सामग्री पर जाएँ

ब्राहृसूत्रार्थपद्यमालिका

विकिस्रोतः तः
ब्राहृसूत्रार्थपद्यमालिका
[[लेखकः :|]]

श्रीः
।। ब्राहृसूत्रार्थपद्यमालिका ।।

।।।।।


।।श्री:।।

।। ब्राहृसूत्रार्थपद्यमालिका ।। श्रीङ्गशठकोपाख्य यतीन्द्रपदपङ्कजम्। ध्यात्वा श्रीवीररघ्वीशशठाराति यतीश्वरम्।। नत्वा यतीन्द्रवर्याभ्यां वीक्षित: पद्यमालिकाम्। तनुते राजगोपालो ब्राहृसूत्रार्थबोधिनीम्।।

।। प्रथमाध्यायस्य प्रथम: पाद:।।

।1.1.1.

विचारात्कर्मणः स्वल्पं फलं ज्ञात्वा मुमुक्षुणा। कर्तव्या ब्राहृजिज्ञासा फलस्यानन्त्यमिच्छता।।

।1.1.2.

अस्य जन्मस्थितिलयं जगतस्तु यतो भवेत्। सर्वज्ञात्सत्यसङ्कल्पात् तद्ब्राहृेति जगौ श्रुतिः।।

।1.1.3.

शासात्रेणैवावसेयत्वाज्जगद्योनेः परात्मनः। अनुमातुमशक्यत्वमिति शास्त्रमिहार्थवत्।।

।1.1.4.

शास्त्रैककैरणत्वं तु ब्राहृणस्सूपपद्यते। पुरुषार्थतया तस्मिन् बोधकत्वेन चान्वयात्।।

।1.1.5.

सदेवेत्यादिकैश्शब्दैः न प्रधानमिहोच्यते। ईक्षतेरन्वयात् तस्मिन् ब्राहृ सच्छब्दगोचरः।।

ईक्षतिस्त्वेष गौणस्यात् सद्भवेदानुमानिकम्। इति चेन्नात्मशब्देन सच्छब्दो हि विशेष्यते।।

सदर्थोपासकस्यात्र मोक्षोक्तेब्र्राहृ तद्भवेत्। प्रधानप्राप्तिरिति चेत् मुक्तिर्नानन्दतां भजेत्।।

सच्छब्दवाच्यं न ध्येयं हेयत्वादित्यनुक्तितः। ध्येयत्वेनैव चोक्तत्वाद्ब्राहृाऽऽनन्दः सदुच्यते।।

कारणस्य तु विज्ञानात् कार्यज्ञानं भवेदिति। प्रतिज्ञायाविरोधाच्च प्रधानं तु न कारणम्।।

कारणे लयवाक्याच्च स्वात्मनो लयकारणम्। ब्राहृैवेति प्रधानं तुसच्छब्देन न कथ्यते।।

कारणाख्यायि वाक्यानां या प्रवृत्तिः प्रदृश्यते।सद्वाक्यस्यापि तत्साम्यात् सच्छब्दार्थः परः पुमान्।।

इदमात्मन एवेति श्रुतत्वादिह नो भवेत्। प्रधानं कारणं किन्तु ब्राहृैवास्य हि कारणम्।।

।1.1.6.

आनन्दमय शब्देन परमात्मा हि कथ्यते। ते ये शतमिति श्रुत्या त्वभ्यस्तानन्दवत्वतः।।

विकारार्थे मयट्शब्दान्न ब्राहृात्रेति चेन्न तत्। प्राचुर्यार्थक एवैष मयट् यस्मात् परो हि सः।।

एष ह्रेवानन्दयातीत्यात्मानन्दस्य वाक्यतः। हेतुत्व व्यपदेशाच्च ब्राहृानन्दमयो भवेत्।।

सत्यं ज्ञानमनन्तं यदुदितं मन्त्रवर्णतः। आनन्दमयशब्देन गीयते तत्परं तथा।।

ब्राहृेतरो मन्त्रवर्णैनोदितःस्वल्पधीरयम्। बहुस्यामिति सङ्कल्पानुपपत्तेर्विशेषतः।।

जीवाच्च विज्ञानमयाद्भेदेनास्य प्रकीर्तनात्। आनन्दमय इत्यत्र ब्राहृैव प्रतिपाद्यते।।

इच्छयैव जगत्सृष्टेः अचित्संसर्गतो विना। बहु स्यामिति वाक्यात्तु न जीवोऽस्य हि कारणम्।।

जीवस्यास्मिन् महानन्दे ह्रानन्दावाप्तिरुच्यते। लब्ध्वाऽऽनन्दीति शास्त्रेण ब्राहृानन्दमयस्ततः।।

।1.1.7.

आदित्येऽक्षणि योऽन्तः सपरमात्मा हिरणमयः। सर्व पाप्मोदिततिवादितद्धर्माणामिहेरणात्।।

आदित्ये तिष्टतोऽस्यैव सूर्याद्भेदोपदेशतः। तिष्टन् य आदित्य इति जीवादन्यः परः पुमान्।।

।1.1.8.

आकाशः परमात्मेति तल्लिङ्गादिह तूच्यते। परायणत्वसृष्ट¬ादिकारणत्वविशेषणात्।।

।1.1.9.

पूर्वोक्तादेव लिङ्गाच्च प्राणो ब्राहृेति कथ्यते। सर्व प्राणिप्राणनाच्च निर्देशो हि प्रसिद्धवत्।।

।1.1.10.

परो दिवो ज्योतिरिति निर्दिष्टः पुरुषोत्तमः। भूतजातस्य कृत्स्नस्य तत्पादत्वप्रकीर्तनात्।।

प्रक्रमेऽÏस्मस्तु गायत्र्याः अभिधानान्नचेतसः। इति चेन्न परस्यैव तत्साम्योपास्तये तथा।।

भूतपृथिवीशरीरादिपादोक्तेरुपपत्तितः। गायत्रीशब्दनिर्दिष्टं ज्योतिब्र्राहृेति गम्यते।।

दिवीत्येकत्र सप्तम्या पञ्चम्या दिव इत्यपि। उक्तिभेदात् परो नेति नोभयत्राविरोधतः।।

।1.1.11.

इन्द्रप्राणपदोदिष्ट (:) इन्द्रात्मा ब्राहृ भाव्यते। आनन्दामृत शब्दाद्यैः उपसंहार दर्शनात्।।

इन्द्रस्य वक्तुस्स्वस्यैव मामुपास्वेति चोदनात्। इन्द्र एवेति चेन्नात्र ब्राहृानन्दगुणान्वयात्।।

जगच्छरीरं ब्राहृेति शास्त्रज्ञानात्तु चोदना। वामदेवादिवच्चात्र मामुपास्वेति वज्रिणः।।

इन्द्रजीवप्राण लिङ्गान्नात्र ब्राहृेति चेन्न हि। उपासा त्रिविधाऽन्यत्र यथेहाख्यानतस्तथा।।

।।इति ब्राहृसूत्रार्थपद्यमालिकायां प्रथमाध्यायस्य प्रथमः पादः।।





।।अथ प्रथमाध्यायस्य द्वितीयः पादः।।

।1.2.1.

सर्वं खल्विदमित्येवं प्रसिद्धस्योपदेशतः। सर्वात्मा परमात्मैव मनोमय उदीर्यते।।

वक्ष्यमाण गुणानां तु परस्मिन्नेव संभवात्। तज्जलानीत्युपास्यत्वं परमात्मनि युज्यते।।

मनोमयो न जीवोऽत्र स्त्रष्टृत्वादेरसंभवात्। सङ्कल्पेनैव सर्वत्र बहु भावस्य कीर्तनात्।।

प्रेत्याभिसम्भवानीति कर्मकर्तृत्वशंसनात्। प्राप्योपासकयोरत्र प्राप्यं ब्राहृ हि कारणम्।।

आत्मा य एष इत्यादि षष्ट¬ा प्रथमया च तौ। निर्दिष्टौ प्रथमान्तार्थस्तयोर्मध्ये मनोमयः।।

सर्वस्य चाहमित्यादिस्मृत्या चैव ह्मदि स्थितः। जीवादन्यः स्मृतेर्दाता ज्ञानदः परमेश्वरः।।

अल्पत्वाल्पस्थानवत्वव्यपदेशात् स नेश्वरः। इति चेन्न निचाय्यत्वात् तथाऽसौ व्योमवन्महान्।।

ह्मदये वर्तमानत्वे जीवस्येव परात्मनः। दुःखादिप्राप्तिरिति चेन्नास्याः कर्म हि कारणम्।।

।1.2.2

सूचितोऽत्ता तु संहर्ता परमात्मेति निश्चयः। मृत्यूपसेचनं ब्राहृक्षत्रान्नं हि जगद्भवेत्।।

महान्तं विभुमित्यादिप्रक्रमात् पर एव सः। अत्ता चराचरस्येति संहर्ता जगतो भवेत्।।

ह्मत्प्रविष्टौ जीवपरौ बुद्धिजीवौ तु नात्र हि। गुहाहातं प्रविश्येति तयोरेव तदुक्तितः।।

तयोरेव प्रकरणेह्रुपास्योपासकत्वतः। विशिष्य वचनादत्र ब्राहृजीवौ गुहाहितौ।।

।1.2.3.

अक्ष्यन्तर्वर्तिपुरुषो जीवबिम्बरवीतरः। अमृतत्वाभयत्वादिगुणानामुपपत्तितः।।

यश्चक्षुषीति श्रुत्या च तत्स्थितिव्र्यपदेशतः। नित्यन्तृत्वामृतत्वादिगुणेभ्यश्च परः पुमान्।।

कं ब्राहृेति सुखाढ¬स्य ध्यानार्थमिह चाक्षणि। अभिधानात्स्थितेरत्र ह्रक्ष्यन्तःस्थः परः पुमान्।।

  

तस्मात् कं ब्राहृ खं ब्राहृेत्यत्राकाशस्य कीर्तनात्। अक्ष्याधारतया तस्य त्वाकाशो हि परः पुमान्।।

श्रुतोपनिषदां या हि गतिरुक्ताऽर्चिरादिका। सैवात्रोपासकस्योक्तेत्यतोऽपि स परः पुमान्।।

नियमेनाक्षण्यवृत्ते जीवादिर्नाक्षिगस्त्विह। नियन्तत्वामृतत्वादिपूर्वोक्तासंभवाच्च हि।।

।1.2.4.

अन्तर्याम्यधिदैवाधिलोकाद्युक्तिगतः परः। सर्वावेद्यनियन्तृत्वब्राहृधर्मस्य शंसनात्।।

प्रधानजीवौ नैवात्र त्वन्तर्यामितयोदितौ। असंभावित धर्माणां तयोरत्राभिधानतः।।

उभयेऽन्तर्यामिवाचि यो विज्ञाने य आत्मनि। इति ह्रक्ष्यादिवत् जीवात् भेदेनैनमधीयते।।

।1.2.5.

अदृश्यत्वादिगुणकमक्षरं परमः पुमान्। सर्वज्ञत्वादिधर्मोक्तेः सोक्षरात्परतः परः।।

स्वज्ञानात्सर्वविज्ञानादक्षरं नेतरौ भवेत्। अक्षरात्परतो जीवात्परत्वेन पृथक् श्रुतेः।।

अग्निर्मूर्धा चन्द्रसूर्यौ चक्षुषी इति चाक्षरे। सर्वदेवाद्यङ्गकत्वशंसनात्परमेश्वरः।।

।1.2.6.

वैश्वानरः परं ब्राहृ जाडरादिविलक्षणम्। ब्राहृशब्दप्रभृतिभिः सामान्यस्य विशेषणात्।।

अग्निर्मूर्धेति यद्रूपं ब्राहृण्युक्तौ श्रुतौ स्मृतौ। वैश्वानरः परं ब्राहृ तद्रूपस्मरणादिह।।

होमाधारान्तराग्नित्वश्रुतेब्र्राहृ न चेन्न तत्। जाडराग्निशरीरस्योपास्तये पुरुषस्य सा।।

लोकत्रयशरीरत्वात् पुरुषत्वेन कीर्तनात्। वैश्वानरो नाग्निदेवो न च भूततृतीयकम्।।

वैश्वानरपदेनेवाग्निशब्देनापि योगतः। बोधनादविरोधं तु ब्राहृणो जैमिनिर्जगौ।।

द्युमूर्धत्वादिमात्राभिः परिच्छिन्नत्वमत्र तु। उपासकेऽभिव्यक्तेरित्याश्मरथ्यमुनेर्मतम्।।

द्युलोकप्रभृतीनां तु मूर्धत्वादि प्रकल्पनम्। तथैवोपासनं वक्तुमिति बादरिरब्रावीत्।।

अग्निहोत्रत्वसम्पत्तेः प्राणाहुत्यास्तु जैमिनिः। उरोवेदित्वादिक्लृप्तिमब्रावीदाह हि श्रुतिः।।

द्युमूर्धादीन् अवयवान् उपासकतनौ तथा। ध्यात्वाऽऽहुत्यार्चनार्थं च वैश्वानरमिहामनत्।।

।। इति ब्राहृसूत्रार्थपद्यमालिकायां प्रथमाध्यायस्य द्वितीयः पादः।।



।। अथ प्रथमाध्यायस्य तृतीयः पादः।।

।1.3.1.

द्युभ्वाद्यायतनं ब्राहृ नाड¬ाधारं च तद्विदुः। स्वशब्दादमृतस्यैष सेतुरित्यादिकादिह।।

प्रक्रमेऽस्मिन् यदा पश्यो रुक्मवर्णं च पश्यति। साम्यं परं तदैतीति श्रुतेब्र्राहृ द्युभूधरम्।।

प्रधानवच्च जीवोऽपि द्युभ्वाद्यायतनं न हि। तद्वाचकानां शब्दानामभावादिति सिद्ध्यति।।

यदा पश्यत्यन्यमीशमिति श्रुत्या तयोरिह। भेदेन व्यपदेशाच्च न जीवः सर्वधारकः।।

परा ययेत्यादिपूर्व ब्राहृप्रकरणादपि। द्युभ्वाद्यायतनं ब्राहृ निश्चेयं नेतराविह।।

एकत्रैव तनौतिष्टन् अन्योऽनश्नन् फलं स्वराट्। अश्नन् जीवोमुह्रतीति तत्राभोक्ता परः पुमान्।।

।1.3.2.

सनत्कुमारगुरुणा नारदाय विशेषतः। जीवादूध्र्वं चोपदेशाद्भूमाऽत्र परमः पुमान्।।

प्रतिष्टितः स्वे महिम्नि भूमेति वचनादिह। अनन्याधारकत्वादिहुणवत्वाच्च तत् परम्।।

।1.3.3.

अक्षरं तु परं ब्राहृ ह्रव्याकृतधृतेरिह। ओतत्वेन च सर्वस्य प्रोतत्वेनात्र तच्छØतेः।।

प्रशासने त्वक्षरस्य विधृताविति शंसनात्। शासनात् सा विधृतिरित्यज्ञो जीवश्च नाक्षरम्।।

अदृष्टं द्रष्ट्रिति श्रुत्या ह्रन्यभावनिषेधतः। अक्षरं परमात्मा हि जगत्कारणमुच्यते।।

।1.3.4.

य ईक्षते पुरुषमित्यजरत्वादिशंसनात्। चतुर्मुखादन्य इतिपुरुषोसौ परः पुमान्।।

।1.3.5.

दहरोऽस्मिन्नन्तरिति प्रोक्तो हि दहरः परः। उत्तरेभ्यस्तु वाक्येभ्यः प्रतिपन्नगुणान्वयात्।।

तस्मिन् गतिब्र्राहृलोकशब्दाभ्यां दहरः परः। संपद्येति ब्राहृलोक इत्यन्यश्रुतिलिङ्गतः।।

असंभेदाय लोकानां महिम्नो विधृतेरिह। परस्य तस्य चाÏस्मस्तु श्रवणात् दहरः परः।।

प्राणनादिसनाथा या प्रसिद्धिः प्रबला हि सा। भूताकाशादिप्रसिद्धेरप्यतो दह्यः परः पुमान्।।

जीवस्य च परामर्शात् संप्रसाद इतीह तु। वाक्यशेषे स इति चेन्न जीवोऽनुपत्तितः।।

य आत्मापहतेत्यादि श्रुत्या जीव इहेति चेत्। तत्राविर्भूतरुपोक्त्या न जीवो दहरो भवेत्।।

माहात्म्य कथनार्थं तु ब्राहृणस्तत्र कीर्तनम्। संप्रसादस्य मुक्त्यादौ स्वरुपापादनादिना।।

अल्पत्वाल्पस्थानवत्वश्रुत्या ब्राहृ न तद्यदि। निचाय्यत्वादेवमिति दत्तोत्तरमिदं पुरा।।

परमं साम्यमित्यादि श्रुत्या साम्यानुकारतः। जीवोऽनुकर्ता दहरस्त्वनुकार्यः परः पुमान्।।

इदं ज्ञानमुपाश्रित्य मम साधम्र्यमागताः। इति स्मृत्या चानुकर्ता जीवस्त्विति न कारणम्।।

।1.3.6.

अङ्गुष्टमात्रः पुरुषः कठवल्ल्यामुदीरितः। भूतभव्यादीशितृत्वशब्दादेव परः पुमान्।।

उपासने मनुष्याणामधिककारात्परात्मनः। अङ्गुष्ठप्रमितृत्वं च ह्मदयापेक्षया भवेत्।।

।1.1.7.

देवानां च भवेद्ध्यानमर्थित्वादेश्च संभवात्। बादरायण आचार्य एवमेवेति मन्यते।।

शरीरवत्त्वे देवानां विरोधः कर्मणीति चेत्। मैवं नानावपुः प्राप्तेः सौभर्यादिषु दर्शनात्।।

देवादीनां तनोर्नाशे वेदोऽनित्यार्थयुक् भवेत्। इत्ययुक्तमिदं शब्दात् तत्सृष्टेश्च श्रुतेः स्मृतेः।।

सूर्याचन्द्रमसौ धाता यथा पूर्वमिति श्रुतेः। धाता पदं हि संस्मृत्य सृजतीत्यस्तु नित्यता।।

समाननामरुपाभ्यांपुनब्र्राहृ सृजत्यतः। अविरोधो लयेऽपीति श्रुत्या स्मृत्या च गम्यते।।

।1.3.8.

प्राप्तत्वाच्च वसुत्वस्य स्वस्योपास्यत्वतोऽपि च। मध्वादिषु वसूनां चानधिकारं तु जैमिनिः।।

ज्योतिर्होपासते देवा(:) इत्येवं ब्राहृ चिन्तने। अधिकारप्रतीत्यैषामन्यत्रानधिकारिता।।

जन्मान्तरे वसुत्वस्य प्राप्त्यर्थं स्वतनोर्भवेत्। परस्योपासनं तेषां आहैवं बादरायणः।।

।1.3.9.

हंसेनानादरश्रुत्या तदैवाद्रवणाद्गुरौ। शूद्रेत्यामन्त्रयत् शोकं दृष्ट्वा न त्वस्य शूद्रता।।

जानश्रुतेस्तु तत्रैव बहुदायित्व दर्शनात्। क्षत्रियत्वं गम्यतेऽतो न शूद्रस्याधिकारिता।।

उपरिष्टाच्च विद्यायां क्षत्रियत्वं तु गम्यते। अयाजयंश्चैत्ररथमित्यतऽभिप्रतारिणः।।

  

ब्राहृ विद्या प्रकरणे संस्कारपरिमर्शनात्। संस्कारभाववचनान्न शूद्रस्याधिकारिता।।

जाबालस्यतु शुश्रूषोः शूद्रत्वाभावनिश्चये। उपदेशप्रवृत्तेश्च न शूद्रस्याधिकारिता।।

आम्नायश्रवणाध्याययागादिप्रतिषेधतः। उपासनेप्यधीकारो न शूद्रस्येति निश्चितम्।।

न चास्योपदिशेद्धर्ममित्यादिस्मृतिस्तथा। उपासने नाधिकारः शूद्रस्येत्यवगम्यते।।

(।। प्रमिताधिकरण शेषः।। )

अङ्गुष्टप्रमितप्राणपदोक्तब्राहृजाद्भयात्। सर्वे देवा जागरूका इति श्रुत्या परः सहि।।

( अङ्गुष्टमात्रस्तु परो ज्यातिषोऽत्रैव दर्शनात्। तस्य भासा सर्वमिदं विभातीति श्रुतं यतः।। )

तस्य भासा सर्वमिदं विभातीति श्रुताविह। अत्युत्तमज्योतिषश्च दर्शनात् स परः पुमान्।।

।1.3.10.

नामरूपविनिर्वोढा ह्राकाशः परमेश्वरः। बद्धमुक्तोभयावस्थादन्यत्वेनास्य कीर्तनात्।।

प्राज्ञेन संपरिष्वक्तः सुषुप्तौ कीत्र्यते पृथक्। उत्क्रान्तौ च तथा तस्मात् जीवादन्यः परः पुमान्।।

सर्वस्याधिपतीत्यादिशब्दैश्च व्यपदेशतः। प्राज्ञश्च परमात्माऽयं जीवादन्यस्सुनिश्चितः।।

।। इति ब्राहृसूत्रार्थपद्यमालिकायां प्रथमाध्यायस्य तृतीयः पादः।।



।। अथ प्रथमाध्यायस्य चतुर्थः पादः।।

।1.4.1.

प्रधानमप्याहुरेके कारणं त्विति चेन्न हि। रथरूपेण विन्यस्ता तनुह्र्रव्यक्तमुच्यते।।

शरीरावस्थमव्यक्तं प्रवृत्यर्हं तदेव हि। तस्मादव्यक्तशब्देन न प्रधानमिहोच्यते।।

परमात्माधीनतया रथत्वादिनिरूपणम्। स्यात् प्रयोजमवत् सर्वं नाव्यक्तमिह तान्त्रिकम्।।

ज्ञेयत्वन ह्रवचनान्न प्रधानमिहोच्यते। व्यक्ताव्यक्तज्ञविज्ञानादिति तेषां मतं यतः।।

अशब्दमश्पर्शमिति ज्ञेयं तद्वदति श्रुतिः। इति चेन्न प्रकरणात् परमात्मा हि कथ्यते।।

उपासनमुपास्यं च ध्यातारं चात्र पृच्छते। उपदेशत्रयाणां तन्न प्रधानमिहोच्यते।।

महत्तत्वाग्रहो यद्वदात्मशब्दविशेषणात्। प्रधानस्याप्यग्रहस्तु परत्वादात्मनस्तथा।।

।1.4.2.

इदं तच्छिर इत्येवं चमसस्य शिरस्त्ववत्। अजाया अविशेषाच्च न परोक्ता त्वजा हि सा।।

ब्राहृकारणिका सा तु ज्योतिषाऽधिष्टितां ह्रजाम्। अणोरणीयानित्यत्र तैत्तरीया अधीयते।।

यथा स्थितस्यैकतया मधुत्वं कार्यता रवेः। अजाया अपि सृष्ट¬ादि वचनाच्च तथा भवेत्।।

।1.4.3.

पञ्च पञ्च जना यस्मिन् इति संथ्याग्रहेऽपि च। नानाभावातिरेकाभ्यां सांख्योक्त प्रक्रिया न हि।।

प्राणादयः पञ्चजना इनाद्रियाणीति निश्चिताः। प्राणस्य प्राणमित्येवं वाक्यशेषो हि दृश्यते।।

केषांचिदन्नस्येत्यादेः पाठाभावेऽपि शाखिनाम्। ज्योतिषामिति शब्देन बोध्यन्तामिन्द्रियाणि तु।।

।1.4.4.

आकाशादौ कारणत्वं सर्वज्ञस्योदितं पुरा। असद्वा इदमित्यत्राप्यस्योक्तेब्र्राहृ कारणम्।।

असद्वा इदमित्यादौ सर्वज्ञं सर्वकारणम्। समाकृष्य ब्रावीतीति ब्राहृैवात्रापि कारणम्।।

  

।1.4.5.

यस्य वैतत्कर्म चेति श्रुतं कर्म जगद्भवेत्। पुण्यादिवशगो जीवः कथ्यते नात्र हि श्रुतौ।।

जीवलिङ्दात्प्राणलिङ्गात् कारणं ब्राहृ नो भवेत्। इतिचेत्-त्रिविधोपास्तिसिध्यर्थमिति वर्णितम्।।

अस्मिन् जीवपरामर्शो जीवादन्यत्व सिद्धये। इत्याह जैमिनिः प्रश्न व्याख्यानाभ्यां श्रुतिस्तथा।।

।1.4.6.

मैत्रेयी ब्राहृणस्थानां वाक्यानामन्वयात् तदा। द्रष्टव्य आत्मा कथितः परमात्मा न तान्त्रिकः।।

प्रतिज्ञायास्तु सिद्ध्यर्थं जीवबोधक शब्दतः। ब्राहृाभिधानं तल्लिङ्गमाश्मरथ्य मुनेर्मतम्।।

जीववाचा परस्योक्तिरुत्क्रमिष्यत एव हि। ब्राहृसाम्यात्पतितः औडुलोमेरिदं मतम्।।

अवस्थितेरात्मनि च ब्राहृणो जीववाचकैः। अभिधानं युक्तमिति काशकृत्स्न मुनेर्मतम्।।

।1.4.7.

उपादानं च तद्ब्राहृ प्रतिज्ञासिद्धये तथा। सुवर्णकटकादीनां दृष्टान्तानामबाधतः।।

बहु स्यामिति सङ्कल्प श्रुत्याब्राहृैव कारणम्। उपादानं निमित्तं च जगतोऽस्येति निश्चितम्।।

उपादानं निमित्तं च भवेद्ब्राहृ जगत्प्रति। साक्षात् ब्राहृ वनं ब्राहृ वृक्ष इत्यप्युदीरणात्।।

बहुत्वकरणात् स्वस्य कर्तृत्वं कर्मता च हि। अतो ब्राहृ निमित्तञ्चोपादानञ्चेति कथ्यते।।

सूक्ष्माचेतनचिद्वस्तु शरीरस्य शरीरतः। ब्राहृणो बहुधाह्रत्र परिणामो न तत् क्षतिः।।

यद्भूतयोनिमित्यादिश्रुत्या सर्व जगत् प्रति। उपादानमिति ब्राहृ गीयते चेति निश्चितम्।।

।1.4.8.

न्यायेन चैतदन्तेन सर्वे कारणवादिनः। वेदान्ताः परमब्राहृ बोधका इति निश्चितम्।।

।। इति ब्राहृसूत्रार्थपद्यमालिकायां प्रथमाध्यायस्य चतुर्थः पादः।।

।। इति श्रीमद्वेदमार्गेत्यादिबिरुदावलीमेदुराणां श्रीमदहोबिल मठे दिव्यास्थाने चतुरधिकचत्वारिंशत्संख्यासंख्यातपट्टाभिषेकपरिमण्डितानां श्रीवण्शठकोप श्रीवेदान्त

देशिक यतीन्द्र महादेशिकानां कृतिषु ब्राहृसूत्रार्थपद्यमालिकायां प्रथमाध्यायः।।




।। अथ द्वितीयाध्यायस्य प्रथमः पादः।।

।2.1.1.

प्रधानस्याकारणत्वे त्यक्ता स्यात् कपिलस्मृतिः। इति न ब्राहृणोऽतत्वे मन्वादिस्मृतयोमुदा।।

इतरेषां मुनीनां तु प्रधानस्य जगत् प्रति। हेतुत्वानुपलब्धेः स्यात् ब्राहृैवाशेषकारणम्।।

।2.1.2.

निमित्तमात्रं ब्राहृेति वदन्ती वेधसः स्मृतिः। पूर्वोक्तेन नयेनैव प्रत्याख्याता श्रुतेर्बलात्।।

।2.1.3.

जगद्विलक्षणत्वेन कारणत्वं न सिध्यति। व्रहृणः त्त्थात्वं तु सच्च त्यच्चेति शब्दतः।।

अभिमानिविवक्षातः तं पृथिव्यब्रावीदिति। देवतास्तिरुा इत्युक्तेः प्रवेशादपि कीर्तितात्।।

क्रियादेर्माक्षिकादिभ्यो यथोत्पत्तिः समञ्जसा। जगतोऽपि तथोत्पत्तिब्र्राहृणोपिऽविलक्षणात्।।

नन्वसत्कार्यवादः स्यादिति चेन्नात्र चोभयोः। सालक्षण्यस्य नियमः केवलं प्रतिषिध्यते।।

प्रळये सृष्टिकाले च जगद्भावात्परात्मलः। जगद्दोषाः ब्राहृणोऽतो वाक्यं स्यादसमञ्जसम्।।

व्यवस्थिता गुणास्तावदात्मनश्च तनोर्यथा। जगत्तनोब्र्राहृणश्च तथैवेति समञ्जसम्।।

स्वपक्षे दोषभूयस्त्वात् परित्यज्य स्वकं मतम्। ब्राहृणकारणवादस्तु स्वीकार्यो भवताऽनघः।।

कुतर्कस्याप्रतिष्टानात्प्रधानं ति न कारणम्। ब्राहृानधिष्टितं यस्मात् त्वया वादात्प्रकल्पितम्।।

प्रबलात् तर्कसमवादात् प्रधानं सिध्यतीति चेत्। ततोऽपि बलवत्तर्कबाधान्मुच्येत नो भवान्।।

।2.1.4.

वेदापरिग्रहाश्शिष्टा(:) निरस्तास्साङ्ख्यपक्षवत्। कुतर्कहेतुमूलत्वादन्योन्यव्याहतेः पुनः।।

।2.1.5.

ब्राहृणोऽखिलदेहत्वे भोक्तृत्वं जीववद्भवेत्। नातो विभाग इति चेत् देपित्वेऽपि न भोक्तृता।।

।2.1.6.

अनन्यत्वं तु जगतो ब्राहृणः कारणादिह। वाचारम्भणमित्यादेर्मृत्पिण्डाद् घटवद्भवेत्।।

कुण्डलादिषु कार्येषु हिरण्यादुपलब्धितः। कार्यं कारणतोऽनन्यदिति वेदवितदां मतम्।।

अपरस्य तु कार्यस्य सत्वात्सूक्ष्मं स्वकारणे। अनन्यत् कारणात्कार्यम् मृदि सूक्ष्मं घटोऽस्ति हि।।

व्यपदेशादसदिति नेति चेन्न स सूक्ष्मतः। व्यपदेशो वाक्यशेषात् युक्तेश्शब्दान्तरात्तथा।।

व्यतिषङ्ग विशेषेण नामरूपान्तरस्पृशः। पट इत्यभिधीयन्ते यथा जगति तन्तवः।।

प्राणादिः स्थान भेदेऽपि वायोर्नान्यो यथा भवेत्। जगच्चापि तथा नान्यद्ब्राहृणो निजकारणात्।।

।2.1.7.

जीवत्व व्यपदेशात्तु हिताकृत्यादि दोषतः। ब्राहृणः कारणत्वं न सिद्ध्येदिति च चोद्यते।।

भेदेनास्यैव कारणाधिपाधिप इति श्रुतौ। निर्देशादधिकं ब्राहृ जीवान्नातोऽत्र दुस्स्तथा।।

अश्मादीनां ब्राहृ भावो यथा नैवोपपद्यते। तथैवाघौघपूर्णस्य जीवस्यापि न युज्यते।।

।2.1.8.

समर्थोऽपि हि साहाय्यापेक्षा दृष्टा न कारणम्। अद्वितीयं ब्राहृ तस्मात् मैवं क्षीरे यथा दधि।।

देवादयः स्वस्वलोके सृजन्ति विविधं यथा। ब्राहृापि निजसङ्कल्पात् तनोति निखिलं तथा।।

।2.1.9.

बहुस्यामिति सङ्कल्प ब्राहृ कृत्स्नं कथं भवेत्। निरंशबोधकैर्वाक्यैः सांशत्वे तु विरुद्धता।।

शब्दमात्रेण वेद्यत्वाच्छØत्युक्तं ब्राहृणो भवेत्। कारणत्वं यतः सर्वं श्रुति मीलं समञ्जसम्।।

अचिद्धर्माप्रसक्तिश्च जीवात्मनि यथा तथा। जलादौ न यथौष्ण्यादिशक्तयश्च तथा परे।।

कारणत्वं निरंशस्य प्रधानस्य भवेत् कथम्। स्वपक्षे तु तदा दोषादस्तु ब्पहृैव कारणम्।।

विचित्रसर्वशक्त्या च ह्रुपेता देवता परा। उपास्या श्रुतिसिद्धेति जगत्कारणमुच्यते।।

निरिन्द्रियत्वान्नो हेतुरिति चेत् तत् कृतोत्तरम्। न तस्य कार्यं करणमिति वाक्यात्परमात्मनि।।

।2.1.10.

सृष्टेः प्रयोजनव्याप्त्या तदभावात्परात्मनः। रुाष्ट्टत्वं परिपूर्णस्य न भवेदिति चोद्यते।।

लोकेतु परिपूर्णानां कन्दुकादि विहारवत्। ब्राहृणः परिपूर्णस्य सृष्टेर्लीलाप्रयोजनम्।।

न वैषम्यं न नैर्घृण्यं नीचादीन् सृजतः प्रभोः। कर्मानुरूपं रुाष्टृत्वात् तथा दर्शयति श्रुतिः।।

जीवाभावेनाविभागान्नास्ति कर्म तदेति चेत्। जीवस्यानादिनाश्रुत्याऽविभागोऽप्युपपद्यते।।

प्रधानपरमाण्वादि हेतुत्वे यच्च दूषणम्। न ब्राहृहेतुतायां तत् सर्वधर्मोपपत्तितः।।

।।इति ब्राहृसूत्रार्थपद्यमालिकायां द्वितीयाध्यायस्य प्रथमः पादः।।



।। अथ द्वितीयाध्यायस्य द्वितीयः पादः।।

।2.2.1.

सृष्ट¬ाद्यनुपपत्तेश्च नानुमानं तु कारणम्। ब्राहृणाधिष्टितस्यास्य जगत्सृष्टौ प्रवृत्तितः।।

क्षीराम्बुनोर्दधित्वाम्रसाभ्यां तु यथा जनिः। तथात्रापि भवेनमैवं तत्रपि प्राज्ञसंयुतेः।।

अनपेक्षप्रवृत्तित्वे सर्वदा सृष्टिरेव हि। प्रळयादेरभावाच्च व्यवस्था च न सिद्ध्यति।।

तृणादिकं यथा क्षीरं प्रकृतिश्च तथेति चेत्। वृषभेणोपभुक्तं तत्तृणं नैव भवेत्पयः।।

पङ्गुरन्धमयस्कन्तोऽयः प्रयुङ्क्ते यथा तथा। प्रधानं पुरुषश्चेति मैवं स्यात्रुाष्टृता सदा।।

सत्वादीनां गुणानां तु प्रळये समता भवेत्। गुणस्य चैकस्याङ्गित्वानुपपत्तेरसंभवः।।

प्रधानानुमितौ चात्र ह्रन्यथा यदि तत्र च। ज्ञातृत्व शक्ति विरहाद्रचनादेरसंभवः।।

प्रधानसाधनेऽप्यत्र फलाभावाद्विपर्ययः। भोगमोक्षौ च न स्यातां प्रधानेन सदा स्थितेः।।

पूर्वापर विरोधाच्च कापिलं त्वसमञ्जसम्। निर्लेपस्याऽविकारस्य द्रष्टृत्वाद्युपपादनात्।।

।2.2.2.

द्व्यणुकं परमाणुभ्यां भवतीत्यसमञ्जसम्। द्व्यणुकैश्च महद्दीर्घं इत्येतच्चासमञ्जसम्।।

कादाचित्कं च कर्मैव परिमण्डलजीवयोः। न सम्भवति तन्मूलं महद्दीर्घं न सिद्ध्यति।।

समवायाभ्युपगमात्तस्य चाप्यपृथक् स्थितेः। हेत्वपेक्षाऽनवस्थानादसमञ्जसमेव तत्।।

संबन्धस्य च नित्यत्वे संबन्धिजगतस्तथा। नित्यत्वं संभवत्येवेत्यसमञ्जसमेव तत्।।

रूपादिमत्वनियमात् परमाणोरनित्यता। घटादीनां रूपवत्वादनित्यत्वस्य दर्शनात्।।

कार्यनिश्टगुणानां तु कारणस्थ गुणात्परः। हेतुर्नेति च तद्वत्वे तदभावे च दोषतः।।

काणादस्य मतस्यास्य सर्वांशेऽप्यपरिग्रहात्। मुमुक्षुभिश्च कर्तव्या ह्रनपेक्षा सदा बुधैः।।

।2.2.3.

सर्वेषां क्षणिकत्वोक्त्या समुदायोऽणुमूलकः। भूताद्यारब्धतन्वादिसमुदायश्च नो भवेत्।।

इतरेतरहेतुत्वादविद्यादेर्जगद्भवेत्। इति चेन्न तथाप्यस्याः सङ्घातत्वे न हेतुता।।

कार्योत्पत्तौ कारणस्य नष्टत्वात्कारणं नहि। कारणत्वे त्वभावस्य सर्वं स्यात् सर्वदा जगत्।।

हेतावसति कार्यं चेत् प्रतिज्ञा चोपरुद्ध्यते। चत्वारो हेतव (:) इति यौगपद्यं तदन्यथा।।

निरन्वयौ स्थूलसूक्ष्मौ विनाशाविति चेन्नहि। अवस्थान्तरसद्भावान्न विनाशो निरन्वयः।।

उत्पन्नस्य च तुच्छत्वं तुच्छादेवोद्भवोऽपि च। वदतां भवतां नूनं तुच्छं स्यान्निखिलं जगत्।।

जगत्प्रतीति तुल्यत्वान्नाकाशस्यापि तुच्छता। पतत्यत्र श्येन (:) इति प्रतीतिर्हि न बाध्यते।।

स(:) एवायं घट (:) इति प्रत्यभिज्ञा च जायते। अतो घटादि कार्याणां क्षणिकत्वं न सिद्ध्यति।।

विनष्टेषु पदार्थेषु तद्गुणस्यान्य वस्तुनि। न दृष्टस्संक्रम (:) इति क्षणिकत्वं न युज्यते।।

यतमान विनाशेऽपि फलं भवति यन्मते। निष्प्रयत्न जनानां च तत्र मोक्षादिकं भवेत्।।

।2.2.4.

ज्ञानादन्य पदार्थानामभावोक्तिर्न सिद्ध्यति। सर्वेषां तु पदार्थानां उपलब्देः प्रमाणतः।।

  

स्वप्नादिवज्जागरितज्ञानस्यापि न युज्यते। मिथ्यात्वं दोषराहित्यवैधम्र्यादेव सत्यता।।

ज्ञनस्य चार्थशून्यस्य सद्भावो नैव विद्यते। कर्मकर्तृवियुक्तस्य ज्ञानस्यानुपलव्धितः।।

।2.2.5.

सर्वशून्यत्ववादच्च न सिद्ध्यति भवन्मते। सर्वथानुपपत्तेश्च प्रमाणादिविरोधतः।।

।2.2.6.

एकस्मिन्नेव युगपदस्ति नास्त्यादिशंसनम्। भिन्नाभिन्नत्ववादश्चासंभवात्तु निरस्यते।।

तद्देहपरिमाणत्वे ह्रात्मनोऽपूर्णता भवेत्। गजदेहस्थितस्याजतनुं प्रविशस्तदा।।

अवस्थान्तरयोगेऽपि ह्रविरोधो न सिद्ध्यति। आत्मनोऽपि विकारित्वे घटादेस्तुल्यता भवेत्।।

मुक्तात्मपरिमाणस्य मुक्तस्याप्यात्मनस्तथा। नित्यत्वादुभयोर्जीवः न देहपरिमाणवान्।।

।2.2.7.

मतं पशुपतेश्चापि त्याज्यमेव मुमुक्षुभिः। वेदाचारविरुद्धत्वादुपादानादिभेदतः।।

अशरीरस्येश्वरस्य जगत्सृष्टिर्न सिद्ध्यति। कुलालवदधिष्टानानुपपत्तेर्विरोधतः।।

जीवस्वीकरणं यद्वदधितिष्टत्यजस्तथा। इति चेत् कर्म भोगादि जीवस्येव प्रसज्यते।।

तस्याप्यदृष्टवत्वे तु सृज्यत्वादि ततो भवेत्। सर्वज्ञताया (:) हानिश्च तस्मात्तन्न समञ्जसम्।।

।2.2.8.

जीवोत्पत्यादिवादश्च पाञ्चरात्रे तु दृश्यते। उत्पत्यसंभवश्रुत्या विरोधादसमञ्जसम्।।

कर्तुर्जीवाच्च करणं मनस्तु नहि जायते। संकर्षणाद्धि जीवात्तु मनसो जन्म शंसनात्।।

संकर्षणादिकानां तु परमात्मत्वनिश्चयात्। जीवाभिमान्यवतारात् न प्रामाण्यं निषिद्ध्यते।।

पाञ्चरात्रेऽपि तन्त्रेऽस्मिन् जीवोत्पत्तिर्निषेधतः। समीचीनं तन्त्रमिदं ग्राह्रं स्यान्मुक्तिमिच्छता।।

।।इति ब्राहृसूत्रार्थपद्यमालिकायां द्वितीयाध्यायस्य द्वितीयः पादः।।




।। अथ द्वितीयाध्यायस्य तृतीयः पादः।।

।2.3.1.

उत्पत्ति वचनाभावान्नोत्पत्तिर्वियतो विभोः। नित्यत्वाच्चात्मन (:) इव निंशस्येति शङ्कते।।

श्रुत्याचात्मन(:) आकाशस्संभूत(:)इतिशंसनात्। उतिपत्तिर्विद्यते तस्य त्वाकाशस्येति निश्चितम्।।

स्यात्संभूतिश्रुतिर्गौणी व्योम्न उत्पत्यसंभवात्। तेजः प्रथम्ययोगाच्च ह्रमृतत्वश्रुतेरपि।।

संभूतशब्दस्यैकस्य गौणत्वं मुख्यताऽपि च। ब्राहृशब्दस्येव चात्राप्यनुषक्तस्य मुख्यता।।

प्रतिज्ञाया(:) अहानिस्यात् कार्यत्वाद्वियतश्च हि। छान्दोग्येऽपि वियत्सृष्टिरभिप्रेतेति गम्यते।।

सदेव सौम्यैतादात्म्यमिदमित्यादिशब्दतः। ब्राहृ प्रति शरीरत्वाद्वियतो ब्राहृकार्यता।।

ऐतदात्म्यमिदं सर्वमिति श्रुत्या विकारता। सर्वस्यापि तथोत्वत्तिः ब्राहृणोलोकवद्भवेत्।।

तथाऽमृतस्यापि वायोराकाशाद्वायुरित्यतः। शब्दात्तु ब्राहृ कार्यत्वं व्याख्यातमिति निश्चितम्।।

सर्वहेतोः परस्यैव नोत्पत्तिस्संभवेत् क्वचित्। प्रतिज्ञानुपपत्तेश्च तदन्यद्जायतेऽखिलम्।।

।2.3.2.

तेजश्च वायोस्संभूतं तस्य न ब्राहृकार्यता। वायोरग्निरिति श्रुत्या शङ्कते वायुकार्यताम्।।

आपश्च तेजसा सृष्टाः ब्राहृकार्यं कथं च ताः। अग्नेराप(:)इतिश्रुत्या निशिचिता(:)इति शङ्कते।।

अद्भ्यश्च पृथिवी जाता तस्मान्न ब्राहृजा हि सा। ब्राहृकार्यं कथं सेति शक्यं वक्तुं विशेषतः।।

ता(:) अन्नमसृजन्तेति पृथिव्यास्सृषटिरुच्यते। भूताधिकाररूपान्यशब्देभ्योऽन्नं धरेति च।।

बहुस्यामिति संकल्पात् निजसृष्ट¬ादि लिङ्गतः। पूर्व पूर्व शरीरस्सन् सृजतीशः परं परम्।।

आनन्तर्यक्रमादत्र पारंपर्यविपर्ययात्। तत्तच्छरीरात्सृष्ट¬ादि ब्राहृणस्तूपपद्यते।।

तन्मात्र भूतयोर्मध्ये चेन्द्रियाणीति लिङ्गतः। क्रमोत्पत्तिश्चेति चेन्न साक्षादेवाविशेषतः।।

चराचराश्रयाश्शब्दाः वाचकाः परमात्मनः। सर्ववस्तुप्रविष्टत्वान्मुख्यास्सर्वशरीरिणि।।

।2.3.3.

आत्मा नोत्पद्यते श्रुत्या नित्यत्वाच्चेति गम्यते। नित्यत्वं चात्मनो नित्यो नित्यानामिति च श्रुतेः।।

।2.3.4.

ज्ञान स्वरूपो ज्ञता च नित्यमात्मेति निश्चितम्। पश्यन् स रमते ज्ञानघन इत्यादितः श्रुतेः।।

उत्क्रान्ति वचनाच्चैव गतेरपि च कीर्तनात्। आगतेश्चापि वचनात् आत्माऽणुरिति कथ्यते।।

गत्यागत्योस्स्वात्मनैव संपद्यत्वादिहात्मनः। अणुत्वं निश्चितमिति शङ्का नैवात्र युज्यते।।

आत्मा महानिति श्रुत्या नाणुरात्मेति चेच्छØतिः। परमात्मात्परा सेति जीवोऽणुरिति निश्चितम्।।

अमुरात्मेति वचनादणुत्वं चात्मनो भवेत्। आराग्रमात्रो ह्रवर(:) इत्युनामानाच्च निश्चितम्।।

अणुत्वेऽप्यात्मनो देहे सर्वत्र सुखभागिता। एकदेशसेथितस्यापि चन्दनस्येव युज्यते।।

अवस्थितेस्तु वैशेष्याच्चन्दनं तु तथा भवेत्। इति चेन्नात्मनोऽपि स्वे ह्मदये स्थितिरुच्यते।।

आत्मा तु स्वगुणाज्ज्ञानाद्देहं व्याप्यसुखं भजेत्। आलोकादेव मण्यादिः कृत्स्नं व्याप्य प्रकाशयेत्।।

जानामीति प्रतीत्यैव ज्ञानं ज्ञातुः पृथग्भवेत्। गन्धवत्याः पृथिव्यास्तु यथा गन्धस्तथा श्रुतेः।।

विज्ञातुर्न हि विज्ञातेः इति श्रुत्यात्र चात्मनः। पृथक्ज्ञानस्य वचनात् ज्ञानं तस्मात्पृथक् भवेत्।।

तज्ज्ञानगुणसारत्वाज्ज्ञानमित्यात्मनो भवेत्। ब्राहृवद्व्यपदेशोऽपि सत्यं ज्ञानमिति श्रुतेः।।

सर्वदात्म गुणत्वाच्च न दोषो ज्ञानकीर्तने। यथा तादृग्गोत्वयोगाद्व्यपदेशश्च गौरिति।।

सुषुप्तौ विद्यमानस्य ज्ञानस्यैवोद्भवस्त्विह। बाल्ये तु विद्यमानस्य पुंस्त्वादेरिव यौवने।।

विभुत्वे चात्मनो नित्यं ज्ञानत्वेऽपि च सर्वदा। उपलब्धिरभावाच्च नियमोऽन्यतरस्य वा।।

।2.3.5.

अयमात्मा तु कर्तैव यागध्यानविधायिनाम्। शास्त्राणामर्थवत्वाय गुणानां तु न कर्तृता।।

इन्द्रियाणामुपादानाद्विहारादिश्रुतेरयम्। कर्ता चात्मेति कर्तृत्वं निश्चतम त्वात्मनस्त्विह।।

विज्ञानं यज्ञं तनुत इत्यादिव्यपदेशतः। क्रियायां कर्तृता तस्य न चेद्भाव्यं तृतीयता।।

प्रकृतेश्चैव कर्तृत्वेऽकर्तृत्वे ह्रात्मनोपि च। उपलम्भानियमवत् फलस्यानियमो भवेत्।।

तस्या(:) एव तु कर्तृत्वे भोक्तृत्वं प्रकृतेर्भवेत्। अन्यस्य भोक्तृभावात्तु भोक्तृत्वं चास्य हीयते।।

मोक्षसाधनभूतस्य समाधेरप्यसंभवात्। प्रकृतेरन्य(:) इत्यादेः आत्मनस्त्वेव कर्तृता।।

वास्यादिसन्निधानेऽपि तक्षवत्कुरुते ह्रयम्। कर्ता चैवमकर्ता च देहीच्छात्तदभावतः।।

।2.3.6.

परमात्मायत्तमेव कर्तृत्वं त्वात्मनो भवेत्। अन्तः प्रविष्टश्शास्तेति वदतीयं श्रुतिस्तथा।।

निषेधविध्योस्सिद्ध्यर्थं जीवोद्योगमपेक्ष्य सः। प्रवर्तयति तं चेति पराधीना हि कर्तृता।।

।2.3.7.

जीवस्तु ब्राहृणोह्रंशः नानात्व व्यपदेशतः। अभेदव्यपदेशाच्च ब्राहृ दाशा इति ह्रपि।।

पादोऽस्य विश्वा भूतानीत्येवमादेश्च मन्त्रतः। अंशा ब्राहृण एवैते ह्रात्मान(:) इति निश्चितम्।।

ममैवांशो जीवलोक(:) इति स्मृत्यापि चोच्यते। वासुदेवस्यांश(:) इति तस्य ब्राहृ शरीरता।।

ब्राहृांशत्वेऽपि जीवस्य जीवभावः परे नहि। प्रभादीनां स्वभावस्तु न मण्यादौ यथा भवेत्।।

एकदेशस्थितस्याग्नेः ज्यात्स्ना विस्तारिणी यथा। परस्य ब्राहृणश्शक्तिः तथैवेदमिति स्मृतेः।।

ब्राहृांशत्वेऽपि जीवानां अनुज्ञा परिहारयोः। उपपत्तिर्देहभेदात् अग्न्यादेरिव युज्यते।।

प्रतिदेहं च भिन्नत्वात् अणुत्वेन च तत्र तु। सुखदुःखाव्यतिकरः निश्चितो मुनिसत्तमैः।।

आभासा हेतवस्सर्वे भवेयुरिति निश्चितम्। ब्राहृाभेदे तु जीवस्य तिरोधानादिकल्पने।।

अदृष्टजोपादिमूल ब्राहृजीवात्म कल्पनम्। अदृष्टानियमात्तेषां न सिद्ध्येदिति निश्चितम्।।

अभिसन्धेस्त्वदृष्टादि जायते चेति चेन्न हि। नियमस्त्वभिसन्ध्यादौ वक्तुं नैव भवेद्यतः।।

अविद्योपहितो भागः जीवश्चेन्नियमो भवेत्। नान्तर्भावादिहोपाधेः गमेऽनुपहितस्य च।।

।। इति ब्राहृसूत्रार्थपद्यमालिकायां द्वितीयाध्यायस्य तृतीयः पादः।।



।। अथ द्वितीयाध्यायस्य चतुर्थः पादः।।

।2.4.1.

खादिवच्चत्विन्द्रियाणि ह्रुत्पद्यन्ते परात्मनः। सृष्टेः पूर्वं स्थिताः प्राणा(:) इति ब्राहृ परं हि तत्।।

प्राक्सृष्टेरेवमेवेति ब्राहृैकपरिशेषणात्। प्राणा(:) वा ऋषय(:) इति गौणी बहुवचश्श्रुतिः।।

तत्सृष्टिपूर्वकत्वाच्च नामधेयस्य वस्तुनः। प्राणशब्दैर्नेन्द्रियाणि ह्रुच्यन्त इति निश्चितम्।।

।2.4.2.

चरन्ति सप्त सप्तेति गतिश्रुत्या विशेषणात्। ज्ञानानीति च सप्तैव त्विन्द्रियाणीति शङ्कते।।

स्थिते जीवे शरीरे तु वाग्घस्ताद्युपकारतः। एकादशत्विन्द्रियाणीत्यतस्सप्तैव नेति हि।।

।2.4.3.

अणवस्त्विन्द्रियाणीति ह्रनुगत्यादिना श्रुताः। उपासार्थमनन्ता(:) इत्येतानि गदितानि हि।।

श्रेष्टश्चोत्पद्यते प्राणस्त्वाकाशादिवदस्य हि। एतस्माज्जायते प्राण(:) इत्युत्पत्तिश्रुतेरिह।।

।2.4.4.

पृथगुत्पत्ति वचनात् न वायुर्न च तत्क्रिया। विशेषं कंचनापन्नः वायुः प्राण(:) इति स्थितम्।।

वाय्ववस्थाभेद(:) इति नायं भूतान्तरं भवेत्। इन्द्रियैस्सह शिष्ट¬ादेः प्राणसंवादनादिषु।।

अक्रियत्वाद्दोष उक्तो यः प्राणस्य स नैव हि। शरीरादेर्धारणादिक्रियावत्वेन कीर्तनात्।।

कामादि वृत्तिभेदेन मनस्सङ्कीत्र्यते यथा। तथैकः पञ्चधा वृत्तेः प्राणापानादिरुच्यते।।

।2.4.5.

प्राणोनूत्क्रामतीत्यादि श्रुत्या प्राणोऽप्यणुर्भवेत्। महत्त्वं शङ्कितं यत्तु तद्वैभवपरं भवेत्।।

।2.4.6.

ज्यातिरादेस्तु जीवेन सङ्कल्पात्परमात्मनः। इन्द्रियादेरधिष्टानं शब्दादेवावगम्यते।।

परात्माधिष्टितत्वस्य नित्यत्वाजजगतां सताम्। अवर्जनीयसङ्कल्पादधिष्टानं ततो भवेत्।।

  

।2.4.7.

करणत्वेऽपि सर्वेषां श्रेष्टादन्यत्र शंसनात्। इन्द्रियाणीति न श्रेष्ट(:) इन्द्रियं भवति ह्रसौ।।

समनस्केन्द्रियोभ्योऽस्य भेदेनोत्पत्ति शंसनात्। सुषुप्तौ च प्राणवृत्तेः उपलब्ध्या विशेषतः।।

।2.4.8.

चतुर्मुखतनोरेव जगत्सृष्टिः परात्मनः। नामरूपादिकरणं त्रिवृत्कुर्वत एव हि।।

श्रुते तु मांसमनसी भौमे चैवमवादिषु। अन्नं चाशितमित्यादौ त्रिवृतां करणं न हि।।

त्रिवृत्कृतेषु भूतेषु चाधिक्यं यस्य वै भवेत्। तत्तद्वाचकशब्देन तत्तद्वस्तूच्यते बुधैः।।

।। इति ब्राहृसूत्रार्थपद्यमालिकायां द्वितीयाध्यायस्य चतुर्थः पादः।।

।।इति श्रीमद्वेदमार्गेत्यादिबिरुदावलीमेदुराणां श्रीमदहोबिल मठे दिव्यास्थाने चतुरधिकचत्वारिंशत्संख्यासंख्यातपट्टाभिषेकपरिमण्डितानां श्रीवण्शठकोप श्रीवेदान्त

देशिक यतीन्द्र महादेशिकानां कृतिषु ब्राहृसूत्रार्थपद्यमालिकायां द्वितीयाध्यायः।।