षणम् ॥
तत्स्त्रीणां च तथा सङ्गस् ताभिश् च सह भोजनम् ।
मासोषिते द्विजातौ तु प्राजापत्यं विशोधनम् ॥
चान्द्रायणं त्व् आहिताग्नेः पराकस् त्व् अथवा भवेत् ।
चान्द्रायणं पराकं च चरेत् संवत्सरोषितः ॥
संवत्सरोषितः शूद्रो मासार्धं यावकं पिबेत् ।
मासमात्रोषितः शूद्रः कृच्छ्रपादेन शुध्यति ॥
ऊर्ध्वं संवत्सरात् कल्प्यं प्रायश्चित्तं द्विजोत्तमैः ।
संवत्सरैस् त्रिभिश् चैव तद्भावं स निगच्छति ॥" इति ।

आशौचिपरिगृहीतान्नभोजने तु छागलेय आह ।

"अज्ञानाद् भुञ्जते विप्राः सूतके मृतके तथा ।
प्राणायामशतं कृत्वा शुध्यन्ते शूद्रसूतके ॥
वैश्ये षष्टिर् भवेद् राज्ञि विंशति ब्राह्मणे दश ।
एकाहं च त्र्यहं पञ्च सप्तरात्रम् अभोजनम् ॥
ततः शुद्धिर् भवत्य् एषां पञ्चगव्यं पिबेत् ततः ॥" इति ।

ब्राह्मणादिक्रमेणैकाहत्र्यहादयो योज्याः । इदम् अकामविषयम् । कामतस् तु मार्कण्डेय आह ।

"भुक्त्वा तु ब्राह्मणाशौचे चरेत् सान्तपनं द्विजः ।
भुक्त्वा तु क्षत्रियाशौचे सप्तकृच्छ्रो विधीयते ॥
वैश्याशौचे तथा भुक्त्वा महासान्तपनं चरेत् ।
शूद्रस्यैव तथा भुक्त्वा त्रिमासान् व्रतम् आचरेत् ॥"

यत् तु शङ्खेनोक्तम्,

"शूद्रस्य सूतके भुक्त्वा षण्मासान् व्रतम् आचरेत् ।
वैश्यस्य तु तथा भुक्त्वा त्रीन् मासान् व्रतम् आचरेत् ॥
क्षत्रियस्य तथा भुक्त्वा द्वौ मासौ व्रतम् आचरेत् ।
ब्राह्मणस्य तथाशौचे भुक्त्वा मासव्रती भवेत् ॥"

इति, इदम् अभ्यासविषयम् । एतच् च प्रायश्चित्तम् आशौचानन्तरं वेदितव्यम्, "ब्राह्मणादीनाम् आशौचे यः सकृद् एवान्नम् अश्नाति तस्य तावद् आशौचं यावत् तेषाम्, आशौचव्यपगमे तु प्रायश्चित्तं कुर्यात्" इति (वि०ध० २२.८–९) विष्णुस्मरणात् ॥

अपुत्राद्यन्नभोजने तु लिखित आह ।

"भुक्त्वा वार्धुषिकस्यान्नम् अव्रतस्यासुतस्य च ।
शूद्रस्य च तथा भुक्त्वा त्रिरात्रं स्याद् अभोजनम् ॥"

तथा ।

"परपाकनिवृत्तस्य परपाकरतस्य च ।
अपचस्य तु भुक्त्वान्नं द्विजश् चान्द्रायणं चरेत् ॥" इति ।

एतच् चाभ्यासविषयम् । परपाकेन निवृत्तादेर् लक्षणं च तेनैवोक्तम् ।

"गृहीत्वाग्निं समारोप्य पञ्चयज्ञान्न निर्वपेत् ।
परपाकनिवृत्तोऽसौ मुनिभिः परिकीर्तितः ॥
पञ्चयज्ञांस् तु यः कृत्वा परान्नाद् उपजीवति ।
सततं प्रातर् उत्थाय परपाकरतस् तु सः ॥
गृहस्थधर्मवृत्तौ यो ददाति परिवर्जितः ।
ऋषिभिर् धर्मतत्त्वज्ञैर् अपचः संप्रकीर्तितः ॥" इति ।

यत् तु ब्रह्मचार्याद्यन्नभोजने वृद्धयाज्ञवल्क्य आह,

"यतिश् च ब्रह्मचारी च पक्वान्नस्वामिनाव् उभौ ।
तयोर् अन्नं न भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥" इति ॥

यच् च पार्वणश्राद्धाद्यकर्तुर् अन्नभोजने भरद्वाज आह,

"पक्षे वा यदि वा मासे यस्य नाश्नन्ति देवताः ।
भुक्त्वा दुरात्मनस् तस्य द्विजश् चान्द्रायणं चरेत् ॥"

इति, तद् उभयम् अप्य् अभ्यासविषयम् । पूर्वपरिगणितातिरिक्ता ये निषिद्धाचरणशीलास् तदन्नभोजने तु,

"निराचारस्य विप्रस्य निशिद्धाचरणस्य च ।
अन्नं भुक्त्वा द्विजः कुर्याद् दिनम् एकम् अभोजनम् ॥"

इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् । अत्रैव संवत्सराभ्यासे षट्त्रिंशन्मत एवोक्तम् ।

"उपपातकयुक्तस्य अब्दम् एकं निरन्तरम् ।
अन्नं भुक्त्वा द्विजः कुर्यात् पराकं तु विशोधनम् ॥" इति ।

इदं चाभक्ष्यभक्षणप्रायश्चित्तकाण्डगतम् अविशेषोदितव्रतकदम्बकं हि द्विजाग्र्यस्यैव । क्षत्रियादीनां तु पादपादहान्या भवति,

"विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् ।
वैश्येऽर्धं पाद एकस् तु शूद्रजातिषु शस्यते ॥"

इति विष्णुस्मरणात् ॥

इत्य् अभक्ष्यभक्षणप्रायश्चित्तप्रकरणम् ।

निमित्तपरिगणनवेलायाम् उपपातकानन्तरं जातिभ्रंशकरादीनि परिगणितानि । तत्र प्रायश्चित्तान्य् उच्यन्ते । तत्र मनुः ।

"जातिभ्रंशकरं कर्म कृत्वान्यतमम् इच्छया ।
चरेत् सान्तपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ॥
संकरापात्रकृत्यासु मासं शोधनम् ऐन्दवम् ।
मलिनीकरणीयेषु तप्तः स्याद् यावकस् त्र्यहम् ॥" इति । (मा०ध० ११.१२५–२६)

अन्यतमम् इति सर्वत्र संबध्यते । यमेनाप्य् अत्र विशेष उक्तः ।

"संकरीकरणं कृत्वा मासम् अश्नाति यावकम् ।
कृच्छ्रातिकृच्छ्रम् अथ वा प्रायश्चित्तं समाचरेत् ॥
अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुध्यति ॥
शीतकृच्छ्रेण वा शुद्धिर् महासान्तपनेन वा ।
मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् ॥" इति ॥

बृहस्पतिनापि जातिभ्रंशकरे विशेष उक्तः ।

"ब्राह्मणस्य रुजः कृत्वा रासभादिप्रमापणम् ।
निन्दितेभ्यो धनादानं कृच्छ्रार्धं व्रतम् आचरेत् ॥" इति ।

एतेषां च जातिभ्रंशकरादिप्रायश्चित्तानां मन्वाद्युक्तानां जातिशक्त्याद्यपेक्षया विषयो विभजनीयः । एवं योगीन्द्रहृद्गतम् अभक्ष्यभक्षणादिप्रायश्चित्तं संक्षेपतो दर्शितम् ॥ ३.२८९ ॥

अधुना प्रकृतम् अनुसरामः । महापातकम् अतिपातकम् अनुपातकम् उपपातकं प्रकीर्णकम् इति पञ्चविधं पापजातम् उक्तम् । तत्र चतुर्विधप्रायश्चित्तम् अभिधाय क्रमप्राप्ते प्रकीर्णके प्रायश्चित्तम् आह ।

प्राणायामी जले स्नात्वा खरयानोष्ट्रयानगः ।
नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम् ॥ या०ध०३.२९०

खरयुक्तं यानं खरयानम् । उष्ट्रयुक्तं यानम् उष्ट्रयानं रथगन्त्र्यादि तेनाध्वगमनं कृत्वा दिगम्बरः स्नात्वाभ्यवहृत्य दिवा वासरे च निजाङ्गनासंभोगं कृत्वा च तडागतरङ्गिण्यादाव् अवगाह्य कृतप्राणायामः शुध्यति । इदं च कामकारविषयम्,

"उष्ट्रयानं समारुह्य खरयानं तु कामतः ।
सवासा जलम् आप्लुत्य प्राणायामेन शुध्यति ॥" (मा०ध० ११.२०२)

इति मनुस्मरणात् । अकामतः स्नानमात्रं कल्प्यम् । साक्षात् खरारोहणे तु द्विगुणावृत्तिः कल्पनीया, तस्य गुरुत्वात् ॥ ३.२९० ॥

किं च ।

गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य वादतः ।
बद्ध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद् दिनम् ॥ या०ध०३.२९१

गुरुं जनकादिकं त्वंकृत्य "त्वम् एवम् आत्थ," "त्वयैवं कृतम्" इत्य् एकवचनान्तयुष्मच्छब्दोच्चारणेन निर्भर्त्स्य, विप्रं वा ज्यायांसं समं कनीयांसं वा सक्रोधं "हुं तूष्णीम् आस्व," "हुं मा बहुवादीः" इत्य् एवम् आक्षिप्य, जल्पवितण्डाभ्यां जयफलाभ्यां विप्रं निर्जित्य, कण्ठे वाससा मृदुस्पर्शेनापि बध्वा, क्षिप्रं पादप्रणिपातादिना प्रसाद्य क्रोधं त्याजयित्वा दिनम् उपवसेत् । अनश्नन् कृत्स्रं वासरं नयेत् । यत् तु यमेनोक्तम्,

"वादेन ब्राह्मणं जित्वा प्रायश्चित्तविधित्सया ।
त्रिरात्रोपोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥"

इति, तद् अभ्यासविषयम् ॥ ३.२९१ ॥

किं च ।ण्ष्प् and Pandeya ओमित् : किं च.

विप्रदण्डोद्यमे कृच्छ्रस् त्व् अतिकृच्छ्रो निपातने ।
कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽभ्यन्तरशोणिते ॥ या०ध०३.२९२

विप्रजिघांसया दण्डाद्युद्यमे कृच्छ्रः शुद्धिहेतुः । निपातने ताडने अतिकृच्छ्रः । असृक्पाते रुधिरस्रावणे पुनः कृच्छ्रातिकृच्छ्रः । अभ्यन्तरशोणितेऽपि कृच्छ्रः शुद्धिहेतुः । बृहस्पतिनाप्य् अत्र विशेष उक्तः ।

"काष्ठादिना ताडयित्वा त्व् अभेदे कृच्छ्रम् आचरेत् ।
अस्थिभेदेऽतिकृच्छ्रः स्यात् पराकस् त्व् अङ्गकर्तने ॥" इति ।

पादप्रहारे तु यम आह ।

"पादेन ब्राह्मणं स्पृष्ट्वा प्रायश्चित्तविधित्सया ।
दिवसोपोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥" इति ॥

मनुना त्व् अन्यानि प्रकीर्णकप्रायश्चित्तानि दर्शितानि ।

"विनाद्भिर् अप्सु वाप्य् आर्तः शारीरं संनिषेव्य तु ।
सचैलो बहिर् आप्लुत्य गाम् आलभ्य विशुध्यति ॥" इति । (मा०ध० ११.२०३)

विनाद्भिर् इत्य् असंनिहितास्व् अपीत्य् अर्थः । शारीरं मूत्रपुरीषादि । इदम् अकामविषयम् । कामतस् तु,

"आपद्गतो विना तोयं शारीरं यो निषेवते ।
एकाहं क्षपणं कृत्वा सचैलो जलम् आविशेत् ॥"

इति यमोक्तं वेदितव्यम् । यत् तु सुमन्तुवचनम् "अप्स्व् अग्नौ वा मेहतस् तप्तकृच्छ्रम्" इति, तद् अनार्तविषयम् अभ्यासविषयं वा । नित्यश्रौतादिकर्मलोपे तु मनुर् आह ।

"वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तम् अभोजनम् ॥" इति । (मा०ध० ११.२०४)

श्रौतेषु दर्शपौर्णमासादिकर्मसु स्मार्तेषु चानित्यहोमादिषु प्रतिपदोक्तेष्ट्यादिप्रायश्चित्तैर् उपवासस्य समुच्चयः । स्नातकव्रतानि च,

"न जीर्णमलवद्वासा भवेच् च विभवे सति ।" (मा०ध० ४.३४)

इत्येवमादीनि प्रागुक्तानि । स्नातकव्रतम् अधिकृत्य क्रतुनाप्य् उक्तम् : "एतेषाम् आचाराणाम् एकैकस्य व्यतिरिक्तमे गायत्र्यष्टशतं जप्यं कृत्वा पूतो भवति" इति ॥ पञ्चमहायज्ञाकरणे तु बृहस्पतिर् आह ।

"अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते प्रत्यहं गृही ।
अनातुरः सति धने कृच्छ्रार्धेन विशुध्यति ॥
आहिताग्निर् उपस्थानं न कुर्याद् यस् तु पर्वणि ।
ऋतौ न गच्छेद् भार्यां वा सोऽपि कृच्छ्रार्धम् आचरेत् ॥" इति ।

द्वितीयादिभार्योपरमे तु देवल आह ।

"मृतां द्वितीयां यो भार्यां दहेद् वैतानिकाग्निभिः ।
जीवन्त्यां प्रथमायां तु सुरापानसमं हि तत् ॥" इति ।

स्वभार्याभिशंसने तु यम आह ।

"स्वभार्यां तु यदा क्रोधाद् अगम्येति नरो वदेत् ।
प्राजापत्यं चरेद् विप्रह् क्षत्रियो दिवसान् नव ॥
षड्रात्रं तु चरेद् वैश्यस् त्रिरात्रं शूद्र आचरेत् ॥" इति ॥

अस्नानभोजनादौ हारीत आह ।

"वहन्कमण्डलुं रिक्तम् अस्नातोऽश्नंश् च भोजनम् ।
अहोरात्रेण शुद्धिः स्याद् दिनजप्येन चैव हि ॥" इति ।

एकपङ्क्त्युपविष्टानां स्नेहादिना वैषम्येण दानादौ यम आह ।

"न पङ्क्त्यां विषमं दद्यान् न याचेत न जापयेत् ।
याचको दापको दाता न वै स्वर्गस्य गामिनः ॥
प्राजापत्येन कृच्छ्रेण मुच्यते कर्मणस् ततः ।
नदीसंक्रमहन्तुश् च कन्याविघ्नकरस्य च ॥
समे विषमकर्तुश् च निष्कृतिर् नोपपद्यते ।
त्रयाणाम् अपि चैतेषां प्रत्यापत्तिं च मार्गताम् ।
भैक्षलब्धेन चान्नेन द्विजश् चान्द्रायणं चरेत् ॥" इति ।

संक्रम उदकावतरणमार्गः । समे विषमकर्ता पूजादौ । इन्द्रधनुर्दर्शनादाव् ऋष्यशृङ्ग आह ।

"इन्द्रचापं पलाशाग्निं यद् अन्यस्य प्रदर्शयेत् ।
प्रायश्चित्तम् अहोरात्रं धनुर्दण्डश् च दक्षिणा ॥"

पतितादिसंभाषणे तु गौतम आह : "न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत । संभाष्य पुण्यकृतो मनसा ध्यायेत् । ब्राह्मणेन सह वा संभाषेत । तल्पान्नधनलाभवधे पृथग्वर्षाणि" इति (गौ०ध० ९.१६–१८ ; २२.२८) । भार्यान्नधनानां लाभस्य वधे विघ्नकरणे प्रत्येकं संवत्सरं प्राकृतं ब्रह्मचर्यम् । तथा ब्रह्मसूत्रं विना विण्मूत्रोत्सर्गादौ स्मृत्यन्तरे प्रायश्चित्तम् उक्तम् ।

"विना यज्ञोपवीतेन यद् युच्छिष्टो भवेद् द्विजः ।
प्रायश्चित्तम् अहोरात्रं गायत्र्यष्टशतं तु वा ॥"

तत्र ऊर्ध्वोच्छिष्टे उपवासोऽधरोच्छिष्टस्योदकपानादिषु गायत्रीजप इति व्यवस्था । अकामतस् तु,

"पिबतो मेहतश् चैव भुञ्जतोऽनुपवीतिनः ।
प्राणायामत्रिकं षट्कं नक्तं च त्रितयं क्रमात् ॥"

इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । भुक्त्वा शौचाचमनम् अकृत्वोत्थाने तु,

"यद्य् उत्तिष्ठत्य् अनाचान्तो भुक्त्वा वानशनात् ततः ॥
सद्यःस्नानं प्रकुर्वीत सोऽन्यथा पतितो भवेत् ॥"

इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । चौराद्युत्सर्गादौ वसिष्ठ आह : "दण्ड्योत्सर्गे राजैकरात्रम् उपवसेत्, त्रिरात्रं पुरोहितः । कृच्छ्रम् अदण्ड्यदण्डने पुरोहितस् त्रिरात्रं राजा । कुनखी श्यावदन्तश्च कृच्छ्रं द्वादशदरात्रं चरित्वोद्धरेयाताम्"(व०ध० १९.४०–४३ ; २०.६) इति । उद्धरेयातां कुत्सितानां दन्तानां नखानां चोद्धरणं कुर्याताम् इत्य् अर्थः । स्तेनपतितादिपङ्क्तिभोजने तु मार्कण्डेय आह ।

"अपाङ्क्तेयस्य यः कश्चित् पङ्क्तौ भुङ्क्ते द्विजोत्तमः ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥" इति ॥

नीलीविषये त्व् आपस्तम्ब आह ।

"नीलीरक्तं यदा वस्त्रं ब्राह्मणोऽङ्गेषु धारयेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥
रोमकूपैर् यदा गच्छेद् रसो नील्यास् तु कस्यचित् ।
त्रिषु वर्णेषु सामान्यं तप्तकृच्छ्रं विशोधनम् ॥
पालनं विक्रयश् चैव तद्वृत्त्या चोपजीवनम् ।
पातनं च भवेद् विप्रस् त्रिभिः कृच्छ्रैर् व्यपोहति ॥
नीलीदारु यदा भिन्द्याद् ब्राह्मणस्य शरीरत ।
शोणितं दृश्यते यत्र द्विजश् चान्द्रायणं चरेत् ॥
स्त्रीणां क्रीडार्थसंभोगे शयनीये न दुष्यति ॥" इति ।

भृगुणाप्य् उक्तम् ।

"स्त्रीधृता शयने नीली ब्राह्मणस्य न दुष्यति ।
नृपस्य वृद्धौ वैश्यस्य पर्ववर्ज्यं विधारणम् ॥" इति ।

तथा वस्त्रविशेषकृतश् च प्रतिप्रसवः,

"कम्बले पट्टसूत्रे च नीलीरागो न दुष्यति ।"

इति स्मरणात् । ब्रह्मतरुनिर्मितखट्वाद्यारोहणे शङ्ख आह ।

"अध्यस्य शयनं यानम् आसनं पादके तथा ।
द्विजः पलाशवृक्षस्य त्रिरात्रं तु व्रती भवेत् ॥
क्षत्रियस् तु रणे पृष्ठं दत्त्वा प्राणपरायणः ।
संवत्सरं व्रतं कुर्याच् छित्त्वा वृक्षं फलप्रदम् ॥
द्वौ विप्रो ब्राह्मणाग्नी वा दम्पती गोद्विजोत्तमौ ।
अन्तरेण यदा गच्छेत् कृच्छ्रं सान्तपनं चरेत् ॥
होमकाले तथा दोहे स्वाध्याये दारसंग्रहे ।
अन्तरेण यदा गच्छेद् द्विजश् चान्द्रायणं चरेत् ॥" इति ।

दोहे सान्नाय्याद्यङ्गभूते । एतच् चाभ्यासविषयम् । सच्छिद्रादित्याद्यरिष्टदर्शनादौ शङ्ख आह : "दुःस्वप्नारिष्टदर्शनादौ घृतं सुवर्णं च दद्यात्" ॥

क्वचिद् देशविशेषगमनेऽपि देवल आह ।

"सिन्धुसौवीरसौराष्ट्रांस् तथा प्रत्यन्तवासिनः ।
अङ्गवङ्गकलिङ्गान्ध्रान् गत्वा संस्कारम् अर्हति ॥"

एतच् च तीर्थयात्राव्यतिरिकेण द्रष्टव्यम् । स्वपुरीषदर्शनादौ यम आह ।

"प्रत्यादित्यं न मेहेत न पश्येद् आत्मनः शकृत् ।
दृष्ट्वा सूर्यं निरीक्षेत गाम् अग्निं ब्राह्मणं तथा ॥" इति ।

शङ्खोऽप्याह ।

"पादप्रतनं कृत्वा कृत्वा वह्निम् अधस् तथा ।
कुशैः प्रमृज्य पादौ तु दिनम् एकं व्रती भवेत् ॥" इति ॥

क्षत्रियाद्युपसंग्रहणे हारीत आह : "क्षत्रियाभिवादनेऽहोरात्रम् उपवसेत् वैश्याभिवादने द्विरात्रम् शूद्रस्याभिवादने त्रिरात्रम् उपवासः" इति । तथा, "शय्यारूढे पादुकोपानहारोपितपादोच्छिष्टान्धकारस्थश्राद्धकृज् जपदेवपूजानिरताभिवादने त्रिरात्रम् उपवासः स्याद् अन्यत्र निमन्त्रितेनान्यत्र भोजनेऽपि त्रिरात्रम्" इति ॥

समित्पुष्पादिहस्तस्याभिवादने प्य् एतद् एव,

"समित्पुष्पकुशाज्याम्बुमृदन्नाक्षतपाणिकम् ।
जपं होमं च कुर्वाणं नाभिवादेत वै द्विजम् ॥"

इत्य् आपस्तम्बीये जपादिभिः समभिव्याहारात् । अभिवादकस्यापीदम् एव प्रायश्चित्तम्, "नोदकुम्भहस्तोऽभिवादयेत् न भैक्षं चरन् न पुष्पाज्यादिहस्तो नाशुचिर् न जपन् न देवपितृकार्यं कुर्वन् न शयानः" इति तस्यापि शङ्खेन प्रतिषेधात् । एवम् अन्यान्य् अपि वचांसि स्मृत्यन्तरतोऽन्वेष्याणि ग्रन्थगौरवभयाद् अत्र न लिख्यन्ते ॥ ३.२९२ ॥

इति प्रकीर्णकप्रायश्चित्तप्रकरणम् ।

निमित्तानाम् आनन्त्यात् प्रतिव्यक्तिप्रायश्चित्तस्य वक्तुम् अशक्यत्वात् सामान्येनोपदिष्टानुपदिष्टविषये प्रायश्चित्तविशेषज्ञानार्थम् इदम् आह ।

देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः ।
प्रायश्चित्तं प्रकल्प्यं स्याद् यत्र चोक्ता न निष्कृतिः ॥ या०ध०३.२९३

यद् उक्तं प्रायश्चित्तजातं वक्ष्यमाणं वा तद् देशादिकम् अवेक्ष्य यथा कर्तुः प्राणविपत्तिर् न भवति तथा विषयविशेषे कल्पनीयम्, इतरथा प्रधाननिवृत्तिप्रसङ्गात् । तथा च वक्ष्यति ।

वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक् । इति ।(या०ध० ३.३११)

तत्र यदि हिमवद्गिरिनिकटवर्तिनाम् उदकवास उपदिश्यते अतिशीताकुलिते वा शिशिरादिकाले, तदा प्राणवियोगो भवेद् इति तद्देशकालपरिहारेणोदकवासः कल्पनीयः । तथा वयोविशेषाद् अपि यदि नवतिवार्षिकादेर् अपूर्णद्वादशवार्षिकस्य वा द्वादशाब्दिकं प्रायश्चित्तम् उपदिश्यते तदा प्राणा विपद्येरन्न् इति ततोऽन्यवयस्के तत् प्रायश्चित्तं कल्प्यम् । अत एव स्मृत्यन्तरे "क्वचिद् अर्धं क्वचित् पादः" इति वृद्धादिषु प्रायश्चित्तस्य ह्रासोऽभिहितः । तच् च प्राक् प्रपञ्चितम् । तथा धनदानतपश्चरणादिशक्त्यपेक्षया च, न हि निर्धनस्य पात्रे धनं वा पर्याप्तम् इत्याद्य् उपपद्यते । तथोद्रिक्तपित्तादेर् वा पराकादिकं नापि स्त्रीशूद्रादेर् जपादिकम् । अत एव,

गजादीनाम् अशक्नुवन् ।

दानं दातुं चरेत् कृच्छ्रम् एकैकस्य विशुद्धये ॥ (या०ध० ३.२७४)

इत्य् उक्तम् । तथा,

"प्रायश्चित्तार्धम् अर्हन्ति स्त्रियो रोगिण एव च ।"

इति तपस्य् अशक्तस्य स्मृत्यन्तरे प्रायश्चित्तस्य ह्रासोऽभिहितः । तथा पापं च महापातकादिरूपेण सप्रत्ययाप्रत्ययसकृदभ्यासादिरूपेण चावेक्ष्य यत्नतः सकलधर्मशास्त्रपर्यालोचनया प्रायश्चित्तं कल्पनीयम् । तत्राकामतो यद् विहितं तद् एव कामकृते द्विगुणं, कामतोऽभ्यासे चतुर्गुणम् इत्य् एवं स्मृत्यन्तरानुसारेण कल्पनीयम् । तथा,

"महापापोपपापाभ्यां योऽभिशंसेन् मृषा परम् ।
अब्भक्षो मासम् आसीत ।"

इत्य् उक्तं, तत्र महापापोपपापयोस् तुल्यप्रायश्चित्तस्यायुक्तत्वान् महापापापेक्षयोपपातके मासिकव्रतस्य ह्रासः कल्पनीयः । यत्र च हसितजृम्भिताक्रन्दितास्फालनादिनाकस्मात् कुर्यात् तथा,

"नोदन्वतोऽम्भसि स्नायान् न च श्मश्रवादि कर्तयेत् ।
अन्तर्वत्न्याः पतिः कुर्वन्न् अप्रजा भवति ध्रुवम् ॥"

इत्यादौ प्रायश्चित्तं नोपदिष्टं, तत्रापि देशाद्यपेक्षया प्रायश्चित्तं कल्प्यम् ।

ननु किंचिद् अपि निमित्तजातम् अनुक्तनिष्कृतिकम् उपलभ्यते,

"प्रानायामशतं कार्यं सर्वपापापनुत्तये ।
उपपातकजातानाम् अनादिष्टस्य चैव हि ॥"

इत्य् अनुक्तनिष्कृतिष्व् अपि प्रायश्चित्तस्य वक्ष्यमाणत्वात् । गौतमेनाप्य् "एतान्य् एवानादेशे विकल्पेन क्रियेरन्" (गौ०ध० १९.१८) इत्य् एकाहादयः प्रतिपादिताः ।

उच्यते । सत्यम् अस्त्य् एव सामान्यतः प्रायश्चित्तोपदेशस्, तथापि सर्वत्र देशकालादीनाम् अपेक्षितत्वाद् अस्त्य् एव कल्पनावसरः । न च हसितादिषु सर्वत्र प्राणायामशतं युक्तम्, निमित्तस्य लघुत्वात् । अतः पापापेक्षया ह्रासः कल्पनीयः प्रायश्चित्तान्तरं वा ।

ननु कथं पापस्य लघुत्वं येन प्रायश्चित्तस्य ह्रासकल्पना स्यात् । न च प्रायश्चित्ताल्पत्वाद् इति वाच्यम्, अनुक्तनिष्कृतित्वाद् एव ।

सत्यम् । किं तु अर्थवादसंकीर्तनाद् बुद्धिपूर्वाबुद्धिपूर्वानुबन्धाद्यपेक्षया च सुबोध एव दोषस्य गुरुलघुभावः । तथा दण्डह्रासवृद्ध्यपेक्षया च प्रायश्चित्तगुरुलघुभावः । यथा ब्राह्मणावगोरणादौ सजातीयविषये प्राजापत्यादिकम् उक्तम्, तत्र यदा चानुलोम्येन प्रातिलोम्येन वावगोरणादि क्रियते, यदा वा मूर्धवसिक्तादिभिस् तदा दण्डस्य तारतम्यदर्शनाद् एव दोषाल्पत्वमहत्त्वावगमात् प्रायश्चित्तस्यापि गुरुलघुभावः कल्पनीयः । दर्शितश् च दण्डस्य गुरुलघुभावः,

प्रातिलोम्यापवादेषु द्विगुणस् त्रिगुणो दमः । (या०ध० २.२०७)

इत्यादिना ॥ ३.२९३ ॥

एवं महापातकादिभिः पतितस्य प्रायश्चित्तम् उक्तं, यस् त्व् औद्धत्याद् एतन् न चिकीर्षति तस्य किं कार्याम् इत्य् अत आह ।

दाषीकुम्भं बहिर्ग्रामान् निनयेरन् स्वबान्धवाः ।
पतितस्य बहिः कुर्युः सर्वकार्येषु चैव तम् ॥ या०ध०३.२९४

जीवत एव पतितस्य ये स्वा जातयो बान्धवाः पितृमातृपक्षास् ते सर्वे संनिपत्य दासी प्रेष्या तया सपिण्डादिप्रेषितया आनीतम् अपां पूर्णं कुम्भं घटं ग्रामाद् बहिर् निर्नयेयुः । एतच् चतुर्थ्यादिरिक्तातिथिष्व् अह्नः पञ्चमे भागे गुर्वादिसंनिधौ कार्यम्,

"पतितस्योदकं कार्यं सपिण्डैर् बान्धवैर् बहिः ।
निन्दितेऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसंनिधौ ॥" (मा०ध० ११.१८३)

इति मनुस्मरणात् । अथवा दास्य् एव सपिण्डादिप्रयुक्ता निनयेत् । यथाह मनुः ।

"दासी घटम् अपां पूर्णं पर्यस्येत् प्रेतवत् पदा ।
अहोरात्रम् उपासीरन्न् अशौचं बान्धवैः सह ॥" इति । (मा०ध० ११.१८४)

प्रेतवद् इति दक्षिणामुखापसव्ययोः प्राप्त्यर्थम् । तच् च निनयनम् उदकपिण्डदानादिप्रेतक्रियोत्तरकालं द्रष्टव्यम्, "तस्य विद्यागुरुयोनिसंबन्धाश् च संनिपत्य सर्वाण्य् उदकादीनि प्रेतकर्माणि कुर्युः । पात्रं चास्य विपर्यस्येयुः । दासः कर्मकरो वावकरात् पात्रम् आनीय दासीघटात् पूरयित्वा दक्षिणाभिमुखः पदा विपर्यस्येत् "अमुम् अनुदकं करोमि" इति नामग्राहम् । तं सर्वेऽन्वालभेरन् प्राचीनावीतिनो मुक्तशिखाः । विद्यागुरवो योनिसंबन्धाश् च वीक्षेरन्। अप उपस्पृश्य ग्रामं प्रविशेयुः" इति (गौ०ध० २०.२–७) गौतमस्मरणात् । अयं च त्यागो, यदि बन्धुभिः प्रेर्यमाणोऽपि प्रायश्चित्तं न करोति, तदा द्रष्टव्यः, "तस्य गुरोर् बान्धवानां राज्ञश् च समक्षं दोषान् अभिख्याप्यानुभाष्य पुनः पुनर् आचारं लभस्वेति, स यद्य् एवम् अप्य् अनवस्थितमतिः स्यात् ततोऽस्य पात्रं विपर्यस्येद्" इति शङ्खस्मरणात् । ततस् तं लब्धोदकं पतितं सर्वकार्येषु संभाषणसहासनादिषु बहिः कुर्युर् वर्जयेयुः । तथा च मनुः ।

"निवर्तेरंस् च तस्मात् तु सम्भाषणसहासने ।
दायाद् यस्य प्रदानं च यात्राम् एव च लौकिकीम् ॥" इति । (मा०ध० ११.१८५)

यदि स्नेहादिना संभाषणं करोति तदा प्रायश्चित्तं कार्यम् । "अत ऊर्ध्वं तेन संभाष्य तिष्ठेद् एकरात्रं जपन् सावित्रीम् अज्ञानपूर्वं, ज्ञानपूर्वं चेत् त्रिरात्रं" (गौ०ध० २०.८–९) इति ॥ ३.२९४ ॥

यदा तु बन्धुत्यागाद् अन्यथा वा जातवैराग्यः प्रायश्चित्तं च कृतं, तदा किं कार्यम् इत्य् अत आह ।

चरितव्रत आयाते निनयेरन् नवं घटम् ।
जुगुप्सेरन् न चाप्य् एनं संवसेयुश् च सर्वशः ॥ या०ध०३.२९५

कर्तप्रायश्चित्ते बन्धुसमीपं पुनर् आयाते तत्सपिण्डाद्यास् तेन सहिता नवं अनुपहतं घटं उदकपूर्णं निनयेयुः । एतच् च निनयनं पुण्यह्रदादिस्नानोत्तरकालं द्रष्टव्यम्,

"प्रायश्चित्ते तु चरिते पूर्णं कुम्भम् अपां नवम् ।
तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥" (मा०ध० ११.१८७)

इति मनुस्मरणात् । गौतमेन तु विशेष उक्तः : "यस् तु प्रायश्चित्तेन शुध्येत् तस्मिन् शुद्धे शातकुम्भमयं पात्रं पुण्यतमात् ह्रदात् पूरयित्वा स्रवन्तीभ्यो वा तत एनम् अप उपस्पर्शयेयुः । अथास्मै तत् पात्रं दद्युः । तत् संप्रतिगृह्य जपेत्ऽशान्ता द्यौः शान्ता पृथिवी शान्तं शिवम् अन्तरिक्षं यो रोचनस् तम् इह गृह्णामिऽ इत्य् एतैर् यजुर्भिः पावमानीभिस् तरत्समन्दीभिः कूष्माण्डैश् चाज्यं जुहुयाद्, धिरण्यं दद्याद्, गां चाचार्याय । यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतः शुध्येद्, एतद् एव शान्त्युदकं सर्वेषूपपातकेषु" इति (गौ०ध० २०.१०–१७) ॥ तत एनं कृतप्रायश्चित्तं ते नैव कुत्सयेयुः । तथा सर्वकार्येषु क्रयविक्रयादिषु तेन सह संव्यवहरेयुः ॥ ३.२९५ ॥

पूर्वोक्तस्य पतितपरित्यागादिविधेर् अतिदेशम् आह ।

पतितानाम् एष एव विधिः स्त्रीणां प्रकीर्तितः ।
वासो गृहान्तके देयम् अन्नं वासः सरक्षणम् ॥ या०ध०३.२९६

य एव पुरुषाणां परित्यागे पिण्डोदकदानविधिः कृतप्रायश्चित्तानां परिग्रहविधिश् च स एव स्त्रीणाम् अपि पतितानां वेदितव्यः । इयांस् तु विशेषः । पतिताभ्योऽपि ताभ्यः स्त्रीभ्यः कृतोदकादिकर्मभ्यो वासस् तृणपर्णमयं कुटीगृहकं प्रधानगृहसमीपे देयम् । तथा प्राणधारणमात्रम् अन्नं मलिनं च वस्त्रं पुनः पुरुषान्तरोपभोगनिवारणसहितं देयम् ॥ ३.२९६ ॥

ननु काः पतितास् ता यासाम् अयं परित्यागविधिर् इत्य्, अत आह ।

नीचाभिगमनं गर्भपातनं भर्तृहिंसनम् ।
विशेषपतनीयानि स्त्रीमाम् एतान्य् अपि ध्रुवम् ॥ या०ध०३.२९७

हीनवर्णगमनं गर्भपातनम् अब्राह्मण्या अपि भर्तुर् अब्राह्मणस्यापि हिंसनम् इत्य् एतानि स्त्रीणाम् असाधारणानि पतननिमित्तानि । अपिशब्दात् पुरुषस्य यानि पतननिमित्तानि महापातकातिपातकानुपपातकान्य् अभ्यस्तानि चोपपातकादीनि तान्य् अपि स्त्रीणां ध्रुवं निश्चितं पतनकारणानि भवन्ति । अत एव शौनकः : "पुरुषस्य यानि पतननिमित्तानि स्त्रीणाम् अपि तान्य् एव ब्राह्मणी हीनवर्णसेवायाम् अधिकं पतति" इति । यत् तु वसिष्ठेनोक्तम्,

"त्रीणि स्त्रियाः पातकानि लोके धर्मविदो विदुः ।
भर्तुर् वधो भ्रूणहत्या स्वस्य गर्भस्य पातनम् ॥" (व०ध० २८.७)

इति भ्रूणहत्याग्रहणं कृतं, तत् दृष्टान्तार्थं न पुनर् इतरेषां महापातकादीनां पतनहेतुत्वनिरासार्थम् । यद् अपि तेनैव,

"चतस्रस् तु परित्याज्याः शिष्यगा गुरुगा च या ।
पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥" (व०ध० २१.१०)

इति चतसृणाम् एव परित्याग इत्य् उक्तं, तस्यापि तासां प्रायश्चित्तम् अचिकीर्षन्तीनां मध्ये चतसृणाम् एव शिष्यगादीनां चैलान्नगृहवासादिजीवनहेतुत्वाद्युच्छेदेन त्यागं कुर्यान् नान्यासाम् इत्य् अभिप्रायः । अतश् चान्यासां पतितानां प्रायश्चित्तम् अकुर्वतीनाम् अपि "वासो गृहान्तिके देयम्" इत्यादिकं कर्तव्यम् इत्य् अवगम्यते ॥ ३.२९७ ॥

"जुगुप्सेरन् न चाप्य् एनं संविशेयुश् च सर्वशः" इत्यस्यापवादम् आह ।

शरणागतबालस्त्रीहिंसकान् संवसेन् न तु ।
चीर्णव्रतान् अपि सतः कृतघ्नसहितान् इमान् ॥ या०ध०३.२९८

शरणागतादिव्यापादनकारिणः कृतघ्नसहितान् प्रायश्चित्तेन क्षीणदोषान् अपि न संव्यवहरेद् इति वाचनिकोऽयं प्रतिषेधः, किम् इति वचनं न कुर्यात्, न हि वचनस्यातिभारोऽस्ति, अतश् च यद्य् अपि व्यभिचारिणीनां वधेऽल्पीय एव प्रायश्चित्तं तथापि वाचनिकोऽयं संव्यवहारप्रतिषेधः ॥ ३.२९८ ॥

एवं प्रसङ्गेन स्त्रीषु विशेषम् अभिधाय प्रकृत एव चरितव्रतविधौ विशेषम् आह ।

घटेऽपवर्जिते ज्ञातिमध्यस्थो यवसं गवाम् ।
स दद्यात् प्रथमं गोभिः सत्कृतस्य हि सत्क्रिया ॥ या०ध०३.२९९

घटेऽपवर्जिते ह्रदाद् उद्धृत्य पूर्णे कुम्भेऽवनीतेऽसौ चरितव्रतः सपिण्डादिमध्यस्थो गोभ्यो यवसं दद्यात् । ताभिः प्रथमं सत्कृतस्य पूजितस्य पश्चाज् ज्ञातिभिः सत्क्रिया कार्या । गोभिश् च तस्य सत्कारस् तद्दत्तयवसभक्षणम् एव । यदि गावस् तद्दत्तं यवसं न गृह्णीयुस् तर्हि पुनः प्रायश्चित्तम् अनुतिष्ठेत् । यद् आह हारीतः : "स्वशिरसा यवसम् आदाय गोभ्यो दद्याद्, यदि ताः प्रतिगृह्णीयुर् अथैनं प्रवर्तयेयुः," इतरथा नेत्य् अभिप्रेतम् ॥ ३.२९९ ॥

महापातकादिपञ्चविधेऽपि दोषगणे प्रातिस्विकव्रतसंदोहम् अभिधायाधुना सकलव्रतसाधारणं धर्मम् आह ।

विख्यातदोषः कुर्वीत पर्षदोऽनुमतं व्रतम् । या०ध०३.३००अब्

यो दोषो यावत् कर्तृसंपाद्यस् ततोऽन्यैर् विख्यातो विज्ञातो दोषो यस्यासौ पर्षदुपदिष्टं व्रतं कुर्यात् । यद्य् अपि स्वयं सकलशास्त्रार्थविचारचतुरस् तथापि पर्षत्समीपम् उपगम्य तया सह विचार्य तदनुमतम् एव कुर्यात् । तदुपगमने च अङ्गिरसा विशेष उक्तः ।

"कृते निःसंशये पापे न भुञ्जीतानुपस्थितः ।
भुञ्जानो वर्धयेत् पापं यावन् नाख्याति पर्षदि ॥
सचैलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः ।
पर्षदानुमतस् तत्त्वं सर्वं विख्यापयेन् नरः ।
व्रतम् आदाय भूयोऽपि तथा स्नात्वा व्रतं चरेत् ॥" इति ॥

विख्यापनं च पर्षद्दक्षिणादानानन्तरं कार्यम् । यथाह पराशरः ।

"पापं विख्यापयेत् पापी दत्त्वा धेनुं तथा वृषम् ।" इति ।

एतच् चोपपातकविषयम् । महापातकादिष्व् अधिकं कल्प्यम् । यत् तूक्तम्,

"तस्माद् द्विजः प्राप्तपापः सकृद् आप्लुत्य वारिणि ।
विख्याप्य पापं पर्षद्भ्यः किंचिद् दत्त्वा व्रतं चरेत् ॥"

इति, तत् प्रकीर्णकविषयम् । पर्षत्स्वरूपं च मनुना दर्शितम् ।

"त्रैविद्यो हैतुकस् तर्की नैरुक्तो धर्मपाठकः ।
त्रयश् चाश्रमिणः पूर्वे पर्षद् एषा दशावरा ॥" (मा०ध० १२.१११)

हैतुको मीमांसार्थादितत्त्वज्ञः । तर्की न्यायशास्त्रकुशलः । तथान्यद् अपि पर्षद्द्वयं तेनैव दर्शितम् ।

"ऋग्वेदविद् यजुर्विच् च सामवेदविद् एव च ।
अपरा पर्षद् विज्ञेया धर्मसंशयनिर्णये ॥" इति । (मा०ध० १२.११२)

तथा,

"एकोऽपि वेदविद् धर्मं यं व्यवस्येत् समाहितः ।
स ज्ञेयः परमो धर्मो नाज्ञानाम् उदितोऽयुतैः ॥" इति । (मा०ध० १२.११३)

आसां च पर्षदां संभवापेक्षया व्यवस्था महापातकाद्यपेक्षया वा । यत् तु स्मृत्यन्तरेऽभिहितम्,

"पातकेषु शतं पर्षत् सहस्रं महदादिषु ।
उपपापेषु पञ्चाशत् स्वल्पं स्वल्पे तथा भवेत् ॥"

इति, तद् अपि महापातकादिदोषानुसारेण पर्षदो गुरुलघुभावप्रतिपादनपरं, न पुनः संख्यानियमार्थम्, मन्वादिमहास्मृतिविरोधप्रसङ्गात् । तथा देवलेन चात्र विशेषो दर्शितः ।

"स्वयं तु ब्राह्मणा ब्रूयुर् अल्पदोषेषु निष्कृतिम् ।
राजा च ब्राह्मणाश् चैव महत्सु च परीक्षितम् ॥" इति ।

तया च पर्षदा अवश्यं व्रतम् उपदेष्टव्यम्,

"आर्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः ।
जानन्तो न प्रयच्छन्ति ते यान्ति समतां तु तैः ॥"

इत्य् अङ्गिरःस्मरणात् । तया पर्षदा ज्ञात्वैव व्रतम् उपदेष्टव्यम्,

"अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः ।
प्रायश्चित्ती भवेत् पूतः किल्बिषं पर्षदं व्रजेत् ॥"

इति वसिष्ठस्मरणात् । क्षत्रियादीनां तु कृतैनसां धर्मोपदेशे विशेषोऽङ्गिरसा दर्शितः ।

"न्यायतो ब्राह्मणः क्षिप्रं क्षत्रियादेः कृतैनसः ।
अन्तरा ब्राह्मणं कृत्वा व्रतं सर्वं समादिशेत् ॥
तया शूद्रं समासाद्य सदा धर्मपुरःसरम् ।
प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥" इति ।

तत्र च यागाद्यनुष्ठानशीलानां जपादिकं वाच्यम्, इतरेषां तु तपः ।

"कर्मनिष्टास् तपोनिष्ठाः कदाचित् पापम् आगताः ।
जपहोमादिकं तेभ्यो विशेषेण प्रदीयते ॥
ये नामधारका विप्रा मूर्खा धनविवर्जिताः ।
कृच्छ्रचान्द्रायणादीनि तेभ्यो दद्याद् विशेषतः ॥"

इति प्रकाशप्रायश्चित्तप्रकरणम्
अथ रहस्यप्रायश्चित्तम्

व्याख्याय ख्यातदुरितशातनीं व्रतसंततिम् ।

रहःकृताघसंदोहहारिणीं व्याहरन् मुनिः ॥

तत्र प्रथमं सकलरहस्यव्रतसाधारणं धर्मम् आह ।

अनभिख्यातदोषस् तु रहस्यं व्रतम् आचरेत् ॥ या०ध०३.३००च्द्

कर्तृव्यतिरिक्तैर् अनभिख्यातो दोषो यस्यासौ रहस्यम् अप्रकाशं प्राय्श्चित्तम् अनुतिष्ठेत् । अतः स्त्रीसंभोगादौ तस्या अपि कारकत्वात्, तदितरैर् अविज्ञातदोषस्य रहस्यव्रतम् इति मन्तव्यम् । अत्र यदि कर्ता स्वयं धर्मशास्त्रकुशलस् तदा परस्मिन्न् अविभाव्य स्वनिमित्तोचितं प्रायश्चित्तम् अनुतिष्ठेत् । यस् तु स्वयम् अनभिज्ञोऽसौ "केनचिद् रहो ब्रह्महत्यादिकं कृतं तत्र किं रहस्यप्रायश्चित्तम्" इत्य् अन्यव्याजेनावगम्य, रहोव्रतम् अनुतिष्ठेत् । अत एव स्त्रीशूद्रयोर् अप्य् अमुनैव मार्गेण रहस्यव्रतज्ञानसिद्धेर् अधिकारसिद्धिः । न च वाच्यं रहस्यव्रतानां जपादिप्रधानत्वाद् अविद्ययोश् च स्त्रीशूद्रयोस् तदनुपपत्तेर् अनधिकार इति । यतोऽनैकान्ततो रहस्यव्रतानां जपादिप्रधानत्वम्, दानादेर् अप्य् उपदेशात्, गौतमोक्तप्राणायामादेर् अपि संभवाच् च (गौ०ध० २४–२५) । इतरेषाम् अपि मन्त्रदैवतर्षिच्छन्दःपरिज्ञानमात्रम् एवाधिकारोपयोगि न त्व् अन्यविषयम् । न हि तडागनिर्माणादौ ज्योतिष्टोमादिविषयिणी प्रतिपत्तिर् उपयुज्यते । देवतादिपरिज्ञानं त्व् अवश्यम् अपेक्षणीयम्,

"अविदित्वा ऋषिं छन्दो दैवतं योगम् एव च ।
योऽध्यापयेज् जपेद् वापि पापीयाञ् जायते तु सः ॥"

इति व्यासस्मरणात् । अत्राप्य् आहारविशेषानुक्तौ पयःप्रभृतयः कालविशेषानुक्तौ संवत्सरादयः देशविशेषानुक्तौ शिलोच्चयादयो गौतमाद्यभिहिता प्रकाशप्रायश्चित्तवद् अन्वेषणीयाः ॥ ३.३०० ॥

एवं सकलरहस्यसाधारणधर्मम् अभिधाय प्रकाशप्रायश्चित्तवद् ब्रह्महत्यादिक्रमेणैव रहस्यप्रायश्चित्तान्य् आह ।

त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्व् अघमर्षणम् ।
अन्तर्जले विशुध्येत दत्त्वा गां च पयस्विनाम् ॥ या०ध०३.३०१

त्रिरात्रम् उपोषितोऽन्तर्जलेऽघमर्षणेन महार्षिणा दृष्टं सूक्तं अघमर्षणम् "ऋतं च सत्यं च" इति तृचम् आनुष्टुभं भाववृत्तदेवताकं जप्त्वा त्रिरात्रान्ते पयस्विनीं गां दत्त्वा ब्रमहा विशुध्यति । जपश् चान्तर्जले निमग्नेन त्रिर् आवर्तनीयः । यथाह सुमन्तुः : "देवद्विजगुरुहन्ताप्सु निमग्नोऽघमर्षणं सूक्तं त्रिर् आवर्तयेत् । मातरं भगिनीं गत्वा मातृष्वसारं स्नुषां सखीं वान्यद् वागम्यागमनं कृत्वाघमर्षणम् एवान्तर्जले त्रिर् आवर्त्य तद् एतस्मात् पूतो भवति" इति । एतच् चाकामकारविषयम् । यत् तु मनुनोक्तम्,

"सव्याहृतिप्रणवकाः प्राणायामास् तु षोडश ।
अपि भ्रूणहनं मासात् पुनन्त्य् अहर् अहः कृताः ॥" (मा०ध० ११.२४९)

इति, तद् अप्य् अस्मिन्न् एव विषये गोदानाशक्तस्य वेदितव्यम् । यत् तु गौतमेन षट्त्रिंशद्रात्रव्रतम् उक्त्वोक्तं "तद्व्रत एव ब्रह्महत्यासुरापानसुवर्णस्तेयगुरुतल्पेषु प्राणायामैः स्नातोऽघमर्षणं जपेत्" (गौ०ध० २४.१०) इति, तद् अकामतः सकृद्वधविषयम् । यत् तु बौधायनेनोक्तम् । "ग्रामात् प्राचीं वोदीचीं दिशम् उपनिष्क्रम्य स्नातः शुचिः शुचिवासा उदकान्ते स्थण्डिलम् उपलिप्य सकृत्क्लिन्नवासाः गोशकृत्पूतेन पाणिनादित्याभिमुखोऽघमर्षणं स्वाध्यायमधीयीत । प्रातः शतं मध्याह्ने शतम् अपराह्णे शतं परिमितं चोदितेषु नक्षत्रेषु प्रसृतियावकं प्राश्नीयात् । ज्ञानकृतेभ्योऽज्ञानकृतेभ्यश् चोपपातकेभ्यः सप्तरात्रात् प्रमुच्यते द्वादशरात्रान् महापातकेभ्यो ब्रह्महत्यासुरापानसुवर्णस्तेयानि वर्जयित्वा एकविंशतिरात्रेण तान्य् अपि तरति" (बौ०ध० ३.९.४ ; ३.५.३–६) इति, तत् कामकारविषयम् अकामतः श्रोत्रियाचार्यसवनस्थवधविषयं वा । यत् तु मनुनोक्तम्,

"अरण्ये वा त्रिर् अभ्यस्य प्रयतो वेदसंहिताम् ।
मुच्यते पातकैः सर्वैः पराकैः शोधितस् त्रिभिः ॥" (मा०ध० ११.२५९)

इति, तत् कामतः श्रोत्रियादिवधविषयम् इतरत्र कामतोऽभ्यासविषयं वा । यत् तु बृहद्विष्णुनोक्तम् : "ब्रह्महत्यां कृत्वा ग्रामात् प्राचीम् उदीचीं वा दिशम् उपनिष्क्रम्य प्रभूतेन्धनेनाग्निं प्रज्वाल्याघमर्षणेनाष्टसहस्रम् आज्याहुतीर् जुहुयात्, तत एतस्मात् पूतो भवति" इति, तन् निर्गुणवधविषयम् अनुग्राहकविषयं वा । यत् तु यमेनोक्तम्,

"त्र्यहं तूपवसेद् युक्तस् त्रिरह्नोऽभ्युपयन्न् अपः ।
मुच्यते पातकैः सर्वैस् त्रिर् जपित्वाघमर्षणम् ॥"

इति, तद् गुणवतो हन्तुर् निर्गुणवधविषयं प्रयोजकानुमन्तृविषयं वा । यत् तु हारीतेनोक्तम्, "महापातकातिपातकानुपपातकोपपातकानाम् एकतमम् एव संनिपाते चाघमर्षणम् एव त्रिर् जपेत्" इति, तन् निमित्तकर्तृविषयम् । एवम् अन्यान्य् अपि स्मृतिवाक्यान्य् अन्विष्यैवम् एव विषयेषु विभजनीयानि, ग्रन्थगौरवभयान् न लिख्यन्ते । एतद् एव व्रतजातं यागस्थयोषित्क्षत्रविट्स्व् आत्रेय्याम् आहिताग्निपत्न्यां गर्भिण्याम् अविज्ञाते च गर्भे व्यापादिते तुरीयांशन्य् ऊनम् अनुष्ठेयम् ॥ ३.३०१ ॥

प्रायश्चित्तान्तरम् आह ।

लोमभ्यः स्वाहेत्य् अथ वा दिवसं मारुताशनः ।
जले स्थित्वाभिजुहुयाच् चत्वारिंशद् घृताहुतीः ॥ या०ध०३.३०२

अथ वाहोरात्रम् उपोषितो रात्राव् उदके वासं कृत्वा प्रातर् जलाद् उत्तीर्य लोमभ्यः स्वाहेत्याद्यैर् अष्टभिर् मन्त्रैर् एकेन पञ्चपञ्चाहुतय इत्य् एवं चत्वारिंशद्घृताहुतीर् जुहुयात् । इदं च पूर्वोक्तसमानविषयम्, उदवासस्य क्लेशबाहुल्यात् ॥ ३.३०२ ॥

क्रमप्राप्तं सुरापानप्रायश्चित्तम् आह ।

त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर् घृतं शुचिः । या०ध०३.३०३अब्

सुरापश् चत्वारिंशद् घृताहुतीर् इत्य् अनुवर्तते । त्रिरात्रम् उपोषितः कूष्माण्डीभिः "यद् देवादेवहेऌअनम्" इत्याद्याभिः कूष्माण्डदृष्टाभिर् अनुष्टुब्भिर् मन्त्रलिङ्गदेवताभिर् ऋग्भिश् चत्वारिंशद्घृताहुतीर् हुत्वा शुचिर् भवेत् । तथा बौधायनेनाप्युक्तम् : "अथ कूष्माण्डीभिर् जुहुयाद् योऽपूत एवात्मानं मन्येत यावद् अर्वाचीनम् एनो भ्रूणहत्यायास् तस्मान् मुच्यते । अयोनौ वा रेतः सिक्त्वान्यत्र स्वप्नात्" इति (बौ०ध० ३.१–४) । यत् तु मनुना,

"कौत्सं जप्त्वाप इत्य् एतद् वसिष्ठं च प्रतीत्य् ऋचम् ।
माहित्रं शुद्धवत्यश् च सुरापोऽपि विशुध्यति ॥" (मा०ध० ११.२५०)

इति, मासं प्रत्यहं षोडशकृत्वोऽपनःशोशुचद् अघं प्रतिस्तोमेभि रुषसं वासिष्थम् । महित्रीणाम् अवोस्त्वेतोन्विन्द्रंस्तवामेत्य् एतेषाम् अन्यतमस्य जप उक्तः, स त्रिरात्रोपवासकूष्माण्डहोमाशक्तस्य वेदितव्यः । एताच् चाकामतः पैष्ट्याः सकृत्पाने, गौडीमाध्व्योस् तु पानावृत्तौ च वेदितव्यम् । यच् च मनुना,

"मन्त्रैः शाकलहोमीयैर् अब्दं हुत्वा घृतं द्विजः ।
स गुर्व् अप्य् अपहन्त्य् एनो जप्त्वा नम इत्य् ऋचम् ॥" (मा०ध० ११.२५७)

इति, संवत्सरं प्रत्यहं "देवकृतस्यैनसः" इत्यादिभिर् अष्टभिर् मन्त्रैर् होमो "नम इद् उग्रं नम आविवासे" इत्य् एतस्या ऋचो वा जप उक्तः, स कामकारविषयः । यत् तु,

"महापातकसंयुक्तोऽनुगच्छेद् गाः समाहितः ।
अभ्यस्याब्दं पावमानीर् भैक्षाहारो विशुध्यति ॥"

इति, तद् अभ्यासविषयम् समुच्चितमहापातकविषयं वा ॥

सुवर्णस्तेयप्रायश्चित्तम् आह ।

ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः ॥ या०ध०३.३०३च्द्

ब्राह्मणस्वर्णहारी पुनस् त्रिरात्रोपोषितः जलमध्यस्थो "नमस् ते रुद्र मन्यव" इति शतरुद्रियजपयुक्तः शुध्यतीति । शातातपेनात्र विशेष उक्तः ।

"मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्माच्छन्नो भस्मशय्याशयानो रुद्राध्यायी मुच्यते सर्वपापैः ॥" इति

जपश् चैकादशकृत्वः कार्यः,

"एकादशगुणान् वापि रुद्रान् आवर्त्य धर्मवित् ।
महापापैर् अपि स्पृष्टो मुच्यते नात्र संशयः ॥"

इत्य् अत्रिस्मरणात् । यत् तु मनुना,

"सकृज् जप्त्वास्यवामीयं शिवसंकल्पम् एव च ।
सुवर्णं अपहृत्यापि क्षणाद् भवति निर्मलः ॥" (मा०ध० ११.२५१)

इति द्विपञ्चाशदृक्संख्याकस्य "अस्य वामस्य् अपलितस्य होतुः" (ऋ०वे० १.१६४.१) इति सूक्तस्य तथा "यज् जाग्रतो दूरम् उदैतु दैवम्" (वा०सं० ३४.१) इति शिवससंकल्पदृष्टस्य षडृचस्य वा सकृज्जप उक्तः, सोऽत्यन्तनिर्गुणस्वामिकस्वर्णहरणे गुणवतोऽपहर्तुर् द्रष्टव्यः । सुवर्णन्यूनपरिमाणविषयोऽनुग्राहकप्रयोजकविषयो वा । आवृत्तौ तु "महापातकसंयुक्तोऽनुगच्छेत्" इत्यादिनोक्तं द्रष्टव्यम् ॥ ३.३०३ ॥

क्रमप्राप्तं गुरुतल्पगप्रायश्चित्तम् आह ।

सहस्रशीर्षाजापी तु मुच्यते गुरुतल्पगः ।
गौर् देया कर्मणोऽस्यान्ते पृथग् एभिः पयस्विनी ॥ या०ध०३.३०४

गुरुतल्पगस् तु सहस्रशीर्षेति षोडशर्चसूक्तं नारायणदृष्टं पुरुषदैवत्यम् आनुष्टुभं त्रिष्टुबन्तं जपंस् तस्मात् पापान् मुच्यते । सहस्रशीर्षाजापीति ताच्छील्यप्रत्ययाद् आवृत्तिर् गम्यते । अत एव यमेनोक्तम् ।

"पौरुषं सूक्तम् आवर्त्य मुच्यते सर्वकिल्बिषात् ।" इति ।

आवृत्तौ च संख्यापेक्षायाम् अधस्तनश्लोकगता चत्वारिंशत्संख्यानुमीयते । अत्रापि प्राक्तनश्लोकगतं त्रिरात्रोपोषित इति संबन्ध्यते । अत एव बृहद्विष्णुः : "त्रिरात्रोपोषितः पुरुषसूक्तजपहोमाभ्यां गुरुतल्पगः शुध्येत्" इति । एभिश् च सुरापसुवर्णस्तेनगुरुतल्पगैस् त्रिभिः पृथक् पृथग् अस्य त्रिरात्रव्रतस्यान्ते बहुक्षीरा गौर् देया । इदम् अकामविषयम् । यत् तु मनुना,

"हविष्यान्तीयम् अभ्यस्य न तमं ह इतीति च ।
जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥" (मा०ध० ११.२५२)

इति । "हविष् पान्तम् अजरं स्वर्विदं", (ऋ०वे० १०.८८.१) "न तम् अंहो न दुरितं", (ऋ०वे० २.२३.५) "इति वा इति मे मनः", (ऋ०वे० १०.११९.१) "सहस्रशीर्षा" (ऋ०वे० १०.९०.१) इत्य् एषाम् अन्यतमस्य मासं प्रत्यहं षोडशषोडशकृत्वो जप उक्तः, सोऽप्य् अकामविषय एव । कामतस् तु "मन्त्रैः शाकलहोमीयैः" (मा०ध० ११.२५७) इति मनूक्तं द्रष्टव्यम् । यत् तु षट्त्रिंशन्मतेऽभिहितम्,

"महाव्याहृतिभिर् होमस् तिलैः कार्यो द्विजन्मना ।
उपपातकशुद्ध्यर्थं सहस्रपरिसंख्यया ॥
महापातकसंयुक्तो लक्षहोमेन शुध्यति ॥"

इति, तद् आवृत्तिविषयम् । यत् तु यमेनोक्तम्,

"जपेद् वाप्य् अस्यवामीयं पावमानीर् अथापि वा ।
कुन्तापं वालखिल्यांश् च निवित्प्रैषान् वृषाकपिम् ॥
होतॄन् रुद्रान् सकृज् जप्त्वा मुच्यते सर्वपातकैः ॥"

इति, तद् व्यभिचारिणीगमनविषयम् । यानि पुनः गुरुतल्पातिदेशविषयाणि तत्समानि वातिपातकोपपातकपदाभिधेयानि तेषु तुरीयांशन्यूनम् अर्धोनं च क्रमेण वेदितव्यम् । "पातकातिपातकोपपातकमहापातकानाम् एकतमे संनिपाते वा अघमर्षणम् एव त्रिर् जपेद्" इति हारीतोक्तं वा द्रष्टव्यम् । महापातकसंसर्गिणश् च "स तस्यैव व्रतं कुर्याद्" (मा०ध० ११.१८२) इति वचनाद्, येन सह संसर्गस् तदीयम् एव प्रायश्चित्तम् । न च वाच्यं अत्राध्यापनादिसंसर्गस्यानेककर्तृकसंपाद्यत्वाद् रहस्यत्वानुपपत्तिर् इति । यतः सत्य् अप्य् अनेककर्तृत्वे परदारगमनवत् कर्तृव्यतिरिक्ततृतीयाद्यपरिज्ञानमात्रेणैव रहस्यत्वम् । अतो भवत्य् एव रहस्यप्रायश्चित्तम् । एवम् अतिपातक्यादिसंसार्गिणोऽपि तदीयम् एव प्रायश्चित्तं वेदितव्यम् ॥ ३.३०४ ॥

इति महापातकरहस्यप्रायश्चित्तप्रकरणम् ।

क्रमप्राप्तं गोवधादिषट्पञ्चाशदुपपातकप्रायश्चित्तम् आह ।

प्राणायामशतं कार्यं सर्वपापापनुत्तये ।
उपपातकजातानाम् अनादिष्टस्य चैव हि ॥ या०ध०३.३०५

गोवधादिषट्पञ्चाशदुपपातकजातानाम् अनादिष्टरहस्यव्रतानां च जातिभ्रंशकरादीनां सर्वेषाम् अपनुत्तये प्राणायामानां शतं कार्यम् । तथा सर्वेषां महापातकादीनां प्रकीर्णकान्तानाम् अप्य् अपनुत्तये प्राणायामाः कार्याः । तत्र च महापातकेषु चतुःशतम्, अतिपातकेषु त्रिशतम्, अनुपातकेषु द्विशतम् इति संक्याविवृद्धिः कल्पनीया । प्रकाशप्रायश्चित्तेषु महापातकप्रायश्चित्ततुरीयांशस्योपपातकेषु विधानदर्शनात्, प्रकीर्णकेषु च ह्रासः कल्प्यः । अत एवोक्तं यमेन ।

"दशप्रणवसंयुक्तैः प्राणायामैश् चतुःशतैः ।
मुच्यते ब्रह्महत्यायाः किं पुनः शेषपातकैः ॥" इति ।

बौधायनेनाप्यत्र विशेष उक्तः : "अपि वाक्चक्षुःश्रोत्रत्वक्घ्राणमनोव्यतिक्रमेषु त्रिभिः प्राणायामैह् शुध्यति । शूद्रस्त्रीगमनान्नभोजनेषु पृथक् पृथक् सप्ताहं सप्त प्रानायामान् धारयेत् । अभक्ष्याभोज्यामेध्यप्राशनेषु तथा वापण्यविक्रयेषु मधुमांसघृततैललाक्षालवणरसान्नवर्जितेषु यच् चान्यद् अप्य् एवंयुक्तं स्याद् अर्धमासं द्वादशद्वादश प्राणायामान् धारयेत् । उपपातकपतनीयवर्जं यच् चाप्य् अन्यद् एवंयुक्तं स्यान् मासं द्वादशार्धमासान् द्वादशद्वादश प्राणायामान् धारयेत् । अन्यपातकवर्ज्यं यच् चान्यद् अप्य् एवंयुक्तं द्वादश अर्धमासान् द्वादश प्राणायामान् धारयेत् । अथ पातकेषु संवत्सरं द्वादशद्वादश प्राणायामान् धारयेत्" इति (बौ०ध० ४.१.४–१०) । तत्र "वाक्चक्षुर्" इत्यादिप्राणायामत्रयं प्रकीर्णकाभिप्रायम् । शूद्रस्त्रीगमनान्नभोजनेत्यादिनोक्ता एकोनपञ्चाशत्प्राणायामा उपपातकविशेषाभिप्रायाः । तथा अभक्ष्याभोज्येत्यादिनोक्ताश् चतुश्चत्वारिंशदधिकशतप्राणायामा अप्य् उपपातकविशेषाभिप्राया एव । "अथ पातकोपपातकवर्ज्यम्" इत्यादिनोक्ताः साशीतिशतप्राणायामा जातिभ्रंशकराद्यभिप्रायाः । "अथ पातकपतनीयवर्ज्यम्" इत्यादिनोक्ताः षष्ट्यधिकशतत्रयप्राणायामाः गोवधाद्युपपातकाभिप्रायाः । "अथ पातकवर्ज्यम्" इत्यादिनोक्ताः षष्ट्यधिकद्विशतसहितद्विसहस्रसंख्याकाः प्राणायामा अतिपातकानुपपातकाभिप्रायाः । "अथ पातकेषु" इत्यादिनोक्ता विंशत्यधिकशतत्रययुक्ताश् चतुःसहस्रप्राणायामा महापातकविषयाः । इदं चाभक्ष्यभोज्येत्यादिनोक्तं प्रायश्चित्तपञ्चकम् अत्यन्ताभ्यासविषयं समुच्चितविषयं वा । यत् तु मनुना,

"एनसां स्थूलसूक्ष्माणां चिकीर्षन्न् अपनोदनम् ।
अवेत्यृचं जपेद् अब्दं यत् किंचेदमितीति वा ॥" (मा०ध० ११.२५३)

इत्य् अब्दं यावत् प्रत्यहम् अर्थान्तराविरुद्धेषु कालेषु "अवतेहेडोवरुण" इत्य् अस्या ऋचो "यत् किंचेदम्" इत्य् अस्याः "इति वा इतिमेमनः" इत्य् अस्याश् च जप उक्तः, सोऽप्य् अभ्यासविषयः ॥ ३.३०५ ॥

उपपातकसामान्यप्राप्तस्य प्राणायामशतस्यापवादम् आह ।

ओंकाराभिष्टुतं सोमसलिलं पावनं पिबेत् ।
कृत्वा हि रेतोविण्मूत्रप्राशनं तु द्विजोत्तमः ॥ या०ध०३.३०६

द्विजो रेतोविण्मूत्रप्राशनं कृत्वा सोमलतारसम् ओङ्कारेणाभिमन्त्रितं शुद्धिसाधनं पिबेत् । एतच् चाकामकारविषयम् । कामतस् तु सुमन्तूक्तम् : "रेतोविण्मूत्रप्राशनं कृत्वा, लशुनपलाण्डुगृञ्जनकुम्भिकादीनाम् अन्येषां चाभक्ष्याणां भक्षणं कृत्वा, हंसग्रामकुक्कुटश्वसृगालादिमांसभक्षणं च कृत्वा, ततः कण्ठमात्रम् उदकम् अवतीर्य शुद्धवतीभिः प्राणायामं कृत्वा महाव्याहृतिभिर् उरोगम् उदकं पीत्वा तद् एतस्मात् पूतो भवति" इति । मनुनापि सप्तविधाभक्ष्यभक्षणे प्रायश्चित्तान्तरम् उक्तम् ।

"प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ।
जपंस् तरत्समन्दीयं पूयते मानवस् त्र्यहात् ॥" इति । (मा०ध० ११.२५४)

अप्रतिग्राह्यं विषशस्त्रसुरादि पतितादिद्रव्यं च । यदा त्व् अप्सु रेतोविण्मूत्रादिशारीरं मलं विसृजति तदापि तेनैवोक्तम् ।

"अप्रशस्तं तु कृत्वाप्सु मासम् आसीत भैक्ष्यभुक् ।" इति ॥ (मा०ध० ११.२५६) ३.३०६ ॥

अज्ञानकृते प्रकीर्णके मानसे चोपपातके प्रायश्चित्तम् आह ।

निशायां वा दिवा वापि यद् अज्ञानकृतं भवेत् ।
त्रैकाल्यसंध्याकरणात् तत् सर्वं विप्रणश्यति ॥ या०ध०३.३०७

रजन्यां वासरे वा यत् प्रमादकृतं प्रकीर्णकं मानसं वाचिकं चोपपातकं तत् सर्वं प्रातर्मध्याह्नादिकालत्रयविहितनित्यसंध्योपासनया प्रणश्यति । तथा च यमः ।

"यद् अह्नात् कुरुते पापं कर्मणा मनसा गिरा ।
आसीनः पश्चिमां संध्यां प्राणायामैर् निहन्ति तत् ॥" इति ।

शातातपेनाप्य् उक्तम् ।

"अनृतं मद्यगन्धं च दिवा मैथुनम् एव च ।
पुनाति वृषलान्नं च संध्या बहिर् उपासिता ॥" इति ॥ ३.३०७ ॥

अथ सकलमहापातकादिसाधारणान् पवित्रमन्त्रान् आह ।

शुक्रियारण्यकजपो गायत्र्याश् च विशेषतः ।
सर्वपापहरा ह्य् एते रुद्रैकादशिनी तथा ॥ या०ध०३.३०८

"शुक्रियं" नाम आरण्यकविशेषः "विश्वानि देव सवितः" (वा०सं० ३०.३) इत्यादि वाजसनेयके पठ्यते, आरण्यकं च यजुः "ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये" इत्यादि तत्रैव पठ्यते, तयोर् जपः सकलमहापातकादिहरः । तथा गायत्र्याश् च महापातकेषु लक्षम् अतिपातकोपपातकयोर् दशसहस्रम् उपपातकेषु सहस्रं प्रकीर्णकेषु शतम् इत्य् एवं विशेषतो जपः सर्वपापहरः । तथा च गायत्रीम् अधिकृत्य श्लोकः शङ्खेनोक्तः ।

"शतं जप्ता तु सावित्री महापातकनाशिनी ।
सहस्रजप्ता तु तथा पातकेभ्यः प्रमोचिनी ॥
दशसाहस्रजाप्येन सर्वकिल्बिषनाशिनी ।
लक्षं जप्ता तु सा देवी महापातकनाशिनी ॥
सुवर्णस्तेयकृद् विप्रो ब्रह्महा गुरुतल्पगः ।
सुरापश् च विशुध्यन्ति लक्षं जप्त्वा न संशयः ॥" इति ।

यत् तु चतुर्विंशतिमते उक्तम्,

"गायत्र्यास् तु जपन् कोटिं ब्रह्महत्यां व्यपोहति ।
लक्षाशीतिं जपेद् यस् तु सुरापानाद् विमुच्यते ॥
पुनाति हेमहर्तारं गायत्र्या लक्षसप्ततिः ।
गायत्र्या लक्षषष्ट्या तु मुच्यते गुरुतल्पगः ॥"

इति, तद् गुरुत्वात् प्रकाशविषयम् । तथा रुद्रैकादशिनी एकादशानां रुद्रानुवाकानां समाहारो रुद्रैकादशिनी । सा च विशेषतो जप्ता सर्वपापहरा ।

"एकादशगुणान् वापि रुद्रान् आवर्त्य धर्मवित् ।
महद्भ्यः स तु पापेभ्यो मुच्यते नात्र संशयः ॥"

इति महापातकेष्व् एकादशगुणावृत्तिदर्शनात्, अतिपातकादिषु चतुर्थचतुर्थांशह्रासो योजनीयः । चशब्दोऽघमर्षणादिसमुच्चयार्थः । यथाह वसिष्ठः ।

"सर्ववेदपवित्राणि वक्ष्याम्य् अहम् अतः परम् ।
येषां जपैश् च होमैश् च पूयन्ते नात्र संशयः ॥
अघमर्षणं देवकृतं शुद्धवत्यस् तरत्समाः ।
कूष्माण्ड्यः पावमान्यश् च दुर्गासावित्र्य् अथैव च ॥
अभीषङ्गाः पदस्तोमाः सामानि व्याहृतीस् तथा ।
भारदण्डानि सामानि गायत्रं रैवतं तथा ॥
पुरुषव्रतं च भासं च तथा देवव्रतानि च ।
आर्त्विगं बार्हस्पत्यं च वाक्सूक्तं मध्वृचस् तथा ॥
शतरुद्रियाथर्वशिरास् त्रिसुपर्णं महाव्रतम् ।
गोसूक्तं चाश्वसूक्तं च इन्द्रशुद्धे च सामनी ॥
त्रीण्य् आज्यदोहानि रथन्तरं च
अग्नेर् व्रतं वामदेव्यं बृहच् च ।
एतानि गीतानि पुनन्ति जन्तूञ्
जातिस्मरत्वं लभते यदीच्छेत् ॥" इति ॥ (व०ध० २८.१०–१५) ३.३०८ ॥

किं च ।

यत्र यत्र च संकीर्णम् आत्मानं मन्यते द्विजः ।
तत्र तत्र तिलैर् होमो गायत्र्या वाचनं तथा ॥ या०ध०३.३०९

यत्र यत्र च ब्रह्मवधादौ तज्जनितकल्मषजातेनात्मानं संकीर्णम् अभिभूतं द्विजो मन्यते, तत्र तत्र गायत्र्या तिलैर् होमः कार्यः । तत्र महापातकेषु लक्षसंख्यया होमः कार्यः,

"गायत्र्या लक्षहोमेन मुच्यते सर्वपातकैः ।"

इति यमस्मरणात् । अतिपातकादिषु पादपादह्रासः कल्पनीयः । तथा तिलैर् वाचनं दानं कार्यम् । तथा च रहस्याधिकारे वसिष्ठः ।

"वैशाख्यां पौर्णमास्यां तु ब्राह्मणान् सप्त पञ्च वा ।
क्षौद्रयुक्तैस् तिलैः कृष्णैर् वाचयेद् अथ वेतरैः ॥
प्रीयतां धर्मराजेति यद् वा मनसि वर्तते ।
यावज्जीवकृतं पापं तत् क्षणाद् एव नश्यति ॥" इति । (व०ध० २८.१८–१९)

तथा अनियतकालेऽपि दानं तेनैवोक्तम् ।

"कृष्णाजिने तिलान् कृत्वा हिरण्यं मधुसर्पिषी ।
ददाति यस् तु विप्राय सर्वं तरति दुष्कृतम् ॥" इति । (व०ध० २८.२२)

तथा व्यासेनाप्युक्तम् ।

"तिलधेनुं च यो दद्यात् संयतात्मा द्विजन्मने ।
ब्रह्महत्यादिभिः पापैर् मुच्यते नात्र संशयः ॥" इति ।

एवमादि दानजातं रहस्यकाण्डोक्तम् अविदुषां द्विजानां स्त्रीशूद्रयोश् च वेदितव्यम् । यत् तु यमेनोक्तम्,

"तिलान् ददाति यः प्रातस् तिलान्स् पृशति खादति ।
तिलस्नायी तिलाञ् जुह्वन् सर्वं तरति दुष्कृतम् ॥"

तथा,

"द्वे चाष्टम्यौ तु मासस्य चतुर्दश्यौ तथैव च ।
अमावास्या पौर्णमासी सप्तमी द्वादशीद्वयम् ॥
संवत्सरम् अभुञ्जानः सततं विजितेन्द्रियः ।
मुच्यते पातकैः सर्वैः स्वर्गलोकं च गच्छति ॥"

इति । यच् च अत्रिणोक्तम्,

"क्षीराब्धौ शेषपर्यङ्के त्व् आषाढ्यां संविशेद् धरिः ।
निद्रां त्यजति कार्तिक्यां तयोः संपूजयेद् धरिम् ॥
ब्रह्महत्यादिकं पापं क्षिप्रम् एव व्यपोहति ॥"

इत्य् एवमादि, तत् सर्वं विद्याविरहिणां कामाकामसकृदसकृदभ्यासविषयतया व्यवस्थापनीयम् ॥ ३.३०९ ॥

किं च ।

वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियापरम् ।
न स्पृशन्तीह पापानि महापातकजान्य् अपि ॥ या०ध०३.३१०

"वेदस्वीकरणं पूर्वं विचारोऽभ्यसनं जपः ।
तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥"

इत्युक्तक्रमेण वेदाभ्यासनिरतं तितिक्षायुक्तं पञ्चमहायज्ञानुष्ठाननिरतं महापातकजान्य् अपि पापानि न स्पृशन्ति । किम् उत प्रकीर्णकजानि वाङ्मनसजन्योपपातकानि चेत्य् अत्र तात्पर्यम् अपिशब्दाल् लक्ष्यते । एतच् चाकामकारविषयम् । अत एव वसिष्ठेन,

"यद्य् अकार्यशतं साग्रं कृतं वेदश् च धार्यते ।
सर्वं तत् तस्य वेदाग्निर् दहत्य् अग्निर् इवेन्धनम् ॥" (व०ध० २७.१)

इति प्रकीर्णकाद्यभिप्रायेणाभिधाय, अभिहितम्,

"न वेदबलम् आश्रित्य पापकर्मरतिर् भवेत् ।
अज्ञानाच् च प्रमादाच् च दह्यते कर्म नेतरत् ॥" इति ॥ (व०ध० २७.४) ३.३१० ॥

किं च ।

वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक् ।
जप्त्वा सहस्रं गायत्र्याः शुध्येद् ब्रह्मवधाद् ऋते ॥ या०ध०३.३११

सोपवसो वासरम् उपविशन् उषित्वा सलिले वसन् निशां नीत्वादित्योदयानन्तरं सावित्र्याः सहस्रं जप्त्वा ब्रह्मवधव्यतिरिक्तसकलमहापातकादिपापजातान् मुच्यते । अतश् चोपपातकादिष्व् अभ्यासेऽनेकदोषसमुच्चये वा वेदितव्यम्, विषमविषयसमीकरणस्यान्याय्यत्वात् । अत एव वृद्धवसिष्ठेन महापातकोपपाकतयोः कालविशेषेण व्रतविशेष उक्तः । यथाह, "यवानां प्रसृतिम् अञ्जलिं वा श्रप्यमाणं शृतं वाभिमन्त्रयेत्ऽयवोऽसि धान्यराजस् त्वं वारुणो मधुसंयुतः । निर्णोदः सर्वपापानां पवित्रम् ऋषिभिः स्मृतम्ऽ इत्य् अनेन ।ऽघृतं यवा मधुयवाः पवित्रम् अमृतं यवाः । सर्वं पुनन्तु मे पापं वाङ्मनःकायसंभवम्ऽ इत्य् अनेन वा ।"

"अग्निकार्यं तु कुर्वीत तेन भूतमलिं तथा ।
नाग्रं न भिक्षां नातिथ्यं न चोच्छिष्टं परित्यजेत् ॥"

"ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितरस् ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहाऽ इत्य् आत्मनि जुहुयात् त्रिरात्रं मेधाभिवृद्धये पापक्षयाय त्रिरात्रं ब्रह्महत्यादिषु द्वादशरात्रं पतितोत्पन्नश् च" । इत्य् एतद्दिगवलम्बनेनान्यान्य् अपि स्मृतिवचनानि विवेचनीयानि ॥ ३.३११ ॥

इति रहस्यप्रायश्चित्तप्रकरणम् ।

विनियुक्तव्रतव्रातरूपभेदे बुभुत्सिते ।

कीदृक्षम् इति संक्षेपाल् लक्षणं वक्ष्यतेऽधुना ॥

तत्र तावत् सकलप्रकाशरहस्यव्रताङ्गभूतान् धर्मान् आह ।

ब्रह्मचर्यं दया क्षान्तिर् दानं सत्यम् अकल्कता ।
अहिंसास्तेयमाधुर्ये दमश् चेति यमाः स्मृताः ॥ या०ध०३.३१२

स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः ।
नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता ॥ या०ध०३.३१३

ब्रह्मचर्यं सकलेन्द्रियसंयमः । उपस्थनिग्रहो लिङ्गनिग्रहः गोबलीवर्दन्यायेन निर्दिष्टः । अकल्कता अकुटिलता । शेषं प्रसिद्धम् । यत् पुनर् मनुनोक्तम्,

"अहिंसा सत्यम् अक्रोधम् आर्जवं च समाचरेत् ।" (मा०ध० ११.२२३)

इति, तद् अप्य् एतेषाम् उपलक्षणं न परिगणनाय । अत्र च दयाक्षान्त्यादीनां पुरुषार्थतया प्राप्तानाम् अपि पुनर्विधानं प्रायश्चित्ताङ्गत्वार्थम् । क्वचिद् विशेषोऽप्य् अस्ति । यथा विवाहादिष्व् अभ्यनुज्ञातस्याप्य् अनृतवचनस्य निवृत्त्यर्थं सत्यत्वविधानम् । पुत्रशिष्यादिकम् अपि न ताडनीयम् इत्येवमर्थम् अहिंसाविधानम् इत्येवमादि ॥ ३.३१२ ॥ ३.३१३ ॥

तत्र सान्तपनाख्यं व्रतं तावद् आह ।

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
जग्ध्वा परेऽह्न्य् उपवसेत् कृच्छ्रं सांतपनं चरन् ॥ या०ध०३.३१४

पूर्वेद्युर् आहारान्तरपरित्यागेन गोमूत्रादीनि पञ्चगव्यानि पञ्चद्रव्याणि कुशोदकसहितानि संयुज्य पीत्वा अपरेद्युर् उपवसेद् इति द्वैरात्रिकः सान्तपनः कृच्छ्रः । संयोजनं चोत्तरश्लोके पृथग्विधानाद् अवगम्यते । कृच्छ्र इति चान्वर्थसंज्ञेयम्, तपोरूपत्वेन क्लेशसाध्यत्वात् । गोमूत्रादीनां परिमाणं वक्ष्यते । यदा पुनः पूर्वेद्युर् उपोष्यापरेद्युः समन्त्रकं संयुज्य समन्त्रकम् एव पञ्चगव्यं पीयते तदा ब्रह्मकूर्च इत्य् आख्यायते । यथाह पाराशरः ।

"गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
निर्दिष्टं पञ्चगव्यं तु प्रत्येकं कायशोधनम् ॥
गोमूत्रं ताम्रवर्णायाः श्वेतायाश् चापि गोमयम् ।
पयः काञ्चनवर्णाया नीलायाश्च तथा दधि ॥
घृतं च कृष्णवर्णायाः सर्वं कापिलम् एव च ।
अलाभे सर्ववर्णानां पञ्चगव्येष्व् अयं विधिः ॥
गोमूत्रं माषकास् त्व् अष्टौ गोमयस्य तु षोडश ।
क्षीरस्य द्वादश प्रोक्ता दध्नस् तु दश कीर्तिताः ॥
गोमूत्रवद् घृतस्येष्टस् तदर्धं तु कुशोदकम् ।
गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥
तेजोऽसि शुक्रम् इत्य् आज्यं देवस्यत्वा कुशोदकम् ।
पञ्चगव्यम् ऋचा पूतं होमयेद् अग्निसंनिधौ ॥
सप्तपत्राश् च ये दर्भा अच्छिन्नाग्राः शुचित्विषः ।
एतैर् उद्धृत्य होतव्यं पञ्चगव्यं यथाविधि ॥
इरावती इदं विष्णुर् मानस्तोके च शंवतीः ।
एताभिश् चैव होतव्यं हुतशेषं पिबेद् द्विजः ॥
प्रणवेन समालोड्य प्रणवेनाभिमन्त्र्य च ।
प्रणवेन समुद्धृत्य पिबेत् तत् प्रणवेन तु ॥
मध्यमेन पलाशस्य पद्मपत्रेण वा पिबेत् ।
स्वर्णपात्रेण रौप्येण ब्राह्मतीर्थेन वा पुनः ॥
यत् त्वगस्थिगतं पापं देहे तिष्ठति मानवे ।
ब्रह्मकूर्चोपवासस् तु दहत्य् अग्निर् इवेन्धनम् ॥" इति ।

यदा त्व् एतद् एव मिश्रितं पञ्चगव्यं त्रिरात्रम् अभ्यस्यते तदा यतिसान्तपनसंज्ञा लभते,

"एतद् एव त्र्यहाभ्यस्तं यतिसान्तपनं स्मृतम् ।"

इति शङ्खस्मरणात् । जाबालेन तु सप्ताहसाध्यं सान्तपनम् उक्तम् ।

"गोमूत्रं गोम्यं क्षीरं दधि सर्पिः कुशोदकम् ।
एकैकं प्रत्यहं पीत्वा त्व् अहोरात्रम् अभोजनम् ।
कृच्छ्रं सान्तपनं नाम सर्वपापप्रणाशनम् ॥" इति ।

एषां च गुरुलघुकृच्छ्राणां शक्त्याद्यपेक्षया व्यवस्था विज्ञेया । एवम् उत्तरत्रापि व्यवस्था बोद्धव्या ॥ ३.३१४ ॥

महासान्तपनाख्यं कृच्छ्रम् आह ।

पृथक्सांतपनद्रव्यैः षडहः सोपवासकः ।
सप्ताहेन तु कृच्छ्रोऽयं महासांतपनः स्मृतः ॥ या०ध०३.३१५

सप्ताहेनापवर्जितो महासान्तपनाख्यः कृच्छ्रो विज्ञेयः । कथम् इत्य् अपेक्षायाम् उक्तं पृथग्भूतैः षड्भिर् गोमूत्रादिभिर् एकैकेनैकैकम् अहर् अतिवाहयेत् सप्तमं चोपवासेनेति । यमेन तु पञ्चदशाहसंपाद्यो महासान्तपनोऽभिहितः ।

"त्र्यहं पिबेत् तु गोमूत्रं त्र्यहं वै गोमयं पिबेत् ।
त्र्यहं दधि त्र्यहं क्षीरं त्र्यहं सर्पितस्तः शुचिः ॥
महासान्तपनं ह्य् एतत् सर्वपापप्रणाशनम् ॥" इति ।

जाबालेन त्व् एकविंशतिरात्रिनिर्वर्त्यो महासान्तपन उक्तः ।

"षण्णाम् एकैकम् एतेषां त्रिरात्रम् उपयोजयेत् ।
त्र्यहं चोपवसेद् अन्त्यं महासान्तपनं विदुः ॥" इति ।

यदा तु षण्णां सान्तपनद्रव्याणाम् एकैकस्य द्व्यहम् उपयोगस् तदा अतिसान्तपनम् । यथाह यमः ।

"एतान्य् एव तथा पेयान्य् एकैकं तु द्व्यहं द्व्यहम् ।
अतिसान्तपनं नाम श्वपाकम् अपि शोधयेत् ॥" इति ।

श्वपाकम् अपि शोधयेद् इत्य् अर्थवादः ॥ ३.३१५ ॥

इति महासांतपनातिसांतपने

पर्णकृच्छ्राख्यं व्रतम् आह ।

पर्णोदुम्बरराजीवबिल्वपत्रकुशोदकैः ।
प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ॥ या०ध०३.३१६

पलाशोदुम्बरारविन्दश्रीवृक्षपर्णानाम् एकैकेन क्वथितम् उदकं प्रत्यहं पिबेत् । कुशोदकं चैकस्मिन्न् अहनीति पञ्चाहसाध्यः पर्णकृच्छ्रः । यदा तु पर्णादीनाम् एकीकृतानां क्वाथस् त्रिरात्रान्ते पीयते तदा पर्णकूर्चः । यथाह यमः ।

"एतान्य् एव समस्तानि त्रिरात्रोपोषितः शुचिः ।
क्वाथयित्वा पिबेद् अद्भिः पर्णकूर्चोऽभिधीयते ॥" इति ।

यदा तु बिल्वादिफलानि प्रत्येकं क्वथितानि मासं पीयन्ते तदा फलकृच्छ्रादिव्यपदेशं लभन्ते । यथाह मार्कण्डेयः ।

"फलैर् मासेन क्वथितः फलकृच्छ्रो मनीषिभिः ।
श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माक्षैर् अपरस् तथा ॥
मसेनामलकैर् एवं श्रीकृच्छ्रम् अपरं स्मृतम् ।
पत्रैर् मतः पत्रकृच्छ्रः पुष्पैस् तत्कृच्छ्र उच्यते ॥
मूलकृच्छ्रः स्मृतो मूलैस् तोयकृच्छ्रो जलेन तु ॥" इति ॥ ३.३१६ ॥

इति पर्णकृच्छ्र एकादशविधः

तप्तकृच्छ्रम् आह ।

तप्तक्षीरघृताम्बूनाम् एकैकं प्रत्यहं पिबेत् ।
एकरात्रोपवासश् च तप्तकृच्छ्र उदाहृतः ॥ या०ध०३.३१७

दुग्धसर्पिरुदकानां तप्तानाम् एकैकं प्रतिदिवसं प्राश्यापरेद्युर् उपवसेत् । एष दिवसचतुष्टयसंपाद्यो महातप्तकृच्छ्रः । एभिर् एव समस्तैः सोपवासैर् द्विरात्रसंपाद्यः सान्तपनवत् तप्तकृच्छ्रः । मनुना तु द्वादशरात्रनिर्वर्त्योऽभिहितः ।

"तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान् ।
प्रतित्र्यहं पिबेद् उष्णान् सकृत् स्नायी समाहितः ॥" इति । (मा०ध० ११.२१५)

क्षीरादिपरिमाणं तु पराशरेणोक्तं द्रष्टव्यम् ।

"अपां पिबेत्तु त्रिपलं द्विपलं तु पयः पिबेत् ।
पलम् एकं पिबेत् सर्पिस् त्रिरात्रं चोष्णमारुतम् ॥" इति ।

त्रिरात्रमारुतस्य पूरणे उष्णोदकबाष्पं पिबेद् इत्य् अर्थः । यदा तु शीतं क्षीरादि पीयते तदा शीतकृच्छ्रः,

"त्र्यहं शीतं पिबेत् तोयं त्र्यहं शीतं पयः पिबेत् ।
त्र्यहं शीतं घृतं पीत्वा वायुभक्षः परं त्र्यहम् ॥"

इति यमस्मरणात् ॥ ३.३१७ ॥

इति तप्तकृच्छ्रश् चतुर्विधः

पादकृच्छ्रम् आह ।

एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन चैवायं पादकृच्छ्रः प्रकीर्तितः ॥ या०ध०३.३१८

एकभक्तेन सकृद्भोजनेन दिवैव, नक्तेनेति पृथगुपादानात् । अतश् च दिवैवैकवारम् एव भोजनेनैवैकम होरात्रम् अतिवाहयेद् इति । तत्र दिवेति रात्रिव्युदासः । एकवारम् इति द्विवारादिव्युदासः । भोजनेनेत्य् अभोजनव्युदासः । एतच् च कृच्छ्रादीनां व्रतरूपत्वात् पुरुषार्थभोजनपर्युदासेन कृच्छ्राङ्गभूतं भोजनं विधीयते । तथा च आपस्तम्बः ।

"त्र्यहम् अनक्ताश्य् अदिवाशी च ततस् त्र्यहं ।
त्र्यहम् अयाचितव्रतस् त्र्यहं नाश्नाति किंचन ।" इति ।

अत्र चानक्ताशीत्य् अनेन व्रतविहितेन णिनिप्रत्ययेन नक्तपर्युदासेन दिवाभोजननियमं दर्शयति । गौतमेनापीदम् एव स्पष्टीकृतम् : "हविष्यान् प्रातर् आशान् भुक्त्वा तिस्रो रात्रीर् नाश्नीयात्" (गौ०ध० २६.२) इति । एवं नक्तभोजनविधाव् अपि । न विद्यते याचितं यस्मिन् भोजने तद् अयाचितम् । तेन कालविशेषानुपादानाद् दिवा रात्रौ वा सकृद् इत्य् एव, तपोरूपत्वात् कृच्छ्राणां द्वितीयभोजने तद् अनुपपत्तेः । अयाचितम् इति न केवलं परकीयान्नयाचनप्रतिषेधोऽपि तु स्वकीयम् अपि परिचारकभार्यादिभ्यो न याचितव्यम्, प्रेषणाध्येषणयोः साधारणत्वाद् याच्ञायाः । अतः स्वगृहेऽपि भृत्यभार्यादयोऽनाज्ञप्ता एव यदि भोजनम् उपहरन्ति तर्हि भोक्तव्यं नान्यथा । अमुनैवाभिप्रायेणोक्तं गौतमेन : "अथापरं त्र्यहं न कंचन याचेत्" (गौ०ध० २६.४) इति । अत्र च ग्राससंख्यानियमः पराशरेण दर्शितः ।

"सायं तु द्वादशग्रासाः प्रातः पञ्चदश स्मृताः ।
चतुर्विंशतिर् आयाच्याः परं निरशनं स्मृतम् ॥" इति ।

आपस्तम्बेन त्व् अन्यथोक्तम् –

"सायं द्वाविंशतिग्रासाः प्रातः षड्विंशतिः स्मृताः ।
चतुर्विंशतिर् आयाच्याः परं निरशनास्त्रयः ।
कुक्कुटाण्डप्रमाणास् तु यथा वास्यं विशेत् सुखम् ॥" इति ॥

अनयोश्च कल्पयोः शक्त्यपेक्षया विकल्पः । आपस्तम्बेन तु प्राजापत्यप्रायश्चित्तं चतुर्धा विभज्य चतुरः पादकृच्छ्रान् कृत्वा वर्णानुरूपेण व्यवस्था दर्शिता ।

"त्र्यहं निरशनं पादः पादश् चायाचितं त्र्यहम् ।
सायं त्र्यहं तथा पादः पादः प्रातस् तथा त्र्यहम् ॥
प्रातः पादं चरेच् छूद्रः सायं वैश्ये तु दापयेत् ।
अयाचितं तु राजन्ये त्रिरात्रं ब्राह्मणे स्मृतम् ॥" इति ।

यदा त्व् अयाचितोपवासात्मकत्र्यहद्वयानुष्ठानं तदार्धकृच्छ्रः । सायंव्यतिरिक्तापरत्र्यहत्रयानुष्ठानं तु पादोनम् इति विज्ञेयम्,

"सायंप्रातर्विनार्धं स्यात् पादोनं नक्तवर्जितम् ।"

इति तेनैवोक्तत्वात् । अर्धकृच्छ्रस्य प्रकारान्तरम् अपि तेनैव दर्शितम् ।

"सायं प्रातस् तथैकैकं दिनद्वयम् अयाचितम् ।
दिनद्वयं च नाश्नीयात् कृच्छ्रार्धं तद् विधीयता ॥" इति ॥ ३.३१८ ॥

प्राजापत्यं कृच्छ्रम् आह ।

यथाकथंचित् त्रिगुणः प्राजापत्योऽयम् उच्यते । या०ध०३.३१९अब्

अयम् एव पादकृच्छ्रः यथाकथंचिद् दण्डकलितवद् आवृत्त्या स्वस्थानविवृद्ध्या वा, तत्राप्य् आनुलोम्येन प्रातिलोम्येन वा तथा वक्ष्यमाणजपाद् इत्य् उक्तं तद्रहितं वा त्रिर् अभ्यस्तः प्राजापत्योऽभिधीयते । तत्र दण्डकलितवद् आवृत्तिपक्षो वसिष्ठेन प्रदर्शितः ।

"अहः प्रातर् अहर् नक्तम् अहर् एकम् अयाचितम् ।
अहः पराकं तत्रैकम् एवं चतुरहौ परौ ॥
अनुग्रहार्थं विप्राणां मनुर् धर्मभृतां वरः ।
बालवृद्धातुर्ष्व् एवं शिशुकृच्छ्रम् उवाच ह ॥" इति । (व०ध० २३.४३)

आनुलोम्येन स्वस्थानविवृद्धिपक्षस् तु मनुना दर्शितः ।

"त्र्यहं प्रातस् त्र्यहं सायं त्र्यहम् अद्याद् अयाचितम् ।
परं त्र्यहं च नाश्नीयात् प्राजापत्यं चरन् द्विजः ॥" इति । (मा०ध० ११.२१२)

प्रातिलोम्यावृत्तिस् तु वसिष्ठेन दर्शिता ।

"प्रातिलोम्यं चरेद् विप्रः कृच्छ्रं चान्द्रायणोत्तरम् ।" इति । (व०ध० २१.१३)

जपादिरहितपक्षस् तु स्त्रीशूद्रादिविषयेऽङ्गिरसा दर्शितः ।

"तस्माच् छूद्रं समासाद्य सदा धर्मपथे स्थितम् ।
प्रायश्चित्तं प्रदातव्यं जपहोमादिवर्जितम् ॥" इति ।

जपादियुक्तपक्षस् तु पारिशेष्याद् योग्यतया च त्रैवर्णिकविषयः । स च गौतमादिभिर् दर्शितः : "अथातः कृच्छ्रान् व्याख्यास्यामः । हविष्यान् प्रातर् आशान् भुक्त्वा तिस्रो रात्रीर् नाश्नीयात् । अथापरं त्र्यहं नक्तं भुञ्जीत । अथापरं त्र्यहं न कंचन याचेत । अथापरं त्र्यहम् उपवसंस् तिष्ठेद् अहनि रात्राव् आसीत क्षिप्रकामः । सत्यं वदेत् । अनार्यैः सह न भाषेत । रौरवयोधां जपे नित्यं प्रयुञ्जीत । अनुसवनम् उदकोस्पर्शनम् आपोहिष्ठेति तिसृभिः पवित्रवतीभिर् मार्जयीत हिरण्यवर्णाः शुचयः पावका इत्य् अष्टाभिः । अथोदकतर्पणम् । नमोऽहमाय मोहमाय महमाय धन्वने तापसाय पुनर्वसवे नमः मौञ्ज्याय और्म्याय वसुविन्दाय सर्वविदाय नमः । पाराय सुपाराय महापाराय पारदाय परपाराय पारयिष्णवे नमः । रुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचरायाधिपतये हराय शर्वायाघनाशनायोग्राय वज्रिणे घृणिने कपर्दिने नमः । सूर्यायादित्याय नमः । नीलग्रीवाय शितिकण्ठाय नमः । कृष्णाय पिङ्गलाय नमः । ज्येष्ठाय श्रेष्ठाय वृद्धायेन्द्राय हरिकेशायोर्ध्वरेतसे नमः । सत्याय पावकाय पावकवर्णायैकवर्णाय कामाय कामरूपिणे नमः । दीप्ताय दीप्तरूपिणे नमः । तीक्ष्णाय तीक्ष्णरूपिणे नमः । सौम्याय सुपुरुषाय महापुरुषाय मध्यमपुरुषाय उत्तमपुरुषाय ब्रह्मचारिणे नमः । चन्द्रललाटाय कृत्तिवासने नम इति । एतद् एवादित्योपस्थानम् । एता एवाज्याहुतयः । द्वादशरात्रस्यान्ते चरुं श्रपयित्वा एताभ्यो देवताभ्यो जुहुयात् । अग्नये स्वाहा सोमाय स्वाहाग्नीषोमाभ्याम् इन्द्राग्निभ्याम् इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतयेऽग्नये स्विष्टक्र्ते इति । अन्ते ब्राह्मणभोजनम्" (गौ०ध० २६.१–१७) इति । तत्र तिष्ठेद् अहनि रात्राव् आसीत क्षिप्रकाम इत्य् अस्यार्थः । यस् तु महतोऽप्य् एनसः क्षिप्रम् एकेनैव कृच्छ्रेण क्षिप्रं मुच्येयम् इत्य् एवं कामयते असाव् अहनि कर्माविरुद्धेषु कालेषु तिष्ठेद् रात्राव् आसीत । एवं रौरवयोधाख्यसामजपो नमो हमायेत्यादिभिस् तर्पणम् आदित्योपस्थानादिकं चरुश्रपणादिकं च योगीश्वराद्यनुक्तं क्षिप्रकामः कुर्वीत । अतश् च योगीश्वराद्युक्तप्राजापत्यद्वयस्थाने गौतमीयम् अनेकेतिकर्तव्यतासहितं द्रष्टव्यम् । एवाम् अन्यान्य् अपि स्मृत्यन्तरोक्तानि विशेषेणान्वेषणीयानि ॥

अतिकृच्छ्रम् आह ।

अयम् एवातिकृच्छ्रः स्यात् पाणिपूरान्नभोजनः ॥ या०ध०३.३१९च्द्

एतद्धर्मक एव एकभक्तादिप्राजापत्यधर्मयुक्तोऽतिकृच्छ्रः स्यात् । इयांस् तु विशेषः । आद्ये त्र्यहत्रये पाणिपूरणमात्रम् अन्नं भुञ्जीत, न पुनर् द्वाविंशत्यादिग्रासान् । अत्र च प्राप्तभोजनानुवादेन पाणिपूरान्नविधानाद् अन्त्यत्र्यहेऽतिदेशप्राप्त उपवासोऽप्रतिपक्ष एव । अत्रापि पादशो व्यवस्था पूर्ववद् एव द्रष्टव्या । यत् तु मनुनोक्तम्,

"एकैकं ग्रासम् अश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् ।
त्र्यहं चोपवसेद् अन्त्यम् अतिकृच्छ्रं चरन् द्विजः ॥" (मा०ध० ११.२१४)

इति, तत् पाणिपूरान्नपरिमिताद् अल्पत्वाच् छक्तविषयम् ॥ ३.३१९ ॥

कृच्छ्रातिकृच्छ्रम् आह ।

कृच्छ्रातिकृच्छ्रः पयसा दिवसान् एकविंशतिम् । या०ध०३.३२०अब्

एकविंशतिरात्रं पयसा वर्तनं कृच्छ्रातिकृच्छ्राख्यं व्रतं विज्ञेयम् । गौतमेन तु द्वादशरात्रम् उदकेन वर्तनं कृच्छ्रातिकृच्छ्र उक्तः "अब्भक्षस् तृतीयः स कृच्छ्रातिकृच्छ्रः" (गौ०ध० २६.२०) इति । अतश् च शक्त्यपेक्षयानयोर् व्यवस्था ॥

पराकम् आह ।

द्वादशाहोपवासेन पराकः परिकीर्तितः ॥ या०ध०३.३२०च्द्

ऋज्वर्थोऽयम् अर्धश्लोकः ॥ ३.३२० ॥

सौम्यकृच्छ्रम् आह ।

पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् ।
एकरात्रोपवासश् च कृच्छ्रः सौम्योऽयम् उच्यते ॥ या०ध०३.३२१

पिण्याको निःसृततैलस् तिलओदननिस्त्रावोदश्विदुदकसक्तूनां पञ्चानाम् एकैकं प्रतिदिवसम् उपभुज्य षष्ठेऽह्नि उपवसेद् एष सौम्याख्यः कृच्छ्रोऽभिधीयते । द्रव्यपरिमाणं तु प्राणायात्रामात्रनिबन्धनम् अधिगन्तव्यम् । जाबालेन तु चतुरहर्व्यापी सौम्यकृच्छ्र उक्तः ।

"पिण्याकं सक्तवस् तक्रं चतुर्थेऽहन्य् अभोजनम् ।
वासो वै दक्षिणां दद्यात् सौम्योऽयं कृच्छ्र उच्यते ॥" इति ॥ ३.३२१ ॥

तुलापुरुषाख्यं कृच्छ्रम् आह ।

एषां त्रिरात्रम् अभ्यासाद् एकैकस्य यथाक्रमम् ।
तुलापुरुष इत्य् एष ज्ञेयः पञ्चदशाहिकः ॥ या०ध०३.३२२

एषां पिण्याकादीनां पञ्चानां क्रमेणैककस्य त्रिरात्राभ्यासेन पञ्चदशाहव्यापी तुलापुरुषाख्यः कृच्छ्रो वेदितव्यः । अत्र च पञ्चदशाहिकत्वविधानाद् उपवासस्य निवृत्तिः । यमेन त्व् एकविंशतिरात्रिकस् तुलापुरुष उक्तः ।

"आचामाम् अथ पिण्याकं तक्रं चोदकसक्तुकान् ।
त्र्यहं त्र्यहं प्रयुञ्जानो वायुभक्षी त्र्यहद्वयम् ॥
एकविंशतिरात्रस् तु तुलापुरुष उच्यते ॥" इति ।

अत्र हारीताद्युक्तेतिकर्तव्यता ग्रन्थगौरवभयान् न लिख्यते ॥ ३.३२२ ॥

चान्द्रायणम् आह ।

तिथिवृद्ध्या चरेत् पिण्डान् शुक्ले शिख्यण्डसंमितान् ।
एकैकं ह्रासयेत् कृष्णे पिण्डं चान्द्रायणं चरन् ॥ या०ध०३.३२३

चान्द्रायणाख्यं व्रतं कुर्वन् मयूराण्डपरिमितान् पिण्डान् शुक्ले आपूर्यमाणपक्षे तिथिवृद्ध्या चरेत् भक्षयेत् । यथा प्रतिपत्प्रभृतिषु चन्द्रकलानाम् एकैकशो वृद्धिर् अर्धमासे तद्वत् पिण्डान् अपि प्रतिपद्य् एको द्वितीयायां द्वाव् इत्य् एवम् एकैकशो वर्धयन् भक्षयेद् यावत् पौर्णमासी । ततः पञ्चदश्यां पञ्चदश ग्रासान् भुक्त्वा ततः कृष्णपक्षे चतुर्दश प्रतिपदि द्वितीयायां त्रयोदशेत्य् एवम् एकैकशो ग्रासान् ह्रासयन्न् अश्नीयाद् यावच् चतुर्दशी । ततश् चतुर्दश्याम् एकं ग्रासं ग्रसित्वा इन्दुक्षयेऽर्थाद् उपवसेत् । तथा च वसिष्ठः ।

"एकैकं वर्धयेत् पिण्डं शुक्ले कृष्णे च ह्रासयेत् ।
इन्दुक्षये न भुञ्जीत एष चान्द्रायणो विधिः ॥" इति । (व०ध० २७.२१)

चन्द्रस्यायनम् इवायनं चरणं यस्मिन् कर्मणि ह्रासवृद्धिभ्यां तच् चान्द्रायणं । संज्ञायां दीर्घः । इदं च यववत्प्रान्तयोर् अणीयो मध्ये स्थवीय इति यवमध्यम् इति कथ्यते । एतद् एव व्रतं यदा कृष्णपक्षप्रतिपदि प्रक्रम्य पूर्वोक्तक्रमेणानुष्ठीयते तदा पिपीलिकावन् मध्ये ह्रसिष्ठं भवतीति पिपीलिकमध्यम् इति कथ्यते । तथा हि पूर्वोक्तक्रमेण कृष्णप्रतिपदि चतुर्दश ग्रासान् भुक्त्वा एकैकग्रासापचयेत् चतुर्दशीं यावद् भुञ्जीत । ततश् चतुर्दश्याम् एकं ग्रासं ग्रसित्वामावास्यायाम् उपोष्य शुक्लप्रतिपद्य् एकम् एव ग्रासं प्राश्नीयात् । तत एकैकोपचयभोजनेन पक्षशेषे निर्वर्त्यमाने पौर्णमास्यां पञ्चदश ग्रासाः संपद्यन्त इति युक्तैव पिपीलिकामध्यता । तथा च वसिष्थः ।

"मासस्य कृष्णपक्षादौ ग्रासान् अद्याच् चतुर्दश ।
ग्रासापचयभोजी सन् पक्षशेषं समापयेत् ॥
तथैव शुक्लपक्षादौ ग्रासं भुञ्जीत चापरम् ।
ग्रासोपचयभोजी सन् पक्षशेषं समापयेत् ॥" इति । (व०ध० २३.४५)

यदा त्व् एकस्मिन् पक्षे तिथिवृद्धिह्रासवशात् षोडशदिनानि भवन्ति चतुर्दश वा, तदा ग्रासानाम् अपि वृद्धिह्रासौ वेदितव्यौ, "तिथिवृद्ध्या पिण्डांश् चरेद्" इति नियमात् । गौतमेनात्र विशेषो दर्शितः : "अथातश् चान्द्रायणम् । तस्योक्तो विधिः कृच्छ्रे वपनं च व्रतं चरेत् । श्वोभूतां पौर्णमासीम् उपवसेत् ।ऽाप्यायस्व सं ते पयांसि नवो नवऽ इति चैताभिस् तर्पणम् आज्यहोमो हविषश् चाशुमन्त्रणम् उपस्थानं च चन्द्रमसःऽयद् देवा देवहेडनम्ऽ इति चतसृभिर् आज्यं जुहुयाद्ऽदेवकृतस्यऽ इति चान्ते समिद्भिस् त्रिभिःऽों भूः भुवः स्वः महः जनः तपः सत्यं यशः श्रीर् ऊर्ग् इट् ओजः तेजः पुरुषः धर्मः शिवःऽ इत्य् एतैर् ग्रासानुमन्त्रणं प्रतिमन्त्रं मनसा नमः स्वाहेति वा सर्वान् एतैर् एव ग्रासान् भुञ्जीत । तद्ग्रासप्रमाणम् आस्याविकारेण चरुभैक्षसक्तुकणयावकशाकपयोदधिघृतमूलफलोदकानि हवींष्य् उत्तरोत्तरं प्रशस्यानि । पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वा एकैकापचयेनापरपक्षम् अश्नीयात् । अमावास्यायाम् उपोप्षैकैकोपचयेन पूर्वपक्षं, विपरीतम् एकेषाम् एव चान्द्रायणो मासः" इति (गौ०ध० २७.१–१५) । अत्र ग्रासप्रमाणम् आस्याविकारेणेति यद् उक्तं तद् बालाभिप्रायम्, तेषां शीख्यण्डपरिमितपञ्चदशग्रासभोजनाशक्तेः । क्षीरादिहविष्षु शिख्यण्डपरिमितत्वं तु पर्णपुटकादिना संपादनीयम् । तथा कुक्कुटाण्डार्द्रामलकादीनि तु ग्रासपरिमाणानि स्मृत्यन्तरोक्तानि शक्तिविषयाणि शिख्यण्डपरिमाणाल् लघुत्वात् तेषाम् । यत् पुनर् अत्र "श्वोभूतां पौर्णमासीम् उपवसेद्" इत्य् अत्र चतुर्दश्याम् उपवासमभिधाय "पौर्णमास्यां पञ्चदशग्रासान् भुक्त्वा" इत्यादिना द्वात्रिंशदहरात्मकत्वं चान्द्रायणस्योक्तं तत् पक्षान्तरप्रदर्शनार्थं न सार्वत्रिकम्, योगीश्वरवचनानुरोधेन त्रिंशदहरात्मकस्य दर्शितत्वात् । यद्य् एतत् सार्वत्रिकं स्यात् तदा नैरन्तर्येण संवत्सरे चान्द्रायणानुष्ठानानुपपत्तिः स्यात्, चन्द्रगत्यनुवर्तनानुपपत्तिश् च ॥ ३.३२३ ॥

चान्द्रायणान्तरम् आह ।

यथाकथंचित् पिण्डानां चत्वारिंशच् छतद्वयम् ।
मासेनैवोपभुञ्जीत चान्द्रायणम् अथापरम् ॥ या०ध०३.३२४

पिण्डानां चत्वारिंशदधिकं शतद्वयं मासेन भुञ्जीत । यथाकथंचित् प्रतिदिनं मध्याह्नेऽष्टौ ग्रासान्, अथ वा नक्तंदिनयोश् चतुरश् चतुरो वा, अथवैकस्मिंश् चतुरोऽपरस्मिन् द्वादश वा तथैकरात्रम् उपोष्यापरस्मिन् षोडश वेत्यादिप्रकाराणाम् अन्यतमेन शक्त्याद्यपेक्षया भुञ्जीतेत्य् एतत् पूर्वोक्तचान्द्रायणद्वयाद् अपरं चन्द्रायणम् । अतस् तयोर् नायं ग्राससंख्यानियमः, किं तु पञ्चविंशत्यधिकशतद्वयसंख्यैव । मनुना चैते प्रकारा दर्शिताः ।

"अष्टाव् अष्टौ समश्नीयात् पिण्डान् मध्यन्दिने स्थिते ।
नियतात्मा हविष्यस्य यतिचान्द्रायणं चरेत् ॥
चतुरः प्रातर् अश्नीयात् पिण्डान् विप्रः समाहितः ।
चतुरोऽस्तम् इते सूर्ये शिशुचान्द्रायणं चरेत् ॥
यथा कथंचित् पिण्डानां तिस्रोऽशीतीः समाहितः ।
मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ॥" इति । (मा०ध० ११.२१९–२१)

तथा चत्वारिंशच्छतद्वयन्यूनसंख्याग्राससंपाद्यस्यापि संग्रहार्थपरग्रहणम् । यथाह यमः ।

"त्रींस् त्रीन् पिण्डान् समश्नीयान् नियतात्मा दृढव्रतः ।
हविष्यान्नस्य वै मासम् ऋषिचान्द्रायणं स्मृतम् ॥" इति ।

एषु च यतिचान्द्रायणप्रभृतिषु न चन्द्रगत्यनुसरणम् अपेक्षितम् । अतस् त्रिंशद्दिनात्मकसाधारणेन मासेन नैरन्तर्येण चान्द्रायणानुष्ठाने यदि कथंचित् तिथिवृद्धिह्रासवशात् पञ्चम्यादिष्व् आरम्भो भवति तथापि न दोषः । यद् अपि सौमायनाख्यं मासव्रतं मार्कण्डेयेनोक्तम्,

"गोक्षीरं सप्तरात्रं तु पिबेत् स्तनचतुष्टयात् ।
स्तनत्रयात् सप्तरात्रं सप्तरात्रं स्तनद्वयात् ॥
स्तनेनैकेन षड्रात्रं त्रिरात्रं वायुभुग् भवेत् ।
एतत् सोमायानं नाम व्रतं कल्मषनाशनम् ॥"

इति, स्मृत्यन्तरे "सप्ताहं चेत्य् एतद् गोस्तनम् अखिलम् अथ त्रीन् स्तनान् द्वौ तथैकं कुर्यात् स्त्रींश् चोपवासान् यदि भवति, तदा मासि सोमायनं तत्" इति, तद् अपि चान्द्रायणकर्मकम् एव, हारीतेनापि "अथातश् चान्द्रायणम् अनुक्रमिष्यामः" इत्यादिना सेतिकर्तव्यताकं चान्द्रायणम् अभिधायैवम् एव सोमायनम् इत्य् अतिदेशाभिधानात् । यत् पुनस् तेन कृष्णचतुर्थीम् आरभ्य शुक्लद्वादशीपर्यन्तं सोमायनम् उक्तम् । चतुर्थीप्रभृतिचतुःस्तनेन त्रिरात्रं त्रिस्तनेन त्रिरात्रं द्विस्तनेन त्रिरात्रं एकस्तनेन त्रिरात्रम् एवम् एकस्तनप्रभृति पुनश् चतुःस्तनान्तं "या ते सोम चतुर्थी तनूस् तया नः पाहि तस्यै नमः स्वाज्ञा, या ते सोम पञ्चमी षष्ठी" इत्य् एवं यागार्थास् तिथिहोमा एवं स्तुत्वा एनोभ्यः पूतश् चन्द्रमसः समानतां सलोकतां सायुज्यं च गच्छति इति चतुर्विंशतिदिनात्मकं सोमायनम् उक्तं, तदशक्तविषयम् ॥ ३.३२४ ॥

अथ कृच्छ्रचान्द्रायणसाधारणीम् इतिकर्तव्यताम् आह ।

कुर्यात् त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा ।
पवित्राणि जपेत् पिण्डान् गायत्र्या चाभिमन्त्रयेत् ॥ या०ध०३.३२५

कृच्छ्रं प्राजापत्यादिकं चान्द्रायणं वा त्रिषवणस्नानयुक्तः कुर्यात् । एतच् च तप्तकृच्छ्रव्यतिरेकेण, तत्र "सकृत्स्नायी समाहितः" (मा०ध० ११.२१५) इति मनुना विशेषाभिधानात् । यत् पुनः शङ्खेन कृच्छ्रेषु,

"त्रिरह्नि त्रिर्निशायां तु सवासा जलम् आविशेत् ।"

इति, तद् अशक्तविषयम् । यत् पुनर् वैशम्पायनेन द्वैकालिकं स्नानम् उक्तम्,

"स्नानं द्विकालम् एव स्यात् त्रिकालं वा द्विजन्मनः ।"

इति, तत् त्रिषवणस्नानाशक्तस्य वेदितव्यम् । यत् पुनर् गार्ग्येणोक्तम्,

"एकवासाश् चरेद् भैक्षं स्नात्वा वासो न पीडयेत् ।"

इति, तद् अपि शक्तस्यैव,

"एकवासा आर्द्रवासा वा लग्वाशी स्थण्डिलेशयः ।"

इत्य् एकवस्त्रताया अपि शङ्खेन पाक्षिकत्वेनाभिधानात् । स्नाने च हारीतेन विशेष उक्तः : "त्र्यवरं शुद्धवतीभिः स्नात्वाघमर्षणम् अन्तर्जले जपित्वा धौतम् अहतं वासः परिधाय साम्ना सौम्येनादित्यम् उपतिष्ठेत" इति । स्नानानन्तरं च पवित्राणि जपेत् । पवित्राणि च "अघमर्षणं देवकृतः शुद्धवत्यस् तरत्समाः" (व०ध० २८.११) इत्यादीनि वसिष्ठादिप्रतिपादितानाम् अन्यतमान्य् अर्थाविरुद्धेषु कालेषु अन्तर्जले जपेत् सावित्रीं वा,

"सावित्रीं च जपेन् नित्यं पवित्राणि च शक्तितः ।" (मा०ध० ११.२२६)

इति मनुस्मरणात् । यत् तु गौतमेनोक्तम्, "रौरवयोधां जपे नित्यं प्रयुञ्जीत" (गौ०ध० २६.९) इति, तद् अपि पवित्रत्वाद् एवोक्तं न पुनर् नियमाय, तथा सति श्रुत्यन्तरमूलत्वकल्पनाप्रसङ्गात् । अतोऽनधीतसामवेदेन गायत्र्यादिकम् एव जप्तव्यम् । यद् अपि "नमो हमाय मोहमाय" (गौ०ध० २६.१२) इत्यादि पठित्वा, "एता एवाज्याहुतयः" (गौ०ध० २६.१४) इत्य् उक्तं, तद् अपि न नैयमिकं, किं तु,

"महाव्याहृतिभिर् होमः कर्तव्यः स्वयम् अन्वहम् ।" (मा०ध० ११.२२३)

इति मनुना महाव्याहृतिभिर् होमविधानात् । तथा षट्त्रिंशन्मतेऽप्य् उक्तम् ।

"जपहोमादि यत्किंचित् कृच्छ्रोक्तं संभवेन् न चेत् ।
सर्वं व्याहृतिभिः कुर्याद् गायत्र्या प्रणवेन च ॥" इति ।

आदिग्रहणाद् उदकतर्पणादित्योपस्थानादेर् ग्रहणम् । अत एव वैशम्पायनः ।

"स्नात्वोपतिष्ठेद् आदित्यं सौरीभिस् तु कृताञ्जलिः ।" इति ।

एवम् अन्येष्व् अपि विरोधिपदार्थेषु विकल्प आश्रयणीयः, अविरोधिषु समुच्चयः, शाखान्तराधिकरणन्यायेन सर्वस्मृतिप्रत्ययत्वात् कर्मणः । जपसंख्यायां विशेषस् तेनैव दर्शितः ।

"ऋषभं विरजं चैव तथा चैवाघमर्षणम् ।
गायत्रीं वा जपेद् देवीं पवित्रां वेदमातरम् ॥
शतम् अष्टशतं वापि सहस्रम् अथ वा परम् ।
उपांशु मनसा वापि तर्पयेत् पितृदेवताः ॥
मनुष्यांश् चैव भूतानि प्रणम्य शिरसा ततः ॥" इति ।

तथा पिण्डाश् च प्रत्येकं गायत्र्या चाभिमन्त्रयेत् । यथा यमेनापि विशष उक्तः ।

"अङ्गुल्यग्रस्थितं पिण्डं गायत्र्या चाभिमन्त्रितम् ।
प्राश्याचम्य पुनः कुर्याद् अन्यस्याप्य् अभिमन्त्रणम् ॥" इति ।

अतश् च "ओं भूर् भुवः स्वर्" (गौ०ध० २७.८) इत्य् आदिभिर् गौतमोक्तैर् अभिमन्त्रणमन्त्रैः सहास्य विकल्प उक्तः । यत् पुनर् "आप्यायस्व सं ते पयांसि" (गौ०ध० २७.५ ; ऋ०वे० १.९१.१७) इत्यादिभिः पिण्डकरणात् पूर्वं हविषोऽभिमन्त्रणम् उक्तं, तद् भिन्नकायत्वात् समुच्चीयते । एतानि च कृच्छ्रादिव्रतानि यदा प्रायश्चित्तार्थम् अनुष्टीयन्ते तदा केशादिवपनपूर्वकं परिगृहीतव्यानि, "वपनं व्रतं चरेत्" (गौ०ध० २७.३) इति गौतमस्मरणात् । अभ्युदयार्थे तु नैव वपनम् । वसिष्ठेनाप्य् अत्र विशेष उक्तः : "कृच्छ्राणां व्रतरूपाणां श्मश्रुकेशादि वापयेत् । कुक्षिरोमशिखावर्जम्" (व०ध० २४.४–५) इति । कृच्छ्राणां व्रतरूपाणां । व्रतरूपाणि वपनादीन्य् अङ्गानि वक्ष्यन्त इति शेषः । पर्षदुपदिष्टव्रतग्रहणं च व्रतानुष्ठानदिवसात् पूर्वेद्युः सायाह्ने कार्यम् । यथाह वसिष्ठः ।

"सर्वपापेषु सर्वेषां व्रतानां विधिपूर्वकं ।
ग्रहणं संप्रवक्ष्यामि प्रायश्चित्ते चिकीर्षिते ॥
दिनान्ते नखरोमादीन् प्रवाप्य स्नानम् आचरेत् ।
भस्मगोमयमृद्वारिपञ्चगव्यादिकल्पितैः ॥
मलापकर्षणं कार्यं बाह्यशौचोपसिद्धये ।
दन्तधावनपूर्वेण पञ्चगव्येन संयुत्तम् ॥
व्रतं निशामुखे ग्राह्यं बहिस्तारकदर्शने ।
आचम्य् अतः परं मौनी ध्यायन् दुष्कृतम् आत्मनः ॥
मनःसंतापनं तीव्रम् उद्वहेच् छोकम् अन्ततः ॥" इति ।

बहिर् इति ग्रामाद् बहिर् निष्क्रम्य स्त्रियाप्य् एवम् एव व्रतपरिग्रहः कार्यः । केशश्मश्रुलोमनखवपनं तु नास्ति । चान्द्रायणादिष्व् "एतद् एव स्त्रियाः केशवपनवर्जम्" (बौ०ध० २.२.४५) इति बौधायनस्मरणात् ॥

वपनानिच्छोस् तु हारीतेन विशेष उक्तः ।

"राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ।
केशानां वपनं कृत्वा प्रायश्चित्तं समाचरेत् ॥
केशानां रक्षणार्थं तु द्विगुणं व्रतम् आचरेत् ।
द्विगुणे तु व्रते चीर्णे दक्षिणा द्विगुणा भवेत् ॥" इति ।

एतच् च महापातकादिदोषविशेषाभिप्रायेण द्रष्टव्यम्,

"विद्वद्विप्रनृपस्त्रीणां नेष्यते केशवापनम् ।
व्रते महापातकिनो गोहन्तुश् चावकीर्णिनः ॥"

इति मनुस्मरणात् । जाबालेनाप्य् अत्र विशेष उक्तः ।

"आरम्भे सर्वकृच्छ्राणां समाप्तौ च विशेषतः ।
अन्नेनैव च शालाग्नौ जुहुयाद् व्याहृतीः पृथक् ॥
श्राद्धं कुर्याद् व्रतान्ते तु गोहिरण्यादि दक्षिणा ॥" इति ।

यमेनाप्य् अत्र विशेषोऽभिहितः ।

"पश्चात्तापो निवृत्तिश् च स्नानं चाङ्गतयोदितम् ।
नैमित्तिकानां सर्वेषां तथा चैवानुकीर्तनम् ॥"

तथा,

"गात्राभ्यङ्गशिरोभ्यङ्गौ ताम्बूलम् अनुलेपनम् ।
व्रतस्थो वर्जयेत् सर्वं यच् चान्यद् बलरागकृत् ॥" इति ।

एवमादिकर्तव्यताजातं स्मृत्यन्तराद् अन्वेष्टव्यम् । एवम् अनेन विधिना व्रतं गृहीत्वावश्यं परिसमापनीयम् । अन्यथा तु प्रत्यवायः,

"पूर्वं व्रतं गृहीत्वा तु नाचरेत् काममोहितः ।
जीवन् भवति चाण्डालो मृतः श्वा चैव जायते ॥"

इति छागलेयस्मरणात् । इत्य् अलं प्रपञ्चेन ॥ ३.३२५ ॥

इत्थम् उक्तविनियोगस्य चान्द्रायणादेः स्वरूपम् अभिधाय लब्धप्रसङ्गकार्यान्तरेऽपि विनियोगम् आह ।

अनादिष्टेषु पापेषु शुद्धिश् चान्द्रायणेन तु ।
धर्मार्थं यश् चरेद् एतच् चन्द्रस्यैति सलोकताम् ॥ या०ध०३.३२६

आदिश्यत इत्य् आदिष्टं प्रायश्चित्तं न विद्यते आदिष्टं येषु पापेषु तेषु चान्द्रायणेन शुद्धिः । चशब्दात् प्राजाप्त्यादिभिः कृच्छ्रैर् ऐन्दवसहितैस् तन्निरपेक्षैर् वा शुद्धिः । तथा च षट्त्रिंशन्मतेऽभिहितम् ।

"यानि कानि च पापानि गुरोर् गुरुतराणि च ।
कृच्छ्रातिकृच्छ्रचान्द्रेयैः शोध्यन्ते मनुर् अब्रवीत् ।"

इति त्रयाणां समुच्चयः प्रतिपादितः । उशनसा तु द्वयोः समुच्चय उक्तः ।

"दुरितानां दुरिष्टानां पापानां महताम् अपि ।
कृच्छ्रं चान्द्रायणं चैव सर्वपापप्रणाशनम् ॥" इति ।

दुरितम् उपपातकम् । दुरिष्टं पातकम् । गौतमेन तु "कृच्छ्रातिकृच्छ्रौ चान्द्रायणम्" (गौ०ध० १९.२०) इति सर्वप्रायश्चित्तम् इति विसमासकरणेनैन्दवनिरपेक्षता कृच्छ्रातिकृच्छ्रयोः सूचिता । चान्द्रायणस्य निरपेक्षता इतिशब्देन च त्रयाणां समुच्चयः । केवलप्राजापत्यस्य तु निरपेक्षं चतुर्विंशतिमतेऽभिहितम् ।

"लघुदोषे त्व् अनादिष्टे प्राजापत्यं समाचरेत् ।" इति ।

गौतमेनापि प्राजापत्यादेर् नैरपेक्षत्वम् उक्तम् : "प्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति । द्वितीयं चरित्वा यद् अन्यन् महापातकेभ्यः पापं कुरुते तस्मात् प्रमुच्यते । तृतीयं चरित्वा सर्वस्माद् एनसो मुच्यते" (गौ०ध० २६.२१–२२) इति महापातकाद् अपीत्य् अभिप्रेतम् । मनुनाप्य् उक्तम् ।

"पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः ।" इति । (मा०ध० ११.२१६)

हारीतेनाप्य् उक्तम् ।

"चान्द्रायणं यावकश् च तुलापुरुष एव च ।
गवां चैवानुगमनं सर्वपापप्रणाशनम् ॥"

तथा,

"गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश् च श्वपाकम् अपि शोधयेत् ॥"

तथा तप्तकृच्छ्रम् अधिकृत्यापि तेनैवोक्तम् ।

"एष कृच्छ्रो द्विर् अभ्यस्तः पातकेभ्यः प्रमोचयेत् ।
त्रिरभ्यस्तो यथान्यायं शूद्रहत्यां व्यपोहति ॥" इति ।

उशनसा चोक्तम् ।

"यत्रोक्तं यत्र वा नोक्तं महापातकनाशनम् ।
प्राजापत्येन कृच्छ्रेण शोधयेन् नात्र संशयः ॥" इति ।

एतानि प्राजापत्यादीन्य् अनादिष्टेषूपपातकादिषु सकृदभ्यासापेक्षया व्यस्तानि समस्तानि वा योजनीयानि । तथा आदिष्टव्रतेष्व् अपि महापातकादिषु अभ्यासापेक्षया योजनीयानि । अत एव यमेनोक्तम् "यत्रोक्तम्" इत्य् आदि । गौतमेनाप्य् उक्तनिष्कृतीनां संग्रहार्थं सर्वप्रायश्चित्तग्रहणं कृतम् । तथा यद्य् अपि तेनैवोक्तम्, "द्वितीयं चरित्वा यद् अन्यन् महापातकेभ्यः पापं कुरुते तस्मात् प्रमुच्यते" इत्य् उक्त्वा "तृतीयं चरित्वा सर्वस्माद् एनसो मुच्यते" (गौ०ध० २६.२१–२२) इति, तद् अपि महापातकाभिप्रायं, न तु क्षुद्रपातकाभिप्रायम् । न च महापातकम् अनुक्तनिष्कृतिकं सम्भवति । तस्माद् उक्तनिष्कृतिकेष्व् अपि प्राजापत्यादयो योजनीयाः । तत्र द्वादशवार्षिकव्रते द्वादशद्वादशदिनान्य् एकैकं प्राजापत्यं परिकल्प्य गण्यमाने प्राजापत्यानां षष्ट्यधिकशतत्रयं द्वादशवार्षिके वैकल्पिकम् अनुष्ठेयं भवति । तदशक्तौ तावत्यो वा धेनवो दातव्याः । तदसंभवे निष्काणां षष्ट्यधिकशतत्रयं दातव्यम् । तथा स्मृत्यन्तरम् ।

"प्राजापत्यक्रियाशक्तौ धेनुं दद्याद् विचक्षणः ।
धेनोर् अभावे दातव्यं मूल्यं तुल्यम् असंशयम् ॥
मूल्यार्धम् अपि निष्कं वा तदर्धं शक्त्यपेक्षया ।
गवाम् अभावे निष्कः स्यात् तदर्धं पाद एव वा ।"

इति स्मरणात् । मूल्यदानस्याप्य् अशक्तौ तावन्तो वोदवासाः कार्याः । तत्राप्य् अशक्तौ गायत्रीजपः षट्त्रिंशल्लक्षसंख्याकः कार्यः,

"कृच्छ्रोऽयुतं तु गायत्र्या उदवासस् तथैव च ।
धेनुप्रदानं विप्राय समम् एतच् चतुष्टयम् ॥"

इति पराशरस्मरणात् । यत् तु चतुर्विंशतिमतेऽभिहितम्,

"गायत्र्यास् तु जपन् कोटिं ब्रह्महत्यां व्यपोहति ।
लक्षाशीतिं जपेद् यस् तु सुरापानाद् विमुच्यते ॥
पुनाति हेमहर्तारं गायत्र्या लक्षसप्ततिः ।
गायत्र्याः षष्टिभिर् लक्षैर् मुच्यते गुरुतल्पगः ॥"

इति, तत् द्वादशवार्षिकतुल्यविधानतयोक्तं, न पुनर् अशक्तविषयम् इति न विरोधः । एवम् अन्येऽपि,

"कृच्छ्रो देव्ययुतं चैव प्राणायामशतद्वयम् ।
तिलहोमसहस्रं तु वेदपारायणं तथा ॥"

इत्यादयः प्रत्याम्नायाश् चतुर्विंशतिमतादिशास्त्राभिहिताः षष्ट्यधिकत्रिशतगुणिता महापातकेषु बोद्धव्याः । अतिपातकेषु सप्तत्यधिकशतद्वयं प्राजापत्यानां कर्तव्यम् । तावन्तो वा धेन्वादयः प्रत्याम्नायाः । पातकेषु तु साशीतिशतं प्राजापत्याः प्रत्याम्नायाश् च धेन्वादयस् तावन्त एव वा । तथा चतुर्विंशतिमतेऽभिहितम् ।

"जन्मप्रभृति पापानि बहूनि विविधानि च ।
कृत्वार्वाग् ब्रह्महत्यायाः षडब्दं व्रतम् आचरेत् ॥
प्रत्याम्नाये गवां देयं साशीति धनिना शतम् ।
तथाष्टादशलक्षाणि गायत्र्या वा जपेद् बुधः ॥" इति ।

इदम् एव द्वादशवार्षिके व्रते द्वादशद्वादशदिनैर् एकैकप्राजापत्यकल्पनायां लिङ्गम् । एवम् उपपातकेषु त्रैवार्षिकप्रायश्चित्तविषयभूतेषु नवतिप्राजापत्यास् तावन्तः प्रत्याम्नायाः । त्रैमासिकविषयेषु पुनः सार्धसप्तप्राजापत्याः प्रत्याम्नायाश् च धेनूदवासादयस् तावन्त एव । मासिकव्रतविषयेषु तु सार्धं प्राजापत्यद्वयं तावान् एव वा प्रत्याम्नायः । चान्द्रायणविषयभूतेषु पुनर् उपपातकेषु प्राजापत्यत्रयम् । तदशक्तस्य प्रत्याम्नायस् तावान् एव । यत् पुनश् चतुर्विंशतिमतेऽभिहितम्,

"अष्टौ चान्द्रायणे देयाः प्रत्याम्नायविधौ सदा ।"

इति, तद् अपि धनिनः पिपीलिकामध्यादिचान्द्रायणप्रत्याम्नायविषयम् । मासतिकृच्छ्रविषयभूतेषु पुनर् उपपातकेषु सार्धसप्तप्राजापत्याः प्रत्याम्नायाश् च धेन्वादयस् तावन्त एव,

"प्राजापत्ये तु गाम् एकां दद्यात् सान्तपने द्वयम् ।
पराकतप्तातिकृच्छ्रे तिस्रस् तिस्रस् तु गास् तथा ॥"

इति चतुर्विंशतिमतेऽभिधानात् । एतच् च "एकैकं ग्रासम् अश्नीयाद्" इत्य् आमलकपरिमितैकैकग्रासपक्षे वेदितव्यम् । पाणिपूरान्नभोजनपक्षे पुनर् धेनुद्वयम् एव, प्राजापत्यस्य षडुपवासतुल्यत्वात् तद्द्विगुणत्वाच् चातिकृच्छ्रस्य । यद्य् अपि नवसु दिनेषु पाणिपूरान्नस्य भोजनं तथापि नैरन्तर्येण द्वादशदिवसानुष्ठाने क्लेशातिशयात् षडहोपवाससमानप्राजापत्यद्वयतुल्यत्वम् एव । प्राजापत्यस्य च षडुपवासतुल्यत्वं युक्तम् एव । तथा हि प्रथमे त्र्यहे सायंतनभोजनत्रयनिवृत्ताव् एकोपवाससंपत्तिः । द्वितीये त्र्यहे पातःकालभोजनत्रयनिवृत्तिपरस्य । तथा च अयाचितत्र्यहेऽपि सायंतनभोजनत्रयवर्जनेऽपरस्येत्य् एवं नवभिर् दिनैर् उपवासत्रयम् । पुनश् चान्त्यत्र्यहे चोपवासत्रयम् इति युक्तं षडुपवासतुल्यत्वम् । ऋषभैकादशगोदानसहितत्रिरात्रोपवासात्मकगोवधव्रते तु सार्धैकादशप्राजापत्यास् तावत्संख्याकाश् चोदवासादयः प्रत्याम्नायाः । मासं पयोव्रते तु सार्धं प्राजापत्यद्वयम् । पराकात्मके तूपपातकव्रते प्राजापत्यत्रयं पराकतप्तातिकृच्छ्रस्थाने कृच्छ्रत्रयं चरेत्,

"सान्तपनस्य वाध्यर्धम् अशक्तौ व्रतम् आचरेत् ।"

इति षट्त्रिंशन्मतेऽभिधानात् । चान्द्रायणपराककृच्छ्रातिकृच्छ्रास् तु प्राजापत्यत्रयात्मका द्वादशवार्षिकव्रतस्थाने विंशत्युत्तरशतसंख्या अनुष्ठेयाः । तत्प्रत्याम्नायास् तु धेन्वादयस् त्रिगुणाः । अतिपातकेषु नवतिसंख्याकाश् चान्द्रायणादयः । तत्समेषु पुनः पातकपदाभिधेयेषु षष्टिसंख्याः । उपपातकेषु त्रैवार्षिकविषयेषु त्रिंशत्संख्याः । त्रैमासिके गोवधव्रतस्थाने गोमूत्रस्नानादीनां कर्तव्यताबाहुल्याच् चान्द्रायणादित्रयम् । मासिकव्रते तु योगीष्वरोक्ते एकम् एव चान्द्रायणं धेनूदवासादिप्रत्याम्नायस् तु सर्वत्र त्रिगुण एव । प्रकीर्णकेषु पुनः प्रतिपदोक्तप्रायश्चित्तानुसारेण प्राजापत्यं पादादिकॢप्त्या योजनीयम् । आवृत्तौ पुनश् चान्द्रायणादिकम् इति एतद्दिगवलम्बनेनान्यत्रापि कल्पना कार्या । यत् पुनर् बृहस्पतिनोक्तम्,

"जन्मप्रभृति यत् किंचित् पातकं चोपपातकम् ।
तावद् आवर्तयेत् कृच्छ्रं यावत् षष्टिगुणं भवेत् ॥"

इति, तत् "द्वे परदारे" (गौ०ध० २२.२९) इति गौतमोक्तद्विवार्षिकसमानविषयम्, तथा त्रैमासिकादिविषयभूतोपपातकावृत्तिविषयं वा, पातकपदाभिधेयचाण्डालादिस्त्रीगमने द्विरभ्यासविषयं वा । तत्र,

"ज्ञानात् कृच्छ्राब्दम् उद्दिष्टम् अज्ञानाद् ऐन्दवद्वयम् ।" (अस्च्रिबेद् to ऊशनस् अत् ३.२६५ उन्देर् पारदार्यप्रकरणम्)

इति सकृद्बुद्धिपूर्वगमने कृच्छ्राब्दविधानात्, तदभ्यासे द्विवर्षतुल्यषष्टिकृच्छ्रविधानं युक्तम् एव । यत् तु सुमन्तुनोक्तम्,

"यद् अप्य् असकृदभ्यस्तं बुद्धिपूर्वम् अघं महत् ।
तच् छुध्यत्य् अब्दकृच्छ्रेण महतः पातकाद् ऋते ॥"

इति, तद् अप्य् उपपातकाद्यावृत्तिविषयं, तथा "अज्ञानाद् ऐन्दवद्वयम्" इति यमोक्तैन्दवद्वयविषयभूतपातकावृत्तिविषयं वा । यस् तु तपस्य् असमर्थो धान्यसमृद्धश् च स कृच्छ्रादिव्रतानि द्विजाग्र्यभोजनदानेन संपादयेत् । तथा हि स्मृत्यन्तरम् : "कृच्छ्रे पञ्चातिकृच्छ्रे त्रिगुणम् अहरहस् त्रिंशद् एवं तृतीये चत्वारिंशच् च तप्ते त्रिगुणितगुणिता विंशतिः स्यात् पराके । कृच्छ्रे सान्तापनाख्ये भवति षडधिका विंशतिः सैव हीना द्वाभ्यां चान्द्रायणे स्यात् तपसि कृशबलो भोजयेद् विप्रमुख्यान्" इति । अहरहर् इति सर्वत्र संबन्धनीयम् । तृतीयः कृच्छ्रातिकृच्छ्रः । अत्र प्राजापत्यदिवसकल्पनया विद्वद्विप्राणां षष्टिभोजनं भवति । यत् तु चतुर्विंशतिमतेऽभिहितम्,

"विप्रा द्वादश वा भोज्याः पावकेष्टिस् तथैव च ।
अन्या वा पावनी काचित् समान्याहुर् मनीषिणः ॥"

इति प्राजापत्यस्थाने द्वादशानां विप्राणां भोजनम् उक्तं, तन् निर्धनविषयम् । यच् चान्द्रायणस्यापि तत्रैव प्रत्याम्नायाद्य् उक्तम्,

"चान्द्रायणं मृगारेष्टिः पवित्रेष्टिस् तथैव च ।
मित्रविन्दापशुश् चैव कृच्छ्रं मासत्रयं तथा ॥
नित्यनैमित्तिकानां च काम्यानां चैव कर्मणाम् ।
इष्टीनां पशुबन्धानाम् अभावे चरवः स्मृताः ॥"

इति, तद् अपि चान्द्रायणाशक्तस्य । यत् तु "कृच्छ्रं मासत्रयं तथा" इति कृच्छ्राष्टकं प्रत्याम्नातं, तद् अपि जरठमूर्खविषयम्, "चान्द्रायणं त्रिभिः कृच्छ्रैः" इति दर्शितत्वाद्, इत्य् अलं प्रपञ्चने । प्रकृतम् अनुसरामः । यस् त्व् अभ्युदयकामो धर्मार्थं काम्यनियोगनिष्पत्त्यर्थम् एतच् चान्द्रायणम् अनुतिष्ठति न पुनः प्रायश्चित्तार्थम्, असौ चन्द्रसालोक्यं स्वर्गविशेषं प्राप्नोति । एतच् च संवत्सरावृत्त्यभिप्रायेण, "एकम् आप्त्वा विपापो विपाप्मा सर्वम् एनो हन्ति, द्वितीयम् आप्त्वा दश पूर्वान् दशापरान् आत्मानं चैकविंशं पङ्क्तिं च पुनाति, संवत्सरं चाप्त्वा चन्द्रमसः सलोकताम् आप्नोति" (गौ०ध० २७.१६–१८) इति गौतमस्मरणात् ।

किं च ।

कृच्छ्रकृद् धर्मकामस् तु महतीं श्रियम् आप्नुयात् ।
यथा गुरुक्रतुफलं प्राप्नोति सुसमाहितः ॥ या०ध०३.३२७

यस् त्व् अभ्युदयकामः प्राजापत्यादिकृच्छ्रान् अनुतिष्ठति स महतीं राज्यादिलक्षणां श्रियं विभूतिम् अनुभवति । यथा गुरुक्रतूनां राजसूयादीनां कर्ता तत्फलं स्वाराज्यादिलक्षणं महत् फलं लभते, तथायम् अपि सुसुमाहितः सकलाङ्गकलापम् अविकलम् अनुतिष्ठन्न् इति फलमहिमप्रकाशनार्थं क्रतुदृष्टान्तकीर्तनम् । सुसुमाहित इत्य् अनेनाविकलशास्त्रानुष्ठानं वदन् काम्यकर्मतयाङ्गवैकल्ये फलासिद्धिं द्योतयति । अतो नात्र प्रायश्चित्तेष्व् इव यावत्संभवाङ्गानुष्ठानम् अङ्गीकरणीयम् इति दूरोत्सारितं प्रत्याम्नायोपादानम् । कृच्छ्राद्यनुष्ठानावृत्तौ तु "अधिकारिणः फलावृत्तिः कर्मण्य् आरम्भभाव्यत्वाद्" इति न्यायलभ्या स्थितैवेति नेदम् अविवक्षितम् ॥ ३.३२७ ॥

प्रागुदिताखिलार्थोपसंहारव्याजेन धर्मशास्त्रधारणादिविधीन् सार्थवादान् प्रार्थनावरदानरूपेण प्रतिपादयितुम् आह ।

श्रुत्वैतान् ऋषयो धर्मान् याज्ञवल्क्येन भाषितान् ।
इदम् ऊचुर् महात्मानं योगीन्द्रम् अमितौजसम् ॥ या०ध०३.३२८

अत्र हि वर्णाश्रमादिव्यावृत्ता धर्माः षट्प्रकाराः प्रतिपादिताः तान् अखिलान् योगीश्वरभाषितान् ऋषयः श्रुत्वा प्रहर्षोत्फुल्ललोचनास् तं महिमगुणशालिनम् अचिन्तनीयशक्तिविभवम् इदम् अभिधास्यमानम् ऊचिवांसः ॥ ३.३२८ ॥

य इदं धारयिष्यन्ति धर्मशास्त्रम् अतन्द्रिताः ।
इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ॥ या०ध०३.३२९

विद्यार्थी प्राप्नुयाद् विद्यां धनकामो धनं तथा ।
आयुष्कामस् तथैवायुः श्रीकामो महतीं श्रियम् ॥ या०ध०३.३३०

श्लोकत्रयम् अपि ह्य् अस्माद् यः श्राद्धे श्रावयिष्यति ।
पितॄणां तस्य तृप्तिः स्याद् अक्षय्या नात्र संशयः ॥ या०ध०३.३३१

ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् ।
वैश्यश् च धान्यधनवान् अस्य शास्त्रस्य धारणात् ॥ या०ध०३.३३२

इत्थम् ऋज्वर्थैः श्लोकैः सामश्रवःप्रभृतयोऽनेकधा प्रार्थयन्ते स्म ॥ ३.३२९ – ३.३३२ ॥

अपराम् अपि प्रार्थनाम् आह ।

य इदं श्रावयेद् विद्वान् द्विजान् पर्वसु पर्वसु ।
अश्वमेधफलं तस्य तद् भवान् अनुमन्यताम् ॥ या०ध०३.३३३

यस् त्व् इदं धर्मशास्त्रं प्रतिपर्व द्विजान् श्रावयेत् तस्याश्वमेधफलं भवेद् इति श्रावणविध्यर्थवादः । तद् एतद् अस्मत्प्रार्थितम् अर्थं सर्वत्र भवान् अनुमन्यताम् ॥ ३.३३३ ॥

वरदानम् आह ।

श्रुत्वैतद् याज्ञवल्क्योऽपि प्रीतात्मा मुनिभाषितम् ।
एवम् अस्त्व् इति होवाच नमस्कृत्य स्वयंभुवे ॥ या०ध०३.३३४

एतद् ऋषिभिर् भाषितं श्रुत्वा योगीन्द्रोऽपि स्वनिर्मितधर्मशास्त्रधारणादिफलप्रार्थनोन्मीलितमुखपङ्कजः स्वयंभुवे ब्रह्मणे नमस्कृत्य प्रणम्य "भवत्प्रार्थितं सकलम् इत्थं भवतु" इत्य् एवं किल भगवान् बभाषे ॥ ३.३३४ ॥

इति श्रीभारद्वाजपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकविज्ञानेश्वरभट्टारकस्य कृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्त्रविवृत्तौ प्रायश्चित्ताध्यायस् तृतीयः समाप्तः ॥

अथात्राध्यायानुक्रमणिका लिख्यते । तत्राद्यं सूतकप्रक्ररणम् १ । आपद्धर्मप्रकरणम् २ । वानप्रस्थप्रकरणम् ३ । अध्यात्मप्रकरणम् ४ । ततः प्रायश्चित्तप्रकरणम् ५ । तत्रादौ कर्मविपाकः ६ । महापातकादिनिमित्तपरिगणनम् ७ । महापातकप्रायश्चित्तान्य् आतिदेशिकसहितानि ८ । उपपातकप्रायश्चित्तानि ९ । प्रकीर्णकप्रायश्चित्तप्रकरणम् १० । पतितत्यागविधिः ११ । व्रतग्रहणविधिः १२ । रहस्यप्रायश्चित्ताधिकारः १३ । कृच्छ्रादिलक्षणम् १४ । इति प्रकरणानि ॥

उत्तमोपपदस्येयं शिष्यस्य कृतिर् आत्मनः ।

धर्मशास्त्रस्य विवृति र्विज्ञानेश्वरयोगिनः ॥ १ ॥

इति याज्ञवल्क्यमुनिशास्त्रगता विवृतिर् न कस्य विहिता विदुषः ।

प्रमिताक्षरापि विपुलार्थवती परिषिञ्चति श्रवणयोर् अमृतम् ॥ २ ॥

गम्भीराभिः प्रसन्नाभिर् वाग्भिर् न्यस्ता मिताक्षरा ।

अनल्पार्थाभिर् अल्पाभिर् विवृतिर् विहिता मया ॥ ३ ॥

नासीद् अस्ति भविष्यति क्षितितले कल्याणकल्पं पुरं

नो दृष्टः श्रुत एव वा क्षितिपतिः श्रीविक्रमार्कोपमः ।

विज्ञानेश्वरपण्डितो न भजते किञ्चान्यदन्योपमश्

चाल्पं स्थिरम् अस्तु कल्पलतिकाकल्पं तद् एतत् त्रयम् ॥ ४ ॥

स्रष्टा वाचां मधुरवपुषां विद्वदाश्चर्यसीम्नां

दातार्थानाम् अतिशयजुषाम् अर्थिसार्थार्थनायाः ।

ध्याता मुर्तेर् मुरविजयिनो जीवतादार्कचन्द्रं

जेतारीणां तनुसहभुवां तत्त्वविज्ञाननाथः ॥ ५ ॥

आ सेतोः कीर्तिराशे रघुकुलतिलकस्या च शैलाधिराजा-

दा च प्रत्यक्पयोधेश्चटुलतिमिकुलोत्तुङ्गरिङ्गत्तरङ्गात् ।

आ च प्राचः समुद्रान् नतनृपतिशिरोरत्नभाभासुराङ्घ्रिः

पायादाचन्द्रतारं जगद् इदम् अखिलं विक्रमादित्यदेवः ॥ ६ ॥

अन्तर्मुखानि यदि खानि तपस् ततः किं

नान्तर्मुखानि यदि खानि तपस् ततः किम् ।

अन्तर्बहिर् यदि हरिश् च तपस् ततः किं

नान्तर्बहिर् यदि हरिश् च तपस् ततः किम् ॥ ७ ॥

समाप्तेयं समिताक्षरा याज्ञवल्क्यस्मृतिः ॥