क्रियासारः/उपदेशः १३-१४
← उपदेशः ९-१२ | क्रियासारः उपदेशः १३-१४ [[लेखकः :|]] |
त्रयोदशोपदेशप्रारम्भः
[सम्पाद्यताम्]त्रयोदशोपदेशेऽस्मिन् पञ्चाक्षरमनोः परम्।
(1)प्रबावं वर्णरूपोऽसौ जगाद परमेश्वरः॥
{1. प्रभावं वर्णये वणें रूपोऽसौ परमेश्वरः--पा.}
वायवीये श्रीकृष्णः--
भगवन्मनत्रमाहात्म्यं भवता कथितं श्रुतम्।
तत्प्रयोगविधानं च साक्षाच्छ्रुतिसमं (2)मया॥
{2. यथा-पा.}
इदानीं श्रोतुमिच्छामि शिवसंस्कारमुत्तमम्।
मनत्रसङ्ग्रहणे किञ्चित्सूचितं न तु विस्तृतम्॥
उपमन्युः--
हन्त ते कथयिष्यामि सर्वपापविशोधनम्।
संस्कारं परमं पुण्यं शिवेन परिभाषितम्॥
सम्यक्कृताधिकारः स्यात्पूजादिषु नरो यतः।
संस्कारः कथ्यते तेन षडध्वपरिशोधनम्॥
दीयते येन वै ज्ञानं क्षीयते पाशबन्धनम्।
तस्मात्संस्कार एवायं दीक्षेत्यपि च कथ्यते॥
शाम्भवी चैव शाक्ती च मान्त्रिकी च शिवागमे।
दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना॥
गुरोरालोकमात्रेण स्पर्शात्संभाषणादपि।
(3)सद्यः सञ्जायते प्रज्ञा पाशोपक्षयकारिणी॥
{3. सद्यः संज्ञा भवेज्जन्तोः-पा.}
सा दीक्षशाम्भवी प्रोक्ता सा पुनर्भिद्यते द्विधा।
तीव्रा तीव्रतरा चेति पाशोपक्षयभेदतः॥
यया स्यान्निर्वृतिः सद्यः सैव तीव्रतरा मता।
तीव्रा तु जीवतोऽत्यन्तं पुंसः पाशविशोधिका॥
शाक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु।
गुरुणा योगमार्गेण क्रियते योगचक्षुषा॥
मान्त्री क्रियावती दीक्षा कुण्डमण्डलपूर्विका।
मन्दमन्दतरोद्देशात्कर्तव्या गुरुणा बहिः॥
शक्तिपातानुसारेण शिष्योऽनुग्रहमर्हति।
शैवधर्माधिकारस्य तन्मूलत्वात्समासतः॥
यत्र शक्तिर्न (4)पतिता तत्र शुद्धिर्न जायते।
{4. पतति-पा.}
न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः॥
तस्माल्लिङ्गान संवीक्ष्य शक्तिपातस्य (5)भूयसः।
{5. भूरिशः--पा.}
ज्ञानेन क्रियया वाथ गुरुः शिष्यं विशोधयेत्॥
योऽन्यथा कुरुते मोहात् स विनश्यति दुर्मतिः।
तस्मात्सर्वप्रकारेण गुरुः शिष्यं परीक्षयेत्॥
लक्षणं शक्तिपातस्य प्रबोधानन्दसम्भवः।
सा यस्मात्परमा शक्तिः प्रबोधानन्दरूपिणी॥
आनन्दबोधयोर्लिङ्गमन्तःकरणविक्रियाः।
यथा स्यात्कम्परोमाञ्चस्वरनेत्राङ्गविक्रियाः॥
शिष्योऽपि लक्षणैरेभिः कुर्याद्गुरुपरीक्षणम्।
(6)तत्सम्पर्के शिवार्चादौ (7)स्वगतैर्वाथ तद्गतैः॥
{6. तत्संपर्कैः. 7.संगतैः.}
शिष्यस्तु शिक्षणीयत्वाद्गुरोर्गौरवकारणात्।
तस्मात्सर्वप्रयत्नेन गुरोर्गौरवमाचरेत्॥
यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः।
गुरुर्वा शिव एवाथ विद्यारूपेण संस्थितः॥
यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः।
शिवविद्यागुरूणां च (8)पूजया सदृशं फलम्॥
सर्वदेवात्मकश्चासौ सर्वमन्त्रमयो गुरुः।
तस्मात्सर्वप्रयत्नेन तस्याज्ञां शिरसा वहेत्॥
श्रेयोर्थी यदि गुर्वाज्ञां मनसापि न लङ्घयेत्।
गुर्वाज्ञापालको यस्माज्ज्ञानसम्पत्तिमश्नुते॥
गच्छंस्तिष्ठन् स्वपनं भुञ्जन्ननय्त्कर्म समाचरेत्।
समक्षं यदि कुर्वीत तत्सर्वं गुर्वनुज्ञया॥
गुरोर्गेहे समक्षं वा न यथेष्टासनो भवेत्।
गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम्॥
पापिनां च यथा सङ्गात्तत्पापफलभाग्भवेत्।
तद्वदाचार्यसङ्गन तद्धर्मफलभाग्भवेत्॥
यथेह वह्निसम्पर्कान्मलं त्यजति काञ्चनम्॥
तथैव गुरुसम्पर्कात्पापं त्यजति मानवः।
यथा वह्निसमीपस्थो घृतकुम्भो विलीयते॥
तथा पापं विलीयेत ह्याचार्यस्य समीपतः।
यथा प्रज्वलितो(8) वह्निर्निष्ठां काष्टस्य निर्दहेत्॥
{8. वह्निः सुष्कमार्दं च-पा.}
तथायमपि सन्तुष्टो गुरुः पापं क्षणाद्दहेत्।
मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत्॥
तस्य क्रोधेन दह्यन्ते ह्यायुःश्रीज्ञानसत्क्रियाः।
तत्क्रोधकारिणो ये स्युस्तेषां धर्माश्च निष्फलाः॥
यमाश्च नियमाश्चैन नात्र कार्या विचारणा।
गुरोर्विरुद्धं यद्वाक्यं न वदेज्जातुचिन्नरः॥
वदेद्यदि महामोहाद्रौरवे पतति ध्रुवम्।
मनसा कर्मणा वाचा गुरुमुद्दिश्य यत्नतः॥
श्रेयोऽर्थी चेन्नरो धीमान्न मिथ्याचारमाचरेत्।
नैर्गुण्ये ख्यापिते तस्य नैर्गुण्यशतभाग्भवेत्॥
गुणे तु ख्यापिते तद्वत्सर्वपुण्यफलं भवेत्।
गुरोर्हितं प्रियं कुर्यादादिष्टो वा नवा सदा॥
असमक्षं समक्षं वा तस्य कार्यं समाचगेत्।
इत्थमाचारवान् भक्त्या नित्यमुद्युक्तमानसः॥
गु प्रियकरः शिष्यः शैवान्धर्मास्ततोऽर्हति।
गुरुश्चेद्गुणवान् प्राज्ञः परमानन्दभासकः॥
तत्त्वविच्छिवसंसक्तो मुक्तितो न तु चापरः।
संवित्संजननं तत्त्वं परानन्दसमुद्भवम्॥
तत्तत्त्वं विदितं येन स एवानन्ददर्शकः।
न पुनर्नाममात्रेण संविदा रहितस्तु यः॥
अन्योऽन्यं (9)तारयेन्नौका किं शिवा तारयेच्छिलाम्।
(10)एषां तन्नाममात्रेण मुक्तिर्वैनाममात्रिका॥
{9. तारयेन्नावं-पा. 10.एतस्य नाम.}
यैः पुनर्विदितं तत्त्वं ते मुक्ता मोचयन्त्यपि।
तत्त्वहीने कुतो बोधः कुतो ह्यात्मपरिग्रहः॥
परिग्रहविनिर्मुक्तः पशुरित्यभिधीयते।
पशुभिः प्रेरितश्चापि पशुत्वं (11)नातिवर्तते॥
{11. नातिवर्तयेत्-पा.}
तस्मात्तत्त्वविदेवेह मुक्तो मोचक इष्यते।
सर्वलक्षणसंयुक्तः सर्वशास्त्रविदप्ययम्॥
सर्वोपायविधिज्ञोऽपि तत्त्वहीनस्तु निष्लः।
यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे प्रतिष्ठिता॥
तस्यावलोकनाद्यैश्च परानन्दोऽभिजायते।
तस्मादस्यैव सम्पर्कात्प्रबोधानन्दसंभवः॥
गुरुं तमेव वृणुयान्नापरं मतिमान्नरः।
स शिष्यैर्विनयाचारचतुरैरुचितो गुरुः॥
यावद्विज्ञायते तावत्सेवनीयो मुमुक्षुभिः।
ज्ञाते तास्मिंस्थिरा भक्तिर्यावत्तत्त्वं समाश्रयेत्॥
न ततस्तं त्यजेज्जातु नोपेक्षेत (12)पूर्वकम्॥
{पौर्विकम्-पा.}
गुरोर्भ्रातॄंस्तथा पुत्रान् बोधकान्प्रेरकानापि।
तत्रादावुपसङ्गभ्य ब्राह्मणं वेदपारगम्॥
गुरुमाराधयेत्प्राज्ञं सुभगं प्रियदर्शनम्।
सर्वाभयप्रदातारं करुणाक्रान्तमानसम्॥
तोषयेत्तं प्रयत्नेन मनसा कर्मणा गिरा।
तावदाराधयेच्छिष्यः प्रसन्नोऽसौ भवेद्यथा॥
तस्मिन् प्रसन्ने शिष्यस्य सद्यः पाशक्षयो भवेत्।
तस्माद्धनानि रत्नानि क्षेत्राणि च गृहाणि च॥
भूषणानि च वासांसि यानशय्यासनानि च।
एतानि गुरवे दद्याद्भक्त्या वित्तानुसारतः॥
वित्तशाठ्यं न कुर्वीत यदीच्छेत्परमां गतिम्।
स एव जनको माता भ्राता बन्धुर्धनं सुखम्॥
सखा मित्रं च यत्तस्मात्सर्वं तस्मै निवेदयेत्।
निवेद्य पश्चात्स्वात्मानं सान्वयं सपरिग्रहम्॥
समर्प्य सोदकं तस्मै नित्यं तद्वगो भवेत्।
यदा शिवाय स्वात्मानं दत्तवान् देशिकात्मने॥
तदा शैवो भवेद्देही न ततोऽस्ति पुनर्भवः।
देसिकाकृतिमास्थाय पशोः पाशानशेषतः॥
छित्वा परं पदं देवो नयत्येनमिति श्रुतिः।
गुरुश्च (13)स्वाश्रमे शिष्यं वर्षमेकं (14)परीक्षयेत्॥
{13.स्वाश्रितं. 14. प्रतीक्षयेत्-पा.}
ब्राह्मणं क्षत्रियं वैश्यं द्विवर्षं च त्रिवर्षकम्।
प्राणद्रव्यप्रदानाद्यैरादेशैश्च समागमैः॥
उत्तमं चाधमे कृत्वा नीचानुत्तमकर्मसु।
आक्रुष्टास्ताडिता वापि ये विषादं न यान्त्यपि॥
ते योग्याः संयताः शुद्धाः शिवसंस्कारकर्मणि।
अहिंसका दयावन्तो नित्यमुद्युक्तचेतसः।
अमानिनो बुद्धिमन्तस्त्यक्तस्पर्धाः प्रियंवदाः।
ऋजवो मृदवः स्वच्छा विनीताः स्थिरचेतसः॥
शैवाचारसमोपेताः शिवभक्ता द्विजातयः।
एवं वृत्तसमोपेता वाङ्मनःकायकर्मभिः॥
शोध्या बोध्या यथान्यायमिति शास्त्रविनिश्चयः।
नाधिकारः स्वतो नार्याः शिवसंस्कारकर्मणि॥
नियोगाद्भर्तुरस्त्येव (15)यदि भक्ता महेश्वरे।
तथैव भतृहीनायाः पुत्रादेरभ्यनुज्ञया॥
अधिकारो भवत्येव कन्यायाः पितुराज्ञया।
शूद्राणामन्यजातीनां पतितानां विशेषतः॥
तथा संकरजातीनां नाध्वशुद्धिर्विधीयते।
तेऽष्यकृत्रिमभावाश्चेच्छिवे परमकारणे॥
पादोदकप्रदानाद्यैः कुर्यात्पापविशोधनम्।
(16)अतोऽनुलोमजाता ये युक्ता एव द्विजातिषु॥
{16.अत्रानुलोम-पा.}
तेषामध्वविशुध्यादि कुर्यांन्मातृकुलोचितम्।
या तु कन्या स्वपित्राद्यैः शिवधर्मे नियोजिता॥
सा भक्ताय प्रदातव्या नापराय विरोधिने।
दत्ता चेत्प्रतिकूलाय प्रमादाद्बोधयेत्पतिम्॥
अशक्ता तं परित्यज्य मनसा धर्ममाचरेत्।
यथा (17)पुरा मुनिं त्यक्त्वा (18)पतिमन्यं पतिव्रता॥
{17.मुनिवरं-पा. 18. पतिमत्रिं-पा.}
कृतकृत्याभवत्पूर्वं तपसाराध्य शङ्करम्।
यथा नालायनी देवं तपसाराध्य पाण्डवान्॥
पतीन् लब्धवती धर्मे गुरुभिर्न नियोजिता।
अस्वातन्त्र्यकृतो दोषो नेहास्ति परमार्थतः॥
शिवधर्मनियुकायाः शिवशासनगौरवात्।
किमत्र बहुनोक्तेन योऽपि कोऽपि शिवाश्रितः॥
संस्कार्यो गुर्वधीनश्चेत्संस्क्रिया न प्रभिद्यते।
गुरोरालोकनादेव स्पर्शात्संभाषणादपि॥
यस्य सञ्जायते प्रज्ञा तस्य (19)नास्त्यपरा क्रिया।
{19. नास्ति पराजयः--पा.}
मनसा यस्तु संस्कारः क्रियते योगवर्त्मना॥
स नेह कथ्यते गुह्यो गुरुवक्रैकगोचरः।
क्रियावान्यस्तु संस्कारः कुण्डमण्डपपूर्वकः॥
स वक्ष्यते समासेन तस्य शक्यो न विस्तरः।
इत्यादिवचनैरन्यैर्निगमैरागमैरपि॥
पञ्चाक्षर्येव सा प्रोक्ता संसारभयहारिणी।
संसारबन्धहेतुः स्यात्सर्वं कर्म भयाकुलम्॥
पञ्चाक्षरोऽयं मन्त्रस्तु बन्धच्छेदाय कल्पते।
तस्मात्पाशविमोक्षार्थी पञ्चाक्षरमनुं स्मरेत्॥
शिवशब्देन भात्येष पञ्चाक्षरमनुः स्वयम्।
मनुना रुद्रसूक्तं स्याद्रुद्रसूक्ताद्यजुश्श्रुतिः॥
यजुषा मध्यरत्नेन ऋक्सामा भाति सुस्फुटम्।
तस्मात्पञ्चाक्षरसमो नास्ति लोकत्रयेऽपि च॥
केचिदैहिकसाध्याः स्युर्मन्त्रा आमुष्मिकाः परे।
पञ्चाक्षरोऽयं मन्त्रः स्यादिहामुत्रफलप्रदः॥
लौकिकाद्वचनान्मुख्यं देवतानामकीर्तनम्।
देवतानामपठनाज्जगत्कारणचिन्तनम्॥
कारणानां च यो धाता ध्याता परमकारणम्।
तन्नामपठनं श्रेष्ठं नामान्येतस्य भूरिशः॥
शिवनाम ततः श्रेष्ठं ततो नम इति द्वयम्।
विशिष्टपठनं तस्मात्प्रणवादिस्ततोऽपि च॥
समष्टिव्यष्टिभूतोऽसौ मन्त्रो मन्त्रोत्तमोत्तमः।
उत्तमोत्तममन्त्रस्य पठनादुत्तमोत्तमम्॥
फलं हि पठतां प्राज्ञ तत्फलं मोक्ष एव हि।
तस्मान्मोक्षार्थिभिः सर्वैर्जप्यः पञ्चाक्षरो मनुः॥
पञ्चाक्षरप्रभावेन सर्वे कामाः समाहिताः।
सत्यं सत्यं पुनः सत्यं सर्वसञ्जीवनौषधम्॥
पञ्चाक्षरामृतं पीत्वा शिवसायुज्यमाप्नुयात्।
नावर्तते पुनर्मर्त्यः पुनर्नावर्तते ध्रुवम्॥
इति श्रीमद्विशिष्टाद्वैतसिद्धान्तरहस्यैकोत्तरशतस्थलाभिज्ञश्रीनीलकण्ठशिवाचार्यकृते
निगमागमसारसङ्ग्रहे क्रियासारे पञ्चाक्षरस्वरूपप्रशंसा नाम
त्रयोदशोपदेशः समाप्तः
---------------
चतुर्थशोपदेशप्रारम्भः
[सम्पाद्यताम्]चतुर्दशोपदेशेऽस्मिञ्छिवपूजाविधिक्रमः।
निगमागमसंमिश्रो भक्तिमत्प्रीतये कृतः ॥ 1 ॥
द्वात्रिंशदुपदेशास्ते शिवपूजान्तरा(1) मताः।
भक्तिभाव्यः समस्तोऽपि शिवसायुज्यसाधकः ॥ 2 ॥
{1. रागताः-पा.}
अथ पक्षान्तरमाश्रित्योच्यते--
अवश्यकार्यं शैवानामात्मार्थं शिवपूजनम्।
तच्च वैदिकमिश्राभ्यामेतेषां शैवमुत्तमम् ॥ 3 ॥
तदप्यशक्तिकाच्छुद्धान्मिश्रात्सौरादिकादपि।
(2)सशक्ति केवलं श्वाघ्यं संक्षिप्तं भुक्तिमुक्तिदम् ॥ 4 ॥
{2. अशक्ति-पा.}
तस्मादात्मार्थयजनं शम्भोरम्बिकया सह।
सङ्गृह्य दर्शयिष्यामि सर्वदिव्यागमोदितम् ॥ 5 ॥
दिव्यागमार्थसाङ्कर्यमैकतन्त्र्यान्न दोषकृत्।
किंतु पाशुपताद्यर्थसाङ्कर्यं तेषु दोषकृत् ॥ 6 ॥
तेष्वप्येकं समाश्रित्य ग्राह्यमन्यदुपेक्षते।
इत्येतन्मानुषे लिङ्गे न तु स्वायम्भुवादिषु ॥ 7 ॥
एकागमावलम्बेऽपि प्रविहाय तदीरितम्।
प्रशस्तमन्यतो ग्राह्यमित्यन्वादिशदीश्वः ॥ 8 ॥
(3)प्राशस्त्यस्योभयोः साम्येऽप्यर्चनाङ्गमपेक्षितम्।
तत्रोक्तमन्यत्रोक्तं च सममित्यप्युपादिशत् ॥ 9 ॥
{3. प्राशस्त्यशोभयोः-पा.}
तस्माद्दिव्यागमेभ्योऽसावखिलेभ्यः समुद्धृतैः।
अपेक्षितांशैः क्रियते श्रीशिवार्चनपद्धतिः ॥ 10 ॥
आचम्य भस्मरुद्राक्षविभूषितकलेवरः।
सकलीकृत्यसंस्कुर्यात्सामान्यार्ध्यं यथाविधि ॥ 11 ॥
शुद्धविद्यात्मकं ध्यात्वा शिवपूजानिकेतनम्।
तद्द्वारेऽनुत्तरे कुर्याद्द्वारपालार्चनं क्रमात् ॥ 12 ॥
विघ्नत्रयं विनिस्सार्य प्रविश्यास्त्रादिपूजनम्।
कृत्वा पूजोपकरणं सकलं सन्निधापयेत् ॥ 13 ॥
देवस्य दक्षिणे भागे पावकस्योत्तरामुखः।
विहितासनमास्थाय पञ्चशुद्धीः समाचरेत् ॥ 14 ॥
आदित्यस्योदयात्पूर्वं मुहूर्तद्वितये स्थिते।
उत्थाय धौताङ्घ्रिकरः कृतभस्मावकुण्ठनः ॥ 15 ॥
हृदिसामान्य(4)समयां चिन्तयेत्परमेश्वरीम्।
(5)विशिष्टसमयां बिन्दौ मूर्ध्नि निर्वाणदीक्षितः ॥ 16 ॥
{4. सामान्यसमयी-पा. 5. विशिष्टसमयी-पा.}
(6)आचार्यं साधकश्चैनं द्वादशान्ते विचिन्तयेत्।
नामानि चास्य हृद्यानि चरित्राणि च कीर्तयेत् ॥ 17 ॥
{6. आचार्यः-पा.}
विण्मूत्रोत्सर्जनं कुर्याद्गत्वा देशं यथोचितम्।
इत्याद्युक्तेन रूपेण शुद्धः पूतमनाः स्वयम् ॥ 14 ॥
वीरशैवो भस्मनैव कुतस्नानस्त्रिपुड्रवान्।
वारुणे यस्य वै बुद्धिस्तस्यायं विधिरुज्यते ॥ 15 ॥
(7)उद्धूलनं त्रिपुण्ड्रं च भस्मना च प्रकीर्तितम्।
{7. इदमर्थं मातृकयोर्नास्ति.}
आचान्तः कृतकरन्यासः प्राणानायम्य दर्भान् धारयन् अमुके वर्षे अमुके मासे अमुके वारे शिवप्रीत्यर्थं "देव स्नानं करिष्येऽहं त्वत्पूजार्थं प्रसीद मे" इति विज्ञाप्य शुद्धभूमिं चतुरङ्गुलपर्यन्तं हुं फडन्तास्त्रमन्त्रेण खात्वा तेनैव मन्त्रेण मृदमुद्धृत्य तदधस्तनीं मृदं मूलमन्त्रेण नमोऽन्तहृदयेन वादाय नमोऽन्तहृदयेनैव प्रथममुद्धृतया मृदा खातमापूर्य, नमोऽन्तं सरित्सरस्तटाकादितीरे विशुद्धे निक्षिपेत्। सरिदादीनां दक्षिणतीरं स्नानार्थमतिप्रशस्तं गतो हुं फडन्तास्त्रेण मृदमभ्युक्ष्य नमोऽन्तश्शिरसा मृदस्तृणमूलादीन्युद्धृत्य नमोऽन्तकवचेन तां त्रिधा विभज्य नाभ्यादि पादान्तं एकांशेन प्रक्षाल्य द्वितीयं सप्तवारमस्त्रमन्त्रजप्तं अस्त्ररश्मिसम्पर्काद्दीप्तं विभाव्य सर्वमङ्गं मन्त्रेण लिप्त्वा जलं प्रविश्य जलमस्त्रेणालोड्य अह्गुष्ठाभ्यां कर्णौ तर्जनीभ्यामक्षिणी मध्यमाभ्यां नासिके च दृढं पिधाय प्रणवं मूलसहितं वा जपन् हृदये ज्वलदस्त्रं देहं तत्तेजःपुञ्जपिञ्जरं च विभाव्य जले निमग्नो यावच्छक्त्यवतिष्ठेत्॥
अथवा मृदं द्विधा विभज्य अस्त्रजपेनैकेन भागेन सर्वमङ्गमालिप्य स्नायात्। तदेतन्मलस्नानम्। यद्वा वक्ष्यमाणविधिस्नानार्थमेव मृदाहरणम्। मलस्नानं तु हरिद्रामलकादिपिष्टैरेव कार्यम्। अत्र रेतोविण्मूत्रचक्षुश्श्रोत्रनासिकामुखनखपादमलरूपाणां शारीरमलानां शोधनादिमलस्नानान्तकर्मान्तर्गतैर्मृद्दन्तकाष्ठहरिद्रामलकादि (8)घर्षणैरुदासेकः{8. घर्षणैरुदासेचनैः शुद्धिः, उदासीनैः शुद्धिः-पा.} शुद्धिः। वाचिकमलानां स्नानकालिकैः प्रणवादिजपैः। मानसमलानां मन्त्रध्यानादिभिः। ततो जलादुत्थाय अस्त्रमन्त्रेणादित्यं निरीक्ष्य मूर्ध्नि निषिच्छ जलादुत्तीर्याचम्याविरक्तो द्विजश्चेद्वैदिकीं सन्ध्यामुपास्य संक्षेपतः शैवीमपि सन्ध्यामुपासीत। विरक्तो द्विज अत्याश्रमी च शैवीमेवोपासीत॥
संक्षिप्तशैवसन्ध्याप्रकारः--
अस्त्रमन्त्रेण शिरसि त्रिवारमङ्गुल्यग्रगतैर्जलबिन्दुभिः प्रोक्ष्य, शिवास्त्राय विद्महे, कालानलाय धीमहि, (9)तन्नो{9. तन्नः शस्त्रः-पा.} अस्त्रः प्रचोदयात्। इत्यस्त्रगायत्र्या सूर्यमण्डलस्थायास्त्राय त्रिवारमर्ध्यं दत्वा यथाशक्ति गायत्रीं जपेत्। अस्त्रसन्ध्यास्नाने ज्वलन्तमस्त्रमन्त्रं ध्यायेत्। ततो विधिस्नानार्थं बिन्दुस्थानाद्गङ्गादितीर्थानां मध्य एकतमं तीर्थमङ्कुशमुद्रया वौषडन्तहृदयेनाकृष्योद्भवमुद्रया नमोन्तहृदयेन पुरतः संस्थाप्य तेनापूरितं सरस्तटाकादिकं सञ्चिन्तयेत्। तदनु विधिस्नानार्थं स्थापितं मृद्भागमादाय नाभिदघ्नं जलं प्रविश्य नदीषु प्रवाहाभिमुखोऽन्यत्र प्राह्मुख उदङ्मुखो वा मत्स्यमण्डूकादिवासभूतजलदोषपरिहारार्थं हस्तमात्रं चतुरश्रं शिवतीर्थं पुरतः कल्पयेत्। तत्रायं क्रमः--मृद्भागं वामकरे पूर्वयाम्यसौम्यदिक्षु त्रिधा विभज्य सर्वं सप्तवारावृत्तेन शिवेन चाभिमन्त्र्य तत्रास्त्रपातं हुं फडन्तास्त्रेण नाराचमुद्रया पूर्वादिषु सर्वासु दिक्षु क्षिपेत्। एवं दिवि विघ्नानामधिपस्येन्द्रस्येन्द्रदिशि स्थितस्य मृद्भागस्य दिक्षु क्षेपेण दिगवस्थिताः सर्वे विघ्नाः शमं यान्ति। तदनु शिवजप्तमृद्भागार्धं मूलेन जले शिवतीर्थसिद्ध्यर्तं निक्षिप्य तदपरार्धं शिवतीर्थं बाहुपरिभ्रमणेन समन्तान्निक्षिपेत्। एवं सोमदिशि स्थापितं मृद्भागं केवलममृतमयः सन् शिवमन्त्रेण लोलनात् क्षरतीति तीर्थममृतमयं भवतीति शिवतीर्थं परिकल्प्य विधिना स्नानाय तदर्धं प्रथमं ब्रह्माङ्गजप्तेन मृद्भागेन सर्वम्गं लिम्पेत्॥
अथ धर्मराजदिशि स्थितस्य मृद्भागस्य संस्पर्शनात्सर्वपापक्षयो भवति। एवं षण्मुखीकरणमुद्रया श्रोत्रादिद्वाराणि पिधाय शिवतीर्थमध्ये निमज्य शिवमन्त्रं ध्यायन्नन्तर्जले यावच्छक्त्यवतिष्ठेत। अन्तर्जले सर्वाङ्गनिमज्जनमुत्तमम्। अर्धाङ्गमज्जनं मध्यमम्। मुखमात्रनिमज्जनं कनीयः। ततो जलादुत्थाय वामदक्षिणहस्तौ (10)सोमसूर्यात्मकौ {10.सोमसूर्यकृती-पा.} शक्तिशिवाभ्यां कृतया कुम्भकमुद्रया वौषडन्तसंहिताभिमन्त्रितजलैः शिरस्यभिषिच्य हुंफडन्तास्त्रेण (11)विघ्ननाशनतीर्थं{11. विघ्नशमनतीर्थं जलं दिक्षु विदिक्षु च विनिक्षिप्य तत्तीर्थ जले शिवतीर्थसिध्द्यर्थं निक्षिप्य तदपरार्धं शिवतीर्थसीमनि संहार.} जलं दिक्षु विनिक्षिव्य तीर्थं संहारमुद्रयोपसंहारेत्। इत्थं सरिदादिकं गत्वा कर्तुमशक्तौ गृह एव शुद्धे गोमयालिप्ते भूभागे (12)पिठरस्थशीतजलपूरितैः{12.पीठस्थ-पा.} शिवमन्त्रजप्तैर्नवभिरष्टभिः पञ्चभिर्वा कुम्भैः स्नायात्। राजानः स्त्रीबालरोगिणः प्रवासिनश्च शीतोदकेन स्नानाशक्तावुष्णोदकेन स्नानं कुर्युः। राजानश्चेच्छिवपूजार्थं शिवस्नापतोक्तसर्वोपचारसहितस्नानविधानात् स्वर्णपीठे स्थित्वा स्वर्णकुम्भाहृतैर्जलैः शङ्खादिमह्गलवाद्यघोषपुरस्सरं स्नानं कुर्युः। शिरस्स्नानाशक्तौ तु कण्ठस्नानादिकं कुर्युः। तदनु शुद्धमृदुवस्त्रेण देहसम्मार्जनम्। धौतवस्त्रद्वयपरिधानम्। (13)आत्मतत्त्वाय {13. "आत्मतत्त्वाय नम इति" इति कस्मिंश्चित्पुस्तके, "आत्मतत्त्वाय नमः शिवतत्त्वाय नम इति" कस्मिंश्चित्पुस्तके च वर्तते।} नमः। विद्यातत्त्वाय नमः। शिवतत्त्वाय नम इति त्रिराचमनम्। लिङ्गतत्त्वाङ्गतत्वयोः सकलीकरणं, भस्मस्नानं, त्रिपुण्ड्रधार(14)णादिकं{14. णमित्यादिकं-पा.} निर्वर्त्य शेवीं सन्ध्यामुपासीत।
तत्प्रकारः संहितायां--त्रिः प्राणानायम्य हौं नेत्राभ्यां नम इति अङ्गुष्ठाभ्यां नेत्रयोर्दिव्यमुद्रां प्रविन्यस्य नमोन्तमूलेन जलं निरीक्ष्य तेनैव सन्ताड्य वौषडन्तकवचेनाभ्युक्ष्य वौषडन्तहृदयेनाङ्कुशमुद्रया बिन्दुस्थानाद्गङ्गादीनामेकतमं तीर्थमाकृष्य नमोऽन्तहृदयेनोद्भवमुद्रया तीर्थं जले निक्षिग्य मूलेनाभिमन्त्र्य हुंफडन्तास्त्रेण संरक्ष्य नमोन्तकवचेनावकुण्ट्य वौषडन्तशक्तिमन्त्रेण धेनुमुद्रया अमृतीकुर्यात्। अथ चिच्छक्तिरूपां सन्ध्यां ध्यायेत्॥
सन्ध्या त्रिविधा-ब्राह्मी वैष्णवी रौद्रीति। तत्र--
रक्तस्रग्वसना रक्ता रक्तालङ्गारशोभिता।
हंसासनसमासीना जटाचन्द्रकलाधरा॥
चतुर्भुजा चतुर्वक्त्रा लोचनाष्टकभूषिता।
अक्षमालां स्रुचं सव्ये वामे दण्डं कमण्डलुम्॥
दधाना ब्रह्मदैवत्या प्रातः सन्ध्या त्रिधा च सा।
प्रातः कालेऽल्पनक्षत्रे सुबाला मुक्तिदा प्रभा॥
प्रातस्तु लुप्तनक्षत्रे भुक्तिमुक्तिप्रदायिनी।
ज्ञानशक्तिस्वरूपा सा मध्यमा बाल्यमाश्रिता॥
भुक्तिप्रदायिनी भानोरर्धमण्डलदर्शने।
क्रियाशक्तिस्वरूपा सा प्रौढा बाल्यं समाश्रिता॥
सुवर्णपङ्कजासीना सितवस्त्रसमन्विता।
वनमालोपवीताभ्यां भूषिता च द्विलोचना॥
एकवक्त्रा चतुर्हस्ता दक्षिणे सगदाम्बुजा।
शङ्खचक्रधरा वामे मध्या सन्ध्या तु वैष्णवी॥
सा च द्वितीया यामस्य तुर्यभागे त्रिधाभवेत्।
आद्यांशे मुक्तिदा (15)सा च किं चिदुद्भिन्नयौवना॥
{15. वाचा-पा.}
मध्यांशे मध्यतारुण्या वागीशी भुक्तिमुक्तिदा।
ज्वालाभिघा तृतीयांशे मुक्तिदा प्रौढयौवना।
वृषपङ्कजमध्यस्था त्रिणेत्रा चन्द्रशेखरा॥
त्रिशूलाक्षधरा सव्ये वामे साभयशक्तिदा।
सायं सन्ध्या स्मृता रौद्री सापि पूर्वेव च त्रिधा॥
आरक्तार्ककरे काले किंचिच्चलितयौवना।
यौवनार्धच्युतार्धार्के ज्येष्ठाख्या भुक्तिमुक्तिदा।
भुक्तिदास्तमिते सूर्ये रौद्र्याख्या गतयौवना॥
एवं नवविधा सन्ध्याः शिवशास्त्रे शिवोदिताः।
साक्षिभूताः समस्तस्य पूजिता वाञ्छितप्रदाः॥
ब्राह्मी हृत्पङ्कजगता वैष्णवी बिन्दुमध्यगा।
ब्रह्मरन्ध्रगता रौद्री स्वस्वकालेषु चिन्तयेत्॥
प्रातस्सन्ध्या समयिनो मध्यमा च विशेषिणः।
निर्वाणदीक्षितस्यैव सन्ध्यात्रितयमिष्यते॥
वीरशैवोऽथवा कुर्यान्न कुर्याद्वा समाहितः।
कृतेऽभ्युच्चय एव स्यादकृते च न दोषभाक्॥
तत्रयं स्यात्सप्तकाल(16)प्रासादप्रवणो बुधः।
सबिन्दुशक्तिसामान्यस्थानत्रितय(17)वर्तिनी॥
{16. प्रसाद--पा. 17. वर्तकी--पा.}
मृणालतन्तुवत्तन्वी आरक्तश्वेतमेचका।
सन्ध्या क्रियादृगिच्छाख्या(19) प्रासादोच्चारपूर्वकम्॥
{19. ख्यं--पा.}
यस्य तु द्वादशकले प्रासादे निष्ठिता मतिः।
ते नसन्ध्या परा चिन्त्या या निशीथे विभाव्यते।
नाभ्यादिद्वादशान्तान्तं ततो नाभ्यवसानकम्॥
गमागमवती तुर्या नीरूपा मेचकाथवा।
ज्ञानिनां तु परा सन्ध्या शिवबोधस्वरूपिणी॥
द्वादशान्तस्थितं शम्भुं चन्द्रिकेन्दुमिवाश्रिता।
एकैव वस्तुतः सन्ध्या शिवशक्तिस्वरूपिणी॥
कालाधिकारिभेदेन सैव भिन्नात्र वर्णिता।
सन्ध्याचिन्तनमेवेदं सन्ध्यावन्दनमुच्यते॥
अङ्गमस्य प्रधानस्य यदन्यन्मार्जनादिकम्।
एवं कृतसन्ध्योपासनादिकर्मणा शिवपूजारम्भणीया। तत्रायं क्रमः--(20)ततोऽङ्गुष्ठमध्यमानामिकाभिरमृतकलां{20.ततोऽङ्गुष्ठमीशानमनामिकाममृतकलां च ध्यात्वा-पा.} च ध्यात्वा अह्गुष्ठायुक्तयानामिकया चक्षुषी नासिके श्रोत्रे अंसौ हृदयंनाभिं शिरश्च क्रमेण (21)आदित्यस्तृप्यतु {21.अदित्यास्तृप्यन्तु-पा.} विष्णुस्तृप्यत्विति भावयन्नेव स्पृशेत्। एवं कृते शिवतेजस्सम्पर्कक्षुभितानामिका(22)कृतप्रवाहतृप्ता{22.कामृतः-पा.} नेत्राद्यधिष्ठातारः सूर्यादयो विष्ण्वन्ता देवाः कर्तुरनुष्ठानोपबृंहिका भवन्ति। तदनन्तरं 9शरीरगतपञ्चत्रिंशत्तत्वशुध्यर्थं) (23)चिन्मात्राचमनं{23.चिन्मन्त्त्राचमनं-पा.} कुर्यात् तत्रायं विशेषः--सुवर्णवर्णं पद्माक्षमालास्रक्कु(24)ण्डिकालङ्कुतकरचतुष्टयं{24.क्कुण्डलालस्रङ्कृत-पा.} चतुर्वक्त्रमात्मतत्त्वरूपं ब्रह्माणं ध्यायामीत्यात्मतत्त्वध्यानपूर्वकं `हां आत्मतत्त्वाय (25)स्वाहेति{25.स्वधेति.} प्रथममाचामेत्। अनेन स्वशरीरे पृतिव्यादिमायान्तैकत्रिंशत्तत्त्वशुद्धिं भावयेत्॥
ततो नीलवर्णं चक्रबाणकमलचिन्मुद्राशङ्खकार्मुककमण्डल्वभयमुद्रालङ्कुतकराष्टकमेकवक्त्रं विद्यातत्त्वरूपं विष्णुं ध्यायामीति विद्यातत्त्वध्यानपूर्वकं हिं विद्यातत्त्वाय स्यधेत्याचामेत्। अनेन शुद्धविद्येश्वरसदाशिवाख्यत्रितत्त्वशुद्धिं भावयेत्। ततः स्फटिकवर्णं पद्माक्षमालाशूलकमण्डलुधरकरचतुष्टयं पञ्चवक्रं शिवतत्त्वरूपं रुद्रं ध्यायामीति शिवतत्त्वध्यानपूर्वकं हुं शिवतत्त्वाय स्वधेत्याचामेत्। अनेन शक्तितत्त्वशुद्धिं भावयेत्। ततोऽस्त्रमन्त्रेण (26)करौ{26.ओष्ठौ} प्रमृज्य हृदयमन्त्रेण नेत्रादीनि स्पृशेत्। अन्यत्तु तत्तद्देवतातृप्त्यर्थध्यानादिकं पूर्ववत्कुर्यात्। इत्याचमनक्रमः॥
ततोऽभिषिच्य देवेशं निवेश्य कमलासने।
तत्रासनं च मूर्तिं च विद्यादेहं च पूजयेत्॥
अथावाह्य महादेवं सम्पूज्य स्नपनादिभिः।
मनसा स्नापयित्वा च दद्याद्वस्त्रोपवीतकम्॥
ततः सम्पूज्य देवेशं गन्धपुष्पविभूषणैः।
धूपं दीपं च दत्वाथ कुर्यादावरणार्चनम्॥
नैवेद्यं मुखवासं च ताम्बूलं च समर्पयेत्।
बलिं दत्वाथ पाद्याद्यैर्गन्धपूष्पैश्च पूजयेत्॥
अग्नौ कुर्यादग्निकार्यमग्निकार्याधिकारवान्।
ततः शिवान्तिकं गत्वा शिवपूजां समर्पयेत्॥
धूपमारार्तिकं दत्वा पवित्रं च समर्पयेत्।
जपस्तोत्रनमस्कारप्रदक्षिणपुरस्सरम्।
अष्टपुष्पिकयाभ्यर्च्य विशेषार्ध्येण पूजयेत्॥
जपस्तोत्रनमस्कारप्रदक्षिणपुरस्सरम्।
अष्टपुष्पिकयाभ्यर्च्य विशेषार्ध्येण पूजयेत्॥
पराङ्मुखार्ध्येणोद्वास्य शिवं सावरणादिकम्।
काले शिवं हृदि ध्यायन्नाश्नीयात्तन्निवेदितम्॥
एवं संक्षिप्य कथितं शिवपूजाविधिक्रमम्।
विविच्य दर्शयिष्यामो नातिसह्कोचविस्तरम्॥
तत्र तावदाचमनमुच्यते--आजानु पादावामणिबन्धं पाणी च प्रक्षाल्य प्राङमुख उदङमुखो वा कुक्कुटासनस्थः पाणिद्वयं जानुनी अन्तरा निधाय पाणिद्वयेऽपि कनिष्ठिकादिष्वङ्गुलिषु (27)हां {27.मातृकासु-हं हिं इति दृश्यते.} हृदयाय नमः, हीं शिरसे नमः, हूं शिखायै नमः, हैं कवचाय नमः, हः अस्त्राय फडिति विन्यस्य दक्षिणं पाणिं गोकर्णाकृतिं कृत्वा तेन माषमज्जनार्हं जलं गृहीत्वा (28)संक्षिप्याङ्गुष्ठकनिष्ठिके{28.संवीक्ष्य-पा.} मुक्त्वा तर्जन्यङ्गुष्ठसंयोगेन? पूर्वपक्षे सोमरूपं कृष्णपे सूर्यरूपं च विचिन्त्य तत्पाशनेन रसनाग्रस्थिताया भारत्याः (29)सप्तशुर्द्धिं{29.तृप्तिं स्वस्यान्तर्देहशुद्धिं-पा.} स्वस्य बहिर्देहशुद्धिं च ध्यात्वानन्तरं हस्तप्रक्षालनपूर्वकं ब्रह्मतीर्थेन स्वधान्तेन मूलमन्त्रेण त्रिराचामेत्। ततः स्वस्याननशुद्धिं ओष्ठमम्पुटस्थितायाः प्रणवदेवतायास्तृप्तिं च भावयन्नङ्गुष्ठमूलेन द्विरोष्ठौ मार्जयेत्॥
इति स्नानसन्ध्यादिप्रकरणम्
अथ भस्मदारणम्
चतुर्विधं भस्म। कल्पमनुकल्पमुपकल्पमकल्पं चेति। तत्र व्याध्यादिरहितां सवत्सां गां सम्पूज्य तदीयं गोमयं भूमावपतितमाकाशस्थमेव गृहीत्वा पिण्डीकृत्य विशोष्य पञ्चब्रह्ममन्त्रैः शिववह्नौ दग्ध्वा मूलेन विशोध्य यत्सम्पादितं यच्चाग्निहोत्रसमुद्भूतं तदुभयं कल्पम्। वने शुष्कं गोमयं गृहीत्वा शिववह्नौ दग्ध्वा मूलेन विशोध्य सम्पादितमनुकल्पम्॥
(30)अटवीगृहगोवाटीषु{30.अटवीगृहे गोवासे इष्ट-पा.} इष्टकापाकादिषु दावाग्न्यादिभिर्दग्धं भस्म गृहीत्वा वस्त्रेण संशोध्य गोमूत्रेण पिण्डीकृत्य पुनः शिवाग्नौ दग्धं मूलेन शोधितमुपकल्पम्। मन्त्रादिहीनं ब्राह्मणैः स्त्रीशूद्रादिभिर्वा शुचि गोमयं गृहीत्वा सम्पादितं श्रोत्रियागारचुल्ल्यादिभ्यो गृहीतं वा यत्तदकल्पम्। अकल्पं चेत्तद्ग्रहीत्वास्त्रमन्त्रेण दिग्बन्धनं कृत्वा (31)हों{31.हां, हीं, हूं, हैं,-पा.} ईशानमूर्ध्ने नमः। हें तत्पुरुषवक्त्राय नामः। हुं अघोरहृदयाय नम। हिं वामदेवगुह्याय नमः। हं सद्योजातमूर्तये नमः। हां हृदयाय नमः। हौं शिरसे नमः। हूं शिखायै नमः। हैं कवचाय नमः। हौं नेत्रयाय नमः। हः सस्त्राय नमः। (32)ह्रां{32.हां, हीं, हूं, हैं,-पा.} विवृत्तिकलायै नमः। (33)ह्रीं{32. हां, हीं, हूं, हैं-पा.} प्रतिष्ठाकलायै नमः। (33)ह्रूं {33. हां, हीं, हूं, हैं-पा.} विद्याकलायै नमः। ह्रैं शान्तिकलायै नमः। (34)ह्रौं{34.हः-पा.} शान्त्यतीतकलायै नमः। इति पञ्चब्रह्मषडह्गेन कलामन्त्रैः संशोधयेत्। एवम्भूतस्य भस्मनो धारणं द्विविधम्। उद्धूलनं त्रिपुण्ड्रं चेति। उद्धूलनमपि द्विविधम्। मलस्नानरूपं विधिस्नानरूपं चेति। अम्भसा स्नातस्य द्विविधभस्मस्नानेऽधिकारः॥
तदशक्तौ कण्ठपर्यन्तं कटिपर्यन्तं जानुपर्यन्तं वा संक्षाल्य क्षालितान्यार्द्रवस्त्रैण संमृज्य वस्त्रान्तरं परिधायाचम्य हुंफडन्तास्त्रेण दक्षिणपादाङ्गुष्ठोद्गतेन वह्निना देहगत(35)बाह्यमलमात्रं{35.मलमूत्रं-पा.} दग्धं विचिन्त्य वह्निसम्बधक्षुभितबिन्दुस्थानस्थितशक्तिमण्डलस्रवदमृतप्रवाहेण शरीरमाप्लावयेत्। अथ मनसा मूलमन्त्रं नादान्तमुच्चरन्नेव तत्संपर्कक्षुभितशक्तिपरिस्रुतबहुलामृतधारया देहमबिषिक्तं भावयेत्। इदं मानसस्नानमशुचित्वशङ्कायां सर्वदा सर्वत्र विधेयम्। अथवा तामेव शक्तिं गोरुपां ध्यात्वा तत्पुच्छकिरणामृतप्रवाहेण शरीरमाप्लयेत्। एतद्भावस्नानम्॥
गङ्गायमुनादिदिव्यजलैर्वा शरीरं प्रोक्षयेत्। तत्तत्क्षेत्रमृत्तिकारजोभिर्वा पञ्चब्रह्मषडङ्गमूलमन्त्रैर्देहं स्पृशेत्। एषामेकतमं प्रकारं कृत्वा पञ्चब्रह्मषडङ्गमूलमन्त्रानेकवारं त्रिवारं वा जपेत्। ततः (36)प्राग्वदाचमनद्वयं{36.आचमनं-पा.} कृत्वा संभावितसकलबाह्याभ्यन्तराशुद्धिनिकर(37)निवारकं{37.निरासकं-पा.} भस्मस्नानं कुर्यात्। तत्क्रमः--गोब्राह्मणदेवाग्निगुरुविद्यासन्निधिं परिहृत्य म्लेच्छान्त्यजकृघ्नदर्शनादिवर्जिते मार्गभिन्ने शुचौ देशे प्राङ्मुख उदङ्मुखो वा निवेश्य कल्पानुकल्पादिरूपं मुष्टिमात्रं विप्रादिक्रमेण निष्कसार्धनिष्कद्वयप्रमाणं वा भस्मादाय नैरऋत्यकोणे (38)तद्राक्षसांशं{38.तद्राक्षसान्निर-पा.} निरस्य, अकल्पं भस्मचेद्दिग्बन्धनपूर्वकं पञ्चब्रह्मषडङ्गमन्त्रैः संशोध्य चतुर्विधमपि भस्म सप्तवारं हुंफडन्तास्त्रेणाभिमन्त्र्य तेन विरक्तश्चेत्पादादारभ्य मस्तकान्तं, अविरक्तश्चेन्मस्तकादारभ्य पादान्तं दक्षिणाङ्गुष्ठतर्जनीगृहीतेन स्वल्पेन भस्मना तद्गम्यकरपादतलव्यतिरिक्ताङ्गसंस्पर्शरूपमुद्धूलनं कुर्यात्। तदेतन्मलस्नानम्॥
ततः षडङ्गमन्त्रप्रजप्तेन भस्मना ईशानादिपञ्चब्रह्ममन्त्रैर्मूर्धाननहृदयगुह्यपादावयवानां सद्योजातमन्त्रेणैवांसयोस्तदितरावयवानां च दक्षिणहस्तेन तदगम्याङ्गानां वामहस्तेन चोद्धृलनं कुर्यात्। अवशिष्टं भस्म मूलेन (39)कुम्भमुद्रया{39.कुन्तमुद्रया-पा.} शिरस्यभिषिञ्चेत्। एवं सर्वाह्गोद्धूलनं वीरशैवः कुर्यात्। अन्ये तु क्रमेण ललाटे चतुरश्चत्र्यश्रवृत्तानि कृत्वा कण्ठादधो नाभेरूर्ध्वमुद्धूलयेयुः। शूद्र उद्धूलनं वर्जयित्वा वक्ष्यमाणत्रिपुण्ड्रात्मकमेव भस्मस्नानं कुर्यात्। तदेतत्तपस्विव्यतिरिक्तशूद्रविषयम्। अत एव ज्ञानरत्नावल्यां--तपस्वी चेद्विधिवद्भभस्म परिगृह्य तेन स्नानमाचरेदित्यादिना मलस्नानविदिस्नानरूपयोरुद्धूलनयोरधिकारविशेषणं तपस्वित्वमुक्तम्। एवं क्षत्रियवैश्यावप्यतपस्विनौ त्रिपुण्ड्रात्मकमेव वा भस्मस्नानं कुर्याताम्। ब्राह्मणादयश्चत्वारोऽप्युद्धूलनाशक्तौ त्रिपुण्ड्रात्मकमेव भस्मस्नानं कुर्युः। केवलत्रिपुण्ड्रात्मकभस्मस्नानाभिप्रायेणैव केषुचिदागमेषु वीरशैवादिक्रमेणैव निष्कं निष्कार्धं तदर्धं (तदर्धं) चेति भस्मप्रमाणमुक्तम्। तत्र दीक्षितगृहस्थैः सन्ध्यात्रयेऽपि जलसंयुक्तं कार्यम्।
(40)(स्त्रीभिर्यतिभिश्च{40.आगमान्तरसंमतः पाठः.} जलवर्जितं व्रतिवानप्रश्थकन्यकादिभिर्दीक्षाहीनैश्च मध्याह्नात्प्राग्जलसंयुक्तं परतो जलवर्जितं कार्यम्।) एवं भस्मस्नानानुष्ठाने वस्त्रान्तरं परिधायाचामेत्। अपरिधाय वा केवलमाचामेत्।
अथ त्रिपुण्ड्रम्॥
तच्च वर्णानां क्रमेण सप्तप़ञ्चचतुस्त्रयङ्गुलं सर्वेषां वा ललाटे हृदये बाह्वोश्च चतुरङ्गुलं अवयवान्तरेष्वेकाङ्गुलमित्यादिनानागमोक्तपक्षाणां मध्ये पूर्वचार्योक्तं कंचित्पक्षं परिगृह्य ललाटादिषु तर्जनीमध्यमानामिकाभिस्तिसृभिरङ्गुलीभिः कर्तव्यम्। ललाटे मध्यमानामिकाङ्गुष्ठैर्वा कर्तव्यम्। त्रिपुण्ड्रं सान्द्रवलित्रयं व्यक्तं च यथा भवति तथा कर्तव्यम्॥
त्रिपुण्ड्रधारणं च भस्मस्नानं च त्रिवक्त्रं त्रिहस्तं त्रिपदं त्रिणेत्रं (41)(भस्मरूषितं{41.आगमान्तरसंमतः पाठ.} ताण्डवं कुर्वन्तं रौद्रं रक्तपुष्पालङ्कुतं भस्मदेवं ध्यात्वा कर्तव्यम्।) त्रिपुण्ड्रस्थाने कुलाचारप्राप्तं चतुरश्रार्धचन्द्रदीपं त्रिपुण्ड्रान्तरं वा धारणीयम्। सर्वं च पुण्ड्रं केवलभस्मना चन्दनयुक्तभस्मना वा जलसिक्तेन कार्यम्। ललाटे यादृशं पुण्ड्रं हृदयनाभिबाहूदरवक्षस्थलेषु शिवमहेश्वररुद्रविष्णुपितामहदैवत्यं, शिरोललाटगलांसहृदयनाभिपृष्ठेष्वष्टसु स्थानेषु ब्रह्माणीलक्ष्मीविष्णुशिवसूर्याग्निचन्द्रदैवत्यं, शिरोललाटकन्धरावक्षस्थलांसबाहुकूर्परमणिबन्धकुक्षिनाभिपार्श्वयुगपृष्ठेषु षोडशसु स्थानेषु शिवमहेश्वरादिपञ्चकवामादिनवकाश्विद्वयदैवत्यं (42)(शिरोललाटनेत्रकर्णनासावक्त्रगलांसकूर्परस्थानेषु{42.शिरोललाटनेत्रकर्णनासावक्त्रगलंसकूर्परपणिवन्धहृदयपार्श्वनाभिगह्यद्वयस्फिगूरुजानुजङ्घापादरूपेषु द्वात्रिंशत्स्थानेषु अष्टमूर्त्यष्टविधेश्वराष्टदिक्पालाष्टवसुदैवत्यं, करपादाङ्गुलिभिः सह षटत्रिंशत्स्थानेषु शिवशक्तिमहेश्वरसदाशिवशुद्धविद्यामायाविद्याकलारागकालनियति पुरुषप्रकृत्यहंकारबुद्धिमनश्श्रोत्रत्वकूचक्षुर्जिह्वाध्राणवाक्पाणिपादपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशवायुवह्निसलिलपृथिवीभूततत्त्वदेवताकं देशकालाद्य पेक्षया यथासंभवं कर्तव्यम्। इति युक्तः पाठः॥} सिवशक्तिमहेश्वरसदाशशिवशुद्धविद्यामायाकलारागकालनियतिपुरुषप्रकृत्यहङ्कारबुद्धिमनश्श्रोत्र--त्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायपस्थशब्दस्पर्शरूपरसगन्धादिकम्। अथ पृथिवी सलिलादिभूततत्वदैवत्यं देशकालविद्याकलापेक्षया यथासंभवं कर्तव्यम्।) षट्त्त्रिंशत्स्थानपक्षे शिवाद्याकाशान्ततत्त्वानि वृत्ताकाराणि स्फटिकचन्द्रकान्तसूर्यकान्तगोक्षीरविद्रूमहरिताञ्जनेन्द्रायुधेन्द्रगोपमेघपद्मरागविद्रुमेन्द्रनीलकुङ्कुमजपाकुसुमेन्द्रायुधसूर्यकान्तकनकदूर्वाहरिद्राकरवीरकालमेघनीलमणिमौक्तिमेन्द्रायुधसूर्यकान्तकनकदूर्वाहरिद्राकरवीरकालमेघनीलमणिमौक्तिकमाणिक्ककनकस्फटिकवर्णानि; कृष्णं चतुरश्रं वायुं, रक्तं त्र्यश्रं वह्निं, सितमर्धचन्द्राकारं जलं, पीतं चतुरश्रं पृथिवीतत्त्वं चेति विभाव्य हां शिवतत्त्वरूपाय शिवाय नम इत्यादिमन्त्रैस्तत्त्त्स्थानेषु पुण्ड्राणि धारयेत्। एवं पक्षान्तरेऽप्यूहनीयम्। तत्तत्पूर्वाचार(43)प्राप्तानां{43.प्राप्तनानादिव्यागमस्मृतिपुराणाद्युक्तस्थानसंख्यादिव्यान्तरदेवतान्तरयुक्तानि वा-इति युक्तः पाठः.} भस्मत्रिपुण्ड्रं फालाद्युक्तस्थानेषु सर्वान्तरदेवतान्तरयुक्तानि वा पुण्ड्राणि धारणीयानि। इति भस्मधारणप्रकारः॥
रुद्राक्षधारणविधिः
अथ रुद्राक्षधारणम्। तदपि भस्मधारणवत् शिवपूजायां नित्यम् "स्मरारिनेत्रादभवच्छिवपूजार्थ" मित्यारभ्य रुद्राक्षं च ब्राह्मणादिभिर्वीरशैवै (44)र्विशेषेण{44.क्रमेण-पा.} श्वेतरक्तपीतकृष्णवर्णं ग्राह्यम्। उक्तवर्णालाभे वीरशैवैश्चतुर्विधमपि धारणीयम्। रक्तादित्रयं क्षत्रियैः। पीतादिद्वयं वैश्यैः। शूद्रैस्तु कृष्णवर्णमेव धार्यम्। सर्वैर्वा सर्वं यथा लाभं धार्यम्। शिरसि कण्टे कर्णयोर्बाह्वोर्मणिबन्धयोरुरसि च स्वस्वशिरःप्रमाणाद्युचितसङ्ख्याविशेषयुक्तं वा। शिरसि चत्वारिंशत्। कण्ठे द्वात्रिंशत्। कर्णयोः प्रत्येकं षट्। बाह्वोः प्रत्येकं षोडश। मणिबन्धयोः प्रत्येकं द्वादश। वक्ष्यस्यष्टोत्तरशतम्। इत्येवमष्टाचत्वारिंशदधिकशतद्वयसह्ख्याकम्। शिखायामेकमित्येकाधिकं वा। शिखायामेकम्। मस्तके षट्त्रिंशत्। वक्षसि पञ्चाशत्। साष्टशतमुपवीतम्। कण्ठकर्णबाहुमणिबन्धेषु पूर्ववदिति पञ्चनवत्युत्तरद्विशतसङ्ख्याकं वा, शिरस्यष्टोत्तर (45)शतसङ्ख्यानामलाभे{45.शतसंख्या नाब्यन्तमालिकात्रयं-पा.} त्रयम्। कण्ठकर्णबाहुवक्षोमणिबन्धेषु पूर्ववदिति (46)द्व्युत्तरपञ्चशतसङ्ख्याकंवा {46.द्व्यशीत्युत्तर-पा.} धरणीयम्। वज्रमाणिक्यवैडूर्यप्रवालमौक्तिकरूपप़ञ्चरत्नसहितरुद्राक्षधारणं ज्वरग्रहपिशाचमेहकुष्ठभगन्दरकुमारग्रहापस्मारनिवारकम्। मकुटकुण्डलकर्णिकाहारकेयूरकटकोदरबन्धादिषु तद्धारणमपमृत्युविनाशनम्। आयुःश्रीकीर्तिवर्धनमन्यत्र रुद्राक्षधारणम्। शिखायां तद्धारणं कोटिगुणफलम्। शिखायां तद्धारणं कोटिगुणफलम्। कर्णभुजयोरुत्तरोत्तरदशगुणफलम्। हस्तयोरपरिमितफलम्। एकवक्त्ररुद्राक्षस्य शिखायां संगोप्यधारणं ब्रह्महत्यादिदोषशस्त्राग्न्यशनिपातचोरवृष्टिमहाभयहरम्, आयुःश्रीकीर्तिकरम्, भुक्तिमुक्तिकरं सर्वसिद्धिप्रदम्। द्विवक्त्रं गोहत्यादिदोषहंरम्। त्रिवक्त्रं स्त्रीहत्यादिदोषहरम्। चतुर्वक्त्रं अगम्यागमनाभक्ष्याभक्षणदोषहरम्। पञ्चवक्त्रं सर्वपापहरम्। षड्वक्त्रं दक्षिणकरे धृतं भ्रूणहत्याहरम्। सप्तवक्त्रं खर्णस्तेयगोहत्यादोषहरं विषहरं च। अष्टवक्त्रं गुरुतल्पदोषहरं सर्वक्रूरव्यवहारदोषहरं च। नववक्त्रं वामकरधृतं लक्षकोटिमहापातकदोषहरम्। दशवक्त्रं ग्रहपिशाचवेतालब्रह्मराक्षससर्पसिंहव्याघ्रादिभयहरम्। एकादशवक्त्रं शिखायां धृतं सहस्राश्वमेधशतवाजपेयशतसहस्रगोदानफलप्रदम्। द्वादशवक्त्रं कण्ठदेशे धृतं बहुदक्षिणासहितगोमेधाश्वमेधफलप्रदमैश्वर्याभिवृद्धिकारि दंष्ट्रिशृह्गिचोराग्निभयहरं सर्वपापक्षयकरं च। त्रयोदशवक्त्रं अतुलभोगप्रदं रसरसायनधातुवादघुटिकादिसिद्धिकरम्, पितुमातृभ्रातृस्त्रीवधदोषहरं च। चतुर्धशवक्त्रं सर्वकार्यसिद्धिकरं सकलव्याधिपापहरं ज्ञानयोगसिद्धिकरं च। मूर्धभूजकर्णव्यतिरेकेणान्येष्वङ्गेषु क्षयवृद्धिसूतकस्त्रीसङ्गममलमूत्रो त्सर्जनमद्यमांसलशुनपलाण्ड्वादिभक्षणसमयेषु रुद्राक्षधारणं वर्जनीयम्। रुद्राक्षदानकल्पोक्तप्रकारेण तद्दानं सर्ववेदपुराणाध्ययनसर्वयज्ञानुष्ठानसर्वतीर्थाभिगमनफलप्रदं सर्वरोगहरं शतलिङ्गदानशतलिङ्गस्थापनसहस्रशिवभक्तान्नदानसहस्रकन्यादानफलप्रदं पुत्रमित्रादितसकलभोगप्रदं शिवसायुज्यदं प्रतिग्रहीतुरपि शिवभक्तस्य तावत्फलदं च। पौर्णमास्यमावास्यासङ्क्रात्युपरागजन्मनक्षत्रादि पुण्यदिवसेषु रुद्राक्षधारणं सर्वपापक्षयकरम्। पूजाकाले रुद्राक्षधारणम्--ईशानमन्त्रेण शिरसि कार्यम्। कर्णयोस्तत्पुरुषमन्त्रेण, कण्ठादिष्वघोरमन्त्रेण, वक्षसि व्योमव्यापिमन्त्रेण। अतिवर्णाश्रमिणां तु तदेकनिष्ठानां यावज्जीवदीक्षितानां श्रीमद्वीरशैवानां सदातिपरिशुद्धानां सर्वस्यापि कालस्याभ्यार्हितत्वादीशनादिमन्त्रैः पञ्चाक्षरमन्त्रैश्च धृता रुद्राक्षाः सर्वदा धार्याः। सर्वस्यापि कायिकस्य वाचिकस्य मानसिकस्य दुःखस्य वा सुखस्य वा शिवैकसमर्पणीयत्वेन निषेधविषयकालाभावात्। पूजाकाले त्वतिशयितकालत्वाद्विशेषेण धार्याः॥
ननु भस्मधारणरुद्राक्षधारणयोस्तत्तत्प्रकरणनिरूपणीयत्वेन तत्तत्प्रकरणप्रतिज्ञानुसारेण निरूपितत्वाच्छिवपूजाभिधानरूपप्रतिज्ञाविरोधाच्च नात्र निरूपणीये भस्मधारणरुद्राक्षधारणे इति चेन्न, अग्नीनाधास्य इति सङ्गल्पानुरूपेण प्रत्येकं कर्म सोमेन यक्ष्यमाणोऽग्नानाधास्य इति (47)सोमपृर्वाधोने{47.सोमप्रकरणपठिताधानस्य यथा सोमयागाङ्गत्वमपि तद्वदित्यर्थः।} यथा आधानस्य सोमयागाङ्गत्वं तद्वद्भूतिरुद्राक्षधारणं प्रत्येकं कर्म अथ च शिवपूजाङ्गमपीति। किमेतावताध्वगमनेनेति चेदत्रोच्यते; अपूर्वाधानवद्रुद्रक्षाधारणं त्रिपुण्ड्रधारणं च प्रत्येकं कर्म दीक्षाभेदेनानारब्धशिवपूजनेन बालेनापि शिवलाञ्छनधारणमवश्यं कर्तव्यमिति सिद्धान्तीकृत्य प्रत्येकं प्रकरणे निरूपितमपि शिवपूजाङ्गमपीति शिवपूजाप्रकरणे पुनर्निरूपितमिति नात्र शङ्कावकाशलेशः(48){48. शिवपूचाङ्गभूतिरुद्राक्षधारणं केवलबूतिरुद्राक्षधारणं च भिन्नभिन्नम्, अत्र शिवपूजाङ्गस्य विचार इति तात्पर्यार्थः।}॥
ननु यान्यङ्गानि षड्यागादीनि तानि शेषिणा सहैकवाक्यतामासाद्य शेषिणा सन्नियोगशिष्टं कर्म, तथा नाङ्गमन्तराङ्गिनः प्रवृत्तिः, प्रकृते चाकृतशिवपूजारम्भणेन क्रियमाणे भूतिरुद्राक्षधारणे न शिवपूजाङ्गत्वकल्पना युक्तिमती; विनापि शेषिणमङ्गस्यानुष्ठानदर्शनात्प्रकृतेऽङ्गाङ्गित्वापत्तिर्दुर्घटेति चेन्न; सोमेन यक्ष्यमाणोऽग्नीनाधास्य इतिवच्छिवपूजां करिष्यमाणोऽधिकारसम्पत्यर्थं भस्मधारणं रुद्राक्षधारणं च करिष्य इति सङ्कल्पितस्य तस्य अन्यत्वात्। यथा नानाहिताग्निः सोमेऽधिकृतो भवति तद्वदरुद्रलाञ्छनो रुद्रं यष्टुमधिकार्यपि न भवति। शिवो भूत्वा शिवं यजत् इति शिवपूजाङ्गधारणमन्यदेवेति सिद्धान्तः॥
अथ सकलीकरणपद्धतिः
वीरशैवानां गुरुकृतसकलीकरणस्यैवानुदिनमनुस्मरणम्। इतरेषां तात्कालिकं सकलीकरणमिति विशेषः।
अथ करन्यासाङ्गन्यासरूपं सकलीकरणम्। तत्त्रिविधम्। गृहस्थानां सृष्टिन्यासरूपम्, ब्रह्मचारिणां स्थितिन्यासरूपम्, यतिवनस्थानां संहारन्यासरूपम्। वीरशैवानां यथारुचि त्रयमपि। तत्रादौ सृष्टिन्यास उच्यते--करौ चन्दनादिचर्चितौ कृत्वा वामकरत [लांतं]लं तत्पृष्टं च मणिबन्धात्समारभ्य दक्षिणपाणिना हः अस्त्रायफडिति प्रतिमार्जनं (49)मार्जनमावृत्तेन{49.अस्त्रमन्त्रेण द्विः.} मन्त्रेण द्विः प्रमृज्य तेनैव मन्तेरण दक्षिणकरतलं तत्पृष्ठं च वामकरेणैकवारं प्रमृज्य करावामणिबन्धमस्त्रतेजसा व्याप्तौ संचिन्त्य, सम्पुटीकृत्याङ्गुष्ठद्वयमध्येऽमृतरूपं शक्तिमण्डलं ध्यात्वा, तेनामृतेन (50)(तथा{50.हांसक्तये वौषडिति कवचद्गयमाप्लाव्य-पा.} नयनद्वयमाप्लाव्य), योजिताङ्गुष्ठद्वयकर्णिके (51)करसम्पुटकमले{51.करसम्पुटं-पा.} हां शिवासनाय नम इति शिवासनं विन्यस्य (52)हां{52.तन्मध्ये ओं हांहं हौ शिव-पा.} हः शिवमूर्तये नम इति तेजोमयीं (53)स्थिरविद्यां{53.स्थिरविद्युन्निभां सितवर्णां.} तरुणां शिवस्य सूक्ष्ममूर्मिं विन्यस्य, हों ईशानमूर्धाय नम इत्युङ्गुष्ठयोस्तर्जनीभ्यां विन्यस्य, तर्जन्यादिकनिष्ठिकान्तमङ्गुष्ठाम्यां हें तत्पुरुषवक्त्राय नम इत्यादींश्चतुरो मन्त्रान् विन्यस्य, हां हौं विद्यादेहाय नम हत्यङ्गुष्ठं करतलयोरष्टत्रिंशत्कलामयं सदाशिवात्मकं स्थूलं विद्यादेहं विन्यस्य, नेत्रेभ्यो नम इति नेत्रं करतलयोर्विन्यस्य, हां हौं शिवाय नम इत्यङ्गुष्ठानामिकाभ्यां सदाशिवदेहव्यापकं शिवमावाहयेत्। आवाहनं गुरुकृतसामरस्य स्यैव मन्त्रेणा (54)विच्छेदेनानुसन्धानम्{54.विच्छिन्नानु-पा.}। अन्येषां तु तात्कालिकमिति विशेषः। ततः कनिष्ठिकादिषु हां हृदयाय नम इत्यादिनेत्रमन्त्रव्यतिरिक्तान् पञ्च मन्त्रान् क्रमेण विन्यस्य, वामदक्षिण [भुजौ] करौ तदितरकराभ्यां कवचाय नमः इत्यवकुण्ठ्य करद्वयं संयोज्य वौषडन्तमूलेन परमीकुर्यात्। न्यस्तानां हृदयशिरश्शिखादीनां कलानां च भिन्नभिन्नवर्णानामावाहितपरमशिवतेजसातिधवलेन तद्वर्णताप्तिभावनं परमीकरणम्।
ततोऽऽङ्गन्यासं कुर्यात्। दक्षिणाङ्गुष्ठानामिकाभ्यां हां शिवासनाय नम इति देहमध्ये हृदि वा मूलाधारात्समुद्भ्रतं श्वेतं शिवस्यासनपङ्कजं विन्यस्य (55)हं{55.आं हां हां हां-पा.} हां शिवमूर्तये नम इति (मनो) नाभिकन्दादि हृदयादि वा भ्रूमध्यपर्यन्तं तेजोमयीं शिवस्य सूक्ष्ममूर्तिं विन्यस्य मुष्टिं बध्वा, अङ्गुष्ठेनेशानमनत्रं मूर्ध्नि विन्यस्य अङ्गुष्ठयुक्ततर्जन्यादिभिर्वक्त्रे हृदि गुह्ये पादयोश्च तत्पुरुषमनत्रादीन् क्रमेण विन्यस्य (इन्द्रमन्त्रेण) भ्रूमध्यादिब्रह्मरन्ध्रान्तं हां हौं विद्यादेहाय नम इति विद्यादेहं विन्यस्य, (56)नेत्रमन्त्रेण{56.नेत्रमन्त्रं नेत्रेषु.} त्रिषु मध्यमाङ्गुलीभिस्तिसृभिर्विन्यस्य, तस्मिन्नङ्गुष्ठानामिकाभ्यां हां हौं शिवाय नम इति परमशिवमावाहयेत्। ततो (57)हृदयशिरस्स्थिताः{57.हृदयशिरश्शिखास्थानेषु स्वङ्गुष्ठयुक्त कनिष्टिकानां मध्यमाभिः-पा.} शिवस्थानेषु हृदयशिरश्शिखाखङ्गुष्ठकनिष्ठिकानामिकामयध्यमाभिर्विन्यस्य, (58)कर्णप्रावरणत्वेन{58.कण्ठ.}स्तनमध्यान्तं (59)कवचं{58.कवचतर्ज.} तर्जनीभ्यां विन्यस्य, हस्ततलयोरस्त्रमनामि(59)काम्यां{59.काङ्गुष्ठाभ्यां त्रिवारं विन्यसेत्.} विन्यसेत्। सर्वेऽप्येते मन्त्रा नमोन्ताः। अस्त्रमनत्रस्तु (59)फडन्तः{59.हुं फडन्तः.}। नमोहुंफड(न्ता)स्त्रमन्त्रेण तालत्रयपुरस्सरं दिग्बन्धनं कृत्वा कवचेनावेष्ट्य वौषडन्तमूलेन महामुद्रां प्रदर्शयेत्। मस्तकादिपादान्तं हस्ताभ्यां संस्पर्शनं महामुद्रा। ततः शिवसमानरूपतामात्मनश्चिन्तयेत्। इत्थं कृताङ्गन्यासो बद्धपट्ठशिरोवेष्टनमस्तकत्राणकङ्कणकरगृहीतास्त्रभीषणो भट इव क्षुद्राणामप्रधृष्यो भवतीति सकलीकरणं वीरशैवैरभिज्ञैः कार्यमेव॥
अथ सामान्यार्ध्यपात्रमस्त्रमन्त्रेण प्रक्षाल्य बिन्दुस्थानस्रवदमृततया भावितेन शुद्धजलेन हांहृदयाय वौषडित्यापूर्य हां हृदयाय भिरभ्यर्च्य धेनुमुद्रां प्रदर्शयेत्। इदं सामान्यार्ध्यजलं शिवमपहायान्येषां सर्वेषां द्वारपालकादीनां साधारणम्।
अथ द्वारपालकार्चनम्
तस्यायं क्रमः। अस्त्रपञ्चरमध्यस्थमात्मानं (60)भावयान्{60. भावयामि-मृ--पा.} पृथिव्यादिमायान्तमेकत्रिंशत्तत्त्ववर्गं मनसातिलङ्घय शिवपूजामन्दिरं वृत्ताकारं रक्तवर्णं शुद्धविद्यातत्त्वात्मकं भावयन् भोगमोक्षकामः पूर्वद्वारे द्वारपा(61)लमर्चयेत्{61.लानर्च.}। कीर्तिविजयसौभाग्यकामो दक्षिणद्वारे। केवलमोक्षैककामः पश्चिमद्वारे। उदग्द्वारे पूजनं न कार्यम्. सामान्यार्ध्योदकेन द्वारमस्त्रमन्त्रेण संप्रोक्ष्य (प्रथमं) बहिर्द्वारपालानर्चयेत्। तेच गणपत्यादयः। तत्र द्वारस्योर्ध्वोदुम्बरमुखे दक्षिणवामभागयोर्मध्ये च गणपतिसरस्वतीमहालक्ष्म्य उपविष्टाः। वामदक्षिणव्यवस्था च देवमपेक्ष्य द्वारे प्रविशन्तं पूजकमपेक्ष्य वा ग्राह्या। द्वारस्य बहिः प्रदेशे दक्षिणपार्श्वे नन्दी, दक्षिणपार्श्व एव नन्दिन उत्तरभागे गङ्गा, वामपार्श्वे महाकालः वामपार्श्व एव तस्य दक्षिणभागे यमुना च स्थिताः। हां गणपतये नमः श्यामवर्णं (62)दन्ताक्षसूत्रपाशङ्कुशान्{62.ततोऽक्षसूत्र.} पुष्करेण बीजपूरं च धारयन्तं गणपतिं पूजयामि। हां महालक्ष्म्यै नमः श्रीफलकमलाभयवरधारिणीं उभयपार्श्वस्थितगजयुगलहस्तोद्धृतहेमकुम्भामृतधाराभिः रिषिच्यमानां महालक्षीं पूजयामि। हां नन्दिने नमः, उरुणजटामकुटधरं त्रिशूलाक्षमालातर्जनीमुद्गरधारिणं (63)स्थूलमुखं{63.स्यूलमिभम्. स्यूलदेह.} नन्दिनं पूजयामि. हां गङ्गायै नमः, धवलवर्णां मकरवाहनां अमृतकलशचामरधारिणीं गङ्गां पूजयामि। हां महाकालाय नमः। कृष्णवर्णं दंष्ट्राकरालभ्रुकुटिभीषणस्थूलदेहं शूलकपालमुद्गरतर्जनीमुद्राधारिणं महाकालं पूजयामि। हां यमुनायै नमः। श्यामवर्णां कूर्मवाहनां चामरामृतकलशधारिणीं यमुनां पूजयामीति तत्तत्स्थानेषु पूजयेत्। सर्व एते द्वारपाला गह्गायमुने विना त्रिणेत्राः, सर्वे चैते द्वारसमानमुखाः॥
वेदान्तवेद्याखिलविश्वमूर्ते
विभो विरूपाक्ष विषेशशून्य।
विश्वेश्वराशेषविशेषमूल
कवाटमुद्धाटय कालकाल॥
इति श्लोकेन कवाटोद्बाटनप्रार्थनां सज्जिकायां भावयेत्। पूजकोऽस्त्रमन्त्रेण कवाटमुद्धाट्य हौं शिवाय नम इति नेत्रयोर्विन्यस्य दिवि स्थितान् विघ्नान् दिव्यध्यानदृष्टिसन्त्रस्तान् कृत्वा नभोगतान् विघ्नान् तर्जन्यङ्गुष्ठयोगोत्क्षिप्तपुष्पसन्त्रस्नान् भूमिगतान् विघ्नात् दक्षिण [पाद] पार्ष्णिघातत्रयसन्त्रस्तान् कृत्वा अस्त्राय फटिति मन्त्रेण त्रिविधान् विघ्नानुत्सारयेत्। अथ द्वारस्य देहलीशाखां वामां संश्रितो दक्षिणां देहलीमस्पृशन् दक्षिणपादेन शिवमन्दिरं प्रविश्य हां अस्त्राय नमः, अग्निवर्णं चतुर्वक्त्रं शक्तिशूलाभयवरान्वितकरद्वयचतुष्टयं जटामकुटालङ्कुतमर्धेन्दुशेखरं सकलविघ्ननिवारकं अस्त्रराजं पूजयामीति देहलीमध्ये शिवमूर्तेरभिमुखतया स्थितं अस्त्रराजं परावृत्य तदभिमुखः पूजयेत्। ततो द्वारस्याभ्यन्तरे दक्षिणपार्श्वे[ह्रां] हां श्रीनन्दिकेश्वराय नमः रक्तवर्णं त्रिणेत्रं चन्द्रकलालङ्कुतजटामकुटं मृगपरशुनमस्कारमुद्रा न्वितकरचतुष्टयं बाहुमूले वेत्रं कट्यां क्षुरिकां च धारयन्तं भस्मरुद्राक्षधारिणं वानरास्यं नन्दिकेश्वरं पूजयामीति द्वारस्याभ्यान्तरेदक्षिणपार्श्वे पूजयेत्। हां सुं सुयशादेव्यै नमः श्यामवर्णां उत्पलालङ्कृतदक्षिणकरां सुयशादेवीं पूजयामीति द्वारस्याभ्यन्तरे सुयशादेवीं पूजयेत्। ततः शिवं प्रदक्षिणीकृत्य निर्ऋतिकोणे ब्रह्माणं पूजयेत्। पूजा चैतेषां आसनदानावाहन स्थापन सन्निधापन सन्निरोधन पाद्याचमनार्ध्य गन्धपुष्प धूपदीपदानान्तं नैवेद्यताम्बूलदानान्तं वा प्रत्येकं कर्तव्या। अशक्तौ मध्य एव सर्वेभ्यो द्वारपालेभ्यो नम इति गन्धपुष्पादिभिः पूजयेत्।
"द्वारपा देव देवस्य द्वारं रक्षत यत्नतः। निवार्य विघ्न सङ्घातमित्याज्ञा पारमेश्वरी" इति शिवाज्ञां श्रावयेत्. आत्मार्थ पूजायां आगमभेदेन तदभिहितप्रतिषिद्धत्वाद्वैकल्पिकमिति न वैकल्यं तदकरणे, करणेभ्युच्चयः; (64)षोडशिग्रहन्यायेन{64.अतिरात्रे षोडसिनं गृह्वाति नातिरात्रे षोडशिनं गृह्णातीत्यत्र यथा षोडशिग्रहणस्य विहितप्रतिषिद्धत्वाभ्यं विकल्पेनानुष्ठानं तद्वदित्यर्थः।} विकल्प एव॥
अथ पूजोपकरणं सर्वं शिवाग्रे सन्निधाप्य देवस्य दक्षिणभागे आग्नेयभागे वा, उत्तराभिमुखः स्थित्वा रुचिरं स्वस्तिकं वाभ्यस्तमास(नं बध्वा)नमास्थाय-(शोणक्षौमचित्रान्यतमेन चतुर्विंशत्याख्यहस्तमानेन त्रिधासनमास्थाय) पञ्चानामात्मस्थानद्रव्यमन्त्रलिङ्गशुद्धीनां मध्ये प्रथमं आत्मशुद्धिं कुर्यात्। अयमूर्ध्वोदुम्बरादिषु गणपत्यादिपूजाप्रकारो यथोक्तलक्षणशिवमन्दिरसद्भावे आत्मशुद्धेः पूर्वं कर्तव्यः। तच्चैवं विहितम्। गृहस्येशानदिग्भागे शिवामध्यमक्केष्टकामयं शुद्धदारुमयं (मृन्मयं) वा चतुरश्रमायतं वृत्तं वा यज मानमध्याङ्गुलिमध्यपर्वतृतीयपर्वपरिमितं वा त्रिपञ्चसप्तनवत्रयोदशसप्तदश विंशत्येकविंश द्वात्रिंशद्दैर्ध्यरूपोत्तममध्यमाधमभेदभिन्नाङ्गुलिचतुर्विशत्याख्यहस्तमानेन तद्धस्तान्यतमप्रमाणकमेकभूमं द्विभूमं वा चतुर्विंशत्याख्यहस्तमानेन त्रिभूमं वा पूजागारं निर्माय तत्पञ्चधा विभज्य तन्मध्यभागे शिलाशूलसुधे वर्जयित्वा मृण्मयीमिष्टकाचितां वा (65)चतुष्कोणहस्तोभयाङ्कां{65.चतुष्कोणस्तम्भयुक्तां स्तम्भरहितां वा-पा.} वा षोडशाङ्गुलोत्सेधां वा अष्टाङ्गुलोत्सेधां वा वेदिकां विरचय्य तदुपरि पश्चिमभागे एकतालविस्तारायामं पञ्चाङ्गुलोत्सेधं गर्भगृहस्थानीयदेशं तस्य पूर्वभगे तादृशायामविस्तारोत्सेधमर्घपण्डपस्थानीयं देशं च कृत्वा तस्य पूर्वबागे पञ्चतालायामं चतुस्तालविस्तारमष्टाङ्गुलोत्सेधं बेरमण्टपस्थानीयदेशं च कल्पयेत्। तत्र गर्भगृहम्थानीयदेशे सौवर्णं राजतं ताम्रं दारुमयं वा चतुरश्रमायतं वृत्तं वा सज्जिकाभिधपैटकं कल्पयेत्। बेरमण्टपस्थानीयदेशे द्विहस्तायतमेकहस्तविस्तृतं द्वादशाङ्गुलोच्छ्रायं वा कमलभूषितपेटकं विन्यस्य (66)तदुपरि{66.तदुपरिननमनीतन्मानामप्रसार्य-पा.} नमनीं तन्मानां(ना)प्रसार्य तन्मध्ये गजदन्तादिनिर्मितं पीठं विन्यस्य तदुपरि सुवर्णादिरचितं पद्मपीठं पश्चिमभागरचितप्रभामण्डलसहितं पूर्वाभिमुखं स्थापयेत्। अस्मिन् पक्षे ऊर्णासूत्रत्रयेण परिवीय "पवित्रं ते विततं ब्रह्मणस्पते। प्रभुर्गात्राणि पर्येपि विश्वतः। अतप्ततनूर्नतदामोअश्नुते। शृतास इद्वहन्तस्तत्समाशत" इति जपति। अयं दिव्यागमोक्तपक्षः। (67)करपीठाख्यमुख्यपक्षे{67.परपीठाख्य-पा.} तु मानसमेवेदं सर्वमिति विशेषः। पूजामण्टपं च प्रकीर्णकुसुमामोदचन्दनचर्चावितानमुक्ता (68)दामध्वजषताकादर्पण{68.मुख्य-पा.} प्रदीपादिभिरलङ्क्रत्येति। एवंविधपूजामण्टपाभावे शिवपूजास्थानमेव तादृशपूजामण्टपं मनसा भवायित्वा शिवपीठसमीपोपविष्टः (शिव एव) तत्रैव द्वारपालार्चनमात्मशुध्देः पूर्वं पश्चाद्वा कुर्यात्॥
इति द्वारपालार्चनविधिः
नन्वेतत्सर्वमसङ्गतम्। पशुर्जीवः, पतिः परमेश्वरः, तदुभयातिरिक्तजडाजडप्रपञ्चाजालं पाशः, तत्र पतिशब्दवाच्यः परमेश्वर एक एव पूज्यः प्रपत्तव्यो ध्यातव्यः श्रोतव्य इति। तत्र "एकमेवाद्वितीयं"इति श्रुतिपर्यालोचनया शिवव्यतिरिक्तस्य सर्वस्य देवतान्तरस्य पशुशब्दवाच्यत्वेनाध्यवसाय एव वीरशैवत्त्वमिति शिवव्यतिरिक्तद्वापालार्चनं न सङ्गतमिति चेन्न, नन्दिकेश्वरादिद्वारपालानां शिवविभूतिविशेषत्वेन (69)एक{69.एक एव हि भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत्। इति श्रुतेरर्थानुवादः।} एवानेकधा वर्तत इति श्रुत्यनुरोधाच्च। तदेकतानत्वरूपवीरशैवत्वं च तदितरदेवतान्तरतद्भजकभजनातिरेकः। प्रकृते च द्वारपालानां शिवैकाज्ञापरिपालकत्वेन तेष्वपि शिवाभेदबुद्धिरेव कार्या। तथैवागमान्तरैकवाक्यतायां प्रतिभाति। जङ्गममूर्तीनां शिवमूर्त्यभेदप्रति(70)पत्तिं, {70.पत्ते-पा.} स्वेष्टलिङ्गापेक्षया जङ्गमप्राबल्यं च वर्णितम्। नन्दिकेशादिशिवगणभजनस्यागमान्तरेषु बहुशः प्रतिपादनाच्च द्वारपालार्चनं यद्यदुक्तं तत्सर्वं कार्यमिति सिद्धान्तः॥
ननु धेनुमुद्रादिपूजाङ्गमुद्रादीनां हस्तद्वयव्यापारसाध्यत्वेन पीठान्तरावस्थानं वाच्यम; अङ्गीकृते च तस्मिन् प्राणलिङ्गविच्छेदः स्यात्, अतः कथमेतदुपपद्यतामिति चेत्--वातुलोत्तरे रथादि सुवर्णैरेव निर्माय तस्मिन्निष्टलिङ्गस्थापनपुरस्सरं शिवपूजा, ऊर्णासूत्रेण चान्वारम्भः, तत्र च `पवित्रं त' इति वैदिको मन्त्रो हृदयमन्त्रेण नमोऽन्तेन सहित इति बहुशः प्रतिपादनात्॥
अथवा पूजायां मानसधर्मस्यैव वैशेष्यात्सर्वं मानसमेवेति सर्वं समञ्जसम्॥
अथाभिधीयते सम्यङिनगमागमदर्शितः।
शिवपूजाविधिः स्पष्टमुपदेशे चतुर्दशे।
आदौ शैवस्त्रिधा प्रोक्तः सामान्यः प्रथमः स्मृतः।
विशेषस्तु द्वितीयः स्यान्निराभारस्तृतीयकः॥
त्रिधैवं वीरशैवः स्यादथ केवलवैदिकः।
वेदागमानुसारी च तन्त्रागमविशारदः॥
अभक्तो वाथ भक्तो वा विधदीत शिवार्चनाम्।
अभक्तश्चेद्भक्तिमेति भक्तः सायुज्यमेति च॥
भक्तोऽपि द्विविधः प्रोक्त एकतानश्च तन्द्रितः।
तन्द्रितो मूलमन्त्रेण शिवभक्त्यार्चयेच्छिवम्॥
तन्मात्रेण स सन्तुष्टः क्रमात्सायुज्यदायकः।
अथ भक्तस्त्वेकतानः शिवभक्तोत्तमोत्तमः॥
निगमागमपन्थानमाश्रित्य शिवपूजकः।
यादृसे पूजने यस्य भक्तिरव्याहता भवेत्॥
तादृशी तेन वै पूजा कार्या स्वविभवैरनु।
दारिद्र्यं पूजने नैव कार्यं मनसि पूजकैः।
स्वमनोविभवेनैव यजेत्साम्बं त्रिलोचनम्।
पूजको यदि सम्पन्नो धनलोभेन पूजयेत्॥
न पूजाफलमाप्नोति स दरिद्रो नरः स्मृतः।
शिवार्चने यस्य मनः स्वधनैः स्वजनैर्युतम्॥
स सम्पन्नो भवेद्भक्तः शिवार्पितधनः स्वयम्।
शिवानुकूला ये मर्त्याः स्वजना इति तान्वदुः॥
नानुकूला जना ये तु न स्वीयास्ते जना इति।
द्विव्यागमोक्तरीत्याहं मनोनैर्मल्यसाधनम्॥
देहात्मशुद्धिमन्वक्षं वदन्वक्ष्ये शिवार्चनाम्।
अथात्मशुद्धिः। सा द्विविधा। पूजकजीवस्य (71)सिवभावापादनात्मिका{71.शिवपूजाभावापादन-पा.} जीवशुद्धिरूपा, पूजकजीवस्य शिवदेहत्वापादनात्मिका देहशुद्धिरूपा च। तत्रायं जीवशुद्धिप्रकारः। त्रिः प्राणानायम्य देहान्तर्गतमशुद्धं वायुं रेचकप्राणायामेनास्त्रमन्त्रेणोत्सार्य बाह्यवायुनोदरं प्रपूर्य पादाङ्गुष्टद्वयादारभ्य यावन्मूलाधारं द्विधाभूतां तत ऊर्ध्वमाब्रह्मरन्ध्रान्तमेकीभूतामधोमुखैः पद्ममुकुलैर्युक्तां शरीरान्तरालेऽतिसूक्ष्मां विद्युल्लेखामिव भास्वरामन्तःसुषिरयुक्तां सुषुम्नानाडीं संचिन्त्य, तन्मध्ये द्वूमिति शिखाबीजं ज्यलन्तं संचिन्त्य, हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रेष्वधोमुखतया स्थितानि पद्ममुकुलानि (72)पूरककुम्भकरेचकैर्विकसितोत्तम्भितोर्ध्वमुखीकृतानि{72.पूरककुम्भकाभ्यां इत्येव भवितव्यम्, अनुपदमेव वायुं विरेचयेत् इति विरेचनस्य वक्ष्यमाणत्वात्.} भावयित्वा मूलाधारप्रदेशे दीपशिखावज्ज्वलन्तं हूंकारं प्रतिनिवृत्य वायुं विरेचयेत्। पुनरपि हूंकारमन्त्रं मूलाधारे ध्यायन्पूरकवायुनोपसंहृतसर्वशरीरव्यापकचैतन्यं हृत्पङ्कजाश्रितं पुर्यष्टकरूपसूक्ष्मदेहान्वितं जीवं पुर्यष्टकादादाय स्फुरत्तारकाकारमतिसूक्ष्ममेकाकिनं हां इति हृदयबीजं संपुटितं कृत्वा हूंकारं मूर्ध्नि निवेश्य कुंम्भकं कृत्वा वायुमूर्ध्वं प्रवर्तयन् संहारमुद्रया तमादाय द्वादशान्तपर्यन्तं नीत्वा तदुपरि स्थिते परमशिवे योजयेत्। एवं च जीवः स्थूलसूक्ष्मवर्धकदेहोपाधि(73)निर्मुक्तः{73.निर्मुक्तः शिवसायुज्यं निर्मलज्ञानक्रियाशक्तियुक्तं भवति-पा.} शिवसायुज्यान्निर्मलज्ञानक्रियाशक्तियुक्तः शुद्धो भवति॥
यद्वा जीवं द्वादशान्तपर्यन्तं नीत्वा हृदयकमल एव शक्तिमण्डलसंपुटितं कृत्वा (74)भूतशुद्धिं{74.भूतशुद्धिसमयकर्तव्यदेहदाहतो रक्षेत्.} (75)कुर्यात्{75.कर्तव्यम्। देहतां गतो रक्षेत् पाठः। अत्र--बूतशुद्धिं कृत्वा देहव्यापकं रक्षेत् इति ग्रन्थेन भाव्यम्.}। तत्रायं क्रमः--हृत्कमलकर्णिकोपरि हां सूर्यमण्डलाय नमः। हां सोममण्डलाय नमः। हां अग्निमण्डलाय नमः। हां शक्तिमण्डलाय नमः। इति विन्यस्य हां हं हां आत्मने नमः इति देहव्यापकं जीवात्मानमादायोपसंहृतव्यापकरूपं स्फुरत्तारकाकारं संचिन्त्य तं शक्तिमण्डलस्योपरि विन्यस्य तस्योपरि च शक्तिवह्निसोमसूर्यमण्डलानि क्रमेण विन्यस्योर्ध्वाधस्स्थितशक्तिमण्डलद्वयविनिस्सृतामृतपूरपरिप्लुतं भावयेत्। एवं जीवस्य रक्षामात्रं कर्तव्यम्। तस्य दीक्षाकाल एव शुद्धत्वात् प्रतिदिवसं पूजासमये शुद्धिर्नापेक्षितेति॥
अथ देहशुद्धिः। सा द्विविधा। सूक्ष्मदेहशुद्धिः स्थूलदेहशुद्धिश्चेति। तत्र शब्द-स्पर्श-रूप-रस-गन्ध-बुध्द्य-हह्कार-मनो-रूप पुर्यष्टकात्मकसूक्ष्मशरीशुध्यर्यं हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रस्थितेषु ब्रह्मादिषु कारणपुरुषेषु ब्रह्मणि शब्दस्पर्शौ प्रविलापयामि, रसं विष्णौ प्रविलापयामि, रूपगन्धौ रुद्रे प्रविलापयामि, बुद्ध्यहङ्कारावीश्वरे प्रविलापयामि, मनः सदाशिवे प्रविलापयामि इति सूक्ष्मशरीरांशान् शब्दादीन् प्रविलापयेत्। ततः स्थूलशरीरशुध्द्यर्थं स्वशरीरे पादादिद्वादशान्तपर्यन्तस्थानेषु स्थितानि (वक्ष्यमाणस्थानाति) वक्ष्यमाणस्थानाकृतिरूपादियुक्तानि पञ्चमहाभूतानि ध्यात्वा पृथिवीमप्सु प्रविलापयामि, आपोऽग्नौ प्रविलापयामि, अग्निं वायौ प्रविलापयामि, वायुमाकाशे प्रविलापनयामि, आकाशं पराशक्तौ प्रविलापयामि, पराशक्तिं परशिवे प्रविलापयामीति भावयेत्। इयं स्वकारणेषु पृथिव्यादिप्रविलापनरूपा भूतशुद्धिः। अन्या तत्तद्गुणक्षपणादिरूपा भूतशुद्धिः। गुणक्षपणरूपा च द्विविधा। प्रत्येकशोधनरूपा परस्परशोधनरूपा च। तत्राद्या यथा--पादादारभ्य जानुपर्यन्तं चतुरश्रं पीतवर्णं कठिनस्वभावं वज्रलाञ्छिनं हामिति हृदयबीजेन पार्थिवबीजसहितेन युक्तं ब्रह्मणा कारणेश्वरेणाधिष्ठितं निवृत्तिकलारूपं पार्थिवमण्डलं भावयामीति विचिन्त्य, ह्रां निवृत्तिकलायै हुंफडिति मन्त्रेण पञ्चभि(76)रुद्धातैः{76.रुत्सारितैः-पा.} पृथिव्या गन्धरूपरसस्पर्शशब्दगुणानुत्सारयेत्। ततो जान्वादिनाभिपर्यन्तमर्धचन्द्राकारं श्वेतवर्णं द्रवस्वबावं पद्मलाञ्छितं हीं इति शक्तिबीजेनाप्यबीजसहितेन युक्तं विषणुना कारणेश्वरेणाधिष्ठितं प्रतिष्ठाकलारूपमाप्यमण्डलं बावयामीति विचिन्त्य हीं प्रतिष्ठाकलायै हुं फडिति मन्त्रेण चतुरुद्धातैरपां रसरूपस्पर्शशब्दगुणानुत्सारयेत्। ततो नाभ्यादिकण्ठपर्यन्तं त्र्यश्रं रक्तवर्णं पचनस्वभावं स्वस्तिकलाञ्छितं ह्रूं इति शिकामन्त्रेणाग्निबीजसहितेन युक्तं रुद्रेम कारणेश्वरेणाधिष्ठितं विद्याकलारूपमग्निमण्डलं भावयामीति विचिन्त्य ह्रूं विद्याकलायै हुं फडिति मन्त्रेण त्रिभिरुद्धातैरग्निगतान् रूपस्पर्शशब्दानुत्सारयेत्। ततः कण्ठदिभ्रूमध्यपर्यन्तं षडश्रं कृष्णवर्णं चलनस्वभावं षड्बिन्दुलाञ्छितं ह्रैमिति कवचमन्त्रेण वायुबीजसहितेन युक्तं महेश्वरेण कारणपुरुषेणाधिष्ठितं शान्तिकलारूपं वायुमण्डलं भावयामीति संचित्य ह्रौं शान्तिकलायै हुं फडिति मन्त्रेण द्वाभ्यामुद्धाताभ्यां वायोः स्पर्शशब्दगुणावुत्सारयेत्। ततो भ्रूमध्यादिद्वादशान्तपर्यन्तं वृत्ताकारं धूम्रवर्णमाकाशस्वभावं बिन्दुशक्तिलाञ्छितं ह्रः इत्यस्त्रमन्त्रेण संयुक्तं सदाशिवेन कारणेश्वरेणाधिष्ठितमाकाशमण्डलं भावयामीति संचिन्त्य हौं शान्त्यतीतकलायै हुं फटिति मन्त्रणैकोद्धातेनाकाशस्य शब्दगुणमुत्सारयेत्। ततो ब्रूमध्यादिद्वादशान्तपर्यन्तं वृत्ताकारं धूम्रवर्णमाकाशस्वभावं बिन्दुशक्तिलाञ्छितं ह्रः इत्यस्त्रमन्त्रेण संयुक्तं सदाशिवेन कारणेश्वरेणाधिष्ठितमाकाशमण्डलं भावयामीति संचिन्त्य ह्रौं शान्त्यतीतकलायै हुं फडिति मन्त्रणैकोद्धातेनाकाशस्य शब्दगुणमुत्सारयेत्। एतानि पृथिव्यादिमण्डलानि हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रगतानि वा विभाव्य विशोधयेत्। इति प्रत्येकशोधनप्रकारः। परस्परशोधने त्वयं विशेषः। सर्वाणि पृथिव्यादिमण्डलानि तत्तच्छोधनसमये पादादिमूर्धान्तव्यापकानि भावयेत्। पृथिवीशोधने तद्गुणपञ्चकोत्सारणानन्तरं पृथिवीं स्वविरुद्धवाय्वभिभूतां वाय्वाकारापन्नां, वायुशोधनसमये वायुं स्वविरुद्धपृथिव्यभिभूतं पृथिव्याकारापन्नं च भावयेत्। एवं जलानलावपि तत्तद्गुणोत्सारणानन्तरं स्वविरुद्धानलजलाभिभूतावनलजलाकारापन्नौ भावयेत्। आकाशगुणोत्सारणानन्तरमाकाशं नित्यत्वव्यापकत्वशुद्धत्वादितद्विरुद्धगुणयुक्तपराशक्त्यात्मकपराकाशाभिभूतं तदाकारापन्नं शुद्धस्फटिकनिर्मलं भावयेदिति। इत्थं महाभूतानां प्रत्येकशोधनेन परस्परशोधनेन वा गुणक्षयात् क्षीणशक्तिकस्य भूतसमुदायात्मकस्य शरीरस्य शोधनं विभाव्य पादाङ्गुष्ठस्थितेन शिवशक्त्यधिष्ठितेन कालाग्निना (77)हः{77.हुं अथवा हं-पा.} अस्त्राय हुंफडिति मन्त्रेण शरीरं दग्धं निरवशेषं निवृत्त्यादिकलामात्रशेषं शरीरगतदोषमात्रं (78)वक्तव्यरूपं {78.वक्तव्यं रूपं, वा दग्धं भावयित्वा-पा.} भावयित्वा द्वादशान्तस्थितशक्तिमण्डलस्रवदमृतवर्षेणाप्लावयेत्। एवं शरीरशोषार्थं उक्तप्रकारं शरीरारम्भकबूतगुणोत्सारणं कृत्वा, स्थूलशरीरं पृथिव्यादिपञ्चबूतबीजं मायाक्षेत्रविनिक्षिप्तं धर्माधर्ममूलं इन्द्रियशाखोपशाखं शब्दादिविषयालोचनपल्लवं प्रपञ्चकुसुमं सुखदुःखफलं पुरुषविहङ्गोपभोग्यमूर्ध्वमूलमधश्शाखं वटवृक्षं विभाव्य प्राणायामं कुर्वन्, षण्मात्रेण पूरकपूर्वार्धेन हामित्युच्चारपञ्चकयुक्तेन पत्रपुष्पफलरहितं स्तब्धं विचिन्त्य, पूरकापरार्धेन हीमित्युच्चारचतुष्टययुक्तेन स्निग्धपत्रपुष्पफलोपेतं विभाव्यैकस्मिन्नेवोद्धातेन द्वादशमात्रेण कुम्भकेन ह्वूमित्युच्चारत्रययुक्तेन सव्यपादाङ्गुष्ठेन कालाग्निना शुष्कं दग्धं च विभाव्य रेचकपूर्वार्धेन ह्रैमित्युच्चारद्वययुक्तेन भस्मीभूय दिक्षु विप्रकीर्णं विभाव्य रेचकापरार्धेन ह्रौमित्येकोच्चारयुक्तेन स्फटिकनिर्मलं शुद्धव्योमरूपं चिन्तयित्वाऽमृत्नाप्लावयेत्। एवं देहदाहं कृत्वा यथोक्तसङ्ख्यैरुद्धातैस्तत्तद्गुणोत्सारणपर्यन्तामेव वा, गुणोत्सारणभावनां विना पृथिव्यादिकं बन्धकत्वान्निवृत्तं भवति इत्यनुसन्धानपूर्वकं तत्तत्स्थानेषु वायुमनोधारणापर्यन्तामेव वा भूतशुद्धिं कुर्यात्। उद्धातशब्देन उद्धन्यतेऽनेनेति व्युत्पत्या भूतगुणानां तदशुद्धेर्वोत्सारणसाधनमुच्यते। तत्तत्कलामन्त्रोच्चारणपूर्वकं पूरकं कृत्वा सुषुम्नया यावद्द्वादशान्तं प्राणवायोरूर्ध्वप्रवर्तनरूपं कर्म, तच्च पूरकं कृत्वा कुम्भककाले प्राणवायोरूर्ध्वं प्रेरणं कृत्वा तं प्रतिनिवर्त्य दक्षिणनाड्या तद्रेचनपर्यन्तमअ। एवं चैकैकस्मिन्नुद्धाते पूरकाद्यास्त्रयस्त्रयः प्राणायामा इति पृथिव्यां पञ्चानामुद्धातानां पञ्चदश प्राणायामाः सम्पद्यन्ते। जलादिषु द्वादश नव षट् त्रयश्च भवन्ति। एकैकस्मिंश्च रेचकादिरूपे प्राणायामे द्वादश द्वादशमात्राकालास्त्रयः। ततश्चैकैकोद्धातः षट्त्रिंशन्मात्राकालो भवति। यद्वा (धारणार्थे) पूरणार्थे कुम्भकप्राणायाम एव द्वादशमात्राकालनियमः। पूरकरेचकयोर्यथासंभवं कालो ग्राह्यः। जानुमण्डलमद्रुतमविलम्बितमकवारं प्रदक्षिणीकृत्याङ्गुलिस्फोटकालो मात्राकालः। त्रिःप्रदक्षिणीकृत्याङ्गुलिस्फोटकाल इति तु सिद्धान्तशेखरादिषूक्तम्। पूरकरेचकयोर्यथासंभवं कालो ग्राह्यः। जानुमण्डलमद्रुतमविलम्बितमेकवारं प्रदक्षिणीकृत्याङ्गुलिस्फोटकालो मात्राकालः। त्रिःप्रदक्षिणीकृत्याङ्गुलिस्फोटकाल इति तु सिद्धान्तशेखरादिषूक्तम्। अयं च कनिष्ठो मात्राकालः। द्विगुणो मध्यमः। त्रिगुण उत्तमः। इत्थं कालविशेषावच्छिन्नप्राणवायुप्रवर्तनात्मकमुद्धातमनपेक्ष्य तत्तद्गुणसमसङ्ख्यकलामन्त्रोच्चारणेन तत्तद्गुणोत्सारणानुसन्धानरूपां वा, एकवारं तत्तत्कलामन्त्रोच्चारणेन तत्तत्कलातत्त्वभुवनवर्णपदमनत्रयुक्तानां पार्थिवमण्डलादीनां स्वात्मानं प्रति प्रतिबन्धकत्वनिवृत्त्यनुसन्धानात्मकपाशच्छेदमात्ररूपां वा भूतशुद्धिं कुर्यात्॥
पार्थिवादिमण्डलानि च निवृत्तिप्रतिष्ठाविद्याशन्तिशान्त्यतीतकलामयानि शरीरे पादादिजान्वादिनाभ्यादिकण्ठादिभ्रूमध्यादि च स्थितानि, हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्राश्रितानि वा शतयोजनपरिमाणमारभ्योत्तरोत्तरदशगुणपरिमाणानि चतुरश्रार्धचन्द्रत्रिकोणषडश्चवृत्तरूपाणि वज्रपद्मद्वयस्वस्तिकषड्बिन्द्वेकबिन्दुलाञ्छितानि पीतरक्तश्वेतकृष्णधूम्रवर्णानि कठिनद्रवोष्णचलनावकाशस्वभावानि गन्धादिपञ्चचतुस्त्रिद्व्येकगुणानि ब्रह्मविष्णुरुद्रेश्वरसदाशिवाधिष्ठितानि बिन्दुयुक्तलकारवकाररेफयकारहकाररूपैः पार्थिवादिबीजैर्युक्तानि भावनीयानि। तत्र निवृत्तिकलायां पृथिवीतत्त्वमेकमष्टोत्तरशतं भुवनानि ककार एको वर्णः, अष्टाविंशतिपदानि सद्योजातहृदयाख्यौ द्वौ मन्त्रौ। प्रतिष्ठाकलायां जलादिप्रकृत्यन्तानि त्रयोविंशतितत्त्वानि पट्पञ्चाशद्भुवनानि खादिमान्ताश्चतुर्विंशतिवर्णा द्वात्रिंशत्पदानि वामदेवशिरस्समाख्यौ द्वौ मन्त्रौ। विद्याकलायां पुरुषादिमायान्तानि सप्ततत्त्वानि सप्तविंशतिर्भुवनानि यादिसान्ताः सप्त वर्णा एकविंशतिपदानि अघोरशिखाख्यौ द्वौ मन्त्रौ। शान्तिकलायां शुद्धविद्या महेश्वरश्चेति द्वे तत्त्वे अष्टादशभुवनानि हक्षौ वर्णौ द्वादशपदानि, पुरुषकवचाख्यौ द्वौ मन्त्रौ। शान्त्यतीतकलायां सदाशिवः शक्तिश्चेति द्वे तत्त्वे, पञ्चदशभुवनानि, स्वराः षोडष वर्णाः, एकं पदम्, मूलेशानास्त्राख्यास्त्रयो मन्त्राः। एवमेकादशमन्त्रात्मको मन्त्राध्वा। व्योमव्यापी मन्त्रगतचतुर्नवतिपदात्मकः पदाध्वा। अनाश्रितादिद्वाविंशत्युत्तरद्विशतभुवनात्मको भुवनाध्वा। पञ्चाशद्वर्णात्मको वर्णाध्वा। निवृत्त्यादिपञ्चकलात्मकः कलाध्वा। एवं सकलाध्वगर्भाणि पृथिव्यादिमण्डलानि विबावनीयानि। यद्वा संक्षेपेण सर्वाध्वगर्भत्वं विभावनीयम्। तद्यथा--सद्यादिपञ्चमन्त्रात्मको मन्त्राध्वा। जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीतरूपपञ्चावस्थात्मकः पदाध्वा। पदादि हृदयादि वा पार्थिवमण्डलादिस्थापनपञ्चकरूपो भुवनाध्वा। अकारादिवर्णत्रयबिन्दुनादान्मको मूलमन्त्रपञ्चवर्णात्मको वा वर्णाध्वा। पञ्चकलात्मकः कलाध्वेत्येवं वा सर्वाध्वगर्भाणि विभाव्य (78)प्रागुक्तप्रकारेष्वन्यतमेन{78.प्रागुकप्रकारेण संस्थानवर्णस्वभावलाञ्छनबीजमात्रयुक्तानि वा विभाव्य शोधनीयानि.} प्रकारेण शोधनीयानि। सर्वाध्वगर्भत्वं विना प्रागुक्तप्रकारेण संस्थानवर्णस्वभावलाञ्छनबीजयुक्तानि विभाव्य शोधनीयानि॥
एवं पृथिव्यादिप्रविलापन(79)रूपा,{79.न पूर्वतद्गुण-पा.} तत्तद्गुणेपणेन देहदाहरूपा, देहगतबाह्याभ्यंतरदोषमात्रदाहरूपा, गुणक्षपणं विना केवलदेहदाहरूपा वा, दाहं विना केवलतत्तद्गुणक्षपणरूपा, बन्धकत्वनिवृत्त्यनुसन्धानात्मकपाशच्छेदमात्ररूपा च भूतशुद्धिः॥
सर्वाप्येषा सोद्धाता निरुद्धाता चेति द्विविधा। तत्तद्गुणक्षपणं च प्रत्येकशोधनरूपं परस्परशोधन(80)मात्रं{80.मात्रेण चेति-पा.} चेति द्विविधम्। सर्वाध्वगर्भत्वेन संस्थानं च द्विविधम्। सर्वाध्वगर्भत्वचिन्तनं च प्रपञ्चेन संक्षेपेण चेति द्विविधम्। एवमुक्तप्रकारासु भूतशुद्धिषु पूर्वाचारदेशकालाद्यनुसारेण या काचिद्भूतशुद्धिरनुष्ठेया। एवं भूतशुध्द्यात्मिका देहशुद्धिरुक्ता॥
तत्त्वशुध्द्यात्मिकां वा देहशुद्धिं कुर्यात् यथा--प्रकृत्यहङ्कारबुद्धिमनश्श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशवायुवह्निसलिलभूतत्त्वरूपमशुद्धमात्मतत्त्वं स्थूलदेहं, मायाकलाविद्यारागकालनियतिपुरुषतत्त्वरूपं शुद्धाशुद्धं विद्यातत्वं सूक्ष्मदेहं, शिवशक्तीश्वरसदाशिवशुद्धविद्यातत्त्वरूपं शुद्धं शिवतत्वं परदेहं च विभाव्य, स्थूलदेहं सूक्ष्मदेहे तं परदेहे च प्रविलायेत्। उक्तप्रकाराणामन्यतमशोधनानुष्ठानानन्तरं हौं शान्त्यतीतकलायै नम इत्यादिभिर्मन्त्रैः सूक्ष्मपञ्चकलामयस्य सूक्ष्मशरीरस्य सृष्टिं (81)शान्त्यतीतकलामन्त्रैरेव{81.शान्तिकलामन्त्रैरेव. पञ्चभिः कलामन्त्रैरेव-पा.} स्थूलपञ्चकलामयस्य स्थूलदेहस्य सृष्टिं च तत्तध्दूंसनपक्षे विभाव्य, हां शक्तये वौषडिति शक्तिमण्डलस्रुतामृतधारयाऽऽप्लावयेत्। ततो हृत्कमलकर्णिकायां हां आधारशक्तये नमः, हां धर्मय नमः, हां ज्ञानाय नमः, हां वैराग्याय नमः, हां ऐश्वार्याय नमः, हां पद्माय नमः, इति मध्याग्नेयादिकोणचतुष्टयमध्येषु षड्विधमासनं विन्यस्य तत्र स्थूलसूक्ष्मदेहात्मिकामविभक्तकरचरणादिरूपां मूर्तिं हां आत्ममूर्तये नमः इति विन्यस्य, हौं विद्यादेहाय नम इत्यष्टत्रिंशत्कलामयं सदाशिवरूपं ध्यात्वा, हां शिवाय नम इति द्वादशान्तस्थपरमशिवसायुज्यं निर्मलं ज्ञानक्रियाशक्तिकं यजमानमूर्तिरूपं जीवात्मानं तत्रावाह्य, हृदयादिस्थानेषु हृदयादिमन्त्रान् विन्यस्य, मूलेन परमीकृत्य, वौषडन्तशक्तिमन्त्रैण द्वादशान्तस्थितशक्तिमण्डलस्रुतबहुलामृतधारयाभिषिञ्चेत्। ततो दण्डमुण्डकलाश्रीकण्ठादिन्यासान् कुर्यात्॥
तत्रायं क्रमः--शिवासनं अव्यक्तां शिवमूर्तिं च हृदये न्यसेत्। हों ईशानमूर्धाय नम इति समुष्टिकाङ्गुष्ठाग्रेण मूर्ध्नि, हें तत्पुरुषवक्राय नम इत्यङ्गुष्ठतर्जनीभ्यां मुखे, हुं अघोरहृदयाय नम इत्यङ्गुष्ठमध्यमाभ्यां हृदये, हिं वामदेवगुह्याय नम इत्यङ्गुष्ठानामिकाभ्यां गुह्ये, हं सद्योजातमूर्तये नम इत्यङ्गुष्ठकनिष्ठिकाभ्यां पादे, हों ईशानायोर्ध्ववक्राय नमः, हें तत्पुरुषाय पूर्ववक्राय नमः, हुं अघोराय दक्षिणवक्राय नमः, हिं वामदेवायोत्तरवक्राय नमः, हुं अघोराय दक्षिणवक्राय नमः, हिं वामदोवायोत्तरवक्राय नमः, हं सद्योजाताय पश्चिमवक्राय नम इत्यूर्ध्व पूर्वदक्षिणोत्तरपश्चिमवक्रस्थानेषु पूर्वोक्तप्रकारेण तत्तदङ्गुलिभिर्न्यसेयुः॥
एवं दण्डवक्रभङ्गिन्यासानन्तरं सशक्तिकाः कला शक्तिरहिता वा वक्ष्यमाणस्थानेषु त्रैवर्णिका न्यसेयुः। तदितरे शक्तिभिरेव न्यसेयुः। यथा हों शशिन्यै नमः, हों अङ्गदायै नमः, हों इष्टदायै नमः, हों मरीच्यै नमः,। हों ज्वालिन्यै नमः, इत्यूर्ध्वपूर्वदक्षिणोत्तरपश्चिममूर्धसु समुष्टिकाङ्गुष्ठाप्रमुद्रया न्यसेत्। हें शान्त्यै नमः, हें विद्यायै नमः, हें प्रतिष्ठायै नमः। हें निवृत्त्यै नमः, इति पूर्वदक्षिणोत्तरपश्चिमवक्त्रेषु अङ्गुष्ठतर्जनीभ्यां न्यसेत् हुं तमायै नमः, हुं मोहायै नमः, हुं क्षुधायै नमः, हुं निद्रायै नमः, हुं मृत्यवे नमः, हुं मायायै नमः, हं भयायै नमः, हुं तारायै नमः, इत्यङ्गुष्ठमध्यमाब्यां हृत्कण्ठबाहुद्वयनाभिजठरपृष्ठवक्षस्सु न्यसेत्। हिं रजायै नमः, हिं रक्षायै नमः, हिं रत्यै नमः, हिं पाल्यै नमः, हिं कामायै नमः, हिं संयमायै नमः, हिं क्रियायै नमः, हिं बुध्द्यै नमः, हिं कार्यै नमः, हिं धात्र्यै नमः, हिं ब्राह्मण्यै नमः, हिं मोहिन्यै नमः, हिं मनोन्मन्यै नमः, इत्यह्गुष्ठकनिष्ठिकाभ्यां मूलाधारगुह्यवृषणोरुद्वयजानुद्वयजङ्घाद्वयस्फिग्द्वयकटिदक्षिणपार्श्ववामपार्श्वेषु विन्यसेत्। हं सिध्द्यै नमः, (82)(हं ऋध्द्यै नमः),{82.इदमदिकं-पा.} हं दूत्यै नमः, हं लक्ष्म्यै नमः, हं मेधायै नमः, हं स्वधायै नमः, हं स्वाहायै नमः, हं धृत्यै नमः, इत्यङ्गुष्ठकनिष्ठिकाम्यां पादद्वयकरद्वयघ्राणशिरोबाहुद्वयेषु विन्यसेत्। नमस्स्वाहादि [जाति] षट्कयुतमङ्गन्यासं कुर्यात्। यस्यावसरोऽस्ति मतिक्षोभश्च न भवति स श्रीकण्ठादिन्यासषडध्वन्यासादिकमपि कुर्यात्॥
एवं जीवशुद्धिदेहशुद्धिपूर्वकं न्यस्तमन्त्रतनुस्वरूपेण विग्रहेण च शिवरूपतां प्राप्तः शिवार्चायोग्यो भवति। नाशिवः शिवमर्चयेदिति ह्यामनन्ति। एवं जीवदेहशुद्धिकरणाक्तौन्यासमात्रंकुर्यात्। न्यासस्यापि कृत्स्नस्य करणाशक्तौ दण्डन्यासमात्रं षडङ्गन्यासमात्रं वा कुर्यात्। तावतैव देहात्मनोः शुध्द्या शिवरूपतापत्त्या च शिवार्चनायोग्यो भवति॥
अन्तर्यागक्रमः
एवं कृताङ्गन्यासोऽन्तर्यागं कुर्यात्. तत्रायं क्रमः--(83)अन्तर्हृदयावकाशे{83.अन्तरे हृदया-पा.} दिव्यरत्नमयं शिवार्चनमण्टपं मनसा संकल्प्य तत्र शिवार्चनोपयुक्तानि सर्वाणि द्रव्याणि मनसोपनीय विशोध्य द्वादशान्तस्थितचन्द्रमण्डलस्रवदमृतधारयार्ध्यपात्रादिपूरणं तत्संस्कारं च कृत्वा द्वारपालार्चनं विधाय वक्ष्यमाणप्रकारेण गणेश(84){84.गुरुवन्दनानुज्ञा-पा.} गुरुपङ्क्त्यनुज्ञाप्रार्थनपूर्वकं माणिक्यवर्णनाभिकन्दसमुत्थितनीलवर्णनालाञ्चित धवलवर्णाष्टदलहृदयकमलकर्णिकाकारसंस्थितकुण्डलिनीशक्तिरूप (85)बिन्द्वात्मके{85. जीवात्मके, चिदात्मके-पा.} पीठे श्रवणाङ्गुष्ठसंयोगाधिगम्यनादरूपं दीपशिखाकारं लिङ्गं विचिन्त्य पीठे वक्ष्यमाणप्रकारेण शक्त्यादिशक्त्यन्तं शिवासनमभ्यर्च्य लिङ्गे शिवमूर्तिं विद्यादेहं चाभ्यर्च्य तत्र परमशिवमावाहनादिक्रमेण ध्यात्वाऽन्तस्संस्कारैरभिपूज्य द्वादशान्तस्त्रुतबहुलामृतधारयाभिषिच्य [ध्यान] वस्त्राभरणादिर्भिर्वैराग्यचन्दनेनः चालेकृत्य अहिंसापुष्पं समर्पयामीत्यादिप्रकारेण अहिंसेन्द्रियनिग्रहक्षमादयाज्ञानतपस्सत्यभावरूपैरष्टभिः पुष्पैरभ्यर्चयेत्। ततो (86)मनःपात्रे {86.मनसि पात्रे प्राणमग्निमहङ्का-पा.} प्राणाग्निमहङ्कारधूमशिखां च (87)परिकल्प्य{87.संकल्प्य-पा.} धूपं दद्यात्। शिवज्ञानमेव दीपं संकल्प्य दद्यात्। विषयेभ्यः प्रत्याहृतं मनो नैवेद्यमिति भावयित्वा समर्पयेत्। सुषुम्नामार्गेण प्राणस्य गमागमे एव जपत्वेन भावयेत्। पार्थिवादिपञ्चधारणास्थिरीकृतसदाशिवावयवजातध्यानकल्पितैस्तत्तदवयवो--चितैर्भूषणैश्च भूषयेत्। शवोऽहमिति शिवसाम्यबावनारूपमात्मनिवेदनं च कुर्यात्। यद्वाभिषेकानन्तरं गन्धशब्दस्पर्शरूपरसतन्मात्राश्चन्दनपुष्पधूपदीपनैवेद्यात्मना समर्पयेत्। तत्रायं क्रमं--मूलमन्त्रोच्चारणपूर्वकं ह्वां [ह्लां] ईशानाय शिवाय शब्दतन्मात्रात्मकं पुष्पं समर्पयामि। हैं तत्पुरुषाय शिवाय स्पर्शतन्मात्रात्मकं धूपं समर्पयामि। ह्रूं अघोराय शिवाय रूपतन्मात्रात्मकं दीपं समर्पयामइ। ह्रिं वामदेवाय शिवाय रसतन्मात्रात्मकनैवेद्यं समर्पयामीति। ततो हस्तक्षालनमुखवासदानान्तरं सत्वरजस्तमोगुणात्मकं ताम्बूलं समर्पयामीति भावयेत्। ततो नीराजनं परिकल्प्य--
बुद्धिस्थवायुना क्लृप्तं दर्पणं मङ्गलानि च।
मनोवृत्तिर्विचित्रा ते नृत्तरूपेण कल्पिता॥
ध्वनयो गीतरूपेण शब्दवाद्यप्रभेदतः।
सुषुम्ना ध्वजरूपेण प्राणाद्याश्चामरात्मना॥
अहङ्कारो गजत्वेन क्लृप्तो देहो रथात्मना।
मनः प्रग्रहरूपेण बुद्धिः सारथिरूपतः॥
सर्वमन्यन्मया क्लृप्तं तवोपकरणात्मना।
इति सर्वमात्मीयं बुद्धिमनःप्राणादिकं शिवपूजोपकरणत्वेन समर्पयेत्। आवरणपूजामपि वक्ष्यमाणरूपं (88)तत्समये{88.तत्समर्पणे-पा.} कुर्यात्। ततः प्रदक्षिणनमस्कारैः शिवं प्रसादाभिमुखं विधाय तदाज्ञयाग्निकार्यं कुर्यात्॥
अग्निकार्यक्रमः
तत्रायं क्रमः--नाभौ त्रिमेखलं कुण्डं तत्राग्निं च स्वतः सिद्धं विभाव्य तमग्निमस्त्रमन्त्रेण प्रज्वाल्य तत्राग्नौ किंचिदङ्गारं क्रव्यादांशत्वेन भावयित्वा तं निर्ऋतिकोणे परित्यज्य कुण्डस्थमग्निं निरीक्षणादिभिः संशोध्य तस्य शिवाग्नित्वसिध्द्यर्थं रेचकेन वायुना तं चैतन्यात्मना हृदयंनीत्वा तत्रत्येन ज्ञानाग्निना संयोज्य ततः सुपुस्नया द्वादशान्तं नीत्वा तत्र परमशिवेन संयोज्य तत्तेजःपुञ्जपिञ्जर सूर्यायुतसमप्रभं भावयित्वा तं ज्ञानाग्निरूपं प्रत्यानीय नाभिकुण्डे स्थापयेत्। एवं कृते संस्कारान्तरमनपेक्ष्य शिवाग्निर्भवति। तत्र शिवाग्निं रक्तवर्णं चतुर्वक्त्रं दशभूजं सदाशिवसमानायुधं ध्यात्वा तस्य हृदयकमले आसनमूर्तिविद्यादेहविन्यासपुरस्सरं शिवमावाह्य सुषुम्नास्रुवेण (89)द्वादशान्तं{89.द्वादशान्तस्रुतामृत-पा.} कृत्वामृतधाराज्यं मूलेनाष्टोत्तरशतमष्टाविंशतिवारमष्टवारं वा कृत्वा शाक्तामृतघृतपरिपूर्णनाभिकन्दकशां हृदयकमलात्मकसुषुम्नादण्डां स्रुचं विबाव्य तया हांशक्तयै वौषडिति पूर्णाहुतिं हुत्वा होमसन्तर्पितं शिवाग्निं [शिवं] नाभिमार्गेण हृत्पद्मपूजिते शिवे संयोज्य अष्टपुष्पिकयाभ्यर्च पूजां समर्पयेत्। तदनन्तरं भ्रूमध्ये सर्वावयवसंपूर्णं शुद्धदीपसमाकृतिं च शिवं सकलनिष्कलरूपेण ध्यात्वा पूज्यपूजकभावेन द्विधा स्थितः शिवोऽहमेवेति मनस्समादधीत। इत्यात्मशुद्धिः॥
अथ स्थानशुद्धिः
तत्प्रकारः--हृद्यूर्ध्वमुखौ करौ कृत्वा ह्रः अस्त्राय फडिति तालत्रयं कृत्वा चोटिकया दशसु दिक्षु विघ्नानुत्सार्यास्त्रमन्त्रेण ज्वलदग्निवर्णं प्राकारं कृत्वा ततो बहिः हैं कवचाय नम इति दक्षिणतर्जनीभ्रमणेन (90)परिखात्रयं{90.कायिकां-पा.} कृत्वा हां शक्तये वौषडिति शाक्तं ज्योतिरूर्ध्वमधश्च (पतितं) विभाव्य महामुद्रां प्रदर्शयेत्। इति विघ्ननिवारणार्थं स्थानशुद्धिः॥
अथ द्रव्यशुद्धिः
सर्वाणि वक्ष्यमाणयागोपयोग्यानि द्रव्याणि देववामभागे निवेश्य वस्त्रपूतशुद्धजलसंपूर्णजलपात्रं दक्षिणभागे च निवेश्य आत्मार्चनावरणपूजार्थं गन्धपुष्पादिकं शिवार्थद्रव्येभ्यः पृथङिनिवेश्यार्ध्यपाद्याचमनीयजलानि पूजयेत्। चत्वार्यर्ध्याणि। सामान्यार्ध्यं, विसेषार्ध्यं, निरोधार्ध्यं, पराङ्मुखार्ध्यमिति। द्वारपालावरणदेवतादीनां सामान्यार्ध्यम्, (91)शिवार्ध्यकालेषु{91.विशेषार्ध्यकालेषु-पा.} विशेषार्ध्यं, शिवस्यैव निरोधनसंस्कारसमये निरोधार्ध्यम्, विसर्जनसमये पराङ्मुखार्ध्यम्। चतुर्णामेतेषामर्ध्याणां चत्वारि पात्राणि दशपलप्रमाणेन वा पञ्चपलप्रमाणेन वा सार्धद्विपलप्रमाणेन वा सुवर्णरजतताम्रान्यतमद्रव्येण वा पञ्चपर्वोन्नतानि पञ्चपर्वविस्तृतानि वृत्ताकाराणि चतुरश्राकाराणि वा बहिरष्टदलपद्माङ्कितानि एकाङ्गुलप्रमाणान्यष्टाङ्गुलचतुर्थांशघनान्युक्तप्रकारादर्धप्रमाणानि तदर्धप्रमाणानि वा ग्राह्याणि। सुवर्णाद्यभावे शुक्तिखङ्गश्रृङ्गशिलादारुनारिकेलकरङ्कादिनिर्मितानि वा नवमृत्पात्ररूपाणि वा पलाशाब्जकदलीदलादिकृतपर्णपुटरूपाणि वार्घ्यपात्राणि ग्राह्याणि। पाद्याचमनपञ्चगव्यपञ्चामृतगन्धधूपदीपपात्रघण्टादीनपि पूर्वोक्तदशपलादिप्रमाणेनैव कर्तव्यानि। तत्र पाद्यपात्रं षडङ्गुलनासिकमेकाङ्गुलोष्ठं तदर्धमानं तदर्धमानं वा कार्यम्। [आचमनपात्रं] पाद्यक्षेपपात्रं द्व्यङ्गुलत्र्यङ्गुलोत्सेधं षोडशाङ्गुलविस्तारं चतुरङ्गुलोत्सेधमष्टाङ्गुलविस्तारपादयुक्तं एकाङ्गुलोष्ठमुक्तप्रकारार्धप्रमाणं तदर्धप्रमाणं वा वृत्तकङ्कणयुक्तपार्श्वद्वयं कर्तव्यम्। आचमनपात्रं द्वादशाङ्गलोत्सेधविस्तारकुक्षिकं षडङ्गुलविस्तारेण षडङ्गुलोत्सेधेन द्व्यङ्गुलोत्सेधेन वा पादेन युक्तं द्व्यङ्गुलत्र्यङ्गुलोत्सेधकण्ठमेकाङ्गुलोष्ठं त्र्यङ्गुलविस्तार मुखमैच्छिकप्रमाणं मुकुलाकारपिधानसंयुक्तं (92)द्व्यङ्गुलप्रमाणत्रिकं{92.चतुरङ्गुलप्रणत्रिवक्त्रयव-पा.} त्रियवप्रमाणरन्ध्रं मूलप्रभृति क्रमापचित(93)परिमाणनासिकायुक्तं{93. प्रमाणं नासि.} तदर्धपरिमाणं (तदर्धपरिमाणं) वा। यद्वा पाद्याचमनपात्रेऽर्ध्यपात्रवदेव वृत्ताकारे र्क्तव्ये। आचमनक्षेपपात्रमपि पाद्यक्षेपपात्रवत्कर्तव्यम्। अर्ध्यपाद्याचमनाधारयन्त्रिकास्तु त्रिपदीरूपास्त्रिवक्त्रपादसंयुक्ताः अष्टाङ्गुलोत्सेधाः पादादूर्ध्वभागे वलयस्याधस्तात् सिंहवक्त्राङ्किताः कर्तव्याः। सुवर्णाद्यभावे पाद्यादिपात्राण्यपि अर्ध्यपात्रवच्छिलादारुमयपत्रपुटादिरूपाणि ग्राह्याणि। तत्र सामान्यार्ध्यद्रव्याणि तिलतण्डुलाः। विशेषार्ध्यस्यैलालवङ्गकर्पूरजम्बूजातीफलमुर[फलोशीर]व्रीहितिला वा। जलक्षीरकुशाग्रतण्डुल(94)सुमनस्तिलयवसिद्धार्था{94 कुसुमास्तिल-पा.} वा। (95)दर्भादिव्रीहितिलक्षीरनीरसिद्धार्था{95. दर्मदूर्वादि-पा.} वा। यवसिद्धार्थव्यतिरिक्तदर्भादयः षड्वा यवसिद्धार्थजलतिलाश्चत्वारो वा दूर्वाङ्कुरकुङ्कुमकर्पूरास्त्रयो वा द्रव्याणि। निरोधार्ध्यस्य दर्भदूर्वायवतण्डुलसिद्धार्थाः पञ्च द्रव्याणि। पाद्यस्य दूर्वाचन्दनसिद्धार्थोशीरह्रीबेरकुह्कुमानि षट्, तान्येव कुङ्कुमं विना पञ्च वा, दूर्वासिद्धार्थचन्दनोशीराणि चत्वारि वा, ह्रीबेरचन्दनोशीराणि त्रीणि वा द्रव्याणि। आचमनस्य एलालवङ्गकर्पूजातीकोष्ठजम्बूत्रिफलचन्दनोशीराण्येकादश वा, एलालवङ्गकर्पूरजम्बूशीरजातीफलानि षड्वा एलालवङ्गकर्पूरह्रीबेरजातीफलानि पञ्च वा, एलालवङ्गकर्पूराणि त्रीणि वा द्रव्याणि। एलादीनि चार्ध्यादिद्रव्याणि प्रत्येकं उत्तममध्यमादिभावेनाशीतिचत्वारिंशद्विंशतिदशपञ्चव्रीहिपरिमितानि देयानि॥
पाद्यादिपूजा
अथ पाद्यादिपूजाविधानमुच्यते। पाद्याचमनीयसामान्यार्ध्यविसेषार्ध्य निरोधार्ध्यपराङ्मुखार्ध्यपात्रत्रिपदीर्देवस्य पुरतो वामादिक्रमेण विन्यस्य, तासां पादेषु ब्रह्मविष्णुरुद्रान्वलयेषु षडाधारशाक्तिं चाभ्यर्च्य पाद्यादिपात्राणि अस्त्रमन्त्रेण वौषडन्तहृदयमन्त्रेण वा शुद्धतोयेनापूर्य कवचमन्त्रेण पाद्यादिद्रव्याणितत्तत्पात्रेषु निक्षिपेत्। द्रव्यालाभे शुद्धोदकपूरणमात्रं कुर्यात्। ततः पाद्यादिपात्राणि मस्तकान्तं[बिन्द्वन्तं] समुद्धृत्य बिन्दुप्रसृतामृतधारामयेन गङ्गादिसकलतीर्थोदकेन पात्राणि पूर्णानि भावयित्वा यन्त्रिकाणामुपरि स्थापयेत्। अथवा बन्दुस्थानादङ्कुशमुद्रया दिव्यामृतमयं गङ्गादितीर्थमाकृष्य संहारमुद्रया तमादाय वौषडन्तहृदयोनोद्भवमुद्रया यन्त्रिकान्तस्स्थेष्वेव पाद्यादिपात्रेषु विनिक्षिपेत्. ततो विशेषार्ध्यजले शिवासनमूर्तिपञ्चब्रह्मविद्यादेहनेत्रमूलाङ्गानि विन्यस्य मूलेन गन्धपुष्पाक्षतैः संपूज्य ब्रह्माङ्गमूलैरमभिमन्त्रयेत्। केवलं वा ब्रह्माङ्गमूलैरभिमन्त्रयेत्। निरोधार्ध्यं ब्रह्मादिभिः, पराङ्मुखार्ध्यमङ्गैः, सामान्यामस्त्रमन्त्रेणाभिमन्त्रयेत्. पाद्याचमनीये ब्रह्मभिरङ्गैरस्त्रेण वा अभिमन्त्रयेत्। ततोऽस्त्रेण दिग्वन्धनं कृत्वा कवचेनावकुण्ठनं कृत्वा वौषडन्तशक्तिमन्त्रेण धेनुमुद्रां प्रदर्श्यामृतीकुर्यात्. पाद्यादिपराङ्मुखार्ध्यपर्यन्तेषु त्रिपदीविन्यासाद्यमृतीकरणान्तं प्रत्येकं (96)काण्डानुसमयेन{96.एकैकस्मिन् पात्रे संस्कारजातं सर्वं कृत्वा अनन्तरं द्वितीयस्मिन् पात्रे, इत्थं तृतीयादिषु करणं काण्डानुसमयः.} कुर्यात्॥
अथ पराङ्मुखार्ध्यसमीपे शङ्खपूजा कर्तव्या। प्रस्थमानिकाः कुडुबजलपूरणीयाः शङ्खाः उत्तममध्यमकनीयांसः। तथा मूलाग्रमध्यस्थूलाः पुंस्त्रीनपुंसकरूपाः। शङ्खस्य मूले वसुन्धरा, वलये सूर्यः, कुक्षौ विष्णुः, पार्श्वे चन्द्रमाः, धारायामघोरः, मुखे सप्ततीर्थानि च वसन्ति. तथापि शङ्खो बहिर्मूलाग्रयोरस्थिवदशुचिरिति तयोर्हेमरत्नादिभूषणं कर्तव्यम्। एवम्भूतं शङ्खं (97)तदर्धशोधितमस्त्रमन्त्रक्षालितं{97.तुषशोधितं-पा.} पूर्ववदर्चितायां त्रिपाद्यां विन्यस्य विशेषार्ध्यवत्पूजयित्वात्मानं शिरसि तत्तोयैस्त्रिवारमभिषिञ्चेत्। एवं बबुपात्र(98)संपादनपूजनाशक्तौ{98.बहुपात्रसम्पादनेन पूजाऽशक्तौ इति स्यात्.} निरोधार्ध्यपराङ्मुखार्ध्ये निरोधार्ध्यजलेनैव कर्तव्ये। विशेषार्ध्यजलेनैवार्ध्यपात्रत्रयमपि कार्यम्। एवं पाद्याचमनद्वयमपि विशेषार्ध्यजलेनैव कर्तव्यम्। विशेषार्ध्यस्यापि पात्रान्तराभावे शङ्खजलेनैव पाद्याचमनद्वायमर्ध्यत्रयं च कर्तव्यम्। आवरणदेवताद्यर्थसामान्यार्ध्यमात्रं पात्रान्तरे संस्कार्यम्। एवं पात्रसङ्कोचपक्षे तदीयजलेनोपचारान्तरं क्रियते। (99)तदीयमेव{99.तदीय एव-पा.} पात्रमादाय तत्संस्काराः कर्तव्याः। अन्यदीयसंस्कारा अपि वा (100)परिधौ{100.परिधिर्द्व्यर्थत्वादुभयधर्मा स्यात्. (जै. मू. 12-2-26) पशुमत्सु चातुर्मास्येषु "परिधौ पशुं नियुञ्जीत" इति श्रूयते। अत्र सिद्धान्ते पशुनियोजनार्थत्वेन श्रुते परिधौ स्वीयधर्माणां मार्जनादीनां यूपधर्माणामविरुद्धानां प्रोक्षणादीनां चानुष्ठानमिति यथा परिधेर्द्विधर्मत्वं, तथा एकस्मिन्नेव तदीयधर्मा अविरुद्धा अन्यदीयधर्माश्च कार्या इति तत्पात्रस्य द्विधर्मत्वम्।} यूपधर्मवदविरुद्धाः कर्तव्याः॥
अथायनविषुवोपरागादिषु कर्तव्यं प़ञ्चगव्यविधानमुच्यते--
देवस्य पूर्वभागे ईशानदिग्भागे वा हस्तत्रयमात्रं द्विहस्तमात्रं वा चतुरश्रं गमयेनोपलिप्य चतुर्भिः प्राचीनैः चतुर्भिरुदीचीनैः सूत्रैः प्रत्येकमेकतालप्रमाणानि नव (प्रति) कोष्ठान्युद्धृत्य प्रतिकोष्ठमाढकं तदर्धमानान् व्रीहिन् तदर्धमानान् तण्डुलान् कुशान्वा प्रसार्योत्तराभिमुखः प्रतीचीं दिशं पञ्चसङ्ख्यैरुदगग्रैः प्रागग्रैर्दर्भैः परिस्तीर्य परितः पुष्पैरलङ्कूत्य शिवतत्त्वाय नमः, सदाशिवतत्त्वाय नमः, विद्यातत्त्वाय नमः, पुरुषतत्त्वाय नमः, कालतत्त्वाय नमः, पृथिवीतत्त्वाय नमः, जलतत्त्वाय नमः, वायुतत्त्वाय नमः, प्रकृतितत्त्वाय नमः, इति मद्ये पूर्वदक्षिणोत्तरपश्चिमाग्नेयनैरऋतमारुतैशानकोष्ठानि संपूज्य सौवर्णानि कांस्यानि अभिन्नानि कृष्णानि नव मृण्मयानि वा पात्राणि संक्षाल्य नवसु कोष्ठेषु संस्थाप्य सुप्रतिष्ठापात्राय नमः, सुशान्तपात्राय नमः, तेजोमयपात्राय नमः, रत्नोदकपात्राय नमः, अमृतपात्राय नमः, व्यक्तपात्राय नमः, इति प्रागुक्तकोष्ठक्रमेण पात्राणि संपूज्य ताम्रवर्णायाः क्षीरं त्रिकुडबं मध्यपात्रे, शुक्लवर्णायाः दधि द्विकुडबं पूर्वपात्रे, कपिलवर्णाया घृतं कुडबं दक्षिणपात्रे, श्यामवर्णाया मूत्रं प्रस्थमात्रं उत्तरपात्रे, कृष्णवर्णाया गोमयं कुडवप्रमाणं पञ्चकुडबजलसंयुक्तं वस्त्रपूतं पश्चिमपात्रे। कपित्थफलप्रमाणानि तदर्धप्रमाणानि तदर्धप्रमाणानि वा तण्डुलामलकहरिद्रापिष्टान्याग्नेयनैर्ऋतवायव्यकोणपात्रेषु कुशोदकं, षट्त्रिंक्रत् षट्त्रिंक्रत् पञ्चविंशतिद्वादशतदर्धकृतेन प्रदक्षिणं दर्भं वायव्यपरिवीतेन हस्तमानेन तालमानेन वा द्व्यङ्गुलग्रन्थिना चतुरङ्गुलाग्रेण कूर्चेन संयुक्तं आढकमानकं गन्धदूर्वायुक्तं ईशानकोणपात्रे च हृदयेन प्रक्षिप्य क्षीरादिगोमयान्तानि पञ्चगव्यानि क्रमात् पञ्चचतुस्त्रिद्व्येकसङ्ख्यैरीशानादिमन्त्रैः शालिपिष्टं हृदयेनामलकं शिरसा हरिद्रां कवचेन कुशोदकं षड्वारावृत्तब्रह्मपञ्चकेन चाभिमन्त्रयेत्। तदनन्तरं गोमयं गोमूत्रे, तदुभंय घृते, तत्त्रयं दध्नि, तच्चतुष्टयं क्षीरे च हृदयमन्त्रेण निक्षिप्य तत्रैव कुशोदक्रं मूलमन्त्रेण क्षिपेत्। पञ्चब्रह्मषडङ्गैरभिमन्त्र्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य धेनुमुद्रां प्रदर्श्य गन्धपुष्पैरभिपूज्यास्त्रमन्त्रेण धूपदीपौ प्रदर्श्य मूलेनाभिमन्त्रयेत्॥
पञ्चामृतविधिः
अथ पञ्चमृतविधानमुच्यते--तत्पूजा पञ्चगव्यपूजायाः प्रागेव कर्तव्या। तत्र पात्रपूजापर्यन्तं पूर्वमध्यादिपश्चिमान्तेषु क्षीरदधिमधुघृतशर्कराः प्रत्येकं प्रस्थामानाः पादोनप्रस्थमाना वा प्रस्थार्धमाना वा आग्नेयादिकोणेषु यथासम्भवं कदलीपनसाम्रफलानि ईशानकोणे कुशोदकवद्गन्धो दकं तत्तत्स्थानस्थितानामभिमन्त्रणं पूर्ववत्। [(101)शर्करा{101.लिखितपुस्तके नास्ति.} गोमयवत्] जलयुक्ता। संयोजनं तु नास्ति। अथवा संयोजनयुक्तपञ्चामृतविधानं कुर्यात्। तस्यायं क्रमः--पर्ववदुपक्लृप्ते व्रीहिमये स्थण्डिले पूर्वादिदिक्षु मध्ये च प़ञ्चकोष्ठानि ईशानदिश्यष्टदलपद्मं च विलिख्य शिवनियतिकालव्यक्ताव्यक्तसुमङ्गलनामभिः षड्भिर्मध्यादिक्रमेण तानि सम्पूज्य तेषु षट्पात्राण्यमृतसोमविद्यारत्नोदसुधाप्रीतासुरप्रीतानामभिः संपूज्य पूर्वोक्तक्रमेण मध्यादिपात्रेषु पञ्चामृतानि ईशानकोणपात्रे नालिकेरोदकं च निक्षिप्य तानि पञ्चगव्यकुशोदकवदभिमन्त्र्य शर्करादीनि गोमयादिवत्क्रमेण क्षीरे संयोज्य कुशोदकवन्नालिकेरोदकं च संयोजयेत्। ततः समृद्धं कदलीफलं मूलाभिमन्त्रितं क्षिप्त्वा मूलेन मर्दयेत्। पञ्चगव्यवद्गन्धपुष्पाद्युपचारांश्च कुर्यात्। पञ्चगव्याद्यर्थमुक्तद्रव्यालाभे दधिक्षीरे गोमूत्रगोमये च परस्परं प्रतिनिधिः। धृतं चतुर्णामपि प्रतिनिधिः। शर्कराया इक्षुरसः। पञ्चगव्याद्युक्तपात्रद्रव्यपरिमाणालाभे गोमयमङ्गुष्ठार्धमानं गोमूत्रघृतदधिक्षीरकशोदकान्येकद्वित्रिपञ्चैकफलानि ग्राह्याणि। पञ्चामृते क्षीरादीनि देवस्य लिङ्गसेकार्हाणि ग्राह्याणि। गवामुक्तवर्णानामलाभे (102)निर्गदायाः{102.निर्दशायाः, निर्दोषायाः-पा.} सवत्साया रोगगर्भरहितायाः क्षीरादीनि ग्राह्याणि। क्षीरं वत्सलालाजलास्पृष्टं दध्यमत्यं गोमयमाकाशस्थं धृतं गोमूत्रं च वस्त्रपूतं ग्राह्यम्॥
अथ स्नपनोदकविधानम्
शुद्धं जलकुम्भमादाय शिवाल्लब्धानुज्ञः प्रशस्तवर्णगन्धरसनदीतटाकं देवखातादिशुद्धतीर्थं गत्वा तज्जलं ब्रह्माङ्गैरभमन्त्र्य अस्त्रसंक्षालितं कम्भं वस्त्रपूतेन तेन हृदयमन्त्रेणापूर्याहृत्य देवस्य दक्षिणभागे स्थापयित्वा एलोशीरलवङ्गचन्दनकर्पूरवारिपाटलोत्पलपद्मकरवीरादिवासितं कुर्यात्। इदं प़ञ्चगव्यपञ्चामृतस्नपनोदक(103)सन्धानं{102.संविधानम्-पा.} आत्मशुद्धेर्द्वारपालार्चनाच्च प्रागेव कर्तव्यम्। स्नपनोदकं सूर्यरहिते काले (न) आहर्तव्यम्। पुष्पाहरणमपि पूजकेन स्वयमे(103)वाहर्तव्यमअ। अशक्तौ समयालाभे च पुष्पोदकाहरणं गन्धघर्षणनैवेद्यपाकादिवत्स्नातैः शुद्धवस्त्रैः पवित्रपाणिभिः परिचारकैः करणीयम्, छिन्ने पिष्ट इत्यादिन्यायसाम्यात्। एवं सकलमपि वक्ष्यमाणोपयोगिद्रव्यजातं संनिधाप्य तस्य शुद्धिं कुर्यात्॥
द्रव्यशुद्धिः
तत्रायं क्रमः। अङ्गुष्ठानामिकास्पृष्टेन चक्षुषा मूलेन निरीक्ष्यमाणं दृक्क्रियेच्छात्मकैरर्कवह्निसोमनेत्रैः क्रमाच्छुष्कं दग्धममृताप्लावितं च भावयेत्। ततः शुध्द्यर्थमस्त्रमन्त्रेण पताकया प्रोक्ष्य चिच्छक्त्यभिव्यक्त्यर्थं अस्त्रमन्त्रेणैव मध्याङ्गुल्या ताडयेत्। ततो वौषडन्तकवचेन तत्सर्वं विशेषार्ध्यजलेन शङ्खजलेन वा कुशषुष्पैरभ्युक्षन् ताडितात्पाषाणाद्वह्रिस्फुलिङ्गानामिव द्रव्यजाताच्चिदग्निस्फुलिङ्गानामुद्गतिं ध्यायेत्॥
एवं निरीक्षणादिसंस्कार(104)चतुष्टयं{104.चतुष्टयंद्रव्यजातं शुद्धेन-पा.} द्रव्यजातमशुद्धेन मायिकरूपेण परित्यक्तं शुद्धचिच्छक्त्यात्मकं (105)सिवयोग्यतार्हं{105.शिवभोग्यतार्हं-पा.} भवति। ततः सद्योजातेन गन्धम्, वामदेवेन वस्त्रं, अधोरेणाभारणम्, तत्पुरुषेण नैवेद्यम्, ईशानेन पुष्पम्, हृदयमन्त्रेणान्यानि शिवार्थद्रव्याण्यावरणपूजाद्रव्याणि चाभिमन्त्रयेत्। ततः सर्वं द्रव्यजातमस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य वौषडन्तशक्तिमन्त्रेण धेनुमुद्रयामृतीकृत्य शिवार्थं कल्पितमेतत्सर्वं शिवात्मकमेवेति भावयन् गन्धपुप्पधूपदीपैः हृदयास्त्रमनत्राभ्यां पूजयेत्। ततः स्वशिरस्यर्ध्यजलबिन्दुं अस्त्रेण निक्षिप्य स्वासने शिवासनाय नम इति पुष्पं दत्वा स्वदेहे शिवमूर्तिं विन्यस्य फाले चन्दनतिलकं विधाय स्वशिरसि पुष्पं स्वाहान्तमूलेन निक्षिप्य स्वशिरस्येवार्ध्यं च दद्यात्। इत्थमात्मनि पशुबुद्धिं त्यक्त्वा शिववन्निर्मलज्ञानक्रियः शुद्धोऽहमिति भावयन्नेवात्मानं पूजयेत्। यद्यप्यात्मनः शुद्धिः प्रागभिहिता तथापि पूजाकर्तृकतया द्रव्यान्तरवत्पूजोपकरणत्वेन प्रविष्टस्य तस्य द्रव्यान्तरवदेव गन्धादिभिः पूजयेदिति तदन्ता द्रव्यशुद्धिः॥
मन्त्रशुद्धिः
अथ मन्त्राणां दन्तताल्वोष्ठव्यापारजन्यमायिकाशुचिरूपनिर्हरणार्थं ऐश्वर्याधिकारिमलतिरोहितफलप्रदानासमर्थानां तेषां सामर्थ्योन्मीलनार्थं च शुद्धिः कर्तव्या। तत्प्रकार उच्यते-- हृद्यञ्जलिं बध्द्वा बिन्द्वन्त ब्रह्मरन्ध्रान्त शिस्वान्तं ह्रस्वदीर्घप्लुतप्रणवादिनमोंऽत(106)तयया{106.नमोऽन्तेनाजपामन्त्रेण-पा.} क्रमेण त्रिवारं शनैर्मूलमन्त्रोच्चारणं कुर्यात्। ततो ब्रह्माङ्गादीनामपि ततैवोच्चारणं कुर्यात्।
इत्थं मन्त्रशुद्धिं विधाय तदनन्तरं परिवारदेवतासद्भावे तदर्चनं कुर्यात्। कथं परिवारदेवतासद्भावः सशक्तिककेवलपूजने? इत्थं सूक्ष्मोक्तानि शुद्धकेवलमिश्राख्यान्यशक्तिकसशक्तिकसौ-रादिचन्टान्ताशिवपूजनान्यंशुमदुक्तेन केवलसहजमिश्रभेदेन प्रत्येकं त्रिविधानि। अंशुमति--केवलं नाम परिवारदेवतारहितलिङ्गपूजनम्। सहजं नाम वृषभगणेशकुमारपार्वतीरूपपरिवारचतुष्टयसहितलिङ्गपूजनम्। मिश्रं नाम महेश्वरनृत्तमूर्तिदक्षिणामूर्त्यादिभिरपि सहितस्य लिङ्गस्य पूजनम्। एवं केवलशुद्धं, सहजशुद्धं, मिश्रशुद्धं, केवलकेवलं, सहजकेवलं मिश्रकेवलं, केवलमिश्रं, सहजमिश्रं, मिश्रामिश्रं, चेति नवविधानि पूजनानि भवन्ति। तत्र शिवपूजारम्भात्प्राक् सूर्यपूजां तदनन्तरं चण्डपूजां च विहाय लिङ्गे शाक्तिं विना केवलं शिवमावाह्य परिवारदेवतारहितस्य तस्य पूजनं केवलशुद्धम्। परिवारचतुष्टयसाहित्येन प्रागुक्तपूजनं सहजशुद्धम्। महेश्वरादिभिरपि सह प्रागुक्तपूजनं मिश्रशुद्धम्। आद्यन्तयोः सूर्यचण्डपूजां विहाय लिङ्गे सशक्तिकं शिवमावाह्य परिवारार्चनं विना तत्पूजनं केवलकेवलम्। उक्तपूजनमेव परिवारचतुष्टयार्चनसहितं सहजकेवलम्। महेश्वराद्यर्चाभिरपि सहितं मिश्रेकवलम्। आद्यन्तयोः सूर्यचण्डपूजासहितं सशक्तिकस्याशक्तिकस्य वा परिवारदेवतारहितस्य लिङ्गस्य पूजनं केवलमिश्रम्। तदेव परिवारचतुष्टयार्चनसहितं सहजमिश्रम्। महेश्वराद्यर्चनसहितं मिश्रमिश्रमिति। एवं च केवलकेवले परिवाराभावेऽपि सहजकेवले मिश्रकेवले च परिवारसद्भावान्मन्त्रशुध्द्यनन्तरं केवलकेवलेऽपि परिवरार्चनकथनं युक्तमेव। तत्र वृषभं देवस्य पूर्वभागे पश्चिमाभिमुखमर्चयेत्। गणेशकुमारपार्वतीः पूर्वाभिमुखतया दक्षिणपश्चिमोत्तरदिक्ष्वर्चयेत्। गणेशकुमारपार्वतीः पूर्वाभिमुखतया दक्षिणपश्चिमोत्तरदिक्ष्वर्चयेत्। गणेशकुमारपार्वतीः पूर्वाभिमुखतया दक्षिणपश्चिमोत्तरदिक्ष्वर्चयेत्। पार्वत्या दुर्गारूपतयार्चने दक्षिणामुखत्वेनार्चयेत्। पौरामिकास्तु सूर्यगणेशविष्णुदुर्गारूपां परिवारदेवताचतुष्टयीमाहुः। वृषभादिचतुष्टयेऽपि आरोग्यादिफलकामनायां परिवारदेवतामध्ये सूर्यादिपूजनमपि कर्तव्यमेव। वृषभस्य वामभागे सूर्यः देवस्य दक्षिणभागे दक्षिणामूर्तिः, पश्चिमभागे स्कन्दस्य वामे विष्णोः उत्तरभागे देव्याः प्राग्भागे नृत्तमूर्त्तिः। एवमन्येषामपि कामनयार्चनीयानामागमोक्तानि स्थानानि द्रष्टव्यानि।
अथ लिङ्गशुद्धिः
(107)गर्भगृहे{107.वक्षस्स्थलस्थितां शिवलिङ्गस्य सज्जिकामुद्धाट्य-मु.पा.} स्थितं देवस्य पेटकमुद्धाट्य तदग्रे स्थितं चतुर्वक्त्रं त्रिणेत्रं वराभयछत्रचामरकरं भीमरुद्रमभ्यर्च्य, "निशाचरान्तकृद्देव देवस्य यजनार्थकम्। शुद्धद्वारस्य सव्ये तु गच्छ त्वं हि प्रसीद मे" इति संप्रार्थ्य (108)पेटिकामध्यस्थितं{108.सज्जिका-मु. पा.} देवं "ओं नमो देवदेवेश सर्वलोकैकनायक। उत्तिष्ठ स्नानकर्मार्थमात्मरक्षार्यमेव च॥" इति संप्रार्थ्य, लिङ्गं हस्ताभ्यां सङ्ग्रह्य वस्त्रं विसृज्य प्रागेव षडुत्थासने नार्चितायां स्नानवेद्यां सुवर्णरजतताम्रकांस्यत्रपुसीसक्षीरिवृक्षान्यतमनिर्मितायां विकसत्पद्मजातीकरवीरकर्णिकारजगतीपद्मवाजिनयुक्तायां वृत्ताकारायां मध्योन्नतायामुपरि प्रसारितवस्त्रायां विन्यस्य, लिङ्गे पूर्वेद्युरर्चितां पूजां हृदयमन्त्रेण संपूज्य, शिरसि ईशानादिक्रमेण स्वाहान्तमूलेन सामान्यार्ध्यजलेनार्ध्यं दत्वा, धूपदीपौ प्रदर्श्य, अङ्गुष्ठादिकनिष्ठान्तैरीशानादिपञ्चकं विन्यस्य, कनिष्ठिकानामिकामध्ये पुष्पं सङ्गृह्याङ्गुष्ठतर्जनीभ्यां लिङ्गमस्तकात्पूजां हृदयेनावरोप्य, तत्पुष्पं लिङ्गमूर्ध्नि विन्यस्य निर्माल्यमीशानदिशि हृदेयेन शुद्धपात्रे निधायास्त्रेण लिङ्गं पाणुपतास्त्रेण पीठं प्रक्षाल्य सामानयार्ध्यजलेन हृदाभिषिञ्चेत्। एवं कृते पूर्वपूजासमाप्तौ लिङ्गपीठविन्यस्तमन्त्रोपसंहारानन्तरं लिङ्गपीठयोरासक्ताः पूजकस्य भुक्तिमुक्तिप्रतिबन्धकविघ्ना निरस्ता भवन्ति। लिङ्गं च हृदयाम्बुस्नपनेन शुद्धं पुनर्मन्त्रविन्यासयोग्यं भवति। इति लिङ्गशुद्धिः॥
अन्नाभिषेचनम्
ततः शिवशक्तिभ्यां नम इति लिङ्गमुद्रां प्रदर्श्य आसनमूर्तिं मूलैरप्टपुष्पिकया वा संपूज्य धूपदीपौ प्रदर्श्य सुवर्णरजतताम्रमयशङ्खशुक्तिगोशृङ्गान्यतमपात्रेण चतुरङ्गुलदीर्घया गोशृङ्गाग्रप्रमाणया वा धारयाभिषिज्य, इस्तयन्त्रोद्भवतैलेन गोघृतेन वाभ्यज्य, पिष्टचूर्णादिभिर्वाभ्युक्ष्य कोष्णतोयेनाभिषिच्य शिरसि पुष्पमारोप्य, पञ्चगव्यं प्रत्येकपञ्चामृतफलरससंयुक्तपञ्चामृतैरन्तरान्तरा शिरःशिखामन्त्रैः पुष्पधूपदीपसमर्पणपूर्वकमस्त्रेणघण्डां ताडयन्नभिषिञ्चेत्। (109)नानासुगन्धद्रव्यमीलितत्वक्पनस(109)नालिकेरखण्डसत्वग्दाडिमबीजपूरलिकुचनारङ्गचूतकदलीफलोपेतमुदकम्,{109.एवं फलोदकादिभिः सिञ्चेत्। तत्र फलोदकं नाम सुगन्धि जलम्, वित्वक्पनस-च.पा.} यवनीवारव्रीहिमुद्गगुडसिद्धार्थसौगन्धिकहेमशालिबीजसहितमुदकं बीजोदकं। तेनाभिषिच्य मूलबीजेन गन्धपुष्पधूपदीपैरर्चयेत्। स्फटिकमुक्ताफलमाणिक्यविद्रुमगोमेधपुष्यरागगारुत्मतेन्द्रनीलसहितमुदकं रत्नोदकम्। तेनाभिषिच्य वर्णन्त्रेण गन्धादिभिरभिषिञ्चेत्। चन्दनागरुकस्तूरीकुङ्कुमकर्पूरमनशिशलैलाकुष्ठतक्कोललामञ्चोशीरचम्पकमुकुलचूर्णसहितमुदकं गन्धोदकम्। तेनाभिषिच्य गन्धपुष्पधूपदीपनैवेद्यानि नाममन्त्रेण समर्पयेत्। चम्पकमल्लिकाकेतकीपाटलकुन्दपुन्नागनन्द्यावर्तश्रियावर्तजातीमन्दारकरवीरपद्मनीलोत्पलगिरिपुष्पयुक्तं ह्रीवेरदमनकादिमिश्रितमुदकं पुष्पोदकम्। तेनाभिषिच्य शिवमन्त्रेण गन्धपुष्पधूपदीपादीन् दद्यात्. ततो नाममन्त्रं समुच्चरन् शुद्धेनान्नेन शनैश्शनैरभिषिच्य तदन्नं लिङ्गमभितः स्थितं लिङ्गाकृतिं कृत्वा गन्धपुष्पधूपदीपपायसताम्बूलनि दत्वा तदन्नं प्रक्षाल्य लिङ्गमूर्ध्नि मूलबीजं न्यस्य गन्धपुष्पधूपदीपान् दत्वा ब्रह्ममन्त्रैरालभ्य धेनुमुद्रां बध्नीयात्। इदमन्नाभिषेचनमपमृत्युनिवारकमायुरारोग्यराज्याभिवृद्धिदं सकलवशीकरणं सर्वशान्तिकरं च॥
ततो जलार्चनं कुर्यात्। निरीक्षणादिसंस्कारवता शुद्धजलेन हेमरजतताम्रयज्ञवृक्षजान्यतमपात्रं प्रपूर्य (तत्पात्रं करपीठे विन्यस्य तन्मध्ये प्राण) लिङ्गं संस्थाप्य दूर्वातिलाक्षतान् दत्त्वा गन्धपुष्पधूपदीपैरर्चयेत्। इदं जलार्चनम्। ततः समुद्धृत्य संमृज्य (110)पूर्ववत्करपीठरूपस्थानवेद्यां{110.पूववत्स्नाननैवेद्यं विन्यस्य नालिकेरेक्षुरसादिभिरपि यथासंभवमभिषिञ्चेत्। शिवस्य धृताभ्यङ्गेन वर्षकोटि इति चन्द्रिकापाठः.} विन्यसेत्। जलाभिषेकेण कल्पकोटि(110)सहस्रार्जितं पापं नश्यति। मासं घृताभिषेकेण त्रिसप्तकुलोपेतस्य शिवपदप्राप्तिर्भवति। करयन्त्रोद्भवतिलतैलाभिषेकेण शिवपदप्राप्तरिभवति। क्षीराभिषेकेणायुतसालङ्कारगोदानफलप्राप्तिर्भवति। दध्यभिषेकेण सर्वपापक्षयपूर्वकं शिवलोकप्राप्तिर्भवति। मधुस्नपनेन वह्निलोकप्राप्तिर्भवति। इक्षुरसस्नपनेन विद्याधरलोकप्राप्तिर्भवति। कर्पूरागरुतोयेन शिवपदप्राप्तिः। गन्धतोयेन गन्धर्वलोकस्य, पुष्पोदकेन सूर्यलोकस्य, हेमोदकेन कुबेरलोकस्य, मुक्तोदकेनेन्द्रलोकस्य, कुशोदकेन ब्रह्मलोकस्य प्राप्तिरित्यादि द्रष्टव्यम्। तत्तद्द्रव्यालाभे वस्त्रपूतेन शुद्धतोयेनाभिषिञ्चेत्। तेनापि सर्वकामसमृद्धवरुणलोकप्राप्तिरुक्ता॥
धाराभिषेचनम्
ततो धाराभिषेचनं कुर्यात्। (111)तच्छात्मार्थपूजातत्त्वाद्द्वादशाङ्गुलविस्तारं{111.तच्चात्मार्थपूजायां द्वादशाङ्गुल-पा.} एकाङ्गुलोत्सेधं यवत्रयघनमुत्तमम्। सप्ताङ्गुलविस्तारमर्धाङ्गुलोत्सेधं यवद्वयघनं मध्यमम्। पञ्चाङ्गुलविस्तारं पादाङ्गुलोत्सेधं यवमात्रघनमधमम्। तत्सुवर्णेन रजतेन ताम्रेण वा चतुरश्रं वृत्तं वा कर्तव्यम्। चतुरश्रं चेन्नव कोष्ठानि विलिख्य मध्यकोष्ठस्य मध्ये रन्ध्रमेकं परितोऽष्टौ मध्यकोष्ठस्यैव नवरेखायां महादिक्षु चत्वारि पूर्वादिकोष्ठेषु प्रत्येकं द्वादशद्वादशरन्ध्राणि चेत्येवमुत्तमपात्रस्यैकाचिकानि अष्टोत्तरशतं रन्ध्राणि कुर्यात्। (112)(मध्यकोष्ठस्य{112.इदमधिकम्.} मध्ये रन्ध्रमेकं परितोऽष्टौ पूर्वादिकोष्ठेषु पञ्च पञ्च चेत्येवं मध्यमपात्रस्यैकोनानि पञ्चाशद्रन्ध्राणि कुर्यात्।) मध्यकोष्ठस्य मध्य एकम्, पूर्वादिकोष्ठेषु त्रीणि त्रीणि रन्ध्राणीत्येवं मध्यपात्रस्य पञ्चविंशतिरन्ध्राणि कुर्यात्। वृत्तं चेदष्टदळपद्मं विलिख्य कर्णिकाया मध्ये परितश्च नवरन्ध्राणि, प्रतिदळं द्वादश द्वादश रन्ध्राणि दलेभ्यो बहिर्वृत्ते महादिक्षु चत्वारि चोत्तमपात्रस्य कुर्यात्। इतरपात्रयोरष्टदलपद्मे चतुरश्रवद्रन्ध्राणि द्रष्टव्यानि॥
एवम्भूतं पात्रं देवस्योपरि हस्तधृतं कृत्वा (113)शुद्धजलेनापूर्य{113.शङ्खजलेन-पा.} हस्तेन पात्रं धारयन् मूलेन धाराभिरभिषिञ्चेत्। एवमभिषेकार्थानि प्राक्संस्कृतपञ्चगव्यादिव्यतिरिक्तानि तैलादीनि अस्त्रेण संप्रोक्ष्य कवचेनावकुण्ठ्य अस्त्रेण संरक्ष्य हृदयबीजेनाभिषेचने विनियोजयेत्। एवं प्रपञ्चेनाभिषेकं कर्तुमशक्तः शुद्धजलेनाभिषेचयेत्। ततो मूलमन्त्रेण पुष्पं दत्वा मन्त्रान्नं निवेद्य शुद्धमृदुवाससा शनैः संमृज्य (पद्मपीठे) करकमले स्थापयेत्। तत उत्थाय (उत्थित इव)मनसा शिवं प्रदक्षिणीकृत्य निर्ऋतिकोणस्थितवास्त्वधिपतिब्रह्मस्थानादुत्तरभागरूपं शिवमन्दिरस्य वायुकोणं गत्वा तत्र श्यामवर्णं दण्डाक्षसूत्रपाशाङ्कुशान् करैः पुष्करेण बीजपूरं च धारयन्तं दक्षिणाभिमुखमुपविष्टं गणपतिमावाहनादि सर्वोपचारैः संपूज्य "शिवार्चनं गणेशान निर्विघ्नं कुरु मे सदा"इति प्रार्थयेत्। ततः प्राग्भागे च (114)शिवपीठकस्योत्तरदिशारूपे{114.शिवभेरिकस्य, शिवखेटकस्य-पा.} श्रीफलकमलाभयधारिणीं त्रिणेत्रां शिवशक्तिरूपां दक्षिणामुखोपविष्टां महालक्ष्मीं तथैव संपूज्य "मातः शिवार्चनद्रव्यसमृद्धिं कुरु मे सदा" इति प्रार्थयेत्। ततः प्राग्भागे शिवमन्दिरस्येशानकोमरूपे सदाशिवानन्तश्रीकण्ठाम्बिकागुहविष्णुधातृरूपान् प्रसन्नवदनान् योगपट्टधरान् व्याख्यामुद्राक्षसूत्रविराजितकरद्वयान् गौरवर्णान् दक्षिणामुखानुपविष्टान् सप्तगुरून् वा शिवादिस्वरूपगुरुपर्यन्तान् सर्वान् गुरून् वा तथैव सर्वोपचारैः संपूज्य "शिवादिगुरवो मह्यमनुज्ञां दातुमर्हथ। शिवार्चनं करिष्येऽहं युष्मद्दर्शितमार्गतः॥" इति प्रार्थयेत्। गुरुश्थाने श्रीगुरु(115)पादुकाभ्यां{115.पादकमलाभ्यां-मु. पा.} नम इति गुरुपादुके वा पूजयित्वा, गणपतिमहालक्ष्मीगुरुपादुकानां पूजानन्तरं सर्वान् प्रणम्य क्षितितलनिहितनिश्चलजानुः बद्धाञ्जलिः "गणनाथाम्बिके स्वामिपादुके मां जगद्गुरो। यजन्तमनुजानीत यथासंपन्नकारकम्॥" इति युगपत्प्रार्थयेत्॥
अथ तेभ्यः सकाशात् "पुत्र शिवं यजस्वे" त्यनुज्ञानलाभं भावयित्वा, देवस्याग्नेयकोणे दक्षिणभागे वा रुचिराद्यासने स्थितः स्वष्टेफलाभिसन्धिपूर्वकं "यथाशक्ति शिवार्चनं करिष्य" इति सङ्कल्प्य, पूजामारभेत॥
तत्र प्रथमं (116)शिवार्चनम्{116.सिवासनार्चनमिति स्यात्.}। तत्र कन्दनालग्नन्थिदलकेसरकर्णिकाविभक्तकमलरूपं क्षित्यादिशुद्धविद्यन्तद्वात्रिंशत्तत्त्वपर्यन्तोच्छ्रायम्, उपरि स्थितया मूर्त्या सह निवृत्त्यादि शान्तिकलापर्यन्तोच्छ्रायम्. तदुपरि शान्त्यतीतकलाप्रमाणो विद्यादेहः। तत्स्वरूपपरिज्ञानार्थं निवृत्त्यादिकलाप्रमाणं तदन्तर्गततत्त्वस्वरूपं च विविच्यते--निवृत्तिकला शतकोटियोजनप्रमाणब्रह्माण्डरूपा। तत्रैकं पृथिवीतत्त्वम्। तदुपरि सहस्रकोटियोजनप्रमाणा प्रतिष्ठाकला। तत्र जलादिभूतचतुष्टयगन्धादितन्मात्रपञ्चक(117)[ज्ञानेन्द्रियपञ्चक]{117.ज्ञानेन्द्रियपञ्चकं विना त्रयोविंशतिसङ्ख्यापर्याप्तिर्नस्यात्.}कर्मेन्द्रियपञ्चकमनोऽहङ्कारबुद्धिप्रकृतिरूपाणि त्रयोविंशतितत्त्वानि। तदुपरि अयुतकोटियोजनप्रमाणा विद्याकला। तत्र पुरुषरागनियतिकलाविद्याकालमायारूपाणि सप्ततत्त्वानि। तदुपरि लक्षकोटियोजनप्रमाणा शान्तिकला। तत्र शुद्धविद्या महेश्वरश्चेति द्वे तत्त्वे। तदुपरि दशलक्षकोटियोजनप्रमाणा शान्त्यतीतकला। तत्र सदाशिवः शक्तिश्चेति द्वे तत्त्वे। तदुपर्यप्रमेयं शिवतत्त्वं निवृत्तिकलात्मकं पृथिवीतत्त्वं यावत्कन्दं, प्रतिष्ठाविद्याकालान्तर्गतानि (118)एकोनत्रिंशत्तत्त्वानि{118.मायातत्त्वं विना.} यावन्नालम्। जलादिकालान्ततत्त्वेषु स्थितानि पञ्चसप्ततिभुवनानि कण्टकाः। तत्तद्भुवनान्तर्गतप्राणिनां बुद्धिधर्माः (119)पञ्चाशद्भावाः{119.पञ्चाशद्भुवननाल-पा.} नालान्तर्गतसूत्राणि। विद्यायामेव कालस्योपरिस्थितं मायातत्त्वं पद्मनालग्रन्थिः। शान्तिकलायां स्थितं शुद्धविद्यातत्वदलकेसरकर्णिकात्मकं पद्मम्। शुद्धविद्याया उपरि स्थितं महेश्वरतत्त्वं यावच्छिवस्य सूक्ष्ममूर्तिः। शान्त्यतीतकलायां स्थितं सदाशिवशक्तितत्त्वद्वयं यावद्विद्यादेहः। नाले स्थितानि भुवनानि च (120)कला(मनो)वायुगगनाहङ्कारबुद्धिप्रकृतिषु{120.जलानलवायु-पा.} प्रत्येकमष्टावष्टौ भुवनानीति षट्पञ्चाशत् पुरुषे षट् रागे पञ्च नियतौ द्वे कलायां द्वे विद्यायां द्वे काले द्वे इति पुरुषादिकालान्तेषु भुवनान्येकोनविंशतिरित्येवं पञ्चसप्ततिभुवनानि कण्टकाः। तमो मोह महामोहतामिस्रान्धतामिस्ररूपाः पञ्च विपर्ययाः। ऊहः शब्दोऽध्ययनं दुःखत्रयविघाताः सुहृत्प्राप्तिर्दानं चाष्टौ सिद्धयः। आध्यात्मिक्यः प्रकृत्युपादानकालभाग्याख्याश्चतस्रः, विषयोपरमकृता बाह्याः पञ्च चेति नव तुष्टयः। अन्धत्वमूकत्वादय एकादशेन्द्रियवधाः। अनूहादयः सप्तदश वधाः प्रागुक्तसिद्धिबुद्धिवधाश्चेति अष्टाविंशतिरक्तयः॥ इति पञ्चाशद्भावना नालसूत्राणि॥
अत्र कन्दनालादियोजनप्रमाणविषये मतान्तरं प्रदर्श्यते। निवृत्तिकलात्मकं पृथिवीतत्त्वं पूर्ववच्छतकोटियोजनमेव। पृथिवीतत्त्वाद्दशगुणोऽवायुः, वायोर्दशगुणं व्योम, ततो दशगुणोऽहङ्कारः, अहह्काराद्दशगुणा बुद्धिः, बुद्धेर्दशगुणं गुणतत्त्वम्। एवं गुणतत्त्वपर्यन्तं दशसङ्ख्यया वृद्धिः. गुणतत्त्वाच्छतगुणा प्रकृतिः। प्रकृतेः शतगुणो रागः। कागाच्छतगुणा नियतिः। नियतेः शतगुणा विद्या। ततः शतगुणा कला। ततः शतगुणः कालः। ततः शतगुणा माया। शुद्धविद्येश्वरसदाशिवानां सहस्रसङ्ख्यया वृद्धिः। मायायाः सहस्रगुणा शुद्धिविद्या। शुद्धविद्यायाः सहस्र गुण ईश्वरः। ईश्वरात्सहस्रगुणः सदाशिव इति। ततो लक्षसङ्ख्यया वृद्धिः। सदाशिवाल्लक्षगुणा शक्तिरिति। ततः शिवतत्त्वमप्रमेयम्। (121)इदं{121.इति च मतं प्रकृतेः पूर्वं गुणतत्त्वमङ्गीकृत्य प्रकृतेरनन्तरं पुरुषतत्वमङ्गीकृत्य च प्रवृत्तम्।} च महत्तत्त्वप्रकृति पूर्वगुणतत्त्वमङ्गीकृत्य प्रकृतेरन्तरं पुरुषमङ्गीकृत्य च प्रवृत्तम्। तथा चाहुः--
क्ष्मातत्त्वं शतकोटियोजनमपः प्रारभ्य गौणात्मकं
पङ्क्त्या तद्गुणानात्तथा प्रकृतितो मायावसानं शतात्।
साहस्त्राच्च सदाशिवावधि ततः शक्त्यन्तकं लक्षतो
(122)व्याप्यूर्ध्वं च सदाशिवोऽप्यमेयविभवो बिन्दोरधिष्ठायकः॥
{122.तस्योर्ध्वं स शिवोऽप्यमेय.}
इति।
एवं सति नालः कियद्योजनसङ्ख्यो जात इति चेदसङ्ख्ययोजन एव। तथापि किंचित्प्रकारमारोप्य योजनसङ्ख्या प्रदर्श्यते. एकत्वमारभ्योत्तरोत्तरं दशगुणवृद्वौ क्रियमाणायां विंशतितमं स्थानं परार्धसङ्ख्या। सा सर्वान्तिमसङ्ख्या। विंशतेश्च स्थानानामेतानि नामानि--एकं, दश, शतं, सहस्रं, अयुतं, लक्षं, प्रयुतं, कोटिः, अर्बुदं, पद्मं, खर्वं, निखर्वं, बृन्दं, महापद्मं, शङ्खः, महाशङ्खः, महासमुद्रः, अन्तिमः, मध्यं, परार्ध इति॥
तथा चाहुः--
एकं पङ्ति शतं सहस्रमयुतं लक्षं प्रपूर्वायुतं
कोटिश्चार्बुदकं च पद्मकमथो खर्वं निखर्वं तथा।
बृन्दं चैव महासरोजमपरः शङ्खः समुद्रोऽन्तिमो
मध्यं चैव परार्धसंज्ञकमिमां सङ्ख्यां विदुः पण्डिताः ॥ इति॥
एवं च शतकोटिसङ्ख्यामेकस्थाने निवेश्य जलतत्त्वादीनां सङ्क्या क्रियते। शतकोटिर्नाम पद्मसङ्ख्या। ततश्च पद्मयोजनं पृथिवीतत्त्वम्, एकयोजनं जलतत्त्वम्, दशयोजनं तेजस्तत्त्वं, शतयोजनं वायुतत्त्वं, सहस्रयोजनं गगनतत्त्वं, अयुतयोजनोऽहङ्कारः, लक्षयोजना बुद्धिः, प्रयुतयोजनं गुणतत्त्वं, कोटियोजनं ततःपरं शतसङ्ख्यया वर्धनीयत्वा(123)देकान्तनिरतशतसङ्ख्या{123.एकान्तरितेति स्यात्.} ग्राह्या। यथा--प्रकृतिः पद्मयोजना, पागो निखर्वयोजनः, महाविद्या महाशङ्खयोजना, कला महासमुद्रयोजना, कालः परार्धयोजन इति। एवं च जलादिकलान्ततत्त्वसमुदायरूपो नालो दशशतसहस्रायुत लक्षप्रयुतकोटिपद्मनिखर्व महापद्म महाशङ्ख महासमुद्र परार्धाख्यत्रयोदशसङ्ख्यासमुदायसङ्ख्येययोजनपरिमितो भवति। पद्मसङ्ख्यायामेकत्वरूपतामनारोप्य परार्धाधिकसङ्ख्यासद्भावमारोप्य गणने तु नालः खर्वनिखर्व बृन्द महापद्म शङ्ख महाशङ्ख समुद्र मध्य दशगुणितपरार्ध सहस्रगुणितपरार्ध कोटिगुणितपरार्ध लक्षगुणितपरार्ध रूपत्रयोदशसङ्ख्यासमुदायसङ्ख्येययोजनोच्छ्रायो भवति। नालान्तर्गतानां (तद्गतानामपि भुवनानामपि) भुवनाधाराणामपि गन्धादिपञ्चककर्मेन्द्रियपञ्चकज्ञानेन्द्रिययोजनोच्छ्रायो भवति। नालान्तर्गतानां (तद्गतानामपि भुवनानामपि) भुवनाधाराणामपि गन्धादिपञ्चककर्मेन्द्रियपञ्चकज्ञानेन्द्रियपञ्चकमनसां पृथग्योजनसङ्ख्या नास्तीति मताश्रयणात् तेषु योजनसङ्ख्या न गुणिता॥
अथ तेषामपि भुवनाधारतया पृथग्योजनसङ्ख्यामाश्रित्य मतान्तरं प्रदर्श्यते। पद्मयोजनप्रमाणाद्भूतत्त्वाज्जलदिमनोन्तानां विंशतेस्तत्त्वानामुत्तरोत्तरं दशगुणा वृद्धिः, अहङ्करबुध्योः शतगुणा, प्रकृतेः सहस्रगुणा, पुरुषस्यायुतगुणा, नियतिकालयोर्लक्षगुणा, रागविद्याकलानां दशलक्षगुणा, मायायास्ततः कोटिगुणा, शुद्धविद्याया दशकोटिगुणा, ईश्वरस्य शतकोटिगुणा, सदाशिवस्य सहस्रकोटिगुणा, शक्तेरयुतकोटिगुणा, शिवतत्त्वस्य नास्ति योजनसङ्ख्येति पुरुषमायामध्यवृत्तितत्त्वानां पञ्चानामूर्ध्वाधरभविन क्रमभेदमाश्रित्येदं मतं प्रवृत्तम्। अस्मिन् मते क्षित्यादीनि मनोऽन्तान्येकविंशतितत्त्वानि उत्तरोत्तरं दशगुणवृध्या क्रमादेकदशशतसहस्रायुतलक्षप्रयुतकोट्यर्बुदपद्मखर्वनिखर्वबृन्दमहापद्मशङ्खमहा--समुद्रान्तिममध्यपरार्धदशपरार्धयोजनानि। अहङ्कारबुद्धी शतगुणवृध्द्या क्रमात् सहस्रगुणितलक्षगुणितपरार्धयोजने। प्रकृतिः सहस्रगुणवृध्द्यार्बुदगुणित परार्धयोजना। पुरुषस्ततोयुतगुणबृध्द्या (124)वृन्दगुणित{124.महासमुद्रगुणितसहस्रपरार्धगुणितपरार्धयोजनौ। रागविद्याकलास्तु दशलक्षगुणवृध्द्या क्रमात् पद्मपरार्धगुणितमहाशङ्खपरार्धगुणितशतपरार्धहतपरार्धगुणितपरार्धयोजनाः इति-शिव-चन्द्रिकापाठः.} परार्धयोजनः। नियतिकालौ लक्षगुणवृध्द्या क्रमात् (पद्मपरार्धगुणित महाशङ्ख परार्धगुणित शतपरार्धहतपरार्धगुणित परार्धयोजनौ)। एवं चास्मिन् पक्षे जलादिकलान्ततत्त्वसमुदायरूपो नालो दशादिशतपरार्धाहत परार्धगुणितपरार्ध पर्यन्तैकोनत्रिंशत्सङ्ख्यासमुदायसङ्खयेययोजनपरिमितो भवति। अस्मिंस्तत्त्ववृध्द्याश्रयणेन प्रवृत्ते पक्षद्वयेऽपि (125)नालग्रन्थेः{125.नालात्ग्रन्थेः-पा.} पद्मस्य चातिदैर्ध्यं स्थात्। तथाहि--अत्र प्रथमपक्षे तावन्नालान्तर्गतेषु तत्त्वेषु काल एकः परार्धयोजनः। कला तच्छतांशपरिमिता। एवं विद्यानियतिपूर्वकतत्त्वानि तच्छतांशपरिमितानीति नालः किंचिदधिकैकपरार्धयोजनः, मायारूपो ग्रन्थिस्तु शतगुणितपरार्धयोजनः, कालाच्छतगुणत्त्वान्मायायाः। पद्मं लक्षगुणितपरार्धयोजनम्। पद्मरूपायाः शुद्धविद्याया मायापेक्षया सहस्रगुणत्वात्। इत्थं पक्षान्तरेऽपि ग्रन्थिपद्मयो(125)र्दैर्ध्यावश्थित्या{125.नालात्ग्रन्थेः-पा.} पर्यवस्यति। एवं कन्दप्रभृति नालापेक्षया ग्रन्थेः पद्मस्य च दैर्ध्यं न लौकिकपद्मच्छायानुकारि नवनाभिकन्दादिहृत्प्रदेशान्तर्हृत्पद्मच्छायानुकारि। (126)अन्यकालवृद्धिपक्षाश्रयणमेव{126.अतः कलावृद्धि-पा.} शिवासनपद्मभावनायामनुकूलम्। इदं च कमलमनन्तासनासिंहासनयोगासनपद्मासन विमलासनरूप पञ्चासनगर्भम्। तत्र पृथिवीतत्त्वपरिमितकन्द एवाधारशिक्तिः, जलादि (127)कालान्ततत्त्वपरिमितो{127.कालान्तरतत्त्व-पा.} नाल एव तदुपरिस्थितपद्ममुकुलसहितः सन्नाधारशक्तिरूपक्षीरोदसमुत्थितफणामणिमण्डलसहितभुजङ्गमाकृतिशालिविद्येश्वराष्टकान्तर्गतानन्तरुद्रः, एतदुभयमनन्तासनमुच्यते। नालाद्यवधिजलतत्त्वप्रभृतिगुणतत्त्वपर्यन्तं नालं परितः स्थितं सिंहासनम्। तत उपरि ग्रन्थिपर्यन्तं योगासनम्। तदुपरि दलकेसररूपं पद्मासनम्। कर्णिकैव विमला सनम्। कर्णिकोपरिस्थितगुणत्रयमण्डलत्रयतत्त्वत्रयात्मकं वा॥
यद्यप्यनन्तः सहस्रफणामण्डितः सर्पत्वेनोक्त इति तस्य भोगदण्ड एवोर्ध्वाकारस्थितो नालः, सङ्कुचितं तत्फणामण्डलमेवात्र पद्ममुकुलम्, नतु तद्व्यतिरेकेण पद्ममस्ति, तथापि तदेव विकासध्यानदशायामष्टदलपद्मरूपेण भावनीयमिति पद्मासनमुच्यते। यद्वा वृत्ताकारं कोटिसूर्याभं सिंहासनादधः स्थितमनन्तभोगिरूपमनन्त(128)पद्मररूपान्नालादन्यदेवानन्तासनम्{128.पद्मरूपं नालात्.}। वृत्ताकारमुपर्युपरिस्थितानन्तवासुकितक्षक कार्कोटक पद्ममहापद्म शङ्खगुलिकाख्याष्टमहानागरूपं वा॥
अथ वा एवमनन्तासनं भावनीयम्--सिंहासनस्याधस्ताद्व्रषसिंहभूतकुञ्जराकारधर्मादिपादचतुष्टयस्य अधर्मादिफलकचतुष्टयस्य मञ्चस्योपरि फणापञ्चकेन पुच्छेन च सहितः फणामध्ये पुरुषाकारः क्षौमवस्त्रपरिधानः सर्वाभरणभूषितो वराभयकरद्वयो नागराजः। तं परितः पूर्वादिदिक्ष्वनन्ताद्या गुलिकान्ता एकफणाः कृताञ्जलिपुटा नागराजं वीक्षमाणा महानागाः नागराजस्य शिरसि प्रफुल्लमष्टदलयुक्तमनन्तपङ्कजमिति। अत्रादिमपक्षमवलम्ब्य शिवार्चनस्यापि क्रमः प्रदर्श्यते॥
हां आधारशक्तये नमः। शतकोटियोजनप्रमाणब्रह्माण्डाकारपृथिवीतत्त्वपरिमाण शिवासनपद्मकन्दरूपां धवलवर्णां पाशाङ्कुशवराभयधारिणीमाधरशक्तिं पूजयामि। अनन्तासनाय नमः। जलादिकलान्ततत्त्वपरिमाणनालरूपं मायाग्रन्थिसहितं एकादशसहस्रकोटियोजनोच्छ्रायं वा, ((129)खर्वनिखर्व{129.दश शत सहस्रायुत लक्ष प्रयुत कोट्यर्बुद पद्मखर्व निखर्व बृन्दमहापद्म शङ्खमहाशङ्कसमुद्रमहासमुद्र मध्यपरार्ध दशशतगुणितपरार्ध सहस्रगुणितपरार्ध लक्षगुणितपरार्धार्बुदगुणितबृन्दगुणितपरार्ध महासमुद्रगुणितपरार्ध सहस्रपरार्धगुणितपरार्ध पद्मपरार्धगुणितपरार्ध गुणितपरार्ध महाशङ्खपरार्धगुणितपरार्ध शतपरार्धहतपरार्धगुणितपरार्ध पद्मपरार्धाहतपरार्ध गुणितपरार्धरूप--शिव--चिन्द्रिकापाठः.} बृन्धमहापद्मशङ्खमहाशङ्खसमुद्रमध्यदशगुणितपरार्ध निखर्वगुणित सहस्रपरार्ध लक्षगुणतपरार्धकोटिगुणितपरार्ध पद्मगुणितपरार्ध खर्वगुणितपरार्धरूप चतुर्दशसङ्ख्यासमुदायसङ्ख्येय योजनोच्छ्रायं वा, शतसहस्रायुतलक्षप्रयुत कोट्यर्बुदपद्मखर्व निखर्व बृन्दमहापद्मऽङ्खमहाशङ्ख समुद्रमहासमुद्र मध्यपरार्ध दशगुणितपरार्ध सहस्रगुणितपरार्ध (130)लक्षगुणितपरार्धमहापरार्धार्बुदगुणितपरार्ध{130.लक्षगुणितपरार्धार्बुदगुणित-पा.} बृन्दगुणितपरार्धमहासमुद्रमध्यगुणित (131)परार्धसहस्रपरार्धगुणितपरार्ध{131.समुद्रगुणित-पा.} पद्मपरार्धगुणितपरार्ध महाशङ्खपरार्धगुणितपरार्ध शतपरार्धाहतपरार्धगुणितपरार्धपद्मपरार्धाहतपरार्धगुणित परार्धरूप) त्रिंशत्सङ्क्यागुणितपद्मसङ्ख्यासमुदायसङ्ख्ययोजनोच्छ्रायं वा, तदुपरि सहस्रफणामण्डलरूपाब्जमुकुलालङ्क्रतमेकवक्रं चतुर्भुजं हृदये नमस्कारमुद्रासहितमनन्तरुद्ररूपमनन्तासनं पूजयामि। हां शिवासनपद्मनालकण्टकेभ्यो नमः। पृथिवीकन्दोद्गताशिवासनपद्मनालावयवेभ्यो जलादिजलान्ततत्त्वाश्रितामरेश प्रभासनैमिषपुष्कराषाढिडिण्डिमुण्डिभारभूतलगुडीस्वरहरिश्चन्द्रश्रीशैलजप्येश्वराम्रातकेश्वरमध्यमेश्वरामद्यमेश्वरमहाकालकेदारभैरव गयाकुरुक्षेत्र (132)नाखलकनखल{132.नाकुलकनखलविमलेश्वर-पा.} विमलेश्वराट्टहासमहेन्द्रभीमेश्वराविमुक्तवस्त्रापदरुद्रकोटि महालयगोकर्णभद्रकर्णस्वर्णाक्ष(133)स्थाणुच्छगलण्डदुरण्डमाकोटि{133.स्थाणुच्छगलद्विरण्डमहाकोट-पा.} मण्डलेश्वर महाकालाञ्जनशङ्कुकर्णस्थूलेश्वर स्थलेश्वर पैशाचराक्षस यक्षगन्धर्व ऐन्द्र सौम्य प्राजापत्य ब्राह्माकृतकृतभैरव ब्राह्मवैष्णव कौमार (नाल) श्रीकण्ठवामदेव भीमोग्रभवेशानैकवीरप्रचण्डोमापत्यजानन्तैकशिवक्रोधचण्ड द्युति संबर्त शूर 9ज्योति पिङ्गसूरगमन्त्ररूपिसुबाहु भासुर कालदंष्ट्र पिङ्गलाक्ष विशाल कालरूपिहुताशन) पञ्चान्तकैकवीर शिखेयनामधेयपञ्चसप्तति भुवनरूपान् कण्टकान् पूजयामि। हां सूत्रेभ्यो नमः। पञ्चविपर्ययाष्टसिद्धिनवतुष्ट्यष्टाविंशति(श) रक्तिरूप पञ्चाशद्भावनात्मकानि शिवासनपद्मनालसूत्राणि पूजयामि॥
एवमनन्तासनात्मकनालपूजानन्तरं नालं परितः स्थिते सिंहासनयोगासने पूजयेत्। हां धर्माय नमः। शिवसिंहासनस्याग्नेयकोणपादरूपं सिहाकारं जलादिगुणतत्त्वपर्यन्तोन्नतमाग्नेयाभिमुखं विवृतास्यं परिवृत्तकन्धरं वायव्यकोणसिंहाव(134)लोकिनं{134.लोकनकाटि, लोकेन कोटि-पा.} कोटिसिंहपरिवारितं कर्पूरवर्णं धर्मं पूजयामि। हां ज्ञानाय नमः। शिवसिंहासनस्य नैर्ऋत्यकोणपादरूपं सिंहाकारं जलादिगुणतत्त्वपर्यन्तोर्न्नतं नैर्ऋताभिमुखं विवृतास्यं परिवृत्तकन्धरमीशानकोणसिंहावलोकिनं कोटिसिंह परिवारितं कुङ्कुमवर्णं ज्ञानं पूजयामि। हां वैराग्याय नमः. शिवसिंहासनस्य वायव्यकोणपादरूपं सिंहाकारं जलादिगुणतत्त्वपर्यन्तोन्नतं वायव्याभिमुखं विवृतास्यं परिवृत्तकन्धरमाग्नेयकोणसिंहावलोकिनं कोटिसिंहपरिवारितं सुवर्णवर्णं वैराग्यं पूजयामि। हां ऐश्वर्याय नमः। शिवसिंहासनस्येशानकोणपादरूपं सिंहाकारमीशानाभिमुखं जलादिगुणतत्त्वपर्यन्तोन्नतं विवृतास्यं परिवृत्तकन्धरं नैर्ऋतकोणसिंहावलोकिनं कोटिसिंहपरिवारितं मेघवर्णं ऐश्वर्यं पूजयामि। हां अधर्माय नमः। शिवसिंहासनस्य पूर्वलकरूपं श्वेतकृष्णवर्णं पुरुषाकारं दक्षिणशिरसमुत्तरपादमधोमुखमधर्मं पूजयामि। हां अज्ञानाय नमः। सिवसिंहासनस्य दक्षिणफलकरूपं श्वेतरक्तवर्णं पुरुषाकारं पूर्वशिरसं पश्चिमपादमधोमुखमज्ञानं पूजयामि। हां अवैराग्याय नमः। शिवसिंहासनस्य पश्चिमफलकरूपं रक्तपीतवर्णं पुरुषाकारमुत्तरशिरसं दक्षिणपादमधोमुखमवैराग्यं पूजयामि। हां अनैश्वर्याय नमः। शिवसिंहासनस्योत्तरफलकरूपं पीतकृष्णबर्णं पुरुषाकारं पश्चिमशिरसं पूर्वपादमधोमुखमनैश्वर्यं पूजयामि। तदनन्तरं हां शिवसिंहासनाय नमः, इति समस्तं सिंहासनं संपूज्य योगासनं पूजयेत्॥
तस्य श्वेतरक्तपीतकृष्णवर्णानि भूतरूपाणि कृतत्रेताद्वापरकलियुगान्याग्नयादिपादत्वेनाव्यक्तनियतिकलाकालान् स्फटिककालमेघदाडिमपुष्पभिन्नाञ्जनवर्णान् पूर्वादिफलकत्वेनाभ्यर्च्य, हां शिवयोगासनमध्यफलकरूपाय श्रीमहाविष्णवे नम इति मध्ये नीलवर्णं त्रिणेत्रं शङ्खचक्रवराभयकरं विष्णुं पूजयेत्। ततो रजोगुणारुणाय तमोगुणतूलभरिताय मायारूपायाधश्छदाय नम इति योगासनस्योर्ध्वमेखलाया अधोभागप्रसारितं शयनीयरूपं अधश्छदनं नैर्ऋतकोणे संपूज्य, हां सत्वगुणधवलिताय शुद्धमायारूपायोर्ध्वच्छदनाय नम इति मेखलाया उपरि शयनीयोत्तरछदनरूपमूर्ध्वच्छदनं नैर्ऋतकोणे च संपूज्य, हां शिवयोगासनाय नम इति समस्तं योगासनं पूजयेत्॥
योगासनविमलासने विना त्र्यासनात्मकमेव शिवासनमिति पक्षे सिंहासनमेव मायाग्रन्थिपर्यन्तोन्नतं भावयित्वा तत्पदफलकार्चनानन्तरं आग्नेयादिकोणेषु स्थिततदीयफलकद्वयसन्धानकीलत्वेन कृतयुगादिचतुष्टयमभ्यर्च्य तन्मध्यफलकत्वेनैव श्रीमहाविष्णुं पूजयित्वा अधश्छदनमूर्ध्वच्छदनं च पूजयेत्॥
ततोऽनन्तफणामण्डलरूपं पद्ममुकुलं विकसितं भावयित्वा तस्य दलकेसरानर्चयेत्। हां शिवासनपद्मदलेभ्यो नमः, अष्टविद्येश्वररूपाणि धवलवर्णानि शिवासनपद्मदलानि पूजयामि। हां केसरेभ्यो नमः, मूले सुवर्णवर्णआनि मध्ये विद्रुमवर्णानि मुक्ताफलाकृतिशिरोऽलङ्कृतानि चतुष्षष्टिकलारूपाणि वामादिशक्तिसहिताष्टरुद्ररूपाणि वा केसराणि पूजयामि। केसराणामष्टरुद्ररूपत्वपक्षे अष्टावष्टौ केसराणि एकैकरुद्रत्वेन भावनीयानि। अथवा फणारूपदलसहस्रयुक्तस्यानन्तपङ्कजस्य केसराण्यपि सहस्रं सन्तीति तानि सर्वाणि पञ्चावशत्युत्तरशतसङ्ख्यया अष्टधा विभज्य वामाद्यष्टरुद्ररूपेण पूजनीयानि। कर्णिकासहितान्यष्टावेव वा केसराणि तथा पूजनीयानि। अयं च न्यायोऽष्टविद्येश्वररूपतया पूजनीयेषु दलेष्वपि योजनीयः। हां कर्णिकायै नमः। विमलाशक्तिरूपां कनकवर्णां शिवासनपद्मकर्णिकां पूजयामि। हां बीजेभ्यो नमः। वामादिनवशक्तिरूपाणि वा पञ्चाशद्वर्णरूपाणि वा शिवासनपद्मकर्णिकाबीजानि पूजयामि। ततः सर्वावयवयुक्तं पद्मं विभाव्य हां पद्मासनाय नम इति संपूज्य हां पद्ममुद्रायै नम इति पद्ममुद्रां प्रदर्शयेत्। ततः पूर्वादिप्रादक्षिण्येनाष्टस्वष्टसु केसरेषु (135)वामाद्यष्टशक्तीरेकैकशः{वामादीरष्ट-पा.} पूजयेत्। वामायै नमः, ज्येष्ठायै नमः, बलप्रमथिन्यै नमः, सर्वभूतदमन्यै नमः, अरुणवर्णाश्चामरधारिणीः शिवासनन्यस्तैकस्ताः शिवाभिमुख्येन केसरेषु स्थिता वामादिशक्तीः पूजयामि। मनोन्मन्यै नमः, स्फटिकवर्णां पाशाङ्कुशाभयवरधारिणीं क्षिवासनपद्मकर्णिकायामीशानदिशि मध्ये वा स्थितां मनोन्मनीं पूजयामि। ततः साधिपतिकानि सूर्यसोमाग्निशक्तिमण्डलान्युपर्युपरि पूजयेत्। हां सूर्यमण्डलाय नमः, कोटिसूर्यप्रतीकाशं शिवपद्मासनदलाग्रव्यापकं सूर्यमण्डलं पूजयामि। हां सूर्यमण्डलाधिपतये ब्रह्मणे नमः॥
पञ्चवक्त्रं चतुर्बाहुं प्रतिवक्त्रं त्रिलोचनम्।
तप्तचामीकराभासं नमोमुद्रासमन्वितम्॥
सृष्टिकारणमात्मनमात्मतत्वस्वरूपिणम्।
सूर्यमण्डलाधिपतिं ब्रह्माणं पूजयामि।
हां सोममण्डलाय नमः। शिवासनपद्मकेसराग्रव्यापकं कोटिशीतांशुशीतलं सोममण्डलं पूजयामि। हां सोममण्डलाधिपतये विष्णवे नमः, मेघश्यामं शङ्खचक्रनमम्कारमुद्रान्वितकरचतुष्टयं स्थितिकारणकारणं विद्यातत्त्वरूपिणं सोममण्डलाधिपतिं विष्णुं पूजयामि। हां अग्निमण्डलाय नमः। शिवासनपद्मकर्णिकाव्यापकं वह्निमण्डलं पूजयामि। हां वह्निमण्डलाधिपतये रुद्राय नमः। माणिक्यवर्णं शूलानलनमोमुद्रान्वितकरचतुष्टयं संहरणकारणकारणं शिवतत्त्वरूपिणं वह्निमण्डलाधिपतिं रुद्रं पूजयामि। विमलासनं कर्णिकाव्यतिरिक्तमित िपक्षे आग्नेयादीशानान्तं गुणत्रयं दक्षिणाद्युत्तरान्तं मण्डत्रयं नैरऋतादिवायव्यन्तं तत्त्वत्रयंच पूजयित्वा हां विमलासनायनमः इति समस्तमिदं विमलासनं पूजयेत्।
तदनन्तरं मध्ये हां शक्तिमण्डलाय नमः धवलवर्णं मण्डलत्रयत्र्यापकमिच्छाशक्तिरूपं शक्तिमण्डलं पूजयामि। हां शक्तिमण्डलाधिपतये महेश्वराय नमः, स्फटिकवर्णमष्टहस्तं खड्गत्रिशूलबाणाक्षमालाकमण्डल्वभयवरारविन्दधारिणं शक्तिमण्डलाधिपतिं महेश्वरं पूजयामि। ततः समस्तं शिवासनं विभाव्य तदुपरिहां शिवासनायनम इति ज्ञानशक्त्यात्मकं शिवासनं पूजयेत्। अस्यामासनपरम्परायामाधारशक्तिमात्मार्थपूजायां ब्रह्मलोकस्थानीये पद्मपीठे पूजयित्वा, अनन्तप्रभृतिशक्तिमण्डलान्तं लिङ्गवेदिकायामुपर्युपरि लिङ्गनाल(भि)पर्यन्तं पूजयेत्। एवं प्रत्येकं शिवासनावयवपूजनाशक्तौ साङ्गोपाङ्गं शिवासनं विभाव्य हां शिवासनाय नम इत्येवं पूजयेत्। अयमनेकासनगर्भशिवासनार्चनप्रकारः। यद्वा आवाहने पद्मम्, अनन्तं स्नाने, विमलं अर्चने, योगेनैवेद्ये, वस्त्रादिष्वन्यषूपचारेषु सिंहासनं च कल्पयेत्। अथवा सिंहासनं स्नाने, अनन्तं, वस्त्रे, पद्ममाभरणगन्धपुष्पेषु, विमलं नैवेद्ये, योगमन्योपचारेषु कल्पयेत्। एवं शिवासनं संपूज्य हां हं हां शिवमृर्तये नम इति (136)लिह्गनाले{136.लिह्गनाभेर्महेश्वर, लिङ्गनाहमहेश्वर-पा.} महेश्वरतत्त्वात्मिकां शिवमूर्तिं स्थिरविद्युन्निभां दण्डाकारामविभक्तावयवां संपूज्य लिङ्गदैर्ध्ये हों ईशानमूर्धाय नमः," इत्यादिमन्त्रैर्दण्डभभ्ग्या मूर्धादिपादान्तमीशानादीन् विन्यस्य सशक्तिकमशक्तिकं वा तत्तत्स्थानेष्वष्टत्रिंशत्कला न्यसेत्। (137)श्वक्रियोत्तरादिदीक्षारहितश्चेद्वशिन्यादिशक्तिन्यासं{137.शूद्रः शशिन्यादिशक्तीरेव नय्सेत्-च.षा.} कुर्यात्। ततः श्रीकण्ठादिन्यासं च विदध्यात्। एवं सदाशिवदेहसिध्यर्थं न्यासं कृत्वा हां हौं विद्यादेहाय नम इति विभक्तावयवं सदाशिवं विद्यादेहं पूजयित्वा तत्स्वरूपं प्रपञ्चेन ध्यायेत्॥
क्षित्यादिशुद्धविद्यान्ते कन्दनालदलैर्युते।
कर्णिकाकेसरैर्युक्ते सूर्यबिन्बविभूषिते॥
(138)ईश्राङ्गस्थया मूर्त्या स्थिरविद्युत्प्रकाशया।
{138.ईश्वरान्त्यकथा-पा.}
अविभक्तावयवया भ्राजमानोपरिस्थले॥
क्षित्यादीश्वरतत्त्वान्ते मूर्त्या कथितया सह।
नानापट्टकुटीकोटियोजनौन्नत्यशालिनि॥
पद्मे स्थितं महापद्मकोटियोजनसंमितम्।
बद्धपद्मासनासीनं समुपासे सदाशिवम्॥
यद्वा कूटाङ्गकोटीकटकनटनटीनाट्यनव्यान्नपान्न-
ध्याना विद्यानकानीनकमितशतकोद्युन्नतैर्योजनौघैः।
तेयोर्मूत्यन्तकन्दप्रभृतिषु दशधा सप्तधा च प्रभिन्नैः
सङ्ख्यातव्यप्रमाणैस्सरसिरुहवरे योगपीठे निषण्णम्॥
दशोत्तरप्रयुतपरार्ध(139)योजनां
विवर्धकाविषयपरार्धयोजनाम्।
समुन्नतिं समुपगतं समाश्रये
सदाशिवं सरसिरुहासने स्थितम्॥
{139.योजनावित-पा.}
पद्मं कन्देऽथ नाले क्रमुकदशगुणा विंशतौ स्याद्विवृद्धि-
रेकैकद्वित्रिषु स्याच्छतमुखदशलक्षान्त(140)सङ्ख्यातिवृद्धिः।
(141)ग्रन्थौ कोट्याथ पद्मप्रभृतिषु दशकोट्येति सङ्ख्याभिराभिः
सङ्ख्यातैर्योजनौघैर्महिमजुषि महायोगपीठे स्थितं वा॥
तदुपरि शतकोटियोजनौघप्रथितमहेश्वरतत्त्वमानमूर्तेः।
लसितमुपरितत्सहस्रकोट्या तदयुतकोटिदिशा च वृद्धिभाजम्॥
{140.भङ्ग्याथवृद्धिः-पा. 141.ग्रन्थौ कोट्योऽथ-पा.}
पढ्चवत्क्त्रं दशभुजं प्रतिवक्त्रं त्रिलोचनम्।
दक्षिणे शूलवज्रासिपरश्वभयमुद्रिकाः॥
वामे च दधतं नागपाशघण्टानलाङ्कशान्।
अथवा वरखट्वाङ्गशूलाभीशक्तिपञ्चकम्॥
रुचकं डमरुं सर्पं नीलाम्भोजाक्षमालिकाम्।
अस्योर्ध्ववक्त्रं देवस्य बालभावसनोहरम्॥
प्रसन्नमूर्ध्वाभिमुखं निर्मलस्फटिकप्रभम्।
पूर्ववक्त्रं महेशस्य निष्टप्ताष्टापदप्रभम्॥
गर्वेण स्तिमितं सौम्यं संप्राप्तनवयौवनम्।
दक्षिणं वदनं शम्भोर्नीलाञ्जनचयप्रभम्॥
ब्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षमत्रयम्।
दंष्ट्राकरालं दुर्धर्षं स्फुरिताधरपल्लवम्॥
चन्द्रापीडं ज्वलत्केशं विलसत्प्रौढयौवनम्।
उत्तरं वक्त्रमीशस्य नवविद्रुमसप्रभम्॥
ललाटतिलकोपेतं नीलालकविभूषितम्।
प्रलोभनं त्रिणयनं चन्द्राभरणभास्वरम्॥
पार्वतीवदनाकारसलीलभ्रूलताञ्चितम्।
पश्चिमं (142)चन्द्रसङ्काशं नृपलक्षणलक्षितम्।.
{142. चण्डसं-पा.}
चन्द्रावतंसरुचिरं ध्यानस्तिमितलोचनम्।
इति ध्यात्वा पुनरपि ध्यायेद्देवं सदाशिवम्॥
इच्छाज्ञानक्रियारूपविलसल्लोचनत्रयम्।
ज्ञानचन्द्रकलाचूडं दशदिग्बाहुमण्डलम्॥
पञ्चब्रह्मात्मवदनं पञ्चसदाख्यवक्त्रकम्।
श्रीमत्पञ्चाक्षराकारवदनांसोरुशोभितम्।
समस्ततन्त्ररूपं च (143)सर्वब्रह्मकलामयम्।
निवृत्त्या जाटुपर्यन्तमानाभेश्च प्रतिष्ठया॥
{143. वर्णब्रह्म-पा.}
आकण्ठं विद्यया सिद्धमाललाटं तु शान्तया।
तदूर्ध्वं शान्त्यतीताख्यकलया परिकल्पितम्॥
एवं पञ्चकलारूपमिदं सादाशिवं वपुः।
चतुर्मुखी तटिद्वर्णा निवृत्तिर्वज्रधारिणी॥
एकवक्त्रा तटिद्वर्णा निवृत्तिर्वज्रधारिणी।
एकवक्त्रा शशाङ्काभा प्रतिष्ठा(144)पद्मधारिणी।
अग्निवर्णा त्रिवदना विद्या शक्तिलसत्करा॥
{144. पदधारिणी-पा.}
कृष्मवर्णा चतुर्वक्त्रा शान्तिर्ध्वज(145)विधारिणी।
पाशभृत्पञ्चवदना शान्त्यतीता शशिप्रभा॥
{145.विदारिणी-पा.}
सर्वाः पद्माक्षमालाभ्यामभयेन विराजिताः।
चतुर्भुजास्त्रिणेत्राश्च पीनोन्नतपयोधराः॥
आसां पञ्चाध्वगर्भत्वात्षडध्वात्मा सदाशिवः।
मन्त्राध्वा च पदाध्वा च वर्णाध्वा भुवनाध्वकः॥
तत्त्वाध्वा च कलाध्वा च षडध्वान इमे मताः।
चतुर्विंशत्युत्तरं यद्भुवनानां शतद्वयम्॥
भुवनाध्वा स संचिन्त्यो रोमबृन्दात्मना विभोः।
पञ्चाशद्रुद्ररूपैस्तु वर्णैर्वर्णाध्वकल्पना॥
असौ त्वगात्मना चिन्त्यो देवदेवस्य शूलिनः।
सप्तकोटिमहामन्त्रैर्मूलविद्यासमुद्भवैः॥
मन्त्राध्वा रुधिरात्मासौ विचिन्त्यः पार्वतीपतेः।
अनेकोटिमहामनत्रैर्मूलविद्यासमुद्भवैः॥
मन्त्राध्वा रुधिरात्मासौ विचिन्त्यः पार्वतीपतेः।
अनेकभेदसंभिन्ना मन्त्राणां पदसंहतिः॥
पदाध्वा चिन्तनीयः स्यात्सिरामांसतया प्रभोः।
पृथिव्यादीनि षट्त्रिंशत्तत्त्वान्यागमवेदिभिः॥
उक्तान्यमीभिस्तत्त्वाध्वा शुक्लमज्जास्थिरूपधृक्।
नास्य देहेऽस्थिरुधिरं न मांसं नास्ति किंचन॥
प्रतिविम्बमिवादर्शे शक्रचापमिवाम्बरे।
ज्योतिर्मयतया सिद्धमिदं सादाशिवं वपुः॥
तथापि कल्पनामत्रं कलाव्याप्यध्वनामिदम्।
ब्रह्मस्वीशेन (146)मूर्धानं तत्पुरुषेण (147)चतुर्मुखीम्॥
{146.मूर्धा-पा. 147.चतुर्मुखि-पा.}
हृदयादीन्यघोरेण गुह्यादीनि तु वामतः।
सद्योजातेन तु ध्यायेत्पादादीनि जगत्पतेः॥
पञ्चवक्त्राः स्मृताः सर्वे दशदोर्दण्डभूषिताः।
खड्गखेटधनुर्बाणकमण्डल्वक्षसूत्रिणः॥
वराभयोपेतकराः शुलपङ्कजपाणयः।
अघोरो घोर एतेषु तदन्ये सौम्यविग्रहाः।
एवं ध्यात्वा सदेशस्य पञ्चब्रह्मात्मतां विभोः।
तत्तद्ब्रह्मकलाभेदै(148)र्विविच्याङ्गानि कल्पयेत्॥
{148. विचिन्त्य.}
ईशानस्य कलाः पञ्च पञ्चमूर्धात्मतां गताः।
चतुर्मुखतया ध्येयाश्चतश्रः पुरुषस्य ताः॥
अष्टावघोरस्य कलाः समस्तजगतीपतेः।
हृत्कण्ठोऽसौ नाभिकुक्षी पृष्ठं वक्ष इतीरिताः॥
वामदेवस्य तु कलास्त्रयोदश शिवोदीताः।
गुह्योरुजानुजङ्घास्फिक्कटिपार्श्वे तथा मताः॥
सद्योजातस्य तु कला वसुसङ्ख्याः प्रकीर्तिताः।
पादौ करौ नासिके च शिरो बाहू च ता मताः॥
अष्टत्रिंशत्कला देवास्त्रिणेत्राश्च चतुर्मुखाः।
वराभयपरश्वेणविलसत्करपङ्गजाः॥
तत्द्ब्रह्मसमाकारवर्णायुधभृतोऽथवा।
एतेषां वामभागे तु वशिन्याद्याश्च शक्तयः॥
पाशाङ्कुशाभयवरैर्ध्यातव्याः सुस्मिताननाः।
श्रीकण्ठप्रमुखान् रुद्रान् वर्णरूपान् सशक्तिकान्॥
सिन्दूरकाञ्चनप्रख्यवामदक्षिणपार्श्वकान्।
पाशाङ्कुशाक्षवलयवरमुद्राविराजितान्॥
प्रसन्नवक्त्रकमलान्विश्ववाञ्छितदायकान्।
कामिकं पादकमलं योगजं गुल्फयोर्युगम्॥
चिन्त्यं पादाङ्गुलीरूपं कारणं प्रसृतिद्वयम्।
अजितं जानुनोर्युग्मं दीप्तमूरुद्वयं विभोः॥
गुह्यबीजात्मकं सूक्ष्मं सहस्रं भ्रुकुटीतटम्।
पृष्ठभागोंऽशुमानस्य नाभिः श्रीसुप्रभेदकम्॥
विजयं जठरं प्राहुर्निश्वासं हृदयात्मकम्।
स्वायम्भुवं स्तनद्वन्द्वमनलं लोचनत्रयम्॥
वीरागमः कण्ठदेशो रौरवं श्रवणद्वयम्।
मकुटं माकुटं तन्त्रं बाहू च विमलागमः॥
चन्द्रज्ञानमुरः शम्भोर्बिम्बं वदनपङ्कजम्।
जिह्वा प्रोद्गीतमीशस्य ललितं गण्डयोर्युगम्॥
सिद्धं ललाटफलकं सन्तानं कुण्डलद्वयम्।
यज्ञोपवीतं शर्वोक्तं हारः स्रक् पारमेश्वरम्॥
किरणं रत्नभूषास्य वातुलं वासनात्मकम्।
एवं तन्त्रात्मकं रूपमीश्वरस्य विचिन्तयेत्।
शिवज्ञानप्रदं पुंसां शिवधर्मप्रवर्तकम्।
विशुद्धं शिवसादाख्यं विद्युद्बृन्दमिवाम्बरे॥
विश्वतः स्फुटितं ज्योतिर्विद्यादूर्ध्वं मुखं विभोः।
अमूर्तमथ सादाख्यं मूलस्तम्भ इति श्रुतम्॥
ज्योतिस्तम्भमयं लिङ्गं स्मरेदस्योत्तरं मुखम्।
ज्योतिर्लिङ्गैकभागोत्थमेकवक्त्रं त्रिलोचनम्॥
मूर्तिसादाख्यमित्युक्तं ध्यायेत्पश्चिममासनम्।
शूलं वज्रं च परशुमभीतिं दक्षिणैः करैः॥
पाशं वह्निं च घण्टां च वरं वामैः करैरपि।
दधानं कर्तृ सादाख्यं चतुर्वक्त्राम्बुजोज्वलम्॥
लिङ्गमध्ये समुद्भूतं स्मरेद्दक्षिणमाननम्।
पञ्चवक्त्रं दशभुजं पीठलिङ्गे समुद्गतम्॥
प्रसिद्धं कर्म सादाख्यं पुरारेः पूर्वमाननम्।
पञ्चब्रह्माण्यूर्ध्वपूर्वदक्षिणोत्तरपश्चिमान्॥
वक्त्रपद्मान् विभोर्ध्यायेदीशानप्रभृतीन् क्रमात्।
हृदयं हृदये शुभ्रं शिरः शिरसि पिङ्गलम्॥र
शिखां शिखापदे रक्तां कवचं (149)पार्श्वयोः सितम्।
नेत्रेषु श्यामलं नेत्रं करेऽस्त्रमसितं स्मरेत्॥
{149. पादयोः-पा.}
चतुर्भुजास्त्रिणेत्राश्च जटामकुटमण्डिताः।
वराभये कपालं च शूलं च दधतः करैः॥
अङ्गदेवाः स्मृताः सौम्या नेत्रास्ते तूग्रविग्रहे।
त्रिशूलं त्रिगुणं प्राहुः परशुं सत्यनिष्ठता॥
खड्गं प्रतापो वज्रं च शम्भोः शक्तिरभेद्यता।
वह्निः संहारिणी शक्तिः शक्तिरनागेऽप्रधृष्यता॥
मलमायाकर्मपाशो घण्टानादस्वरूपिणी।
अभयं पालिनी शक्तिर्नियमं चाङ्कुशं विदुः॥
इच्छाज्ञानक्रियारूपास्त्रिशूलं शक्तयो मताः।
उक्तास्ता एव खट्वाङ्गं शुद्धतत्त्वप्रवर्तिकाः॥
बीजपूरमिति प्रोक्ता जगद्बीजप्रवर्तिकाः।
(150)डमरुक्षोभसम्पन्ना मायातत्त्वप्रवर्तिका॥
{150.डमरुः क्षोभसंपन्नमाया.}
काकोदरः कलामुख्यकार्यजातप्रवर्तिका।
मनःप्रवर्तिका शक्तिरिन्दीवरतया मता॥
अक्षमाला तु सा ज्ञेया इन्द्रियाणां प्रवर्तिका।
शक्त्यायुधात्मिक्रा शक्तर्दुष्टसंहारकारिणी॥
वरो भोगप्रदा शक्तिरभयं मोक्षदायिका।
इत्थं दशायुधधरं कोटिशीतांशुशीतलम्॥
द्वात्रिंशल्लक्षणोपेतं सर्वाभरणभूषितम्।
पङ्क्त्यङ्गुलपरिच्छिन्नजटामकुटमण्डितम्॥
तत्सव्यकोटिविन्यस्त त्र्यङ्गुलार्धेन्दुशेखरम्।
तद्वामकोटिविश्रान्तबिन्द्वाकृत्यमरापगम्॥
त्रिपुण्ट्रार्धेन्दुभूयन्त्रदीपचन्द्राकृतिं क्रमात्।
ईशानाद्यैर्मुखैः पुण्ट्रान्धारयन्तं मनोहरम्॥
ध्यायेत्तद्वामभागे तु दिव्यरूपां मनोन्मनीम्।
जपाकुसुमसङ्काशां शुभ्रवस्त्रविभूषिताम्॥
सर्वाभरणसम्पूर्णां पीनोरुजघनस्तनीम्।
सहस्रपद्मनीलाब्जवरदाभयधारिणीम्॥
एवं मनोन्मनीयुक्तं साक्षाद्देवं सदाशिवम्।
लिङ्गं विभावयन्नग्रे लिङ्गबुद्धिं परित्यजेत्॥
नेत्रत्रयेषु विन्यस्य हां नेत्रेभ्य इति क्रमात्।
आवाहयेत्परिशिवं सदेवं हृदयाम्बुजे॥
अथावाहनक्रमः--
अप्रमेयमनिर्देश्यमनूपममनामयम्।
सूक्ष्मं सर्वगतं नित्यं ध्रुवमक्षरमव्ययम्॥
भवन्तं भवता(151)दिष्टमन्त्रेणा भिव्यनज्म्यहम्।
{151. दिष्टो मन्त्रेणः-पा.}
इति विज्ञाप्य ऋजूर्ध्वकायो मनश्चक्षुर्निरोधपूर्वकमिडया वायुमापूर्य कुम्भकं कृत्वा हृदि पुष्पसम्पूर्णमञ्जलिं विधाय दृढमावाहनमुद्रां बध्वा स्वशरीरे मूलाधारस्थितं मन्त्रत्रयं परमशिव(152)ज्योतिः{152. ज्योतिस्तदधः समा-पा.} समाकृष्य मूलाधारप्रभृति स्थितम(153)हङ्कारमतिलङ्ख्य{153.स्थितं हकार-पा.} हृदयपर्यन्तं नीत्वा हृत्कण्ठताल्वादिस्थानस्थितपृथिव्यादिपाशजालब्रह्मादिकारणेश्वरसहिताकारादिद्वादशकलाश्च क्रेणण तत्तदनुसन्धानपूर्वकमतिलङ्घ्यद्वादशान्तपर्यन्त(154)मुपचारयन्नेव{154.मुच्चारयन्नेव-पा.} पुष्पाञ्जलिमपि द्वादशान्तपर्यन्तं नीत्वा मन्त्रमयं ज्योतिर्द्वादशान्तस्स्थपरमाशिवेन संयोज्य अविश्रान्तं परमामृतस्यन्दिबिन्दुरूपं तत आनीय भ्रूमध्यगतशिवमण्टपविश्रातं संभाव्य शरदिन्दुसहस्रवदाभाव्य हृद्देशेऽञ्जालिं विधारयन्वायुं पिङ्गलया विरेच्य वायुना सह परमशिवज्योतिः पुष्पाञ्जलिमध्यप्रापितं विभाव्य हां हौं शिवाय नम इति सदाशिवस्य ब्रह्मरन्ध्रे योजयेत्॥
उक्तार्थविशदीकरणाय मूलमन्त्रतदीयहकारतत्कलाद्वादशस्थानानि प्रदर्श्यन्ते। यद्देहमध्यस्थानं मूलाधारं ततः प्रभृति ब्रह्मरन्ध्रपर्यन्तं तालचतुष्टयप्रमाणं देहान्तर्गतम्। तत ऊर्ध्वं तालप्रमाणं शिखास्थानम्। तत्र मूलाधारस्थितचतुर्दलकमलकर्णिकायां प्रासादमनत्रस्योत्थानम्। ततः प्रभृति नाभिपर्यन्तं मूणालसूक्ष्मो विद्युत्प्रभो हकारः। नाभेरूर्ध्वं द्वादशाङ्गुलपर्यन्तं विद्युद्द्युति रकारयुक्तो हकारः। ततः परं चतुरङ्गुलप्रमाणं हृत्पद्मम्। तत आरभ्य शिखाग्रपर्यन्तं द्वादशकलास्थाननि। तत्र चतुर्दल (हृत्पद्म)व्याप्तिमान(155)कारस्त्रिमात्रः{155.मानौकार.} समूढाङ्गारपुञ्जद्युतिः। स च निवृत्तिकलया पृथिव्यादिप्रकृत्यन्तैश्चतुर्विंशत्या तत्त्वैश्च सहितेन ब्रह्मणाधिष्ठितः। तदूर्ध्वं कण्ठस्थानस्थिताष्टाङ्गुलप्रमाणषोडशदलपद्मव्याप्ति(156)मानुकरो{156.मानूकार.} द्विमात्रः समसमयसमुदितचन्द्रसूर्यद्युतिः। स प्रतिष्ठाकलया पुरुषादिकलान्तैः षड्भिस्तत्त्वैश्च सहितेन विष्णुना अधिष्ठितः। तदूर्ध्वं तालुमूलस्थितचतुरङ्गुलप्रमाणचतुर्दलपद्मव्याप्तिमान्मकार एकमात्रो विद्युद्वर्णः। स विद्याकलया मायातत्त्वेन च सहितेन रुद्रेणाधिष्ठितः। तदूर्ध्वं भ्रूमध्यस्थितद्व्यङ्गुलमानद्बिदलपद्मव्याप्तिमान् बिन्दुर्वृत्ताकारोऽर्धमात्रो विद्युद्वर्णः शान्तिकलया शुद्धविद्येश्वरतत्त्वाभ्यां च सहितेन महेश्वरेणाधिष्ठितः। तदूर्ध्वं ललाटमध्ये अर्धमात्रा ऊर्ध्वाग्रार्धचन्द्राकृतिः पादमात्रा चन्द्रवर्णा। तदूर्ध्वं ललाटे निरोधी। स चोर्ध्वाग्रत्रिकोणाकृतिरष्टांशमात्रो धूम्रवर्णः। तदूर्ध्वं शिरसि नादः। स दण्डाकृतिरुभयतो बिन्दुद्वययुक्तः षोडशांशमात्रो माणिक्यवर्णः। ततो ब्रह्मरन्ध्रे नादान्तः। स च दक्षिणामुखहलाकृतिर्दक्षिणपार्श्वस्थबिन्दुयुक्तो द्वात्रिंशांशमात्रो विद्युद्वर्णः। एवं बिन्दुस्थानाद्भूमध्यादेकादशाङ्गुलस्थितब्रह्मरन्ध्रपर्यन्ते स्थाने स्थितानामर्धचन्द्रनिरोधिनादनादान्तानां चतुर्णामपि शान्त्यतीतकलासदाशिवतत्त्वाभ्यां सहितः सदाशिव एवाधिष्ठाता। ब्रह्मरन्ध्रादूर्ध्वमेकाङ्गुलस्थानस्थिता शक्तिः सर्वमुखहलाकृतिर्वापार्श्वस्थबिन्दुसहिता चतुष्षष्ट्यंशमात्रा। ततस्त्र्यङ्गुलस्थाने स्थिता व्यापिनी त्रिशूलाकृतिः दक्षिणपार्श्वस्थबिन्दुसहिताऽष्टाविंशत्यधिकशतांशमात्रा। तदूर्ध्वं चतुरङ्गुलिसमानबिन्दुद्वयान्तर्गतकुब्जरेखायुगलान्तरालस्थऋजुरेखामधि षट्पञ्चाशदधिकद्विशततमांशमात्रा। तदूर्ध्वं चतुरङ्गुलस्थित (157)मनोन्मनीबिन्द्वधिष्ठानकतदूर्ध्वप्रसृतदण्डाकाररेखात्मिका{157.उन्मानी.} मनोमात्रा। अत्र ब्रह्मरन्ध्रादूर्ध्वमेकत्रिचतुरङ्गुलक्रमेण द्वादशाङ्गुलपर्यन्तशिखास्थाने उपर्युपरि स्थिताः शक्तिव्यापिनीः समनोन्मनीः शतकोटिसूर्यप्रभाः अनाहतशिवेनाधिष्ठिताः। ताश्चतस्रोऽपि मिलिताः परमाकाश इत्युच्यन्ते। एवमकारश्चतुरङ्गुलः, उकारोष्टाङ्गुलः, मकारश्चतुरङ्गुलः, बिन्दुर्व्द्यङुलमर्धचन्द्रनिरोधिनादनादान्ता एकादशाङ्गुलं शक्तिव्यापिनीः समनोन्मना द्वादशाङ्गुं व्याप्नुवन्तीत्येकचत्वारिंशदङ्गुलं द्वादशानामपि कलानां व्याप्तिस्थानम्। ततश्च मूलाघाराद्द्वादशान्तपर्यन्तमुक्तमानेषु तत्तत्स्थानेषु हकारमकारयुक्तं हकारमौकारमूकारं वृत्ताकारं बिन्दुद्वयमध्यगतदण्डाकारं नाददक्षिणपार्श्वस्थितं बिन्दुसहितोर्ध्वाग्रदक्षिणमुखहलाकारं नादान्तं वामपार्श्वस्थितबिन्दुसहितोर्ध्वाग्रदक्षिणमुखहलाकारं नादान्तं वामपार्श्वस्थितबिन्दुसहितोर्ध्वाग्रवाममुखहलाकारां शिक्तिं दक्षिणपार्श्वस्थितां बिन्दुसहितोर्ध्वाग्रत्रिशूलाकारां व्यापीनीं बिन्दुद्वयान्तरालगतकुब्जरेखाद्वयमध्यस्थितर्जुरेखाकृतिं समनां बिन्द्वधिष्ठानकोर्ध्वाग्रर्जुरेखाकृतिमुन्मनां च हृदयादिस्थानस्थितकलातत्कारणेश्वरैः सह क्रमेण पूर्वपूर्वत्यागेन झडिति मनसा विचिन्त्य तदुपरि परमाकाशसरित्समुद्भूतकोटिसूर्यसमप्रभकोटिशीतांशुशीतलाष्टत्रिंशत्कलात्मककेसरोज्वलप्रणवकर्णिकापञ्चाक्षरबीजाढ्यपरमानन्दमधुभरितमत्तभृङ्गनिषवितचिच्छक्तिरूपसहस्रदलकमलमध्यगतं सद्यःसमुद्यदनेककोटिसारदशशाङ्कसङ्काशप्रकाशं परमानन्दजलधिं निष्कलं परमशिवं मनसावगाहेत॥
बिन्द्वादिकलानां स्फुटीकरणाय द्वादशकलास्वरूपं लिख्यते--एवं भावनापुरस्सरं परशिवं मूलेनानीय हृदयमन्त्रेणावाहनमुद्रया सदाशिवहृदम्बुजं प्रापय्य, स्थापनमुद्रया तस्मिन् संस्थाप्य, सन्निधानमुद्रया स्वाभिमुखीकृत्य, स्वागतं ते महादेवेति विज्ञाप्य, वत्स सुखागतमिति देवोत्तरं मनसा विभाव्य, स्वागतार्ध्यं दत्वा, सन्निरोधमुद्रया सन्निरुध्य, "स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम्। तावत्त्वं प्रीतिभावेन लिङ्गेऽस्मिन् सन्निधिं कुरु" इति हृद्यञ्जलिबन्धपूर्वकं संप्रार्थ्य, शिवस्यानुमतिं भावयित्वा, निरोधार्ध्यं प्रदाय कालकण्ठ्या हुं फडन्तास्त्रेण विघ्नानुत्सार्य, शिवं कवचेनावकुण्ठ्य, हृदयशिरःशिखाकवचानि तत्त्न्मन्त्रैर्देवस्य हृदयादिस्थानेषु विन्यस्य, हृदयादिकराङ्गविन्यासरूपसकलीकरणानन्तरं पुष्पमारोप्य, मूलेन परमीकृत्य, धेनुमुद्रमुद्रयामृतीकुर्यात्॥
अत्रावाहनं शिवस्य सदाशिवदेहप्रापणम्। स्थापनं सदाशिवस्य हृदयाम्बुजेऽवस्थापनम्। सन्निधापनमभिमुखीकरणम्। सन्निरोधनं यावत्पूजासमाप्ति सन्निधानप्रार्थनम्। अवकुण्ठनं भक्तेषु प्रकाशार्थं विघ्नानामप्राप्त्यर्थं च कवचेनाच्छादनम्। सकलीकरणं हृदयादिपञ्चाङ्गन्यसनम्। परमीकरणं शुक्लपीतरक्तासितवर्णानां हृदयादीनां शिवैकवर्णत्वानुसन्धानम्। अमृतीकरणं विग्रहस्य शिवस्य चाभेदेन प्रतिपत्तिः॥
ननु विश्वव्यापकस्य शिवस्य कथमभिमतदेशप्रापणरूपमावाहनम्; उच्यते--अचिन्त्याद्भुतानन्तशक्तिकस्य शिवस्य व्यापकत्वमनव्यापकत्वमप्यस्तीति तस्य देशान्तप्रापणरूपमुपपद्यते। यद्वा व्यापकस्यापि जीवस्य शरीरावच्छेदोपाधिकमिव शिवस्यापि मन्त्रतेजोऽवच्छेदोपाधिवदभिमतदेशान्तरप्रापणं न विरुध्यते। अथवा दारुणि व्याप्तस्याग्नेर्मथनक्रियया क्वचिदभिव्यञ्जनवदभिमतदेशप्रापणभावनारूपया क्रियया शिवलिङ्गाद्यभिमतदेशे शिवस्याभिव्यञ्जनमेवावाहनम्॥
ननु सर्वत्र नित्योदितशिवानन्दप्रकाशरूपस्य परमशिवस्य किमिदमभिव्यञ्जनम्, उच्यते; यथा स्वयं प्रकाशमानस्याप्यङ्गारवह्निपुञ्जस्य भस्मच्छन्नस्य भस्मनिरास(158)पूर्वकक्रिययाभिव्यञ्जनमेवं{158.क्कफूत्कारक्रियया इति भवितव्यम्.} स्वयं प्रकाशमानस्यापि परमशिवस्य पूजकमनसो विषयान्तरेषु (मनो) व्यापारेण तं प्रति ठन्नस्यानन्यमनस्कविहितावाहनक्रियापूर्वकमभिमततदेशे लिङ्गादौ (159)यावज्जीवं{159.यावद्विसर्जनं कर्तव्यस्य-पा.} कर्तव्यस्य तत्तदुपचारसमर्पणार्थमनुसन्धानसन्तानस्योपक्रमणमेवाभिव्यञ्जनम्। अथवा शिवपुराणोक्तप्रकारेण सदाशिवहृदयाम्बुजे परमशिवस्योमासहायचिदानन्दमयदिव्यविग्रहाविर्भावभावनैवावाहनम्। (तच्च दीक्षासमये गुरूपदिष्टदिव्यविग्रहानुसन्धानमेवेति नाभिनवत्वशङ्कावकाशः)॥
तत्प्रकारः प्रदर्श्यते--
लिङ्गे सदाशिवं ध्यात्वा निश्चलेनान्तरात्मना।
अष्टत्रिंशत्कलान्यासं कृत्वा स्वस्यां तनौ यथा॥
अभ्यर्च्य गन्धपुष्पाद्यैस्त्यक्त्वा लिङ्गात्मतामतिम्।
तस्यां मूर्तौ मूर्तिमन्तं शिवं परमकारणम्॥
प्राणस्थानं सदेशस्य चिन्तयेदम्बया सह।
ब्रह्मा विष्णुश्च रुद्रश्च तथान्ये च सुरासुराः॥
तपोभिरुग्रैरद्यापि यस्य दर्शनकाङ्क्षिणः।
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम्॥
सह भूतेन्द्रियग्रामैः प्रथमं संप्रसूयते।
कारणानां च यो धाता ध्याता परमकारणम्॥
न संप्रसूयतेऽन्यस्मात् कुतश्चन कदाचन।
सर्वैश्वर्येण संपूर्णो नाम्ना सर्वेश्वरः स्वयम्॥
सर्वैर्मुमुक्षुभिर्ध्येयः शम्भुराकाशमध्यगः।
सर्वोपरि कृतावासः सर्वावासश्च शाश्वतः॥
(160)षड्विधाध्वमयः साक्षात्सर्वस्य जगतः पतिः।
उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः॥
{160.षड्विधाध्वमयस्यान्यसर्वस्य जगतः पतिः।-पा.}
अनन्तमहिमाम्भोधिरपरिच्छिन्नवैभवः।
अशेषविषयामोघशुद्धबुद्धिविजृम्भणः॥
आत्मशक्त्यमृतास्वादप्रमोदभरलालसः।
अनन्तानन्दसन्दोहमकरन्दमधुव्रतः॥
अखण्डजगदण्डानां पिण्डीकरणपण्डितः।
औदार्यवीर्यगाम्भीर्यमाधुर्यमकरालयः॥
अतुलः सर्वभूतानां राजराजो महेश्वरः।
अप्राकृतशरीरं तमतिमन्मथरूपिणम्॥
घृतरीतिघनीभूतसच्चिदानन्दविग्रहम्।
सर्वलक्षणसम्पन्नं सर्वावयवशोभितम्॥
रक्तास्यपाणिचरणं कुन्दमन्दस्मिताननम्।
शुद्धस्फटिकसङ्काशं फुल्लपद्मत्रिलोचनम्॥
चतुर्भुजमुदाराङ्गं चारुचन्द्रकलाधरम्।
वरदाभयहस्तं च मृगटङ्कधरं विभुम्॥
सर्वोपमानवर्गस्य दवीयांसं विभावयेत्।
ततः सञ्चिन्तयेत्तस्य वामभागे महेश्वरीम्॥
उत्फुल्लोत्पलपत्राभविस्तीर्णायतलोचनाम्।
पूर्णचन्द्राभवदनां नीलकुञ्चितमूर्धजाम्॥
नीलोत्पलदलप्रख्यां चन्द्रार्धकृतशेखराम्।
अतिवृत्तघनोत्तुङ्ग स्निग्धपीनपयोधराम्॥
तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मतराम्बराम्।
सर्वाभरणसम्पन्नां माणिक्यतिलकोज्वलाम्॥
विचित्रपुष्पसङ्कीर्णकेशपाशोपशोभिताम्।
सर्वतोऽनुगुणाकारां किंचिल्लज्जानताननाम्॥
हेमारविन्दं विकसद्दधानां दक्षिणे करे।
दण्डवच्चापरं हस्तं न्यस्यासीनां सहासने॥
भुक्तिमुक्तिप्रदां देवीं सच्चिदानन्दरूपिणीम्।
सदाशिवेश्वरहर श्रीशद्रुहिणमातरम्॥
समस्तगौरीलक्ष्म्यादिशक्तिचक्रस्य नायिकाम्।
एवं देवं च देवीं च विचिन्त्य द्व्यष्टहायनौ॥
भक्त्योपचारवर्गेण क्रमेण परिपूजयेत्।
एवं सदाशिवस्य हृदयाम्बुजे साम्बशिवविग्रहाविर्बावभावनापक्षे तस्य सदाशिवहृदयाम्बुजेऽवस्थापनं स्वाभिमुखीकरणमित्यादि सर्वमुपपद्यतेतराम्। शरीरशरीरिणोरभेदप्रतिरूपममृतीकरणं तु साम्बशिवविग्रहाविर्भावपक्ष एवोपपद्यते। स्वाभिमते लिङ्गादावावाहिते सदाशिवविग्रहे पूजार्थमभिव्यक्तं प्रार्थयमानस्य (ईशानवक्रस्य) पूजकस्यानुग्रहार्थं शिवाभिन्नसच्चिदानन्द एवाचिन्त्याद्भुततदीयशक्तिमहिम्ना करकमौक्तिकाद्याकारेण जलबिन्दुरिव सकलावयवसम्पूर्णसाम्बशिवविग्राहाकारेणाभिव्यज्यत इति शिवपुराणादिमर्यादा। एवं चिदानन्दाकार परमशिवविग्रहप्रभाधवलितरूपादेव नानावर्णाष्टत्रिंशत्कलामयस्यापि सदाशिवविग्रहस्य स्फटिकवर्णत्वभावनोपपद्यते। सदाशिवस्य तत्पुरुषादिवक्राणां पीतनीलसितारुणवर्णत्वं तु पूर्वादिदिक्पतीनामिन्द्रयमवरुणकुबेराणां तत्तत्कार्योपयोगि पीतनीलसितारुणवर्णस्थिरीकरणार्थं तत्तद्वर्णानुकारप्रयुक्तम्। एवंरूपे परमशिवस्यावाहने क्रियमाणे ऊर्ध्वाभिमुखस्य सदाशिवेशानवक्त्रस्य तत्पुरुषवक्त्रवदाविसर्जनं प्राङ्मुखत्वं भावनीयम्। एवमावाहनाद्यमृतीकरणान्तसंस्कारं साम्बशिवविग्रहामिव्यक्तिपक्षे सदाशिवमूर्तिमध्य एव कर्तव्यम्। तत्रैव परमशिवस्याम्बिकायाश्च प्रत्येकं (161)पदर्थानुसमयक्रमेण{161. पाद्याद्युपचारकरणे-पदार्थानुसमयः काण्डानुसमयश्चेति द्विः प्रकारः। तत्र आवाहितदेवतासु सर्वासु एकैकोपचारस्य क्रमेण करणं पदार्थानुसमयः। एकस्यां देवतायां विशिष्टमुपचारं कृत्वानन्तरं द्वितीयस्यां, एवं तत्र तत्र विशिष्टस्य करणं काण्डानुसमयः.} पाद्याद्युपचाराश्च कर्तव्याः। सदाशिवमूर्तौ परमशिवचैतन्यमात्रावाहनपक्षे तदावाहनानन्तरं पाद्यादि, मनोन्मनीमूर्तावम्बिकामावाहनादिभिः संस्कृत्य पाद्याद्युपचारैः पूजयेत्॥
पाद्यादिप्रकारः
वामहस्ते सत्रिपदीकं पाद्याचमनार्ध्यपात्राण्युत्क्षित्य पाद्यमीश्वरतत्त्वान्तं, आचमनं सदाशिवतत्त्वान्तं, अर्ध्यं शिवतत्त्वान्तं च विभाव्य पाद्यादिकं पूजकस्येश्वरसदाशिवतत्वप्रापकं च ध्यात्वा मूलाधारादुत्थितं प्रासादादिमन्त्रं पाद्यादिक्रमेण भ्रूमध्यब्रह्मरन्ध्रद्वादशान्त(162)पर्यन्तमीश्वरं{162.पर्यन्तमुच्चरन्तं विभावयन्-पा.} विभावयन् हां हौं शिवायेति मन्त्रक्रमेण नमः स्वाहास्वधान्तमुच्चारयन् सद्योजातादिक्रमेण सपुष्पेणोत्तानेन दक्षिणकराङ्गुष्ठमध्यमानामिकाग्रेण श्रीपादयोः सव्यवामक्रमेण पाद्यं मुखेषु तत्पुरुषादिक्रमेणाचमनं मूर्धस्वीशानादिक्रमेणार्ध्यं च दद्यात्। ततः सुगन्धि पुष्पं ज्ञानमयं शिवसायुज्यहेतुकं च (163)दत्त्वा{163.ध्यात्वा-पा.} मन्त्रं द्वादशन्तोपरिस्थितशिवपर्यन्तमुच्चरन्तं विभाव्य वौषडन्तमन्त्रेण मूर्धस्वीशानादिक्रमेण निवेदयेत्। अम्बिकाया अपि पाद्यादिकं तत्र तत्रैव समये पदार्थानुसमयेन दद्यात्। एवं गन्धादिष्वपि द्रष्टव्यम्। तत्र शिवायै नमः शिवायै स्वधेत्यादयो मन्त्रा इति विशेषः। ततः स्वाहान्तमूलेन धूपदीपौ पूर्वोक्तप्रकारेणाचमनार्ध्ये च शिवाभ्यां दत्वा (164)अस्त्रमन्त्रेण{163.अस्त्रमन्त्रेणापि वस्त्रेण.} पीठिकाधोभागं (164)वामहस्तेन{164.मनसा स्मरन्नेव-पा.} स्पृशन्नेव दक्षिणहस्तेन पुष्पं गृहीत्वा तेन पुष्पेण पूर्वार्चितमपोह्य तत्पुष्पं च विसृज्य पूर्वोक्तप्रकारे(165)णाघमर्षणादिकं{165.णार्ध्यादिकं, णाभ्यङ्गादिकं-पा.} सर्वं मनसा विभाव्य (166)(सर्वं{166.चन्द्रिकायां नास्ति.} कुर्यात्। यत्र यत्र करद्वयसाध्यं कर्म प्रतिपाद्यते तत्र मानसमेवेति करपीठपूजाविरोधो नास्तीत्यवगनत्व्यम्। तथा च पूर्वतन्त्रे मार्तिकसान्नाय्यादौ मानसमेवेति सिद्धान्तः। एवमुत्तरत्राप्यवगन्तव्यम्) हां शिवतत्त्वाय नम इत्यर्ध्योदकबिन्दुना संस्नाप्य पूर्ववत्पाद्याचमनार्ध्याणि दत्त्वा स्वाहान्तमूलेन वस्त्रद्वयमुपवीतद्वयं च साचमनं दत्त्वा (पुष्पाञ्चलिः)हां आत्मतत्त्वाधिपतये शिवाय नमः, हां विद्यातत्त्वाधिपतये शिवाय नमः, हां शिवतत्त्वाधिपतये शिवाय नमः, इति पुष्पाञ्जलित्रयं शिवायै नम इति देव्यै च पुष्पाञ्जलिं कृत्वा सम्पादितैर्मनसा विभावितैश्च हेमाम्बरकटकमकुटकर्णिकाहारकेयूरादिभिराभरणैर्नमोन्तमूलमन्त्राभ्यामलङ्कृत्य गन्धपुष्पाणि समर्पयेत्॥
गन्धद्रव्यं-तत्र गन्धो हि मलयजघृष्टसमभागरोचनाकुङ्कुमचन्दनैलाकर्पूरकृष्णागरुदारुकुष्ठकस्तूरिकाक्षोदो वा, समभागचन्दनागरुकुष्टकर्पूरकुङ्कुमपत्रजलोशीरक्षोदो वा, समभागेन तदर्धेन (तदर्धेन) वा कर्पूरेण युक्त चन्दनागरुकुष्टकुङ्कुमक्षोदो वा, समभागचन्दनागरुकर्पूरकुङ्कुमक्षोदो वा, समभागचन्दनकर्पूरमृगमदकुङ्कुमक्षोदो वा, फलस्य निष्कप्रमाणांशेन यथासंभवमात्रेण कर्पूरादियुक्तचन्दनक्षोदो वा, फलस्य निष्कप्रमाणांशेन यथासंभवमात्रेण कर्पूरादियुक्तचन्दनक्षोदो वा, केवलचन्दनक्षोदो वा, केवलबिल्वखण्डक्षोदो वा, केवलकृतमालखण्डक्षोदो वा, सर्व एते गन्धाः शिवस्यातिप्रीतिकराः। केवलजलधृष्टकेवलदेवदारुगन्धोऽपि कल्पपर्यन्तं शिवलोकप्राप्तिकरः। केवलबिल्वगन्धोप्यत्र महैश्वर्यप्रदायकः, परत्र शिवपदप्राप्तिकरश्च। केवलकृतमालगन्धोऽपि दीर्घायुःप्रदायकः, परत्र गाणापत्यप्राप्तिकरः। (167)एवाम्भूतश्चन्दनगन्धार्चनगन्धः{167.एवं भूताश्चन्दनगन्धाः.} फलतोऽपि द्विगुणाः, शुक्लारुश्चन्दनादष्टगुणः, ततः कृष्णागरुद्विगुणः, तस्माच्चतुर्गुणं कङ्कुमं, तत्र प्राग्गणितप्रकारेण कर्पूरादियोगेन पूजाविशेषः। एवम्भूतेषु गन्धेषु सम्पन्नं गन्धमर्ध्यपात्रोक्तलक्षणे पात्रे निधाय देवस्यानुलेपनोचितानि ललाटादीन्यङ्गानि भावयन् लिङ्गपीठिकापर्याप्तं लिङ्गपर्याप्तं यथालब्धं वा गन्धं हृदयमन्त्रेण समर्पयेत्॥
पुष्पपीठिका
ततो विंशत्यङ्गुलविस्तारे अष्टाङ्गुलोत्सेधे अष्टाङ्गुलोत्सेधविस्तारपादे पार्श्वद्वयगताष्टाङ्गुलनाले नालपादरहितपिधानयुक्ते तदर्धप्रमाणे वा सुवर्णादिमये पत्रादिरचिते वा पात्रे निहितैर्मुकुलपतितशीर्णाघ्रातसजन्तुकाङ्गसंस्पृष्टलृतातन्तुवेष्टितपर्युषितवस्त्रसमाहृतत्वादिदोषरहितैः सम्यग्विशोधितैर्मोचितवृन्तैः प्रशस्तपुष्पैर्मूलमन्त्रेण मृगमुद्रयार्चयेत्। प्रशस्तानि च पुप्पाणि द्रोणबकपुन्नागमन्दारनन्द्यावर्तकरवीरार्कबकुलकुरवकलोध्रशतपत्रधुत्तूरपलाशपाटलचम्पककृतमालकर्णिकारमुनिमातुलुङ्गार्जुनप्रियङ्गुदेवदारुतमालाग्निगन्धमरुवकाशोककुशापामार्ग भृङ्गराज पूगसरलकोविदारकदम्बाम्रमधूकजम्बुमरु हेमाकुली (168)गुल्जामुसली{168.कुष्टमुसली-पा.} वेजिजाजीमल्लिका पट्टिकामालतीलक्ष्मीनिर्गुण्डीविष्णुक्रान्ति कदलीशारिबादेवतालीविकर्णी बहुपर्णी ग्रन्थिपर्णी भद्रार्वाजिताकमलकह्लारातसीरक्तोत्पलनीलोत्पलकुसुंभकुङ्कुमगिरिपुष्पप्रभृतीनि। तेषु शुभ्रवर्णानि पुष्पाणि सात्विकानि मुक्तिप्रदानि। अरुणवर्णानि राजसानि भोगप्रदानि। पीतवर्णानि मिश्राण्युभयप्रदानि सर्वकार्यसिद्धिकराणि पुत्रपौत्रसमृद्धिकराणि च। कृष्णवर्णानि नीलोत्पलव्यतिरिक्तानि तामसानि वर्जनीयानि। तान्यप्यतसीकूरण्डविष्णुक्रान्त्यादीनि विशेषविहितानि पुष्टिप्रदानि। तत्र सर्ववर्णानि पुष्पाणि समाहृत्यार्चनमुत्तमम्। कृष्णवर्णैर्विना मध्यमम्। सितरक्तादिभिर्द्विवर्णैरेकवर्णैश्च पुष्पैरर्चनमुत्तरोत्तरकनिष्ठम्। मालिकास्तु प्रत्येकमेकैकवर्णैः पुष्पैर्निर्मिताः श्रेष्ठाः। अनेकवर्णपुष्पनिर्मिता मध्यमाः। पत्रपुष्पनिर्मिताः कनिष्ठाः। अर्ककरवीरपुष्पबिल्वपत्रगन्धपत्रिकापुण्डरीकशतपत्रसहस्रपत्रबकधुत्तूरद्रोणापामार्गकुशशमीकृतमालशङ्खव्याघ्रीसदाभद्राकृष्णानि निर्गुण्डीबृहतीश्वेतार्कब्रहद्द्रोणनीलोत्पलानि उत्तरोत्तरं सहस्रगुणफलानि। तत्रार्कपुष्पं दशसुवर्णदानतुल्यम्। नीलोत्पलं सहस्रसुवर्णपुष्पार्चनतुल्यम्। विष्णुक्रान्तिश्यामाप्रियङ्गुनृपपुण्ड्रपुष्पादीनि अर्कपुष्पसमानि। नन्द्यावर्तविजयशतपत्रामन्दारचूतमधूकश्वेतगिरिकर्णिकामालतीकदलीशारिबादिपुष्पाणि करवीरसमानि। लक्ष्मीसहदेवीनागदन्तीचम्पकादीनि बिल्वपत्रसमानि। पाटलबकुलादीनि पद्मसमानि। जातिमल्लिकामधूकशङ्खनागसूर्यावर्तसिंहकेसरमाहाभद्रादिपुष्पाणि अपामार्गसमानि। जपाकदम्बपुन्नागपुष्पादीनि द्रोणसमानि। अशोकश्वेतमन्दारपुष्पाणि यवगोधूमनीवारशालिवैणवतिलकमुद्गनिष्पावोशीरमाषाङ्कराणि सप्तदिनप्रवृद्धानि च कृतमालपुष्पसमानि। वज्रपद्मरागमरकतमौक्तिकेन्द्रिनीलमहानीलसूर्यकान्तेन्दुकान्तानि पुष्पाणि (169)(सहस्रसुवर्णपुष्पाणि){169.क्वचिन्न दृश्यते.} करवीरनीलोत्पलसमानि। नीलोत्पलं सर्वोत्तममिति सर्वागमसिद्धम्। क्वचिदागमे करवीरम्, अन्यत्र बकपुष्पं, अपरत्र गिरिपुष्पं, सर्वोत्तरमित्युक्तम्। पद्मं सर्वोत्तममिति केचित्। कालविशेषेण पुष्पविशेषप्राशस्त्यम्। यथा कदम्बचम्पककह्लारपुन्नागकुशबृहतीपुष्पाणि अश्वमेधसदृशानि। शरदि धुत्तूरकह्लारसुजातनीलोत्पलानि सत्रयागफलप्रदानि। हेमन्ते करवीरसुजातनीलोत्पलानि शतक्रतुसमानि। शिशिरे कर्णिकारपुष्पं सर्वक्रतुफलप्रदम्। तथा ज्येष्ठादिषु द्वादशसु मासेषु अर्कबिल्वापामार्गद्रोणनीलोत्पलपङ्कजकृतमालबृहतीव्याघ्रीशमीचम्पकपाटलीपुष्पाणि प्रशस्ततमानि। तथा नन्द्यावर्तश्रियावर्तश्वेतार्कश्वेतकमलपलाशपुन्नागमालतीपट्टिकारक्तागस्स्यबकुललक्ष्मीद्विकण्टीवेजिकापाटलपलाशाशोककदलीशङ्खिनीपुष्पाणि प्रातःकालपूजायां प्रशस्तानि। द्रोणकरवीरकृतमालधुत्तूरव्याघ्रीबृहतीपाटलकमलोत्पलचम्पककुरण्टपुष्पाणि मध्याह्नपूजायां प्रशस्तानि। चम्पकधुत्तूरमालतीमल्लिकावेजिक (बलकर्णिसहभद्रा) भद्रामौसल्यतसीशमीशङ्खपुष्पाणि गन्धपत्रं च सायंपूजायां प्रशस्तानि। जातीनीलोत्पलकनककदम्बस्थलकमलकेतकपूगपुन्नागदन्तीह्रीबेरबिल्वपत्रं चार्धरात्रपूजायाम्। कनककदम्बजातीपुष्पाणि रात्रावेव समर्पणीयानि। माधवीआनन्दयूथिकामदयन्तिकाशिरीषसर्जबन्धूकविभीतककुमुददाडिमलाङ्गलीश्रीपर्णीकार्पासनिम्बकूष्माण्डशाल्मलीशिन्दितवोटगिरिवटमत्स्याक्षिरपित्थतिन्त्रिणीपुष्पाण्येतानि वर्जनीयानि। केतकीनिषेधोऽर्धरात्रव्यतिरिक्तविषयः। एवं कदम्बशिरीषयोर्दिवाविषयः। गिरिकर्णिकानिषेधो नीलगिरिकर्णिकाविषयः। किंशुकनिषेधः कण्टकीकिंशुकविषयः। एवं जपावकुलादीनामपि क्वचिद्विहितानामागमान्तरे निषेधस्य फलभेदानुसारिणा पूजाभेदेन वा व्यवस्था द्रष्टव्या। निषिद्धान्यपि पुष्पणि मण्टपालङ्कारादिषु ग्राह्याणि। अत्यन्तभक्तस्तु विहितपुष्पालाभे शिवार्पितमनसा शिवस्वरूपतया सर्वाणि पुप्पाण्याकलयन् मनसि सकलफलपुष्पं सोपस्करसमवधानं मानसव्यापारसम्बन्धिकृत्वा यथाशास्त्रं यथासामग्रि यथामन्त्रमेवार्चितमिति निश्चिनुयात्। निश्चयस्यैव फलदातृत्वं कामिकादौ स्पष्टमेवोक्तम्।
चर्यापादे--
शिवपूजाविधौ भक्तः स्वशक्त्यनुगुणार्चितम्।
पुष्पं फलं च सामग्रीं परिपूर्णां विभावयेत्॥
भक्त्यैव परिपूर्णायां पूजायां फलदायकः।
अहं देवि समस्तानां भक्तानां भक्तिवर्धनः॥
मद्भक्तिचिह्नान्यतानि श्रुणु देवि वरानने।
शिवमन्त्रैकनिष्ठा च शिवागमविचारणम्॥
भस्मरुद्राक्षसम्पत्तिरन्यलिङ्गविवर्जनम्।
शैवैः शैवागमार्थज्ञैः सहवासः सदात्मनः॥
शिवेतिवर्णवाचालः सर्वेष्वर्थेषु नित्यशः।
अर्थज्ञो वाप्यनर्थज्ञः स मुच्येत (170)भवाघतः॥
{170. भवागतः-पा.}
वाचा शैवोऽथ डम्भेन यो वा को वा न तत्वतः।
(171)तन्तानिकं विजानीयान्निकृष्टं तं न भावयेत्॥
{171.तन्त्रन्विकं-पा.}
य एवं भावयेद्भक्तस्तद्रूपोऽद्दं महेश्वरि।
यः स्वयं भक्तियुक्तोऽपि शैवं वाङ्यात्रतो जनम्॥
अधमं मन्यते तत्र भक्तिर्व्यर्था महेश्वरि।
तस्माद्भक्तियुतो मर्त्यः स्वसमं न्यूनमेव वा॥
अधमं वापि रुद्राक्षभस्ममात्रविभूषणात्।
उत्तमोत्तमरूपेण पश्येत्सर्वं स भक्तिमान्॥
यस्त्रिपुण्ड्रं नैव धत्ते न वा रुद्राक्षमालिकाम्।
भक्तियुक्तोऽपि मद्द्रोही सर्वकर्मबहिष्कृतः॥
मल्लाञ्छनजने द्रोही मद्द्रोही स बहिष्कृतः।
समस्तयातनाभोगी चण्डालः कोटिजन्मसु॥
श्वानयोनिमनुप्राप्तः पूयविष्ठाशनो भवेत्।
मद्द्रोहिदर्शनं नैव कार्यं (172)स्वक्षेममिच्छता॥
{172. मत्प्रीतिमिच्छता-पा.}
शिवभक्तन विधिना कृतसर्वसुरार्चनम्।
(173)अशैवदर्शनं सन्ति पूजाकाले न निष्कृतिः॥
{173.इत्यमेव मातूकासु दृश्यते.}
समस्तयातनाभोगी चण्डालः कोटिजन्मसु।
पूजाकालेऽन्यकाले वा मदनुग्रहमिच्छता॥
भाषणं दर्शनं नैव कार्यं मद्द्रोहिणा सह।
यदि चेद्भाषणं प्राप्तं बलाद्दैववशेन वा॥
तदा शैवजनं कंचित्पुरस्कृत्यैव तं वदेत्।
ईक्षेत तन्मुखं नैव मदनुग्रहमिच्छता॥
अशैववर्जनं चाद्यं मम भक्तस्य लाञ्छनम्।
द्वितीयं भस्मरुद्राक्षभूषितेबु स्वकीयता॥
स्वजातिर्वान्यजातिर्वा यो वा को वा विभूतिधृक्।
तं शिवं भावयेत्तुच्छबुद्धिस्तत्र भयावहा॥
अशैवदर्शनाघस्य निवृत्त्यै बिल्वपत्रकैः।
अष्टोत्तरशतैर्वापि सहस्रैर्वा यजेच्छिवम्॥
भाषणे त्रिसहस्रं स्यात्स्पर्शने लक्षमेव च।
सकृच्चेद्दशकृत्कुर्वन्नुक्तद्विगुणपूजया॥
पूजकस्य च भक्तस्य देहं मद्देहमेव तत्।
निषिद्धवर्जनादेव विहितार्चनजं फलम्॥
निषिद्धाचरणादेव विहितार्चननाशनम्।
तस्माद्भक्तः प्रयत्नेन त्यजेन्मद्द्रोहिदर्शनम्॥
एशैवदर्शनाभाषणस्पर्शनदोषनिवर्तकानि पत्रेषु बिल्वारग्वधचम्पक दर्भदूर्वापामार्ग करवीरनन्द्यावर्तशमीसमादानविष्णुक्रान्ता भद्रामहाभद्रजातीजम्बुकदम्बकचूतपलाशमुनिद्वयाङ्कोलकुरण्टगिरिकर्णिकाद्वय रुद्रपर्णी भूतपद्मह्रीबेरदमन मरुवकद्रोणसिन्धुवार शङ्खिनी गोक्षुरबकुल कृतमालादिपत्राणि प्रशस्तानि। पुष्पेषु नीलोत्पलवत्पत्रेषु बिल्वपत्रं प्रशस्ततमम्। आरग्वधद्रोणद्वयं प्रशस्ततरम्। येषां पुष्पाणि प्रशस्तानि तेषां पत्राण्यपि प्रशस्तानीत्येव। पद्मनीलोत्पलकुटज चम्पकजातीकरवीरनन्द्यावर्त श्रियावर्त बिल्वबृहतीद्वयपाटलीपुष्पबिल्वपञ्चकदूर्वागस्त्यगन्धपत्राकारं शिवपुष्पपत्रेषु स्वाभिमतयत्किञ्चित्पुष्पपत्राकारं वा सौवर्णं पत्रं पुष्पं चातिप्रशस्तम्। अञ्जलिपूरकैः सुवर्णपत्रैरासनमूर्तिष्वेव विद्यादेहशिवावाहनं अष्टोत्तरशतेनैकाशीत्या पञ्चाशता पञ्चविंशत्या वा सुवर्णपुष्पैः प्रतिदिनमर्चनं चासङ्ख्येयफलदम्। स्वर्णपुष्पस्य नास्ति निर्माल्यदोषः। वत्सरादूर्ध्वं तन्निर्माल्यम्। वत्सरादूर्ध्वमपि प़ञ्चगव्येन संशोध्य पुनरर्चनीयम्। एवं नीलोत्पलपलाशबक करवीर गिरिपुष्प बिल्वपत्राणामपि नास्ति निर्माल्यदोषः। पत्राणि पुष्पाणि च स्वारामसंभवान्युत्तमानि। यानि क्रीतानि परारामोद्भवानि पूजाकाले याचितानि पुष्पाणि तान्युत्तरोत्तरमपकृष्टानि। देवारामोद्भवानि तु वर्ज्यानि। पुष्पालाभे यानि पुष्पाणि शिवार्हाणि तेषां पत्रैरेवार्चनीयम्। पत्राणामप्यलाभे तेषां फलैरर्चनीयम्। फलेषु बीजपूर जम्बीर कदलीदाडिमादीनि अर्चनायां प्रशस्तानि। फलानामप्यभावे तिलतण्डुलसिद्धार्थैरर्चनीयम्। कृष्णतिलैः शिवार्चनं सकलपातकहरम्। एवं मूलमन्त्रेण पुष्पादिभिरभ्यर्च्य हां शिवासनाय नमः, हां-हं-हां शिवमूर्तये नमः। हां हौं शिवाय नमः। हों वामदेवगुह्याय नमः। हं सद्योजातमूर्तये नमः। इत्यासनमूर्तिं मूलैः पञ्चब्रह्मभिश्चाष्टपुष्पिकयाभ्यर्च्य हां हृदयाय नमः इत्यादिभिरङ्गैरभ्यर्चयेत्। ततो नाम्नां सहस्रेण शतेन वाऽर्चयेत्। तदवसराभावे शर्वाय क्षितिमूर्तये नमः। भवाय जलमूर्तये नमः। रुद्रायाग्निमूर्तये नमः। अग्राय वायुमूर्तये नमः। भीमायाकाशमूर्तये नमः। पशुपतये यजमानमूर्तये नमः। ईशानायार्कमूर्तये नमः। महादेवाय सोममूर्तये नमः। शिवाय नमः। महेश्वराय नमः। रुद्राय नमः। विष्णवे नमः। पितामहाय नमः। संसारवैद्याय नमः। सर्वज्ञाय नमः। परमात्मने नमः। इति वा नामाष्टकेनार्चयेत्। प्रभवे नमः शम्भवे नमः उमापतये नमः। इति नामत्रयेण वार्चयेत्। नमो नीलकण्ठाय नम इति नाम्नैकेनाभ्यर्च्य यथासम्भवं पुष्पमालिकाभिरप्यलङ्कुर्यात्। मालिकाश्च शतादिसुवर्णपुष्परचिताः सहस्रादिनीलोत्पलरचिताः करवीरसिताम्भोजविजयासितपाटलपुन्नागश्वेतमन्दार नागकेसर चम्पकरचिताः प्रशस्ताः। ताश्च विचित्रपुष्पान्तररचितमालिकाश्च (174)दामधारपार्श्वयोः{174. उमाधार.} समृद्धा बद्धव्याः। लिङ्गनाहे तु मणिसुवर्णनिर्मितं पुष्पनिर्मितं वा एकद्वित्रिचतुरभूमिकं (175)मुण्डाख्यं{175.मिण्डाख्यं प्रवृत्तदाम.} वृत्तदाम समर्पणीयम्॥
धूपोपचारक्रमः
एवं पुष्पोपचारानन्तरं धूपोपचारः। तत्प्रकारः। सुवर्णरजतताम्रारकूटान्यतमनिर्मितं चतुरङ्गुलायतं तदर्धमानोत्सेधमष्टाङ्गुलोष्ठं पश्चाद्भागे पद्मदलाङ्कितद्व्यङ्गुलकण्ढद्व्यङ्गुलोन्नतसुवृत्तखुराकारपादं द्व्यङ्गुलनाहेन पूर्वोक्तलक्षणपादयुतेन वस्त्रनालेन समन्वितं अनेकसुषिरेण एकैकसुषिरेण वा कमलमुकुलाकृतिना पिधानेनान्वितं धूपपात्रं निर्मलेन [अङ्गार] फलवह्निनाऽऽपूर्य तस्मिन् धूपद्रव्यं निक्षिप्य धूपपात्रं पिधाय निरीक्षणादिभिः संस्कृत्य गन्धपुष्पैरब्यर्च्य धूपमुद्रां प्रदर्श्य धूपपात्रं दक्षिणहस्तेनादाय वामहस्तेन शुद्धकांस्यनिर्मितां चतुःपञ्चषडङ्गुलान्यतमोत्सेधां तावदायामां तावन्मानजिह्वां तत्त्रिगुणनासामर्धाङ्गुलोष्ठामुपपट्टिकायुक्तामेकाङ्गुलद्व्यङ्गुलसार्धद्व्यङ्गुलशिखामर्धाङ्गुलकण्ठां त्र्यङ्गुलनाहांत्रिचतुःपञ्चषडङ्गुलदैर्ध्यनालामुपरि शूलपद्मवृषभाङ्कां शङ्खचक्रव्यतिरिक्तचिह्नां वा घण्टां घोषयन्नेव देवस्य घ्राणसमीपे ओं हां हौं शिवाय धूपं स्वाहेति धूपं प्रदर्श्य तदुपरि धूपपात्रमुद्धृत्य तद्भ्रामयन्नेव किरीटे बिन्दुद्वयान्वितपार्श्वदण्डाकारं नादं मुखवृत्ते बिन्दुदेहे हकारं बाह्वोरौकारं पादयोरुकारं च धूपपात्रभ्रमणेन भावयेत्॥
धूपद्रव्यम्
कर्पूरागरुचन्दनतक्कोलजातीफललवङ्ग(176)सिंहकजटामांसीमुस्तापत्रचूर्णं दशाङ्गसमेत चन्दनागरु कर्पूरकुङ्कुमकस्तूरी तक्कोलैलालवङ्गपत्रनागपुष्पचूर्णं यक्षकर्दमाख्यम्। चन्दनागरुकर्पूरैलालवङ्गत्वक्पत्र(176)सिंहक{176.सिल्हक.} जटामांसीचूर्णं प्राजापत्यनामकम्। चन्दनागरु कर्पूरकस्तूरीलवङ्गतिलकहसितामुस्ताचूर्णं विजयाख्यम्। कर्पूरकृष्णागरुह्रीबेरकुङ्कुमकुष्ठिनिर्यासचन्दनचूर्णं क्रमादेकद्द्वित्रिचतुः--पञ्चषट्भागं मधुमिश्रं शीतारिनामकम्। चन्दनागरुकर्पूसिल्हकसर्जरसकुष्ठमुस्ताचूर्णं (विजयाख्यं कर्पूर) कल्याणनामकम्। चन्दनागरुकस्तूरीमुस्तासिह्लकचूर्णममृताख्यम्। तक्कोलपूगकर्पूरजातीफललवङ्गचूर्णं सुगन्धाख्यम्। एवमादीनि पृथक्पृथङ्नाम्ना प्रसिद्धानि धूपद्रव्याणि। इत्थं चन्दनागरुकर्पूरकुष्ठगुग्गुलचूर्णं घृतमधुयुक्तं चन्दनागरुकर्पूरकुष्ठचूर्णं सर्करामधुघृतयुक्तं कर्पूरागरुचन्दननिर्यासचूर्णं क्रमादेक चतुष्षट्सप्तभागं अगरुनिर्यासचन्दनचूर्णं क्रमादेकद्वित्रिगुणमीषत्कर्पूरमिश्रं मधुयुक्तं अगरुचन्दनोशीरचूर्णं मधुयुक्तं कुष्ठचन्दनचूर्णं घृतयुक्तं गुग्गुलबिल्वफलचूर्णं गुग्गुलचूर्णं घृतयुक्तं केवलमेव वा गुग्गुलनिर्यासं चन्दनागरुसौगन्धिकाद्यन्यतमचूर्णं च धूपद्रव्यम्। तत्र केवलगुग्गुलधूपः सप्तजन्मकृतपापहरः। चन्दनधूपः सर्वपापहरः। सौगन्धिकधूपः सर्वकामार्थसाधकः। कृष्णागरुधूपः सर्वपापहरः। श्वेतागरुधूपो मुक्तिप्रदः। लाक्षाकस्तूरीधूपश्चतुर्वेदाध्यायिब्राह्मणजन्मप्रदः। घृतमिश्रगुग्गुलधूपो मासार्धसमर्पितः कल्पकोटिसहस्रपर्यन्तं शिवपुरभोगस्य सार्वभौमजन्मनश्च प्रापकः। द्विसहस्रफलमहिषाक्षगुग्गुलधूपः तमालवृक्षचूर्णेन सहितः शिवसायुज्यप्रदायकः। ईशानादिमुखपञ्चके क्रमात् शीतारि श्वेतागरुकृष्णागरु सौगन्धिकगुग्गुलकृतधूपाः प्रशस्ताः॥
दीपोपचारक्रमः
एवं धूपोपचारानन्तरं दीपोपचारः। तस्य पात्रं धूपपात्रोक्तपादनालसहितं त्र्यङ्गुलप्रमाणं गजोष्ठाकारं च। वर्तिः कर्पूरमयीवस्त्रखण्डमयी तन्तुखण्डमयी कार्पासमयी वा चतुरङ्गुलदीर्घा चतुस्त्रिद्व्येकाङ्गुलज्वालानुगुणपरिणाहा कार्या। वस्त्रखण्डादिमयी चैदुत्तमादिक्रमेण सति संभवे कर्पूरागरुचन्दनचूर्णादिगर्भा कार्या। तत्र च कपिलाघृतमुत्तमम्। गवान्तरघृतं मध्यमम्। अजाघृतं तिलतैलं चाधमम्। उष्ट्रीभहिष्यादिघृतं वृक्षबीजादिभवं च वर्जनीयम्। यद्बा गोघृतमात्रमुत्तमम्। अजाघृतं महिषीघृतं च मध्यमम्। पूतिगन्धिनिम्बकरञ्जैरण्डादितैलं वर्जनीयम्। तैलमात्रमधमम्। एवमुक्तलक्षणपात्रविहितवर्त्यारोपितं दीपं निरीक्षणादिभिः संस्कृत्य गन्धपुष्पैरभ्यर्च्य दीपमुद्रां प्रदर्श्य दीपपात्रमुद्धृत्य घण्टां घोषयन्नेव हां हौं सिवाय नमः दीपं स्वाहेतिनेत्रेषु प्रदर्श्य धूपपात्रवत् किरीटादिपादान्तं तत्तद्वर्णविन्यासभावनया दीपपात्रं भ्रामयेत्। ततः शिवायाचमनीयार्ध्ये च पूर्ववदेव दत्वा देवं सन्तुष्टं ध्यात्वा "भगवन्नाज्ञां देहि (177)भोगाङ्गानि{177.भो अङ्गानि-पा.} पूजयामि" इति विज्ञाप्यावरणपूजां कुर्यात्॥
आवरणपूजा
प्रथमावरणम्--
पञ्चब्रह्मषडङ्गैः प्रथमारवणं, विद्येश्वरौर्द्वितीयं, गणेश्वरैस्तृतीयं, लोकपालैश्चतुर्थं, (178)समस्तायुधैः{178.तदायुधैः-पा.} पञ्चमं, एतानि पञ्चावरणानि शिवासनपद्मस्य कर्णिकायां शिवमभ्यर्च्य तस्य दलमूलेषु दलमध्येषु दलमूलाग्रयोर्मध्येषु दलाग्रेषु तदधोभागेषु च पूजयेत्। यद्वा शिवासनपद्मदलमूलरूपेषु लिङ्गमूलभागेषु तद्दलाग्ररूपेषु पीठोपरिदेशाग्रभागेषु पीठकण्ठे पीठपादे ब्रह्मशिलास्थानीये पद्मपीठे चार्चयेत्। हों ईशानमूर्धाय नमः। स्फटिकवर्णं त्रिशूलाभयपाणिमुमासहितमीशानं पूजयामि। हें तत्पुरुषवक्त्राय नमः। कनकवर्णं पीताम्बरोपवीतं मातुलङ्गाक्षसूत्रधारिणं गौरीसहितं तत्पुरुषं पूजयामि। हुं अघोरहृदयाय नमः। मेघवर्णं बभ्रुश्मश्रुशिरोरुहं दंष्ट्राकरालवदनं सर्पवृश्चिककपालमालाभरणं खट्वाङ्गकपालखेटपाशान्वितवामकरचतुष्टयं त्रिशूलपरशुखड्ग दण्डान्वितदक्षिणकरचतुष्टयं गङ्गासहितमघोरं पूजयामइ। हिं वामदेवगुह्याय नमः। अरुणमरुणमाल्यवस्त्रोपवीतं खड्गखेटधरं गणाम्बिकासहितं वामदेवं पूजयामि। हं सद्योजातमूर्तये नमः। धवलवर्णं धवलस्रग्गन्धवस्त्रोष्णीषाम्बरधरं वराभयकरमम्बिकासहितं सद्योजातं पूजयामि। इति क्रमादीशानेन्द्रयमकुबेरवरुणदिक्ष्वीशानादितत्तत्पूजावेलायामूर्ध्ववक्त्रहृदयगुह्यपादरूपतत्तत्स्थानमङ्कुशमुद्रयाकृष्य दीपं (179)तत्प्रवर्तितं{179.दीपात्प्रवर्तितप्रदीप-पा.} दीपरीत्याऽभिन्नान् भावयित्वार्चयेत्। ईशानाद्याः पञ्चापि शूलटङ्कवराभयमनोहरकर(180)चतुष्टया{180.चतुष्टये-पा.} वा ध्येयाः। एवमागमान्तरप्रसिद्धान्यपि तेषां ध्यानानि द्रष्टव्यानि। हां हृदयाय नमः। हीं शिरसे नमः। हूं शिखायै नमः। हैं कवचाय नमः। हौं नेत्रत्रयाय नमः। हः अस्त्राय नम इति धन्द्रचामीकरसिन्दूर भृङ्गविद्युदग्निवर्णान् पद्मासनस्थानर्धेन्दुमकुटधारिणश्चतुर्वक्त्रान् प्रतिवक्त्रं त्रिलोचनान् कपालशूलवराभयहस्तान् वामिनी निलिनी चक्रिणी शङ्खिनी गङ्गिनी शक्तिसहितान् हृदयशिरश्शिखाकवचदेवान् पूजायामीति हृदशिरःशिखादितत्तत्स्थानेभ्योऽङ्कुशमुद्रया समाकृष्याग्नेयनैर्ऋतवायव्येशानकोणस्थदलेषु पूर्वादिचतुर्दलान्यग्रेष्वस्त्रं च पूजयेत्। ईशानादिदले ब्रह्मस्वीशानमङ्गेषु नेत्रे शिरसि च क्रमेणोत्तरोत्तरदिक्स्थतया पूजयेत्। अथ वा (181)कर्णिकास्थदेवस्य{181.कर्णिकायां देवस्य च-पा.} पुरस्तादीशानं नेत्रं च पूजयेत्। नेत्रमस्त्रवद्दिक्षु वा पूजयेत्॥
अथ द्वितीयावरणम्--
अनन्ताय भूमिसहिताय नमः। सूक्ष्माय स्वाहासहिताय नमः। शिवोत्तमाय स्वधासहिताय नमः। एकनेत्राय क्षान्तिसहिताय तमः। एकरुद्राय पुष्टिसहिताय नमः। त्रिमूर्तये श्रीसहिताय नमः। श्रीकण्ठाय कीर्तिसहिताय नमः। शिखण्डिने मेधासहिताय नम इति (182)हेमाग्निशङ्खेषु{182.हेमाग्निमेघसङ्घेषु, हेमाग्रिमेघभृङ्गेषु.} हेमविद्रुमस्फटिकवर्णान् वरदाभयज्ञानरुद्राक्षमालिकाधारिणस्त्रिणेत्रान् शिवज्ञानावतारकान् स्वस्वशक्तिसहितान् विद्येश्वरान् पूजयामीति पूर्वाद्यैशानादिक्रमात् दिग्विदिक्षु पूर्वादीशानादिकोणान्तेषु वा पूजयेत्। कुण्डलिनीसहिताय नन्दिकेश्वराय नमः। अरुणवर्णं त्रिशूलसूत्रवराभयकरं कुण्डलिनीसहितं नन्दिनं पूजयामि। पद्मिनीसहिताय महाकालाय नमः। पीतकृष्णवर्णं बभ्रुश्मश्रुशिरोरुहं शूलकपालखड्गकेटधारिणं पद्मिनीसहितं महाकालं पूजयामि। ह्लादिनीसहिताय भृङ्गिणे नमः। श्वेतवर्णं निर्माल्यविग्रहं (183)दण्डाक्षसूत्रधरं{183.सूलकपालदण्डाक्षसूत्रधरं, दण्डाक्षसूत्रधरशिखं.} विलसच्छिखं शिवालोकनतत्परं ह्लादिनीसहितं भृङ्गिणं पूजयामि। भृङ्गिणीसहिताय गणपतये नमः। रक्ताङ्गं पाशाङ्कुशदन्तपक्वाम्रफलधारिणं भृङ्गिणीसहितं गणपतिं पूजयामि। भद्रासहिताय वृषभाय नमः। स्फटिकवर्णंधर्मस्वरूपं शिवध्यानपरं भद्रासहितं वृषभं पूजयामि। देवयानीसहिताय स्कन्दाय नमः। करद्वयां उमां पूजयामि। रूपिणीसहिताय चण्डेश्वराय नमः। मेघवर्णं चतुर्वक्त्रं कमण्डल्वक्षसूत्रशूलपरशुधारिणं सर्पकङ्कणोपवीतं रूपिणीसहितं चण्डेश्वरं पूजयामीति पूर्वादीशानकोणपर्यन्तमर्चयेत्॥
यद्वा वृषनन्दिकेश्वरगणेशमहाकालस्कन्दभृङ्गिगौरीचण्डान् नन्दिगणपतिमहाकालभृङ्गिवृषस्कन्दगौरीचण्डान्वा पूर्वादिक्रमेण पूजयेत्॥
अथवा गौरीचण्डेश्वरनन्दिमहाकालगणेशवृषभृङ्गिस्कन्दा वा गौरीचण्डेशमहाकालवृषगणेशस्कन्दभृङ्गिणो वा उत्तरादिक्रमेण पूजनीयाः। उमावृषभगणपतिनन्दीशमहाकालभृङ्गिचण्डस्कन्दाः क्रमात्कुबेरशक्रयमवरुणनिरऋतिवाय्वीशानाग्निदिक्षु वा पूजनीयाः। एतेषां ध्यानभेदाश्च तत्तदागमप्रसिद्धा द्रष्टव्याः॥
एवं गणेश्वरैस्तृतीयावरणं संपूज्य लोकपालैश्चतुर्थावरणमर्चयेत्। इन्द्राय शचीसहिताय नमः। स्वर्णवर्णमैरावतारूढं वज्राङ्कुशवरायपाणिं शचीसहितमिन्द्रं पूजयामि। अग्नये स्वाहासहिताय नमः। रक्तवर्णं कमण्डल्वक्षसूत्रशक्तिवरमुद्रान्वितं मेषारूढं वज्राङ्कुशवराभयपाणिं शचीसहितमिन्द्रं पूजयामि। यमाय कालकण्ठीसहिताय नमः। कृष्णवर्णं दण्डपाशवराभयधारिणं महिषारूढं कालकण्ठीसहितं यमं पूजयामि। डाकिनीसहिताय निर्ऋतये नमः, रक्तवर्णं खड्गखेटवराभयधारिणं भूतारूढं (184)डाकिनीसहितं{184.दाहिनी-पा.} निर्ऋतिं पूजयामि। वरुणाय भोगिनीसहिताय नमः। नन्द्रवर्णं पाशकमलवराभयकरं मकारारूढं बोगिनीसहितं वरुणं पूजयामइ। वायवे घोरासहिताय नमः। धूम्रवर्णं ध्वजकमलवराभयधारिणं मृगरूढं घोरासहितं वायुं पूजयामि। कुबेराय (185)गम्भिनीसहिताय {185.गम्भीरिणी-पा.} नमः। पिङ्गलवर्णं गदादिधारिणं अश्वारूढं (186)गम्भिनीसहिताय{186.अर्धलेचन-पा.} कुबेरं पूजयामि। ईशानाय हर्षिणीसहिताय नमः। चन्द्रवर्णं शूलपाशवराभयकरं त्रिणेत्रं वृषभारूढं हर्षिणीसहितमीशानं पूजयामि। इति प्रागादिक्रमेण पूजयेत्। ब्रह्मणे सावित्रीसहिताय नमः। स्वर्णवर्णं चतुर्वक्त्रं कममअडल्वक्षसूत्रस्रग्दण्डधारिणं हंसारूढं सावित्रीसहितं ब्रह्माणं पूजयामि। विष्णवे लक्ष्मीसहिताय नमः। विद्युद्वर्णं सहस्रफणालङ्कृतमनन्तरूपं शह्खचक्रगदाशक्तिकमलधारिणं कूर्मारूढं लक्ष्मीसहितं विष्णुं पूजयामीति इन्द्रेशानमध्ये निर्ऋतिवरुणमद्ये च विधातृवैकुण्ठौ पूजयेत्। यद्वा यमस्योत्तरभागे कुबेरस्य दक्षिणभागे च तौ पूजयेत्॥
पञ्चमावरणम्--
अथ लोकपालायुधैः पञ्चमावरणम्। प्रसन्नात्मशक्तिसहिताय वज्राय नमः। नानावर्णधरं दृढकर्कशविग्रहं वज्रमूर्धानं दीप्तं प्रसन्नात्मसहितं वज्रं पूजयामइ। शक्तये नमः। अरुणवर्णां वराबयकरां शिरसा शक्तिं विभ्राणां योषिदाकारां शक्तिं पूजयामि। कोपात्मशक्तिसहिताय दण्डाय नमः। कृष्णवर्णं वराभयकरं लोहितलोचनं दण्डमूर्धानं कोपात्मशक्तिसहितं दण्डं पूजयामि। गुणात्मशक्तिसहिताय खण्गाय नमः। श्यामवर्णं वराभयकरं (187)कुण्डलोचनं{187.अर्धलोचन-पा.} खह्गालङ्कृतमूर्धानं गुणात्मशक्तिसहितं खड्गं पूजयामि। कोमलात्मशक्तिसहिताय पाशाय नमः। किंशुकपुष्पवर्णं नाभेरधो बुजङ्गाकारं तदूर्ध्वं पुरुषाकृतिं सप्तफणोपेतभूर्धानं कोमलात्मशक्तिसहितं पाशं पूजयामइ। विषात्मशक्तिसहिताय ध्वजाय नमः। पीतवर्णं वराभयकरं विवृतास्यं मूर्ध्नि ध्वजान्वितं विषात्मशक्तिसहितं ध्वजं पूजयामइ। गदायै नमः। पीतवर्णां योषिदाकारां (188)दीप्तशिरसं{188. गदोपेतशिरसं-पा.} गदां पूजयामि। विकृतात्मशक्तिसहिताय शूलाय नमः। श्यामवर्णं त्रिशूलाङ्कितमस्तकं अञ्जलियुतं विकृतात्मशक्तिसहितं त्रिशूलं पूजयामि। महात्मशक्तिसहिताय पद्माय नमः। शङ्खवर्णं पद्मकोशाकारमूर्धानं महात्मशक्तिसहितं पद्मं पूजयामि। मङ्गलात्मशक्तिसहिताय चक्राय नमः। श्यामवर्णं शतारचक्राङ्कितमस्तकं मङ्गलात्मसहितं चक्रं प्जयामइ। इमे चावरणद्वाः शिवाभिमुखाः शिवमम्बिकां च भक्त्या वीक्षमणाः स्वासनेषूपविष्टा धयेयाः। द्विभुजाश्चतुर्भुजाश्चैते बद्धहस्ताञ्जलिपुटा वा ध्येयाः। एवं पञ्चावरणपूजाशक्तौ पञ्चब्रह्मषडङ्गरूपमेकमेवावरणमर्चयेत्। तेषां च ब्रह्मषडङ्गानामावाहनस्थापन सन्निधापन सन्निरोधन पाद्याचमनार्ध्यपुष्पदानाख्यं संस्काराष्टकं कार्यम्। यद्वा आवहनादिसंस्काराष्टकं समुदितमेव स्मृत्वा प्रत्येकमर्ध्यमात्रं (189)दत्वा ब्रह्मणामर्ध्यावसाने{189. दत्वा क्रियापुराणाय ब्रह्म-पा.} क्रमेण सुरभिपद्मत्रिशूलमकरस्रगाख्यमुद्राः प्रदर्श्याङ्गानां नमस्कारमुद्रां प्रदर्शयेत्। पञ्चब्रह्मषडङ्गपूजनाशक्तौ केवलं ब्रह्मावरणमात्रमङ्गावरणमात्रं वार्चयेत्। अथवा तत्तत्स्थाने वामादिशक्तीः पूर्वादिदिक्ष्वभ्यर्च्य सदाशिवस्याङ्के वामभागे स्थितां मनोन्मनीमर्चयेत्। इत्थमावरणार्चनानन्तरं शिवमष्टपुष्पिकयाभ्यर्च्य पाद्याचमनार्ध्याणि दत्वा मूलमन्त्रेण पुष्पं समर्पयेत्। शिवस्यावरणसद्भावकृतशोभासिद्धये पञ्चब्रह्मषडङ्गादीनां शिवपृथग्भावेनार्चनायां प्रसक्तस्य पूजातामसत्वदोषस्य परिहाराय शारदशशाङ्ककोटिप्रकाशपरमामृतस्यन्दिपरमशिवमयूखजालनिमग्नतया सर्वानप्यावरणदेवान् परमशिवैनैकवर्णान् परमशिवापृथग्भूतान् भावयेत्। ततः शिवे धेनुमुद्रां महामुद्रां च प्रदर्श्य गन्धपुष्पैर्घण्टामस्त्रमन्त्रेणाभ्यर्च्य सावरणाय देवाय धूपदीपौ प्रदर्शयेत्। एवमावरणार्चनं कर्तव्यं न कतर्व्यमिति विकल्पितम्, केषुचिदागमेष्वात्मार्थशिवपूजायां भोगाङ्गपूजनस्य निषिद्धत्वात्॥