सामग्री पर जाएँ

अधिकारणचिन्तामणिः/चतुर्थोऽध्यायः

विकिस्रोतः तः
← तृतीयोऽध्यायः अधिकारणचिन्तामणिः
चतुर्थोऽध्यायः
[[लेखकः :|]]

श्रीः

1. अत्र पूर्वोत्तराध्याययोरेकार्धेन सङ्गतिमुक्त्वा द्वितीयेनार्धेंन चतुर्थाघ्याये पूर्वात्तरपादद्वकेयोः पौर्वापर्यमाह इत्युत्पत्तिक्रमेण ति।"स्वर्गकामो यजेत "इत्यत्र साध्यवमर्शपूर्वकसाधनावमर्शस्य दृष्टत्वात् सः अयमवमर्शक्रमः पुनब्र्राहृविद्याया उत्पत्तिक्रमानुसारेण पूर्वचिन्तनम्, ब्राहृप्राप्तेः पुनः पश्चाच्चिन्तनमित्युत्पत्तिक्रमः। एवं प्रकारेणोत्पत्तिक्रमेणमुक्युपास्सहित इति तृतीयाध्यायार्थः।

अथ चतुर्थाध्यार्थमाह- तत्साध्यमिति। उपायसाध्यं ब्राहृप्राप्तिरुपं फलं सूत्रकारः पर्वभेदैव्यनक्ति।

उत्तपूर्वाधाश्लषविनाशोत्क्रमणार्चिरादिगमन ब्राहृप्राप्तिरूपफलपर्वभेदैव्र्यनक्तीत्यर्थः। एवं पादार्थभेदमुक्त्वा

पादार्थमपि विभज्य दर्शयति। तत्र तावत्स्थूलदेहादनुत्क्रान्तस्य यत्फलं तत्पादद्वयेन वदतीत्याह - स्थूल इति। स्थूलदेहादुत्क्रान्तस्य यत्फलं तदुत्तरपादद्वयेन वदतीति दर्शयति- निष्क्रान्तस्ये ति। अयमर्थः-अशलेषविनाशादिकमुत्क्रमणञ्च स्थूलदेहे वर्तमानस्यैव भवति अर्चिरादिमार्गेमण गमनं परब्राहृप्राप्तिश्च स्थूलदेहादुत्क्रान्तस्येति विभाग इति।।

2. अत्र फलाध्याये विद्यायाः पुनरभिधानमसङ्गतिदोषोपहतमित्याशङ्क्य प्रयोजनविशेषाभिधानेन संगतिं दर्शयति-- सूक्तेति । अयमत्राक्षेपः -- प्रागेव ब्राहृविद्या सूक्ता। किमर्थं पुनरिमां ब्राहृविद्यामत्रास्थाने वक्ति

सूत्रकारः। ननुब्राहृविद्यायां वक्तव्यावशेषोऽस्तीत्याशङ्क्य तदपि सूत्रकारः पूर्वमेव तृतीयाध्याये ब्राूतां स्वस्थानत्वात्। अथाप्यत्राभिधाने कोदोषइत्याशङ्क्याह-- नहीति ।अयमर्थः फलात्नादच्यते चेद् ब्राहृविद्या न फलम्। अफलत्वेऽप्यत्रोच्यते चेदसङ्गतत्वात्प्रतिपत्तिवैरस्यमेव जायेतेति। तदिदं प्रतिक्षिपति-नेति।

तत्प्रतिक्षेपप्रकारमाह-मुक्तेरितिष। अत्र चत्वारोऽर्था विशेषतो व्यञ्जनीयाः। ते च फलान्तर्गता एव। तदभिधानार्थं

तत्प्रसम्बन्धितया ब्राहृविद्यात्राप्यभिधीयते। मुक्तेरन्यैरसिद्धिरित्येकोऽर्थः। "नान्यः पन्था अयनाय विद्यते' इतिमोक्षस्यान्यैरसिद्धिः प्रसिद्धा। प्रकृततदविनाभाव इत्यपरोऽर्थः । प्रकृतस्य ब्राहृोपासनस्य तदविनाभावो मोक्षाविनाभावः "तेह नाकं महिमानस्सचन्ते'इत्युच्यते। आसन्नसिद्धि रित्यन्यः। तमेवं विद्वानमृत इह भवति

भगवज्ज्ञानानन्तरमविसलम्बेन मुक्तावस्थातुल्यानस्थाप्राप्तिश्श्रूयते। मुक्तावस्थासमश्च स्थिरभजनरस इतीतरः।

भगवदिपासनस्य मोक्षानस्थातिल्यरसरीपत्वं स्वर्गादिसाधानेषु साधनं दुःखात्मकं फलं दुःखाव्यामिश्रं एकदेशसुखात्मकं ब्राहृोपासेन फलतुल्यसुखात्मकमेव स्वरूपम्। एतानर्थान् प्रकाशयितुं साधनस्यापि ब्राहृोपासनस्यफलाध्याय उपक्रमे निर्देशे इति। व्यङ्क्तुमत्रानुबन्धात् इति-फलतुल्यत्वेन फलकोटिनिवेशमुपपादयितुमत्र ब्राहृविद्यानिबम्ध इत्यर्थः।। ।4.1.1.

3.अत्राधिकरणसंगतिर्भाष्ये तृतीयेऽध्याये साधनैस्सह विद्या चिन्तिता इत्युपक्रम्य वेदान्तवाक्येषु

ब्राहृप्राप्तितया विहितं वेदनं किं सकृत्कृतमेव शास्त्रार्थः उतासकृदावृत्तमिति संशयः' इत्यभिधानात्।

तदर्थविचारस्तु- किं वेदान्तविहितं वेदनं सकृत्कृतं शास्त्ररार्थः, उतासकृदावृत्तमिति। किं ब्राहृविदाप्नोति परम् इत्यादिभिर्वेदमात्रं विधीयते उत निदिध्यासनम्। किमत्र विदिशब्दो ज्ञानमात्रपरः

उतोपासनपरः । उपक्रमोपसंहाराभ्यां वाक्यान्तराच्चोपासनपरत्वं विदिशब्दस्यावगम्यतेनेति। अत्र तृतीयाध्यायचरमाधिकरणेनास्याधिकरणस्य संगति वदन्प्रतिपाद्यविशेषार्थनप्याह- शुद्धैरिति । फलसङ्गकर्तृत्वादिदोषरगुतारुतिकृष्टधर्मैश्शमादिभिश्च सदनपचरणे ब्राहृविदपचाराभावे ब्राहृविद्याभवित्रीति पूर्वा धिकरणे उक्तम्। एतस्मिन् अधिकरणे ब्राहृविद्यास्वरूपं विमृशति।पूर्वमपि ब्राहृविद्यास्वरूपं तत्रतत्र निरूपितम्। तेन पौनरुक्त्यं किं न स्यादिति आशङ्क्यपूर्वं निरूपिताकारविशेषस्य ब्राहृविद्यायां विद्यमानत्वात् तदाकारविशेषपपादनेनापौनरूक्तयमुपपादयति--प्रत्यक्षमित्यादीना। अयमत्र शब्दान्वयः- किं मोक्षोपायाभूतं ब्राहृोपासनं प्रत्यक्षरूपं स्मृतिरूपं वा सकृत्कृतशशास्त्रार्थ इति न्यायेन सकृद्वा ध्रुवानुस्मृतिरिति प्रमाणानुसारेणासकृद्वेति पूर्वं नोक्तम्। नैतावदेव स खल्वेवंवर्तयन्यावदायुषम् इत्याद्युक्तं यावज्जीवानुवृत्यादिकच्च पूर्वं नोक्तमिति न पौनरुक्त्यगन्धप्रसङ्ग इति।।

4. अत्र सकृत्वेन पूर्व पक्षं कृत्वा भाष्यादावुक्तामसकृक्त्वोपपादनप्रक्रियां स्मारयन् सिद्धान्तं प्रदर्शयति-ज्ञानमिति। अत्रायं पूर्वपक्षः- ब्राहृविदाप्नोति परम् ब्राहृ वेद ब्राहृैव इत्यादौ केवलं ब्राहृवेदनमेव मोक्षोपाय इत्युक्तम्। तस्य वेदनस्यैकत्वं वाअनेकत्वं वेति संख्या नोक्ता आवृत्तत्वं वा अनावृत्तत्वं वा नोक्तमित्यर्थः । किञ्च सकृक्त्वे सौकर्यमेव स्यात् लघुपक्षाङ्गीकारे हि न्यायानुसारस्यादित्यर्थः । तथा सकृत्कृतः शास्त्रार्थः इति न्यायेन विधीनां चरिताथ्र्तवं च स्यात्।

ननु ध्रुवानुस्मृतिरिति ब्राहृोपासनस्य ध्रुवत्वमुच्यत इत्याशङ्क्य तदप्यन्थासिद्धमाहसम्यक्त्वादिति ।

अत्र प्रतिक्षिपति- असार मिति। असारत्वमेव न्यायतो दर्शयति-- समान्येति । सामान्य व्यवहारस्यसाकाङ्क्षस्य विशेषोपस्थापकप्रमाणान्तरे सति च्छागपशुन्यायेन विशेषे एव विश्रान्तिसिद्धिः । एतस्यार्थस्य वेदनध्यानोपासनध्रुवानुस्मृतिदर्शनशब्दानां भक्तिविश्रान्तिप्रतिपादके भाष्योपक्रमग्रन्थे विस्तरेणोक्तत्वदत्र सङ्गहेणामुमर्थं प्राचीकशत्।।

5.वे दनस्य ध्यानत्वे न्यायान्तरमपि पुरस्कृत्य तस्यैव वेदनस्य सेवारूपत्वेनोपासनत्वमप्युपपादयन् भाष्यतावुक्तं विद्युपास्योव्र्यतिकरेणोपक्रमोपसंहारमपि दर्शयित्वा भक्तिमेव मोक्षोपायतया निगमयन् ध्रुवानुस्मृतेरन्यत्र भक्तिशब्दप्रयोगः औपचारिक इति चाह- किञ्चेति । अयमत्र शब्दान्यः-- आग्नेय्याग्नीध्रमुपतिष्टते इत्यत्र आग्नेयीशब्दः प्रकृताग्नेयीमेवोपादत्ते। एवं ब्राहृ वेद ब्राहृैव

इत्यादौ वेदनशब्दस्समानप्रकणोपाक्तं ध्यानमेव दर्शयति। ननूपासनं मोक्षोपाय इत्यध्यात्मविद्भिरुच्यते तत्कथं ध्यानं मोक्षोपाय इत्याशङ्क्योपासनशब्दस्य ध्यान एव पर्यवसानं दर्शयति-ध्यान इति। ध्यान

एवोपासनोक्तिः परभजनरूपत्वेन सेवात्मकत्वं गुणविशेषमाहेत्यर्थः। ध्यानमिति चिन्तनमात्रम्। तत्र चोरसर्पादिविषयमपि ध्यानमेव। अतस्तद्वयावृत्त्यर्थमनुकूलविषयानुसन्धानमत्रोपासनशब्देन प्रतिपाद्यत इति भावः। विद्युपास्योरैकाथ्र्ये ' अथ योन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद अकृत्स्नः ह्रेष आत्मेत्येवोपासीत' इति व्यतिकरिततया श्रूयमाणः प्रयोग एव प्रमाणम्।

ननु "श्रवणं कीर्तनम्' इत्यादौ नवविधा भक्तिरुच्यते उपासनञ्च तन्मध्येऽभिधीयते तत्कथं ध्रुवानुस्मृतिरेव

भक्तिरूपत्वमित्याशङ्क्य भक्ते पूर्वोक्तभाविनोरपि भक्तिशब्दप्रयोग औपचारिक इति निगमयति- कार्य इति।क्वचित्कार्ये कारणवदुपचारः क्वचिच्च कारणे कार्यवदुपचार इति न सङ्कटं किञ्चित्।

भक्तिभदत्ववादः-- भक्तिविशेषत्ववाद इत्यर्थः।।

6. ननु "भक्त्या त्वनन्या शक्यः'इति भक्तिरेव परब्राहृप्राप्तिरूपमोक्षसाधनतया स्मर्यते सा तु यमैवैष

वृणते तेन लभ्यः इत्यादिश्रुत्या बाद्यते तेन श्रुतिस्मृत्योर्विरोधान्नार्थविशेषप्रतिपत्तिरित्याशङ्कां वारयन् श्रुतिस्मृत्योरन्योन्यानूकूल्यमेव दर्शयति- योगो द्युतक्तेष्विति।इयमत्रशब्दान्वयप्रक्रिया-योगोद्युक्तेष्वधिकारिषु

यः स्याद् भगवद्वारणविषयभूतः तेनैव लभ्यः परमात्मा। तस्य च परमात्मना वरणीयतवं परमात्मप्रियत्वादेव। तदपि

प्रियत्वं तन्निष्टात्भक्तिरूपात् गुणादेव। एवञ्च सति भक्तिरेव साक्षाच्छÜयते।

तन्निष्ठा हि गुणत्वेणाभिहितेयं भक्तिः क्वचिदतिशयिते प्रीत्यात्मिका धीरिति।अत एव भक्तिप्रतिपादक-

स्मृत्यबाधस्यात्। श्रुतिस्मृत्योः परस्परसंवादात्। स्मृतिर्हि भक्तिरित्याह । श्रुतिरपि तामेव भकिं्त भगवद्विषयप्रीतिरूपां 'यमेवैष वृणुते तेन लभ्यः'इति फलतो दर्शयति स्म। तर्हि भक्तितरित्युच्यते भवता ध्रुवानुस्मृतिरिति श्रुतिराह तत्र कथ्मविरोध इत्याशङ्क्येयमेव भक्तितस्तैलधारावच्छिन्नत्वाद् ध्रुवानुस्मृति रित्युच्यत इति दर्शयति-- प्रो क्तेति। अनुवहनात्-- अनुस्यूतत्वादित्यर्थः।।

7. ननु भवता निदत्यासितव्यः इति ध्यानस्यैकस्यैव मोक्षोपायत्याविधेयस्त्वमुच्यते विधिश्रवणं तु

द्रष्टव्यश्श्रोतव्यः मन्तव्यः निदित्यासितव्यः इति चतुष्वर्थेषु दृशयते तत्कथमित्याशङ्क्य विषयभेदेन

विधित्वानुवादत्वविभागं दर्शयति-रागादिति। अयमर्थः श्रवणमननयोः तावत्प्राप्त विषयत्वाद् रागादेव प्रवृत्ति। अप्राप्तत्वान्निदिध्यासनमेकमेव विधेयम्। ननु कथं द्रष्टव्य इति शब्दे जाग्रति ध्यानमेकं विधेय मित्याशङ्क्यं परिहरति-तत्रेति।द्रष्टव्यइतिशब्दस्यैव ध्यानस्य गुणभुतं दर्शनसमानाकारत्वमेव

दर्शयति। नपुनध्र्यानादन्यस्य दर्शनशब्दवाच्यस्यस्य कस्यचिन्मोक्षोपायत्वं दर्शयतीत्यर्थः।अयमत्र भावः-क्वचित् ध्रुवास्पृतिः। स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः इति ध्रुवानुस्मृतेर्गतन्थिविमोक्षोपायत्वमुक्तम्।

अपरत्र भिद्यते ह्मदयग्रन्थिश्छिद्यते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणितस्मिन्दृष्टे परावरे।।

इति दर्शनस्य ग्रन्थिविमोक्षोपायत्वमुक्तम्। नात्रस्मरणदर्शनयोर्निरपेक्षमोक्षोपायतया पृथगेव विहितयोःसमुच्चयस्संभवति। नैरपेक्ष्यश्रवणादेव। नापि विकल्पः-गुरुलघ्वोर्विकल्पानुपपत्ते।

तेन स्मरणस्य दर्शनस्य पर्यवासानं कृत्वा द्वयोरप्येकत्वेण ग्रन्थिविमोक्षोपायत्वं वक्तव्यम्।अत्र

दर्शयति दर्शनमिति दर्शनसमानाधिकरण उच्यते। तत्तु स्मृतिवैशद्यं पुनस्साक्षाद्दर्शनत्वंम्। स्मृतित्वदर्शनत्वयोर्विरुद्दजातित्वेनैकत्रैव सामान्ययोगात्। एवं निर्णीते शास्त्रार्थे द्रष्टव्यो निदिध्यासितव्यः इत्यात्रापि निदित्यासनस्य वैशद्यातिशयाद्दर्शनत्वमुपचर्यते। अपकृषटे ह्रुत्कृष्टशब्दे

औपचारिकः। यथा राजभृत्ये राजशब्दः। एवमत्राप्य साक्षात्काररूपे श्वयं स्मृत्यात्मणि निधित्यासने

दर्शनशब्देन साक्षात्कारत्वमुपचर्यते। एकत्र निर्णीतस्य शास्त्रार्थस्येतरत्रापि ग्राह्रत्वात्। अत्र वेदनस्य

द्रष्टव्यपदानुसारेण शब्दजन्यप्रत्यक्षविषयत्वं दशमस्त्वमसीत्यादिनदि वदन्ति ताननूद्य दूषयति-- शब्दोत्थ मिति । व्याघातातिप्रपञ्च इति--अत्र स्वव्याघातस्सर्वलोकविरोघः प्रमाणलक्षणविभाघविरोधः इत्यादिशब्देन गृह्रते। प्रत्यक्षं शब्दजन्यमिति वचनमेव विरुध्यते।

एवमन्यदपि द्रष्टव्यम्। तर्हि दशमत्वमसीत्यत्र प्रत्यक्षोत्पत्तिः कथम् तत्र न प्रत्यक्षोत्पत्तिः। अपि तु यवाक्यात्परोक्षज्ञाने सञ्जाते स्वयमेव परामर्शात्मकं प्रत्यक्षसामग्रीयुत्थापनेव भवति ततस्त्वात्मणि दशमत्वविषयं मानसं प्रत्यक्षं जायत इति न परस्परं प्रमाणसङ्करप्रसङ्क इति। तमिमर्थं दर्शयति

अमिषामिति। निपणैरन्तेवासिभिस्सूक्ष्मं विचारणीय इत्याह निपुणैति । अत्र निपुणत्वं प्रमाणविभागदर्शनकुशलत्वम्।।

8. ननु भवत्पक्षे दर्शनसमानाकारमात्रकथनाद् द्रष्टव्यइतिशब्द औपचारिकस्स्यादिति परपक्षिणोक्ते

तदङ्गीकृत्य त्वत्पक्षेऽप्यौपचारिक एवेति प्रतिबन्धा परिहरति -- ध्यान इति। अयमर्थः-- ध्याने

वैशध्यमात्राद् द्दष्टिशब्दप्रवृत्तिरुपचरण वतीतीममर्थमङ्गीकुर्महे। तत्तूपचरणं भवत्पक्षेऽपि तुल्यमित्याह

- तुल्य मिति। तदेव विवृणोति-- अभिलपती ति। द्दष्टिशब्दो हि चाक्षुषीमेव धियं ब्राूते। ब्राहृणि तु न

चाक्षुषी द्दष्टिः, अपितु मानसी। तस्यामौपचारिकद्दष्टौ द्दष्टिशब्दो न मुख्य इति तवापि तुल्यमित्यर्थः।

तुल्यत्वमेव सद्दष्टान्तं दर्शयति-- घ्राते ति।यथा घ्राता स्प्रष्टेत्यादिशब्दो ब्राहृविषये तत्तदिन्द्रियजन्या

घ्राणादिकार्यविधुरे न प्रयोक्तुं शक्यते एवं चक्षुर्जन्यज्ञानविषयभूतब्राहृज्ञानवति द्रष्टृशब्दोऽपि मुख्यतया

प्रयोक्तुमेव न शक्यते तथा च द्रष्टव्यइतिपदस्य गौणत्वं तवापि समानम्। तर्हि यत्रोभयोस्समो दोष

इति न्यायेन द्वयोः पक्षयोस्तुल्यत्वे युष्मत्पक्ष एव परिग्राह्रो न पुनरस्मत्पक्ष इति विनिगमनायां को हेतुः

इत्याशङ्क्य विषेशमाह- तदिति। तयोस्वत्पक्षास्मत्पक्षयोस्तुल्यभावे सति। अथवा तदिति हेतुनिर्देशः।

तस्मात् एवमुपपादनादित्यर्थः। बहुनयगणवान स्मत्पक्षो बहुन्यायोपेतः। युष्मत्पक्षस्त्वपन्यायमूल इत्यर्थः।

तु शब्दो विशेषमेव दर्शयति।।

9. नन्वत्र वेदनात् ध्यानं ध्यानाद् ध्रुवानुस्मृतिः ध्रुवानुस्मृतेर्दर्शनं दर्शनाद् भक्तिरिति द्वारद्वारि भाव

एवास्त्वित्याशङ्क्यैकत्र विश्रान्तौ सम्भवन्त्यां तत्परिकल्पनं गौरवातन्याय्यमित्याह-- नद्वारेति। अयमत्र

शब्दान्वयः-- विशेषे विश्रमश्चेन्न द्वारद्वारिक्लृप्तिः कथमपि घटते। तर्हि वेदनादीनां भक्तिपर्यन्तानां

विकल्पस्स्यादित्याशङ्क्य तदपि नेत्याह -- समान्यात्मे ति। नहि सामान्यविशेषयोर्विकल्पः परिगृह्रते

न्याय विद्भिः। यथा पशुच्छागयोः। अपित्वेकस्यान्यत्र पर्यवस्नमेव स्वीक्रियते। किञ्च गरुलध्वोर्विकल्प

एव न संभवतीत्याह-- लघ्वि ति। नहि स्नानप्रोक्षमयोरेकस्मिन्नधिकारिणि विकल्पस्स्वीक्रियते न्यायविद्भिः। तर्हि शक्ताशक्तभेदेन तत्र विकल्पवदत्रापि विकल्पः कल्प्यतामिति चेत्तदपि न; विकल्पे

तावदष्टदोषदुष्टत्वं दोषः। अधुना पुनव्र्यवस्थितविल्पत्वपरिग्रहेऽधिकारिव्यवस्थापरिकल्पनमधिकदोषः।

सर्वेष्वपि वाक्येषु मुमुक्षुत्वमेवाधिकारिविशेषणत्वेन श्रूयते। नपुनरेकैकं विशेषणमन्यदन्यदैवाकण्र्यत

इत्यर्थः। नचात्र शक्ताशक्ताभेदेन विकल्पः- अश्रवणात्। अश्रुतमपि कल्प्यत इति चेत् कल्पनैव दोषः।

तदिदमाह- कर्तुरैक्य इति। भिन्नाधिकारित्वे निर्णीते व्यवस्थितविकल्पत्वं युज्येतापि। नपुनरत्र भिन्नाधिकारित्वं निर्णीतमित्यर्थः। तर्हि ध्रुवानुस्मृतौ दर्शनत्वमुपचर्तमिति भवतोक्तम्, दर्शने ध्रुवानुस्मृतित्व

मुपचरितमिति विपरीतं किं न स्यादित्याशङ्क्याह-- अर्थैक्य इति। उपचारो ह्रन्यत्रातिशयितार्थाभिधानेन गुणीकरणम्। तत्तु ध्याने तदधिकार्थाभिधाने युज्यते सिंहो देवदत्त

इत्यादिवत्, तेन स्मरणे साक्षात्कारत्ववचनमुपचारस्स्यात्। साक्षात्कारे स्मरणत्वाभिधानं त्वपचार एव

स्यात्। राजनि भृत्यत्वकथनवत्। तेन ध्यानेन साक्षात्कारत्वमुपचर्यत इत्ययमेव न्याय्यो मार्गः।

अयमत्र शब्दान्वय-- अर्थैक्ये सति दर्शनोक्त्या स्पाष्ट¬सिद्ध्यै स्मृतिरूपचरिता युज्यते।

स्मृत्युक्त्या दर्शनस्योपचरणं तु असत् अन्याय्यम्। ननु द्रष्टव्य इति फलमेव ब्राहृसाक्षात्कार उच्यते न

पुनरुपाय इत्याशङ्क्यमाह-- अन्यदिति । स पुनः परेषामेव सिद्धान्तः, अस्माकं तु द्रष्टव्यः इति विधिश्रवणात् विधेयमेवोपसानं दर्शन समानाकारत्वोनोचोयत इति सिद्धान्त इत्यर्थः।।

10. एवं भूतस्य भगवदनुस्मरणयोगस्य प्रायश्चित्तान्यशेषाणि इति प्रमाणोक्तस्य द्वयी हि गतिरध्यात्मविद्भिरभिधीयते। तत्तत्प्रायश्चित्तरूपकृच्छ्राशक्तौ तत्त्स्थाने विकल्पेनावतिष्टते सोऽयं योग

इत्येका गतिः। अपरा पुनस्सर्वेषामपि प्रायस्चित्तानां साद्गुण्यापादकत्वेन भगवदनुसन्धानं तेभ्यस्सर्वेभ्यः

प्रायश्चित्तेभ्यः परमुत्कृष्टमिति। अत्र पुनरनादिकालप्रवृत्तस्य कृत्स्यापि पापस्य सर्वप्रायश्चित्तत्वेनेदमेकमेवाभिधीयते। तदिदमाह--कृच्छ्रादाविति। तत्तत्पापप्रायश्चित्ततया विहिते कृच्छ्रादौ शक्तिहीनौ दृढपरितपनो दृढानुतापयुक्तस्संयमार्हश्च योगानुष्टानर्हश्च स्वयं सर्वप्रायशचित्तस्थानीयं केशवानुस्मृतिं कुरियादिति 'प्रायशचित्तान्यशेषाणि'इति श्लोकस्यैकौऽर्थः।

अत्र परत्वमेकस्यैव सर्वेष्वपि प्रायस्चित्तेषु विकल्पेनावास्थितत्वम्। यथार्हं तद्विकल्पः-- यानि यानि बहुनि प्रायश्चित्तानि दृश्यन्ते तेषामेकस्यस्थाने यावत्केशवानुस्मरणं फलप्रधानसमर्थं तावत् तत्र तत्र

कर्तव्यमिति।अर्थान्तरं पुनराह-- सामान्यादिति। सामान्यात् सर्वेष्वपि दोषेषु प्रसक्तेषु तत्तन्नेमिक्तिकानां सर्वेषामपि केशवानुस्मरणं प्रधानसहकारित्वेनोपकुरुते। अस्मिन्पक्षे परत्वमेकस्य

सर्वोपकारकत्वं सर्वस्मादप्युत्कृष्टत्वञ्च। एवं 'प्रायश्चित्तानि 'इति श्लोकस्यार्थद्वयमुक्त्वा सूत्रकाराभिप्रेतं सर्वप्रधानभूतमर्थान्तरमाह -- मुक्ते रिति। केशवानुस्मरणं न केवलमेकैकस्य प्रयश्चित्तस्य स्थानेऽवतिष्ठते, नापि सर्वषामपि प्रयश्चित्तानां सहकारित्वेनापि केवलं वावतिष्ठते, अपितु स्वयमेकमेवानादिसिद्धानामनन्तानां दुष्कृतानां प्रयश्चित्तत्वेनावतिष्ठत इति सूत्रकाराभिप्रायः।

मुक्तेरप्यत्र मूलं न केवलमनिष्टनिवृत्तेः, अनिष्टनिवृत्तिपूर्वकेष्टप्रप्तिरूप मुक्तेरपू दमेव मूलमित्यर्थः।।

11. अत्र शरणं त्वां प्रपन्ना ये इति श्लोके शरणागतमेव सर्वप्रायश्चित्तत्वेन परमपदप्राप्तिहेतुत्वेन च

विधानादुपासनात्मकस्य योगस्य कथं सर्वप्रायश्चित्तत्वमित्याशङ्क्य शक्ताशक्तरूपाधिकारिभेदेन द्वयोरपि

सर्वप्रायस्चित्तत्वं द्रढयति-- नन्वेवमिति। अयमर्थः -- ये मुकुन्दं शरणमुपगता ध्यानयोगैर्वर्जितास्तेऽपि मृत्यमतिक्रम्य यमिनइव योगिन इव परंधाम यन्तीति शरणं त्वां

प्रपन्ना ये ध्यानयोगविवर्जिताः। तेपिमृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम्। इत्युच्यते तत्कथं ध्यानयोगस्य उपायत्वमिति। अत्रार्धाङ्गीकारेणोत्तरमाह-- सत्यमिति। अस्तु शरणागतेर्मोक्षोपायत्वं तथापियोगस्यापि

मोक्षोपायत्वमत्रैवोच्यते तेऽपि मृत्युमति क्रम्य इत्यपिशब्दसामथ्र्यात्। नहि त एव मृत्युमतिक्राम्येति

सावधारणमुच्यते। अपितु तेऽपीत्यपिशब्दान्वयेन। ततश्च शरणागताश्च वैष्णवं पदं यान्ति तथा योगनिष्टाश्चेति वाक्याभिप्रायस्स्यात्। तस्मादिदमेव वाक्यं योगनिष्टानां प्रथमं वैष्णनपदगमनमुक्त्वा

तद्वत् शरणागतानामपि वैष्णवपदगमणं वक्तीति न योगनिश्ठानामपवर्गफलप्राÏप्त प्रतिक्षिपतीति न कश्चिदपि विरोधः । नियतविषययोरित्याति -- शक्तस्यार्गुर्वनुष्टानमशक्तस्य लघ्वनुष्ठानमिति गौरवे

लाधवेऽपि शक्ताशक्तविषयता नियतविषययोस्सतोः प्रणिधिसहदशायोगिभिर्योगविद्भिध्यानशास्त्रं प्राप्तार्थम्-- अर्वदित्यर्थः। शक्तैरेव गुरुतरध्यानशास्त्रमनुष्टेयमित्युक्तम्।।

12. वर्णाश्रमधर्माणां यथान्तःकरणनैर्मल्यनिर्वृत्तिद्वारेणोपासनहेतुत्वम्, तथाङ्गप्रपत्तेरपि तेनैव द्वारेणोपासन हेतुत्वमस्तीति सप्रमाणकमाह -- धर्म इति। शब्दान्वयस्तु-- वर्णादियोग्यो धर्मो ह्मदयकालुष्यशमनेन

सत्त्वाभिवृद्ध्या यथा भक्त्यु पकारि तद्वत्प्रपत्तिरप्यगतिकसमये ष्वनन्यसाध्यत्वसमयेष्वन्तरायापहन्त्री

भवति। अयं किल प्रपत्तेस्स्वभावः-- सानुक्रोशे कृपायुक्ते शक्ते पुरूषे शरणवरणतस्ससर्वसाधयं सर्वमप्यभीष्टं सुसुधायति। ततश्च मोक्षसाधनभूतोपासनाशक्तौ प्रपक्तितत्स्थाने स्थित्वा मोक्षमेव साधयति।उपासनाङ्गभूतकर्मयोगाद्यशक्तौ तु कर्मयोगादिस्थाने स्थित्वोपासनमेव साधयति। तदिदमुभयमपि श्रुतेरभिप्रेतमित्यभिप्रायेन वदति-- मोक्षाकाङ्क्षी ति। मुमुक्षुर्वै शरणमहं प्रपद्ये

इति क्वचिन्मत्रे श्रूयते। इदमङ्गप्रपत्तिविषयतया वा स्वतन्तरप्रपत्तिविषयतयो वा यथाभिमतं योजयितुं

शक्यमित्यर्थः।।

। 4.1.2

13. पूर्वं परब्राहृोपासनमसकृतावृत्तं कर्तव्यमित्युक्तम्। इदं पुनरिदानीं चिन्त्यते -- किमुपास्यं ब्राहृ उपासितुरन्यत्वेनोपास्यमुपास्यमुतोपासितुरात्मत्वेनेति शङ्कया सङ्गतिः। अयमेव विचारस्तदर्थविचारोपक्रमः-- किमात्नत्वेनोपासने पृथगात्मानम् इति विहितपृथक्त्वाविसन्धनविरोधः प्रसज्यते नेति। तत्र पूर्वपक्षमाह--जीवादिति। साधनान्तैस्साधपर्यवसानैर्लक्षणैरध्यायैर्जीवादत्यन्तभिन्नस्स च विभुरित्यभिदते स परमपुरुषः। तस्मादस्मिन्नणुरुपजीवबुद्धिस्तत्त्वतः कर्तुभेव न शक्यत इत्यर्थः।

ननु गरूडमात्मानं जानीयादिति न्यायेन स्वात्मनि परमात्मदृष्टिस्स्याशङ्क्य तदपि नेत्याह--मुक्यर्थेति

अयमर्थः--क्षुद्रफलप्राप्तौ हि दृष्टिविधीनामुपयोगः अत्र तु मुक्त्यर्थोपासने मुषिततमसि सर्वाज्ञाननिवृत्तियुक्ते विपरीतज्ञानरूपान्यत्रान्.दृष्टिर्न स्यादिति। तेन स्वाभिप्रेतं निगमयति-तत्वज्ञ इति।

तत्वज्ञे-- यथार्थज्ञानवति वीतरागे फलान्तरप्राप्तिराघविधुरे सोऽहमसमीत्युपास्तिर्न स्यादेव। तदिदं प्रतिक्षिपति--तन्नेति। अयमर्थः--यदि स्वात्मपरमात्मनोस्स्वरूपैकेयमत्रोपदिश्यते तदा भ्रान्तित्वान्न मुक्तिहेतुः यदि च स्वात्मनिपरमात्मदृष्टिरुपदिष्यते, तदोद्गीथोपसनादिवत् दृष्टिविधित्वादपवर्गसाधनं

न स्यात्। नेदमुभयमप्यत्रोपदिश्यते अपि तु स्वान्तर्यामित्वेभगवतनुसन्धानं तच्च परमार्थविषयत्नाचित्वे मुख्यवृत्तिर्न स्यादित्याशङ्क्य प्रतिक्षिपति-- मुक्यप्रवृत्तेरिति । अयमर्थः-यथा देहवाची देवमनुष्यादिशब्दः

देहाधिष्टातरि जीवेपि मख्य एव प्रवर्तते, एवं जीववाच्यहंशब्दः जीवान्तर्यामिणि परमात्मणि मुखयतया

प्रवर्तत इति।यदि ब्रााहृणक्षत्रियादिशब्दः जीवेऽपि न मुख्येस्स्यात् तदा ब्रााहृणत्वक्षत्रियतवाद्युपहिताधिकारिविशेषोपादानेन प्रवृत्तानां विधीनाममुक्तानां स्यात् तथा चार्थवादमन्त्रयोरपि तत्तदौपाधिकाकापविशिष्टपुरुषविषयतया प्रवृत्तयोरमुक्यत्वं स्यादिति सर्ववेदवाक्ये मुख्यत्वपरित्याग इति साहसमेतत्।।

14.
अत्राहङ्ग्रहोपासनस्य प्रयोजनाभावं वदतः कस्यचित् तत्प्रयोजनविशेषं दर्शयति-- वस्विन्द्रादेरिति।

अयमत्र चोदकस्याभिप्रायः--किमत्राहङ्ग्रहोपासनाभिधाने विशेषप्रयोजनम्?अचिद्विशिष्टस्वात्मविशिष्टपरमात्मोपासानञ्चेत् तद् वस्विन्द्रादेरुपास्ति प्रसङ्गे प्रागेवोक्तम्।

शुद्धश्च स्वात्माक्वचिच्चिन्त्यः --प्रकृतिसंसर्गरहितश्शुद्धोऽप्यात्मा क्वचिच्चिन्तनीय एव।इह तु शुद्धेन

स्वेनयुक्तो विभुः परमात्मा चिन्त्य एव। तादृशा --शुद्घेनेत्यर्थः। तदिदंजीनपरयोर्भेदचिन्तनमेव--अहम्

त्वम्, इति तयोर्भेदेन व्यपदेशात्। जीवशभेदे च व्यक्तिरभिव्यक्तिव्र्यधिकरणपदैश्चिन्तने स्यत् न

पुनस्समानाधिकरणपदैश्चिन्तने।तथाचाहङ्ग्रहोपासने किं फलम्? इति । अत्रोक्तम्-- तथापीति। यद्यपि त्वदुक्तं युक्तमेव तथाऽपि ब्राहृ परतन्त्र स्वरूपप्रमितेस्सुदृढता अहङ्ग्रहोपासनादेव भवति

तदर्थमहङ्ग्रहोक्तिस्सफलैवेति।।

15. परपक्षेष्वहङ्गूहोपासनस्य न्यायविरुद्धत्वमुक्त्वा स्वपक्षे पुनन्र्यायोपेतत्वं दर्शयति--ऐक्योस्ताविति।

तत्र तावन्मृषावादिपक्षे दूषणमाह-- निर्वेशेष इति। निर्विशेष वस्तुनि "त्वं वा अहमस्मि भगवो देवतं अहं वै त्वमसि'इति त्वमहंशब्दार्थभावेन त्वमहमितिसमानाधिकरणबुद्धिः कथं स्यात्। तर्हि

भदाभेदमेव भस्करमतानुसारेण वदाम इति चेत् सोऽपि न मुख्य एव करकमणिक योर्भेद एवाकाशे त्वभेद एव एकत्र भदश्चाभदाश्च नास्तीति भेदाभदाभिवलापो न मुख्य एव। तर्हि साम्यमेवाहंशब्देनाभिदीयत इत्यपर आह तत्पक्षऽप्यहंव्यवहारो न मुख्य एवेत्याह -- मुत्तुल्य इति।

त्वं वा अहमस्मि भगवः देवते अहं वै त्वमसि इत्यत्र तुल्यत्वं शब्दार्थ इति वदतामुपचार एव परिगृहीतस्स्यात् स तु न युक्त एव । एवं परपक्षं दूषयित्वा सवपक्षमेव सोमपक्तिकं निगमयति--तस्मादिति। सर्वान्तरातच्मनी ति सामानाधिकरण्यबीजमुच्यते । शरीरात्मभाव एव हि सामानाधिकरण्यनिदानम्।यथा देहिनि देहवीची मनुष्यादिशब्दस्सामानाधिकरण्येन प्रयुज्यते एवमन्तर्यामिणि जीवशब्दस्सामनाधिकरण्येन प्रपुज्यत इति सर्वं सुघटितमेवेति।।

16. अत्र त्वं वा अहस्मि भगवो देवते इत्यस्न्वाक्ये द्वैतप्रसङ्गएव नास्ति द्वैतस्य रुाूपसून्यत्वात् केवलमद्वैतमेव प्रतिपाद्यत इति वदन्तं मृषावादिनं प्रतिक्षिपति-- अद्वैतमि ति। अयमत्र विकल्पः--

अद्वैतशब्देन द्वैतविरोधः वा द्वैतान्यो वा द्वैतभावो वा अभिधीयते अथवा न किञ्चिदभिधीयते तत्र त्रिष्वपि विकल्पेषु प्रतियोग्यभावेन त्रयणामप्यर्थानामसिद्धिः प्रतियोगिसद्भावे तस्यापि सिद्धिः न किञ्चिदिति पक्षे निरर्थकमेव वचनं स्यात् तेनाद्वैतमितिवदतस्तवावश्यमेव द्वैतमङ्गीकर्तव्यम्।।अयमत्र शब्दार्थः-- द्वैतहानावद्वैतमिति वचनं न सुवचं द्वैतप्रतिद्वन्द्विकत्वात्। एवमद्वैतहानौ द्वैतमपि न सुवचमिति प्रसङ्गदाह-- द्वैतञ्चाद्वैतगर्भ मिति। अद्वैताभावे द्वैतमपि न स्यात्।एकयोरिवा हि द्वित्वं वर्तते तयोरेकतवमेव ह्रद्वैतमिति भावः।तदेव विवृणोति--द्वित्यमिति।द्वित्वाश्रयभूतमेकैकं वस्तु स्वस्वरूपादभिन्नम्। तेन तत्राद्वैतसिद्धिरित्यर्थः। अपर आह द्वैत माभूत् अद्वैतं च माभूत् द्वैताद्वैतमेवाङ्गीकारोमिति, तदपि नेत्याङ-- द्वैताद्वैतमिति। किं द्वैताद्वैतशब्देन द्वैताद्वैतयोस्समाहार उच्यते अतवान्यो यः कश्चिदर्थाभासः तत्र तत्समाहारवचने द्वैतलक्षणमद्वैतलक्षणञ्चाङ्गीकृत्य वक्तव्यम्।तथा च तदुभयनियमानुज्झानात् तद्वचने द्वैतञ्च सिध्यत्यद्वैतञ्च सिद्यति। तदुज्झने

सुस्थमेवोभयमपि ।यस्य कस्यचिदरेतैभासस्योक्तौ शृणवतां न काचित्क्षतिः। तर्हि द्वैतादिकं सर्वं साधयतां भवतां किं तत्वमङ्कीकृतं स्यदित्याशङ्क्य प्रमाणाननुसारिणां तु सर्वमप्यतत्वमिति निगमयति-- सर्वमति।।

17. पूर्वस्मिञ्छलोके ह्रद्वैतशब्दे द्वैतस्य निषेध्यत्वेन सत्यत्वमित्युक्तम्। तत्प्रतिक्षिपति पूर्वपक्षी-- नन्वि ति।अयमत्र भावः-- यथा गगनकुसुमं नास्तीत्यत्र भ्रान्तिसिद्धमेव गगनकुसुमं निषेध्यम्, तद्वदत्रापि

भ्रान्तिसिद्धमेव द्वैतं निषेधयं स्यात् तथा चद्वैतस्य पारमाथ्र्यं न सिध्यति तेनाद्वैतमेव परमार्थ इति।

तदेतत्प्रतिक्षिपति-- मैव मिति।अत्र विकल्प्य दूषयति--सत्यादिति। सः भेदः किं ब्राहृणस्सत्यादभिन्न

उत भिन्नः,भिन्नत्वे तद्भेदः किं परामार्थ उतापरमार्थ इति विकल्पः। प्रथमपक्षे दूषणमाह-- न खल्विति। अयमर्थः-- सत्यादभिन्नस्य तस्य भेदस्य भ्रान्तिसिद्धत्वे सत्यस्यापि भ्रान्तिसिद्धत्वं स्यात्।

तस्याभ्रान्तिसिद्धत्वे भेदस्याप्यभ्रान्तिसिद्धत्वं स्यादिति। एवं सत्यादभिन्नत्वपक्षे दूषणमुक्त्वा भिन्नत्वपक्षेऽप्युभयथा दूषणमाह-- भिन्नत्वञ्चे ति। स भेदोऽत्र मृषा चेत् सत्यादसत्यभूतस्य भेदात्मकस्य

प्रपञ्चस्य भेदो मृषा चेत् सत्यादसत्यभूतस्य भेदात्मकस्य प्रपञ्चस्य भेदो मृषाचेत् तर्हि प्रपञ्चस्य

सत्यत्वं ब्रााहृणोऽसत्यत्वं वा स्यात्। तदिदमाह-- दत्तोत्तर मिति। सत्याद् ब्राहृणोऽसत्यभूतस्य प्रपञ्चस्य तद्भेदस्य सत्यत्वे सत्वभेदाङ्गीकारप्रसङ्ग इति दूरतोघावतस्तवधावनं निरर्थकमेव

स्यादित्याह-- सत्यञ्चे दिति। प्रपञ्चस्य ब्राहृणो भेदो मिथ्या, अथापि प्रपञ्चे भेदो भवतीति चेन्न

व्याघातात् भेदो मिथ्या भेदोऽस्तीति स्वयमेव भाषणात्। तर्हि शशविषणस्य सत्याद् भेदस्सत्योऽ

सत्यवेति वयमप्यनुयुञ्जमह इति चेत् सत्य एवेति वयमुत्तरं दास्यामः। नन्वसत्ये शशविषाणे स

सत्यभेदः कथं निवसिष्यति ? न तत्र निसिष्यति। तर्हि कुत्र?इति चेत्, अवधानेन श्रुणु।

शशविषाणमिथ्यात्वं नाम शशविषाणात्यन्ताभावः। स तु प्रमितप्रतियोगिकाभाववादिनां शशनिष्ठः।

अप्रमितप्रतियोगिकाभाववादिनां विश्वनिष्ठः। शशविषाणं मिथ्येति विश्वनिष्ठस्यात्यन्ताभावस्य

प्रतियोगिभूतशशविषाणविशेषणत्वं प्रध्वस्तो घट इत्यादिवदिति सन्तोष्टव्यमायुष्मतेति।।

4.1.3

18. एवं ब्रााहृोपासेन स्वात्मतयोपासनं कर्तव्यमित्युक्तम्।एवं मनो ब्राहृेत्युमासीत इतयादिषु प्रतीकोपासनेषु अपि ब्राहृोपाससनत्वाविशेषात् स्वात्मतयोपासनं कर्तव्यमित्याशङ्क्या सङ्गतिः।

तदर्थविचारस्तु-- किं मनो ब्राहृेत्युपासीत इत्यादिषु प्रतीकोपासनेष्वात्मवेनानुसन्धानं कर्तव्यमुतन्ति।तषूपास्यं किमुपासितुरात्मा नेति।किं ब्रााहृणः प्रतीको दृष्टिविशेणमुत प्रतीकस्य ब्राहृदृष्टिविशेषणमिति।अत्र पूर्वपक्षमाह --
नामे ति। प्रतिक्षेपहेतुमाह-- न खल्विति। अयमर्थः

साक्षाद्ब्राहृोपासनेषु ब्रााहृणो अन्तर्यामित्वात् ब्राहृात्मकत्वानुसन्धानं युक्तमेव नामाद्युपासनेषु नामादीनामन्तर्यामित्वाभावान्न नामाद्यात्मकत्वानुसन्धनं युक्तमिति। ननु ब्राहृन्येवान्यदृष्टिस्स्यात् तथआ च ब्राहृणः प्रधानत्वेन दृष्टिविधावपि ब्राहृात्मकत्वानुसन्धानं स्यदित्याशङ्क्य परिहरति-- न ब्राहृणी त। ब्राहृण्यदृष्ट¬ाभावे हेतुमाह-- तस्यति।अयं भावः- मनो ब्राहृेत्युपासीत इत्यादिष्वपकृष्टेषूत्कृष्टदृष्टिरेव हि दृष्टिविधिरितयुच्यते तथा चब्पहृण्यन्यदृष्टावुत्कृष्टे

स्यादपकृष्टदृष्टिरितिदृष्टिविधिलक्षणं न स्यादिति। अन्यस्मिन्ब्राहृदृष्टौ दृष्टिविधइलक्षणं स्यादेवेतेयाह-- अन्यस्मिन्नेति। नामादिष्वन्येषु ब्राहृदृष्टौ केवलं जगत्कारणत्वादिभि निर्यतैब्र्राहृलक्षणैस्तत्तत्पदार्थग्रहोऽथ्यर्योऽर्थादनपेतो भवतीत्यर्थः

यथा राजभृत्ये राजदृष्टिरपकृष्टविषयोत्कृष्टदृष्टिरूपत्वात् फलहेतुर्भवति, एवमपकृष्टेषूत्कृष्टब्राहृदृष्टिस्तत्रतत्राभिमतफलहेतुर्भवतीत्यर्थः।।

19. अत्र मृषावादी मन्यते यथा दृष्टिविधौ स्ववाभिमतं फलं दृश्यते एवं ब्राहृैकेयानुसन्धानमिच्छितामाकमपवर्गस्यादिति।तदिदमाशङ्क्य प्रतिक्षिपति-- आत्मनीत्यादीना ।

अयमर्थः-- अब्राहृभूतेऽप्यात्मनि ब्राहृदृष्टिः फलवती भवतु नाम तथापि वस्तुव्यवस्था नापलपितुं शक्यते यथा गरुडात्मानं जानीयात् इत्यत्र न गरुडत्वं प्राप्यते अपि त्वपर्यनुयोज्यत्वाद् विधिशक्तेर्गरुडानुधयानेन सर्पादिविषनिवृत्तिस्सेत्स्यतीत्येतावन्मात्रमेव। एतद्दृष्टान्तमात्रदर्शनेन मोहाद् ब्राहृाहमसमि इतीममर्थं स्वरूपैक्यावलम्बनेन परमार्तत्वेन स्थापयन्मृषावादी नमुचिसूदनभावनोद्धतनहुषन्यायेन प्रभ्रष्टपदो निकृष्टावस्थां नियतयेव भजत इत्याह-- एतावन्मात्रे ति। अपवर्गार्थं प्रवृत्तः कुटिलगतीनां भोगिनां साम्यं भजतीति पारिहासकोयं प्रवादः।।

4.1.4

20. पूर्वाधिकरणे खल्वपकृष्टेषूत्कृष्टदृष्टिन्याय्येत्युक्तम्। तर्हि फलसाधनतयः उत्कृष्टस्योद्गीथादेरादित्यादौ दृष्टिः करतव्येति शङ्क्या सङ्गतिः। तदर्थविचारस्तु-- क्रत्वाङ्गश्रयोपासनेषु किमादित्यादावुद्गीथदृष्टिः उतोद्गीथादावादित्यदृष्टिः। फलसाधनतयोत्कर्षः किमादित्यादेः, उतोद्गीथादेरिति । अत्र पूर्वपक्षी प्राह -- ताद्रथ्या दति । देवतानां कर्मशेषत्वात्

कर्मण श्चफलसाधानत्वेन चोदितत्वान्निकृष्टात्मन्यादित्यादौ फलसाधनत्वेनोत्कृष्टकर्माङ्गदृष्टितित्यर्थः।अनुदितमर्थं निराकरोति-मैवमिति। प्रतिक्षेपप्रकारं विवृणोति- कर्मेति। अयमर्थः-- यद्यपि कर्म प्रधानतया विहितमेव तेन शाब्दप्राधान्यं कर्मणयेव वर्तते तथाप्यार्थप्राधान्यं देवतानामेवेति।

तत्र हेतुमाह-- यतस्तत्समाराधनं तदिति। यजदेवपूजायामित्यादिषु सर्वत्र कर्म देवतासमाराधनरूपत्वात् देवतां प्रत्यप्रधानमेव, अत्रापि तद्वदेव प्राधनभूतादित्यादीन्प्रति

यज्ञाङ्गदृष्टेरप्रधानत्वादप्राधानेषूद्गीथादिषूत्कृष्टरूपादित्यादिदृष्टिन्याय्येति देवतायाः प्राधान्यमेवोपपादयति--तत्प्रीतेति।सर्वमप्यनुष्ठानं फलार्थमेव। कर्मभिराराधिता देवतैव फलं ददाति।

अतो देवतैव प्रधानम्।तस्माद्देवतादृष्टिरेवान्यत्रं कार्या।।

21. अत्र कश्चिच्चोदयति-- अन्यस्मिन्नेति । युषमाकं सिद्धान्ते भ्रान्तिरस्तीति केषाञ्चिन्मर्यादा।

भेदाग्रहमात्रमेव ग्रहणस्मरणयोरस्ति न भ्रान्तिरस्तीत्यपरेषां मर्यादा। यथार्थख्यातिवादिनश्च यूयम्।

तथा च सति भ्रान्त्यभावं वदतां भवत्कानां कथं दृष्टिविध्यङ्गीकारोऽन्यदृष्टेभ्रान्तिरूपत्वादिति।

अयमत्र शब्दान्वयः-- अन्यथाख्यातिपक्षाङ्गिकारे तावदन्यस्मिन्नन्यदृष्टेर्विधिर्घटता मेव।

यथार्थं सर्वविज्ञानमिति वेदवितां मतम् इत्यस्मिन्पक्षे नान्यदृष्टिर्युज्यते न दृष्टिविधिर्युज्यते इत्यर्थः।तदेतत्प्रतिक्षिपति--तन्नेति।प्रतिक्षेपपेरकारं विभज्य दर्शयति-- आद्य इति।अन्यथाखयातपक्षे न विप्रपत्तिस्यात्।त्वयैव तस्मिन्पक्षे दृष्टिविधेर्ययुक्तत्वाङ्गीकारात्।अयमर्थः-- ये हि यथार्थख्यातिवादिनस्तेषामपि लोकदृष्टया भ्रान्तबद्धेः केनापि प्रकारेण निर्वाहः कार्यः, स निर्वाहोतेरापि

दृष्टिविधौ वाच्य इति।अत्र निर्वाहप्रहारं दर्शयति-- तादृगिति। अयं भावः--शुक्तिरजतमित्यादौ शुक्तिरजतयोस्तादात्यग्रहं वदन्त्यथाख्यातिवादिनः।अख्यादिवादिनस्तु प्राभाकराश्शुक्तिरजतयारतादात्म्याग्रहकं शुक्तिग्रहणरजतस्मारणयोर्भेदाग्रहञ्च भ्रान्तिस्तानीयं वदन्ति।


यथार्थ सर्व विज्ञानम् इति वादिमस्तु शुक्तिरजतयोद्र्वयोरपि सद्भावं पञ्चीकरणन्यायेन पुरोवर्तीति

वस्तुनि वदन्ति। तत्र शुक्तिभूयस्त्वाग्रहसहकृतरजतग्रहणं वदन्ति तेनात्र प्रवृत्योर्बाध्यते सामाधिकरण्याभावात्।अयमत्र निर्नयः-- भ्रान्तिर्यद्यस्ति तदा दृष्टिविधेर्नानुररत्ति यदि नास्ति तदापि

भेदाग्रहसहकृतज्ञानद्वयाङ्गीकारेण प्राभाकारमतस्थानामिवास्माकमपि दृष्टिविधिविधान्,याविरोध इति।।

22. अत्र दृष्टिविधौ परोक्तप्रकारं स्वाभिमतं प्राकारद्वयेन निगमयति-- द्रष्टव्येति। अत्र केचिदाहुः--चोरस्थाणुरीतच्या यथा

चोरत्वं बाध्यते सामानाधिकरण्येन, तच्च मिथ्या एवं ब्रााहृाहमित्यत्रापि द्रष्टव्यापह्नव इति। द्वितीमिह द्रष्टव्यं जीवो ब्राहृ च जीवोपाह्नवे दोषमाह- नेति।

भ्रमता जीवेण संघटिता दृष्टिरेव नस्यात्।ब्राहृपाह्नवेपि दोषमाह-- अद्वैतमोह इति।अत्राद्वैत शब्देन ब्राहृोभिधीयते।मोहशब्देन ब्राहृविषयिणी दृष्टिः।अत्र द्रष्टव्यापह्नवोक्तौ द्रष्टव्यस्य ब्राहृण एवापराधस्स्यादिति समानाधिकरण्यम्।ब्राहृणो मिथ्यात्वापराधात् कोऽयमुत्कृष्टोऽपराधः।तेन ब्राहृाहमस्मि इत्यादिषु विहिता ब्राहृसमानात्वबुद्धिरित्याह-- तत इति। अस्मिन्पक्षे पूर्वोक्तो दोषोनास्ति इति केचिन्मन्यन्ते तदिदमाह--कतिचिदिति।अत्रान्यत्रान्यदृÏष्ट पक्षान्तरेण द्वेधा दर्शयति-- द्वेधे ति।

गरुडात्मनां जानीयादित्यादौ द्वेधा दृष्टिर्न किमनधइगता अदिगतेतेयरेथः।द्वैविद्यमेव दश्र्यति-व्यक्तितो

जातितश्चेति। गरूड एवाहमिति यदि प्रतिपाध्यत तदा व्यक्तितः, यदि च गरुडजातीयोऽहमिचति प्रतिपध्यत तदा जातितः, तेन द्वाप्येतौ पक्षावङ्गीकारे चकरात् समनन्तरोक्त सादृश्यप्रतिपक्तिरप्यङ्गीक्रियते प्रागुक्तस्तु पक्षः प्रमाणविरुद्धत्वान्नाङ्गीकार्य इत्यर्थः।।

23. अत्र ब्राहृैकमेवेति यथावस्थितप्रतिपत्तिमतामितरत्र ब्राहृदृष्टिः कथं स्यादितयनुयोगे सति परेषां पक्षेण प्रतिवचनमाह-- मुख्य मितयादिना।अयमत्र शाब्दान्वयः-- मुख्यं ब्राहृैकमेवेत्यवहितमनसा मितरत्र ब्राहृदृष्टिः कथं स्यादि त्यानुयोगः। अत्र भासकरमतानुसार्णः केचित प्राहुः-- एकत्वेने ति।

भोक्तृभाग्यादिभावेन विभक्तं सकलमेतत्वात् ब्राहृैव, अतो ब्राहृदृष्टि कर्तुं शक्यत इति। विरुद्धत्वात्कथमिदं वक्तुं शक्यत इत्याशङ्क्याह--
बलिनीति। विधिर्हि सर्वप्रमाणानां बलवतारः।तेन

मनोब्राहृेत्युपासीत , नामब्राहृेत्यपासीत इति विधिबलात् ब्राहृनैकत्वे सर्वात्मना संग्राह्रम्।न हि

श्रुतिप्रतिपन्नेऽर्थ कश्चिदपराधो दोषश्शङ्कनीय इति केषाञ्चित्परेषां पक्षः। अन्ये त्वाहुः-- अङ्कुल्युपष्टम्भादिभिश्चचन्द्रैकत्वेपि द्वित्वादिपरिकल्पनवद् ब्राहृैकत्वे परिज्ञातेपि ब्राहृनानाकत्वं

परिकल्प्यते। अमुष्यार्थस्य लोकदृष्टप्रक्रियया दृष्टान्तमाह-- बम्भ्रम्यन्त इति । तत्वतो ब्राहृण एकत्वेपि बाला बालप्रायाश्श्रुतिमृत्यादिष्वापाततः प्रतीत्या त्रिमूत्र्यादिषु तत्रतत्र नानात्वेन ब्राहृभावं प्रतिपाद्यन्ते। एतत्सर्वं परपक्षानुवादमात्रमेव तत्वतस्तु तत्रतत्र नामादिषु ब्राहृसदृशत्वं तज्जातीयत्वं तदेकत्वं वा दृष्टिमात्रेण परिकल्प्यत इति दृष्टिविधिप्रक्रिया इदमेव लौकिकवैदिकसकलोदाहरणाविरुद्धत्वादित्थमेव

स्वीकार्यम्।।

24. अत्र सङ्गतिर्भाष्य एव सुव्युक्ता 'मोक्षसाधनतया वेदान्तशास्त्रैर्विहितं ज्ञानं ध्यानोपासनादिशब्दवाच्यमसकृतावृत्तं सन्ततस्मृतिरूपमित्युक्तम्। तदनुतिष्ठन्नासीनश्शयानस्तिष्ठन्गच्छंश्च

विशेषाभावादनियमेनानुतिष्ठेत् 'इति शङ्क्या। समनन्तराधिकरणयोः प्रासङ्गिकत्वात्प्रधानसङ्गतिरेव

वाच्येत्यर्थः। तदर्थविचारस्तु-- किमासीनश्चिन्तयेदुतासीनश्शयानस्तिष्ठन् गच्छन्वेति। किं गमनादिषु

ध्यानं सम्भवति नेति। अत्र पूर्वपक्षमाह-- आसीनस्ये ति। अयमत्र शब्दार्थः-- आसीनस्यैव योग इति

श्रुतिवाक्यं तावन्नास्ति नापि श्रुत्यर्थापत्तिः काचित् 'स खल्वेवं वर्तयन्यावदायुषम् तद्रूपप्रत्यये चैक्

सन्ततिस्चान्यनिस्स्पृहा 'इत्यादिभिस्सदात्वमपि प्रतिपद्यामहे ध्यानस्य। ननु चेलाजिनकुशोत्तरमित्यासनपरिकल्पनञ्च योगिनामनुश्रूयत इत्याशङ्क्य परहरति-- न्यास इति। अयमर्थः--आसनपरिकल्पनं न नियतम्, अपित्वासीनत्वावस्थायां कादाचित्कमेव भवति तत्र ' चेलाजिन

कुशोत्तरम् 'इति नियमविधिः क्रियते तेन गच्छन्नासीनश्शयानो वा ध्यानं कुर्यादिति। तदिदमाह-- तस्मा दिति। अत्रा प्रगम्प्येन्द्रियस्य पुरुषस्य स्थितौ वा गतौ वा शयने वा ध्याने सम्भवेदिति। तदेतद्दूषयति-- अप्राप्त मिति। अप्राप्तत्वमेव प्रकटयति-- यत्ने ति। गमने हि यत्न एव शयने निद्रान्वयादप्रबोदो भूयानुपजायते तस्मादौचित्यादासीस्यैव ब्राहृध्यानं प्रकल्पनीयमित्यर्थः।।

25. अत्र ध्यानस्य नित्यानुष्ठानमेव विहितम्, अथाप्यवर्जनीयकर्मान्तरसद्भावे सच्छिद्रमपि चिन्तनं क्रियमाणं विहितस्य नित्यचिन्तनस्य न विरोधमापादयतीत्याह-- चित्तैकाग्र येत्यादिना। अयमत्र शब्दान्वयः-- योगदशायां चित्तैकाग्रयोपपत्त्यै देशकालासनादेर्नियतिं विदधति महर्षयः। सच्छिद्रं चिन्तनं देशकालादिवैगुण्येऽपि कर्तुं शक्यत इति देशकालादिसाद्गुण्ये

सतत मेव चिन्तनमव्याक्षेपेण कर्तव्यमिति ते संस्मरन्ति। तर्हि निरन्तरध्यानतत्परस्य कर्मान्तराणि न कर्तव्यानीत्याशङ्क्यावश्यकर्तव्यानां कर्मणां परित्यागायोगात् प्रमाणानुसारेण भगवत्प्रेरितत्वानुसन्धानपूर्वकं सर्वमपि देहसंरक्षणादिशेषभूतं कर्म योगसिद्ध्यर्थत्वात्कर्तव्यमेव। यानि तु प्रतिषिद्धानि तानि न कर्तव्यान्येव। यानि पुनः काम्यानि तान्यपि तथा न कर्तव्यान्येव। तान्येव पापापाकरणद्वारेण विनियोगपृथक्त्वेव योगसिद्धयर्थतया विहितानि चेत् न परित्याज्यान्येव। नैतावता योसिद्धेर्विरोधः। यथाकासं योगार्थानां कर्मणामनुष्ठानस्य विहितत्वादित्याह -- व्यासक्तनीत्ये ति। यथा

लोके प्रधानभूते कÏस्मश्चित् कर्मणि वर्तमानाएव मध्ये तदनुबन्धिषु कार्येष्वपि परस्पराविरोधेन वर्तन्ते

तद्वदत्रापीत्यर्थः।।

26. उक्तस्यैवार्थस्य द्रढिम्ने योगस्य प्राधान्यमनूद्य प्रधानानुसारेणैव तदङ्गस्य कालयोगः कल्पनीय इति प्रदर्शयन् प्रधानभूतयोगस्वरूपनिष्पत्त्यर्थत्वात् सर्वकर्मणोऽपि काले कर्तव्यत्वं निगमयति- कर्मे ति।

अयमत्र शब्दान्वयः -- कर्मोपास्त्यङ्गभूत मिति विद्याङ्ग पादे विगदित मिति यत् ' अयं तु परमो धर्मो

यद्योगेनात्मदर्शनम् 'इत्याप्तैर्महर्षिभिरुक्तमिति यत् तेन योगस्य प्राधान्यसिद्धावितरत् कर्म तदनुगुणतया योज्यम्। अयमर्थः-- अङ्गाङ्गिनोर्विरोधे सत्यङ्गयनुष्ठानाविरोधेनैवेतरानुष्ठानं कर्तव्यमिति। एवञ्च सति प्रक्रान्तयोगो पुरुषे पटिमसघुतया योगपटुत्वाभावेन तत्पाटवसिद्धयर्थं कर्मणां कालयोग स्स्वीकर्तव्यः। अनुक्रमात् पाटवे जायमाने तदानीमपि यथायोगं कर्म कर्तव्यमित्याशयः। अयमर्थः-- 'स खल्वेवं वर्तयन्यावदायुषम् 'इति वचनमङ्गिभूताया विद्यायास्तदङ्गत्वेनानस्थितानां कर्मणाञ्च तुल्यमिति।।

27. अत्र कश्चित्पौनरुक्त्यशङ्क्या विद्याङ्गचिन्तनमत्र न कर्तव्यमिति ब्राूते-- विद्याङ्गमिति। अयमत्र शब्दार्थः-- विद्याङ्गं पूर्वपाद एवोक्तं किमिह पुनरसावानाद्यङ्गचिन्ता क्रियत इति।अत्र पूर्वपक्षी पराभिप्रायमाशङ्क्य निराकरोति-- दृष्टेति। तत्रादृष्टार्थाङ्गचिन्ता कृता इह पुनर्दृष्टार्थासनाद्यङ्गचिन्ता क्रियत इति विभागे न वक्तव्यः।तत्र हेतुमाह-- प्रागिति। पर्वपक्षमिति

दृष्टार्तआनां शमादीमनामुक्तत्वादयं विभागो न घटत इति भावः। उक्तमर्थमाघाङ्गीकारेण प्रतिक्षिपति-- सत्य मिति।अयमर्थः-- दृष्टार्थमदृष्टार्थमुभायमङ्गदातं विद्याङ्गपादोक्तमित्यनुमन्यमाहे तथापि ध्यानाख्यघारानहनमतिदशातूपासकैरन्वहं साधनीयः यावदायुरुत्तरोत्तरमवधानेन प्रसाधनीयेत्यर्थः,

सा च दशा चित्तैराग्रयेणेतरविषयसर्वप्रयत्नविरहे सत्येव सेत्स्यतीतीममर्थं विशेषतः प्रकाशयितुं अनुग्रहविशेषात् सूत्रकारः पुनःपुनः शिष्यमाणां प्रकाशयतीति।।

। 4.1.5

28. अत्र सङ्गतिभाष्ये तदिदमपवर्गसाधनमुक्तलक्षणमुपासनमेकाह एव सम्पाद्यम्, उतप्रायणात् प्रत्यहमनुवर्तनीयमिति विशये इति।तदर्थविचारस्तु-- उक्तलक्षणमुपासनं किमेकस्मिन्नहनि कर्तव्यमुताप्रायणादिति। किमेकदिनानुष्टानेन शास्त्रार्थस्य कृतत्वं नेति। अत्र पूर्वपक्षानिवादपूर्वकं

सिद्धान्तमाचष्टे-- एकस्मन्नेति ।अयमत्र शब्दान्वयः-- एकस्मिन्नेव दिवसे पराध्यानरूपा तु भक्तिर्यादि

भवति तत्रैव विधिर्विश्रान्तस्स्यात् उपरि तु ब्राहृचिन्ता विफलेति पूर्वपक्षः। तमिमं निराकरोति-- अयुक्तमिति।तत्र हेतुमाह-- छान्दोग्ये हि स खल्ववेवं वर्तयन्यावदायुषम् इत्यादिना यावदायुस्सुचरितमुदितम्। ब्राहृलोक प्राप्तिहेततोस्सुचर्तस्य ध्याने सन्निपात्योपकारकतया

स्वरुपोत्पतेतिसुचरितस्य यावदायुरनुष्टेयत्वं ब्राहृविद्या यावदायुरनुष्ठेयत्मन्तरेणानुपपद्यमानं

श्रुतार्थापत्त्याब्राहृविद्याया आप्रायणादनुवर्तनीयत्वमनबोधयति न केवलं श्रुतार्थपत्त्या तत्सिद्धिः,

अपि तु तदपि ब्राहृोपासनं कुत्रापि श्रुतौ प्रायणान्तं विहितं " प्रायणान्तमोङ्गारमभिध्यायीत ' इति।।

। 4.1.6

29.' एवं विद्यास्वरूपं विशेध्य विद्याफलं चिन्तयितुमारभते'इति भाष्यम्।इयं तु पेटिकासङगतिः।अयमाश

यः--ब्राहृविद्यास्वरुपस्य निरतिसायनन्दरूपत्वेन फलपक्षनिपेक्षेपार्हत्वात् तत्स्वलरूपशोधनमपि फलाधये

सङ्गतमिति।तदर्थविचारस्तु--किमश्लेषविनाशशास्त्रयोरभुक्तकर्मापरिक्षयशास्त्रस्य च विरोध एव

उतावरोधस्सम्भवतीति।किमश्लेषविनाशशास्त्रं मोक्षसाधनभुतविद्याभिधायिवाक्यशेषगतं विद्यास्तुतिवादपरत्वेन नेतुं शक्यते नेति।अत्र पूर्वपक्षोक्तिपूर्वकं सिद्धान्तमातषटे-- नाभुक्त मिति।'नाभुक्तं

क्षीयते कर्म कलपकोटिशतैरपि 'इति फलभोगात् विना कर्म न सुपरिहरमिति मुनीन्द्रै र्गीतम्।

तेन पापालेषश्रुति स्तद्विनाशश्रुतिश्च तत एव हेतोब्र्रााहृविदां वैभवोकिं्तस्सयात्। उक्तं पक्षं दूषयति--मैवमिति।तदेवोपपादयति-- नाभुक्तमिति. नाभुक्तमितियादिकमकृताप्रयश्चित्तत्वात् कर्मणा फलिष्यन्तीत्याशङ्क्य परिहरति-- प्रायचिक्तक्रमेणेति। अयमर्थः--द्विविधं खलु प्रायश्चिक्तं प्रतिपादिकं

सर्वप्रायश्चित्तञ्चेति। विशेषतस्तत्तन्निमिक्तपरिज्ञाने प्रतिपादिकं प्रायश्चिक्तं कर्तव्यम्।सामान्यतः परिज्ञाने

तु सर्वप्रायश्चित्तमेव प्रामाणर्विहितं करतव्यम्। कृष्णानुस्मरणं परम् ।इति कृत्स्नप्रायश्चित्तस्थानीयतया कृष्णानुस्मरणमेव प्रमाणैर्विहितम्। तत्र शुचिर्भवति संस्मृत्या इत्यादिकं सहस्मप्यैतिहाससिकं पौराणिकमागमिकं स्मार्तञ्च वचनजातं पाठ¬ाम् । नहि बहूनां सन्निपाते नाभक्तमित्येकं वाक्यं सोरॉपबृणश्रुतिविरुद्धं स्वयमतिष्टते। न खलु मार्जारो भवति मातङ्गशतस्य परिस्पर्धीति।।

30. परब्राहृोपासनस्य सर्वपापप्रायश्चित्तात्मकत्वमुक्तं लक्षणतोऽपि प्रदर्शयन् पापलेपविषयमपि परिशोधयति-- निष्कृतीति । अस्य ब्राहृोपासनस्य प्रायश्चित्तात्मकत्वमुतपन्नदुरितसमुन्मूलात्मकत्वा उपपन्नमेव। इदमेव हि पारयश्चित्तस्य लक्षणमितयर्थः। नन्वस्तु ब्राहृोपासनं प्रायश्चित्तं, अथापि

स्वर्घादि पुरुषार्थ साघनानुष्टानवदसङ्कुचितब्राहृानुभवरूपज्ञानविकासार्थं साधनान्तरमनुष्टेयं

स्यादित्याशङ्क्यप्रतिक्षिपति-- नात्रेति। तदेव स्थापयति- प्रतिहतिविगम इति।अयं भावः--स्वर्गाद्यनुभवो

हि कर्मरूपोपाधिप्रयक्तत्वादस्वाभाविकः। तेन साधनानुष्टानमपेक्षते। ब्राहृप्राप्तिस्तु सर्वेषामप्यात्मनां स्वाभाविकी। अथापि केषाञ्चितनादिपापप्रवाहवशादनादिप्रतिबन्धवति। प्रतिबन्धाभावे स्वयमेवाविर्भवति।

अत एवोच्यते-- यथा न क्रयते ज्योत्स्ना मलप्रक्षालनान्मणेः। दोषप्हाणान्न ज्ञानमात्मनः क्रियते तथा।

एवञ्च स्वर्गादिभ्यः वैषम्यं परब्राहृप्राप्तेः, न हि प्रामाणप्रातिपन्नेत्यर्थः न विश्वशनीयम् किञ्चिदस्ति।

यक्त्याभासस्तु प्रमाणविरुद्धत्वात् वादेनादरनीयः। अत्र हिशब्दः प्रसिदिं्ध दर्शयति। यथा दीपादेरावारक

घटाद्यपगमने प्रकाशविकासस्वत एव, एवमात्मनेति प्रतिबन्धकाभावे धर्मभतज्ञीनविकीस इत्यर्थः।अत्र

कश्चिच्चोदयति--यदि ब्राहृविदां पापातेस्तर्हि तेषामुत्पथप्रवृत्तिरेव स्यादिति, अत्राह--पापतेप इति।प्रमादिकपापालेप एव ब्राहृविदामस्माभिरुच्यते न पुनर्बुद्धिपूर्वकपापालेपः। तत् किमर्थमित्यत्राह- आज्ञानुवृत्या इति । श्रुतिस्मृति ममैवाज्ञा इत्यध्यात्मविदामपि भगवताज्ञरूप श्रुतिस्मृत्यनुलिङ्गनस्य भगवतैवोक्तत्वादित्यर्थः। एवमनङ्गिकारे नाविरोतो दुश्चरितात् इति वचन्स्यगतिर्नस्यात्। योगिनाञ्च नियमेव स्वाधिकरनानुष्टानुरूपप्रवृत्तेच गतिर्न स्यात्। चकारसमुच्चयार्थः। भ्रान्तत्वं नाटयन्भरतोऽपि

सतां मार्गमदूषयन् इति सन्मार्गवर्तित्वेन ह्रुच्यते।।

31. अत्राश्लेषविनाशशब्दयोरर्थविशेषं दरेशयित्वा ब्राहृविद्यायाम्त्तराधं प्रयापि प्रायस्चित्तत्वमाक्षिप्य समाधते-- अश्लेष इति। अत्र कर्मशक्तेरनुदयोऽश्लेषः उदये तन्नवृत्तिर्विनाशः इह कर्मशक्तिरपि प्रणेतुस्सर्वनेतुर्भगवतस्तत्तत्कर्मोचितफलकृन्निग्रङवेव तेन न सिद्धान्तविरोधः। तदिदमाह-- शक्ति रित्यादिना । अत्र केनचिदुक्तानां शङ्कां निवारयति-- प्रयाश्चित्तमिति। अबुद्धिपूर्वकस्योत्तराघसायोपायानुष्ठानदशायमुत्पत्तिरेव नास्ति अनुत्पन्नस्य पापस्य कथमितं ब्राहृविद्या प्रायश्चित्तमिचि चोदकाभिप्रायः। इमां प्रतिक्षिपति-- नैवानुयोज्य मिति। अननुयोज्यत्वमेव दर्शयति-नधर्म इति। ब्राहृविद्यानिष्टस्य तस्याबुद्धिपूर्वोत्तराधे पापमेव न स्यदिति ब्राहृविद्यायास्सर्वपापप्रायश्चित्तत्वं वदतां ह्मदय मित्यर्थः।।

32. एवमबद्धिपूर्वोक्तराधमुक्त्वा बुद्धिपूर्वोत्तराधस्याध्यात्मवित्सु केषुचिदनुत्पत्तिमपरेत्पन्नस्य प्रायश्चित्तमन्येषु केषुचिदप्रायश्चित्तेऽप्याशूपभोगमुपपादयन् सर्वाथापि भागवतस्य सापरादस्यपि क्रमशो

मुकिं्त दर्शयति--धीपूर्व मिति। सर्वदा सावदानो ब्राहृवित् बुद्धिपूर्वमुक्तराधं न सृजत्येव।मध्यमस्तु ब्राहृवित् जातं पापं प्रायशअचित्तेन क्षिपतीत्याह-- जात मिति।अपरोऽपि ब्राहृवित् न खलु भागवता यमविषयं गच्छति। इहैवैषां केचिदुपप्लवा भवन्ति काणा भवन्ति खञ्जा भवन्ति इत्यादिश्रुत्यक्तप्राकारेण प्रतिपदप्रायश्चित्ताकारणे लघुदण्जमुपभुञ्जीत। इदं तदु वृत्रासुरप्रभृतिषु दृष्टमेव । वृत्रः खलु भागवतः, अथापि केनाप्यपचारेणासुरं देहं प्राप्तस्तत्रापि जातिस्वभावाद्देवप्रकृतीनां

अपराधं कुर्वन्नपराधानुरूपोपभोगमप्यन्ते पेराप्य भगवन्तमेव ध्याय न्नभिमतफलं प्राप्तवानिति पौ#ोराणिकी प्रसिद्धिः। नन्वथाप्यपराधशतमनुतिष्टतश्चेदिरादस्याकृतप्रायश्चित्तस्य कथमिव ब्राहृप्राप्ति -रभूदित्याशङ्क्य तत्रापि प्राचोनसुकृतवशैदन्ते कृष्मावतारकाव्ये---

सुकृतेन पुराकृतेन चद्यः प्रतिपन्नप्रकृतिर्विलीनवैरः।

क्षणमद्भुतकृष्णरूपदर्शीं शिथिलाकृष्टशिलीमुखाऽवतस्थे।।

इति। तदिदमाह-- नियतिविभवत इति। अस्तु सिद्धः, अथाप्यद्यैव वा कालान्तरे वा सिद्धिरित्याशङ्क्य प्राचीनकर्मानुरूपभगव्संकल्पानुविधानेनानियमेन फलसिदिं्धकिल भगवान्बादरायणो मन्यत इत्याह -- अद्यैवेति।।

। 4.1.7

33. पूर्वं पापस्याश्लेषविनाशावुक्तौ अधुना सुकृतस्याप्यश्लेषविनाशावुच्येते इत्यातिदेशिका सङ्गतिः।तद

र्थविचारस्तु--उत्तरपुर्वसुकृतया#ोरश्लेषविनाशौ किं सम्भवतो नेति।किं'पापं कर्म न श्लिष्यते' 'सर्वे पाप्मानः प्रदूयन्ते'इति वाक्यद्वयं सुकृतदुषकृताश्लषविनाशपरमुत दुष्कृतमात्राश्लेषविनाशपरम्।किमत्र पापकर्मशब्दो निषिद्धपर उत विद्याविरोधफलकर्मपरः।'सर्वे पाप्मानः'इति वाक्यं किं पाप्मशब्दस्य विद्याविरोधिफलकर्मपरतामवगमयति नेति।अत्र पूर्व पक्षमाह-- धर्मस्ये ति। परभजनानुग्रहेणा नुकपलस्य धर्मस्याश्लनैवोपपन्नौ। अनुपपत्तौ हेतुमाह-- तस्ये ति।नहि सर्वलोकविदितस्य धर्मस्य पापत्वमुपपद्यते।

तदा पुण्यपापव्यवस्थानुपपत्तिप्रसङ्गात्।किञ्च श्रुतिरप्याह --अध्यात्मवित् पुण्यफलं सकलमप्यनुभूय पश्चादपवर्गं प्राप्स्यतीति। तदिदमाह-- भागै रिति।तदेतत् प्रतिश्रिपति-- नेति। तत्र हेतुमाह-- यत इति।

अस्या ध्यात्मविदः काम्यमपि पाप मेव।ननु काम्यस्य सुकृतस्य पापत्ववचनं साहमेव नहि कर्माचरतोऽपि

कर्मठान् पापिन इति वदन्ति प्राज्ञाः तेन काम्यस्य कर्मणः पापत्वमतिसाहसमेवेत्याशङ्क्यं परिहरति-- तस्मिन्नि ति।लोके हि सर्वत्र यस्मिन् यल्लक्षणं दृश्यते तदेव तच्छब्देन व्यवह्यियते।गवादिषब्दा घटादिशब्दाश्च तत्तल्लक्षणानुरोधेन व्यवह्यियन्ते विद्वद्भिः।अत्रापि काम्येषु कर्मस्वधिकारिभेदेन कालभेदेनावस्थाभेदेन पापमेव पुण्यं पुण्यमेव पापमितिनियमस्य सर्वलोकप्रसिद्धत्वात् काम्यं कर्माध्यात्मविदां पापमेव। उपवर्ग एव खल्वध्यात्मविदामभिमतः।

तद्विरोधि हि स्वर्गाद्युपभोगः। अत एव स्वर्गादिर्नरकतयोच्यते नारयणपराणां। एते वै निरस्यास्तात स्थास्य परमात्मनः, अर्थकामपरा यूयं नारायणपरा वयम् इतयादिना वचनान्यत्र प्रामाणम्। न केवलं लक्षणादेव काम्यकर्माणां पापत्वमस्माभिरुच्यते न सकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते इत्यादिश्रुतिरपि काम्यकर्मणः पापत्वं कण्ठा#ोक्त्या प्रकटयति दर्शयति-- न सकृत मिति।।

34. अत्र पापवत् पुणयस्यापि विरोधिफलसाधन्तवेन निरस्नीयत्वाद् राजभृत्यनिरोधकसौवर्णायसनिगलद्वयन्यायेन पुरुषार्थप्राप्तिदशायां सर्वस्यापि भञ्जनीयत्वात्वमेवेत्याह--

पणयमिति। द्वविधं हि पुण्यं विद्यानुकूलं केवलोपभोगार्थञ्चेति। तत्र विद्यानुकूलं कर्म विद्याप्राधानेन चरितार्थं भवति। विद्यायामनुपयुक्तं यत्कर्म काम्यं तत् दुरितवत् वारणीयमित्याह-- तस्या मिति। दुरितं

हि दुःखहेतुः कदाचिद्वैराग्यहेतुरपि भवति।काम्यं कर्म सुखहेतुत्वात् तदाशाभिवृद्धिमुखेन संसारभिवृद्धिमेव करोतीति पापदपि काम्यं कर्म विशेषेण परित्याज्यमिति भावः। पुण्यपापयोः परिहरणीयत्वं लोकदृष्टान्यायेनोप पादयति-- कारागारेति ।इदं तु पामराणामपि प्रतीत्यर्थम्।।

35. अत्राध्यात्मविदामलेपविषयं सुकृतं न सम्भवतीत्याक्षिप्य प्रकारभेदन सम्भवतीत्युपपादयति- काम्य मिति। अयमत्राक्षेपकस्य भावः-- अध्यात्मविद् विरक्तत्वात् काम्यं कर्म नेच्छेत्। अत एव तन्न करोति। तस्मादकृतेन करमणा तावदलेपो न वाच्यः। ननु विरोक्तोऽपि वासनावशात् कदाचित् काम्यं

कर्म कुर्यादित्याशङ्क्य यदि कुर्यात् तत्कर्म फलं प्रयच्छेदेव, तेन फलेन विनष्टत्वात्

तेनापि कर्माणा अलेपो न वाच्य इत्याह-- यदि किले ति।तह्र्रबुद्धिपूर्वकं काम्यमस्ति तेनालेप उच्यत

इत्याशङ्क्यतदपि निराकरोति-- निधीपूर्व मिति।काम्यं चेद् बुद्धिपूर्वकमेव कामनाया बुद्धिविशेषजन्यत्वात्, तेनाबुद्धिपूर्वकत्वे काम्यत्वं न स्यदित्यर्थः। तर्हि ज्ञातान्यज्ञातानि च सुकृतानि सन्ति तत्राज्ञातसुकृतैरेवालेप उच्यत इत्याशङ्क्य तदपि

परिहरति--न चेति। अज्ञातधर्मो हि काम्यं फलं न दिशति फलोद्देशेनानुष्टानाभावात्। तर्हि विद्यार्थैधर्मै रेवालेप उच्यत इति चेत् तदपि नेत्याह-

विद्यार्थैरिति।विद्यानिष्पत्या लुप्तत्वात् विद्यार्थानि कर्मणि विद्यानिष्पत्यैव दत्त्यैव दत्तफलान्येव।अत इतरत्कर्म नास्ति, केनालेपः कथ्यत इत्याह-- अत इति। अत्रोत्तरमाह--नेति। अयमर्थः-- विद्यार्थमनुष्टितानि कर्माणि विद्याफलमदत्त्वाधिकान्यवतिष्टन्ते वीतरागत्वेऽपि वासनावशआदन्यार्थतया मोहतोऽनुष्टितानि सान्तरायत्वाद दत्तफलानि कर्माणयपि कानिचिदवतिष्टन्ते अध्यात्मविदि स्नाहाद्बन्धुभिरनुष्टितानि सुकृतानि बहून्यवतिष्टन्ते तानि सुकृतान्यपि तस्य दुष्कृतान्येव तस्मादनुतापवतस्तस्याध्यात्मविदस्तैलेन उच्यत इत्यलेपवचनस्यावकाशोऽस्तीति।।

4.1.8

36. अत्र सङ्गतिर्भाष्ये 'ब्राहृविद्योत्पत्तेः पूर्वोत्तरभाविनोस्सुकृतदुष्कृतयोरश्लेषविनाशावुक्तौ। ततः पूर्वभाविनोस्सुकृतदुष्कृतयोः किमविशेषेण विनाशः उतानारब्धकार्ययोरेवेति विशये 'इति। तदर्थविचारस्तु- किं पूर्वे सुकृतदुष्कृते अविशेषेण नश्यत उतानारब्दफले। किं 'सर्वं पाप्मानः 'इति सर्वशब्दस्यानुरोधो न्याय्य उत ' तस्य तावत् ' विलम्बश्रुत्यनुरोधः। किं कुलालचक्रभ्रमणवत् कर्मविनाशेऽपि संस्कारेण शरीरधारणमुपपद्यते नेति।

किमीश्वरप्रीत्यप्रीतिव्यतिरेकेण संस्कारकल्पनायां

प्रमाणमस्ति नेति। अत्र पूर्वपक्षमनुवदति-- नश्य त्विति। अनारब्धकार्यव दारब्धकार्य मपि दुरितं नश्यत्येव। तत्र विशेषाभावादिति हेतुमाह- नही ति। अनारब्धकार्यमेव नश्यति आरब्धकार्यं तु न नश्यतीति विशेषो न ह्रधीत इत्यर्थः। कथमनधीत इत्याशङ्क्य साधारण्येनाध्ययनमाह- सर्व इति।

पाप्मानस्सर्व इति हि साधारण्येनोक्तत्वादुभयमपि नश्यतीति वक्तव्यमिति। तमिमं पूर्वपक्षं प्रतिक्षिपति- नेति। तत्र हेतुमाह- उपालम्भादी ति। प्रत्यक्षबाधादनुमानबाधादागमबाधाच्चेत्यर्थः। उपलभ्यते हि ब्राहृविदामपि सुखदुःखानुवृत्तिः। अन्यथा तदनुकूलप्रवृत्तिनिवृत्यादिकं न स्यादित्यनुमानबाधः। आगमबाधोऽपि 'तस्य तावदेव चिरम् स खल्वेवं वर्तयन् 'इत्यादिवचनबाधः। आगमबाधमेव विशेषतः प्रकटयति- सद्विद्ये ति। अस्मरंश्चागमज्ञा इति- पराशरपाराशर्यादयः 'स्वकर्मणा तमभ्यच्य सिदिं्ध विन्दति मानवः'इति वचनसहरुौब्र्राहृविदामपि भगवदाराधनरूपेण विद्याङ्गकर्मणामवश्यकर्तव्यता मस्मरन् । तर्हि 'तमेवं विद्वानमृत इह भवति 'इति जीवन्मुक्तिवचनं कथं स्यादित्याशङ्क्याह- जीवन्मुक्ती ति। इहामृतत्ववचनममृतप्रायत्वादौपचारिकमित्यर्थः। तर्हि मृषावादिनो जीवन्मुक्तिमेवात्यादरेण प्रतिष्ठापयन्ति, तत्कथमिति वदतस्तु शिष्यस्य कस्यचित् गतानुगतिकस्योत्तरमाह- मोहिता इति। श्रुतिवाक्यस्याभिप्रायमजानाना मन्दा जीवन्मुक्तिवादं मौढ¬ादेव

प्रलपन्तीत्यर्थः।।

37. अत्र कश्चिच्चोदयति-- 'ननु प्रारब्धकार्ययोः पुण्यपापयोर्भोगेन विनाश इति भवद्भिरुच्यते, तन्नोपपद्यते कृतप्रायश्चित्तानां भोगाभावात् 'इति। तदिदमाह- रोगादी ति। लोके हि प्रारब्दानामपि पापानां भोगमन्तरेण विनाशो द्दश्यते 'जन्मान्तरकृतं पापं व्यधिरूपेण बाधते। तच्छान्तिरौषधेर्दानैर्जपहोमार्चनादिभिः।।'इति। किंच 'जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः। त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन।। 'इत्यवताररहस्यवेदिनां प्रारब्धशेषनुभानेनापवर्गप्राप्तिरुच्यते तत् कथं प्रारब्धस्योपभोग इति। तदप्याह- प्रत्येतु रिति। स्वावतारादि प्रेत्येतुरि त्यन्वयः। तस्मादारब्धकार्ये कर्मणि फलनियतिवचो दुर्घटं भाती ति शब्दान्वयः। तत्रोत्तरमाह-मैवमिति। तदेव विवृणोति- प्रायश्चित्तोज्झितानामिति। अकृतप्रायश्चित्तानां कर्मणां फलावश्यम्भावस्सूत्रकाराभ्रिप्रेतोनपुनः कृतप्रायश्चित्तानामपु,तेन न कश्चिदपि विरोध इति भावः।

38. अत्र भाष्ये इतरस्याप्येवमसंश्वेषः'इति विद्याबलात् सुक-तस्याप्यसंश्लेष उक्तः।अग्निहोत्रादिनां नित्यनैमित्तिकानां स्वाश्रमधर्माणामपि सुकृतत्वसामान्येन तत्फलस्याश्लेषादच्छितोऽननुष्ठानेइति शङ्क्या सङ्गतिपुक्ता।तदर्थविचारस्तु--किमग्निहोत्राद्याश्रमधर्मो विदुषः कार्याश्लेषादननुषठेय उतानुष्ठेयः।किमश्लेषवचनं सर्वसुकृतविषयमुत विग्याङ्गाश्रमधर्मव्यतिरिक्तसुकृतविषयं।किंविद्वत्सम्बन्ध्याश्रमधर्मस्यापि फलं विद्याव्यतिरिक्तमुत विद्यैवेति।अत्र पूर्वपक्षमारचरयति-- श्लेष इति। यद्यश्लेषस्दा परवि द्याग्निहोत्रादि पुण्यनिष्ठा निष्फला

स्यात्।अतःकारणा द्धर्मोऽप्यधर्मक्रमेणैव परित्याज्यः स्यादिति।तदिदं दूषयति-- अयुक्त मिति।तत्र हेतुमाह-- न

स्या दिति।यद्यग्निहोत्रादिर्बन्धाय स्यात् तदा ह्रयुक्तः, स तु बन्धाय न स्यात् अपि तु मोक्षस्योपकुरुत इत्याह-- विद्याङ्कुर मिति। ब्राहृविद्याङ्कुर मन्तः करणशुद्धि मुपचिनुते ह्रग्निहोत्रादिधर्म इति।उपकारके प्रतिकबलत्वबूद्धिर्भवतः पापनूलेतेयर्थः।।

39. अत्र पौनरुक्त्यमाशङ्क्य पिरहरति-- सर्वे ति।'सर्वापेक्षा' इत्यस्मिन्सूत्रे कर्मणाभङ्गभावं परभजने ह्रकथयत् अधुनापि 'अगिनिहोत्रादि'इत्यनेन तदेवाभिधियते तेनोभयो रेकं निरर्थकमिति।तदेतद्दुषयति-- ने ति।अत्रोभयोः प्रयोजनविशेषाभिधानेन पौनरुक्त्यं परिहरति-- विद्याया इति।तत्र हि विद्याया नैरपेक्ष्या भिधानेन सापेक्षत्वमुक्तम्। तदपरिकरता विद्याया निरङ्गत्वाभिधानं सामान्येन प्रागप्रास्ता ।अधुना पुनस्सुकृताश्लेषप्रसङ्गे सुकृतत्वाविशेषादग्निहोत्रादिनां परित्याज्यत्वमाशङ्क्य तदेव पुनः प्रतिषिध्यत इति न पौनरुक्त्यप्रसङ्गः। नीतिवैषम्यसिद्धेरितिरथः ।।

40. 'आरब्धकार्ये पुण्यपापे किं विद्यायोनिशरीरावसाने,उत तच्छरीरावसाने शरीरान्तरावसाने वेतेयनियमः'इति चिन्तनात् भाष्ये सङ्गतिव्र्यक्ता।तदर्थरूरावसाने शरीरान्तरावसाने वेत्यनियमः प्राब्धकर्मफलभोगावसानत्वमवगमयति।अत्र पूर्वपक्षं सोपपत्तिकमभिधाय तदन्यथासिद्ध्या


प्रतिक्षिपति-- निर्दिष्टे ति।इत्थं किल पूर्वपक्षी मन्यते--'एष सम्प्रसादोऽस्माच्छरीरात्समुत्थायपरञ्ज्योतिरूपसम्पद्य 'इत्यस्मिनेवाक्ये खल्वस्माच्छरीरादित्युच्यते तेन विद्यारम्भशरीरावसान एव ब्राहृप्राप्तिः।तेन 'यावन्न विमोक्ष्ये'इत्यावाक्यं प्राब्धकार्यं कर्म कथय त्येव अथापि विदुषस्त्वच्छरीरान्तमेव तत्कर्म भवति तस्मात् तस्यापि वाक्यस्य न विरोध इति।तदिदं दूषयति-- मैव मिति।तत्र हेतुमाह-- प्रारब्धे ति।'यावन्ना विमोक्ष्ये'इत्यादिवाक्यं प्रारब्भकार्यं कर्म कथय त्वेव अथापि विदूषस्तच्छरीरान्तमेव तत्कर्म भवति तस्मेत् तस्यापि वेक्यस्य न विरोध इति।तदिदं दूषयति-- मैव मिति।तत्र हेतिमाह-- प्राब्धते ति।'यावन्न विमोक्ष्ये'इत्यादिवाक्यात् प्रारब्धा नां कर्माणां वैचित्र्यान्न तच्छरीरावसाने मोक्षः।अस्माच्छरीरादिति वचनं बुद्धिस्थचरमशीरीरावसानपरमिति मन्तव्यम्।

41.

नन्वसिमाच्छरीरादिति श्रुतिसिवारस्यं विहाय तत्रवा अन्यत्रवेत्यस्वरसार्थः किमरिथं कल्प्यत इत्याशङ्क्याह-- भूय इति।अयम् 'आदित्यादितिमतयश्चाङ्गउपपत्तेः'इत्यस्य चतुर्थाधिकरणस्यार्थः।

प्रणिधिरपि सासनो भवेत्--- उपासनमासनहितमेव कार्यमिति।अयम्'आसीनस्सम्भवात्'इत्यादेः पश्चमाधिकरणस्यार्थः।प्रणिधिः प्रत्यहञ्च भवेत्---तदेतदुपासनं प्रत्यहं प्रायनान्तं कार्यिमिति।अयम् 'आप्रायणात्तत्रापि हि दृष्टम् 'इत्यादेष्षष्ठाधिपरणस्यार्थः। पापे पुण्ये च नाशादिक म्--विद्यायाः पूर्वमुत्तरञ्चानुष्ठिते पुण्ये च नाशोऽश्लेषश्च।इदमर्थद्वयं क्रमात् 'तदधिगम उत्तर पूर्वाघयोः'
इत्यादेस्सप्तमाधिकरणस्य 'इतरस्याप्येवम्'इत्यादेरष्टमाध्करणस्य चावगन्तव्यम्। अथ तु --तदुपरितने 'अनारब्धकार्ये एव तु 'इत्यादिके नवमाधिकरणे तु।

तयोः--- पुण्यपापयोः। आरब्धकार्ये--- फलप्रदानप्रवृत्ते कर्मणि विषये। भोग्यता--- फलानुभवेनैव नाश्यता। स्वार्हवृत्तेः ककार्यत्व म्--करणस्यार्थः। आरब्धशान्तौ मोक्षस्य-- तत्तत्पुरुषभेदाधिनतारतम्ययुक्तप्रारब्धकर्मनिवृत्तौ मोक्षलाभ इति च।अयं 'भोगेन त्वितरे '

इत्यादेरेकादशाधिकरणस्यार्थः। इति--- एवं क्रमेणोक्तमर्थजातम्। इह--- अÏस्मश्चतुर्थाध्याये प्रथपादे।

कथित म्---प्रतिपादितम्।सूत्रकारैरिति शेषः।।



चतुर्थस्यअध्यायस्य द्वितीय पादः

1. पूर्वोक्ताध्यायद्वयार्थानुवादपूर्वकं चतुर्थाध्यायद्वतीयपादारम्भे सङ्गतिमाह--- नित्यत्वे ति। प्रथमाध्याये परतत्वपिरतिपादनं कृतम्। नित्यत्वज्ञत्वपूर्वैर्जीवतत्त्व मपि द्वितीया ध्याये निपुणमभिहितम्।तृतीयाध्याये वैराग्यपादे जगदटविमहाजाङ्घिकस्य जीवस्य दुःखमपि प्रोक्तम् ।

शिष्टे च शारुाांशे पूर्व प्रवृते विद्यारम्भ मुपक्रम्य विद्या वसान पर्यन्तं मध्ये यद्वक्तव्यं तदपि चोक्तम् । अतः परं प्रारब्धावसाने स्थूलशरीरं जहतो जीवस्य गत्यपक्रान्ति प्रकार माहे त्युत्क्रा न्तिपादमवतारयति--- प्रारब्धस्ये ति

2. ननु जाग्रत्स्वप्नसुषुप्तिमूर्छाप्रसङ्गेन वैराग्यपाद एव मरणमपि चिन्तनीयम्, किमर्थमत्र मरणमस्थाने चिन्त्यत इत्याशङ्क्येदमपि स्थानचिन्तनमित्युपपादयति--- वण्र्य इत्यादिना। अयमत्रशब्दान्वयः---यद्यपि वैराग्यपाद

एवेद्दङ्मरणरूप स्तनुकरणक्षोभो ऽपि वाच्यः। तथापि ब्राहृज्ञस्यापि प्राप्त काले मरणं भवतीति ज्ञप्तये फलाध्यायेऽ नुबन्धः । कश्चिन्मनुते बालबुद्धिः---ब्राहृज्ञस्य महानुभावत्वान्मरणमेव नास्तीति, तत्प्रतीति निवारयितु मत्रानुबन्ध इति । किञ्चात्र सम्बन्धे कारणान्तरमस्तीत्याह--- तस्ये ति । ब्राहृज्ञ स्योत्क्त्रान्तौ मूर्धन्यनाड¬ा गमन विशेषं कथयितुं सर्व साधारणो त्क्रमणमोक्षविरोधो भवति । इत्यभ्पेतम्--- इति भवद्भिरितःपूर्वमङ्गीकृतं हि । परविदि ---परमात्मोपासके । तैर्यद्यश्लेषां भवेत् ---अग्निहोत्रादिभिस्साकं फलानुभवयोग्यताभावरूपोऽसम्बन्धो यदि भवेत् । परस्तात् पुण्यनिष्टा विफला--- उत्तरकालेऽग्निहोत्रादिधर्मानुष्टानं विफलमेव । तस्मात्--- उक्तोपपादवान् । धर्मोऽपि---

अग्निहोत्रादिधर्मोऽपि । अर्धमक्रमतः ---अधर्मतुल्यतया। इह ---ब्राहृविदि विषये। परित्याज्य एव--- अननुष्ठेय एव। इत्ययुक्त म् --- इति।शङ्कनमयुक्तम्। बन्धाय न स्यात् ---अग्निहोत्रादिधर्मो बन्धहेतुर्न भवेत्। अग्निहोत्रादिधर्मो विद्याङ्कुरमुपचिनुते हि--- अग्निहोत्रादिवर्णाश्रमधर्मो विद्याया अङ्कूरस्थानीयामन्तः करणशुद्धिमभिर्धयति हि।विद्यानिष्पत्त्यर्थमेव तेषामनुष्ठानम्,विद्यानिष्पत्तिरूपं फलं

न बन्धकम्,अपितु साक्षान्मोक्षहेतुरिति न पूर्वोक्तानुपपत्तिरिति भावः।

3.अत्र पौनरुक्त्यमाशङ्क्य परिहरति--- सर्वे ति।'सर्वापेक्षा 'इत्यस्मिन्सूत्रे कर्मणामङ्गभावं परजने ह्रकथयत् अधुनापि 'अग्निहोत्रादि 'इत्यनेन तदेवाभिधी.ते तेनोभयो रेकं निरर्थकमिति।तर्थतद्दषयति---नेति। अत्रोभयोः प्रयोजनविशेषाभिधानेन पौनरूक्तयं परिहरति--- विद्याया इति । तत्र हि विद्या नैरपेक्ष्या भिधानेन सापेक्षत्वमुक्तम् । तदपरिकरता विद्याया निरङ्गत्वाभिधानं सामान्येन प्रागपास्ता । अधुना पुनस्कृताश्लेषप्रसङ्गे सुकृतत्वाविशेषादग्निहोत्रादीनां परित्याज्यत्वमाशङ्क्य तदेव पुनः प्रतिषिध्यत इति न पौनरूत्तयप्रसङ्गः । नीतिवैषम्यसिद्धेः--- न्यायप्रवृत्तिप्रकारवै,म्यसिद्धेरित्यर्थः।।

4. आरब्धकार्ये पुण्यपापे किं विद्यायोनिशरीरासाने,उत तच्छरीरावसाने शरीरान्तरावसाने वेत्यनियमः' इति चिन्तनात् भाष्ये सङ्गतिव्र्यक्ता । तदर्थविचारस्तु---उक्तैव प्रथमचिन्ता । तदर्थमपि विर्चायते---

किं"तस्य तावत् 'इति वाक्यं विद्यायोनिशरीरावसानत्वमवगमयति उत तच्छरीरमतन्त्रीकृत्य प्रारब्धकर्मफलभोगावसानत्वमवगमयतीति । अत्र पूर्वपक्षं सोपपत्तिकमभिधाय तदन्यथासिद्ध्या प्रतिक्षिति--- निर्दिष्टे ति । इत्थं किल पूर्वपक्षी मन्यते---"एष सम्प्रसादोऽस्माच्छरीरात्समुत्थायपरञ्ज्योतिरूपसम्पद्य'इत्यस्मिन्वाक्ये खल्वस्माच्छरीरादित्युच्यते तेन विद्यारम्भशरीरावसान एव ब्राहृ प्राप्तिः ।तेन "यावन्न विमोक्ष्ये'इत्यादिवाक्यं प्रारब्धकार्यं कर्म कथय त्येव अथापि विदुषस्तच्छरीरान्तमेव तत्कर्म भवति तस्मात् तस्यापि वाक्यस्य न विरोध इति ।

तदिदं दूषयति--- मैव मिति ।तत्र हेतुमाह--- प्रारब्धेति ।'यावन्न विमोक्ष्ये'इत्यादिवाक्यात् प्रारब्धा नां कर्मणां वैचित्र्यान्न तच्छरीरावसाने मोक्षः।अस्माच्छरीरादिति वचनं बुद्धिसिछचरमशरीरावसानपरमिति मन्तव्यम्। नन्वस्माच्छरीरादिति श्रुतिस्वारस्यं विहाय तत्रवा अन्यत्रवेत्यस्वरसार्थः किमर्थं कल्प्यत इत्याशङ्क्याह-- भूय इति।ब्राहृविद्यानिष्ठनामेव महर्षीणामनुक्रमादनेकजन्मसम्बन्धवजनस्य महाभारतादिषु महर्षिभिः प्रतिपादितत्वात्।विदुरोहि धर्मदेवता।एवं पुर्वमेव ब्राहृविद्यानिष्ठानां चरमशरीरपर्यन्तं प्राब्धकर्मानुभूय तदवसाने मोक्षः।

5. नन्वत्रास्माच्छरीरादिति पदस्य साफल्यं सम्यबेव भवता नौक्तमित्याशङ्क्य तस्य पदस्यात्यन्तसाफल्यमस्तीति समाधातुमारभते-- नत्वि ति।शरीरे विशेषणतया प्रयुक्त मस्मादिति पदं वितथ मित्याशङ्का।इदमवितथमित्याह-- नत्वि ति।शरीरविशेषणस्यास्मादिति पदस्य तादात्विकदुरनस्थाप्रकाशनपरत्वेन साफल्य मस्त्येव।अनन्तगरुडविष्वक्सेनादिवदनभगवदनुभवयोग्यस्य कारागारनिवास इव कश्मले पुनरस्मिन्देहे निवासः।तमिमर्थं भगवानेव साक्षात्प्राहेति दर्शयति-- त्याज्यत्वे ति। 'अनित्यमसुखं लोकमिमं 'इति ह्रुच्यते भगवतैव।देहस्य त्याज्यत्वं नकेवलं भगवता गीतम्,महर्षयोऽप्याहुरित्याह-- भूतावास मिति। 'अस्थिस्थूणं स्नायुबन्धं मांसशोणितलेपनम्।चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरिषयोः।।जराशोकसमाविष्टं रोगायतनमातुरम्।रजस्वलमनित्यञ्च भूतावासमिमं त्यजेत्'। इति भगवता मनुनोक्तम्।।

6. अत्र कश्चिदनुयुङ्क्ते--नन्वेतन्नोपपद्यते भगवति सर्वसमत्वेन वर्तमाने परमकारुणिके सति कथमेतस्याधुनामुक्तिरितस्य श्वो वा परश्वो वेति तथा च सति सर्वेषामेकदैव मुक्तिस्स्यात् अथवा कादचिदपि न मुक्तिस्स्याद्ति।तदिदमाह-- सर्वे इति। सर्वेऽपि जीवास्समानाः,विविध मपि कर्मनादि त्वेन तुल्यम्। कर्मणस्तुल्यत्वेऽपि भगवतो वैषन्यादिदो षोऽस्तीति वक्तुमपि न शक्यते।

यदि वैषम्यनैर्घृण्यादिनिवारक शास्त्रभङ्ग स्स्यात्।अतो मुक्तौ कस्यचित्पूर्वं कस्यचिदुपरिष्ठादिति वैषम्यं न स्यादेवेति।अय मनुयोगोऽ त्यन्त मल्पसार एव।एवातन्तं कालमनेकविधन्यायश्रवणपरिक्त्रिमचेतसस्तु भवतः कोऽयमनुयोग इत्यपहासेनाह-- अल्पसार इति।अल्पसारत्वमेव प्रकटयति-- चित्र इति। कर्मप्रवाहे विचित्रे सति फलकालविभागस्सर्वैरपि तान्त्रिकैराश्रीयते।कश्चिदधुना चतुर्मुखपदं प्राप्नोति,पुर्वमेव कश्चित्,कश्चित्पुनश्चिरकालानन्तरं प्राप्स्यतीति सोऽयं विभागः केन कारनेण।एवं स्वर्गनरकादिप्राप्तावप्यनुयोज्यम्।अननुयोज्यैवेयमनादिकर्मप्रवाहवैचित्री प्रमाणप्रतिपन्नेति चेत् तर्हि कालभेदेन

मुमुक्षुत्वसिद्धावपि तदेवाननुयोज्यत्तत्वेन प्रयोज्यमिति मुकीभवन्तु भवन्त इति।।

47. चतुर्थाद्यपादाधिकरणानां प्राधानार्थभेदान् परिगणयति- आवत्र्ये ति। असकृतदावत्र्याब्राहृविद्ये त्याद्याधिकरणार्थः अह मित्यनुसन्धानं कर्तव्यमित्यनन्तराधिकरणे निर्णीतम्।तृतीये पुनः प्रंतीकोपासने नाहमितिबुद्धिः कर्तव्येत्यभिहीतम्।चतूर्थे कर्माङ्गे ष्वादित्यादिमतिः कर्तव्येति।पञ्चमे त्वासनसहितस्य प्रणधिः।

षष्ठे प्रत्यह मनुसन्धानम्।सप्तमाष्टमयोः पुनरुत्तरपुर्वपुण्यापापयोरश्लेषविनाशौ।नवमे तु तयोः पपण्यपापयोरारह्धकार्ये एव भोग्यताम्।दशमे वर्णाश्रमधर्मयोरवश्यानुष्ठेयत्वम्।चरमाधिकरणे प्रारब्धकर्मावसाने मोक्ष इति कथित मिदर्थचातम्।।

48. पूर्वोक्ताध्यायद्वयार्थानुवादपूर्वकं चतुर्थाध्यायद्वितीयपादारम्भे सङ्गतिमाह-- नित्यत्वे ति।प्रथमाध्याये परतत्वप्रतिपादनं कृतम्। नितियत्वज्ञत्वपबर्वैजीवतमपि द्वितीयाध्याये निपुणमभीहितम्। तृतीयाध्याये वैराग्यपादे जगदटवीमहाजाङ्घिकस्य जीवस्य दुःखमपि प्रोक्तम्।शिष्टे च शास्त्रमंशे पूर्वं प्रवृत्ते विद्यारम्बाद्य उपक्रम्य विद्यावासनपर्यन्तं मध्ये यद्वक्तव्यं तदपि चोक्तम्। अतः परं प्रारब्धावसाने स्थूलशरीरं जहतो जीवस्य गत्युपक्पाव्#ातिप्रकारमाहेत्युत्क्रान्तिपादमवतारयन्ति- प्रारब्धस्यस्येति।।

49. ननु जाग्रत्स्वप्नसुषुप्तिमूर्छाप्रसङ्गेन वैराग्यपाद एव मरणमपि चिन्तनीयं किमर्थमत्र मरणमस्थाने चिन्त्यत इत्याशङ्क्येदमपि स्थानचिन्तनमितियुपपादयति-- वण्र्ये इत्यादीना। अयमत्र शब्दान्वयः-यद्यपि

वैराग्यपाद एवेदृङ्मरणरूपस्तनुकरणगणक्षोभोपि वाच्यः।तथापि ब्राहृज्ञस्यापि प्राप्त काले मरणं भवतीति ज्ञप्तये फलाध्यायेऽनुबन्धः। कश्चिन्मनुते बालबुद्धिः-- ब्राहृस्य महानुभावत्वान्मरणमेव नास्तीति, तत्प्रतीतिं निवारयितुमत्रानुबन्ध इति। किञ्चात्र सम्बन्धे कारणान्तरमस्तीत्याह- तस्येति। ब्राहृज्ञसियोत्क्रान्तौ मूर्धन्यनाड¬ा गमनाविशेषं कथयितुं सर्वसाधारणोत्क्रमण कथनम्। ननु फलपादे दुःखात्मकं मरणं वक्तव्यमेव न भवतीत्याशङ्क्यमानस्य ब्राहृविदां तस्य मरणस्य सुखात्मकत्वमेवेत्याह--मध्य इति। विद्याफलानामुत्तरपूर्वाधाशलेषविनाशर्चिरादिगमनब्राहृप्राप्तीनां मध्ये मरणमपि वदन् सूत्रकारो ब्राहृविन्मरणस्य फलकोटिनिवेशात् सुखात्मकमेव तस्याहेत्यर्थः।।

50. अस्मिन्पादे "मनसि करणग्रामं प्राणे मनः पुरुषे च तं झटिति घटयन्भूतेष्वेनं परे च तमात्मनि। स्वविदविदुषोरित्थं साधारणे सरणेरेमुखे नयति परतो नाडीभेदैयथोचितमीश्वरः।।" इति नियतोत्क्रमणं भवद्भिरेवान्यत्रोक्तम्,किमनेन नियमेन तच्चिन्तनेन वा?यथाकथञ्चिदुत्क्रान्तस्यापि ब्राहृविद्यामाहात्म्यान्नडीविशेषप्कप्राप्तिरर्चिरादिमार्गेणगमणञ्च स्यादित्याशङ्क्य तन्नेत्याह--वृत्तिरिति।

अयमर्थः -- वागादिवृत्तिरिति पूर्वपक्षिणोक्तं, वागादिरितिसिद्धान्तिना, तथा क्रमान्तरेण सम्पत्तिरिति पूर्वपक्षिणोक्तम्।'मनसि करणग्रामम् ' अत्यक्तप्रकारेण नियमेणैव सम्पत्तिरिति सिद्धान्तिना। किमनेन प्रकारविशेषनियमनेन येनकेनापि प्रकारेणोत्क्रान्तिस्स्यात्।ननूत्क्रान्तिविशेषचिन्तनेन फलविशेषसिद्धस्स्यादिति सिद्धान्त्यभिप्रायमाशङ्क्य तदपि नेत्याह-नहीति।तमिमं पूर्वपक्षं प्रतिक्षिपति-

नेति। प्रतिक्षेपमेवोपपादयति-- सम्पत्तीति । श्रुतिरेव ह्रस्माकमर्थतत्त्वे प्रामाणम्।अनुसन्धेयविशेष च तदेव

तथा प्रामाणम्। आम्नातश्च नियमेनानुक्रमः। नच तस्य नैरर्थक्यं वक्तुं युज्यते।तेन श्रुतिप्रतिपन्नस्य नैरर्थक्यपरिहारार्थं यथा श्रुतमेव सर्वं ग्राह्रम्।तथैव तच्चिन्तनीयमिति गतिचिन्चनादिकं कर्तव्यमिति

'नैते सृती पार्थ जानन्'इति भगवतैवोक्तम्। तद्गतिचिन्तनकथनमुत्क्रान्तिचिन्तनस्याप्युपलक्षणं गत्युपक्रमत्वादुत्क्रान्तेः। ईदृक्क्रमनियतियुतं सम्पत्त्याम्नानमपार्थमिति वक्तुं न युज्यते इत्यन्वयः।

उक्तमर्थं निगमयति-तस्मादिति। तच्चिन्तनम् उत्क्रान्तिचिन्तनम्। विद्याया उपकुरुत इति यर्थाहं यथाप्रामाणञ्च स्थाप्यत इति।।

51. एव मुत्क्रमणादिवचनस्य मृषावादिप्रवृत्तिनिराकरणं विशेषप्रयोजनमिति दर्शयति--जीवमिति। जिवो नत्यमुक्त इति साङ्ख्यामृषावादिनश्च प्राहुः। तत्र मृषावादिनो जीवन्मुक्तिमपि चाहुः। तत्त्वज्ञाने सम्पन्ने जीवत एव मुक्तिरिति। अनयोरद्र्वयोरपि पक्षयोर्निराकरणोर्थं तत्तज्जल्पसङ्घातोपजापप्रतलितनिगमग्रामस्य

सङ्क्षोभशान्त्यै च प्रारब्धकार्य कर्म विदुषिच फलवत् प्रायणमुत्क्रमणञ्च द्वयोविदब्राहृविदोरपि तुल्यमितियुक्त्वा

ब्राहृगत्यै ब्राहृप्राप्त्यै ब्राहृनाडीप्रवेशप्रभृति ब्राहृविदस्समधिकमिति सूत्रकारः वक्ष्यति इत्यन्वयः।।

52. योगिनो भाविचिन्ता कर्तव्या चेत् पुत्रादिषु नियमनादिकमपि भावित्वाच्चिन्तनीयमित्याशङ्क्य सर्वं भावि न चिन्त्यम्, यावन्मात्रं चिन्त्यत्वेन भगवद्गीताषूक्तं तावदेव चिन्त्यमित्याह--आयुरिति। अयमर्थः--- बहुभिरनिष्टै र्निमित्तविशेषैरात्मन आयुस्सीमां मरणं प्रेक्ष्ये योगी यत् कर्म तदुचितं मध्ये कुर्यात् यच्च पुत्रप्रभृतिषु भावि कृत्याकृत्यनियमनं कुर्यत् तन्न तक्र्यम्-- नहि तच्चिन्तनीयम्।इति तस्यात्रनुक्तिरेव। नहि योगिनः भावि सर्वं कार्यं दृष्टमदृष्टं वा चिन्तनीयमिति प्रमाणमस्ति। किं तर्हि चिन्तनीयमित्याशङ्क्य चिन्त्यविशेषमाह- गीतादिष्विति। भगवद्गीतादिष्वन्त्यकाले कर्तव्यतया यत् चिन्तनमगणि तदपि पूर्वसिद्ध योगप्रकारे तच्चत्प्राप्यानुरूपे नियत मेव भवती ति यथापूर्वधीरत्र भाव्या उपक्रान्तयोगस्याविच्छेदेनानुसन्धानमत्र भाव्यमित्यर्थः। अन्त्यकाले चिन्त्यं सर्वं भगवद्घीतादिषेवेव विस्तरेण द्रष्टव्यम्।।

। 4.2.2.

53. स्थूलशरीरस्थितिसमये यद्विद्याफलं तदुक्तम् अधुना तद्विनशयदवस्थायां गत्युपक्रमे यतफलं तच्चिन्त्यत इति पादसङ्गतिः। अत्रोत्क्रान्त्युपक्रमकथनात्प्रथमाधिकरणसङ्गतिश्च भवति। तदर्थविचारस्तु-- किमियं सम्पत्तिर्वाग्वृत्तिविषया उत वाक्स्वरूपविषयेति प्रथमो विचारः। तदर्थं विचार्यते- किं वाक्शब्दस्य मुख्यार्थपरिग्रह उपपन्नो नेति। किमियं सम्पत्तिर्लयरूपा उत व्यापारनिवृत्तिपूर्वकसंयोगरूपेति। इन्द्रियान्तरसम्पत्तिवचनं किं लयपरत्वेऽप्युपपद्यते उत संयोगपरत्व इति। अत्र पूर्वपक्ष्यभिप्रायमनुवदति-- कर्मेपि। अयमर्थः-- कर्मेन्द्रियवर्गो ज्ञानेन्द्रियवर्गश्च मनइन्द्रिये विलयं न याति। तत्र हेतुमाह-- अतत्सम्भवत्वादिति। नहीन्द्रियाणि मनसस्सम्भवन्ति येन विलयो मनसि वक्तुं शक्यते। तर्हि कस्य सम्पत्तिरुच्यत इत्याशङ्क्येन्द्रियवृत्तेरेव, तस्या मनोऽधीनत्वान्मनसि विलयो वक्तुं शक्यत इति वदति-- तद्वृत्तेरिति। तेन सम्पत्तिशब्दो वाग्वृत्तेरुपरतिमेवाहेति मन्तव्यम्। एतत्प्रतिक्षिपति-- इत्येतदिति। अत्र हेतुमाह-- तदुभयेति। वाग्वृत्तिविलये वागिन्द्रिय विलयेच चोद्यं समानम्, परिहारेऽपि समान एव। तथा च यत्रोभयोस्समो दोष इति न्यायविषय इत्यर्थः। यथा वाचो मनः प्रकृतित्वाभावात् सम्पत्तिर्वक्तुं न शक्यते, तथा वाग्वृत्तेरपि मनःप्रकृतित्वाभावात् सम्पत्तिवचनं न घटते यथा कथंचित् समाधानमुभयत्रापि समानम्। तर्हि पक्षद्वयेऽपि गुणदोषसाम्ये किमेकः पक्षः परिगृह्रते कथं वा तस्मिन्पक्षे सम्पत्तिशब्दस्यस्यौचित्यमित्याशङ्क्याह--सम्त्तिरिति।सम्पत्तिशब्दो धातूपसर्गाभ्यां सम्बन्धमेवाह।सम्बन्धस्य वगीन्धस्र्य मनइन्द्रियेन सम्भवत्येव। अस्मिन्पक्षे विशेषहेतुमाह-- करणेति।वाक्शब्दो वागिन्द्रियस्य मुख्य एव तद्वृत्तौ तद्धर्मत्वादौपचारिकः।तेन वाक्शब्दमुक्यत्वसिद्ध्यर्थमस्मत्पक्ष एव संग्राह्र इति भावः।।

। 4.2.3.

54. 'वाङ्मनसि सम्पद्यते मनः प्राणे 'इति श्रुत्यनुक्रमेण चिन्तनात् सङ्गतिर्विशदा। तदर्थविचारस्तु-- किमत्र मनसो लय उच्यत उत संयोगः। किमत्र 'प्राणः 'इत्यपां निर्देश उत प्राणस्यैव। 'आपोमयः 'इति वाक्ये किं प्रकृतिविकृतिभावपरमुताप्यायनपरम्। अत्र पूर्वपक्षी मन्यते-- अन्नस्येति। 'आपोमयः प्राणः 'इति वाक्येऽप्राणयोः प्रकृतिविकृतिभावसम्भवात् प्राणप्रकृतिभूते जले मनसो लयोस्तु जलं तस्य प्रकृतिः, अन्नञ्च मनसः प्रकृतिः ;'अन्नमयं हि सोम्य मनः 'इति वचनात् तस्मान्मनसो 'मनः प्राणे'इति प्राणप्रकृतौ जले लय उच्यत इति। तमिमं पक्षं प्रतिक्षिपति-- मैवमिति। तत्र हेतुमाह-- तत्तदिति।

'अन्नमयं हि सोम्य मनः 'इति न मनसोऽन्नप्रकृतित्वमुच्यते किन्त्वन्नाप्यायितत्वम्। तेन प्रकृतिविकृतिभावप्रसङ्गाभावात् सम्पत्तिशब्देन न प्रलयाभिधानम्। तदिदमाह--तत्तदिति। तर्हि किमुच्यत इत्याशङ्क्याह-प्राग्वदिति। पूर्वं 'वाङ्मनसि सम्पद्यते 'इति सप्तम्या संश्लेषमात्रमुक्तं तद्वदत्रापि। तत्कथमित्यत्राह-- तत इह हीति। पूर्वं यथा 'वाङ्मनसि 'इति सप्तम्या संश्लेषनिर्देशस्तथा इह हि मनः प्राण इति सप्तम्या संश्लेष एव निर्दिश्यते उपक्रमभङ्गस्यान्याय्यत्वादिति।।

। 4.2.4

55. ' मनः प्राणे प्राणस्तेजसि इत्यनुक्रमवचनात् श्रुतिक्रमानुसारेण सङ्गतिस्स्फुटा। तदर्थवीचारस्तु-- किं प्राणस्तेजसि

सम्पद्यते उत जीवे। किं 'प्राणस्तेजसि 'इति वाक्यं जीवसम्पत्तिपूर्वकतेजस्सम्पत्तिपरमुत

केवलतेजःसम्पत्तिपरम्। जीवसम्पत्तिपूर्वकतेजस्सम्पत्तिपरत्वे

'प्राणस्तेजसि 'इति वाक्यस्वारस्यं किं हीयते नेति। अत्रैवं पूर्वपक्षी मन्यते-- एकादशाक्षसहितस्य प्राणस्य तेजसि संश्लेषस्य साक्षाच्छØतत्वात् मध्ये नात्मनि सम्पत्तिरिति। तदिदमाह-- प्राण इति। सैकादशाक्षः प्राणस्तदनु तेजस्येव निविशते। तत्र हेतुमाह-- इत्थं श्रुतत्वादिति। यथैव श्रूयते तथैव स्वीकर्तव्यमिति हि नीतिविदां मर्यादा। मध्ये पुनरात्मप्राप्तिक्लृप्तौ श्रुतहानं स्यादित्याह-- मध्य इति। अत्रोत्तरम्-- नेति। तत्र हेतुमाह-- आत्मयोगस्य चोक्त रिति। यदि तेजस्येव योगश्श्रूयेत तदा भवदुक्ता प्रक्रिया स्वीक्रियेत मध्ये पुनरात्मयोगोऽपि 'एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति 'इति श्रुत्यैव साक्षादभिधीयते। तेन द्वयोरपि कार्ययोश्श्रवणस्य श्रुतत्वेनाविशेशादविरोधेन निर्वाहः कर्तव्य इति।

कथमविरोध इत्यत्राह-- प्राणस्ये ति। स्वाप्तजीवे स्वसम्बद्धजीवे निजतनोरुद्धृतैर्भूतसूक्ष्मैस्सह मिलति सति प्राणस्य तेजः प्राप्तिश्च गङ्गानिपतितयमुनासागरप्राप्ति न्यायेन परम्परया स्यात् नपुनर्गङ्गासागरप्राप्तिन्यायेन साक्षात्प्राप्तिः। अयमर्थः-- सर्वेन्द्रियसहितः प्राणो जीवं प्राप्य जीवेन सह तेजसि सम्पद्यत इति प्रमाणद्वयोविरोधाय संग्राह्रमिति।।

। 4.2.5

56. 'प्राणस्तेजसि ' इति प्राणस्य तेजसि सम्पत्तिरुक्ता सा सम्पत्तिः किं तेजोमात्रे उत सर्वेष्वपि भूतेष्विति चिन्त्यत इति सङ्गतिः। तदर्थविचारस्तु-- किं भूतान्तरसंसृष्टतेजस्संयोग उत तेजोमात्रसंयोग इति।किं तेजश्शब्दस्तेजोमात्रपर उत संसृष्टपर इति । किं पृथिवी मय आपोमय इत्यादिवाक्यं युगपदनेकभूतसंसर्गं दर्शयति नेति । किं त्रिवृत्कृरणश्रुतिः पञ्चीकरणस्मृतिश्च संहतानामेव कार्यसामथ्र्यं दर्शयतो नेति।अत्र पूर्वपक्षी 'तेजसि सम्पद्यते'इति प्रत्येकं तेजस एवोपादानात् तेजस्येव सम्पत्तिरस्त्वित्याह-- तेजसीति। युक्तश्श्रिततनुभृत् अन इति प्राण उच्यते उपसर्गाणां धातुलीनार्थद्योतकत्वात्। आश्रितजीवः प्राणः तेजस्येव सम्बद्धोऽस्त्वित्यर्थः। अत्र हेतुमाह-- तेजसी ति।

छत्रिन्यायेन तेजोव्यतिरिक्तानामप्युपादानं स्यादितेयाशङ्क्य नेत्याह-- छत्रिन्याय
इति। तत्र ह्रच्छत्रिणामपि गमनस्य प्रत्यक्षोपलम्भाल्लक्षणया सर्वेषामपुयपादानाम्। अत्र पुनस्तेजोव्यतिरिक्तसद्भावे

प्रमाणाभावात् कथं तन्न्याय इति। इमं पक्षं प्रतिक्षिपति-- नेति। तत्र हेतुमाह-- तथान्य त्रेति। 'पृथिवीमय आपोमयस्तेजामयः'इति जीवस्य संचरतस्सर्वभूतमयत्वश्रुतेरित्यर्थः। अत्र 'तासां त्रिवृतं त्रिवृतमेकैकां करवाणि 'इति त्रिवृत्करणश्रुतिमपि प्रमाणयति-- विश्वारम्भाये ति। सूत्रकारोऽपूममर्थं प्राहेति दर्शयति-- प्राचुर्या दिति। 'त्र्यांत्मकत्वात्तु भूयस्त्वात् 'इति सूत्रेणेत्यर्थः। तेनैकस्य भूतस्य कार्यकरत्वाभावाद् भूतान्तरसंसृष्टे तेजसि प्राणस्यसम्पद्यत इत्यवगन्तव्यमिति। अत्र पञ्चीकरणोपादानां पञ्चीकृतपञ्चभूतानामप्युपलक्षणम्। लोके हि देहाद्यारम्भो न पञ्चीकृतपञ्चभूतमात्रेण अपितु पञ्चीकृतपञ्चभूतोपादानेनेति स्फुटतरमुपलभ्यते।।

। 4.2.6

57. इयमुत्क्रान्तिः किं विद्वदविदुषोस्समाना उताविदुष एवेति चिन्त्यत इति सङ्गतिः। तदर्थविचारस्तु- 'तयोध्र्वमायन् 'इति श्रुतिः किं विदुष उत्क्रान्तिमवगमयति नेति। किमेषा श्रुतिरिहामृतत्वश्रुत्युत्क्रान्तिनिषेधश्रुतिभ्यां व्यावहन्ते नेतिः।अमृतत्वं किमुत्तरपूर्वाघाश्लेषविनीशरूपमुत सर्वबन्धमोक्षरूपम्।निषिध्यमानाचोत्क्रान्तिश्शरीरपादाना, उतात्मापादाना।अत्र पूर्वपक्षमारचयति-- अत्रे ति। 'तमेवं विद्वा नमृत इह भवति ' इत्यागमात् ब्राहृनिष्ठ इहामृतो भवतीति तस्य नोत्क्रान्तिर्युक्ता। तदेतत्प्रतिक्षिपति-- अस दिति।असत्वे हेतुमाह-- सगुणे ति। अयमर्थः-- मोक्षस्य द्वैविद्ये सति हि गत्यादिवाक्यमन्यार्थकमिति वक्तुं शक्यते । नपुनद्वैविद्यम्। सगुणब्राहृव्यतिक्ते ब्राहमणितत्प्राप्तौ च प्रमा

णाभावात्। तेन मुक्तिश्चेत्सगुणैव। निर्गुणा मुक्तिरिति निर्गुणानामेव प्रवादः। 'सोऽश्नुते सर्वान्कामान्सह'

इति प्राप्यतया निरिदिश्यते। निर्गुणं तु न श्रूयते नानुसन्धीयते नापि प्राप्यत इति निर्गुणमुक्तिपरिक्लूप्तिरप्रामाणिकत्वादपहास्येत्यभिधीयते। तदिदमाह-- सुगुणेति । उपपादितमर्थं निगमयति- त्समा दिति। इहामृतो भवतीत्यनेन तादृशी तदृशोक्ता साक्षान्मुक्तिसदृशी काचिन्मुक्तिदशोक्ता।

उत्तरपूर्वाधाश्लेषविनाशरुपावकस्थोक्तेत्य्थः।।

58. अत्र कश्चिच्चोदयति-- निश्शेषमपि स्थूलदेहावसाने गलितमेव तस्माद्भोगाभावाद् भूतसूक्ष्मपरिष्वङ्गेण

गमनमनर्थकमेव।ननु देहाभावे कथं गमनं स्यादिति न चोदिनीयम् अणुस्वरूपस्य जीवस्य देहाभावेऽपि गमनं युज्यत एवेत्याह--- अणुतयानिश्चितस्ये ति।अणोर्जीवस्य स्वभावतः क्रियावत्त्वात् सूक्ष्मदेहानुवृत्तिमन्तरेणापि गतिस्सम्भवत्येव। तर्हि मार्गे चन्द्रसंवादश्श्रूयते तत्कथं शरीरविधुरस्येत्याशङ्क्य तत्राप्यन्थासिद्धिमाह--- मार्ग इति।अयं भावः-चन्द्रलोकपर्यन्तं स्वरूपेण गत्वा तत्र कञ्चिद्देहमपूर्वं परिगृह्र चन्द्रेण संवदेत इति एवमनुयोगे तत्रोत्तरत्वेन कृत्स्नाविद्यानिवृत्तिः परञ्ज्योतिरुपसम्पद्य समनन्तरमुत्पद्यत इत्यादि वाच्यम् ।अयमर्थः---देहादुत्क्रान्तस्य परञ्ज्योतिरुपसम्पन्नस्य पश्चादेव कृत्स्नाविद्यानिवृत्तिः।तेन गमनमपेक्षितम्।तच्च गमनं मार्गविशेषेण मध्ये संवादादिकं कृत्वेति श्रत्यैव स्पष्टमभिधानाद्विग्रहवत एवेति स्पष्टमवलोक्यते।न च मध्ये विग्रहं परिगृह्र संवादान् करोतीति वाच्यम्-तत्रतत्रापूर्वविग्रहपरिकल्पानायां कल्पनागौरवमापद्येत।अतः पूर्वशरीरावयवैस्सानुहन्धैरेव विग्रहान् देशाविशेषप्राप्तिपर्यन्तं गच्छतीति वक्तुमेव यक्तम्।तस्माद् भूतसूक्ष्मैः पविष्वक्त एव गच्छति, भूतसूक्ष्मपरिष्वङ्गस्यैव देहत्वात् तेनैव देहेनार्चिरादिमार्गगमनम्,अन्तरा व्यवहारः, तत्तदर्चिरादिदेवताविषयगमनम्,तैरतिवहनमित्यादिकं सर्वं सशरीरस्यैव युज्यते।न पुनरत्र परिस्पन्दमात्रं गमनमित्युंच्यते अपितु क्रियाविशेषः।मार्गविशेषेण सशरीरस्यैव देशविशेषप्राप्तेरभिधानात्।।

69. अत्र किं सूक्ष्मशरीरमित्युच्यत इति शिष्यानुयोगे साङ्ख्योक्तपक्रियामनूद्य तस्याः प्रमाणमूल्त्वाभावात् स्वाभिमतमर्थं ततः प्रकटयति- कल्पादा विति।इयं किल साङ्ख्यप्रक्रिया-- कल्पादौ भूतसूक्ष्मप्रभृतिभिरुतं शरीरं कल्पान्त वि नाश्यम्। तच्च प्रत्येकं प्राणिभेद नियतम्, अनियतस्थूलदेहानुयानि। स्थूलानि शरीराणि देवतिर्यङ्मनुष्यादीनां कर्मानुरूपमनियतानि।सूक्ष्मशरीरं तु कल्पादिमारभ्य कलापावसानपर्यन्तं सर्वेष्वपि श्थूलशरीरेष्वेकमेवावतिष्ठते अनुवर्तते तदिदमनुयायीत्युच्यते।तच्च लिङ्गशरीरमिति चोच्यते।तत्स्वरूपं दृष्टान्तेन दर्शयति-- भरिुाके ति। भरिुाकान्तर्निहतकृत्रिमपुत्रिकावदवतिष्ठत इति हि साङ्ख्यैः प्रगतीम्। अयं तु साङ्ख्यपक्षः प्रमाणविशेषादर्शनात् परिकल्पनामात्रे परिगृहीतः ।सर्वप्रमाणानुकूलं स्वाभिमतं प्रकारान्रमाह-- सुक्ष्मांश इति।उत्तरदेहपरिग्रहार्थं पूर्वदेहान्निष्क्रान्तः पञ्चभूतसुक्ष्मांशसमुदायविशेष एव सूक्ष्मशरीतमित्युच्यच इति।।

70. अत्र जीवन्मुक्तिवादी पुनरुत्क्रमणवार्तामसहमानः प्रत्यवतिष्ठते-- तत्त्वज्ञानेनाति। तत्त्वमसायादिवाक्यदन्यतत्त्वाज्ञानेन पूर्वमेव संसारो गलत्येव न पुनरुत्क्रमणेन संसारो गलति तेन तत्त्वविदामुत्क्रान्तिवचनमनर्थकमेवेति। तदिदमसारमित्याह--

असार मिति।असारत्वमेवोपपादयति-- माते ति। जीवत इति संसारबन्धः उभयस्याप्येकदैकनिष्ठंत्ववचनं मम माता वन्ध्येति वचनवदसम्बद्धमेव।व्याहितमेवानिष्टप्रसङ्गपूर्वकं दर्शयति-- मुक्त श्चेदिति।जीवन्मुक्त इति भवता कथ्यमानो मुक्तश्चेत्तत्त्वबोधमात्रेण तदा तत्परं नैष दःख्येत तत उत्तरस्मिन्काले स पुरुषो न दःख्येत।दृश्यते हि जीवन्मुक्तत्वेन भवता व्यवह्यियमाणानां भावत्कानां देहानुबन्धिक्षुत्पिपासाक्रोधादिमूलं दःखम्।तर्हि तदा तेषां दुःखं मिथ्येति वदाम इति चेत् तन्न पूर्वमेव तेषां दुःखस्य मिथ्यात्वात्।तेन पूर्वोत्तरकालयोर्न वैषम्यमित्यर्थः।तदिदमाह-- कथ्ये ति।सर्वदापि दुःखं मिथ्येति हि भवतां सिद्धान्तः।मिथ्याभूतं तदेव दुःखं संसार इति च भवतोच्यते।तेन संसारतो न मुक्तिरिति।।

61. ननु यदुत्क्रान्तिसाम्यमुक्तं तन्नास्ति विद्वदविदुषोरुत्क्रान्तिर्विशेषस्यैव भगवताभिधानात् 'यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् ' तस्मात्कथमुत्क्रान्तिस्समानेत्युच्यते।तदिदमाह-- यं य मिति। अयमन्वयः-- यं यं भावं स्मरन्तो देहिन इदं वपुर्जहति तं तं भावं यान्ती ति विषमस्व भावैवोत्क्रान्तिरुच्यते तस्मादुत्क्रान्तिसाम्यं न घटते। तदिदं प्रतिक्षिपति-- तन्ने ति।तत्र हेतुमाह-- तन्मात्रसाम्या दिति।अयमर्थः--कर्मानुरूपमत्क्रान्तिविशेषोऽस्तु नाम अथापि देहादुत्क्रान्तिमित्येतावन्मात्रं तुल्यमित्युक्तमस्माभिरिति।तह्र्रन्तिमप्रत्यये वैषम्यमङ्गीकृतं भवता तत्कथमित्याशङ्कय प्रतिबन्ध्या परिहरति-- विद्ये ति।सद्विद्यादहरविद्यादौ वेद्याकारभेदाद्भेदौऽस्ति। अथापि ब्राहृविद्येति सामान्याद् लिद्यैक्यमप्यस्ति।एवमत्राप्युत्क्रमणमेकमेव।अथापि तत्तद्भावनाविशेषाद् भेदोऽस्तीति न

कश्चिद्विरोधः।उक्तमर्थं लोकदृष्टप्रक्रिया स्थापयति-- किञ्चि दिति।एकदेश साधम्र्यवादे सर्वथा साम्य सिद्धिर्न च नियतिमती न सिद्ध्यतीत्यर्थः।साधम्र्यवैधम्र्ययोः प्रमाणानुसारेण लोकवेदयोः प्रलिद्धत्वादिति। साधम्र्यवैधम्र्योः प्रमाणानुसारेण लोकवेदयोः प्रसिद्धत्वादिति। अयमाशयः-वाजसनेके'न तस्य प्राणा उत्क्रमन्ति 'इत्यध्यात्मविदि प्रणोत्क्रमणनिषेधादुत्क्रमणमविद्वविषयमिति यदुक्तं तत्तत्रैव स्थलान्तरे '
न तस्मात्प्राणा उत्क्रामन्ति' इति जीवात्प्रणोत्क्रान्तिनिषेधेन दत्तोत्तरमिति भष्य एव सुख्य्क्तमुपपादितम्। तस्मादस्माभिर्नात्र वक्तव्यं किञ्चिदवशिष्यते । अन्तेवासिभिरधिकरणचिन्तनमेव नियमेव कर्तव्यम्। तेन प्राणसहितो वाद्वानपि मूर्धन्यनाड¬ोत्क्रम्यार्चिरादिना मार्गेन

गच्छतीत्ययमेव शारीरकशास्त्रनिर्णयः।।

। 4.2.7

62. अत्रावान्तरसङ्गतिर्भष्ये मुव्यक्ता 'सकरणग्रामः सपराणः करणाध्यक्षः प्रत्यगात्मा उत्क्रान्तिवेलायां तेजःप्रभृतिभबतसूक्ष्मेषु सम्पद्यत इत्युक्तम्। सैषा सम्पत्तिर्विदुषा न विद्यत इत्याशहङ्क्य परिह्मतम्। तानि पुनर्जीवपरिपरिष्वक्तानि भतसूक्ष्माणि किं याथाकर्म यथाविद्यञ्च स्वकार्याय गच्छन्ति उत परमात्मनि सम्पद्यत इति विशये' इति। तदर्थविचारस्तु- किं तेजश्शब्दनिर्दिष्टानि भूतानि यथा कर्म

यथाविद्यञ्च गच्छन्ति उत परमात्मनि संपद्यन्ते। किमत्र परदेवताशब्दो गन्तव्यस्थानवस्थपरमात्मपरः उतातदवस्थपरमात्मपरः इति। किमत्र सम्पत्तौ प्रयोजनं संभावति नेति । ननु पूर्वं जीवोत्क्रान्ति मुक्त्वा तदनन्तरं भूतोत्क्रान्तिमुक्त्वा पश्चाद्विदुष उत्क्रान्तिनिषेधपरिहारः किमिति नोच्यत इत्यत्राह- जीवेति।

अयमर्थः---सामान्येन जीवोत्क्रान्ति मुक्तवा जीवविशेषभूतविदुषामुक्रान्तिर्नास्तीत्याशङ्क्य तेषामप्युत्क्रान्तिरस्तीति कथने सङ्गत्यौचित्यातिशयोऽस्ति। जीवोत्क्रान्तिसमनन्तरं भूतोत्क्रान्तिमुक्तवा पश्चाद्विदुष उत्क्रान्तिनिषेधपरिहारकथने सङ्गतिः कथञ्चिदेव स्यात् । तस्मा त्कारणा दयं विद्वदविद्वत् साधारणोऽपि हार्दयोगस्तत उपरि स्थाप्यते विदुष उत्क्रान्तिस्थापनादुपरि स्थाप्यत इति। साधारणोऽपी ति---'वाङ्मनसि सम्पद्यते' इत्यादिवद् हार्दयोगोऽपि विद्वदविद्वत्साधारणोऽपीति सङ्गति विशेषेण विदुष उत्क्रान्तिस्थापनानन्तरं कथ्यत इतीममर्थं प्रकाशयितुमपिशब्दः। तर्हि हार्दयोगे तुल्ये नाड¬ोऽपि तुल्याः स्यरित्याशङ्क्य नेत्याह--- अतुल्या इति। अतुल्यत्वे कारणमाह--- प्राप्ये ति। हार्दयोगस्य तुल्यत्वे कारणमाह--- सरणिमुखतये ति। अयमर्थः-हार्दयोगस्सरणिमुखं तद्विद्वदविद्वत्तुल्यमेव।ततः उपरि सरणयो नाड¬स्ता विभक्ताः। यथैकेन द्वारेण निष्क्रान्तानां बहुनां मार्गभेदेन नानादेशगमनम्, एवमेकस्माद् हार्दस्थानान्नानाडीमार्गेण स्वकर्मानुरूपं तत्तन्नानादेशगमनं जायत इति।।

64. अत्र हार्दप्राप्तौ प्रयोजनाभावाद् यथाकर्म यथाविद्यं गमनमेवास्तु किमनया निरर्थिकया हार्दप्राप्तयेत्याशङ्क्य तत्प्राप्तौ प्रयोजनविशेषमाह- प्राप्तु मिति। अममन्वयः- भोगापवर्गौ प्राप्तु प्राप्तसूक्ष्मस्वदेहे तनुभृति जीवे प्रयति सति श्रियह्मदयसुषौ श्रितह्मदयाकाशायां परस्यां देवतायां स म्पत्या किं फलं स्यात् अतस्सम्पत्तिरेव नास्ति। आतः- एतस्मात्कारणात्। तेजः परस्यां देवतायामिति वचनं चिरघटिते सर्वदासंघटिते परमात्मनि सिद्धानुवाद एव। नपुनरपूर्वं संघटनं किञ्चिदत्रास्ति निष्फलत्वादिति। तदिदं प्रतिपक्षति- मैव मिति। प्रतिक्षेपमेवोपपादयति--- मानानुसारा दिति। प्रमाणसिद्धेऽर्थे हि प्रमाणनुसारात् प्रयोजनमेव परिकल्प्म्। नपुनरापाततः प्रयोजनादर्शनात् प्रमाणसिद्धोऽर्थः परित्याज्य इति नीतिविदां मर्यादा। किमत्र तर्हि प्रयोजनमित्याशङ्क्याह- परम इति। परमात्मनि संक्र मश्श्रान्तिशान्त्यै देहादुत्क्रान्तिमये जायते श्रान्तिः तच्छ्रान्तिशान्तिः परमात्मनि संक्रमादुत्पद्यते तेनोत्क्रान्तिजनितश्रान्तिशान्त्यर्थं हार्दे विश्रस्य स्वाभिमतफलप्राप्त्यर्थं तत्तन्मार्गेण गच्छतीत्यर्थः।।

। 4.2.8

65. सेयं परमात्मनि सम्पत्तिः किं प्राकृतलयवत्कारणापत्तिरूपा। उत 'वाङ्मनसि'इत्यादिवदविभाग रूपेति चिन्तायाम्इचि भाष्ये सङ्गतिः।तदर्थविचारस्तु-- किमियं सम्पत्तिलयरुपा, उतविभागरूपा।

किं 'तेजः परस्याम् 'इतिवचनस्य कारणापत्तिपरत्वं न्याय्यमुताविभागमात्रपरत्वमिति। इत्थं किल पूर्वपक्षी मन्यते -- अत्र देवतायां सम्पत्तिरभिंधीयमाना लय एव भव त्वति । तदिदमाह-- सम्पत्तिरिति। अत्र हेतुमाह-

साहीति। तस्या देवतायास्सर्वकारणत्वाल्लय एवन वक्तुं युज्यत इत्यर्थः।

तर्हि देवतायां रुाष्टं क्षमा, तद्दत्तेन गच्छत्वित्यर्थः। तदिदमयुक्तमित्याह-असदिति। तदेवोपपादयति- अनुषदत इति । अत्र हि ' वाङ्मनसि सम्पद्यते'इति प्रथमोपात्तस्सम्पद्यत इति शब्दस्सर्वत्रानुषज्यते।

अनुषक्तस्यैपबप्यं प्रसज्यते । अवैपूप्येण निर्वाहे सम्भवति वैरूप्यं पुनरन्याय्यमेव । किञ्च विनाशोनाम भूतसूक्ष्मैर्विश्लेष एव स्यात्। स च न घटते भूतसूक्ष्मैर्विश्लेष तदुक्तरं गमनादिव्यापारान्वयायोगात्। ननु सर्वशक्तिः परदेवतैव विनष्टशरीरस्य तस्य शरीरान्तरमारभेतेत्यशङ्क्य कल्यपनागौरवदोषस्स्यादित्यर्थः

किञ्चार्चिरादिमार्गेण गच्छतो ब्राहृविदो गमनं भूतसूक्ष्मपरिष्वङ्गमन्तरेन न मंभवत्येव। धूमादिमार्गेण

गच्छतो जीवस्य गमनं भूतसूक्ष्मपरिष्वङ्गेण पञ्चाग्निविद्यादिषु स्पष्टमेवोक्तम्। तद्वत्रापि भूतसूक्ष्मपरिष्वङ्गेणैव भवति

नपुनस्स्वरूपेण । अत एवाणुत्वात्स्वरूपेण गमनमित्यादिकमपास्तं बहुप्रमाणविरुद्धत्वात्।।

। 4.2.9

66. 'एवं गत्युपक्रमावधि विद्वदविदुषोस्समानाकार उत्क्रान्तिप्रकार उक्तः। इदानीं विदुषो विशेष उच्यते'इति भाष्ये सङ्गतिरुक्ता। तदर्थविचारस्तु- किं विदुषो मूर्धन्यमाड¬ैव गमननियमस्सम्भवति नेति। किं ' तयोध्र्वमायन्'इति यादृच्छिकगमनानुवादः, उत नाडीविशेषेण गमननियमविधिः।किं नाड¬ो दुर्वेवेचा उत सुवेवेचा इति । अत्र पूर्वपक्षमनुवदति- नाडीजाल इति । अतिसीक्ष्मे नाडीजाले मुक्तिनाडी देहादुत्क्रान्तेन गच्छता पुरुषेण विवेक्तुं सुशका न भवति। तेन 'तयोध्र्वमायन्'इत्यादिवाक्यं कादाचित्कसम्भावितार्थविषयम्, नपुनर्नियतार्थविषयमिति। तदिदमाह--- तस्माव दिति। मूर्धन्यनाडीगतिर्मुच्यमानस्य पुंसः कदाचि दनियमनो भवति। कदाचिमूर्धन्यनाड¬ापि मुच्यमानस्य पुंसो गमनं स्यादित्यर्थः। तेन तयोध्र्वं गन्तुरमृततां प्रवदत् 'तयोध्र्वमायमन्' इत्यादि वाक्यं सम्भवा देवास्तु। तमिमं पूर्वपक्षं दूषयति- मैव मिति। तत्र हेतुमाह- विद्ये ति। ब्राहृ
विद्यासम्प्रीत स्य प्रसन्नस्य हार्द स्य प्रभया स्वार्हनाडी परिज्ञानं जायते। तेन स्वकीयां नाडी प्रविस्य स्वाभिलषितपुरुषार्थाय गच्छतीतियर्थः।।

67. भगवत्प्रसादलब्दपरिज्ञानस्य भगवत्प्रेरणेनैव मूर्धन्यानाड¬ा ब्राहृलोकपर्यन्तमिषुवत्सहसैव गमनमाह--- स्वाधीन इति। स्वतन्त्रो हार्दसंज्ञो भगवान् स्वमविकलया सम्पदा साकं सम्पदे ति सर्वैश्वर्यप्रदायिनी सहधर्मचारिणी लक्ष्मीरभिधीयते 'लक्ष्म्या सह ह्मषीकेशः' इति हि वदन्ति। अथवा भगवदैश्वर्यमेव वाभिधीयते। एक शब्दः प्राधान्यवाची। ह्मत्पद्ममध्ये स्थित्वा स्थगितनिजतनुः--- अभक्तानामप्रकाशितनिजतनुः। अस्थागितनिजतनु रिति वा---भक्तानां प्रकाशितनिजतनुः 'अतिदूरमभक्तानां भक्तानां पुरतः स्थितम्'इति हि वदन्ति। सप्तलोकीगृहस्थ इति वचनं सर्वेषां पितृत्वेन संरक्षकत्वं प्रदर्शयति। अयं खलु नाडीचक्रे बह्वीषु नाडीषु विद्यमानास्वपि निखिलधृतिकरीं निखिलसन्तोषकरीं नामिमूर्धान्तरूपां सुषुम्नां नाडी भित्त्वा अनावृतमुखीं कृत्वा तन्मध्यरन्ध्रप्रहितं जीवं धानुष्कप्रयुक्त भिषुमिवोत्क्षिप्य मुमुक्षुं परमपदपर्यन्तं नेतेत्यर्थः।।

68. विदुषो ह्मदयाच्छकाधिकया मूर्धन्यनाड¬ा निर्गतस्यादित्यरश्मीननुसृत्य गमनं चिन्त्यत इति सङ्गतिः। तदर्थविचारस्तु---किं रश्म्यनुसारेण कमननियमो विदुषस्सम्भवति नेति। किं 'रश्मिभिरूध्र्वमाक्रमते'इति वाक्यं पाक्षिकगमनानुवादकम्, उत नियमविधिपरम्। किं निशि मृतस्य रश्म्यनुसारेण कमनं सम्भवति नेति। किं निशि रश्म्यनुसम्भवन्ति नेति। अत्र पूर्वपक्षमनुवदति--- एतै रिति। 'एतैरेव रश्मिभिपूध्र्वमाक्रमते'इत्यस्मि न्वाक्ये योगिनो दिनकरकिरणालम्बनेन यदु ध्र्वयानमुक्तं तंद्दिनमृतिनियत मिति। तत्र हेतुमाह--- निश्ययुक्त्ये ति। निशायां सूर्यकिरणस्यासम्भवेनायुक्तत्वादित्यर्थः। तदेतत्प्रतिक्षिपति- ने ति। तदेवोपपादयति- अह्नी ति। अह्नि यथा छायायामौष्ण्यलिङ्गाद्दिनकरकिरणसद्भावः, एवं निश्यप्यौष्ण्यादेवलिङ्गाद्दिनकरकिरण-

सद्भावोऽस्त्येव। ननु किमर्थं स्फुटं नोपलभ्यत इत्याशङ्क्याह--- लधुतरा इति। तत्राप्यह्निच्छायेव द्दष्टान्तः। ननु वर्षादिरात्रौ तापो नास्ति कथं तत्र दिनकरकिरणसद्भावः तत्राह--- हिमदिनन्यायत इति। हेमन्तकाले दिवसेऽपि तापो नास्ति किमेतावता सूर्यकिरणसद्भावो न स्यादित्यर्थः।।

। 4.2.10.

69. निशि मृतस्य सूर्यकिरणसद्भावोऽस्तु नाम अथाप्यात्मविदां निशि मरणस्य शारुोणैव प्रतिषिदद्धत्वात्तेषां निशि मरणमेव न सम्भवतीति शङ्क्या सङ्गतिः। तदर्थविचारस्तु---किं निशि मृतस्य विदुषो ब्राहृप्राप्तिस्सम्भवति नेति।

किं निशि मरणस्याधोगतिहेतुत्वं निशि मृतस्य ब्राहृप्राप्त्यभावं ज्ञापयति नेति। निशिमरणनिन्दावचनं किं विद्वदविद्वत्साधारणमुताविद्वद्विषयमिति। अत्र पूर्वपक्षमाह--- सर्वेषा मिति। विदुषामविद्षाञ्च सर्वेषां रजनिमरणमप्रशस्तमिति अह्न्येव योगि म्रियेत एष योगि यदिरात्रौ प्रेयात् म्रियेत तन्मरणं चरममरण मेव न भवे दिति। तमिमं पूर्वपक्षं प्रतिक्षिपति---

अयुक्त मिति। प्रतिक्षेपमेव विवृणोति--- कर्मे ति। अयमर्थः---प्रारब्धकर्मावसाने मोक्ष इति हि निर्णीयम्, तच्च प्रारब्धावसानमनियतसमयमेव निशि वा दिवा वा जायते। अस्मिन्नर्थे 'तस्य तावदेव चिरम्'इति श्रुतिरेव प्रमाणमित्याह--- ताव दिति। अयमर्थः---कर्मावसानपर्यन्तमेव मोक्षविलम्ब उक्तः। तच्च कर्मावसानं ब्राहृवित् प्राप्नोतीति।।

70. चरमशरीराभिव्यञ्जकप्रमाणपूर्वकं चरमशरीरमुक्तवा तत्रापि दिनरजनिदेशकालनिमित्तादिनियमाभावं देहव्योगस्य

दर्शयन् शव्यकर्मानुष्ठानेऽप्यध्यात्मविदामर्चिरादिमार्गेण गत्वापरमपुरुष-

प्राप्तिमप्यावेदयति--- यत्रे ति। यत्र जातकज्ञैः पुरुषैर्यस्मिन् शरीरे कस्यचिदधिकारिणोऽ पवर्गः प्रतिनियततया गण्यते तदन्त्यं शरीरं स्यात् । अथापि तावन्मात्रेण शरीरान्तरम नास्तीति निर्णेतुं न शक्यते मध्ये पापविशेषसम्भवेन जन्मान्तरस्यापि सम्भवादित्याह--- न त्वि ति। अत्र दिनरजनिभिदावद्देशादिभेदो नास्तीति दर्शयति- न ही त्यादिना। हि शब्देन दिवरजनिभिदाभावस्य पूर्वोक्तस्य द्दष्टान्तत्वेनोपादानमिदमिति दर्शयति। देशभेदादी ति---अस्मिन्देशे मरणमनेन निमित्तेन मरणमित्यादि च नास्ति यथा दिनरजनिभिदा नास्ति तद्वदित्यर्थः। एवंशवसम्बन्धिकर्मानुष्ठान-

नियमोऽप्यध्यात्मविदामपवर्गप्राप्तावनपेक्षित इत्याह--- शव्य मिति। 'यदु चास्मिन् शव्यं कुर्वन्ति यदु च न तेऽर्चिषमेवाभिसम्भवन्ति'इत्यादिकं वाक्यं श्रूयते। एवं विभाव्यम्- एवमध्यात्मविद्विषयासाधारण-

वाक्यमनुसन्धेयमित्यर्थः। ननु यद्यध्यात्मविदश्शव्यं कर्म नियमनाकर्तव्यं तर्हि तन्मरणे कदाचित् पुत्राश्शिष्याश्च तन्मरणानुबन्धि कर्मजातं न कुर्युः तथा च अलेपकसिद्धान्तप्रसङ्गः---न प्रसङ्गः। तत्पुत्राणामेव वैदिकानां तदुद्देशेन कृस्त्नकर्मकलापस्यानुष्ठेयत्वात्। तदननुष्ठानं तेषां विहितानुष्ठानपरित्यागेन प्रत्यवायस्स्यादित्यवश्यकर्तव्यमेव पुत्रादीनां पित्राद्युद्देशेन सर्वमपि कर्मजातम् अतो नालेपकमतप्रसङ्गः। यथा रामकृष्णादिविषये कुशलवाद्यनुष्ठतं कर्म स्वकुशलार्थमेव एवं मुक्तविषये पुत्राद्यनुष्ठितं कर्म स्वाभिवृद्धिहेतुरिति निरवद्यम्।।

। 4.2.11

71. विदुषो मरणे दिवारजनिविभागो नास्तीत्युक्तं येन हेतुना तेनैव हेतुना दक्षिणायनोत्तरायण

विभागोऽपि नास्तीत्युच्यत इत्यातिदेशिका सङ्गतिः। तदर्थविचारस्तु---किं दक्षिणायनमृतस्य विदुषो ब्राहृप्राप्तिस्सम्भवति नेति। किं 'अथ यो दक्षिणो प्रमीयते' इति दक्षिणायनमृस्य चन्द्रप्राप्तिवचनं ब्राहृप्राप्त्यभावं गमयति नेति। चन्द्रं प्राप्तानामावृत्तिवचनं किं विद्वदविद्वत्साधारणमुताविद्वद्विषयमिति। किं भीष्मादीनां कालप्रतीक्षायां कालविधानस्मरणसहकृतसामान्यश्रुत्यनुरोधेन साधारणत्वसमाश्रयणं न्याय्यम् उत 'ब्राहृणो महिमानम्'इति वाक्यशेषानुरोधेनाविद्वद्विषयत्वसमाश्रयणं न्याय्यमिति। अत्र चन्द्रं प्राप्तस्य पुनरावृतिरेव नियता भवतीति पूर्वपक्षमनुवदति- देह मिति। योगीश्वरीऽपि दक्षिणावृत्तिकाले देहं त्यजति यदि तदा इन्दोस्सायुज्यं विन्दुत् इन्दुसायुज्यानन्तर मिह पुनर्भवति । कुत इत्यत्राह--- तच्छØतेरिति। चन्द्रं प्राप्तानां पुनरावृत्तिश्रुतेः। तथा तत्स्मृतेश्च --'अथैतमेवाध्वानं पुनर्निवर्तन्ते'इति पुनरावृत्तिश्रुतिः। 'तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तन्ते'इति स्मृतिः। तदिदं निराकरोति---

मैव मिति। तदेवोपपादयति--- पूर्वोक्तनीति रिति। प्रारब्धकर्मावसाने सर्वथा मोक्षो नियत एव। चन्द्रं वा प्राप्नोतु सूर्यं वेति साधारणीयं नीतिः।तर्हि चन्द्रं किमर्थं प्राप्नोति ब्राहृविदिति चेत् सूर्यं वा किमर्थं प्राप्नोति।विश्रान्ता इति चेत्तत्तुल्यमित्याह--- विश्रान्त्या इति।तर्हि मुमुक्षो र्भीष्मस्य किमर्थ मुत्तरायणप्रेक्षणमित्याशङ्क्यान्यथासिद्ध्या परिहरति--- जग दिति। अयमर्थः---भीष्मो हि धर्मप्रवर्तकत्वेन विश्वोपकारकः।तेन सुकृतिनामुत्तरायणे मरणस्य प्राशस्त्यं दर्शयितुमुत्तरायणं प्रेक्षितवान्।यथा हि

भगवान्लोकसङ्ग्रहार्थं सर्वं कर्माचरति तद्वद्भीष्मस्याप्युत्तरायणप्रतीक्षणं लोकसंग्रहार्थमिति न

विरोधः।।

72. अत्र प्रकारान्तरेण परिहारमाह--- किञ्चि ति। अयमर्थः---लोके ह्रेकपुरुषप्रतिनियतधर्मदर्शनेन सर्वेषामपि स एवाचार इति वक्तुं न शक्यते यथा पाणमडानां पञ्चानामप्येका पत्नी कानीनः कर्णः कानीनो व्यासः, तेन तत्रतत्र नियमो धर्मस्तत्रैव वर्तते। एवं भीष्मस्योत्तरायणप्रेक्षणमस्तीति सर्वेषां ब्राहृविदामियमेव नीतिरिति कल्पयितुं न शक्यते। अयमात्र शब्दान्वयः--- जाह्नवीसम्भवस्य प्रारब्धकर्मप्रतिन्यतं येन कर्मविशेषेण युद्धं युद्धमरणमुत्तरायणकालप्रतीक्षणमित्यादि स्वेच्छैवमासीत्। एतन्न सर्वेषां ब्राहृविदां साधारणम्। स च भीष्मो वसुरभवत् न पुनस्साक्षाद्विमुक्त इत्याह---स चेति। तेन मुमुक्षोः कालविशेषप्रतीक्षेत्यस्यार्थस्य नायं द्दष्टान्तः। उक्तमर्थं निगमयति--- तस्मा दिति।नराणां रात्रिर्निशा, पितॄणां रात्रिः कृष्णपक्षः देवानां रात्रिर्दक्षिणायनम् एतेष्वपि कालेषु योगि देहं त्यक्तवा मुक्ति विन्देत ।तर्हि पुराणादिषूत्तरायणस्य प्राशस्त्वं दक्षिणायनस्य च निन्दा कथं क्रियत इत्याशङ्क्याह- स्याता मिति। तथितरविषये अध्यात्मविद्वयतिरिक्तविषये इत्यर्थः। किञ्च भगवद्गीतायामहरादिशब्देन रात्र्यादिशब्देन चोक्तौ मार्गावेव न पुनः कालविशेषौ तेन ब्राहृविदामहरादिनियमो

नास्तीत्यर्थः।।

73. उक्तानामधिकरणानां प्रधानार्थान्सङ्कलय्य दर्शयति--- सम्भद्येते ति।वागादिक मन्यदक्षं मनसि सम्पद्येते त्याद्याधिकरणार्थः। एवमुत्तरेष्वप्यधिकरणेष्वर्थान् क्रमेणाचष्टे---वागादीन्द्रिय संयुतं तदपि मनः प्राणे सम्पद्येत। स च प्राणवायुः तैस्समेतोऽध्यक्षे जीवे। स च जीव स्तदखिलवान् पूर्वोक्तसर्वसंयुक्तस् सूक्ष्मे भूतवर्गे । उत्क्रान्ति स्सेयं ब्राहृविदब्राहृविदो स्समाना । अनन्तरं युतिस्संयोगः। परे ब्राहृणि सम्पत्तिः। सा च परमात्मनि संयोगमात्रम्। ब्राहृनाड¬ा निर्गमनम्। घृणिभि स्सूर्यश्मिभिर्गमनम्। अनन्तरं निशायां देवरात्रौ दक्षिणायनेऽपि मोक्षो निर्गच्छेदित्यर्थः।।



चतुर्थस्याध्यायस्य तृतीयः पादः।।

। 4.3.1

74. अथ वक्ष्यमाणपादार्थं सङ्कलय्य दर्शयति- निर्गत्ये ति। अयमर्थः -ब्राहृरन्ध्रान्निर्गत्य नाडीनिबद्धं तपनकरमथालम्ब्य प्रत्युद्यद्देवबृन्दैः 'सर्वेऽस्मै देवा बलिमावहन्ति'इति प्रमाणानुसारेण प्रहितबलिः प्रहितोपहारो योगि येन मार्गेण गच्छति। मौकुन्दो मुकुन्दप्रापकोऽसौ मार्गो मुनिना पाराशर्येण पञ्चभिन्र्यायभेदै रधिकरणै स्स्थाप्यते । किं कुर्वन् मोहाकूपारपारं पुरं परमपदं नोऽभिगमयन् । मुक्तिघण्टापथः- अर्चिरादिमार्ग इत्यर्थः।।

।. 4.3.2

75. अत्र सङ्गतिर्भाष्ये 'विदुष उत्क्रान्तस्य नाडीविशेषण हादार्नुग्रहाद् गत्युपक्रम उक्तः। तस्य गच्छतो मार्ग इदानीं निर्णीयते' इति। तदर्थविचारस्तु- किं विद्वानर्चिरादिमार्गेणैव गच्छति, उत तेन वा मार्गान्तरेण वेत्यनियमः।किं सर्वविद्यास्वेको मार्ग आम्नायते, उत नानामार्ग इति । किं क्रमान्तरपदार्थान्तराम्नानात् नानामार्गसमाश्रयणं न्याय्यमुतादित्यादिप्रत्यपिज्ञानेन मार्गैकत्वाश्रयणं न्याय्यमिति।अत्र पूर्वपक्षमाह- शाखाभेदे ष्विति। छान्दोग्ये वादसनेयके कौषीतकिब्रााहृणे च तत्रतत्र शाखाभेदेषूपनिषदो भिन्नमिव ब्राहृविदां गतिमधीयते। तत्र भिन्नप्रकारार्थं भाष्य एव सुव्यक्तमुक्तम्।तेन मुमुक्षोब्र्राहृविद्यावैषम्यन्यायेन गतिचिन्तनमपि विषममेव। तेनार्चिरादेव व्यवस्था नियमेनैकरूरप्यं नास्तीति। तदिदं प्रतिक्षिपति- नैत दिति। सर्वत्र तैस्तैरग्निवाय्वादित्य.चन्द्रविद्युत्प्रभृतिभिस्तदेव देवयानामिति प्रत्यभिज्ञानेन सिद्धे सति न्यूनाधिकत्वप्रभृति न्यूनत्वमधिकत्वं व्यत्ययेन कथनमपि निखिलं न्याय विरुद्धं भाव्यं भावनीयम्।।

76. एवमर्चिरादिमार्गेण ब्राहृविदां गमनमिति भगवत्प्राप्तौ गमननियमो भवतोक्तः परमपदं गच्छतां नानाप्रकारेण गमनं द्दश्यते प्रमाणवाक्येषु तत्कथमित्याशङ्क्य प्रमाणसिद्धार्थप्रहाणायोगात् तत्र तत्रोचितमेव प्रकारवैषम्यं प्रतिभावद्भिश्चिन्तनीयमित्याह- चैद्यादीना मिति। अयमत्र भावः-सामान्यन्यायोऽयं ब्राहृनाड¬ोत्क्रम्य ब्राहृविदामर्चिरादिमार्गेण गमनमिति ब्राहृविद्विशेषाणां तुल्यप्रमाणसिद्धं गमनवैषम्यमपि नापह्नोतव्यम्, नैतावता

ब्राहृविदामर्चिरादिमार्गेण गमनमिति सामान्योऽयं महामार्गोऽपह्नोतव्य इति। चैद्यस्य तदानीमेव वासुदेवपदप्राप्तिः। अयोध्यास्थिरचरजनुषां भगवता रामभद्रेण सह यावद्ब्राहृलोकगमनम्।पुण्डरीकादीनां तत्तत्संवादोक्तप्रकारेण पुरुषविशेषाणामपवर्गप्राप्तिः।भीष्मादीनां वस्वादिपदप्राप्तिपूर्वकपरमपदप्राप्तिः।उपास्तिक्रमेण भगव द्विभव्यूहलोकस्थितानां स्वाभिमतकाले फलप्राप्तिः। धातॄणां चतुर्मखादीनां स्वस्माल्लोकात्परमपदप्राप्तिः।एवमन्यत्रापि विद्वद्भिञ्चिन्तनीयमिति।एवं सामान्यगमनोरपदेशमात्रेण यथोचितविशेषगमनं नापह्नोतव्यमित्यक्तं भवति।।

।. 4.3.3

77. भिन्नदेशाम्नातस्यार्चिरादिमार्गस्यैकत्वे स्थिते तत्र क्रमचिन्तने प्राप्ते संवत्सरादित्ययोर्मध्ये श्रुत्या प्राप्तयोर्वायुदेवलोकयोर्भेदमङ्गीकृत्यान्यमेन क्रमोऽकर्तव्यः उत प्रमाणबलादेकत्वमेवाङ्गीकृत्यैकी- भूतयोरेकस्थानापन्नत्वमिति चिन्त्यत इति सङ्गतिः।तदर्थविचारस्तु---संवत्सरादित्ययोर्मध्योर्मध्यप्राप्तौ वायुदेवलोकावनियतक्रमेण निवेशयितव्यावुत नेति।किं वायुदेवलोकशब्दावर्थान्तरपरावुत नेति।किं देवलोकशब्दस्य देवावासपरत्वं न्याय्यमुत वायोर्देवगृहत्वश्रवणानुरोधेन वायुपरत्वं प्राप्तौ नच तयोरेकत्वं वक्तुं शक्यते लोके रूढिभेदस्य द्दष्टत्वात् तेनैकस्मिन्स्थाने तुल्यप्रमाणसिद्धत्वाद्विकल्प एव स्यात्। 'योऽयं पवत ए, देवानां गृहाः' इति वायोर्देवगृहत्वं श्रुतिप्रसिद्धम्।कथं देवलोकत्वमित्याशङ्क्याह--- धारकत्वा दिति।स्वर्गलोको वायुनैव धृत इति पुराणादिषु प्रसिद्धमेतत्।एवमुपपादितमर्थं न्यायतो निगमयति- अत इति विकल्पो ह्रष्टदोषदुष्टत्वात्कष्ट एवेतीममर्थं दर्शयितुं निर्विकल्प मिति विशेषणं प्रोक्तम्।अयमर्थः---वायदेवलोकयोरैक्यं विकल्पप्रयुक्तदोषपरिहारार्थमङ्गीकर्तव्यमिति।।

। 4.3.4

78. अत्रापि क्रमविशेषचिन्तैव क्रियत इति सङ्गतिः।तदर्थविचारस्तु-किं वरुणादयो यथापाठं निवेशयितव्याः किं विद्युतोऽधीति।किं वरुणस्य विद्युत्सम्बन्धानुरोध उपपन्नो नेति।अत्र पूर्वपक्षीकथयति कौषीतकिवाक्येवरुणश्चेन्द्रश्च प्रजापतिरप्यातिवाहिकत्वेनोपदिश्यन्ते।तेचोपदेशावैयथ्र्याय क्वचिन्निवेशायितव्याः।तेषां सर्वत्रापि श्रुत्या निवेशो बाध्यते।अथापि पाठक्रमानुरोधेन श्रुतिं बाधित्वापि वायोरुपरि वरुणो निवेशयितव्यः।तथा च सत्यनेकश्रुतिबाधाद् वरमेकत्रैव श्रुतिबाध इतिन्यायनुसारेण तेनैवोपदेशावैयथ्र्यहेतुनेन्द्रप्रजापती वरिणानन्तरं निवेशयितव्याविति तयोश्च तत्र पाठक्रमो विद्यते।तदिदमाह- कौषीतकी ति।एवमत्र शब्दान्वयः--- कौषीतक्यागमोक्ता वरुणशतमखप्रजानाथाः श्रुतिं बाधत्वापि क्वचिन्निवेशयितव्याः।तत्र हेतुमाह--- विफ लेति।क्वचिन्निवेशाभावे तेषां श्रुतिर्विफला स्यात् एवं क्वचिन्निवेश्यत्वे सिद्धे पाठक्रममनुसृत्य वायुलोकात्परं निवेशयितव्याः इति।तदेतद्दूषयति--- अयुक्त मिति।तर्हि कुत्र निवेश्यत्वं तेषामित्याशङ्क्याह- संबन्धा दिति।अर्था द्वरुणो विद्युतो ऽधिनिवेश्यः। इन्द्रप्रजापती तु पाठादेव वरुणात्परौ भवतो वरुणानन्तरभाविनौ भवत इत्यर्थः।।


79. अत्रामानवस्याव्यवहितब्राहृप्रापकत्वं मा भूत् इन्द्रप्रजापतिद्वारेण भवत्वित्याशङ्क्य वाक्यस्वारस्यानुरोधेनेन्द्रप्रजापतिभ्यां सहकारित्वेनावस्थिताभ्यां सहकृतस्यामानवस्यैव ब्राहृप्रापकत्वं समुचितमिति स्थापयति--- यत्त्वस्ये ति।शब्दार्थस्तु--- अस्यामानवस्य श्रुतं यद् ब्राहृ प्रापकत्वं तदिन्द्रप्रजापतिभ्यां सद्वारत्वेऽपि यद्यप्यबाधं भवति तथापि तैरमानवेन्द्रप्रजापतिभिस्सहितैरेव ब्राहृप्राप्तिकरणे श्रुतौचित्यभूमा स्ति।'स एनान् ब्राहृ गमयति' इत्यमानवकर्तृकत्वेन श्रुतब्राहृप्राप्ति प्रतिपत्त्यौचित्यभूमास्ति।अयमर्थः---अमानव एव प्राधान्येन ब्राहृ गमयति इन्द्रप्रजापती तु मानसस्य तत्कथमित्याशङ्क्यामानव एव मानसशब्देनाभिधीयते ततो नामभेदमात्रमिति वदति- यश्चोक्त इति। शब्दान्वयस्तु तटित उपरि ब्राहृलोकाप्तिहेतुर्यश्च मानसाख्य उक्तस्तस्मा न्मानसा न्नेता अमानवो नान्यः ।तत्र हेतुमाह--- विदु रिति।अमानवो विद्युत्सम्बन्धी पुरुषविशेषः मानसोऽपि तथा तस्माद् विद्युत्सम्बन्धिना पुरुषणैकेनैवातिवहनमाहुः।।

। .4.3.5

80. अत्र सङ्गतिर्भाष्ये 'किमार्चिरादयो मार्गचिह्नभूता उत भोगभूमयः, अथवा विदुषां ब्राहृप्रेप्सतामतिवोढार इति इति।तदर्थविचारस्तु---किं अर्चिरादयो मार्गचिह्नभूता इति चिन्तायां पुनरपि चिन्त्यते---किं

लौकिककोपदेशप्रक्रमानुरोधो न्याय्यः उत 'एत एव लोका यदहोरात्राण्यर्धमासा मासा ऋतवस्संवत्सराः'इति वाक्यानुरोधो न्याय्यः, उत गमयितृत्वलिङ्गानुरोध उचित इति।तत्रोभयप्रकारेण पूर्वपक्षमुपन्यस्य तयोः प्रकारयोः प्रमाणविरुद्धत्वादातिवाहिकत्वपक्षमेव प्रतिष्ठापयति--- भोगस्थानानी ति। अयमत्र शब्दान्वयः--- अमूनि ज्वलनदिनमुखानि भोगस्थाना न्येव स्युः अथ वा मार्ग चिह्नानि स्युः। कुत इत्यत्राह--- लोकोक्ती ति।लोकोक्तिप्रकारो भाष्य एव सुव्यक्तमुक्तः।तदिदं प्रतिपक्षति---नेति। तत्र हेतुमाह--- असम्भवा दिति।नहि कालवाचिशब्दे मार्गचिह्नवाचित्वं भोगभूमिवाचित्वं वा सम्भवति।तर्हि त्वत्पक्षे किं नियामकमित्यत्राह--- स्पष्टे इति।'तत्पुरुषोऽमानवस्स एनान्ब्राहृ गमयति'वैद्युतात्पुरुषो मानस एत्य ब्राहृलोकन्गमयति'इति क्वचि दमानवस्य नेतृत्वपुंस्त्वे स्पष्टे इति तद्वदन्यैरप्यतिनहनमेव कार्यम् ।अस्मिन्नर्थे न्यायानुसारमेव दर्शयति--- सन्दिग्ध इति। सन्दिग्ध तु वाक्यशेषाद् गतिरिति हि नीतिविदः प्राहुः।ननु तह्र्रग्न्यादिशब्दानामातिवाहिकपुरुषविशेषवाचित्वं कथमित्याशङ्क्य तेषाभिमानि- देवताविशेषवाचित्वात् पुरुषवाचित्वं सुप्रसिद्धमित्याह--- अग्न्यादी ति।अत्रापि जगु रित्यनुषज्यते। लोकऽप्यग्न्यादिशब्दानां दिक्पालवाचित्वमभिधानकोशकारैरपि पठ¬ते।।

81. उक्तमर्चिरादिमार्गमितरस्मात् पुण्यपापमार्गद्वयात् वैलक्षण्येन दर्शयित्वा अहःपक्षमासादिशब्दानां देवताविशेषपरत्वमेव द्रढयति- या मिति। धर्मसूनु र्हि यां नरकमार्गं श्रुत्वा दुःखेन निपपात। तामसौतासौघ स्तामसपुरुषसमूहः स्वय मभिपतेत् प्रतिपद्येत। त्रैवर्गिकाणां त्रिवर्गमेव पुरुषार्थत्वेन स्वीकृत्य काम्यं कर्माचरतां वर्गः पुनर्धूमादिमार्ग घटीयन्त्रचक्रे विघूर्णेत् ।काम्यकर्मानुष्ठाता घटीयन्त्रघटवदूध्र्वमुखमुत्क्रम्य कर्मफलानुभवान्ते तद्वदेव निपतेत्। एषा पुन रपुनरावर्तिनां वर्तनी श्रुति भिः संविभक्तैव प्रतिपाद्यते।नन्वत्रातिवाहिप्रसक्तौ अहःपक्षमासादिशब्दा न घटन्ते पुरुषविशेषवाचकत्वाभावादित्याशङ्क्य कतिपयपदेषु पुरुषविशेषवाचकत्वे निर्णीते सति तन्नयायेन सर्वत्र पुरुषविशेषवाचकत्वमेव स्वीकार्यमित्याह--- तत्रे ति।।

82. अत्र चन्द्रप्राप्तिस्त्रेधोच्यते किं तदेकमुत भिन्नामिति विशये तिसृणामपि चन्द्रप्राप्तीनां तत्रतत्रोक्तानां वैषम्यं दर्शयित्वा सर्वत्रापि सन्देहविषये सूक्ष्मबुद्धिभिरन्तेवासिभिस्स्वयमेव वैषम्यं द्रष्टव्यमित्याह- पूर्व मिति।धू मादिमार्गे चन्द्रसायुज्यप्राप्तिरूपा काचिच्चिन्द्रप्राप्तिरुच्यते सा चान्या।इयं तु दक्षिणायनमृतानामुत्तरायणमृतानां वा सर्वेषामपि ब्राहृविदामविशेषेणातिवाहिकानामष्टामस्य चन्द्रस्य प्राप्तिरभिधीयते।इदमपि ताभ्यां चिन्द्रप्राप्तिभ्यामन्या काचिदपवर्गगामिनां सर्वेषामविशेषेण पञ्चाग्निविद्यायामभिहिता।तदिदमाह- अन्यात्रेति ।एवं शिष्यानुग्रहेणाव्यक्तार्थं विशदीकृत्य वक्तव्यानामीद्दशानामर्थानां बहुत्वात् सूक्ष्मबूद्धिभिरन्तेवासिभिस्स्वयमेवाशेषविशेषप्रतिपत्तिः कार्येति निगमयति--- प्रणिहिते ति।।

83. अत्र पूर्वप्रसक्तानामातिवाहिकानां सांसारिकाग्न्यादिदेवतारूपत्वम्, अथवा परमपुरुषाज्ञानुपारका- प्राकृतदेवतारूपत्वं वेत्याशङ्कमानस्य कस्यचिच्छिष्यस्य पक्षद्वयमपि प्रतिपत्तृभेदेन विभज्य दर्शयित्वोत्तरस्यैव पक्षस्य प्रमाणकत्वं निगमयति--- भूलोकेशे ति।'पृथिव्यन्तरिक्षं द्यौः' इत्यत्र 'अग्निर्वामुरादित्यः'इत्यग्न्यादीनां त्राणामनुक्रमेण देवतात्वनिर्देशाद् भूलोकेशः प्रसिद्धाग्निः। एवमन्तरिक्षदिवोर्वाय्वादित्यौ।एतानातिवाहिकान्कतिचन पुरुषाः प्रसिद्धा ग्निपूर्वान् भविनस्सा रिणो देवताविशेषान्मन्यन्ते।तत्र हेतुमाह दर्शयति--- शब्दैक्य इति।अग्निशब्दादीनामैक्ये सति संसारिणोऽग्न्यादयः केचित् असंसारिणोऽग्न्यादयोऽपरे इत्यर्थभेदक्लृप्तिर्गुर्वी।शब्दस्यानुवृत्तार्थनमेव न्याय्यमिति भावः। तदभिमन्त्राणां संसारिकाग्न्यादिदेवताभिमन्त्रन्तराणामप्राकृताग्न्यादिदेवतानां प्रक्लृप्तिर्गुर्वी ति तेषां भावः।अन्ये पुनराचार्या न्यायानुसारेण प्रकारान्तरमाहुः।तत्प्राकामेव दर्शयति--- अन्य इति।अयमर्थः---अमानवो हि वैकुण्ठवासिनं भगवन्तमेव प्रापयति।तस्मादमानवोऽप्रापयति। तस्मादमानवोऽप्राकृतः।तत्सहभावेन प्रापकौ ताविन्द्रप्रजापतिचाप्राकृतौ।एवञ्च सत्यन्तेषामातिवाहिकानां प्राकृतत्वकल्पनं वैरूप्यादत्यन्तसाहसमेव।तस्मात्ते सर्वेऽप्यातिवाहिका दिव्यपुरुषा एवेति निर्धारयामः। अन्वयस्तु- अन्ये न्यायनिरूपणबुद्धयः पुनराचार्या अमानवस्य वैकुण्ठवासिपरमपुरुषप्रापकत्व द्दष्ट¬ा नित्येष्वन्यतमत्वान्नित्यत्वं सिद्धमेव

तद्धदचिंरादिकानन्यान्नित्यवैकुण्ठभृत्यान्निजगदुः।तेन त एव मुख्या अर्चिरादयः।प्रसिद्धाग्न्यादयस्तु तन्नामधारिणस्तदाज्ञानुवर्तिन इति मर्वं रमणीयम्।।

।. 4. 3. 6

84. अत्र सङ्गतिर्भाष्ये 'अर्चिरादिनैव गच्छन्ति विद्वान्।अर्चिरादिरमानवान्तश्च गणआदिवाहिको विद्वांसं ब्राहृ गमयतीत्यक्तम्।इदमिदानीं चिन्त्यते।किमयमर्चिरादिको गणः कार्यं हिरण्यगर्भमुपासीनान्नयति उत परं ब्राहृोपासीनानेव, अथ परं ब्राहृोपासीनान् प्रत्यगात्मानं ब्राहृमकतयोपासीनांश्चेति विशये'इति।पूर्वं त्रिभिरधिकरणैरर्चिरादेरेकत्वेन गुणोपसंहार उक्तः अधुना द्वाम्यामधिकरणाभ्यां तस्य स्वरूपं निरुप्यत इति पेटिकाभेदः।तत्र पूर्वपर्चिरादिनामातिवाहिकत्वमुक्तम् इदानीं तेषामातिवाहिकत्वं किंविषयमिति विशेषचिन्ता क्रियत इति द्वयोरेकपेटिकात्वसिद्धिः।तदर्थविचिरस्तु---किमर्चिरादिरातिवाहिको गणः कार्यं हिरण्यगर्भमुपासीनानेव नयति, उत परं ब्राहृोपासीनानेव अथ परं ब्राहृोपासीनान् प्रत्यगात्मानं ब्राहृात्मकतयोपासीनांस्चेति।किं परब्राहृणि प्राप्ये गतिब्राहृलोकशब्दावुपपद्येते नेति।ब्राहृोपासीनानामेव गमयतृत्वे 'तद्य इत्थं विदुर्ये चेमेऽरण्ये'
इत्यादिवाक्यसामञ्चस्यमस्ति न्ति।अत्र पूर्वपक्षमाचष्टे--- वैद्यात्रस्थाने ति।बादरिः खल्वत्र पूर्वपक्षवादी स त्वेवं मनुते।आतिवाहिकाः खल्वेते वैद्यात्रस्थाननेतार इति बादरिस्समकथयत् । ताद्दशानाम -विधातृस्थानयोग्यानाम।तत्र हेतुमाह--- गत्यौचित्य मिति। ब्राहृलोकप्राप्तौ पुरुषार्थे गत्यौचित्य मस्ति।परमात्मप्राप्तौ गमनौचित्यं नास्तीत्याह--- न खल्वि ति। अयमर्थः---सर्वव्यापकस्य भगवत उपासकाना मत्रैव किं फलं न लभ्यम् ।भगवत्स्वरूपप्राप्तिरेव हि फलम्, सा पुनरत्रैव लभ्यते किमनेन गमनोपदेशेन निरर्थकेन।ननु चतुर्मुखब्राहृप्राप्तौ विवक्षितायां 'स एनान् ब्राहृ गमयति'इति नपुंसकलिङ्गान्तब्राहृशब्दो नोपपद्यते तदा ब्राहृाणं गमयतीति वक्तव्यत्वादित्यत्राह--- सामीप्या दिति।'यो ब्राहृाणम्'इति परब्राहृसम्भवस्य परब्राहृसामीप्यान्नपुंसिक लिङ्गान्तेन ब्राहृानाम्ना सोऽप्यभिधीयत इति न विरोधः।अत्र 'मानस एत्य ब्राहृलोकान् गमयति'इति ब्राहृलोकानिति बहुत्वं पाशाधिकरणन्यायेन नेतव्यम्।लोकशब्दोपादीनञ्च निषादस्थपतिन्यायेन ब्राहृैव लोको ब्राहृलोक इति नेयमिति नानुपपत्तिगन्धः।नचात्र मुक्त्युपदेशानुपपत्तिरिति मन्तव्यमित्याह--- तेनेति ।अयमर्थः---पूर्वं सरसिजवसतिं प्राप्य तेन सहैव मुक्तितरन्ते स्यादिति।एतत्मर्वं भाष्य एव सुव्यक्तमनूदितमिति नास्माभिः प्रपञ्च्यते।तदेतन्निराकरोति- एतन्नेति ।तत्र

हेतुमाह--- नाने ति।'तद्विष्णोः परमं पदम्'इति श्रुतिपठितपरस्थान गमनस्य नानाश्रुति सिद्धत्वाच्छ्रतिबाधो न न्याय्य इति।शेषं भाष्ये।।

87. बादरिमतप्रतिक्षेपकस्य जैमिनेः पक्षमनूद्य शिष्याणां विशदप्रतिपत्त्यर्थं वक्तव्यशेषमपि तत्राचष्टे- मार्ग इति। असावर्चिरादिम्र्र्गः परमं धाम 'तद्वष्णोः परमं पदम्'इति श्रुतिसिद्धं वैकुण्ठाख्यं परं धाम गमयति ।अथवा वैकुण्ठवासिनम् 'अथ यदतः परो दिवो ज्योतिर्दीप्यते' इति दिव्यलोकवासिनं निरतिशयदीप्तियोगेन धामशब्दवाच्यं परमपुरुषमेव गमयति। तत्र हेतुमाह- गत्यादी ति।दिव्यस्थास्य तत्स्थानवासिनः परमपुरुषस्य च गमनेन प्राप्यत्वसम्भवात्।न केवलं योग्यत्वेनायमर्थः सिध्यति, अपितु नपुंसलिङ्गान्तस्य ब्राहृशब्दस्य मुख्यत्वाच्चेति दर्शयति- ब्राहृोक्ते रिति।भगवाञ्जैमिनिः परं ब्राहृप्राप्नुवतामेवैषा गतिरिति निरणैषीत्।उक्तमर्थमङ्गीकृत्यैव तत्र कञ्चिद्विशेषं वक्तुं सत्य (युक्तः?)शब्दं प्रयुक्तवानाचार्यः।तदेवाह- वक्तव्य मिति।प्रतिज्ञातमेव वक्तव्यं प्रकटयति- नयती ति।अयमर्थः-द्विविधाः खलु ब्राहृनिष्ठाः।स्वात्मशरीरकपरमात्मोपासकाः केचित्।परमात्मशरीरभूतस्वात्मनिष्ठाः परे।द्विविधानपि तान्व परविदो मुखभेदेन ब्राहृनिष्ठान र्चिरादिमार्गो गमयतीति जैमिनेरभिप्रेतोऽर्थः।ननु तर्हि विषमोपासकयोद्र्वयोस्सम्पूर्णब्राहृनिष्ठत्वं कथमित्याशङ्क्याह- अमी चे ति।विशेषणविशेष्यभाववैपरीत्योपदेशमात्रमेवात्र क्रियते।उभयत्रापि ब्राहृणःप्रधानं जीवस्य तद्विशेषणत्व- -मप्येकरूपमेवेत्यैकाथ्र्यसिद्धिः।यथा 'रामानुजं लक्ष्मणपूर्वजञ्च'इत्यादिषूपदेशवैपरीत्येऽप्यर्थतत्त्वमेक- -रूपमेव।तदिदं सर्वमभिप्रेत्योक्तं सूक्रकारैः 'अप्रतिकालम्बनान्नयतीति बादराणः' इति।।

88. प्रतिकोपसका इति केषां वचनमप्रतीकोपासका इति च केषामित्याशङ्क्य तद्विभागं दर्शयित्वा तत्राप्रतीकोपासकानामेवार्चिरादिमार्गेण मुक्तिनियमं दर्शयति- ध्यायेयु रिति। प्रकृतिशबलिताञ्जीवान् केवलान्वा तानेव जीवान् द्वयोरपि पक्षयो ब्र्राहृद्दष्ट¬ा तानेव जीवान् ये ध्यायेयुः ।तथा जडनिवहमपि स्वेन रूपेण वा यद्वा

अन्यद्दष्ट¬ा ध्यायेयुः। ते षड्विधत्वेन विभक्तास्सर्वेऽपि प्रतीकप्राणिहितमनशः । ते षड्विधत्वेन विभक्तास्सर्वेऽपि प्रतीकप्रणिहितमनशः ।ते पुन रर्चिराद्यध्वयोग्या न भवन्ति।अत एव 'अप्रतीकालम्बनान्नयति' इति सूत्रकारः प्राहः।किमियं राजाज्ञेत्याशह्क्य सूत्रकारसम्मत्यैवास्माभिर- -भिधीयत इति दर्शयति- ब्राहृे ति।अयमर्थः-पूर्वं पञ्चाग्निविद्यानिरूपणप्रकरणे किमियं ब्राहृविद्या उत जीवविद्येत्याशह्क्य 'श्रुतिपनिषत्कगत्यभिधानाच्च' इति सूत्रेण ब्राहृविद्यात्वं प्रतिष्ठापितम्।अयमत्र सूत्रमारस्य भावः---इयं ब्राहृविद्या न चेदर्चिरादिमार्गगमनं नोपदिश्येत ब्राहृविद्यासाधारणत्वादर्चिरादि- -मार्गगमनस्य।उपदिश्यते चात्रार्चिरादिमार्गगमनम्।तेन पञ्चग्निविद्या ब्राहृविद्येति।अव्यभिचरितं हि लोके धूमादिकं लिह्गम्।तेन ब्रांहृविदामेवार्चिरादिमार्गगनमिति न्याय्योऽयं मार्ग इति सर्वैरप्येतदनुसरणं न्याय्यमिति।ननु ब्राहृोपासकानामेवार्चिरादि-मार्गेण गमनमित्युक्तम् इदं नोपपद्यते पञ्चाग्निविद्यायां 'तद्य. इत्थं विदुः' इति तेषामप्यर्चिरादिराम्नाम्यते।ते च प्रकृतिवियुक्तात्मस्वरूपोपासकाः।तेषां स्वात्मनन्दानुभवरूपः कैवल्याख्योऽपि मोक्षोऽस्तीति।अयमेव मोक्षः श्रीविष्णुपुराणे 'योगिनाममृतं स्थानं त्वात्मसन्तोषकारिणाम्' इत्युच्यते।तस्मात्तेऽप्यर्चिरादिमार्गेण परमपदं गत्वा भगवदनुभवरहिताः क्वचिद्देशे स्वात्मानुभववन्तस्तिष्ठिन्तीति तदिदमसारम्।पञ्चाग्निविद्यायाः परमात्मशरीरभूतस्वात्मोपासनपरत्वस्यो- पक्रमादितात्पर्यलिङ्गेन प्रतिपादितत्वात्।विस्तरस्तु भाष्यादौ द्रष्टव्यः।यत्तूक्तं 'योगिनाममृतं स्थानम्'इति तत्रापि प्रमाणविरोधोऽस्ति।यथा भगवान्पराशरः 'प्राजापत्यं गृहस्थानां ब्रााहृं सन्न्यासिनां स्मृतम्'इत्यक्तवा ततउपरि 'योगिनाममृतं स्थानम्' इति जीवात्मानुसन्धायिनाममृतशब्दवाच्यस्थानविशेषप्राप्ति- मुक्तवा पुनः 'एकान्तिनस्सदा ब्राहृ द्यायिनो योगिनो हि ये।तेषां तत्परमं स्थानं यद्वै पश्यन्ति सूरयः।।' इति ब्राहृोपासकानामेव परमपदप्राप्तिमाह।अत्र 'योगिनाममृतं स्थानम्'इत्यमृतशब्दो जीवात्मस्वरूपपरश्चेत् तस्य नित्यत्वादमृतशब्दवाच्यतोपपत्तिः।स्थानशब्दस्वारस्याद्देशविशेषपरश्चेत् 'अपाम सोमममृता अभूम'इत्यादिवदमृतशब्दस्यौपचारिकत्वम्।वदन्ति हि 'अभूतसम्प्लवस्थानममृतत्वं हि भाष्यते' इति '
ये तु शिष्टारुायो भक्ताः फलकामा हि ते मताः।सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक्।।' इति नित्यत्वानित्यत्वनियामकं वचनम।परमपदत्वें युक्तिविरोधमप्युपपादयामः।परिकल्पितः केवलो नाम जीवोपासकः परमपुरूषं प्राप्यापि तदनुभवं मुक्तवा दिवाकीत्र्यवदवस्थितः किं सर्वकर्मविनिर्मुक्तः, उत कर्मावशेषवान्। सर्वकर्मविनिर्मुक्तशचेत् ब्राहृानुभववुच्छेदो न स्यात्।स्वाभाविकत्वादसङ्कुचितब्राहृानुभवस्य तद्विच्छेदस्यचौपाधिकत्वाच्च।सर्वकर्मविनिर्मुक्तस्यापि ब्राहृानुभवविच्छेदे तस्यैव स्वाभाविकत्वमङ्गीकार्यम्।तथा च सिद्धान्तविरोधः।कर्म मा भूत्कारणम्, अन्यदेव किमपि ब्राहृाननुभवकारणं स्यादिति चेत्

तत् किं विशेषतो वद।भगवन्निग्रह इति चेत् स तु निग्रहस्सहेतुको वा निर्हेतुको वा निर्हेतुकश्चेत् निर्हेतुकानुग्रहं सिद्धान्तमुक्त्वा निर्हेतुकं निग्रहं वदन् भवानपहास्य एव।सहेतुकश्चेद् हेतुर्वाच्यः।कर्म चेद् दत्तोत्तरमेतत्।भगवदिच्छैव चेत् परमकारुणिको भगवान् सर्वकर्मविनिर्मुक्ते तस्मिन्निग्रहं वाञ्छतीति भवदीयैव वाञ्छा।तर्हि जीवस्तु स्वेच्छया भगवन्तं मुक्त्वा वर्तत इति वदाम इति चेत् तच्चायुक्तम्।सर्वकर्मविनिर्मुक्तो जीवो 'रसो वै सः।रसं ह्रेवायं लब्ध्वानन्दी भवति' इति निरतिशयानन्दरूपं परमात्मानं मुक्तंवा खद्योतकल्पं स्वात्मानमनुभवतीत्य- -सम्भवदुक्तिकमेवैतत्।अनादिवासनावशादेतत्सम्भवतीति चेत् सैव दुर्वात्मा पापमिति स्यादयं संसारीति न परमपदप्रवेशप्रसङ्ग इत्युपरम्यते।एवं सत्यम्प्रदायोऽपि निरूप्यः।अत्र केचिदाचक्षते--- 'जीवोपासकानामर्चिरादिगतिरस्ति।भाष्यकारैरेव ब्राहृोपासकव्यतिरेकेण जीवोपासकमुक्त्वा द्वयोरप्यर्चिरादिगमनमस्तीति भाष्य एव व्यक्तमभिधानात्।तेनासावर्चिरादिमार्गेण गत्वा भगवन्तं प्राप्य यथोपासनं फलमिति न्यायात् त्यक्त्वैव भगवदनुभवं परमपदे क्वापि कोणे स्थित्वा स्वपयोधरपायिधेनुवदात्मानमेवोपभुङ्क्ते।न पुनःपरमपुरुषोपभोगं नियमेन प्रतिपद्यते' इति।तेन 'पतिं विश्वस्य'इत्युक्तपरमपुरुषभोगाभावात् पतिपरित्यक्तयोषित्साधम्र्यमप्यस्याचक्षते तदसारम्---सूत्रविरोधाद् भाष्यवचनविरोधात् प्रमाणविरोधात् युक्तिविरोधात् सम्प्रदायविरोधाच्च।तथा हि पञ्चाग्निविद्यायां 'श्रुतोपनिषत्कगत्यभिधानाच्च' इति सूत्रेणार्चिरादिगत्युपदेशात् पञ्चाग्निविद्यायाः केवलजीवविद्यात्वनिराकरणेन ब्राहृविद्यात्वं प्रसाधितम्।अयमर्थः---अर्चिरादिमार्गस्य ब्राहृविद्यैकान्तत्वात् सेयं पञ्चाग्निविद्या ब्राहृविद्येति।तेन जीवपिद्यायां नार्चिरादिमार्गेण

परमपदगमनगन्धः।तदधिकरण- भाष्यविरोधोऽपि तत्रैव द्रष्टव्यः।अत एव प्रजापतिवाक्ये ब्राहृप्राप्तिरूपफलनिर्देशो ब्राहृविद्यफलेनोपसंहार इति भाष्यकाराः प्राहुः।अत्राप्यातिवाहिकप्रसङ्गे भाष्यकारैरेवब्राहृविदामेवार्चिरादिगमनमिनि सुव्यक्तमभिधीयते।अत्र 'केवलं वा चिद्वस्तु' इति सन्धिविशेषादकारप्रश्लेषाप्रश्लेषाभ्यां चिदचितोद्र्वयोरपि ग्रहणम्।अयमत्र भावः---स्वशरीरकपरमात्मोपासनं परमात्मशरीरभूतस्वात्मोपासनमित्युभय- -मप्यर्थादेकमेव।तेन परमात्मशरीरभूतस्वात्मोपासकस्यापि ब्राहृोपासकत्वादर्चिरादिगमनोपदेशो न विरुध्यते।केवलचिन्मात्रोपासकस्तु प्रतीकोपासकत्वात् प्रागेव निरस्तः।प्रतीक एकदेशः चिदचिच्छरीरके ब्राहृणि चिदचितोरेकदेशत्वात्।अतो जीवोपासकोऽपि प्रतीकोपासकः।एवमेतस्मिन्नधिकरणे त्वेतस्यार्थस्य भाष्यकारैरेव द्विरिुारभिधानात् केवलजीवोपासकस्य प्रतीकोपासकत्वेन निरस्तत्वात् परमात्मशरीरभूत- स्वात्मोपासकस्याप्रतीकोपासकत्वेन ब्राहृवित्त्वादर्चिरादिमार्गेण ब्राहृप्राप्तिरभिहितेत्यलं विस्तरेण।

89. अत्र सर्वं मिथ्येति वादिनां मृषावादिनामपि श्रुतिप्रतिपन्नास्सर्वेऽर्थाः प्रमाणानुसारेण स्वीकर्तव्या एव। अथापि व्यावहारिकमिदमथवा सगुणब्राहृविषयमित्यादिकुत्सितालापः केवलं क्रियते।व्यावहारिकत्वं विकल्पासहत्वाद् ध्वस्तमेव।सगुणमेव ब्राहृ न निर्गुणं तस्याप्रामाणिकत्वात्।अतो विषयविभागकथनमपि व्यावहारिकत्वकथनवदपास्तमेव।न्यायनिरूपकाणामितमेव तत्त्वम्।अथाप्यस्माभिरभिधीयमानमर्थजातं परैरपि केनापि प्रकारेणङ्गीक्रियत इति मवसिद्धानतस्यानतिलङ्घनीयत्वमाह--- प्रत्यापत्ती ति। प्रत्यापत्तिप्रकारः -अनादिकालं संसरतो जीवस्याविज्ञातसुकृतादियोगात् मोक्षमार्गे प्रवृत्तिः।। कर्मयोगा दीति-कर्मज्ञानभक्तिनिष्ठा एवं सद्विद्यामधुविद्यान्यासविद्येत्यादिविद्याविशेषेष्वधिकारनियमः।भगवद्भक्त्यैव मोक्षविधातकदुरितोपशान्तिः। अन्त्यावस्थाव्यवस्था केचित्प्रारब्धदेहावसाने मुच्यन्ते अपरेतु कर्मानुसारात् तद्देहाद्देहान्तरे। पृथगयनगतौ धूमादिमार्गेऽर्चिरादिमार्गे वा चन्द्रसूर्यादिदेशविशेषे विश्रमाप्तिः केषाञ्चित् साक्षान्मुक्तिः सद्विद्यादहरविद्यानिष्ठानाम्, क्रमात् मधुविद्यानिष्ठानम्।एताद्दशं सर्वमप्यौपनिषदवाक्यप्रसिद्धं भेदात्मकं कार्यजातं निर्विशेषवादिभिरपि तत्तदर्थप्रतिपादकश्रुतिनिर्वाहार्थम- प्रणोद्यमेव।केवलं व्यावहारिकत्वाद्युद्धोषणमेवावशिष्यत इति।।

90. इत्थमर्चिरादिमार्गेणोत्क्रान्तः क्रमाद् भगवतो वासुदेवस्य दिव्यसिंहासनोपान्तमधिगच्छतीत्याह--- पन्थान मिति। तमिमं देवयाना भिधानां पन्धानं पश्चिमे देहपाते प्राप्तस्तमोऽन्तान् पृथिव्युपक्रमां- - स्तत्त्वस्तोमा नमिक्रामति।विरजाभिधानां दिव्यामापगाञ्च तरति ।तदनन्तरं दिव्यं देहादि लब्ध्वा जनिलयरहित मुत्पत्तिविनाशरहितं विष्णोस्तत्पदं याति 'अकृतं कृतात्मा ब्राहृलोकभिसम्भवामि' इति श्रुतेः।अयं तु ब्राहृंसवादधन्यः पर्यङ्कारोहणान्तां बहुमतिञ्च भजति ।।

91. अत्र पञ्चशक्तिमयं दिव्यदेशादिकमनङ्गीकुर्वाणः कश्चिदाह--- सङ्घात इति।भवन्तः खलु पञ्चशक्तिमयं

दिव्यदेशमाचक्षते।अत्र शक्तिशब्देन दिव्यानि पञ्चभूतान्यभिधीयते।तानि दिव्यानि भूतानि सङ्घातात्मकान्यसङ्घातात्मकानि वा।सङ्घातात्मकत्वे नित्यत्वमेव नास्ति।कृत्स्नस्यापि सङ्घातात्मनो वस्तुनो विनाशित्वेनोपलम्भात्।एवमनित्यत्वे सति नित्य पृथिव्यादिभावो न स्यादित्याह--- ने ति। अयमर्थः---नित्यानि पृथिव्यादिभूतानि वैकुण्ठस्थानीति भवन्तो वदन्ति तेषां परमाणुरूपत्वे पृथिव्यादिरूपेण विभज्य दर्शनं न स्यात् सङ्घातात्मकत्वे नित्यत्वं न स्यादिति।किञ्च भगवतः पर्यङ्कादिकमप्यस्तीति भवतां सिद्धान्तः तच्च निष्प्रयोजनमित्याह--- पर्यङ्काद्यै रिति।अत्र हेतुमाह--- पूर्णनिस्सीमशक्ते रिति।राजीदीनां पर्यङ्कादिपरिकल्पनं देहजाड¬ादिहेतुभूतायासादिपरिहारार्थं शयनासनशेषतया हि द्दश्यते परिपू र्णनिस्सीमशक्तेर्भगवतः कि मनेन पर्यङ्कादिपरिकल्पनेन।अपि च कृत्स्नदेशव्याप्तिमतो भगवतः प्राप्तयर्थमूध्र्वं गतिरपि विफलेत्यादिकान् हैतुकानां हैतुप्रयोक्तॄणां क्षोदिष्ठक्षीबजल्पान् क्षुद्रतममत्तजल्पान्श्रुतिरेवो पशमयोत् ।श्रुतिप्रतिपन्नेऽर्थे निर्मूलाशङ्का निर्मतीनां दुर्मतीनां वा जायत इति श्रुतिप्रामाण्यवेदिभिरनादरणीयमेव।श्रुतेरीद्दशसामथ्र्यं कुत इत्याशङ्क्य परिहरति -अद्भुतेति।अपूर्वार्थाभिधायित्वं श्रुतेर्भूषणं तत्राप्यद्भुतार्थाभिधायित्वमत्यन्तभूषणम् अद्भुतत्वं ह्रत्यन्तद्दष्टविसजातीयत्वं तेन बाधकाभावे यथाश्रुतमर्थतत्त्वं निर्णेतव्यं नीतिमद्भिः परवाद्युक्तानि तु बाधकानुमानान्यागमविरुद्धत्वात् स्वयमेवाप्रमाणतामश्नुवत इत्यर्थः।लोके हि द्वीपान्तराद्यगतानां

लौकिकार्थप्रतिपादकान्यपि वाक्यान्यपूर्वेष्वर्थेषु प्रमाणभूतान्योव परिगृह्रन्ते।एवञ्च सति वैदिकानि वाक्यानि अद्भुतार्थप्रतिपादकानि किमर्थं तथात्वेन न परिगृह्रन्ते।कारणदोषस्यानाशङ्कनीयत्वाद् बाधकप्रमाणस्य चाद्दष्टत्वात्।निर्मूलमेवाप्रामाण्यशङ्कायां सर्वोपप्लवप्रसङ्गादिति।।

92. ननु द्दष्टविरोधेऽप्येवं विरोधाभावकथने न कुत्रापि विरोधः स्यादित्याशङ्क्य विरोधसद्भावोदाहरण- -माह- भाव इति।यस्मिन्नदाहरणो भावश्चाभावश्च देशकालाद्युपाधिभेदेनोपदेशान्न विरुद्धौ द्दश्येते तौ तूपाधिभेदमन्तरेण यद्यभिधीयेते तदा विरोधस्सयात्।यथै घटस्स्वदेशेऽस्ति नास्ति परदेशे तथा स्वकालेऽस्ति नास्ति परकाले तथा स्वात्मानास्ति नास्चत्यन्यात्मनेत्यविरोधोदाहरणमेतत्।विरोधोदाहरणं तु घटः क्वापि देशेऽस्ति न क्वाप्यस्ति स्वकालेऽस्ति न कदाचिदप्यस्ति स्वात्मनास्ति न सर्वात्मनासतीति अथवा घटोऽस्ति घटो नास्तीति देशकालादिविभागव्यवच्छेदमन्तरेण अस्तिनास्तीति व्यपदिश्यते।एताद्दशान्युदाहरणानि विरुद्धानि।तेन विरोधोदाहरणं नास्तीति न मन्तव्यमित्यर्थः।इत्थं मिथोविरोधोदाहरणमुक्त्वा प्रकृतानुगुण्येन दुर्बलस्यैकस्य प्रबलेनापरेण विरोधोदाहरणमाह--- प्रज्ञाते ति। 'न हिंस्यात्सर्वा भूतानि' इति व्याप्तविषयमिदं वाक्यम् एतद्वाक्यार्थस्य व्याप्तिमतोऽपि क्वचिद्वैधहिंसायामुपरोधेऽपि सङ्कोचेऽपि विशेषविषयतया नियतनिजबलात् 'आलभेत' इति वाक्यात् स्वार्थसिद्धि रेव स्यात्।एवं यस्सङ्घातस्स विनाशीति द्दष्टानुसारेण व्याप्तिर्दिव्यविभूतिनित्यत्वप्रतिपादक- -प्रमाणबाध्या।यथा नरशिरःपवित्रत्वेन प्राण्यङ्गत्वव्याप्तिः कपालापवित्रत्वप्रतिपादकप्रमाणबलाद् बाध्यते। तेन दिव्यविभूतिनित्यत्वप्रतिपादकप्रमाणान्यर्थवन्त्येव।इदं तु लोकद्दष्टं सर्वसिद्धान्तिनामपीष्टमिति दर्शयति- द्दष्ट मिति।एवं प्रकारेणानङ्गीकारे दोषमाह--- न यदी ति।द्दष्टप्रक्रियामात्रमेवाङ्गीकृत्य विशेषशास्त्रस्य बाधकत्वानङ्गीकारे शास्त्रं प्रमाणमेव न स्यात्। अध्यक्षतोऽन्य दिति सामान्यनिर्देशोऽनु- -मानुस्याप्युपलक्षणार्थः।उपलम्यमानेऽप्यर्थ युक्त्यापि तत्रतत्र विशेषोदाहरणे बाधोऽभीधीयते न्यायविद्भिरित्यर्थः।अत्र दोषान्तरमप्याह--- बाध इति।सामान्यविशेषविषययोः प्रमाणयोर्विशेषेण सामान्यस्य बाध्यत्वाभावे सामान्यविशेषविषययोः प्रत्यक्षयोरपि सामान्यस्य विशेषप्रत्यक्षेण बाधो न भवेत्।आपातदर्शतं सामान्यं सावधाननिपुणनिरूपणपूर्ककदर्शनं विशेषदर्शनमिति।ननु वटदल शायिनो भगवतो बालस्य जठरे विश्वमिदं वर्तत इत्यत्यन्तविरुद्धमभिधीयते तत् कथं शास्त्रसिद्धमिति तथैवाङ्गीकर्तुं शक्यत इत्याशङ्क्याह--- वटदले ति।तच्च यथात्यन्तविरुद्धं न भवति तथैव बुद्धिमद्भिरुचितप्रकारेण योज्यमित्यर्थः।।

93. अस्मिन्पादे प्रत्यधिकरणे प्रतिपाद्यानामर्थान्मनुक्रमं दर्शयति- एकत्व मिति।प्रथमादिकरणार्थमाह- ब्राहृविद्यापरिषद्यधीयमानस्य सुपथ स्सत्पथस्यैकत्वमिति।अनन्तरं वायुलोकशब्दाभिहितो वायुर्देवलोकश्रुत्याभिधीयते।तृतीयाधिकरणे विद्युत उपरि वरुणेन्द्रप्रजापतीनामन्वयः।चतुर्थे त्वधिकरणे ऽमानवान्ताःपरपदगमने नेतार इत्यभिधीयते।पञ्चमस्यार्थमाह---ब्राहृविदामेवायमध्वेति। पादार्थं सङ्कल्य्याब---तुर्येति।चतुर्थस्या ध्यायस्य तृतीये पादे सृति रर्चिरादिसरणिः पञ्चभि रधिकरणै- -रित्थमुक्तेति।।



चतुर्थध्याध्यायस्य चतुर्थः पादः

।. 4.4.1

94. अत्र चतुर्थाध्याये गतानां पादानामर्थभेदं विभज्यानूद्य चतुर्थस्य पादस्यार्थविशेषं तदन्तर्गतयोस्त्रि- -कत्वेन विभक्तयोः पेटिकयोरर्थविशेषञ्च दर्शयति--- उक्त मिति।तत्र त्रिपाद्यर्थभेदस्तावत्प्रदश्र्यते- पादै रिति।एवम्प्रकारेणा घानां कर्मणां स्थूलवपुष स्सूक्ष्म वपुषश्च हानं क्रमादुपपादितमिति।चतुर्थस्य पादस्यार्थं विभज्य दर्शयति--- निर्धूते ति। उपाधि र्देहसम्बन्धस्तद्धर्मसम्बन्धश्च स तु विरजातरणावस्थायां निर्धूतः ।एवं निर्धूतोपाधि समूहस्य विरतिशया नन्दमन्त्येन पादेन वक्ति ।अत्र पेटिकाविभागं दर्शयति--- त्रिभि रिति। त्रिभिरधिकरणैस्स्व स्वरूपा विर्भावश्चिन्त्यः ।पुनरिुाभिरधिकरणैस्स्वच्छन्दकैङ्कर्यभोगोऽ -भिधीयते। इत्येव म्प्रकारे द्वे पेटिके भवतः।स्वरूपाविर्भावकैङ्कर्यभोगरूपमेतद् द्वितयं स्वतो भवति न कर्माधीनम्।तर्हि कारणाभावे कार्यं कथं स्यादित्याशङ्क्य सर्वकारणं परमात्मानमेवात्र पुरस्करोति- नाथनिध्न मिति।अयमर्थः---निश्शेषकृत्स्नप्रतिबन्धनिरासे सति भगवानेव जीवस्य गुणाष्टकाविर्भावादिकं स्वयमेव करोतीति न काचिदनुपपत्तिः।।

95. अत्र पादसङ्गतिरधिकरणसङ्गतिश्च भाष्ये विभज्य दर्शिता 'परं ब्राहृोपासीनानामात्मानञ्च प्रकृतिवियुक्तं ब्राहृात्मकमुपासीनानामर्चिरादिना मार्गेणपुनरावृत्तिलक्षणा गतिरुक्ता।इदानीं मुक्तानामैश्वर्य- -प्रकारं चिन्तयितुमारभते' इति पादसङ्गतिः।'किम् अस्माच्छरीरात्समुत्थाय परञ्ज्योतिरुंपसम्पन्नस्य देवादिरूपवत् साध्येन रूपेण सम्बन्धोऽनेन वाक्येन प्रतिपाद्यते उत स्वाभाविकस्य स्वरूपस्याविर्भावः' इत्यधिकरणसङगतिः।तदर्थविचारस्तु-किं 'अस्माच्छरीरात्'इत्यादिवाक्ये मुक्तस्य साध्येन रूपेण सम्बन्धः प्रतिपाद्यते उत स्वाभाविकस्वरूपाविर्भावः।किं स्वाभाविकस्वरूपाविर्भावपरत्वे मोक्षशारुास्य पुरुषार्थाबोधित्वं सम्भवति नेति।किं स्वरूपस्य स्वतोऽपरिच्छन्नानन्दत्वं सम्भवति नेति।किमानन्दस्वरूपस्य तिरोधानं सम्भवति नेति।किमाविर्भावपरत्वे निष्पत्तिव्यपदेशवैयथ्र्यमस्ति नेति।अत्रापूर्वरूपप्राप्तिः फलमिति वदन् पूर्वपक्षी स्वाभाविकस्वरूपाविर्भावपक्षे दूषणानि दर्शयति- अश्रान्ते ति। आत्मस्वरूपं नित्य स्वरप्रकाश मेव तस्य पूर्वमे वाविर्भावसिद्धा वपूर्व किमपि फलं न स्यात् नित्याविर्भूतस्याविर्भावान्तरापेक्षाभावात्।किञ्च यदि स्वरूपाविर्भावमात्रान्नित्यसिद्ध एव मोक्षस्स्यात् तर्हि सुषुप्तस्यापि मुक्तिस्स्यात् तस्यापि स्वस्वरूपाविर्भावस्य विद्यमानत्वात्।तदिदं दर्शयति--- सुषुप्ताविशेषा दिति।एवं परपक्षं प्रतिक्षिप्य स्वाभिप्रेतं प्रकारं दर्शयति--- तस्मा दिति।अयमर्थः---यथा नित्यमुक्त ईश्वरो रामकृष्णादिविग्रहं परिगृह्णाति एवं मुक्तोऽपि विलक्षणं रूपं परिगृह्णातीति वाच्यमिति।तत्र हेतुमाह- रूपशब्दा दिति। रूपशब्दो हि देहवाचित्वादिममेवार्थं दर्शयतीत्यर्थः एतत्प्रतिक्षिपति--- नैव मिति।अस्मिन्प्रतिक्षेपे हेतुमाह- स्वेने ति।अयमर्थः---केवलं रूपेणाभिनिष्पद्यत इति नोच्यते अपि तु स्वेन रूपेणेति।स्वशब्दो ह्रत्र विशेषणत्वेन प्रयुज्यते।स शब्दो यथा न निष्फलः स्यात् तथैवार्थो वाच्य इति।कथमफलत्वमित्या- -शङ्क्याह--- रूपे ति।अपूर्वरूपप्राप्तौ रूपेणाभिनिष्पद्यतइत्येतावदेव वाच्यम्।तेन स्वशब्दसामथ्र्यात् स्वाभाविकरूपाविर्भाव उच्यत इत्यर्थः।स्वाभाविकस्याविर्भावे हि स्वशब्दसाफल्यमिति भावः।।

96. अत्र मृषावादिनां स्वस्वरूपाविर्भाववचिमघटितमिति दर्शयत् स्वपक्षे तस्य सुघटितत्वमेव स्थापयति--- नित्ये ति।अयमत्र भावः-मृषावादिनः किं नित्यात्मस्थितिमेवाभिनिष्र्पात्त वदन्ति किंवा अपूर्वाकारप्राप्तिम् उत्तरत्र भेदवादप्रसङ्गः अतः पूर्व एव कल्पोऽवशिष्यते।सोऽपि न सङ्घटते नित्यस्वात्मस्वरूपस्थिति- रियमभिनिष्पत्तिरिति वदन्त स्तन्मात्रं विद्याफलं न भवतीति न विदुः ।तन्मात्रस्यानादिसिद्धत्वाद् विद्याफलस्य फलत्वेनागामित्वात्।न ह्रागामिनः पूर्वसिद्धस्य च तादात्म्यं वक्तुं शक्यते व्याधातादिति। तदिदमाह- नित्यासिद्ध मिति।ननु यद्यस्मत्पक्षेऽभिनिष्पत्तिर्वक्तुं न शक्यते तर्हि त्वत्पक्षे कथं वक्तुं शक्यत इत्याह- सिद्ध मिति।लोके स्वरूपत स्सिद्ध मपि साध्य भूतविशेषणा नुवेधात् साध्यभावमाटीकते।यथा स्पर्शविशेषादशुद्धस्स्नानादिसाध्येन शुद्धस्वरूपेण स्वयं साध्यत इत्युच्यते एवं कर्मभिरशुद्धो जीवः कर्मसम्बन्धविनिर्मुक्तरूपेण साध्यत इति वचने को विरोधः।तदिदमाह- साध्यानुवेधा दिति। सिद्ध मपि वस्तु साध्यानुवेधा त्साद्यमुत्युच्यते।तथा च प्रोक्षणादिना व्रीह्रादिकं शुद्धभावेन साध्यते।फलस्य स्वरूपमेवात्र दर्शयति- से ति स्त्रीलिङ्गनिर्देशोऽभिनिष्पत्तिविवक्षया।इत्थमभिंनिष्पत्तिशब्दस्याकारान्तरप्राप्तिमर्थमुक्त्वा प्रतीतिप्राप्तिमप्यर्थतयाचष्टे--- यद्वे ति।वदन्ति हि लोके तत्तदर्थप्रतिपादकाः अयमर्थः एवं निष्पद्यत इति निर्णीयत इति।तथा चात्रापि स्वेन रूपेणाभिनिष्पद्यत इति स्वाभिविकाकारेण ज्ञायत इत्युक्तं भवति।तेन मुक्तिशब्दस्यास्मत्पक्षे सार्थकत्वात् ' मुक्तः

प्रतिज्ञानात् ' इत्यादि सुत्रमपि सार्थकमेवेति निगमयति-तदिति। अयमर्थः-अस्मत्सिद्धान्ते जीवस्य सगुणत्वात्तद्गुणे सङ्कोचविकाससद्भावादत्रापूर्वाकासस्यागन्तुकत्वाच्च मुक्तिशब्दप्रंयोगस्सुघटित एव।युष्मत्पक्षे निर्गुणस्यात्मनो नित्यस्वयम्प्रकाशत्वादपूर्वाकारप्राप्त्यभावेन पूर्वममुक्तः पश्चान्मुक्त इति वचनमवयनमेव स्यात्।अविद्यानिवृत्तिरपूर्वा विद्यत इति चेत् सा किं ब्राहृस्वरूपमुत तदतिरिक्ता तदतिरिक्तत्वेऽपि परमार्थरूपा अपरमार्थरूपा वा स्वरूपञ्चेत्तदवस्थमेव दूषणम्।अतिरिक्तत्वेऽप्यपारमाथ्र्ये तस्याः प्रध्वंसाभावरूपत्वेनानन्त्यात्।तस्या अपि निवृत्त्यङ्गीकारे निवृत्तिपारम्पर्यादनवस्था।तथा चारोरिततन्निवृत्तिपाम्पर्याङ्गीकारात् तदवस्थ एव नित्यसंसारप्रसङ्गः। परमार्थपक्षे तु द्वैतापत्तिरिति प्रागेवोक्तम्।।

97. ननु जीवस्य स्वरूपाविर्भावो मोक्षश्चेत् तत्सवरूपं संसारदशायामप्याविर्भूतं मोक्षदशायां को विशेषः?तत्रोत्तरमाह--- स्वाकारा दिति।लोके ह्रेकमेव वस्तु पुरस्तात्किञ्चिदनुकूलतयमातम् उत्तरोत्तरं पश्यतः

पश्चादानुकूल्याधिक्येनावलोक्यते एवं जावत्मस्वरूपं नित्यभातमपि प्रथममेकदेशानुकूल्येन प्रतीयते मुक्तिदशायां त्वत्यन्तानुकूल्येन।अयमत्र शब्दान्वयः- नित्यभातात् स्वाकारात् अधिकसुखतया तदानीं मोक्षदशायां जीवो भाती ति।न चाभिनिष्पत्तिशब्दस्वारस्यं नास्तीति मन्तव्यमित्याह--- सिद्धे ति।प्रयोग एव हि शब्दार्थनिर्णये प्रमाणम् अभिनिष्पत्तिशब्दस्याविर्भावमात्रेऽपि प्रयोगप्राचुर्यमस्तीति प्रागेवोक्तम्। नन्वभिनिष्पत्तिशब्दो ह्रागनतुकमेव कञ्चिदर्थं वक्ति कोऽयमागन्तुकोऽर्थ इत्याशङ्क्याह--- सङ्कोचि ति। सङ्कोचात्यन्तहानिः ---विकास इत्यर्थः।पूर्वं स्वरूपोपाधिकत्वमुक्तम् इदानीमभिनिष्पत्तिशब्देन सङ्कोचात्यन्ताहानेरभिधाना न्निष्प्रत्यूह स्वरूपोपाधिकं रूपं स्वेनेतिशब्दः प्रवक्तीत्यर्थः।।

98. अत्र कश्चिच्चोदयति 'वेदान्तविदिनामात्माविर्भावो मोक्ष इति सर्वसम्मतम्।तथा च यथा चिन्मात्रब्राहृस्वरूपाविर्भावस्य पुरुषार्थत्वं वदतां पुरुषार्थाभावोऽविशिष्टः, यद्यपि जीवातिरिक्तः परमात्मा द्रष्टव्यतया भवद्भिरङगीकियते सोऽपि योगदशायां द्दष्ट एव तथा च मोक्षदशायां विशेषतो द्रष्टव्याभावात् पुरुषार्थाभाव इति समानमेतत्' इति।तदेतत्प्रतिक्षिपति- प्राय इति। अयमर्थः--- -जीवस्वरूपसामान्यमहमिति सर्वलोकविदितम्।तथापि स जीवो विभूर्वा अणुर्वा भगवच्छेषभूतो वा अन्यशेषो वा स्वतन्त्रो वा परतन्त्रो वा ज्ञानरूपो वा जडरूपो वा ज्ञानगुणको वा निर्गुणो वा आनन्दाद्मको वा आनन्दस्वरूपो वा स च क्षणिकसन्तानमात्रउत स्थिरः स्थिरत्वेऽप्यामोक्षस्थायी अथवा अनुदयास्तमयस्स च कल्पितो वा अकल्पितो वा भिन्नो वा अभिन्नो वा भिन्नाभिन्नो वा इति बहुधा बम्भ्रम्यमाणैर्वादिभिरन्यथान्यथा अभिधानादनवधारितस्वरूप एव।तथा च तत्स्वरूपं भगवच्छेषत्वादिना मुक्तिदशायामेव विशेषतोऽवलोक्यते।आस्तामिदं जीवस्वरूपं नेदमोवास्माकं मुक्तिदशायां प्रकाश्यम् अपि तु तदन्तर्यामी पुरुषोत्तमः।तदिदमाह- स्वदोहिनी ति।'यस्यात्मा शरीरम्' 'अन्तःप्रविष्टश्शास्तचा जनानाम्'इति निगमशतनिगदतेन सर्वशरीरत्वेनावगन्तव्यः।तत्स्वरूपमपि श्रवणदशायां यावदवगम्यते न तावदेव मननदशायाम्।यच्च मननदशायामप्यवगम्यते न तावन्मात्रमेव निदिध्यासनदशायाम्।यदुच्यते 'तत्रापि दह्नं गगनं विशोकस्तस्मिन्यदन्तस्तदुपाकितव्यम्' इति अत्राप्यपहतपाप्मत्वादिगुणाष्टकाविर्भावे सत्यपि समाध्यवस्थावलम्बनीयं सकलमपि सोख्यं वैकुण्ठविसिनो देवीभूषणायुधपरिजनपरिच्छदादिसकल- -विशेषणविशिष्टस्य सर्वतः परिबृढस्य 'पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि' इति विभूतिद्वयाधिपत्येन निर्णीतस्य भगवतोऽनुभवसिन्धौ पृषतलवायते।अयमत्र शब्दान्वयः--- स्वस्मिन् स्वात्मिनि अनघगुणनिधौ स्वदोहिनि परमात्मनि तद्विभूतिद्वये वा नित्यविभूतौ लीलाविभूतौ वा यत् समाधौ योगदशायां द्दष्टं तन्मुक्तानुभूतेः पृष्टवदेव भवतीति ।तेनोभयविभूतिविशिष्टपरब्राहृानुभूतेरूत्तर कालेभावित्वेन पुरुषार्थत्वं युज्यत इति भावः।ननु पूर्वं दुःखत्वेन द्दष्टमेव पश्चादपि द्दश्यते कथं तस्य पुरुषार्थत्वमित्याशङ्क्याह--- कृत्स्न मिति।भगवद्विभूत्यन्तर्गतं वस्तु स्वभावतः प्रतिकूलमेव किञ्चिन्नास्ति अपि तु पित्तोपहतस्य क्षीरमिव कर्मानुबन्धादेतावन्तं कालं प्रतिकूलतया भाता सेयं विभूतिः नित्यविभूतेस्तु भानमेव नाभूत् परञ्ज्योतिरुपसम्पन्नस्य तु सा चेयञ्च विभूतिद्वयं भगवच्छेषत्वानुसम्धानाविर्भाबेन निरतिशयसुखात्मकतया भाति।तत्र द्दष्टान्तमाह--- शर्करे ति। विभूतिद्वय मत्र सुधासिन्धुः शर्करौधः पुनरपहतपाप्मत्वादिगुणाष्टकविशिष्टो भगवान्।अथवा भगवानेव सुधासिन्धुः अपहतपाप्मत्वादिगुणाष्टक -पूर्वकाप्राकृतदेवीभूषणायुधपरिच्छददेशविशेषादयश्शर्करास्थानीयाः।तथा च सकलविशेषणसम्पन्नस्य श्रीनिवासस्य भगवतो वैकुण्ठवासिनोऽनन्तगरुडविष्वक्सेनादिभिरन्तरङ्गपरिकरैरनवरतसेव्यमानस्य नित्यसेवाहेवाकिनामस्माकं पुरुषार्थाभावमनुवदन्नत्यन्ताप्रसिद्धदेशवासित्वादशेषानुपलम्भेन कूपोदरकूर्म इत्यपहसन्त्याचार्याः।तस्मादति घृणार्हः

कृपायोग्यः।अनर्थप्रवणजनाः खल्वात्मविद्भिरनुग्राह्राः स्मर्यते हि- 'आत्मद्रुहममर्यादं मूढमुज्झितसत्पथम्।सुतरामनुकम्पेत नरकार्चिष्मदिन्धनम्।।' इति।।

99. अनादिसिद्धस्य स्वाभाविकस्वरूपस्योपाधिवशादन्यथाभावे सिद्धे पश्चादुपाध्यपगमे सिद्धे पुनः पूर्वाकारप्राप्तिस्स्यात् सचाकार उत्तरस्मिन्काले नित्यमेवानुवर्तत इत्यस्मिन्नर्थे लोकद्दष्टान्तमाह--- मल्लि ति।मल्लिका हि मध्ये किंशुकादिसुषिरप्रवेशरूपोपाधिवशात् शुद्धप्रसून जनकस्वभावं मुक्त्वा रक्तप्रसूनं जनयति पुनश्च रञ्जकोपाधिमुक्ते समये सञ्जाते शुद्ध मेव प्रसूनं जनयति

एवमनन्तगरुडविष्वक्सेनादिवज्जीवोऽपि शुद्धस्वभावस्स्वयमनादिकर्मवशात् स्भाविकरूपतिरोधानं प्राप्नोति उपाधिविनिर्मोक्षे पश्चाज्ज्ञानविकासमुपलभते।तदिदमाह--- तद्व दिति। नाथानुकम्पा सू रितुल्यं फलं जनयती त्यन्वयः।अत्रायं विशेषः---जीवानां नित्यमेव सूरिवद्भगवदनुभवयोग्यत्वे सत्यपि अनादिप्रतिबन्धादननुभवः प्रतिबन्धनिवृत्तौ सूरितुल्यानुभवसिद्धिः।मल्लीपुष्पादौ पूर्वमपि शुद्धिर्मध्ये त्वौपाधिकाकाराविशेषप्राप्तिः पश्चात्स्वाभाविकस्वरूपसम्बन्ध इति।अत्र साक्षाद्द्दष्टान्तो 'यथा न क्रियते ज्योत्स्ना'इत्याद्युक्तो मणिरेव।मणेः खलूत्पत्तिसिद्ध एव प्रकाशः।स तु प्रकाशः कस्यचिन्मणेरुत्पत्तिमारभ्य मलतिरोहितो भवति।कस्यचित्तवदित आरभ्य मलसम्बन्ध एव नास्ति तत्तुल्या नित्याः।संसारिणस्त्वादित आरभ्य मलसम्बन्धवन्मणिप्रायाः।तेषांतु शाणोल्लेखनेन मणेरिव भगवदुपासनात्मक शाणोल्लेखनात् स्वाभाविकप्रकाशाविर्भावो भवति।उक्तमर्थं निगमयति-- तस्मा दिति। प्रतिहतिविरहात् स्वाभाविकरूपावि- -र्भावस्य तस्य च पुनः प्रतिबन्धाभावात् नित्यमेवावस्थानस्य लोके द्दष्टत्वात् ताद्दशधीविकासस्यागन्तु- -कत्वे सत्यपि प्राप्तसिद्धेः प्रतीचः प्राप्तफलस्य प्रत्यगात्मनः प्रत्यापन्नस्वदायक्रम इह कथितः । अयमर्थः-कस्यचित्पुत्रस्य पितृधनं स्वभावतः प्राप्तं तदन्येन बलवता कुत्सितेन केनाप्युपरुध्यते पश्चादुपरोधनिवृत्तौ स्वभावप्राप्तं स्वधनं पुत्रः प्राप्नोति एवं भगवदनुभवस्य सर्वात्मनां स्वभावतः प्राप्तत्वात् तत्प्रतिबन्धककर्मनिवृत्तौ प्रतिबन्धकान्तरप्रसङ्गाभावान्नित्यमेवासावनुवर्तत इति निष्कण्टकोऽयं नीतिमार्गः।कृतकत्वेनानित्यत्वानुमानं तु 'नच पुनरावर्तते' इति प्रमाणबाधितत्वान्नरशिरःपवित्रत्वाद्युनुमान- -सौभ्रात्रमेवलभते।।

100. अत्र केचिदाहुः 'जीवात्ममात्रप्राप्तिरिति काचिन्मक्तिरस्तीति, सा पुनर्मुक्तिरेव न भवतीति दर्शयितुं तत्पक्षमनुवदति--- अर्वाञ्च मिति। कदिचि दविचारकाः स्वात्ममात्रानुभूतिं मुक्तिविशेषमगणयन् । अत्रोत्तरमाह---तत्रेति।अत्र ब्राहृानुभूतिविच्छेदस्स्वाभाविकः कर्ममूलो वेति विकल्प्योभयत्रापि दूषणमभिधेयम्।किं दूषणमित्युयोगे पूर्वमस्माभिरुक्तान्दोषानिहाचष्टे--- सन्ती ति।तर्हि कैवल्यं मुक्तिरिति कथयन्त्यैतिहासिकाः पौराणिकाश्च न केवलं त एव भवत्पक्षानुसारिणोऽपि केचिदूचुरित्याशङ्क्य सर्वोऽयं व्यवहार औपचारिक इत्याह--- तत इति।अस्तु कैवल्यं मुक्तिरौपचारिकी अथापि सालोक्यसामीप्यसारूप्यरूपेण मोक्षविशेषा भावत्कैरेवाभिधीयन्ते तत् कथमित्याशङ्क्याह--- सालोक्येति । तत्राप्यौपचारिको मुक्तिशब्दइत्यर्थः।अस्ति चात्र प्रमाणम्---'लोकेषु विष्णोर्निवसन्ति केचित् समीपमृच्छन्ति च केचिदन्ये।अन्येतु रूपं सद्दशं भजन्ते सायुज्यमन्ये स तु मोक्ष उक्तः।।'इति।अयमर्थः---न केवलं सालोक्यादिकं मोक्षः,तत्र तु मोक्षशब्द औपचारिकः।यस्तु सायुज्यं प्राप्तः, तस्य तु सालोक्यादित्रयमपि सायुज्यान्तर्गतत्वेन मुक्तिशब्दवाच्यतामुपलभते।अतः प्राप्ताप्राप्तविवेकेन सायुज्यमेव मोक्षशब्दार्थः।अन्यानि तु सायुज्यसम्बन्धादेव मुक्तिशब्दवाच्यतामुपलभन्ताम्।का नो हानिः सायुज्यं तु 'सोऽश्नुते सर्वान्कामान्सह' इति श्रुत्यैव निरुक्तम्।'भोगमात्रसाम्यलिङ्गाच्च'इति सूत्रकारोऽपि भाग्यसाम्यमेव सायुज्यमित्याह।यस्तु मोक्षदशायां साÐष्टतेति कश्चिद्विशेषोऽभिधीयते सोऽप्याचार्यैरेवान्यत्र विविच्य दर्शितः---' सायुज्यमुभयोरत्र भोक्तवयस्याविशिष्टता । साÐष्टता तत्र भोगस्य तारतम्यविहीनता ।।' इति।लोके हि भोग्यस्यैक्येऽपि भोक्तृतृष्णावैषम्यमस्ति तदप्यत्र नास्तीतीममर्थं दर्शयितुं सायुज्यान्तर्गतमेव साÐष्टत्वमनुकथयन्ति सन्तः।मृषावादिनां तु सायुज्यप्रसङ्ग एव नास्ति।उपसर्गस्य तावत्सहशब्दपर्यायत्वेव तन्मतविरोधस्सुप्रसिद्ध एव।युजिर्योग इति धातोरपि भेदगर्भत्वमविवादमेव सर्वेषामेव बादिनाम्।सयुजो भावस्सायुज्यमिति प्रत्ययोऽपि सप्रत्ययं भेदमेवाचष्टे।तस्मात्सायुज्यं मुक्तितर्मृषावादिनामित्यवयुत्पन्नानामेवालापः।तर्हि सायुज्यमित्यैक्यमभिधीयत इति रूढिशक्तिमभिदध्मह इति चेत् तदपि न रूढिशक्तिप्रतिपादकप्रमाणाभावात्, प्रत्युत 'द्वा सुपर्णा सयुजा सखाया' 'आदित्यस्य सायुज्यम्'इति वैदिकप्रयोगेषु भेदपूर्वकमेवाभिधानात्।लोके चैक्यमेव सायुज्यमिति पामरा अपि न प्रवदन्ति किं पुनः कवयः।यदि वदन्ति भवाद्दशाः, ते पुनरवयो वा कपयो वेति।।

। .4.4.2

101. सङ्गतिर्भाष्ये---'किमयं परञ्ज्योतिरुपसम्पन्नस्सर्वबन्धविनिर्मुक्तः प्रत्यगात्मा स्वात्मानं परमात्मनः पृथग्भूतमनुभवति उत तत्प्रकारतया तदविभक्तमिति विशये' इति।तदर्थविचरस्तु---मुक्तः किंमात्मानं परमात्मानः

पृथग्भूतमनुभवति उत तत्प्रकारतया तदविभक्तम्।किं साहित्यसाम्यसाधम्र्यवचनान्य- -विभागेनानुभवे विरुध्यन्ते नेति।किं पृथग्भूतस्यैव साहित्यादिकमुपपन्नं नेति।अत्र पूर्वपक्षी मुक्तदशायां भेदेनैवानुसन्धाने हेतुविशेषानाचष्टे- जीवेशा विति।अयमर्थः---'द्वा सुपर्णा' इति श्रुतिरेव जीवपरयोर्भेद- -माचष्टे।हेत्वन्तरमप्याह---
श्रुतिरि ति।सैव श्रुतिः 'सोऽश्नुते सर्वान् कामान्सह' इति मुक्तभोगं सहशब्दपूर्वकमेवाह ।सहशब्दो हि भेद एव संघटते।पुत्रेण सहागतः पितेति प्रयुञ्जते न पुनः पित्रासहागतः पितेति नापि पुत्रेण सहागतः पुत्र इति।तृतीयमपि हेतुमाह--- साम्य इति।साम्यं तावद् भेदपरम्।तदत्र परमसाम्यमत्यन्तभेदपरम्।केनापि विशेषणेन साम्ये साम्यमिति वक्तुं युज्यते।बहुभिरपि विशेषणैस्साम्ये हि परमं साम्यं सिध्यति।तेन तदपि भेदपरम्।इदञ्च स्मृतिसिद्धं 'मम साधम्र्यमागताः' इति भगवतैव साम्यपर्यायस्य साधम्र्यशब्दस्य प्रयोगदर्शनात्।तेन जीवः परमात्मनः पृथक्त्वेन प्रतिभासेतेत्याह---स इति।तदेतत्प्रतिक्षिपति--- मैव मिति।तत्र हेतुमाह- तत्त्व मिति।मुक्तिदशायां तत्त्वमेव प्रतिभाति नातत्त्वम्।अतत्त्वन्तु स्वतन्त्रभेदोऽब्राहृात्मकभेद इत्यर्थः।तेनानयोर्निर्दोषो भेदो भातु। जीवपरयोस्स्वरूपभेद इत्यर्थः।तर्हि कीद्दग्विधो भेदो निषिध्यत इत्याशङ्क्याह- सिद्ध इति।द्विधा खलु भेदः प्रतीयते ब्राहृात्मकभेदोऽब्राहृात्मकभेदश्चेति।तत्र पूर्वो भेदः 'द्वा सुपर्णा सयुजा' 'नित्यो नित्यानाम्' 'भोक्ता भोग्यम्' इत्यादिश्रुतिप्रसिद्धत्वादध्यात्मविदामङ्गीकारपदमेव।अब्राहृात्मकभेदस्तु 'अन्तः प्रविष्टाश्शास्ता जनानां सर्वात्मा' 'सर्वगत्वादनन्तस्य स एवाहमवस्थितः'इत्यादिप्रमाणसिद्धब्राहृात्मभावानुसन्धानविरोधादनादर्तव्य एव।तेनाविनाभावेनानुसन्धानं शरीरात्मभावेनानु- सन्धानमध्यात्मविदामाजानसिद्धमित्यर्थः।अयमत्रान्वयः--- देहात्मभावे सिद्धे सतितस्य जीवस्य स्वनिष्ठत्वद्दष्टिर्न हि घटते परमात्मपारतन्त्र्यानवलोकनं न सङ्घटत इत्यर्थः।।

102. अत्र पूर्वरक्षी मन्यते--'अविभागेन भगवदनुसन्धानं मुक्तिदशायामिति भवद्भिरुच्यते।तच्छØतिविरुद्ध- मेव।सत्यज्ञानादिमन्त्रे फलदशायां भेदस्यैव साक्षादभिधीयमानत्वात्।तथा हि 'सोऽश्नुतेसर्वान्कामान्सह' इति फलनिर्देशः।अत्र भोक्तृसाहित्यं वा भोग्यसाहित्यं वा सहशब्देनोच्यत इति विवेचनीयम्।भोक्तृसाहित्यञ्चेत् 'सहयुक्तेऽप्रधाने' इति ब्राहृणा सहेति सहशब्दसम्बन्धाद् भोक्तारं जीवं प्रति ब्राहृणस्स्यादप्राधान्यम्।तच्चायुक्तं सर्वस्वामिनो ब्राहृणस्स्वशेषभूतं जीवं प्रत्यप्राधान्यायोगात्'।इति। तदिदमाह--- मन्त्रोक्त मिति।भोक्तृसाहित्यवचनस्येत्थमनुचितत्वाद् भोग्यसाहित्यमेव वक्तुं योग्यमित्याह--- तस्मा दिति।अत्रौचित्ये हेत्वन्तरमाह- ब्रााहृणे ति।'ब्राहृविदाप्नोति परम्' इति विधि ब्रााहृणम् ।तस्य व्याख्यानं 'सत्यं ज्ञानम्' इति मन्त्रः।तत्र ब्राहृविदितिशब्दस्य पूर्वं व्याख्यानमकारि।परमाप्नोतीत्यंशस्य 'सोऽश्नुते सर्वान्कामान् सह ब्राहृणा विपश्चिता' इति व्याकरणं क्रियते।तेन भोग्यसाहित्यमेव वक्तुमुचितामित्यर्थः।ब्राहृणा सह सोऽश्नुत इति भोक्तृसाहित्ये वचनव्यक्तिः।ब्राहृणा सह सर्वान्कामानश्नुत इति भोग्यसाहित्ये वचनव्यक्तिः।नहि भृत्यान्प्रति स्वामिनोऽप्राधान्यमस्ति नच तद्वक्तव्यं लोकविरोधात्। अस्तु वात्र भोक्तृसाहित्यं वा विवक्षितम् उभयथापि ब्राहृतत्त्वा ज्जीवः पृथगेव प्रतीयते तथाचाविभागेनानु- सन्धानं न युज्यत इति शङ्कते--- द्वेधापी ति।तदिदं प्रतिक्षिपति--- वार्त मिति।अयमर्थः-अत्र जीवपरयोस्स्वरूपभेदो न प्रतिक्षिप्यते, सिद्ध एव स्वरूपभेदः, अपि तु स्वातन्त्र्येणावस्थानं परिह्यियते, सूत्रोपपाद्यम् त--सूत्रकाराभिप्रेतमित्यर्थः, तात्पर्ये हि शब्दः प्रमाणम्, तेनापातार्थं मुक्त्वा तात्पर्यमेव पर्यालोचनीयं विचारधौरेयैरिति।।

103. 'निरञ्जनः परमं साम्यमुपैति' इति वाक्यस्यार्थं श्रुतितात्पर्यपर्यालोचनेन निगमयति- पारम्य मिति।इह 'परमं साम्यम्' इत्यनेन सर्वथा साम्यमिति नोच्यते तेन प्रमाणानुसारेण यावदबाधितं साम्यं तावदङ्गीकार्यमित्यर्थः।अस्मिन्नर्थे लोकद्दष्टान्तमाह- ग्राव्ण इति। ग्राव्णो हेम्नश्च समधरणधृतौ तुल्यतुलाधृतौ तुल्यत्वोक्ति स्स्यात्। नैतावता वर्णसाम्यमपि स्यात्।अपि तु निष्कतदर्धादिभावेन साम्यम्।तद्व दत्रा पि जीवपरमात्मनोर्भोगसाम्यमेव नपुनस्स्वामित्वादिकमपि समं तस्य प्रमाणेन व्यवस्थितवृत्तित्वात्।तर्हि 'ब्राहृ वेद ब्राहृैव भवति 'इति साधारणसामानाधिकरण्यनिर्देशो दृश्यते सामानाधिकरण्यं तावदैक्यपरम् एवकारस्तु भेदंनिषेधति तेन जीवब्राहृणोस्स्वरूपैक्यं स्यादित्रोत्तरम्--- एव मिति।अयमन्वयः---शरीरात्मभावप्रतिपादकबहुविधा म्नायभूम्ना जीवस्य

भगव द्देहभावे स्थितवति निर्णीते सति ब्राहृैव भवतीति सावधारणोऽयं निर्देशस्साम्यमेव द्रढयति।यथा 'यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये।द्दश्यन्ते तानितान्येव तथा भावा युगादिषु ।।' इत्यत्र 'तानि तान्येव' इति सावधारणसामानाधिकरण्यशब्दः केवलं तज्जातीयत्वमेवाचष्टे नपुनस्तत्त्वमेव पूर्वोत्तरर्तूत्पन्नानां तदातदोत्पन्नत्वेन भिन्नत्वात् एवं 'ब्राहृ वेद ब्राहृैव भवति' इति ब्राहृतुल्यप्रकारत्वमेवाचष्टे नपुनस्स्वरूपैक्यं ब्राहृ तु नित्यनिर्मलम् तदभिध्यानादधुनैव निर्मलीभवति ब्राहृवेदी कथं तयोः स्वरूपैक्यमिति वक्तुं शक्यते तेन ब्राहृप्रकारत्वेन 'ब्राहृैव भवति' इति सामानाधिकरण्येनोच्यत इत्यर्थः।एवं न्यायोपपादितमर्थं प्रमाणणेनोपपादयति-- ताद्द गिति।'यथोदकं शुद्धे शुद्धमासिक्तं ताद्दगेव भवति एवं मुनेर्विजानत आत्मा भवति गौतम' इति जीवस्य ब्राहृणि ताद्दक्त्वमप्युच्यते।नपुनस्तत्त्वम्।तेन यत्रयत्र तत्त्वमुच्यते तत्रसर्वत्रापि ताद्दक्त्वमेवोच्यत इति भाव्यमित्यर्थः।।

। .4.4.3

104. 'प्रत्यगात्मनः परञ्जयोतिरूपसम्पद्य निवृत्तरोधानस्य स्वरूपाविर्भाव एवेत्युक्तम्। तत्र येन स्वरूपे-

णायमाविर्भावति तत्स्वरूपं श्रुतिवैविध्याद् विचार्यते ' इति सङ्गतिर्भाष्ये। तदर्थविचारस्तु-किं गुणाष्टक-

विशिष्टमेवास्य स्वरूपमुत विज्ञानमात्रमेव उतोभयं स्वरूपम्। किं गुणाष्टकवैशिष्ट¬ज्ञानमात्रस्वरूप-

विषयश्रुत्योः प्राबल्यदोर्बल्यविभागो यज्यते नेति। तयोः किं विरोधस्सम्भवति नेति।अत्र जैमिन्यौडुलोम्यभिमतं पक्षद्वयं प्रत्येकमुपदिश्य चयोरुभयोरपि पक्षयोस्समुच्चयं स्वाभीष्टं प्रतिपादयितु- -मारभते- ज्ञानस्य इति।अयं किल जैमिनेरभिप्रायः---'आत्मनो ज्ञानस्वरूपमात्रत्वोपदेशे तस्य स्वविषयग्रहणायोग्यत्वात् निष्फलत्वमेव तेन गुणैब्र्राहृसाम्यमिष्टमिति।औडुलोमेः पुनरयं भावः--- 'स्वरूपातिरिक्तैरभिहितैर्गुणैः किं प्रयोजनम्?तेन चिन्मात्रस्वरूपप्रकाश एवास्तु'इति।एवं पूर्वपक्षद्वयमुपन्यस्य द्वयोऽरपि पक्षयोरुभयविधश्रुत्यपात्तत्वेनावविरुद्धत्वादुभयसमुच्चयात्मकं स्वेष्टस्वरूपा- विर्भवनमघटयत्।उभयविधश्रुत्युपात्ताद्विरोधात् सिद्धतत्त्वप्रकाशा दित्यन्वयः।अयमत्र भावः---यदि जैमिनिमतमङ्गीकृत्य ज्ञानगुणकत्वादिमात्रमेवाभदध्महे तदा ज्ञानस्वरूपत्वादिप्रतिपादकश्रुतिविरोधः।यदि च तच्छØत्यनुसारेण ज्ञानगुणकत्वादिकं हित्वा ज्ञानस्वरूपत्वमात्रमेव प्रतिपद्यामहे तदा ज्ञानगुणकत्वादि- प्रतिपादकश्रुतिविरोधः।उभयत्राप्युपलम्भविरोधश्च स्यात्।तेन सर्वविरोधपरिहारार्थं ज्ञानस्वरूपत्वं ज्ञानगुणकत्वञ्च समुच्चयेनाङ्गीकृत्य मुक्तिदशायामुभयरूपेणाविर्भवनं प्रतिपद्यामह इति न कोऽपि विरोध इति।।

105. अत्र पूर्वस्य चैतस्यचाधिकरणस्यार्थविरोधमाशङ्क्य विरोधगन्धोऽपि नास्तीति व्याचष्टे पर्याया विति। अयमत्र पूर्वपक्षिणो भावः---'मुक्तिः कैवल्यनिर्वाण' इत्यादिषु मोक्षकैवल्यशब्दौ पर्यायत्वेन पठितौ तत्र कैवल्यशब्दो वस्त्वन्तराभावमेव प्रदर्शयति तत्कथं ब्राहृव्यतिरिक्तस्य जीवस्याविभागेन दर्शनं पूर्वाधिकरणोक्तं सम्भवति अस्मिश्चाधिकरणेऽपहतपाप्मत्वादिगुणाष्टकवैशिष्ट¬ेन जीवे गुणगुणभावेन भेदनिर्देशः कथं सङ्घटते।तेन कैवल्यस्येतराभावरूपस्य
धर्मिधर्मान्वयः कथं स्यात् विशेषणविशेष्यान्वयः कथं स्यात्।उक्तं चोद्यं प्रतिक्षिपति--- मैव मिति।अत्र कैवल्यशब्दार्थसद्भावं विभज्य दर्शयति--- ब्राहृे ति।पूर्वस्मिन्नधिकरणे ब्राहृस्वरूपव्यतिरिक्तस्य स्वनिष्ठत्वं नास्तीत्युक्तम्।तदेव तस्य कैवल्यम्।अस्मिन्नधिकरणे न किञ्चिद् द्रव्यं गुणरहितमस्तीत्युच्यते अत्रापि तदेव कैवल्यं निर्गुणत्वराहित्योपदेशात्।तेनोभयस्मिन्नधिकरणं विवक्षितार्थप्रतिपादनमस्तीति निरादङ्क मेवेत्याह--- अधिकरणयुगव मिति।।

। .4.4.4

106. अत्र सङ्गतिर्भाष्ये मुक्तः परं ब्राहृोपसम्पद्य ज्ञानस्वरूपोऽपहतपाप्मत्वादिसत्यसङ्कल्पत्वर्यन्त- गुणक आविर्भवतीत्युक्तम्।तमधिकृत्य तस्य सत्यसङ्कल्पत्वप्रयुक्ता व्यवहाराश्श्रुयन्ते 'स तत्र पर्येति जक्षत्क्रीडन् रममाणस्रुाीभिर्वा यानैर्वा ज्ञातिभिर्वा इति।'तदर्थ विचारस्तु-किमस्य ज्ञात्यादिप्राप्तिः प्रयत्नान्तरसापेक्षा उत सङ्कल्पमात्रमूला।किमस्य सत्यसङ्कल्पत्वं राजादीनामिव भवति उत परमपुरुषस्येव।किं सङ्कल्पा देवेत्यवधारणं राजादितुल्यतां निवर्तयितुं प्रभवति नेति। किमीश्वरसङ्कल्पवन्मुक्तात्मसङ्कल्पस्यामोधत्वं सम्भवति नेति।किमस्य जक्षणादयो व्यापाराः पुण्यपापरूपतया बन्धका भवतन्ति नेति।अत्र मुक्तस्य सोपकरणस्यैव तत्तत्कार्यकरत्वं स्यात् तथाचोपकरणापेक्षायां तस्य संसारित्वमेव स्यादित्याशङ्क्य

परिहरति- धात्रादे रित्यादिना।अयमत्रान्वयः- सत्यसङ्कल्पवृत्तेर्धात्रादेरप्युपकरणा पेक्षा विद्यते। एवं मुक्तस्यापि कार्यकरणेषूणकरणगणापेक्षा स्यात्। तथा चासावमुक्तादविशिष्टस्स्यादिति।तमिममाशङ्कितमर्थं विकल्पासहत्वेन

दूषयति- वितथ मिति।अत्रायं विकल्पः किं द्रव्याद्यपेक्षामात्रमेव भवता सापेक्षत्वमुच्यते किं वा पुण्यपापापेक्षा न तावदाद्यः सिद्धसाधनत्वादित्याह- इष्टे ति।नाप्युत्तर इत्याहत- सुकृते ति।पुण्यपापविनिर्मुक्तो हि मुक्तः, तस्य पुण्यपापापेक्षाणमस्तीति वक्तुमेव न शक्यते।यथा न्यायविदां मते चेतनकर्तृत्वे कर्मापेक्षास्ति नपुनरीश्वरकर्तृत्वे एवमत्रापि मुक्तानां कर्तृत्वे कर्मापेक्षास्तीति विरुद्धमेव।ईश्वरस्य त्वीश्वरत्वदेव कर्मापेक्षा नास्तीतिचेति मुक्तस्यापि मुक्तत्वादेव सा न स्यात् द्वयोरप्यकर्मवश्यत्वेन प्रमाणसिद्धत्वादिति भावः।ननु कर्तृत्वान्मुक्तस्येच्छाविधातः कदाचित्स्यात्;न स्यात् केन कर्मणा विधातसम्भवः।तर्हीश्वरेच्छया विधातस्स्यादित्याशङ्क्याह--- देवे ति।मुक्तः खलु 'इमाँल्लोकान् कामान्नी कामरूप्यनुसञ्चरन्' इति भगवदनुवर्तकत्वेनैव श्रूयते।अतस्तस्य भगवद्वाञ्छयेच्छाविधातस्शङ्कितुमपि न शक्यतइत्यर्थः।।

107. मुक्तस्य सर्ववस्तुसाक्षात्कारे सकलकार्यकरणे चेश्वरमेव द्दष्टान्तयित्वा दुर्बलबुद्धोन् प्रत्याययति- विश्वस्ये ति।अयमत्रान्वयः--- एतस्य विश्वस्य जन्मस्थितिलयरचना विश्वकर्तु रीश्वरस्य यथा स्यात् एव मिच्छासन्तानभेदान्नित्यमुक्तक्रियाणा मपि नियतिस्स्यात् ।नन्विच्छासन्तानस्य कार्यत्वेनोच्छेदस्स्याद् यथा प्रदीपार्चिस्सन्तानस्य, तथा च 'जक्षत्क्रीडन् रममाणः' इत्याद्युक्तो मुक्तिक्रियासन्तानोप्युच्छिद्येतेत्या- -शङ्क्य परिहरति- तस्ये ति।इच्छासन्तानस्यानुच्छेदो हि 'नच पुनरावर्तते' इत्यादिश्रुतिसिद्धत्वादपलपितु- -मेव न शकयते।अन्यथा पूर्वावधिमत उत्तरावध्यवश्यम्भावकथने तद्वदेवोत्तरावधिमतः कर्मसन्तानस्य पूर्वावधिरपि स्यात्।तथा च संसारस्यानादित्वमेव न सिध्यति।प्रमाणसिद्धत्वात् तत्परित्युक्तं वक्तुमेव न शक्यत इति समस्समाधिः।ननु मुक्तबुद्धेः पारोक्ष्यमापरोक्ष्यं वा पारोक्ष्ये बन्ध एव स्यात् आपरोक्ष्यमपि न घटते इन्द्रियजन्यज्ञानस्य ह्रापरोक्ष्यम् मुक्तस्य तु शरीरेन्द्रियादिकं न विद्यते विद्यते चेत् तन्मूलभूतं कर्मापि स्यात् तथाच पुनस्संसार एव स्यात् तथा च मुक्तज्ञानस्यापरोक्ष्यमपि न सम्भवतीत्यत्राह--- तद्बुद्धे रित्यादि।यथा खल्वीश्वरबुद्धेरीपरोक्ष्यं तद्वज्जीवबुद्धेरप्या परोक्ष्यं प्राप्तम्।तदेतावन्तं कालं कर्मणा सङ्कुचितम्।अधुना प्रतिबन्धकं निवृत्ते स्वाभाविकं स्यादिति।

108. अत्र सत्यसङ्कल्पत्वे सत्यपि प्रबलप्रतिघातकसद्भावे लोके प्रतिहतिद्र्दश्यते, एवं मुक्तेऽपि प्रबलप्रतिघातकसद्भावात् प्रतिहतिस्स्यादित्याशङ्क्य प्रतिघातकत्वं पुण्यपापयोरेव, तयोस्तस्मिन्नभावात् प्रतिहतिशङ्कैव न स्यात्।अस्ति किञ्चित् व्यापारतारतम्भं मुक्तानाम्।तदस्तु नाम तावता न भोगसाम्यं बाध्यते।सर्वेषामपि मुक्तानां प्रतिबन्धकाभावेनासङ्कुचितज्ञानत्वादिति दर्शयति--- प्रत्यूहार्हा इति।शब्दान्वयस्तु--- सत्यसङ्कल्प त्वे सत्यपि प्रादेशिक सुकृतिनः कालविशेषसुकृतिनोऽपि प्रत्यूहार्हाः । अन्यदुपक्रान्तमन्यदापतितमितिन्यायेन अन्याभिप्रायेण प्रवृत्तानामन्यदेव जायत इति दर्शयित- मत्र्यारम्भे ति। मत्र्यः- पुत्रादिः।पुत्राद्यरम्भस्पृहया कर्मानुष्ठाने कर्मकर्तृसाधनवैगुण्यादिना शत्रूणामेवारम्भ- -दर्शनादित्यर्थः।अथवा मत्र्यस्यारम्भस्पृहादौ तद्विरोधिविविधप्राणिसृष्ट¬ादिद्दष्टेरि त्यन्वयः। अन्यचिन्तायामन्यारम्भे नियामकमूलाभावाद् व्यापारनैरर्थक्यमेव स्यादित्याशङ्क्य नियामकमेव दर्शयति- तेनेति। अमीषां संसारिणां जीवानां प्रवृत्तानां साफल्यं वैफल्यं विपरीतफलञ्च प्राचीनपुण्यपापाभ्यामेव भवति। मुक्तस्य तु पुण्यपापे न स्तः।तस्य चिकीर्षा नियतमेव सफलमेव श्रुतिरपि कथयति।ईश्वरस्ति तदिच्छामेवानुच्छिन्न प्रवृत्तिमातनोतीत्याह- मुक्तस्ये ति।ननु मुक्तस्येच्छाविधाताभावेऽपि व्यापारतारतम्य- मस्त्येव तेन भोगतारतम्यामपि स्यादित्याशङ्क्य परिहरति--- तारतम्य मिति।नहि व्यापारातारतम्यमेवापवर्गे दोषः यदि भोगतारतम्यमस्ति तदा हि दोषस्स्यात् नहि नटवृत्तिर्नटस्यैव सन्तोषमातनोति, अपि तु तद्दर्शिनामन्येषामपि एवं सर्वेषामपि मुक्तानां भगवदनुसञ्चरणादिव्यापारस्सा- धारण्येन सन्तोषकारणमिति भागसाम्यं सिध्यत्येव।राजकुलेषु वर्तमानाः खलु प्रत्येकं स्वाधिकारानुरूपेण व्यापारेण राजानं सेवन्ते सन्तोषस्तु सर्वेषां साधारण इति करतलामलकमेतत्।।

109. अत्र कश्चिच्चोदयति---सूत्र इति।'सङ्कल्पादेव तच्छØतेः।अत एव चानन्याधिपतिः' इति सूत्रद्वये मुक्तोऽनन्याधिपतिः कथितः। तेन तस्य शेषी न स्यात्।किञ्च 'स स्वराड्भवति' इति श्रुत्यैव मुक्तः

स्वतन्त्रत्वे नोक्तः । अतः पूर्वप्रतिष्ठापितानां परमपुरुषशेषित्वपारतन्त्र्यादीनां सर्वेषामप्यर्थानां विहति स्स्यात्।अत्रोत्तरम्- मैव मिति।प्रतिक्षेपप्रकारमाह--- नाथे ति।अस्मिन्नधिकरणे भगवद्व्यतिरिक्तान् प्रति पापकृत श्शेषभावो जीवस्य प्रतिक्षिप्यते तथैव तत्पारन्त्र्यमपि।'पतिं विश्वस्यात्मेश्वरम्' इचि यः पठितौ विश्वस्य पतिः तस्य बाध्य मेव न भवति।अतो मुक्तस्य भगवच्छेषत्वपारतन्त्र्ययोर्न कोऽपि विरोध इति।

। .4.4.5

110. अत्र भाष्ये सङ्गतिः---'किं मुक्तस्य देहेन्द्रियाणि न सन्ति उत सन्ति अथवा यथासङ्कल्पं सन्ति न सन्ति चेति विशये' इति।तदर्थविचारस्तु---किं मुक्तस्येत्यादिः प्रथमविचारः।तदर्थं विचार्यते---'
स एकधा भवति' इत्यादिश्रुतिरशरीरत्वश्रुतिं सङ्कोचयितुं शक्नोति नेति।किं 'स एकधा भवति' इत्यादिवाक्यं मुक्तस्य सशरीरत्वं प्रतिपादयितुं प्रभवत्युत न।प्रतिपादनेऽपि किं सशरीरत्वमात्रं प्रतिपादयत्युतैतच्छरीरत्वमवगमयतीति।तदर्थमेकधाभवनत्रिधाभवादिकं मुक्तस्य शरीरेण विना सम्भवत्युत न।अत्र बादरिजैमिनिमताभ्यां पूर्वपक्षमनुवदति--- मुक्त इति।'अशरिरं वाव सन्तं न प्रियाप्रिये स्पृशतः'इति क्वचि द्वाक्ये मुक्तोऽशरीरत्वेन प्रोक्तः । अथ तस्यैव मुक्तस्य 'स एकधा भवति त्रिधा भवति' इत्यादिवाक्ये बहुधासम्भवश्च श्रूयते।क्वचित्पुनश्शरीरेन्द्रियसाध्यं गानक्रीडादि च 'एतत्साम गायन्' इत्यादिवाक्ये प्रतिपाद्यते।तत्त द्वाक्यानुगुणमार्षं मतद्वन्द्वं निरस्यन् बादरिमतमशरीरत्वनियमं जैमिनिमतं सशरीरत्वनियमञ्च निरस्यन् सूत्रकारः स्व मतं यथावद्दर्शयतीत्यह--- स्वच्छन्दस्ये ति।यथेष्टं सशरीरत्वमशरीरत्व ञ्चोभय मपि तुल्यम्।अयमभिप्रायः---असङ्कुचितब्राहृानुभवहरूपेपुरुषार्थं न शरीरपेक्षा, सर्वदेशसर्वकारसर्वावस्थोचितभगवत्कैङ्कर्ये पुनः 'इमांल्लोकान्' 'जक्षत्क्रीडन् रममाणः' इत्यादिकश्रुत्युक्ते शरीरापेक्षेति।ननु सशरीरत्वमप्यङ्गीकृतञ्चेत् 'न ह वै सशरीरस्य सतः' इत्युक्तप्रिया- प्रिययुक्तत्वमपि स्यादिति पुनरावर्तते संसार इत्याशङ्क्याह---स्यादिति।अयमर्थः---यदि सशरीरत्वमात्रं संसारः, तर्हीश्वरस्यापि संसारस्स्यात्।अपि तु कर्माधीनशरीरत्वं संसारः।ईश्वरवन्मुक्तस्यापि स्वच्छन्दस्य सङ्कल्पमात्राधीनशरीरत्वेऽपि संसारगन्धानवकाश इति रमणीयमेतत्।।

111. ननु बादरिपक्षोऽपि स्वाभिमत एव तथा जैमिनिपक्षोऽपि एवञ्च सति सूत्रकारेण तत्पक्षप्रतिक्षेपेण स्वपक्षतया कोऽयं पक्षस्स्थापित इति चोदनायां शिष्यप्रतिबोधनार्थं स्वपक्षं पुनरपि विशिष्य दर्शयति--- मोक्ष इति।अयमत्र शब्दान्वयः--- मोक्षे पुण्याद्यभावात् तदुपधिकवपुर्वर्जितत्वं बादरिणा कथितं न दूष्यम्, तद्वद् दुःखार्हदेह रहिते तस्मिन्मुक्ते जैमिनिनोक्तश्शुभशरीरसत्त्वपक्षोऽपि न बाधनीय एव, इत्थं सत्यत्र मुनिना बादरायणेन कीद्दशी मुक्तस्य स्थितिस् सूत्रिता स्यादिति।अत्रोत्तरमाह--- मैव मिति।स्वाभिप्रेतमाविष्करोति--- स्वच्छन्दे ति।स्वच्छन्ददेहोऽस्तीति वचनाद् देहसम्बन्धो नियमेन नास्तीति वदन् बादरिर्निरस्तः।तेन भगवत्सङकल्पमूलस्वसङ्कल्पादेव यथायोगं शरीरी चाशरीरश्च भवति मुक्त इति सिद्धान्तः।।

112. अत्र कश्चिच्चोदयति- नाने ति।जीवस्तावदणुरिति प्रसिद्धम्।अत्र पुन रधिगतब्राहृसाम्यस्य तस्य युकपत् नानादेहो भवतीत्युच्यते यद्येवं तर्हि तेषां देहानां देशभेदेनोप्पन्नानां व्याप्तपरब्राहृस्वरूपान्वय एव समुचितः, न पुनरणुरूपजीवस्वरूपान्वयः।तेन जीवाणुत्वादो मुक्तिदशायां भज्येत।यदि तदा विभुत्वं जीवस्य तर्हि जीवेश्वरविभागो न स्यात्। अणुरवगतिमाञ्जीवईशोऽन्य इति भवतां सिद्धान्तः।तदेतद्दूषयति- नैत दिति।अत्र हेतुमाह--- धीतव्याप्तिसिद्धे रिति। स्वरूपव्याप्त्यभावेऽपि जीवस्य मुक्तितदशायां धर्मभूतज्ञानव्याप्तिसिद्धेरित्यर्थः।अयमर्थः 'प्रदीपवदावेशः'इति वदता सूत्रकारेण व्यक्तमुक्त इत्याह--- भवति चे ति।जीवस्याणुत्वेऽपि 'स चानन्त्यायकल्पते' 'स एकधा भवति' इत्यादि जगदावेशवाक् धर्मभूतज्ञानव्याप्तिनिबन्धनेत्यर्थः।ननु जीवस्य मुक्तिदशायां 'परमं साम्यमुपैति' इति वचनाद् विभुत्वमेवाङ्गाकृत्यानेकशरीरपरिग्रहः किं न स्यादित्याशङक्याह--- सौभर्यादा वित्यादि।अयमर्थः- शौभर्यादौ तावद् विभुत्वमन्तरेण धर्मभूतज्ञानव्याप्त्यैव नानाशरीरपरिग्रहः क्लृप्तः एव।एवञ्च मुक्तस्य विभुत्वं परिकल्प्य नानाशरीरपरिग्रहवर्णनाद् वरं क्लृप्तेनैव सौभर्यादिन्यायेन ज्ञानव्याप्त्या नानाशरीरपरिग्रहवर्णनमेव क्लृप्तकल्प्यविरोधे तु क्लृप्तपरिग्रह एव न्याय्य इति हि नीतिविदां निर्णयः। परमसाम्यं तु भागमात्रत एवेति सूत्रकारैरेव निरणायि 'भोगमात्रसाम्यलिङ्गाच्च' इति, न

पुनस्स्वरूपसाम्यम्।तेन व्यवस्थितमेव जीवेश्वरलक्षणकथनमिति।।

113. अणोर्जीवस्य पुनरनेकशरीरपरिग्रहानुपपत्तिमभीधाय समाधत्ते- देहाना मिति।अयमत्र शब्दान्वयः--- शरीराणां यौगपद्ये सति कथम णुर्जीवो मुक्तस्स्वयमनेकेषु शरीरेषु धारक स्स्यात्।अत्र धारक त्वकथनं नियामकत्वादेरप्युपलक्षणम्। चैतन्यद्वारतश्चे दितिधर्मभूतज्ञानद्वारेण देहधारणमाशङ्क्य मुक्तज्ञानस्य सकलार्थव्याप्तिमत्त्वेन सर्वधारकत्वमपि मुक्तस्य स्यात् तथा च जीवेश्वरविभागासिद्धिरित्याह- सकलमपी ति।अत्रोत्तरम्--- मैव मिति।नहि व्याप्तिमात्रेण सर्वधारकत्वं स्यात्।तथा सतिकालस्यापि व्याप्तत्वेन सर्वधारकत्वप्रसङ्गात्।अपितु शक्तिविशेषादेव धारकत्वम्।नहि मुक्तस्यानेकधारकत्वानुकूला शक्तिरस्ति।अपितु नियमितविषया मुक्तस्य शक्तिः --- 'जगद्व्यापारवर्जम्'

इति सूत्रकारेण तच्छक्तेः क्वाचित्कत्वेन नियमनात्।यत्रापि मुक्तबुद्धेश्शक्तिरस्ति तत्रापि सर्वशक्ते रीश्वर स्येच्छयैव सा नियम्यत इत्याह--- इच्छया सर्वशक्ते रिति।कथं तर्हि सौभर्यादेरमुक्तस्यानेकदेहपरिग्रहशक्तिरित्याशङ्क्याह- प्रागि ति। ताद्दग्योगशक्त्या ---ईश्वरदत्तयोगशक्त्येत्यर्थः।न केवलं योगशक्त्या अनादिसिद्धकर्मपरिपाकोऽ -प्यत्र कारणमित्याह--- कर्मबन्ध इति।कर्मानुगृहीतज्ञानपहरिपाकात् ताद्दशी शक्तिर्योगसिद्धिरित्युच्यत इत्यर्थः।।

114. अत्र कश्चिच्चोदयति बन्धदशायां सङ्कुचितस्य ज्ञानस्य मुक्तिदशायां विकासो भवद्भिरुच्यते, स तु सङ्कोचो विकासश्च जीवस्वरूपस्यैव कर्मभिरावेष्टनम्, कर्मनिर्मिक्तस्य तस्यैव विकासोऽपि स्यात्, किमनेन धर्म भूतज्ञाने सङ्कोचविकासपरिकल्पनेन प्रमाणविरुद्धेन'
इति।तदिदमाह- शक्ति रिति।ननु निरवयवत्वाज्जीवस्य कथं विकास इत्याश्ङ्क्य धर्मभूतज्ञानस्यापि तन्निरवयवत्वं समानमित्याह--- पुंस इति।यथा पुरुषस्या नंशापि बुद्धिरवस्था भेदेन स्मृत्यनुभूत्यादिनाना विकृति मती एवं जीवोऽपि बद्धदशायामणुः मुक्तदशायां तु विभुश्च स्यात्।अयं परिमाणभेदो मुक्तबद्धव्यवस्थया निरंशे भवदीयधर्मभूतज्ञानेऽप्यस्तीति भवतापि वक्तव्यमित्यर्थः।तदेतन्निगमयति--- तदय मिति।तदिदं प्रतिक्षिपति- न स्या दिति।प्रतिक्षिपहेतुमाह- जैनादिभङ्ग इति।जैनाः खलु देहपरिमाणो जीवस्तदातदा परिणमत इति वदन्ति।तत्तु जीवस्य विकराभावाज्जैनाधिकरणे प्रतिक्षिप्तम्।अयमत्रान्वयः--- जैनादिभङ्गे परिह्मतविकृते र्जीवस्यै करूप्यानपाया दिति आकारान्तप्राप्तिविरहस्यानपायादिति।अयमर्थः---आत्मनो निर्विकारत्वं प्रमाणप्रतिपन्नम् बद्धदशायामणोस्तस्यैव मुक्तदशायामानन्त्यञ्च तेनैव प्रमाणेन प्रतिपन्नम्। द्वयोरऽपि प्रमाणयोरविरोधो वाच्यः।स चाविरधस्स्वरूपविकाराभावाद् धर्मभूतज्ञाने श्रुतिप्रतिपन्नानन्त्यस्वीकराच्च विषयभेदेन सिध्यति।ज्ञानस्य तु साक्षान्निर्विकारत्ववचनं नास्ति।प्रत्युत सविकारत्ववटनान्येव श्रूयन्ते।ज्ञानसङ्कोचविकासप्रतिपादकश्रुतिस्मृतीतिहासपुराणवचनानामानन्त्यात्। आत्मनि तिरोधानवचनं तु ज्ञानद्वारा यथा घनपटलेन तिरोहितो धर्मरश्मिरिति।।

115. अत्र पुनश्चोदयति--- जीवस्ये ति।वृक्षेषु सर्वास्वपि शाखासु व्याप्त्या वर्तमानो जीवः काश्चन शाखा जहाति कासु चिच्छाखासु वर्तते, यत्र हानं तत्र शुष्कीभवति वृश्रः यत्र पुनरहानं तत्रोत्तरोत्तरं शाखावृद्धिरपि द्दश्यते तेन जीवस्वरूपस्य प्रहाणप्रहाणयोर्दर्शनात् स्वरूपपरिणामोऽस्तीति मन्तव्यम्। तदिदं निगमयति- तस्मा दिति।एवमुपपादनात्।आवरणाभावे जीवे 'स चानन्त्याय कल्पते' इत्यधीत मानन्त्यं न धर्मभूतज्ञानद्वराकम् अपि त्वद्वारक मेव।नेत्याह- मैव मिति।तदेवोपपादयति- शाखा स्विति।जीवस्य शाखासु प्रहाणं नाम न स्वरूपप्रहाणम्, अपितु तासु तासु भोगाश्रय त्वोपपादक- पुण्यपापविरतिरेव ततो न जीवस्य स्वरूपविकारः।अस्मिन्नर्थे द्दष्टान्तमप्याह--- क्षेत्रादिन्ययत इति।यथा क्षेत्रं परिगृहृाति जहातीत्यत्र क्षेत्रे न स्वरूपव्याप्तिर्जीवस्य परिग्रहः, नापि स्वरूपेण तद्विमोचनं हानम्, अपि तु जीवभोगसाधनत्वोपपादकधर्माधर्मपरिग्रहः क्षेत्रस्यापि परिग्रहः, तत्प्रहाणञ्च क्षेत्रप्रहाममिति। अभिमतिविरहा दिति-उपाधिनिमित्ताभिमानविशेषविरहादित्यर्थः।अयमर्थः-'वासांसि जीर्णानि यथा विहाय' इत्यादिषु देहस्य हानं परिग्रहणञ्चाभिधीयमानं कर्माधीनाभिमानविशेषमात्रम्, नपुनस्स्वरूपप्राप्तिर्नापि स्वरूपवियोगः तेन जीवस्वरूपविकारशङ्का नाङ्कुरति।।

। 4.4.6

116. मुक्तावस्थायां भेदाभेदवादिनां स्ववचनविरोधात् प्रमाणविरोधाच्च ते जैनमतवद् व्याहतं पक्षं परित्यज्य व्याघातदोशविधुरं सन्मार्गमेव भजन्त्वित्याह- एक इति।अयमर्थः---अस्मत्पक्षे व्याघातप्रमाण -विरोधशङ्काभावात् स एव सत्पथः अपरे त्वसत्पथा इति।शब्दान्वयस्तु---एको नैको भिन्नश्चाभिन्नश्च परस्मात्पृथगपृथगपि मुक्तो जीवः स्वस्वरूपेण तथा परमात्मणः पृथक्त्वापृथक्त्वस्वरूपेण स्वाभीष्टाशेषभोक्ता स्वयं भवतीति पृथकक्षीपवद् बालोन्मत्तवद् ये भ्रमन्ति।ते स्वोक्तिबाधं एकश्चानेकश्चपरस्मात्पृथगिति स्ववचनविरोधं 'पृथगात्मानं प्रेरितारञ्च' इत्यादि श्रुतिशतविहतिं तत्तदुक्तयान्यपर्यं भेदाभेदप्रतिपादकश्रुतीनामन्यपरत्वं जीवानामन्योन्यैक्यप्रतिपादनं साजात्यात्, जीवब्राहृणोरन्योन्यैक्यप्रतिपादनं तु ज्ञानानन्दादिरूपेण साजात्यात् शरीरात्मभावप्रतिपादनेन ब्राहृात्मकत्वाभिप्रायाच्च #्चिद्ब्राहृमोरैक्यप्रतिपादनं विशिष्टैक्यादित्यादितात्पर्यमालोच्य जैनावष्टम्भेन द्दप्यन्मतिकलहं मुक्तवा सन्मार्गमेव संश्रवन्त्वि ति।अयमर्थः ये भेदाभेदवादिनः कर्ममीमांसकाः, ये च तन्मतानुसारिणो भेदाभेदमाश्रयन्ते ब्राहृमीमांसकाः।उभयेऽपि जैनगान्धिमीमांसकाः।अतो जैनमतानुसारं विहाय ते सन्मार्गमेव समाश्रयन्त्विति 'भोक्ता भोग्यं प्रेरितारम्' इति तत्त्वत्रयस्य

स्वरूपभेदाङ्गीकारेण 'सर्वं प्रोक्तं त्रिविधं ब्राहृमेतत्' इति विशिष्टैक्यानुसन्धानमेव सन्मार्गः, तमेव मार्गं परिगृह्णन्त्विति।।

117. अत्र पोनरुक्त्यमाशङ्क्य परिहरति--- सर्व मिति।'स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति' इति श्रुत्यक्तम्।तदेव 'सङ्कल्पादेव तच्छØतेः' इति सूत्रकारेणाप्युपपादितं पूर्वमेव।तदेवाधुनापि स्वेच्छातो देहयोगाद्यनियतिरिति पुनः कथ्यते।तेनायं पिष्टपेषस्स्या दिति चोदकाभिप्रायः।अत्र पिष्टपेषणन्यायो नेत्याह--- तन्ने ति।तदेवोपपादयति--- अन्योन्ये ति।अयमर्थः---यदि पूर्वोक्तमेवात्राप्युक्तं स्यात् तदा हि पिष्टपेषन्यायः।पूर्वं हि 'सङ्कल्पादेव तच्छØतेः' इत्यत्र प्रयत्ननिरपेक्षं स्वसङ्कल्पादेव देहेन्द्रियादिकं भवतीत्येतावन्मात्रमुक्तम्।अत्र पुनः कर्माधीनदेराभावे कश्चिदाह। कर्मानधीनदेहसद्भावमपरस्त्वाह।अस्माभिस्तु सशरीरत्वाशरीरत्वश्रुत्योर्विषयनियमोऽभिधीयत इत्ययमधिकोऽर्थः।अर्थान्तरमप्यधिकमाह- कामत इति।सङ्कल्पादेवानेकदेरस्वीकारे कदाचित्स्वपरिकल्पितदेहपरिग्रहः कदाचिच्च परमपुरुषपरिकल्पितदेहपरिग्रह इति देरपरिग्रहा- नियतिकथने सूत्रकाराभिसन्धे र्विद्यमानत्वादधिकार्थोपदेशोऽस्तीति न पौनरूक्त्यप्रसङ्गः। अत्रा नियतिकथनवचनं समनन्तरोक्तनियतिकथनस्याप्युपलक्षणम्।।

।. 4.4.7

118. अत्र सङ्गतिर्भाष्ये 'किं मुक्तस्यैश्वर्यं जगत्सृष्ट¬ादिपरमपुरुषासाधारणं सर्वेश्वरत्वमप्युत तद्रहितं केवलपरमपुरुषानुभवविषयमिति संशयः' इति।तदर्विचारस्तु-किं मुक्तस्यैश्वर्यं जगद्व्यापारविषयमुत नेति। किं जगन्नियमनस्य मुक्तैश्वर्यान्तर्भावे 'यतो वा इमानि' इत्यादिब्रांहृलक्षणवाक्यं विरुध्यते नेति।किं मुक्तस्य सृष्टिप्रकरणासन्निधानेन जगद्व्यापारस्य ब्राहृलक्षणत्वाश्रयणं न्याय्यमुत मुक्तस्य विकारलोकानुसञ्चरण- श्रवणेन जगन्नियमनस्य ब्राहृलक्षणत्वाश्रयणमन्याय्यमिति।किं मुक्तस्य विकारलोकानुसञ्चरणं नियमनार्थमुत केवलभोगार्थमिति।अत्र पूर्वपक्षी 'परमं साम्यमुपैति' इति श्रुत्यापातप्रतीत्यनुसारेण परमपुरुषवज्जगद्व्यापारोऽपि मुक्तस्यास्त्विति शङ्कते--- यद्य पी ति।अयमर्थः-पूर्वमेव मुक्तश्शरीरलक्षणैराधेयत्वादिभिः परमात्मनश्शरीरमिति यद्यप्युक्तः।तथापि व्यापारांशे श्रुतं परमं साम्यमक्षोभणीयम् ।ततः 'सङ्कल्पादेव तच्छØतेः' इति सूत्रोक्तमुक्त सङ्कल्पादेव सर्वोत्थानं स्यादिति जगद्व्यापारस्यापि भवेदिति पूर्वपक्षिणः प्रत्यवस्थानं शारुाान्ते निकृन्तति नुदति। कृतिमदितरयोरस्स्था- पयन्भोगसाम्य मिति--- कृतिमान् जगत्कर्ता इतरो जीवस्तयोर्भोगसाम्यमेव संभवति नपुनर्जगद्व्यापारसाम्यम्, तत्साम्ये जीवेश्वरलक्षणविभागविलोपप्रसङ्गादिति।।

119. अत्र पूर्वपक्षी जगद्व्यापारसाम्याभावे विरोधमाशङ्कते-
सायुज्य मिति।अयमत्र शब्दार्थानुगमः--- निर्गुणैः खलु शब्दार्थानुगमाद् भोगसाम्य मेव सायुज्य मिति समगणि। तच्चास्माभिः प्रागेव विवृतम्।तत्र हेतुमाह--- शब्दशक्त्याद्यबाधा दिति।दर्शिता चास्माभिश्शब्दशक्तिः।अत्र निपुणैरित्यभिधानमैक्यं सायुज्यमित्यभिदधतामद्वैतिनां निरासार्थम्।अस्तु सायुज्यशब्दार्थः किं ततः प्रस्तुतस्येत्याशङ्क्याह- तच्चे ति।यदि व्यापारसाम्यं तदैव हि सायुज्यमपि स्यात्।भोजनसाम्ये हि भोगसाम्यमपि सम्भवति। उक्तमर्थं व्यतिरेकतोऽपि द्रढयति--- असती ति।तदेवोपपादयति--- स्वक्रिये ति।ईश्वरस्य हि स्वक्रियास्वाद एव सर्वदा भवतीति जीवस्य

जगद्व्यापाराभावे स्वक्रियास्वादाभा वात् कथमिव सर्वसाम्यसिद्धिः।उक्तमर्थं सोपपत्तिकं निगमयति- तस्मा दिति।तदितं प्रतिक्षिपति--- मैव मिति।तदेवोपपादयति--- तल्लक्षण मिति। अयमर्थः---यस्य तु यल्लक्षणं तत् तस्यैव स्यात् नपुनरन्यस्य तेन लक्षणभूतो जगद्व्यापार ईश्वरस्य तद न्यस्यचानुगमतो ऽनुवृत्त्या कथं स्यात् ।लक्ष्यालक्ष्ययोरनुवर्तमानं न हि लक्ष्यस्य लक्षणमिति लक्षमविदो वदन्ति।।

120. ननु व्यापाराभावे कथं भोगसाम्यं स्यादित्यत्र लोकद्दष्टप्रक्रिया तदभावेऽपि भोगसाम्यमुपपादयति-- कथ्यन्त इति।अयमत्र शब्दान्वयः---सृ ष्टिवाक्ये क्वचिदपि मुक्ता जगत्कारणत्वेन न कथ्यन्ते ।तर्हि 'इमांल्लोकान्कामान्नी' इत्यादि कामचार वचनं कथं स्यादित्याङ्क्य सोऽपि भवतु नाम तथापि न जगदारम्भकत्व सिद्धिरित्याह--- प्राधी त इति।अत्र व्यापारसाम्याभावे कथं भोगसाम्यमित्येतावदवशिष्यते तदपि नेत्याह--- सर्वे ति।भोग्यसाम्यादेव हि भोगसाम्यम्, न पुवव्र्यापारसाम्यात्।लोके हि नटनर्तनादिषु व्यापारेषु सभापतिभावुकनटादीनामनुभाव्र्यार्थसाम्येन भोगसाम्यं द्दश्यत एव।न केवलं नटस्यैव भोगः।यथा राजानं सेवमानानां राजान्तरङ्गपुरुषाणामानन्दो राज्ञा समान एव।केवलं स्वाम्यं स्वातन्त्र्यञ्च राज्ञि वर्तते नपुनरानन्दे विशेषः।इयं तु लोकद्दष्टप्रक्रिया।न केवलमियमेव, श्रुतिरपि 'स एको ब्राहृण आनन्दः श्रोत्रियस्य

चाकामहतस्य' इति वदन्ती जीवेश्वरयोश्शेषशेषिभावादिना स्वरूपवैषम्ये व्यापारवैषम्ये च सत्यपि भोगसाम्यमेवोपपादयति।तथा च द्दष्टाद्दष्टप्रमाणप्रतिपन्नं भोगसाम्यं समद्दष्टीनां विशिष्टानामिष्टमिति न कोऽपि विरोधः।।

121. अत्र केचिद्वदन्ति 'मनुष्यानन्दमारभ्य चतुर्मुखानन्दपर्यन्तमुत्तरोत्तरमानन्दादिशयमुक्त्वा 'श्रोत्रयस्य चाकामहतस्य' इति निष्कामश्रोत्रियस्याप्यनुक्रमात् स एवानन्दोऽतितिश्यते।तेन परमपदस्थानामपि निष्कामश्रोत्रियाणां मनुष्यानन्दादितुल्यानन्दवत्त्वमङ्गीकार्यम्' इति।तदितमनुवदति- निष्कामे ति। एवमनूदितं दूषयति--- तत्त दिति।उत्ते#्रोत्तरसंसारिभोगात्पूर्वपूर्वोक्तभोगस्य शतांशेन न्यूनत्वात्कष्टत्व- मित्यर्थः।नहि परमपदं गतस्य प्रसिद्धेन्द्रादिभोगादत्वयन्तावरत्वकथनमास्तिकानां गोष्ठीषु समस्ति।न परमपुरुषः परमैकान्तिनः परमपदं गतस्यापि प्रसिद्धेन्द्रादिभ्योऽप्यवरत्ववर्णनमाकलयति।नापि च तदन्तरङ्गकिङ्करा भुजङ्गमविहङ्गपतिप्रभृतयोऽपि तद्वचनमङ्गीकुर्वन्ति।'ब्राहृविदाप्नोति परम्' इति सर्वेषामपि ब्राहृविदां सर्वप्रतिबन्धनिवृत्तौ साधारणमेकरूपमेव फलं श्रुतिरप्याह 'सोऽश्नुते सर्वान्कामान्सह' इति।नह्रत्र केषुचित्सर्वशब्दसङ्कोचो न्याय्यः शब्दार्थवैरूप्यप्रसङ्गात्।तेन 'निरञ्जनः परमं साम्यमिति' इत्यशेषाणामपि ब्राहृविदामेकरूपमेव फलम्।तर्हि कथं पृथक्पृथक्फलनिर्देश इत्याशङ्क्याह--मुक्त इति। अयमत्रान्वयः मुकुन्दप्रियजनो ऽनन्तगरुडविष्वक्सेनादिर्नित्यवर्गः, त त्सद्दशे नित्यानन्दे सति तेषुतेष्वधिकारिष्वेकदेशकथनमवयुत्यानुवाद इति नीतिविदां सम्प्रदायः।यथा वैश्वानरवाक्ये द्वादशकपालादिवाक्यशेषे तत्फलविशेषकथनमवयुत्यानुवाद इति तान्त्रिकैरनुवण्र्यते तद्वदिदमपीत्यर्थः।। 122. पूर्वं मुक्तानन्दस्यानन्त्यदेकरूप्यमुक्तं तदेव श्रुत्वा व्यक्तमुपपादयन् सत्सम्प्रदायग्रन्थमपि तत्र प्रमाणयति--- आनन्दानन्त्य मिति।' यतो वाचो निवर्तन्ते' इत्यादिवाक्यं परमपुरु षानन्दस्य मुक्तानुभाव्यस्या नन्त्य मेव वदति।कथमिह वेदवेद्यस्य तस्यानन्त्यमित्याशङ्क्याह--- श्रान्तिमात्रा दिति। 'यद्वा श्रमावधि' इत्यस्मिन् श्लोके यामुनाचार्यै र्भगवदानन्दस्य कार्त्स्न्येन वेदवेद्यत्वं नास्ति वेदोऽपि श्रान्तिपर्यन्तमेव भगवदानन्दमनुकथयति।तद्वन्ममापि श्रान्तिपर्यन्तमेव भगवदानन्दानुकथनं युज्यत इत्यप्युक्तम्।ननु मनुष्यानन्दादिवदुत्तरोत्तरं विधिषतकल्पन्या भगवदानन्दस्य कार्त्स्न्येन वर्णनं कर्तुं शक्यत इत्याशङ्क्य तदपि नेत्याह--- विधिशतवचन इति।विधिरप्यल्पीयानेव,अल्पीयसश्शतसङ्ख्याक- स्याप्युतरोत्तरकल्पनेऽप्यल्पत्वं न निवर्तते।तेन ब्राहृानन्दस्य कार्त्स्न्येन कथनं कदापि न योयुज्यते। उपक्रमोपसंहारयोरुभयोरपि तुल्यप्रवृत्तित्वात्।तदिदं 'उपर्युपर्यब्जभुवोऽपि पूरुषान्' इति यामुनाचार्यवचन एव स्पष्टमेवोक्तमित्याह---तच्चेति।श्रुतिः स्वल्वेवं विचारयति---एकमब्जभुवमवधीकृत्य ततोऽपि शतगुणितानन्दत्वेनान्यमब्जभुवजन्यं वा कञ्चित्कल्पयामि ततश्चान्यं ततोऽपि चान्यम् एवं सर्वदाकल्पनेऽपि तत्तुल्यत्ववचनेन भगवदानन्दस्यापरिमितत्वं सिद्धं तेन किमनेनायासेन।प्रथममेव केनापि प्रकारान्तरेण

भगवदानन्दानन्त्यं कथयिष्यामि।तदिदमेव प्रकारान्तरं यद्व्यतिरेकमुखेनानन्त्यं कथयामीति 'यतो वाचः' इति वाक्येन व्यतिरेकमुखेन कथितवती।अत्र सुखप्रतिपत्त्यर्थं यामुनाचार्याभिप्रेतं स्फुटाभिहितञ्च द्दष्टान्तद्वयमाह--- यष्ट् येति।आकाशो हि यष्ट¬ा न मीयते तद्वत्परब्राहृानन्दोऽप्यल्पी- -यसा मनसा न मीयत इत्येको द्दष्टान्तः।अपरस्तु 'को मज्जतोरणुकुलाचलयोर्विशेषः' इति स्फुटमेवोक्त इत्याह--- तच्चेति ।।

123. अत्र जगद्व्यापारवर्जमित्युक्तस्यार्थस्य विशदप्रतिपत्त्यर्थं मुक्तस्य जगदुपादानत्वाभावेन जगद्व्यापारवर्जनम्।व्यापाराभावेऽपि भोगसाम्यं प्रागुक्तमेव प्रकटमुपपादयति- विश्व मिति।अयमन्वयः- विश्वं मुक्तस्य तावद्देह एव न भवति। मुक्तापृथक्सिद्ध्यभाव स्य स्फुटमेव विश्वस्मिन्नुप लम्भात् तेना सावुपादान मिति कथयितुं नोचितः ।तस्य सर्वशक्तित्वा भावात्।ननु मुक्तस्येच्छाविघाताभावो भवद्भिरेव महता प्रयासेनोपपादितः, अधुना पुनः प्रायेणेच्छाविघात एवोच्यते उपादानादिभावासम्भवादिति तत्कथमित्याशङ्क्याह- नात्मेति ।अयमर्थः---मुक्तो हि तत्त्ववेदी तेन शक्यमेव
चिकीर्षेन्नाशक्यम् अतोऽशक्यविषये नेच्छाविघातो मुक्तस्य।यत्तु शक्यं तच्चिकीर्षेदेव तत्र तस्येच्छाविघातो नास्तीत्याह--- तदितरविषय इति।अयमभिप्रायः---भगवान्खलु मुक्तस्याभिप्रेतेषु कैङ्क्र्यादिषु कर्तव्येषु यथाभिमतं पितृलोकादिकरणेषु च नेच्छां विहन्ति तेन मुक्तस्येच्छाविघाताभावः।न ह्राकाशनिगरणमप्यभिलषति मुक्तः अनभिज्ञत्वप्रसङ्गात्।अशक्याभिलाषादन्यत् किमनभिज्ञत्वम्।ननु तर्हि व्यापारसङ्कोचे मुक्तस्य रससङ्कोचोऽपि स्यादित्याशङ्क्य पूर्वमेव बहुवारमुक्तमुत्तरमेव बारप्रायस्य चोदकस्य पुनरप्यनुग्रहादनुवदति--- व्यापार इति।नहि राजास्थानमातस्थुषामधिकारभेदेऽप्यानन्दवैषम्यमस्तीति बहुशोऽप्युक्तमस्माभिरिति।।

124. उक्तमर्थमन्तेवासिनामत्यन्तवैशद्याय सार्वभौमप्रसाद द्दष्टान्तेन द्रढयति---तत्तदिति। यथाधिकारमुचित सेवाविशेषे सति स्थिरपरिणमितस्सार्वभौमप्रसाद स्सेवकानां साम्यं सूते ।तत्राप्यनु- चिताभ्यर्थनानिवारणाय तदेव साम्यं विशेषयति- स्वय मिति।नहि भृत्यस्स्वयं स्वामिचिह्नमपि च्छत्रचामरादिकं सिंहासनाधिरोहणमभिवाञ्छति। एव मेव दयालुं देवं शरणमुपगतै रध्यात्मविद्भिर्लभ्यते। अनन्यलभ्या 'भक्त्या त्वनन्यया' इत्युक्तैरेवाधिकारिभिर्लभ्या नापरैरधिकारिभिः।'नच पुनरावर्तते' इत्यादि श्रुत्यैव निर्धूतावृत्तिशङ्का निरुपधिकरसा देशकालाद्युपाधिरहितनिरतिशयरसवती सख्यवस्था श्रीपतित्वशेषशायित्वाद्यसाधारणभगद्गुणराहित्येन सव्यवस्था। अवस्था सर्वदेशसर्वकालसर्वावस्थोचितत- सर्वविधकैङ्कर्यलाभावस्थेत्यर्थः।।

125. एतस्मिन्पादेऽधिकरणषट्कमर्थभेदादुक्तम्, अपरे पुनस्सप्तममप्यधिकरणमेकरणमेकसूत्रमित्याहुः 'अनावृत्तिश्शब्दादनावृत्तिश्शब्दात्' इति।तत् प्रायेण भाष्यकारानभिमतम्।अधिकरणप्रयोजनञ्च न भवतीत्याह-- अत्राहु रिति।अयमत्र शब्दान्वयः--- अत्रानावृ त्तिप्रतिपादकमन्त्यं सूत्रं पृथगधिकरणं केचिदाहुः ।तत्र हेतुरपि वदन्ति- आञ्जस्यलाभा दिति सूत्रस्वारस्यलाभादित्यर्थः।पूर्वाधिकरणे समाप्ते पुनः पुनरावृत्तिशङ्क्याधिकरणान्तरमारभ्यत इति सूत्रस्वारस्यमस्तीति भावः।अत्रानुग्राहकं हेत्वन्तरमस्तीत्याह --- अस्ती ति।अयमत्र भावः---'इमं मानवमावर्तं नावर्तन्ते' इत्यस्मिन्वाक्ये द्दश्यते हीममिति पदं, तेनावृत्तिरस्ति एतल्लोकप्राप्तिमात्र नास्तीति द्योत्यते तेनावृत्तिशङ्कयाधिकरणोत्थानमिति पृथगधिकरणारभ्य इति।अत्रोत्तरमाह--- भाष्यादो तन्न द्दष्ट मिति।तर्हि 'अनावृत्तिश्शब्दात्' इति सूत्रस्य पृथगधिकरणत्वाभावे पूर्वाधिकरणशेषत्वं वाच्यम्, तच्छेषत्वं न द्दश्यत इत्याशङ्क्याह--- भवती ति।कथं पूर्वशेषत्व मिति पुनराशङ्क्याह- स्यादि ति।अयमत्र भावः---सत्यसङ्कल्पस्य जीवस्य पुनरावृत्तौ सत्यां पूर्वाधिकरणे पूर्वपक्षिणोक्तं परमशाम्यप्ताशङ्कितुं शक्यते परमपुरुषोऽपि कश्चित्सत्यसङ्कल्पोऽ- स्मिल्लोके वर्तते अयमपि कश्चित्सत्यसङ्कल्प इति तयोर्जगद्व्यापारेणात्यन्तसाम्यमिति, एतच्छङ्कानिवाराणार्थं मुक्तस्यानगमनमेव निषिध्यते।केवलं वैकुण्ठे भगवन्तं सेवित्यैव वर्तत इति पूर्वाधिकरणशेषत्वसिद्धिरेव तस्य सूत्रस्येति।अत्रायं निर्णयः---'इमं मानवमावर्तं नावर्तन्ते' इत्यत्रेममितिशब्दः कृत्स्नस्य मानवावर्तस्योपलक्षणार्थः।सर्वकर्मविनिर्मुक्तस्य मुक्तस्य क्वचिदपि कर्माधीनपुनरावृत्तिप्रसङ्गाभावात् 'इमान् लोकान्' इत्यत्र स्वच्छन्दकैङ्कर्यरूपानुगमनाङ्गतयोक्तं स्वच्छन्दपुनरावर्तनमपि सर्वत्र समानम् 'इमान् लोकान्' इत्यस्मिन्नेव लोके

पुनरावृत्तिश्रवणादिति।। 126. ननु 'अक्षय्यं हवै चातुर्मास्याजिनस्सुकृतं भवति' इत्यर्थवादचनवत् 'नच पुनरावर्तते' इत्यादिकमपि चिरकालावस्थायित्वमात्रेण चरितार्थं स्यादित्याशङ्क्य सर्वकर्मविनिर्मुक्तस्य पुनरावृत्तिप्रसङ्गाभावान्नित्य- मेवन कर्मकृतां पुनरावृतिं्त निषेधतीति दर्शयति--- सर्गादी ति।अयमत्रान्वयः-सृष्टिस्थिति संहारावर्त- लीलारससहचरिते दण्डरास प्राये संसारिपरिवर्तने नियुक्तं जीवं द्दष्ट्वा तुष्टबुद्धिर्भगवांस्तस्य परितोषिकप्रदानमिव संसारिमोचनोपलम्भसौख्यं प्रदाय सायुज्य धन्यं तमेव भुनक्ति परिपालयतीत्यर्थः। सर्वेषामेव कर्मणामत्यन्तोपशान्तेः 'नच पुनरावर्तते'इति वाक्येनैव भगवान्न पुनरावर्तयत्येनं मुक्तमित्याम्नाते सति 'अक्षय्यं हवै चातुर्मास्य' इत्याद्युक्ताक्षय्यफलकथनादिप्रयुक्तशङ्क्या उपशान्तिस्स्यात्।अयमर्थः---कृत्स्नकर्मविनिर्मोकाभावे हि 'नच पुनरावर्तते' इति वाक्यस्य यथाकथञ्चिदन्यथाकरणं स्यात् कृत्स्नकर्मविनिर्मोके प्रतिपन्ने सति अपुनरावृत्तिवचनं यथाश्रुत्यैव साधीयानयं मार्ग इति।।

127. अत्रोक्ताधिकरणषट्कार्थविशेषान् विभज्यानुकथयति--- स्वाविर्भाव इति। अपवर्गे स्वस्वरूपाविर्भावः प्रथमाधिकरणार्थः।एवं पञ्चभिरधिकरणैः पञ्चार्थाः प्रतिपाद्यन्ते। निरुपधि कतया नियत स्वशरीरिपर्यन्तद्दष्टिर्द्वितीये।तृतीयं च चिद्रूपस्यैव जीवस्य श्रुति शिखरप्रतितैस्स्वगुणैस् सह दर्शनम्। चतुर्थे पुनस् सङ्कल्पादेव स्वाभीष्ट सिद्धिः ।पञ्चमे तु स्वशरीररेष्वनियमेन परिग्रहः।षष्ठे पुनः परब्राहृसाम्यप्राप्तौ जगत्कारमत्वमोक्षप्रदत्वश्रीपतित्वादिब्राहृ लक्षण वर्जनमिति चतुर्थाध्यायचतुर्थपादाधि- करणषट्कार्थसारा इति।।

128. अत्र चतुर्थाध्यायार्थस्य कार्त्स्न्येन मृषावादिनां सङ्घटनमेन नास्तीत्याह-- ध्यानादि मिति।
ध्यानं भगवद्ध्यानम्। आदिशब्देन तदङ्कभूतं कर्मशमदमादिकम्।तत्प्रभावमुत्तरपूर्वाघयोरश्लेषविनाशरूपम्। उत्क्रान्तिपादोक्तं करणभृतो जीवस्य देहकाराकुटीरा न्निर्गमनम्। ब्राहृनाड¬ा गतिं सुपथा र्चिरादिमार्गेण गतिम्। स्वप्रकाशञ्च परञ्ज्योतिरूपसम्पद्य स्वेनरूपेणाभिनिष्पित्तिम्।स्वसङ्कल्पादेव स्वाभीष्ट सृष्टिम् । परममपि परब्राहृणा भोगमात्रे साम्य म्।

एताद्दशं सर्वमप्यत्रोक्तमर्थजात मन्तिमाध्यायसार भूतं मायामतस्थः कथमिव घटयेत् न कथमपि घटयेदित्यर्थः।एतस्य सर्वस्याप्यर्थस्य सगुणब्राहृसम्बन्धित्वेन निर्गुणब्राहृसम्बन्धाभावात् तस्य च निर्गुणस्य ब्राहृणः क्वचिदपि फलाध्याये निर्देशाभावच्चेत्यर्थः।। 129. पूर्वं मृषावादिनोऽन्तिमाध्यायार्थविरोधमुक्तवा तस्य त्रिकाण्ड¬ां क्वचिदपि मीमांसायां न्यायानुकूल्यं नास्तीत्याह--- मानामाने ति।कर्मकाण्डे तावन्मानभेदाङ्गप्रयुक्तिक्रमकत्र्रादिप्रतिपादनपरिपाटीमुपलभामहे। तेन भेदपर एव प्रथमकाण्डः।तथा मध्यमेऽपि काण्डे ' नाना वा दवता ' इत्यादिसूत्रकलापेन देवताभेदादिः प्रतिपाद्यते।सोऽपि मृषावादिनां विरुद्ध एव।अस्मिन्नापि ब्राहृकाण्डे गुणगुणिभेदादिदूषूकाणां सौगतादीनां तत्तदर्थोपपादनेन निराकरणमेव सर्वतो दरिद्दश्यते।तेनैतैर्हेतुभिस्सौगतादिमतानुसारेण प्रवर्तमानस्य मृषावा दस्य त्रिकाण्ड¬ां मीमांसायां न क्वाप्य वकाशः ।।

130. एवं निस्सन्देहमेव निखिलमप्यर्थमुक्त्वा क्वचित्सन्देहोऽवशिष्यते चेत् सोऽपि कालक्रमोपशाम्यति अत्र न सर्वदोपशान्तश्चेत् स तु मुक्तदशायामुपशाम्यतु नैतात्मा स्पष्टमेव प्रतिपन्नस्यार्थस्य कोऽपि विरोधः एषा खलु मर्यादि न केवलमध्यात्मशारुाप्रसङ्गः एव अनुष्ठानेष्वपि कल्पसूत्रप्रसिद्धेष्वनुसर्तव्येति दर्शयति--- त्रय्यन्ते ति। त्रय्यन्त स्तावदु दन्वान् । तदन्तस्सृतिरियञ्च कर्णधार प्रायै र्देशिकै रभिधीयते। देशिकोपदोष्टा गतिः पारं गमयतीति सुप्रसिद्धं लोके।एवं तत्त्वज्ञानदेशिकैरुषदिष्टेयं सृतिः पदवी ज्ञानपारं गमयती ति यावत्।यदत्रापरिज्ञातं तन्मुक्तावेव द्रष्टव्यम्।नहि सर्वमपि लोके प्रमाणपर्यालोचनमाचरन्तोऽपि जानन्ति।कतिकति सन्देहपदं क्रान्तदर्शिनामपि।इत्थमध्यात्मविषये मर्यादा अनुष्ठानेऽप्येषैव रीतिरिति दर्शयति--- कर्तव्य इति। कल्पकारै रपि कर्तव्येष्वर्थेषु ससंशयमेव केचिदर्थाः प्रख्याप्यन्ते नच तावता कल्पोदितं विमुच्यते।एवं तत्त्वार्थप्रतिपादनेऽपि निस्संशयप्रतिपन्नमर्थं परिगृह्र सन्तोष्टव्यमात्मविद्भिः।अवशिष्टं तु कालेनावभास्यते।अनवगतमपि परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पत्तिदशायां विशदमेवावलोकयिष्यते।अथापि स्वोपयुक्तांशबोध स्सर्वत्रापि न वितथ एवेति।।

131. इत्थं चतुरध्यायीनिर्णीतार्थं चतुर्भिः पादैर्विशोध्योपवर्णयति--- श्रुत्यन्ते ति।समन्वयाविरोधसाधन- फलानि खलु

चतुरध्याय्यर्थत्वेनोपवण्र्यन्ते।तदेकैकमेवोक्त्वा निगमयति।प्रथमाध्याये श्रुतिवाक्यानुकूलतर्क- निरूपणमकारि।तस्य च तर्कस्य गौरवनिरूपणे सर्वेऽपि शैलास्तूला यन्ते।द्वितीयेत्वध्याये परपक्षनिराकरणं क्रियते।तदेतदाह-- तत्सिद्धेति ।प्रथमाध्यायसिद्धब्राहृपरिज्ञानादित्यप्रकाशे तमस्स्तोमकल्पः प्रतिवादिनां जल्पः ।तेन परपक्षप्रतिक्षेपप्रधानं द्वितीयलक्षणमित्युक्तं भवति। तृतीयाध्या- यार्थमपि विभज्य दर्शयति- मोक्षोपाये ति। मोक्षोपाया स्सद्विद्यादयस्तेषा मैकराज्ये तदितरविधयो विद्याङ्गकर्मविधयश्शमदमादिविधयश्च किङ्करत्वं भजन्ते शेषभावं भजन्त इत्यर्थः।तेन तृतीयाध्या- यार्थोऽनुक्रान्त।चतुर्थाध्यायार्थमप्याह--- मुक्ते ति। मुक्तानन्दामृत रूपमहार्णव पृषतकणस्पर्धिनेऽन्त्ये पुरूषार्थास्स्वगर्कस्वाराज्यादिसुखानि परमपुरुषानुभवसुखमहार्णवपृषतभावं भजन्त इत्यर्थः।तेन पुरुषार्थान्तरपरित्यागेनापुनरावृत्तिलक्षणो मोक्ष एवाध्यात्मविदामादर्तव्य इत्युक्तं भवति।। 132. चतुरध्याय्यर्थमित्थं यथावदधिगतवतोऽधिकारिणः क्रमेणोमानमपवर्गपर्यन्तं फलं दर्शयति--- पारावर्य मिति। प्रथममवितथैरागमैस्तत्त्ववर्गे पारावर्यं विविच्य संसारे वैराग्यपादोक्तक्रमेण तीव्रभीतिः उभयलिङ्गपादोक्तक्रमेण परमपुरुषचरणारविन्द समधिगमे तीव्र मेव निष्पन्नरा गो भवति पुरुषः।अनेनोभयलिङ्गपादपर्यन्तं दशभिः पादैरुपवर्णितोऽर्थं उक्तः।अतः परं पादषट्कार्थं सङ्कलय्य दर्शयति--- कञ्चि दिति।सद्विद्यादिषु सपरिकरं कञ्चिद्विद्याविशेषमधिष्ठाय शान्तान्तराय स्सन् ब्राहृविद्यानिष्ठो ब्राहृ सम्पद्य वैकुण्ठवैमानिकेषु स्वयमप्यन्यतभावं प्रतिपद्य निरुपधिक मेव परवासुदेवपादारविन्दपरिचारको भवति।तस्य विशेषणद्वयमाह--- अनावृत्ति रिति 'नच पुनरावर्तते' इति श्रुतिविषयः। इत्थं श्रुतार्थः ---'येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्तवतो ब्राहृविद्याम्' इत्याचार्यमुखादधीतसर्वार्थ इत्यर्थः।।

133. स्वोक्तस्य ग्रन्थस्यापवर्गाधिरोहणहेतुत्वेन गौरवं दर्श यन्नधिकरणसारावली त्यभिहितनामधेया सेयं कृतिर्भवतां परमप दरथारोहसूतं सन्तं सन्तोषं सुवीते ति शिष्याणामाशीरूपमिदं पद्यमारचयति--- सासा विति।सुप्रसिद्धेयमित्यर्थः। सासूयतत्तत्कुमतिमतसमुन्मूलनी असूयासहिततत्तत्कुमतिमतसमुन्मूल्नी।
मूलनीतिश्रेणीनिश्श्रेणिकल्पा जगत्कारणविषयन्यायनीथीनिश्श्रेणिसद्दशी। त्रियुगपथरथारोहसूतं परमपुरुषप्राप्तिमार्गरथारोहणे सूतं सारथिम्। सन्त इति विदुषां सम्बोधनम्। सन्तापवर्गप्रशमनपटुना तत्त्वबोधेन सन्तं सन्तोषं तापत्रयप्रशमनपटुना तत्त्वज्ञानेन सहजेन सह वर्तमानं सन्तोषं सुवीत ब्राहृसूत्राधिकरणचरणाध्यायसारवलि रिति-सूत्राधिकरणपादाध्यानां

चतुर्णामपि सारसङ्ग्रहणपरम्प- रेत्यर्थः सारसङ्ग्रहणपरम्परेत्यर्थः।अनेनापूर्वग्रन्थनिर्माणस्य प्रयोजनमध्यात्मतत्त्वमधिजिगमिषतामन्तेवासिनां सन्तोष इत्युक्तं भवति।।

134. अथ पूर्वोक्तानामधिकरणानामसङ्करेण प्रतिपत्त्यर्थं ,सङ्ख्याविशेषं निर्दिश्यास्मदुक्तमर्थं पदवाक्यप्रमाणविदः कतिचिद् विदन्ति सर्वत्रापि प्रतिक्षेपमेव कुर्वाणैः क्षीबैः किमन्यै रित्युन्मत्तप्रकृतीनधिक्षिप्य ताननाद्दत्य भगवत्प्रसादमेव पुरस्कृत्य न च तेषु दुर्विनीतेषु परिहासमपि कुर्मह इति वैदग्ध्यमेव स्वात्मनः प्रकटयति--- षट्पञ्चाश दिति। षट्पञ्चाशच्छतञ्चे त्यधिकरणसङ्ख्यानिर्देशः।इत्थमे तैरधिकरणगणैव्र्यक्तसीमा- विभागेऽस्मिन् ब्राहृकाण्डे पुनरस्माभिरुक्तं कतिचिद्वे दविचक्षणा जानन्ति सर्वत्रापि प्रतिक्षेपमेव कृत्वा तावता परितुष्टैर्नष्टबुद्धिभिः किमन्यैः कृपणैः वयं पुनर्विश्वमेतत् त्रिगुणगुणनिकायन्त्रितस्वान्तनिघ्नं पश्यन्तः --- सत्त्वरजस्तमसामाम्रेडनं गुणनिका तया यन्त्रितं स्वान्तं दुष्टपुरुषचेतस्तन्निघ्नं तदधीनं पश्यन्तः लोके हि दुर्विनीताः परदोषर्शनैकान्तचिता इति पश्यन्तः। नाथे श्रीरङ्गनाथे नोऽस्माकं निर्मितप्रबन्धगुणगोरव साक्षिभूते सति ताद्दशानां दुष्टानां परिहासवचनलीलामपि न कुर्महे ।अयमर्थः---'त्वयि प्रसन्ने' इति न्यायेन केवलं भगवत्प्रसादमेव पुरुषार्थयामः।इतरे पुरुषास्स्वगुणारूप्येणान्यथा पश्यन्तु मा वा किमेतद्ब्राुद्ध्यनुसारेण निष्फलेनेति।।

135. ननु श्रीरङ्गराजादिव्याज्ञालब्जं वेदान्ताचार्यनामधेयमन्वर्थयामीत्यादावेव भवद्भिरुक्तम्।अस्मिन्प्रबन्धे शारीरकशरीरमात्रेण भवद्भिः प्रकाशितं परपक्षप्रतिक्षेपभूयस्त्वं न द्दश्यते नापि च स्वपक्षाभिमततत्त्वप्रकारपरि- कल्पनम् आचार्यपीठिकामध्यारूढैस्तदपि वक्तव्यं तत्कथमित्याशङ्क्य तत्रोत्तरमाह--- विश्व मिति।अयमर्थः--- वेदान्तविषयाणि निबन्धनान्यस्माभिरभिहितानि शतशो विद्यन्ते तत्र निबन्धनद्वितयमन्योन्यदत्तहस्तमशेषार्थोप-

पादकम् आद्यस्तावत् तत्त्वमुक्ताकलापः अयञ्चाधि करणसारवली त्यन्वर्थनामको निबन्धनविशेषः इदं द्वितयमपि परस्परोपकारकत्वेन भाव्यम् एतद्द्वितयपरिज्ञानवतामवगन्तव्यशेषी नास्ति अस्ति किञ्चिद्यदि मीमांसापादुकया- स्म दुक्तया सिध्यति तेन त्रिष्वेतेषु प्रबन्धष्वप्रमत्तैरन्तेवासिभिस्सर्वमप्यवगन्तव्यम् अवशिष्टमप्यस्मदुक्तेषु प्रबन्धानतरेषु तत्रतत्र द्रष्टन्यमिति।शब्दान्वयस्तु- विश्व मपि ' द्रव्याद्रव्यप्रभेदात् ' इत्यादिना त त्त्वमुक्ताकलापे विशदमभिहितम् । इहा स्मिन्प्रबन्धे शारीरकस्य स्वरूपं द्दढघटितं व्यूढं परस्परसङ्गत्या भेदेन वा आपादचूहमुपवर्णितमित्यर्थः।तेनेदं प्रबन्धद्वयं शिष्याणामुपादेयमित्यत्रामृतद्दष्टान्तेनोपपादयति--- तस्मा दिति। स्वकीय श्रुतममृताब्धि स्तत्र सञ्जातमिदं निबन्धन द्वयममृतमिव समुद्वान्तमुप वर्णितम्। अन्योन्यहस्तप्रदम्- परस्परोपकारकम्। अश्रान्तबद्धश्रद्धैराचार्यवद्भिः 'आचार्यवान्पुरुषो वेद'इति श्रुतयुक्तगरुभक्तिविनीतैरुत्तमाधि- कारिभिस्तत्प्रसादपरिशुद्धेन मनसा धार्य मिति।।

136. उक्तानामेतासां रुाग्धराणां ब्राहृालङ्कारकारिणीभिर्दिव्याप्सरोभिस्तुल्यतामुपपादयन् मायापयोधेः पारे वर्तमानस्य पुरुषस्य सूत्रतात्पर्यशिल्पैरलङ्कृतस्य सर्वैरपि सत्त्वोत्तरैस्सम्भावनीयत्वमुपपादयति--- इत्थ मिति। अन्वयस्तु--- इत्थं शारीरकोक्ते मार्गे समुपनतास्रुाग्धराः श्रद्धधानं श्रद्धया युक्तमेनं पुरुष मभिमुखैश्शुद्धभावैस्सूरिभिः प्रहित मर्चिरादिमार्गेण नीतम्।अत्र सूरिभिरित्यत्रत्यानामध्यात्मविदमुपलक्षणम्। अयमर्थः---अभीष्टैर्विद्वद्भिरानीतं रुाग्धरास्तावदलङ्कुर्वन्ति अर्चिरादिभिर्नीतं दिव्याप्सरस इवे ति। कैरलङ्कुर्वन्तीत्याह--- उपनिषत्सूत्रतात्पर्यशिल्पै रिति। शिल्पशब्दो ऽयमाभरणविशेषवाची।एताः किल रुाग्धरास्सूत्रेषु प्रकाशिततात्पर्यप्रकाशनेन पुरुषमलङ्कृत्य विरजातरणेन परमपदपर्यन्तं सम्भावयन्तीत्यर्थः।।

137. एतत्प्रबन्धनिर्माणस्य श्रीरङ्गराजदिव्याज्ञाविशेषलब्धत्वात् पाञ्चजन्यमिव स्वात्मानमेवं भगवान् मुखरीचकारेत्याह--- प्रज्ञे ति। प्रज्ञेति काचिद् वररुाी तस्या धम्पिल्लमल्लीपरिमलमिलितानां प्राज्ञा नामाचार्याणां सेवा, तथा समुद्यन् समुदितश्शुद्धालोकस्तत्त्वज्ञानमित्यर्थः।अत्र श्रुति रित्यध्यात्मप्रतिपादकवेदभागो विदुषां श्रवणञ्च तन्त्रेणाभिधीयते। स्वह्मद्यै स्स्वाभिमतैः एतैः पद्यैः प्रणवमहिमवत्पाञ्चजन्यक्रमेण पाञ्चजन्यवदित्यर्थः। पाञ्चजन्यो हि संस्थानेन प्रणवमहिमवान् ।शब्दे च तारत्वात् प्रणवमहिमवान् ।पाञ्चजन्यस्तु भगवदाध्मानेन शब्दायते अहमपि भगवता प्रेरित एवैतानि पद्यानि व्यरीरचम्।तेन स्वेनैव प्रेरित मामास्थानेषु मुखरीकृत्य सम्मोदतेस्म सन्तुष्यतिस्मेत्यर्थः।अतः 'पाञ्चजन्यं ह्मषीकेशः' इतिवत् परपक्षप्रतिक्षेपरूपेषु मां मुहुरपि मुखरयाञ्चकारेत्यर्थः।।

138. इत्थं निर्मितस्य स्वग्रन्थस्य प्रथमं पाराशर्यप्रसादलब्धत्वमनुवदन्नत्मसारभूतमकर्तृत्वाभिमानं पुरस्कृत्य स्वाचार्यरूपविशिष्टेन सर्वविद्याप्रवर्तकेन भगवता हयग्रीवेणैव विरचितत्वं ख्यापयति--- पाराशर्य इति।

अयमत्रान्वयः--
अवितथीनगमाचार्यनामा मुनीन्द्रो भगवान् पाराशर्यः प्रभूतादुपनिषदमृतोदन्वतस्सारभूतं यत् तद्वेदान्तसू त्रैर्निर्मथ्यादत्त ।इत्थम् एवमस्माभि र्निष्कृष्टं भाष्यकारह्म दयारूडं तदिदममृतं मम गुरुभिर्वादिहंसाम्बु- वाहैस्सह श्रामान्हयग्रीव एव तद्वक्ता तत्स्वयमेव वक्ता। वक्ते ति तृन्प्रत्ययान्तः।तेनात्र द्वितीयानिर्देशः।अत्र 'आविध्य मतिमन्थानं येन वेदमहार्णवात्।जगद्धिताय जनितो महाभारतचन्द्रमाः।।' इति श्लोकार्थो भाव्यः।।

जयति यतिराजवाणी प्रतिभटसिद्धान्तकृन्तनकृपाणी।

श्रुतियुवतीनां वेणी दिव्यपदारोहभव्यनिश्रेणी।।

आचार्यैर्निर्मितानामखिलगुरुजनग्रन्थंसंवादभाजां

पद्यानामुग्यदर्कप्रतिभटमहसामर्थतत्त्वप्रसिद्ध्यै।

व्याख्यामाख्यद्विचित्रां वरदगुरुरयं वेदसिद्धान्तवेदी

वेदान्ताचार्यसूनुर्विमतमतकथावीरसंहारसिंहः।।

इति निखिलतार्किकचूडामणिना सर्वतन्त्रस्वतन्त्रेण

श्रीमद्वरदार्यापरनाम्ना कुमारवेदान्ताचार्येण

विरचिते शारीरकाधिकरणचिन्तामणौ

चतुर्थस्याध्यायस्य चतुर्थः पादः।