नयमयूखमालिका
नयमयूखमालिका [[लेखकः :|]] |
नयमयूखमालिका
श्रीः
नयमयूखमालिका
।।प्रथमाध्यायस्य प्रथमः पादः।।
हेषारवैर्यश्श्रुतिब्रह्मनिर्भरैः स्त्रीयां व्यनक्ति स्वरसो दितां पुरा।
निश्वासपङ्क्तिं निखिलामपि त्रयीमश्वाननः पातुस वश्चिरं हरिः।।
श्रेयसान्निधिमिव श्रियःपतिं प्रेप्सतां प्रियहिताध्वदर्शिनी।
लक्ष्मणार्यहृदयानुसारिणी लिख्यते नयमयूखमालिका।।
"अथातोधर्मजिज्ञासे"त्यारभ्य "अनावृत्तिश्शब्दादनावृत्तिश्शब्दा" दितिपर्यंतं विंशतिलक्षणमेकं शास्त्रं, तत्र कर्मविचारार्था द्वादशलक्षणी देवताविचारार्था चतुर्लक्षणी च वृत्ता।ब्रह्मविचारार्था चतुर्लक्षण्यास्भ्यते।तत्रादौ ब्रह्मविषयव्युत्पत्त्यभावप्रतिपत्तिदौस्थ्यमानान्तरसिद्धत्वफलराहित्यरूपतदनारम्भहेतुचतुष्टयनिरीसेन तदारम्भसमर्थनार्थतया शास्रोपोद्धातरूपाणि समन्वयाधिकरणपर्यन्तानि चत्वार्यधिकरणानि।तेषु व्युत्पत्त्यभावशंकानिरीकरणार्थमिदमाद्यमधिकरणम्।।
अथातो ब्रह्मजिज्ञासा।।1।।
ब्रह्मविचारात्म्कमिदं शास्रमारम्भणीयं नवेति संशयः।तदर्थ ब्रह्मणि वेदान्ताः प्रमाणं नवेति संशयः। तदर्थञ्च सिद्धरूपे ब्रह्मणि व्युत्पत्तिस्संभवति नवेति संशयः।सिद्धे शब्दव्युत्पत्त्यसम्भवे ब्रह्मणि वेदान्ता नप्रमाणमिति, वेदान्तरूपप्रमाणमुखेन कर्तव्यतयाऽभिमतो ब्रह्मविचारो नकर्तव्य इति, तदर्थमिदं शास्रं नारम्भणीयमिति, पूर्वपक्षे फफलिभावः।शब्दानां सिद्धे व्युत्पत्तिसम्भवे वेदान्तानां ब्रह्मणि प्रामाण्यमुपपद्यत इति, तन्मखेन ब्रह्मविचारात्मकमिदं शास्रमारम्भणीयमिति, सिद्धन्ते फलफलिभावः।तत्रोत्तममध्यमवृद्धव्यवहाराभ्यां बालस्य कार्य एव व्युत्पत्तिग्रहात् उपजीव्यकार्यव्युत्पत्ति8ग्रहानुसारेण तदुपजीविषु "पुत्रस्तेजात" इत्यादिपाश्चात्यव्यवहारेषु कार्यपदाध्याहारावश्यंभावात् सर्वे शब्दाः कार्य एव व्युत्पत्तिमन्त इति पूर्वपक्षः। सिद्धान्तस्तु-आद्यव्युत्पत्तिग्रहस्य कार्यविषयत्वनियमेऽपि पाश्चात्येषु सिद्धार्थव्यवहारेषु न कार्यपादाध्याहारः कार्यः।तथाहि-किमाद्यव्युत्पत्तिग्रहकाले गामानयेत्यादिवाक्यगतानां सर्वेषां पदानां कार्यवाचित्वमवगतमिति तदनुसारेण द्वितीयादिप्रयोगेषु श्रुतैरपि सर्वैः पदैः कार्यसामान्ये बोधिते तद्विशेषजिज्ञासया कार्यविशेषवाचिक्रिया- पादाध्याहार इष्यते, उत आद्यव्यवहारस्य क्रियापदघटितत्वदर्शनमात्रेण।नाद्यः।गोपदसमभिव्याहारात् कर्मकारकस्येव क्रियापदसमभिव्याहारात् कार्यस्य प्रतीत्युपपत्त्या कर्मकारक इव कार्येऽपि तेषां शक्तेरकल्पनीयत्वात्।नापिद्वितीयः।"दण्डेनकामानये" त्याद्यव्युत्पत्तिग्रहे करणश्रवणेऽपि "अग्रे घटं पश्ये" त्यादौ करणानध्याहारवत् कार्यानध्याहारस्याप्युपपत्तेः।अन्यथा आद्यव्युत्पत्तिग्राहकवाक्यस्य आनयनकार्यघटिततत्वे द्वितीयादिप्रयोगेष्वपि तस्यैवाध्याहारापत्तेः। अग्रे कार्यान्तरघटितवाक्यश्रवणात् आनयननियमस्थ्यज्यते चेत्, कार्यवाचिपदरहितसिद्धार्थवर्णनपरकार्याद्युपलम्भबाहुळ्यात् कार्यनियमोऽपि त्यक्तव्यः।अपिच सिद्धार्थविषयोऽप्या- द्यपलयुत्पत्तिग्रहो द्दश्यते।यथा मातपित्रदयो बालान् शब्दार्थं ग्राहयन्तः शशिपशुप्रबृतीनंगुल्यानिर्दिश्य तत्तद्वाचकशब्दान् प्रयुञ्जते, बालाः तथाभूतांगुळिनिर्देशसहितैः तत्प्रयोगैः शब्दार्थसम्बन्धं निश्चिन्वन्तीत्यनुभव- सिद्धमेवैतत्।ननु अगुळिनिर्देशसाहितशब्दप्रयोगतर्शनमात्रेण कथं बालः अस्य शब्दस्य अयमर्थं इति निश्चिनुयात्।नह्यर्थविशेषाभिमुखांगुळिशसहितशब्दविशेषप्रयोगस्तयोर्वाच्यवाचकभावप्रत्यायनार्थ इति बालस्य व्युत्पत्तिग्रहोऽस्ति, नवा तथा नियमोऽस्ति, बहुजनसमाजे चैत्रमपश्यन्तं तमन्विच्छिन्तं प्रति तदभिमखांगुळिनिर्दे- शसहितचैत्रशब्दप्रयोगस्य वाच्यवाचकभावप्रत्यायनार्थत्वाभावात्।यत्तु तत्तदर्थानंगुळ्या निर्दिश्य तत्तद्वाचकशब्देषु बहुशः प्रयुक्तेषु बालानां तत्तदार्थाभिमुखांगुळिनिर्देशशब्दाविशेषप्रयोगसाहचर्यदर्शनजनितवासनाबाहुळ्यात् तत्तच्छब्दश्रवणानन्तरंतत्तदर्थविशयस्वबुद्ध्युदयेन तत्रतत्रार्त्थेन तत्तच्छब्दस्य वाचकत्वरूपसंबन्धनिश्चयो भवेत्,
संबन्धं विना शब्दादर्थबोधसम्भवात् संबन्धान्तराभावाच्चेति। नैतद्युक्तं-यदि तत्तदर्थविशयांगुळिनिर्देशशब्दप्रयोगसाहचर्यरूपसंबन्धान्तराधीनो बालस्य शब्दादर्थप्रत्ययः, किमर्थं
वाचकत्वरूपसंबन्धान्तरस्यापि कल्पना, साहचर्यसंबन्धेनैव अर्थप्रत्ययसिद्धेः।नहि संबन्धान्तरेण सिद्धे अर्थप्रत्यये तदुपपादकत्वेनानयोपि संबन्धः कल्प्यः, कल्प्यमानोऽपि न प्राङ्निष्पन्नार्थप्रत्ययस्योपपादकः, ज्ञातोहि संबन्धोऽर्थप्रत्ययहेतुर्भवति नच पश्चात्संबन्धकल्पनया अर्थप्रत्ययात्पूर्वं संबन्धज्ञानमुपपादितं भवतिति चेत्, उच्यते-द्दश्यते तावन्मातृकृतांगुळिनिर्देशादिसहितशब्दविशेषप्रयोगभूयोदर्शनवन्तो बालाः तयोर्वाच्यवाचकभावं प्रतिपाद्य शब्दश्रवणे तदर्थं स्मृत्वा तदनुसारेणे चेष्टन्ते, अर्थदर्शने तद्वाचकशब्दं स्मृत्वा प्रयुञ्जते चेति, तेन तद्दर्शिनामित्थमबधारणं जायते, शब्दार्थसंबंधानभिज्ञान् प्रति अंगुळिनिर्देशचेष्टानविशेषसहितशब्दप्रयोगो वाच्यवाचकभावसंबन्धप्रत्यायनार्थः, अत एव तेन बालाः प्रतिलब्धवाच्यवाचकभावज्ञानास्तदनुकूलं व्यवहन्तीति, एवमवधारणवन्त एव जन्मान्तरे शैशवं प्रतिपद्य मात्रादिभिर्व्युत्पाद्यन्त इति तेषां पूर्वजन्मसंस्कारानुवृत्त्या मात्रादिकर्तृकार्थविशेषाभिमुखशब्दविशेषप्रयोगस्य शब्दार्थसंबन्धप्रत्यायनार्थत्वस्मरणं भवतीति ततो वाच्यवाचकभावरूपसंबन्धनिशचयः। यद्वा पूर्वपूर्वजन्मसु मात्रादिकृतांगुळिनिर्देशसहितशब्दप्रयोगाधनिव्युत्पत्तिग्रह- जनितसंस्कारबलादेव बालानामुत्तरोत्तरजन्मसु तेन व्युत्पत्तिग्रहः, अवश्यञ्च "पुत्रस्तेजात" इत्यादिव्यवहारेषु व्युत्पत्तिग्रहेऽपि जन्मान्तरसंस्कारोपजीवनमपेक्षितम्।नखलु तत्र आद्यव्युत्पत्तिग्रहं वदतां शिशचननं।"चैत्र पुत्रस्ते जात" इति वाक्यश्रवणानन्तरं चैत्रस्य स्नानदानादिकञ्च दृष्टवतोऽपि बालस्य जातश्शिशुश्चैत्रस्य पुत्र इति वा, स्वतएव ज्ञानमस्ति।अतः पुत्रजनमश्रवणे हृष्टाः स्नानदानादिकं कुर्वन्तीत्येतद्विषयजन्मान्तरसंस्कारोद्बोधेन स्मृत्वैवस, जातश्शिशुश्चैत्रस्य पुत्रः "चैत्र पुत्रस्ते जात" इति शब्दस्यापि चैत्रपुत्रजननमर्थः, अतएव मददृष्टपुत्र- जन्मश्रवणानन्तरकर्तव्यं स्नानदानादिकमयं करोतीति निश्चिनांतीत्येवोपपादनीयं।पुत्रपादांकितपटप्रदर्शनपुर्वकेऽपि "पुत्रस्ते जात" इति वाक्ये श्रुते लाटदेशे पुत्रपादांकितपटप्रदर्शनपूर्वकं पुत्रजननवार्तां वदन्तीतयेतद्विषयजन्मान्तरसंस्कारोद्बोधापेक्षाऽस्त्येव।तस्मात्सिद्धि प9दानां व्युत्पत्तिसत्त्वात् वेदान्तानां ब्रह्मणि प्रामाण्यमुपपद्यतएवेति सिद्धं।सुत्रस्यत्वयमर्थः।अथ-वेदपूर्वभागार्थकर्मविचारानन्तरं।अतः-कर्मविचारस्य पूर्वविचारस्य पूर्ववृत्तत्वादेव हेतोः।वेदोत्तरभागार्थब्रह्मविचारः कर्तव्य इति।यद्यपि जिज्ञासापदं ज्ञानेच्छाप्रतिपादकं, तथाऽपि अध्याहृतस्य कर्तव्यत्वस्य स्वतः प्राप्तायमिच्छायामनन्वयात् तद्विशेषणे विचाररूपे ज्ञानेऽन्वयः, यथा "दध्ना जुहोति" त्यत्र उत्पत्तिविधिप्राप्तं होमं विहाय तद्विशेषणे दध्नि विधेरन्वयः।यद्यपि विचारेऽपि रागतः प्राप्नुयात्, तथाऽपि सिद्धव्युत्पत्त्यभावशकया प्रतिबन्धपरिहारेण तदुत्तंभनार्थं तत्र कर्तव्यतान्वयो युक्त एव।ननु वृत्तस्य कर्मविचारस्य कथं वर्तिष्यमाणे ब्रह्मविचारे हेतुत्वं।कर्मणामावृत्तिविधानाद्यवगम्य अल्पास्थिरपलत्वावगमनेन ब्रह्मप्राप्त्यर्थोपासनापेक्षितकर्मस्वरूपपाधिगमनेन च हेतुत्वमितिचेत्।तथाऽपि बादरायणकर्तव्यब्रह्मविचारशास्रप्रति- पाद्यविरूद्धार्थाभिधानेन जैमिनिना प्रवर्तितस्य कर्मविचारस्य हेतुत्वं नयुज्यते, जैमिनेः ब्रह्मसन्यासाद्यपलापेन तद्विरुद्धार्थभिधायित्यवञ्च भगवता बादरायणेनैव "शेषत्वात्पुरुषार्थवादोयथाऽन्योष्विति जैमिनिः, परामर्शे जैमिनिरचोदनाच्चापवदती" त्यादिभिस्सूत्रैर्दर्शितमिति चेत्।मैवं।जैमिनिरन्वारुह्यवादस्तेषुसूत्रेषु अनूदितः, अत एव तस्य ब्रह्मसन्यासाभ्युपगमः "साक्षादप्यविरोधं जैमिनिः" "तद्भूतस्यतुनातद्भावोजैमिनेरपी" इत्यादिसूत्रैर्दर्शितः अथापि स्यात् ब्रह्मसन्यासापलापाभ्युपगमादिना जैमिनेः "विप्रतिषेधाच्चासमञ्जस"मिति सांख्यादिपक्षोक्तदोषभाक्तवमेव सूचितम्, एवमपि जैमिनिकृतकर्मविचारोपजीवने दोषो नापतति, नहि तत्कृते कर्मविचारशास्रे ब्रह्मसन्यासादिनिराकरणं सूत्रितमस्ति, ततोबहिर्विरूद्धार्थवादित्वमस्ति चेदसौ नदोषः। वेदप्रमाण्यप्रतिक्षेप्तृभिरपि कृतस्य काशिकावृत्त्यादेः "युक्तियुक्तं वचो ग्राह्य नतुपूरुषगौरवमि" दित्यादिसूत्रेण वेदस्य क्रियार्थत्वेनैव प्रामाण्यं वक्तव्यमिति अविशेषेण अकार्यार्थनामप्रामाण्यमाशंक्य तेशषां विध्येकवाक्यतया तदर्थत्वोपपादनेन प्रामाण्यसमर्थवनं जैमिनिना कृतं, तदपि बादरायणेन समन्वयसूत्रे ब्रह्मविषयाणा वाक्यानामक्रियार्थानां स्वातत्र्येण प्रामाण्यसमर्थनेन प्रत्यख्यातम्।एवं विरुद्धयोः कथमैकशास्र्यमिति चेत्।उच्यते- जैमिनिना स्वकीये देवताधिकरणे देवताधिकरणे देवतास्वरूपनिराकरणं कण्ठतो न कृतं।नच आभिप्रायिकतत्कल्पनं युक्तम्. तीर्यगधिकरणे तेन देवताभ्युपगमरयस्फुजीकृतत्वेन तद्विरोधापत्तेः।तत्राहि "नदेवता
देवतांतराभावादिति सूत्रेण देवताः कर्मसु नाधिक्रियन्ते, इन्द्रादिदेवतानां हविस्त्यागोदृश्येद्रादिदेवतांतराभावात्, स्वातमने संकल्प्यमानस्य द्रव्यस्य स्वत्वत्यागासंभवेन यागाद्यनिवृत्तेरित्यक्तम्।ननु च तथापि जैमिनिबादरायणयोः देवतानां कर्मसु गुणत्वप्राधान्याभ्युपगमाभ्यामपरिहार्यो विरोधः।तथाहि-जैमिनिना विप्रतिमा" वित्यष्टामाध्यायधिकरणे "विप्रतिपत्तौ हविषा
नियम्येतकर्मणस्तदुपाख्यत्वा"दिति सूत्रेण ऐन्द्रपुरोडाशंषु पुरोडाशरूपहविस्सामान्यादाग्नेययागविध्यन्तः, नत्विन्द्ररूपदेवतासामान्यात् सान्नाय्ययागविध्यन्तः।हविस्त्यागरूपस्य यागकर्मणो हविष्युपलभ्यामानत्वात् द्दश्यमानत्वात्स हविषा हि त्यज्यमानेन यागः क्रियमाणो द्दश्यते नत्वप्रत्यक्षया उद्देश्यमात्ररूपयेति प्रतिपाद्य यागस्य देवताराघनरूपत्वात् देवतैव प्रसन्ना फलदात्री प्रथानभूतेति तत्सामान्य हवस्सामान्यद्बलीय इति शङ्कानिराकरणार्थं सूत्रितम्, "गुणत्वेन देवताश्रुति"रिति।तया नावमिकेदेवताऽधिकरणे "देवतावा प्रयोजयेदतिथिवद्भोजनस्य तदर्थत्वा"दिति सूत्रेण यथाऽतिथिपूजनात्मकं यजनमपि देवताप्रीत्यर्थं सद्देवताप्रधानमिति पूर्वपक्षमुक्तवा "अपिवा शब्दपूर्वत्वाद्यज्ञकर्मप्रधानं स्यात् गुणत्वे देवताश्रुति"रिति सूत्रेण न देवताप्रधानं यजनं, तदेव अपूर्वद्वारा फलजनकं, नतु हविषा प्रीता देवता, तस्यास्तु द्रव्योद्देश्यतया यागोपसर्जनत्वेनैव श्रुतिरिति सिद्धान्तमभिधाय "अतिथौ तत्प्रधानत्वमभावः कर्मणि स्यात् तस्य प्रीतिविधानत्वा"- दिति सूत्रेण अतिथिवैषम्यन्दर्शितम्, आतिथ्यं-अतिथिप्रीतिविधानं, यथाऽतिथिः प्रीयते तथा कर्तव्यतया विहितमिति तदतितथिप्रधानं युज्यते, कर्मणि तु नास्ति प्रीतिविधानं, #्तो न देवताप्रधानं यजनमिति।बादरायणेन तु "फलमत उपपत्ते" रिति सुत्रेण पस्मेश्वराराधनरूपतया सर्वं कर्म परमेश्वरप्रधानं तत्तत्कर्माराधितात्परमेश्वरादेव फलं नापूर्वव्यापारात्कर्मण इति स्वमतमुक्तवा "धर्म जैमिनिरतएवे"ति सूत्रेण कर्मैव अपूर्वद्वारा फलदायकमिति जैमिनिमतं पूर्वपक्षं निर्दिश्य "पुर्वन्तु बादरायणो हेतुव्यपदेशा"दिति सूत्रेण परमेश्वर एव सर्वकर्मफलदाता, "स एवैनं भूतिं गमयती"त्यादिकर्मविधिवाक्यशेषेषु वाय्वादिरूपस्य परमेश्वरस्यैव फलहेतुत्वव्यपदेशात्, क्षणविनाशिनः कर्मणः फलजनने द्वाराकांक्षायां वाक्यशेषार्पितां देवताप्रीतिमपबाय द्वारांतरकल्पनायोगादिति जैमिनिमतप्रतिक्षेपकयुक्तिप्रदर्शनेन स्वमतं निर्द्धारितम्।एवं परस्परविरुद्धार्थयोः कथमेकशास्त्र्यमुपपद्यते।उच्यते- नायं विरोधः एकशास्त्र्यविरोधी, अनुष्ठानविरोधाभावात्, तदविशेषे च वाक्यार्थवर्णनद्वैधीभावमात्रस्य पूर्वतंत्रेऽप्यध्यायभेदनदर्शनात्।तत्राहिदर्शपूर्णमासयोः "उपस्तृणात्यभिधारयति द्विर्हविषोवद्यति चतुरवत्तं जुहोति"ति श्रुतिवाक्यचतुष्टयमध्ये चतुरवत्तवाक्ये अवत्तहोमविधिः, ततोऽर्थप्राप्तमवदानमनूद्य व्द्यवदानवाक्ये हविषो द्विरवदातव्यमिति विधिः।चतुरवत्तवाक्य तु चतुश्शब्द उपस्तरणाभिधारणद्यवदानवाक्यगतप्रचयशिष्टसंख्यानुवाद इति "संयुक्ते तु प्रक्रमात्तदङ्गं स्या"दिति पाञ्चमिकाधिकरणे निरूपितम्।व्द्यवदानवाक्ये द्वित्वविशिष्टहविरव- दानविधिः, उपस्तरणाभिधारणव्द्यवदानविधिप्राप्तं चतुरवत्तमनुद्य होममात्रविधिरिति प्रकारान्तरं "उत्पत्तितादर्थ्यात् चतुरवत्तं प्रधानस्ये"ति दाशमिकाधिकरणे निरूपितम्।तत्राधिकरणयोः परस्परविरोधमाशंक्य उभयथाऽप्यनुष्ठाने विशेषाभावन्नायां विरोधो दोष इति प्रसाधितं तन्त्ररत्ने।न च वाच्यं "यां देवतां वषट्करिष्यन् स्यात्तां मनसा ध्यायेदिति" विहितं देवताध्यानं यागदेशं बादरायणमते कर्तव्यम्, जैमिनिना तु उदाहृतं देवताध्यानविधानं तत्तद्देवतावाचिशब्दध्यानविषयमिति, यतो वृत्तिकारेण "संहितमेतज्जैमिनीयेन षोडशलक्षणेनेति" कर्मविचारार्थया द्वादशलक्षण्या देवताविचारार्थया चतुर्लक्षण्या चैकतन्त्र्यं प्रतिपादितमित्युदाहृतं भाष्ये, तत्र कर्मविचारभागे द्वादशानां लक्षणानां धर्मप्रमाणतद्भेदतच्छेषशेषिभावाद्यर्थभेदस्सुलभसिद्धिः।देवताविचारभागे चतुर्णां लक्षणानामर्थभेदमित्थमाहुः, "स्वरूपमादौ तद्भेदस्तदुपासनपूर्वकं।फलञ्च देवताकाण्डे देवतानांतु कथ्यत" इति। कर्मदेवतोपासनयोश्च विद्यसहकारित्वेन निश्रेयसार्थतया ब्रह्मविचारेण सहैकलत्वात्, व्याख्येयवेदरूपविषयैक्याच्च, सीमांसापूर्वोत्तभागयोरैकशास्त्र्यं सिद्धं।अतएव "पुराणन्यायमीमांसाधर्मशास्राङ्गमिश्रिताः।वेदाः स्थानानि विद्यानां धर्मस्यच चतुर्दश।।अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।पुराणं धर्मशास्रञ्च विद्याह्येताश्चतुर्दशेत्यादि- स्मृतिषु विद्यास्थानपरिगणने मीमांसैकविद्यास्थानत्वेन परिगणिता पूर्वोत्तरमीमांसा, भेदेषु संख्याऽतिरेकस्स्या- दित्यलं प्रपञ्चेन।
सङ्ग्रहकारिकाः।।
सिद्धं ब्रह्म न वेदान्ताः प्रतिपादयितुं क्षमाः।
कार्य एव हि शब्दानां लोके व्युत्पत्तिरादिमा।।
तस्माद्वेदाक्षरप्रायान् वेदानतानवलंब्य वा।
ब्रह्ममीमांसनं व्यर्थमिति प्राप्तेऽभिधीयते।।
अंगुळ्या निर्दिशन्तोऽर्थान् वृद्धाश्शब्दान् प्रयुंजते।
व्युत्पद्यन्ते ततोबालास्ते शब्दास्तत्परा इति।।
इत्थं सिद्धेऽपि बालानां लोकानुभवसम्मते।
व्युत्पत्तिग्रहणे कस्मात् कार्ये शक्तिर्नियम्यते।।
उक्तरूपांगुळेश्चेष्टा शकिं्त ग्राहयितुं कृता।
इति बोधे तु बालानां गतिः प्राग्जन्मवासना।।
तिर्यञ्चोऽपि हि लोके पुंध्वनिचेष्टाविशेषाणां।
तत्ततकार्यार्थत्वं विजानते पूर्वजन्मवासनया।।
अथवाऽङ्गुळिनिर्देशतत्तच्छब्दप्रयोगयोः।
साहचर्यात्तु तद्वीक्षाजातसंस्कारदार्ढ्यतः।।
तत्तच्छब्दश्रुतौ तत्तदर्थबुद्ध्युदये सति।
तत्तच्छब्दार्थयोगात्मा शक्तिर्लोकैः प्रतीयते। इति जिज्ञासाऽधिकरणम्।।1।।
जन्माद्यस्य यतः।।2।।
भृगुर्वैवारुणिः वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेत्यारभ्य "यतोवा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति" श्रूयते।किमेतद्वाक्यं ब्रह्म लक्षणतः प्रतिपादयितुं शक्नोति उत नेति सृष्ट्यादीनां त्रयानां विशेषणत्वेन उपलक्षणत्वेन च लक्षणत्वासम्भवसम्भवाभ्यां संशये पूर्वपक्षः।विशेषणत्वपक्षे ब्रह्मैक्यं न सिध्द्यति, विशेषणभेदेन विशेष्यभेदापत्तेः, भेदकं हि विशेषणं, भेद्यं विशेष्यम्, अतो "खण्डो मुण्डः पूर्णश्रृङ्गो गौरश्वो महिष" इत्यादिष्विव अनिवार्यो विशेष्यभेदः।"श्यामो युवा लोहिताक्षो देवदत्त" इत्यत्र तु देवदत्तैक्यस्य प्रमाणान्तरसिद्धत्वात् न तत्र विशेष्यानेकत्वं, प्रमाणान्तरसिध्द्यभावे तु तत्रापि विशेषणभेदेन तद्भेतस्स्यादेव।अतोऽत्रानेनैव लक्षणेन लिलक्षयिषितस्य ब्रह्मणः प्रमाणान्तरेण ऐक्यानवगतेः विशेषणभेदाद्बहुत्वमवर्जनीयम्।तत्राप्येकत्वादिविशेषणभेदेन विशेष्यबहुत्वप्रतीतेः तदनुसारेण एकमित्यादिना एको व्रीहिरितिवत् साजात्यविषयतोपपत्तः।नवात्रैव "तद्ब्रह्म"त्येकवचनात्तदैक्यसिद्धिः, मोस्स्वरूपं जिज्ञासमानं प्रति "खणडो मुण्डः पूर्णश्रृङ्गो गौ"रित्यत्र वाक्ये गोशब्दगतैकवचनस्येव जातिविषयत्वोपपत्तेः।नह्येकएव गौः खण्डो मुण्डः पूर्णश्रृङ्गश्च भवति, खण्डत्वादीनां परस्परविरुद्धत्वात्, तत्रैकवचनं जातिविषयञ्चेत्, इहापि स्रष्ट्टत्वादीनां भेदकस्वभावानां भेदकस्वभावानां विरुद्धत्वादेकवचनं जात्येकविषयं वाच्यमिति तुल्यम्।अपि च स्रष्ट्टत्वसंरक्षकत्वयोस्संहर्तृत्वेन अनयथाऽस्ति विरोधः, न हि पुत्रमुत्पाद्य यतेन तत्संरक्षकः पिता तस्य सहर्ताऽपि भवति।एतेन उपलक्षणत्वपक्षोऽपि निरस्तःस, विरुद्धधर्माणामेकोपलक्षणत्वासम्भवात्।किञ्च आकारान्तराप्रतिप्रत्तेरपि उपलक्षणत्वं न सम्भवति।उपलक्षणेन लक्ष्यप्रतिपत्तौ हि उपलक्षणं उपलक्ष्याकारः उपलक्ष्यस्य प्रतिपन्नाकारश्चेति आकारत्रयमपेक्षितं , यथा "यत्रायं शरारिः पक्षिविशेषस्समित्रकेदार" इत्यत्र हि शरारिसम्बन्ध उपलक्षणं, मित्रस्वामिकत्वं उपलक्षयं, केदारत्वं पूर्वप्रतिपन्नाकारः।"शाखाग्रञ्चन्द्र" इत्यत्र शाखाग्रमुपलक्षणं, कालाविशेषे शाखाग्रोर्ध्वदेशसंबन्ध उपलक्ष्याकारः, चन्द्रस्वरूपं पूर्वप्रतिपन्नाकारः।अस्मिन् ज्योतिर्मणडले कश्चन्द्र इति पूर्वप्रतिपत्तिसाध्यायां बुभुत्सायामेव शाखाग्रञ्चन्द्र इति उत्तरावतरणात् प्रत्यक्षप्रतीतः प्रकृष्टप्रकाशदिर्वा पूर्वप्रतिपन्नाकारः।ननु च अत्रापि सत्यज्ञानादिकावाक्यतः प्रतिपन्नं पूर्वप्रतिपन्नोपलक्ष्याकारोऽ- स्तीति चेन्न।तत्रापि सत्यज्ञानादीनां विशेषणानां भेदेन विशेष्यभेतापत्त्या विशेषणत्वासंभवात्, आकारान्तराप्रतिपत्त्या उपलक्षणपक्षस्याप्यसम्भवात्, "यतोवा इमानी" त्यादिवाक्यप्रतिपन्नाकारान्तरसमाश्रयणे परस्पराश्रयापत्तेः, अतो
विशेषणोपलक्षणपक्षद्वयस्याप्यसम्भवात् न ब्रह्म प्रतिपत्तुं शक्यमिति।एवं प्राप्ते सिद्धान्तः-लक्षणमुखेन ब्रह्म प्रतिपत्तुं शक्यमेव।न च अभेदेऽपि विशेषणभेदायत्तविशिष्यभेदप्रतीतिस्तत्प्रतिपत्तिबाधिका, "श्यामो दीर्घ" इत्यादाविव विशेष्यभेदेऽपि विशेष्याभेदोपपत्तेः।ननु विशेषणभेदे विशेष्यभेद औत्सर्गिकः, "खण्डो मुण्ड" इत्यादौ दर्शनात्, "श्यामो दीर्घ" इत्यादौ मानान्तरसिद्धविशेष्यैक्यप्रतीतिस्तद्बाधिकेत्युक्तमिति चेत् सत्यमुक्तम्।दुरुक्तन्तु तत्, विशेषणभेदेऽपि विशेष्यैक्यमौत्सर्गिकं, "खण्डो मुण्ड" इत्यादौ विशेषणानां विरोधस्तद्बाधकइत्येव उत्सर्गापवादव्यवस्थाकल्पनौचित्यात्।किमत्र विनिगमकमिति चेत्, ऐक्यस्य औत्सर्गिकत्वकल्पने लाघवं, भेदस्य औत्सर्गिकत्वकल्पने गौरवमित्येतद्विनिगमकं, "श्यामो दीर्घ" इत्यादौ श्यामत्वादीनां गौरादिभेदकत्वेन विशेषणत्वमुपपद्यते, एवं "तद्ब्रह्मे"त्येकवचनावगतविशेश्यैक्यमपि
विशेषणभेदायत्तविशेष्यभेदबाधकं, एकवचनस्य हि व्यक्त्वैक्यविषयत्वमौत्सर्गिकम्।"खण्डो मुण्ड" इत्यादौ तु विशेषणानां विरोधात्तत्त्यागः, तत्रापि विशेषणानां विशेष्यभेदकत्वं "खण्डो मुण्ड" इत्यादावौत्सर्गिकं "श्यामो युवाऽय"मित्यादौ मानान्तरतो-विशेष्यैक्यावगत्या तत्त्यागः इति, विपरीतोत्सर्गापवादव्यवस्थाकल्पनप्रतिक्षेपे व्यक्त्यैक्यविषयतौत्सर्गिकत्वकल्पने लाघवं इन्याथा गौरवमित्येन विनिगमकमनुसन्धेयम्।एवं लोकसाधारणमिदं विनिगमकं, विशिष्यमात्र, "यतोवे"त्यादिवाक्यस्य यच्छब्दयोगेन "सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतानास्सत्प्रतिष्ठा" इति श्रुत्यन्तरसिद्धसृष्ट्यादिकारणानुवाद- कत्वप्रतिपत्तेः श्रुत्यनत्रसिद्धसर्वविज्ञानप्रतिज्ञानुरोधात् एककारणविषयत्वावश्यम्भावेन पुरोवादप्रतिपन्नौककारणविष- यत्व वाच्यमिति अन्यद्विनिगमकं।तथा च यथा "यदि रथन्तरसामा सोमस्स्यादैन्द्रवायवाग्रान् ग्रहान् गृह्णीयात् यदि बृहत्सामा शुक्राग्रा" निति ज्योतिष्टोमप्रकरणाम्नातरथन्तरसामत्वबृहत्सामत्वविशेषणयोः तत्प्रकरणाम्नातगा- यत्राऽमहीयवादिसामान्तरव्यावर्तकत्वं नास्ति, एवमिहापि सृष्टिकारणत्वस्य पुरोवादप्रतिपन्नस्थितिलयकारणत्वव्या- वर्तकत्वं नास्तीति युक्तमुत्पश्यामः।नच उत्पाद्य संरक्षितवतस्संहर्तृत्वं विरुद्धमिति शङ्कनीयं, उत्पादनसंरक्षणयो- रिव संहारस्यापि कालभेदेनाविरोधात्।स्वयमुत्पाद्य संरक्षितानाम सस्यानां कालान्तर लवनदर्शनात्, तत्तत्सृज्य- कर्मानुसारिण ईश्वरस्य तत्तत्संहारे वैषम्यनैर्घृण्यदोषानापत्तेर्वक्ष्यमाणत्वाच्च।एवञ्च उपलक्षणपक्षेऽपि न दोषः।यथा द्दष्टान्ते शरारिरलक्षणं, मित्रकेदारत्वं मुपलक्ष्याकाररः, केदारत्वसामान्यं पूर्वप्रतिपन्नाकारः, एवमिहापि जगज्जन्मस्थितिलयकारणत्वमुपलक्षणं, तदुपलक्ष्याकारो लक्ष्मीपतित्वं, उपलक्षणस्य जन्मादिकारणत्वस्य अनूद्यमानस्य पुरुषसूक्तरूपपुरोवादानुसारेण "ह्रीश्चते लक्ष्मीश्च पत्न्या"विति तत्रत्यमन्त्रप्रतिपन्ने लक्ष्मीपतौ पर्यवसानात्।न हि "सन्मूला" इति छन्दोगश्रुतिरेव पुरोवादः, विनिगमनाविरहेण कारणवस्तुसमर्पकाणां पुरुषसूक्ता- दीनामपि पुरोवादत्वानिवारणात्।ब्रह्मत्वं पूर्वप्रतिपन्नाकारः।तद्धि केदारत्वं प्रत्यक्षतोऽनेककेदारसाधारण्येनेव बृहतेर्धातोरर्थानुगमेन "यस्माद्बृहति ब्रह्मयति तस्मादुच्यते परंब्रह्मे"ति श्रुत्या "बृहत्त्वाद्ब्रह्मणत्वाच्च तद्ब्रह्मेत्यभिधीयत" इति स्मृत्या च भगवति पुरुषोत्तमेऽवगम्यमानं मंत्रार्थवादावगतनानाविधमहिमशालिब्रह्माद्यनेक- देवतासकाधारण्येन प्रतिपन्नं, एवं लक्षणमुखेन पुरुषोत्तम एव ब्रह्मत्वपर्यवसानात् "नारायणपरंब्रह्म"त्यादिश्रुतिः।ननु बृहतिधातोर्मनिन्प्रत्ययान्तस्य बृहत्त्वमात्रमर्थः, कथं ब्रह्मणत्वमपि तदर्थइति वर्ण्यते।उच्यते---ब्रह्मणत्वं हि स्वसङ्कल्पेन चेतनाचेतनस्थूलपरिणामहेतुत्वं, तदपि स्वरूपतो गुणतो विभूतितश्च बृहत्त्ववाचिना ब्रह्मशब्देन क्रोडीकृतमेव।ननु लक्षणस्य विशेषणोपलक्षणत्वपक्षद्वयं परस्परविरुद्धं क्थं परगृहीतं, ज्ञाप्यान्वयिव्यावर्तकं विशेषणं, तदनन्वयिव्यावर्तकमुपलक्षणमिति भेदमाहुः।सत्यं।इहापि उपासनाभेदेन जन्मादिकारणत्वस्य अन्यानन्व- याभ्यां पक्षद्वयोपपत्तिः, यथा शांडिल्यविद्यायां-"सर्वं खल्विदं ब्रह्म तज्जला"नित्युपास्यकोटावन्वितं तद्विशेषणं, व्याहृतिशरीरकाङ्यादित्यमण्डलस्थपुरुषोपासनायां उपास्यब्रह्मस्वरूपप्रदर्शकतयोपलक्षणम्।यदि "कारणन्तु ध्येय" इत्यर्थवशिखावचनं सर्वेषु उपासनेषु कारणत्वस्य उपास्सर्वोपासनानुगता गुणा विशेषणानि, केषुचिदेवोपासनेषु व्यस्थिता गुणाः ते तदन्योपासनेषु उपलक्षणानीति शिष्यशिक्षार्थं जन्मादिकारणत्वे स्थित्वा पक्षद्वयं भाष्यकारैर्दर्शितं।यद्यपि जन्मकारणत्वादिकमेकैकमप्यनतिव्याप्तं लक्षणं भवितुमर्हति, तथाऽपि ब्रह्मविष्णुरुद्राः कारणपुरुषाः परस्परभिन्नाः प्रत्येकं जन्मादिषु कारणानीत्यनादि प्रवादप्राप्तशङ्काव्यावृत्त्यर्थं समुदितलक्षणाश्रयण- मिति सर्वमनवद्यं।सत्यज्ञानादिवाक्योक्तब्रह्मलक्षणान्तरस्योपयोगः तदर्थश्च "आनन्दादयः प्रधानस्ये" त्यधिकरणे दर्शयिष्यते।।
सङ्ग्रहकारिकाः।।
जन्माद्यस्येति यतस्तद्ब्रह्मेति न लक्षणं युक्तं।
तच्चोद्विशेषणतया लक्ष्म ब्रह्मापि भिद्येत।।
औत्सर्गिकं विशेषणमखिलान्यविशेषधर्मजातस्य।
व्यावर्तकमिति हेतोस्तद्भेदे तद्विशेष्यभिदा।।
उपलक्षणता नभवत्युपलक्ष्याकारवैधुर्यात्।
अवगतकिञ्चिद्रूपे रूपान्तरबोधकं खलु तत्।।
केदारतया द्दष्टे धर्मिणि तद्बोद्धृवाक्येन।
पक्षी यथा शरारिः स्वमित्रकेदारतागमकः।।
तस्माल्लक्ष्ममुखेन ज्ञातुं न ब्रह्म शक्यमुद्दिष्टम्।
इति संकाऽपाक्रियते पक्षद्वयमप्युरीकृत्य।।
श्यामो युवा लोहिताक्षो देवदत्त इतीरिते।
विशेषणानां भेदेऽपि विशेष्ये नहि भेदधीः।।
खण्डो मुण्डः पूर्णश्रृङ्गो गौरित्यत्रतु भेदधीः।
खण्डत्वादिविरोधेन नत्वत्रास्ति विरोधिता।।
उपलक्षणता वाऽस्तु प्रतिपन्ने बृहत्तया।
मन्त्रार्थवादादिवशात्प्रतिपन्नाहि तत्र सा।।
बहुषु प्रतिपन्ने तैर्बृहत्वे द्रुहिणादिषु।
तेषु ब्रह्म विनिश्चेतुं लक्षणोक्तिरियं श्रुतौ।।
यथा साधारणेनैव केदारत्वेन निश्चिते।
मित्रकेदारताबुद्धिर्व्यक्तिभेदे शरारिणा।।
एवं ब्रह्मादिसामान्यबृहत्त्वेन विनिश्चिते।
श्रीपतौ कारणत्वेन निराघाटा बृरत्त्वधीः।।
सर्वकारणवाक्यानां वैशेषिकवचोबलात्।
पशुच्छागनयस्थित्या तस्मिन्नेव हि विश्रमः।।
इति जन्माद्यधिकरणम्।।2।।
शास्रयोनित्वात्।।3।।
यतोवेत्यादिवाक्यं तत्पुरोवादसहितं जगत्कारणं ब्रह्म प्रतिपादयतीत्युक्तमनुपपन्नम्।ब्रह्मणोऽनुमानगम्यत्वेन तत्र शास्रस्य प्रामाण्यासंभवात् इत्याक्षेपिकी अवान्तरसङ्गतिः।ब्रह्मणि शास्रस्य प्रामाण्यं सम्भवति न वेति, तस्यानुमानगम्यत्वतदगम्यत्वादाभ्यां संशये पूर्वपक्षः।न सम्भवति तत्र प्रामाण्यं, महीमहीधरादिकं सकर्तृकतं कार्यत्वात् घटवदिति सावयवत्वानुमितकार्यत्वलिङ्कस्य नैयायिकोक्तस्य तदनुमानस्य जागरूकत्वात्। कार्यत्वलिङ्गं सावयवत्वं न सांशत्वमात्रं, येन कालवियदादिसांशत्ववादीनां तेषु व्यभिचारस्स्यात्।यदवयवाः ततः परस्माच्च पुरुषयत्नेन वियोजनार्हाः तत्सावयवमिति विवक्षितं, अतोनक्वापि व्यभिचारशङ्का।एवं मानान्तरप्राप्ते- ऽर्थे शास्रस्य प्रामाण्यं न सम्भवति।ननु निमित्तमात्रेश्वरसाधकेनानुमानेन अभिन्ननिमित्तोपादानत्वरूपस्य शास्रार्थस्य प्राप्तिर्नास्तीतिचेत्-न।अनुमानविरोधेन तस्मिन्नर्थे शास्रस्याप्रामाण्यात्।ननु बलवत्प्रमाणेन शास्रेण विरोधात् अनुमानमेवाप्रमाणमिति चेन्न।ईश्वरानुमानमनपेक्ष्य शास्रप्रामाण्यस्यैव निर्वोढुमशक्यत्वात् "मन्त्रायुर्वैदवत्तत्प्रामाण्यमाप्तप्रामाण्या"दिति न्यायसूत्रकृता शास्रस्य प्रामाण्यमीश्वरनिर्मितत्वेनैव प्रसाधितं, तत्प्रसाधनं शास्रप्रामाण्यसिद्धिः प्रागेव अनुमानेनेश्वरसिद्धिमपेक्ष्त इति उपजीव्यविरोधात्, उपादानत्वांशे उपजीव्यतः प्राप्तर्थत्वात् निमित्तत्वांशेच शास्रमप्रमाणम्।न च ईश्वरनिर्मितत्वमनपेक्ष्य महाजनपरिग्रहादेव शास्रस्य
प्रामाण्यमुपपद्यत इति वाच्यं।अन्यपरम्पराशङ्कानिराकरणाय महाजनपरिग्रहे गुणवद्वक्तकत्वरूपमुपदार्ढ्या- पेक्षणात्।एवं शास्रस्य अनुमानापेक्षप्रवृत्तिकत्वादेव "तत्तेजोसृजते"त्यादिवाक्यैः यदीक्षापूर्वकस्रष्ट्टत्वरूपं कर्तृत्वमुक्तं, तदनुमानमूलमिति व्यञ्जयितुमेव "अनेन शुङ्गेनापोमूलमन्विच्छ अद्भिस्सोम्यशुङ्गेन तेजोमूलमन्विच्छ तेजसासोम्यशुङ्गेन सन्मूलमन्विच्छे"ति कारणानुमानं प्रदर्श्य "सन्मूलास्सोम्येमाः प्रजाः" इत्याद्युक्तं।ननु ईश्वरस्य कर्तृत्ववदुपादानत्वस्यापि प्रतीतेः, नहि कर्तृमात्रविषयमिति चेन्न।घटादिषु कुलालादेः याद्दशं कर्तृत्वं द्दष्टं, ताद्दशकर्तृत्वाधिकरणत्वेनैव हि ईश्वरोऽनुमानेन साधनीयः।कुलालादिषु मृत्पिण्डादिसकलोचेतनद्दष्टकारणाधिष्ठातृत्वरूपमेव कर्तृत्वन्द्दष्टमिति, द्दष्टानुरोधात् तथाभूतकर्तृत्वेनेश्वरानुमानं निमित्तोपादानभेदगर्भं कथमुपादानत्वांशे शास्रप्रामाण्यप्रतिक्षेपकं नस्यात्।तस्माल्लक्षणोक्तिमात्रेण चारितार्थ्याभावात् लक्ष्ये तस्य लक्षणवेशिष्ट्ये च प्रामाण्यस्य वक्तव्यत्वात्।इह च अभिन्ननिमित्तोपादानत्वरूपे लक्षणे वेदान्तानां प्रामाण्यासम्भवात् वेदान्तमुखेन कर्तव्यतयाऽभिमतो ब्रह्मविचारो न कर्तव्य इति तदर्थमिदं शास्रन्नारम्भणीयमिति। एवं प्राप्ते सिद्धान्तः-महीमहीधरमहार्णवादीनामेकेन कर्त्रा युगपतकृतत्वेनैव सकर्तृकत्वं निर्वाह्यमित्यत्र प्रमाणन्नास्ति।महतो देवालयस्य प्रासादमण्डपगोपुरप्राकारदीनामिव तेषां क्रमेण बहुभिः कृतत्वेनापि सकर्तृकत्वोपपत्तेः।प्रत्युत
महीमहीधरादिकमनेककर्तृकं, यावत्संप्रतिपन्नैककर्तृकघटादिभ्यो महाकार्यत्वात्, गोपुरप्राकारवदिति बहुकर्तृकत्वस्यैव अनुमातुं शक्यत्वाच्च।न च लाघवात्कर्त्रैक्यसिद्धिः, नहि प्रसिद्धसंसारिविलक्षणा बहवः कर्तारः कल्प्यन्ते, किन्तु तेष्वेव केचित्कर्मोपासनाविशेषैरुपचितपुण्यविशेषाः क्षित्यादिषु कस्यचित्कस्यचित्कालविशेषेषु कर्तारः कल्प्यन्ते।प्रसिद्धं हि अगस्त्यविश्वामित्रादीनां विन्ध्यस्तंभनमहार्णवचुळकीकरणस्वर्गान्तरसृष्ट्यादिकं सामर्थ्यं, अद्यतनेष्वंकुरादिष्वपि सूक्ष्मव्यवहितविप्रकृष्टार्थ- ज्ञानादिमनतस्तत्र सन्तो योगिनः कर्तारस्सम्भवन्ति।अतओः क्षित्यादिसकलोपादानगोचरापरोक्षज्ञानचिकीर्षादिमतः संसारिविलक्षणस्य कस्यचित्कर्तुः कल्पन एव धर्मिकल्पनागौरवम्।एवं च घटादिद्दष्टान्तेन क्षित्यङ्कुरादीनां शरीरजन्यत्वसिद्धिरप्यनिवारिता भवति।किं च लाघवादेकः कर्ता सिध्यन् प्रसिद्धसंसारिविलक्षणः सिध्द्यतीति कोऽर्थः।किं वस्तुतः एकः कर्ता सिध्द्यतीतिस उत एकत्वविशिष्टस्सिध्द्यतीति।नाद्यः।एकत्वाविषयत्वे वस्तुतः एकः कर्ता सिध्द्यतीति, उत एकत्वविशिष्टस्सिध्द्यतीति।नाद्यः।एकत्वाविषयत्वे वस्तुत एकः कर्ता विषय इति निर्णेतुमशक्यत्वात्।न द्वितीयः।एकत्वस्य संख्यारूपत्वे प्रत्येकन्तद्वैशिष्ट्यसत्वेन तत्सिद्धेः बहुकर्तृत्वाविरोधित्वात् अनेककर्तृकत्वाभावविशिष्टं सकर्तृकत्वं साध्यमिति चेन्न।गोपुरादिषु व्यभिचारात्, लघुविषयोपनायकतया त्वदभिमतस्य लाघवस्य बहुविषयोपनायकत्वापत्तेश्च।नह्येवं संप्रतिपन्नं प्रमाणानुग्राहकमस्ति, यदग्रे वस्तुलाघवसिध्द्यर्थं स्वानुग्राह्यप्रमाणस्य विषयगौरवमापादयेत्, तथासति इष्टपुरोवर्तिज्ञानस्य प्रवत्तिकारणतां गृह्णतः प्रमाणस्य अनुग्राहको लाघवतर्कः, भ्रमस्थले व्यधिकरणाप्रकारकज्ञानस्य अकल्पनया अग्रे वस्तुलाघवसिध्द्यर्थं भेदाग्रहमेव कारणतावच्छेदकत्वेनोपनयेत्, न तु ज्ञानवित्ति वेद्यतयोपस्थितं वैशिष्ट्यम्, अतो लाघवात्कर्त्रैक्यसिद्धिरित्ययुक्तमेव।एतेन साध्यमानस्य कर्तुः कर्तृतोपयुक्तानां अपरोक्षज्ञानचिकीर्षाकृतीनां लाघवात्प्रत्येकमेकत्वासिद्धौ तदाश्रयकर्त्रैक्यसिद्धिरत्यपि निरस्तम्।कर्त्रैक्यसिद्धिपक्षोक्तविकल्पमुखदूषणानामत्रापि सत्वात्, कस्यचिज्ज्ञानं कस्यचिच्चिकीर्षा कस्यचित्कृतिरित्येवमाश्रयभेदसिद्धिनिवारणाय पुनस्तदाश्रयैक्यस्यापि साधनीयत्वापत्तेः।न हि ईश्वरज्ञानादीनां त्वन्मते नित्यानां जन्मजनकभावोऽस्ति, येन समानाधिकरणानामेव तेषां जन्मजनकभावदर्शनात् तदाश्रयैक्यं सिध्येत्, एवं च तेषामेकैकत्वहेतुकनित्यत्वासिद्धेः, एवं च योगिनामपरोक्षज्ञानादिभिरपि सिद्धसाधनमनिवार्यम्।न च क्षित्यंकुरादिजननपूर्वक्षणे तत्र तत्र तेषां सन्निधानमक्लृप्तमिति वाच्यम्।"धर्मिकल्पतो वरं धर्मकल्पने"ति न्यायेन योगशास्रादिप्रमाणकानां तेषां सन्निधानमत्रस्य कल्पनौचित्यात्।ननु अनुमानेन कर्तृमात्रसिद्धौ "द्यावाभूमी जनयन् देव एक" इत्यादिश्रुतितस्तदैक्यसिद्धिरस्त्वतिचेत्, तर्हि अनुमानेन अप्रत्याख्यातानां भगवतो निरतिशयानन्दाद्यनन्तकल्याणगुणानां नित्यविग्रहस्य "तदैक्षते"त्यादिश्रुतिसिद्धतत्तत्सृट्यादिसङ्कल्पाद्यनित्यत्वस्य च ततस्सिद्धिर्ननिवार्येति, न नित्यानुवर्तमानशरीररहितनित्यापरोक्षज्ञानादिविशेषगुणत्रययुक्तनैयायिकाभिमतेश्वर- सिद्धिरिति, न तदनुमानसिद्धेश्वरानुवादकत्वादिना शास्कस्याप्रामाण्यप्रसक्तिरिति, प्रमाणभूतेन शास्रेण
जगत्कारणत्वसत्यसङ्कल्पत्वाद्यनन्तकल्याणगुणाधारपुरूषोत्तमाभिधपरब्रह्मसिद्धिरप्रतयूहेति सिद्धम्।।
सङ्ग्रहकारिके।।
जगतः कारणं ब्रह्म सिध्द्यत्येवानुमानतः।
अतो विचार्या वेदान्ता न तत्सिद्धानुवादिनः।।
नैतत्साध्वनुमानाद्धि कर्त्रैक्यादि न सिध्यति।
अतस्तत्कारणं ब्रह्म वेदान्तैकप्रमाणकम्।।
इति शास्रयोनित्वाधिकरणम्।।
एवं मानान्तरसिद्धिमूलाप्रामाण्यशङ्कानिमित्तकशास्रानारभशङ्कानिवारिता --अथ अफलत्वनिबंधनतदनारंभशङ्करणार्थं चतुर्थमधिकारणम् --
तत्तुसमन्वयात्।।4।।
वेदान्तानां सिद्धरूपे ब्रह्मणि मानान्तराप्रवृत्तावपि प्रामाण्यं न सम्भवति, सिद्धरूपब्रह्मपरवाक्यस्य प्रवृत्तिनिवृत्तिपरवाक्यस्येव पुरूषार्थ- पर्यवसायित्वासम्भवेन श्रोतृणां तत्र बुभुत्सा नोदेतीत्यबुभुत्सिते श्रोतृणां प्रमित्यनुदयेन तेषां प्रामाण्योक्तेर्निरालम्बनत्वात्। न च यथा केनापि हे- तुना रथ्यायां पतितस्य किरातैस्संनर्धितस्य
किरातपुत्रोऽहमित्यभिमन्यमा नस्य राजकुमारस्य "न त्वं किरातपुत्रः, किं तु राजकुमारः, तव
पिता महाराजस्तरूणो निरतिशयभोगशालि राजयं परिपालयन्नास्त, इति सिद्धार्थ वाक्यश्रवणेन हर्षो जायते, एवमिहापि तव अन्येषां च पितृस्थानीयो निखिलहेयप्रत्यनीकसर्वज्ञत्वसत्यसङ्कल्पदयादाक्षिण्यमहोदारत्वाधनन्त कल्याणगुणशालि भगवानास्त" इति वाक्यश्रोतुर्महान् हर्षोजायते, स च तत्पाप्युपायमन्विण्य तं प्राप्नोति" त्येवं सिद्धार्थवाक्यस्यापि हर्षतुत्वेन पुरूषार्थपर्यवसानमुपपधत इति वाच्यं। तस्य हर्षस्य रा जकुमारहर्षस्येव तात्कालिकत्वेन मुक्तेः स्थिरषुरूषार्थत्वाभावापत्तेः। न च तं प्राप्तस्य तदीयनिरतिशयानन्दानुभवस्सदा वर्तमाननोभवति, सस्स्थिर पुरूषार्थस्स्यादिति वाच्यम्। परकीयानन्दज्ञानस्य परं प्रत्यपुरूषार्थत्वादिति पुर्वपक्षः। सिद्धान्तस्तु- तात्कालिकहर्षस्तावदस्त्येव। ब्राह्मनिरतिशयानंद साक्षात्कारक्ष्च ब्रह्मणा सह भोगसाम्यसहितः स्थायी पुरूषार्थः, नतु तत्र स्वकीयत्वमपेक्षितं, साक्षात्कारत्वविशेषणे अतीतस्वकीयसुखादिस्मरणस्यापि सुखसाक्षात्कारवत्पुरूषार्थत्वप्रसङ्गात्, तद्धिशेषणे ततएवातिप्रसङ्ग निवारणेन स्वकीयत्वविशेषणानपेक्षणादिति--
संग्रहकारिके।
तथाऽपि सिद्धरूपेऽस्मिन् वेदान्तानां नमानता।
प्रवृत्त्यादिपरत्वस्याभावादफलशालिनां।।
मैवं स्वमन्दिरान्तस्थनिधिबोधकवाक्यवत्।
ताद्दग्ब्रह्मावबोघित्वात्ते स्वतः फलशालिनः।।
इति समन्वयाधिकरणम्।।4।।
एवं शास्त्रानारम्भहेतुशंकाचतुष्टयनिराकरणक्मेऽध्यायकमोहेतुः, तत्र सिद्धरूपे ब्रह्मणि व्युत्पत्तिसमर्थनं समन्वयाध्यायोपयोगि, विशेषणा नामविरोधसमर्थनमविरोधाध्यायोपयोगि, अनुमानतस्सिद्धिनिराकरणं साधनाध्यायोपयोगि,अनुमनातस्सिद्धौ हि अनुमानसिद्धज्ञानादित्रयवत्तया संरव्यादिपञ्चकवत्तया च ब्रह्मोपासना सिद्धेत्, नत्वानन्दादिगुणवत्तया। पुरूषार्थपर्यवसानवर्णनन्तु फलाध्यायोपयोगीति स्पष्टमेव। एवं उपोद्धाताधिकरणचतुष्टयेन शास्रारम्भे समार्थिते सति ईक्षत्यधिकरणमारभ्य शास्रं प्रतायते।।
ईक्षतेर्नाशब्दं।।5।।
गौणश्चेन्नात्मशब्दात् ।।6।।
तन्निष्टस् मोक्षोपदेशात् ।।7।।
हेयत्वावचनाच्च ।।8।।
प्रतिज्ञाविरोधात् ।।9।।
स्वाप्ययात् ।।10।।
गतिसामान्यात्।।11।।
श्रुतत्वाच्च।।12।।
शास्त्र काण्डद्विकाध्यायपादसंगतयस्स्फुटाः। पेटिकासंगतिर्वाच्या तथाऽवान्तरसङ्गतिः।। वेदार्थविचारत्वाद्ब्रह्मकाण्डसङ्गतिः, कारणविषयत्वात् द्विकसंगतिः, कारणवाक्यसमन्वय विषयत्वादध्यायसंगतिः,
स्पष्टतरप्रधानजीवलिंगवाक्यविषयत्वापादसंगतिरिति पञ्चसङ्गतयस्स्फुटाः। पेटिकासङ्गतिरवान्तरसङ्गतिश्च वक्तव्योच्यते-- ब्रह्म जगतः कारणमेव नभवति, किन्तु प्रधानजीवाकाशादिकमिति शङ्कानिरासेन ब्रह्मकारणत्वायोगव्यवच्छेदः, उपोद्घाताधिकरणचतुष्टयानन्तरप्रथमपादशेषरूपपेटिकार्थ इति पेटिकासङ्गतिः। कारणत्वाक्षिप्ताः ब्रह्मणस्सर्वज्ञत्वसत्यसङ्कल्पत्वादिगुणास्तत्क्रतुन्यायेन मुक्तप्राप्या गुणाः, तस्य महाभोगशालित्वगुणः निरञ्चनः परमं साम्यमुपैति। "भोगमात्र साम्यलिंगाच्चे"ति श्रुतिस्मृत्यनुसारेणापि मुक्तप्राप्योगुणः, ब्रह्मणोनिरतिशयानन्दस्तु मुक्तस्य स्वयमप्राप्योऽपि सदाऽस्वाद्य इत्यनन्तकल्याणगुणाकरस्य निरतिशयमहानन्दशालिनः परब्रह्मणः प्रतिपादनं पुरुषार्थपर्यवसायि भवत्येवेति हि समन्वयाधिकरणे विवक्षितं, तदयुक्तं, सर्वेषां कारण वाक्यानां प्रधानविषयत्वादित्याक्षेपिकी अवान्तरसङ्गतिः। छान्दोग्ये श्रूयमाणा "सदेवसोम्येदमग्र आसी"दित्यादिरूपा सद्विद्या खलु कारणवाक्येषु सारभूता, सा
तावन्न ब्रह्मप्रतिपादिनी। किंतु सांख्यानुमानसिद्धप्रधानानुवादिनी, "सदेवसोम्येदमग्रआसी"दिति प्रतिज्ञानिर्देशेन यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यादिति दृष्टांतोपादानेन अनुमानसिद्धार्थानवादकत्वस्य स्वयमेव श्रुत्या स्फुटीकरणात्। नच अचेतनस्य प्रधानस्य ईक्षणं नसम्भवतीति तदैक्षते ति श्रवणमनुपपन्नं स्यादिति वाच्यम्। "वृष्टिप्रतीक्षाश्शालयः"। वृष्ट्या मोदमानाश्शालयः कन्दलन्ती त्यादिव्यवहारेषु अचेतनानामपि चेतनवदुपचारदर्शनात्, कूलंपिपतिषती त्यत्र कूलस्य पतनकार्यौन्मुख्ये गौणेव्यवहारवत् सतः तेजस्सृष्टिकार्यौन्मुख्ये गौणेक्षणव्यवहारोपपत्तेः, "तत्तेजऐक्षत"। ता आप ऐक्षन्ते ति गौणेक्षणप्रायपाठेन सदीक्षणस्यापि गौणत्वनिर्णयाच्चेति पूर्वपक्षः। सिद्धान्तस्तु-- प्रतिज्ञातावत् प्रत्यक्षाद्यवगतार्थबोधनसाधारणी, दृष्टान्तनिर्देशोऽपि प्रतिज्ञातार्थस्य बुद्यव्यारोहार्थतया अन्यथासिद्धः, तत्साधारण एव। अन्यथा "येनाश्रुतं श्रुतं भवती"ति एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा बुध्द्यारूढा नस्यात्, हेतुवचनमात्रमनुमानासाधारणन्तदिह न श्रूयते। ननु अन्नेन शुङ्गेनापोमूलमन्विच्छ अद्भिस्सोम्यशुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्चे ति वाक्येषु अन्नादिकार्यरूपलिङ्गेन कारणानुमानमुपन्यस्तं दृश्यते-- सत्यं-- उपक्रमोपसंहारावभ्यासोऽपूर्वताफलं। अर्थवादोपपत्ती च लिंगं तात्पर्यनिर्णय इति श्रुतितात्पर्यनिर्णायकलिङ्गेषु परिगणितमुपपत्तिरूपमिदं लिंगं नत्वत्र प्रधानसाधकत्वेन सांख्याभिमतस्य कस्यचिल्लिंगस्य निर्देशोऽस्ति, सर्वे कार्ये सुख दुःखमोहात्मकद्रव्यप्रकृतेकं, तत्समन्वितत्वात्, सामान्यव्याप्तौ घटादिवदित्यादिकं हि सांख्यानां प्रधानसाधकमनुमानमभिमतं, नतदिहश्रुत्याकटाक्षेणापि वीक्षितमस्ति। गौणेक्षणप्रायपाठस्तु नसदीक्षणस्य गौणत्वापादकः, सन्#िध्याम्नानलक्षणप्रायपाठरूपपञ्चमप्रमाणस्य ईक्षणश्रुतितद्वाच्येक्षणलिंगबाधकत्वायोगात्। किञ्च "ऐतदात्म्यमिदं सर्व तत्सत्यं सआत्मे"ति सर्वस्य प्रपञ्चस्य सदात्मकत्वोक्तिः तदुद्देशेन सतआत्मत्वोक्तिश्च अचेतने प्रधाने नघटते। एवञ्च सर्वस्य प्रपञ्चस्य आत्मभूतं तेजःप्रभृतिशरीरकं सदेव तत्तेज ऐक्षते त्यादिषु ईक्षितृत्वेन विवक्षितमिति नगौणेक्षणप्रापयपाठशङ्कापि। अपि च मुमुक्षोः स्वेतकेतोः तत्वमसी ति सदात्मकत्वानुसन्धानमुपदिश्य "तस्य तावदेव चिरं यावन्नविमोक्ष्ये अथसंपत्स्य" इति तत्फलतया शरीरपातानन्तरं मोक्षउपदिश्यते। नच प्रधाननिष्ठस्य मोक्ष इति सांख्यानामप्यभिमतं मोक्षउपदिश्यते। नच प्रधाननिष्ठस्य मोक्ष इति सांख्यानामप्यभिमतं, तेषामपि मुमुक्षूणां हेयमेव हि तदभिमतं, अतोहेयत्वावचनादपि न सत्प्रधानं। सर्वविज्ञानप्रिज्ञाविरधादपि नसत्प्रधानं, नहि प्रधानज्ञानेन तत्कार्यतया तदभिन्नस्य महदादिकार्यवर्गस्य ज्ञातत्वसम्भवेऽपि चेतनवर्गस्य ज्ञातत्वमुपपद्यते। अपिच सुप्तपुरुषस्य सता सोम्य तदा सम्पन्नोभवतीति सत्सम्पत्तिमुपदिश्य स्वमपीतोभवती ति तस्याः स्वाप्ययरूपत्वं सङ्कीर्तितमिदं सद्ब्रह्मेति
पक्षे घटते, पुरुषः सुषुप्तेः प्राक् ज्ञानविकासादिरूपस्थूलाकारविशिष्टजीवशरीरकः कार्यरूपः परमात्मा सुषुप्तौ तमाकारं परित्यज्य ज्ञानसङ्कोचरूपसूक्ष्माकारविशिष्टजीवशरीरके स्वस्मिन् कारणरूपे लीनो भवतीति। अपिपूर्वकस्य इण्धातोर्लयार्थत्वात् "सर्वस्य प्रभवाप्ययौ हि भूतना"मित्यादिश्रुत्यंतरेषु भवाप्ययौ हि भूताना मि#्यादिगीतावचनेषु च तस्य तादर्थ्यदर्शनात्, सच्छब्दस्य च अत्र कारणवस्तुपरस्य सूक्ष्मचितचिद्वस्तुशरीरक परमात्मपरतायालक्षणसूत्रे दर्शितत्वात्। सत्प्रधानमिति पक्षेतु स्वाप्यसङ्गीर्तनं नघटते, प्रधाने स्वशब्दस्य स्वीयपरतयोपपत्तावपि जीवं तच्छरीरकपरमात्मनाञ्च प्रति अकारणे तस्मिन् तयोर्लयासम्भवात्। किञ्च " आत्मावा इदमेकएवाग्रआसीति " । आत्मन आकाशस्संभूत " इत्यादिश्रुत्यन्तरणां परमात्मनएव सर्गाद्यकाले अवस्थानं आकाशादिस्रष्टुत्वञ्च प्रतिपादयन्तीनां या गतिः प्रवृत्तिः तत्सामान्यं सद्विद्यायामप्स्ति सदेवसोम्येदमग्रआसी दिति। ततोऽपि नसत्प्रधानं, श्वेताश्वतरोपनिषदि सहस्रशीर्षा पुरुषः पुरुषएवेदं सर्वमिति पुरुषसूक्तमन्त्राभ्यां तत्प्रतिपाद्यं भगवंतं प्रस्तुत्य सकारणं करणाधिपाधिपोनचास्य कश्चिज्जनिचा नचाधिप इति तस्य साक्षादेव जगत्कारणत्वप्रतिपादनेन सद्विद्यायास्तदैकार्थ्यावश्यम्भावादिति सत् भगवान् पुरुषोत्तमः परंब्रह्मैवेति।।
संङ्ग्रहकारिकाः।।
सद्विद्यायां कारणं सत्पदोक्तम्
सांख्यैरुक्तं लिङ्गगम्यं प्रधानं।
हेत्वाक्षेपाद्वर्णिताभ्यां प्रतिज्ञा
दृष्टान्ताभ्यां न्यायवाक्यांशकाभ्यां।।
मैवं सर्वेषु मानेषु प्रतिज्ञा न निवार्यते।
बुध्द्यारोहे ऽपि दृष्टान्तस्तद्धेत्वाक्षेपकौ न तौ।।
तस्मादीक्षतिलिङ्गादात्मश्रुतितो मुमुश्रुवेद्यत्वात्।
गतिसामान्यादिभिरपि सच्छब्दं कारणं ब्रह्म।।
इति ईक्षत्यधिकरणम्।।
आनन्दमयोऽभ्यासात्।।13।।
विकारशब्दान्नेति चेन्न प्राचुर्यात्।14।
तद्धेतुव्यपदेशाच्ञ।15।
मान्त्रवर्णिकमेव च गीयते।16।
नेतरोऽनुपपत्तेः।17।
भेदव्यपदेशाच्ञ।18।
कामाच्ञ नानुमानापेक्षा।19।
अस्मिन्नस्य च तघोगं शास्ति।।10।।
यदिसतो मुरव्यमीक्षणं वाच्यं, तर्हि चेतनत्वान्मुरव्येक्षणार्हो जीवएव जगत्कारणमास्त्विति पूर्वपक्षोत्थानादनन्तरसङ्गतिः, तैत्तिरीयाः आनन्दवल्लयां"ब्रह्मविदाप्नोतिपर, मित्युपक्म्य किन्तब्ह्म कीद्दशन्तद्धेदनं कीद्दशंतद्धेदनफलमित्याकांक्षायां सत्यं ज्ञानमनन्तं ब्रह्म। योवेद विहितं गुहायां परमेव्योमन्। सोऽक्ष्नुते सर्वान्कामान् सह ब्रह्मणा विपक्ष्चिता। इति मन्त्रेण ब्रह्मणस्स्वरूपं तद्धेदनप्रकारं तत्प्राप्य फलस्वरूपञ्चोपवणर्य।तस्माद्वा एत स्मादात्मन आकाशस्सम्भूत" इत्यादिना तस्मादेव ब्रह्मणआकाशादिसकल जगदुत्पत्तिमुक्तवा तस्य सुखप्रतिपत्त्यर्थं स्थूलारुन्धतीन्यायेन अन्नप्राणमनो बुद्धिषु क्रमेण तहुद्धिमवतार्य तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्माऽऽनन्दमय।इति आनन्दमयमुपक्रभ्य तस्मिन्नेव प्रस्तुतजगत्कारणब्रह्म बुद्धिस्समापिता, तदनन्तरं तस्माद्धा एतस्मादानंदमयादन्योऽन्तर आत्मो, ति आत्मान्तरोपदेशाभावात्।स
किमानन्दमयो जीवः, उत परमात्मे"ति संशये पूर्वपक्षः --जीव एवायं, एष एव शारीर आत्मे, ति शारीरस्वश्रवणात्, तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः। प्रभोद उत्तरः पक्षः आनन्द आत्मा। ब्रह्मपुच्छं प्रतिष्ठ"ति प्रियमोदप्रमोदानन्दशाब्दितेष्टवस्तु दर्शनतल्लाभतदुपयोगजन्यसुखतदनन्तरानु -- वर्तमानतृप्तिसुखसम्बन्धलिंगात्, यन्तसम्पादनीयभोग्यस्य जीवस्येव नित्यावाप्तसमस्तकांमस्य ईक्ष्वरस्य इष्टवस्तुलाभजन्यसुखविशेषाणामाशङ्काऽनास्पदत्वात्, तस्माद्धा एतस्मादात्मनआकाशस्संभूत" इत्यत्र तस्मादित्यनेन परामृष्टस्य प्रकृतस्य ब्रह्मणो जीवरूपत्वप्रतिपत्त्यर्थं "एतस्मा, दिति निर्देशेन इदानीमनुभूयमानतायाः "आत्मान" इति निर्देशेन लेकवेदप्रसिद्धात्मशब्दवाच्यतायाक्ष्च स्फुटीकरणात्, तदनन्तरं लौकिकाज्ञामगहंबुद्धिषु स्थुलारुन्धतीन्यायेन तटुघ्घवतारणाञ्च, अन्नप्राणादिषुं लैकिकानां ब्रह्मबुघ्घभावेन तेषु ब्रह्माविषयस्थुलारून्धतीन्यायानवतारणात्। न च जीवस्य सर्गाघकाले स्वशरीरसृष्टेः प्राक् शरीराभावेन तत्साध्यसृष्टि सङ्कल्पानुपपत्तेः स्वशरीरसृष्टच्योगात् तन्मूलसृज्यान्तरसृष्टचसम्भवश्शङ्कनीयः, तदानीमप्यनादीलिङ्गशरीरसत्त्वेन ततएव सृष्टिसङ्कल्पस्य तन्मूलसृज्यवनर्गस्य चोपपत्तेः, अभावं वादरिराह ह्येव, मित्यधिकरणे मुक्तानां शरीराभावदशायां सङ्कल्पजपित्रादिस्त्रष्टत्वस्य ततएव उपपादयिण्यमाणत्वात्। ननु आनन्दमयोक्तयनन्तरं ब्रह्मपुच्छं प्रतिष्ठे" ति ततोऽन्यदेव ब्रह्म श्रूयत इति चन्ने।प्रियमेव शिर" इत्यादिना जीवानन्दावयवानां मुक्तयनन्तरं तदीयाखण्डानन्दस्य संसारदशायामावृतस्य तत्र ब्रह्मशब्देनाभिधानात्, तस्यैव च अखण्डानन्दस्य मुक्तिदशायामाभिव्यक्तिः तद्वेदनफलत्वेन ब्रह्मणा विपक्ष्चिते, ति ब्रह्मशब्देन प्रदर्शिता, तत्र हि भोग्य साहित्ये तृतीया, न भोक्तृकर्तृकभोगस्य आनन्दमयोपासना फलकोटौ निर्देशायोगात्। न च पुच्छब्रह्यणोजीवान्यत्वाभावे असन्नेव सभवति अस्ति ब्रह्मेति चेद्धेद सन्तमेनन्ततो विदु रिति ब्रह्मसत्त्वासात्ववेदनोक्तिर्नयुज्यते, जीवसत्त्वस्य सुप्रसिद्धत्वेन तस्यासत्त्वशह्कानर्हत्वादिति वाच्यम्। अन्नमयादिक्ष्लोकानां पुच्छलद्विषयत्वेन आनन्दमयपर्यायक्षलोकस्यापि पुच्छवदानन्दमयविषयताया एव युक्तत्वात्, आनन्दमयस्य प्रियमोदादिमत्तया प्रसिद्धावपि ब्रह्मशब्दोक्ताखण्डानन्दवत्तया प्रसिध्द्यभावेन सत्त्वासत्त्ववेदनयोस्तद्विषयतोपपत्तेः। तस्मादानन्दवल्ल्यां जीवएव जगत्कारणत्वेन प्रतिपाद्यते, नतु तदतिरिक्तं
ब्रह्म, एवंच तदनुसारेण कारणवाक्यान्तराण्यपि जीव एव पर्यवस्यन्ति। अतएव सद्विद्यायां सच्छब्देन उपक्रान्तं जगत्कारणं वस्तु तत्त्वमसी ति जीवरूपतयोपसंहृतमिति। एवं प्राप्ते सिद्धांतः- "यतोवाचोनिवर्तन्ते अप्राप्य मनसा सह। आनन्दं ब्रह्मणोविद्वान्नबिभेतिकुतश्चने " ति निरतिशयदशाशिरस्कत्वेन अभ्यस्यमानो महानन्दो जीवेऽल्पसुखभागिनि असम्भाव्यमानः तदितरमीश्वरमाश्रयमासाद्यैव निर्वृणोति। एवं भूतमहानन्दभागानन्दमय ईश्वर एव, न जीवः, जीवस्याप्येवंभूत आनन्दोभ्युपेयत इत्युक्तमितिचेत्, सत्यमुक्तं दुरुक्तं तु तत्। "युवास्यात्साधु
युवाध्यायकः आशिष्ठो द्रढिष्ठोबलः " तस्येयं पृथिवि सर्वा वित्तस्य पूर्णा स्यात्। स एको मानुषआनन्द "इत्युक्तलक्षणमानुषानन्दप्रभृतिप्राजापत्यानन्दान्तसकलप्राणिवर्गानन्दजातादधिकतमतया " ते ये शतं प्रजापतेरानन्दाः। एकोब्रह्मणआनन्द " इति कीर्तितस्य आनंदमयानन्दस्य पूर्ववाक्येषु तदपेक्षया अतिक्षुद्रानन्दभाक्त्वेन कीर्तिते जीववर्गे संभावनानर्हत्वात्। किञ्च " तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तरआत्मानंदमय " इति विज्ञानमयशब्दिताज्जीवादन्यत्वेनोपक्रांतस्य आनंदमयस्य कथं जीवत्वाशङ्का। नच विज्ञानमयशब्दबुद्धिपरश्शङ्कनीयः, " योयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योति "रित्यादिश्रुत्यन्तरेषु जीव एव प्रयोगात् विज्ञानमयपर्याये " विज्ञानं देवास्सर्वे ब्रह्मज्येष्ठमुपासत " इति केवलविज्ञानशब्दोऽपि श्रूयत इति चेत्-- तस्यापि "यो विज्ञाने तिष्ठ "न्नित्यादिश्रुत्यन्तरेष्विव जीवपरत्वात्, विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपिचे ति तस्य यज्ञादिषु कर्तृत्वश्रवणात्, बुद्धेस्तेषु करणत्वेन कर्तृत्वाभावात्। अपि च जीवमानंदमयं वदता तत्र मयडर्थः कइति वक्तव्यं, न विकारः, "मयड्वैतयोर्भाशायामभक्ष्याच्छादनयो" रिति सूत्रेण भाषायामेव विकारावयवार्थयोर्मयड्विधानात्, कथन्तर्हि " यस्य पर्णमयीजुहूर्भवती "त्यादिवैदिकप्रयोगः, "व्द्यचश्छन्दसी"ति विधानांतरात्। इदं हि छन्दसिमयटोऽप्राप्तस्य च प्राप्त्यर्थं विधानं, कथं तर्हि वैदिको विज्ञानमयशब्दः, तस्माद्विकारार्थत्वासंभवात् आनंदमयोऽपि मयड्प्राचुर्यार्थएव वाच्यः। प्राचुर्यार्थत्वञ्च प्रागुदाहृतानंदमीमांसावाक्यशेषोपदर्शितप्रकारेण मानुशादिप्राजापत्यांतसकलजीववर्गसुखापेक्षया आधिक्यरूपमिति
न कस्यापि जीवस्य आनन्दमयत्वशङ्कावकाशः। एतेन आनंदप्राचुर्यार्थक आनंदमयशब्दो जीवेऽप्युपपद्यते, सांसारिकदुःखलवभाजि मुक्त्यभिव्यंग्यमहानन्दवति जीवे समानाधिकरणदुःखाल्पत्वापेक्षा ऽऽनन्दाधिक्यरूपप्राचुर्यार्थसंभवात्। प्राचुर्यार्थशब्दस्य उत्तरत्वे समानाधिकरणविजातीयाल्पत्वापेक्षमेव हि प्राचुर्यमर्थः, नतु "प्रचुरब्राह्मणोग्राम " इत्यत्रेव व्यधिकरणसजातीयाल्पत्वापेक्षं एव प्राचुर्ये कीर्त्यमाने विधान्तरेण प्राचुर्यग्रहणायोगत्। अव्यवस्थितपौर्वापर्यस्य प्रचुरशब्दरूपस्य नामपदस्य उत्तरत्वे तथा व्युत्पत्तावपि "तत्प्रकृतवचने मयडि"ति सूत्रविहितस्य नियतोत्तरभावस्य मयट्प्रत्ययस्य उत्तरत्वे तथा व्युत्पत्तिकल्पकाभावाच्च। तस्मादानन्दमयोब्रह्मैव। अत एव तस्योपक्रमे जीवोपास्यत्वनिर्देशः, योवेद निहितं गुहाया" मिति जीवासंभावितविविधद्रष्टृत्वरूपसार्वज्ञ्यनिर्देशः, " सह ब्रह्मणा विपश्चिते " ति वाक्यशेषे च " कोह्येवान्यात् कः प्राण्यात्- यदेषआकाशआनंदोनस्यात् -- ए-- षह्येवान्दयाती" ति जीवानंन्दयितृभाव्यपदेशः, सोकामयत बहुस्यां प्रजायेये ति हिरण्यगर्भादिजीवासंभावितप्रधानानपेक्षस्वतन्त्रसृष्टिकामनाव्यपदेशः, रसोवैसः रसं ह्येवायं लब्ध्वाऽऽनन्दी भवतीति जीवास्वादनी यत्वव्यपदेशश्च।एतैरप्युपक्रमोपसंहारगतहेतुभिरानन्दमय न जीवः, किन्तु ब्रह्मैवेति प्रधानस्येव जीवस्यापि न सद्विद्यानंदवल्ल्यादिकारणवाक्यप्रतिपाद्यत्वमिति सिद्धम्।।
संग्रहकारिकाः।।
आनन्दमयस्तावज्जीवश्शारीरताश्रवणात्।
स्रष्टाऽऽकाशादीनामात्मा यः प्रागुपक्रांतः।।
आतस्सदपि सएव स्यादीक्षत्यादिसंभवात्तत्र।
अतएव हि तत्वमसीत्युक्ता जीवात्मता तस्य।।
मैवमभ्यस्यमानोहि जीवे शतगुणोत्तरः।
आनन्दो नैव घटते परमात्मैव तेन सः।।
विज्ञानमयपदोक्ताजीवादन्यत्ववचनाच्च।
तद्भेदकधर्माणामाम्नानाद्वाक्यशेषेच।।
शारीरव्यपदेशस्तत्वमसीति च विनिर्देशः।।
लभते सर्वशरीरे परमात्मन्यपि समञ्जसताम्।।
इत्यानन्दमयाधिकरणम्।।6।।
अन्तस्तद्धर्मोपदेशात्।। 21।।
भेदव्यपदेशाच्चन्यः।। 22।।
जगत्कारणं वस्तु ईक्षणश्रवणात् "तत्वमसी" त्युपसंहाराच्च माभूत्प्रधानं माभूच्चजीवसामान्यं ततोभेदकनिर्देशात्, तथाप्युपचितपुण्यविशेषाणां ब्रह्मेन्द्रचन्द्रसूर्यादीनां विश्वामित्रादीनामृषीणाञ्च मध्द्ये यः कश्चिज्जीवविशेषः कल्पभेदेन स्यात्, तत्रानन्दवल्ल्युक्तजीवसामान्यव्यावर्तकसकलमहिमोपपत्तेरिति प्रत्यवस्थानात्सङ्गतिः। तत्र स्थालीपुलाकन्यायेन किञ्चिद्देवताविषयं वाक्यमुदाह्रियते-- छान्दोग्ये-- " अथ यएषोऽन्तरादित्ये हिरण्मयः पुरुषोदृश्यते हिरण्यश्मश्रुर्हिरण्यकेशआप्रणखत्सर्वएव सुवर्णः तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदितिनाम सएषसर्वेभ्यः पाप्मभ्यउदितः उदेति ह वै स सर्वेभ्यः पाप्मभ्योयएवं वेद तस्य ऋक्च सामच गोष्णा। वित्यादिना आदित्यमण्डलस्यांतरुपास्यः पुरुषोऽभिहितः, "अथ य एषोऽन्तरक्षिणि पुरुषोदृश्यते सैव ऋक् तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्यरूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नामेत्यादिना अक्ष्यन्तरुपास्यः पुरुषोऽभिहितः। अस्मिन् विद्याद्वये उपास्यः पुरुषः षुण्यविशेषेण आदित्यमणडलाधिष्टातृदेवतापदं प्राप्रतोजीवविशेषइति सएव आनन्दवल्ल्युक्तसकलमहिमशाली समस्तकारणवाक्यविषयस्स्यात्, उत ततोऽन्यः परमात्मेति सएव कारणवाक्यानां विषयइति संशयः। आनंदवल्ल्यां "भीषास्माद्वातः पवंतेभीषोदेति सूर्यः " इति सूर्यभयहेतुत्वेन ततोभिन्नआनन्दमयः प्रदर्शितः, इह कथं सएवानन्दमयइति पूर्वपक्षस्यावकाशः।उच्यते-- स्थालीपुलाकन्यायेन इह आदित्यजीवउदाहरणमित्युक्तं।
ब्रह्मेन्द्रादयोऽपि वस्तुतइहोदाहरणानीति कल्पभेदेन यत्तेषां जगत्कारणत्वं पूर्वपक्ष्याभिमतं, तदासाद्यसूर्यभयहेतुत्वसमाम्नानञ्चरितार्थं स्यात्। इन्द्रादिभयहेतुत्वसमाम्नानस्यापि उपपत्तिरेवमेवानुसंधेया। अधिकरणध्युत्पाद्यन्यायस्य ब्रह्मेन्द्रादिसाधारण्येऽपि सिद्धांते मण्डलाभिमानिजीवातिरिक्तं ब्रह्म जगत्कारणं सिध्द्येत्, पुण्डरीकाक्षत्वलिङ्गेन भगवान् पुरुषोत्तम एवेत्यपि, एकयत्नेन सिध्द्यत्वित्यभिसन्धाय सूत्रकृता अन्तश्शब्देन अन्तरादित्यविद्याऽन्तरक्षिविद्याद्वयमिहोदाहरणमिति सूत्रितं।पूर्वपक्षस्तु-- मण्डलाभिमानी जीव एकायं, नतु ततोऽन्यत्सिद्धान्त्यभिमतं ब्रह्म, शरीरश्रवणात्, कर्मनिमित्तंहिशरीरं, कथं कर्मरहितत्वेन सिद्धांताभ्युपगतस्य ब्रह्मणस्तदुपपद्यते। नच सएषसर्वेभ्यः पाप्मभ्यउदित इति सर्वपापरहितत्वेन श्रुतस्य कथं कर्मनिमित्तं शरीरं स्यादिति शंकनीयं, त्रिविधं हि शरीरं, केवलपुण्यारब्धं सुखैकायतनं देवानां, केवलपापारब्धं दुःखैकायतनं स्थावरादीनां, पुण्यपापोभयारब्धं सुकदुःखोभयायतनं मनुष्यादीनां, एवं च न हवै देवात् पापं गच्छतीति श्रुतेः देवानां अपापत्वेऽपि पुण्यमात्रारब्धशरीरे न काचितनुपपत्तिः। ननु सिद्धांत्यभिमतस्य ब्रह्मणो.प्यन्तर्यामिभावेन जीवकर्मनिमित्तशरीरेषु हृदयदेशे अवस्थानलक्षणं शारीरत्वमुपपद्यत इति चेत्, उपपद्यतानानाम, तद्यथाकथञ्चित्, इह न तथाभूतं शारीरत्वमुच्यते किंतु अतिरमणीयतया शरीरिणः स्पृहणीयं तस्य दिव्यभोगायतनं तेनाऽऽकेशमानखाग्रमनुप्रविष्टं यच्छरीरं तेन शरीरेण शरीरवत्वमुच्यते। अत्र "हिरण्मयः पुरुष "इत्यादि एवमक्षिणी इत्यन्तं तस्यातिरामणीयकं वर्णयदुदाहृतश्रुतिवचनमेव साश्रि, तस्मादत्यन्तोपाचितपुण्यविशेषलभ्यमिदं शरीरं जीवस्यैव संभवतीत्येवंरूपशरीरश्रवणादयं जीवएव, न तदतिरिक्ते ब्रह्मणी प्रमाणमस्तीति सएवानंदमयः। अतएव आनन्दवल्ल्यां श्रूयते "सयश्चायं पुरुषे यश्चासावादित्ये सएक " इति । सिद्धांतस्तुनेह श्रूयमाणं शरीरं कर्मनिमित्तं, शरीरिणस्सर्वपापोदयश्रवणात् सर्वेभ्यः पाप्मभ्य उदितत्वं। उदितत्वं हि नीडादुद्गतस्य शकुन्तस्य सर्वधा नीडसंबन्धराहित्यवत् सर्वपाप्मसंबंधराहित्यरूपं गौणं, मुख्यस्य पाप्मापादानकोद्गमनस्यासंभवात्। नच सर्वपापात्यन्ताभाववतः कर्मनिमित्तं शरीरं संभवति, नच पापाभावे.पि पुण्यपापोभयसाधारणत्वात्। "नैनं सेतुमहोरात्रे तरतः न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानो अतो निवर्तत " इति ब्रह्मप्रकरणे पाप्मशब्दस्य सुकृतसाधारण्यश्रवणात्, मुमुक्षुं प्रति दुष्कृतवत् सुकृतस्यापि एते वै निरयास्तात स्थानस्य परमात्मन इति भगवत्पराशरोक्तरीत्या अनिष्टफलत्वेन तस्यापि पाप्मशब्देन ग्रहणौचित्यात्, अलौकिकानिष्टफलसाधनत्वस्यैव पाप्मशब्दुप्रवृत्तिनिमित्तत्वेन मुमुक्षुं प्रति तस्यापि पाप्मशब्दार्थत्वानिवारणाच्च। अथापि स्यात्-- वेदांतेषु न पाप्मशब्दस्य जरामृत्युशोकसुकृतदुष्कृतसाधारण्यनियमोऽस्ति, न जरा न मृत्युर्न शोको न सुकृतं न
दुष्कृतं सर्वे पाप्मानोऽतोनिवर्तत " इत्येवं सङ्कीर्तमवत्येव दहरविद्याप्रकरणे " य एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोक" इति पाप्माभावमुक्त्वापि पृथक् जरामृत्युशोकाभाव प्रतिपादनादिति, तथाऽपि "स एष सर्वेभ्यः पाप्मभ्य उदित" इत्यत्र पाप्मशब्दस्सुकृतसाधारण एव वाच्यः, " उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेदे " ति सर्वपापोदयस्य तत्क्रतुन्यायानुसारिविद्याफलत्वश्रवणात्, सकृतनिवृत्तेरपि विद्याफलत्वस्य चतुर्थाध्याये वक्ष्यमाणत्वात्. तस्मादिह श्रूयमाणं शरीरं न कर्मनिमित्तमिति, अकर्मनिमित्तातिरमणीयदिव्यमङ्गलविग्रहवत्त्वेन जीवे क्वचिदपि असम्भावितेन अयं मण्डले श्रूयमाणः पुरुषो जीवादन्यद्ब्रह्मैव, तच्च ब्रह्म पुण्डरीकाक्षत्वलिङ्गेन भगवान् पुरुषोत्तम एव। यद्यपि यास्केन वाक्यकारेण च " तस्य यथा कप्यास पुण्डरीकमेव मक्षिणी " इत्यस्य यथा कप्यासं सूर्यमण्डलं हृदयपुण्डरीकं च तस्योपासनास्थानं, एवमक्षिणी अपि तस्योपापसनास्थानमिति पुण्डरीकाक्षत्वलिङ्गास्पर्श्यपि अर्थान्तरमुक्तम, तथापि वैभवार्थं तत्क्लिष्टार्थान्तरवर्णनं। " अएषएतस्मिन्मण्डले पुरुषः यश्चायन्दक्षिणेक्ष "न्निति बृहदारण्यके दक्षिणस्यैवाक्ष्णस्तदुपासनास्थानत्वप्रसिद्धेः पुण्डरीकाक्षत्वालिंगस्पर्श्येवार्थस्तस्याप्यभिमतः, तत्र तस्मिन्नर्थे च कप्यासमित्यस्य तेन त्रेधार्थो वर्णितः। कं उदकं। स्वरंध्रैः पिबतीति कपिः-- नालः। तत्रास्त इति कप्यासम्। अभग्रक्रमिकीटाद्यष्टनालमित्येकोर्थः। कपाइति सोमपाशब्दवत् प्रक्रियायां कपीति सप्तम्यन्तं भिन्नं वा पदम्। के जले प्यास्त इति जलादनुद्धृतमित्यन्योर्थः। आसधातोः अपिपूर्वत्वे " वष्टिवागुरुरल्लोपमवाप्योरूपसर्गयो " रित्यकारलोपे च सति प्यास्तइति रूपम्। कं उदकं रश्मिभिः पिबतीति कपिस्सूर्यः, तस्यासं विकास्यं, रविकरविकसितमित्यपरोर्थइति।
अमुं त्रिविधमप्यर्थं गृहीत्वा वेदार्थसंग्रहे भाष्यकारैरस्यवाक्यस्यार्थोवर्णितः, "गंभीरांभस्समूद्भूतसुमृष्टनालरविकसितपुण्डरीकदलामलायतेक्षण " इति। ननु एवंभूतोविग्रहः कथं अकर्मनिमित्तइत्युपगन्तव्यं, शरीराणां कर्मजन्यत्वनियमस्य लोके दृष्टत्वादिति चेत्, उच्यतेइहैव पापात्यन्ताभाववत्त्वेनोक्तस्य पुण्यपापोभयारब्धं शरीरन्तावद्वक्तुमशक्यं, पुण्यमात्रारब्धमुच्यते चेदपि लोकदृष्टस्य पुण्यपापोभयारब्धनियमस्य " नह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति। अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत " इति श्रुत्युपबृंहितस्य उल्लङ्घनमनिवार्यं। तथासति " न भूतसङ्गसंस्थानो देहोऽस्य परमात्मनः।" न तस्य प्राकृता मूर्तिः जगतामुपकाराय न सा कर्म निमित्तजे त्याद्युपब्रह्मणानुसारेण भगवतो दिव्यमङ्गलविग्रहो ऽप्राकृतः अकर्मनिमित्त इत्येव न्यायविद्भिरभ्युपगन्तुं युक्तम्। लोकदृष्टनियमादुपब्रह्मणस्य बलवत्वात्। ननु उक्तन्यायः अन्तरादित्यवाक्यमात्रे वक्तुं शक्यः, नतु ब्रह्मेन्द्रादिमहामहिमप्रतिपादक वाक्येप्वपि, नहि हिरण्यगर्भपुरन्दरादिलोकेष्वपि आदित्यमण्डल इव भगवद्दिव्यमङ्गलविग्रहसन्निधानं प्रसिद्धश्रुतिष्वस्ति। उच्यते-- ब्रह्मादिष्वन्यतम एव एकस्मिन् कल्पे पुण्यविशेषेण एवंभूतमैश्वर्यं प्राप्तो जगत्सृष्ट्याद्यपि करोतीति भाष्यवाक्यं ब्रह्मेन्द्रादिमहिमप्रतिपादकविषयवाक्यान्तरेष्वपि जीवपूर्वपक्षतदतिरिक्तब्रह्मगोचरसिद्धान्तौ प्रवर्तनीयावित्याशयेन प्रवृत्तं न भवति, किंतु यथाऽस्मिन्विषयवाक्ये आदित्यदेवतापदं प्राप्तो जीवः प्रतिपाद्य इति पूर्वपक्षः, एवमस्मिन्नेव विषयवाक्ये शक्रः प्रतिपाद्यः, हिरण्यगर्भः प्रतिपाद्य इत्येवं रूपेण पूर्वपक्षान्तरमपि प्रवर्तनीयमित्याशयेन, तद्वा कथं सङ्गच्छते, इत्थं-- " यदद्य कच्चवृत्रहन्नुदगा अभिसूर्य। सर्वं तदिन्द्र ते वश " इति मन्त्रवर्णात् आदित्यमण्डलाधिष्ठाता सक इति प्रतीयते। " असदेवेदमग्र आसीत्तत्पदासीत्तत्समभवत्तदाण्डं निवर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले रजतं च सुवर्णं चाभवतां। तद्यद्रजतं सेयं पृथिवि यत्सुवर्णं सा द्यौर्यज्जरायु ते पर्वताः यदुल्बं स मेघो नीहारो याधमनयस्ता नद्यो यद्वास्तेयमुदकं स समुद्रः। अथ यत्तदजायत सोऽसावादियस्तं जायमानं घोषा उल्लूवोऽनूदतिष्ठन् सर्वाणि च भूतानि सर्वे च कामास्तस्मात्तस्योदयनं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनुत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामा " इति छान्दोग्यवाक्यसन्दर्भादादित्य जीवो हिरण्यगर्भ इत्यपि प्रतीयत इति। अपि च येचामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च यैचैतदस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानाञ्चे ति सकललोकेश्वरत्वसकलदेवमुष्याभीव्सितत्वफलप्रदानशक्तत्वश्रवणादपि नायमक्ष्यादित्यान्तर्वर्तिपुरुशोजीवः, यद्यपि देवलोककामेश्वरत्वमनुष्यलोककामेश्वरत्वञ्च अक्ष्यादित्यस्थानभेदेन विभज्य श्रुतं तथापि स्थानद्वयमेक एव पुरुषोऽधितिष्ठति तत्प्राप्नुवत् द्विविधलोककामेश्वरत्वं सर्वलोककामेश्वरत्वरूपतया पर्यवस्यति एवं ऋक्सामगेष्णत्वश्रवणादपि नायं जीवः, गेष्णशब्दोगानवाची, गानं द्विविधं, शब्दकर्मकमेकं यथा पद्यं गायतीति अर्थकर्मकमेकं यथा राजानं गायतीति, इहार्थकर्मकगानरूपत्वमृक्सामयोर्विवक्षितं, तच्चात्र सामरूपगीतिक्रियाभिव्यंग्यं
ऋक्साध्यगुणिनिष्ठगुणाभिधामनरूपस्तुत्युपायत्वुमृक्सामसाधारणं, एवञ्च आदित्यपुरुषस्य स्तुतौ ऋक्साक्षात्साधनं, साम ऋगभिव्यक्तिद्वारा, साम्नास्तुवीतेति साम्नोपि स्तुतसाधनत्वश्रवणात् इत्युभयोरपि क्रमिकस्तुतुसाधनतया गानत्वमित्यादित्यपुरुषस्य ऋक्सामसाध्यस्तुतु विषयाग्नीन्द्रसोमादिरूपतया सर्वात्म्यसिद्धिः। यद्यपि प्रस्तावादिसामभक्त्यवयवरूपे सागानां पर्वेत्येव प्रसिद्धे साम्नामपच्छेदे गेष्णाक्या तेषां प्रसिद्धा, औÐत्थक्याखाये सामपर्वलक्षणग्रथेपि तथैव व्यवहारः, तथापि क्रमिकस्तोत्रसाधनत्वसादृश्यात् ऋक्सामयोर्गेष्णद्वयतोपचारः, तस्मादृक्सामगेष्णत्वप्रतीतसर्वात्म्यासंभवात्, य आदित्ये तिष्ठन्नित्याद्यन्तर्यामिब्राह्मणे भदव्यपदेशाच्च, नादित्यपुरुषोजीवः, किंतु तदतिरिक्तं ब्रह्मेत्यभ्युपगन्तव्यमिति।।
संग्रहकारिकाः।।
अन्तर्मार्त्ताण्डवर्त्ती तनुमधिवसति श्मश्रुकेशादियुक्तां
तादृक्कर्मानुबन्धात्खलुं भवति तनुस्तेन तावत्स जीवः।
एवं चानन्दवल्ली परिपठितजगत्कारणं जीव एव
स्यात्तस्यामेव तेन स्फुटतरमभिदा तस्य यत्प्रत्यपादि।।
न खलु सुकृतपापान्युत्तरेत्कोऽपि जीवो
विधुतसकलपापो यद्यपि स्यादमर्त्यः।।
उपनिषदुपगीतः पाप्मशब्दोऽभिधत्ते
सुकृतमपि निमित्ता भेदतः पापतुल्यम्।।
तत्सर्वपाप्मोदयलिङ्गदर्शनाद्देवोन्तरादित्यगतः परः पुमान्।
अप्राकृतं रूपममुष्य विश्रुतं व्यूहावतार प्रमुखाश्च तादृशाः।।
अन्तराधिकरणम्।।
एवं सद्विद्यानन्दवल्लीप्रतिपाद्यं जगत्कारणं वस्तु जीव इति तल्लिङ्गवलम्बन पूर्वपक्षावान्तरपेटिका वृत्ता, अथ तज्जगत्कारणं वस्तु आकाशादिकमेव, न ततोऽन्यज्जगत्कारणं ब्रह्मनामास्तीति श्रुत्यवलम्बनपूर्वपक्षमवान्तरपेटिकान्तरं प्रस्तूयते।।
आकाशस्तल्लिङ्गात्।।23।।
पूर्वमादित्यपुरुषस्य वैशेषिकलिङ्गात् वेदान्तवेद्यजगत्कारणत्वमुक्तम्। तदयुक्तम्। लिङ्गतः प्रबलया श्रुत्या भूताकाशस्यैव जगत्कारणत्वादित्याक्षेपेणोत्थानदवान्तरसङ्गतिः। छांदोग्ये-- " अस्य लोकस्य कागति" रिति पृष्टवन्तं दालम्यं प्रति आकाश इति होवाचे ति जैवलेरुत्तरमुपक्रम्य श्रूयते "सर्वाणि ह वा इमानि भूतान्याकाशादेवसमुत्पद्यन्ते, आकाशं प्रत्यस्तं यन्ति आकाशो ह्येवैभ्यो ज्यायानाकाशः परायण"मिति। किमयमाकाशोभूताकाशः, उत तदरिक्तः परमात्मेति भूताकाशस्य श्रूयमाणसर्वभूतोत्पत्तिस्थितिलयकारणत्वयोग्यत्यवायोग्यत्वाभ्यां संशयः। तत्र पूर्वः पक्षः। भूताकाशएवायं, आकाशश्रुतेस्तत्ररूढत्वात्, अतो " यतोवा इमानि भूतानि जायन्त " इत्यादिलक्षणलक्षितजगत्कारणं ब्रह्म भूताकाशएव, सर्वभूतोत्पत्तिस्थितिलयकारणत्वस्य तत्रोक्तलक्षणस्यैव अत्रं " सर्वाणि ह वा इमानी भूतानी "त्यादिना भूताकाशपर्यवसानवर्णनात्, तस्य क्वचिद्विशेषे पर्यवसानसाकांक्षत्वाच्च। ननु भृगुवल्यामेव " आनन्दाध्द्येव खल्विमानि भूतानि जायन्त" इत्यादिनाऽऽनन्दरूपे विशेषे पर्यवसानमुक्तम्। मैवं -- तत्रहि "को ह्येवान्यात्कः प्राण्यात्। यदेष आकाशआनन्दोनस्या " दित्यानन्दशब्द आकाशशब्दसमानाधिकरणश्श्रुतः, ततश्च विरुद्धार्रथयोस्तयोरुभयोरपि मुख्यतया सामानाधिकरण्यायोगात्। कि मानन्दशब्दो गौणः उत आकाशशब्दइत्यत्र विनिगमनाश्रवणात्। तत्र जगत्कारणत्वस्य लक्षणस्य क्वविशेषे पर्यवसानमिति नास्ति निर्णयइत्याशङ्क्य आकाशश्रुत्या भूताकाशएव जगत्कारणमिति निश्चिते तत्र आनन्दशब्दो गौणइतीहैव निर्णयः। ननु अचेतनस्य भूताकाशस्य जगत्कारणत्वं कथमिहाशङ्क्यते, सद्विद्यानन्दवल्लीश्रुतचेतनलिङ्गबलादानन्दमयशब्दोक्तं जगत्कारणं वस्तु चेतनविशेषएवेति हि प्राक् स्थितं, सत्यम्। सदानन्दशब्दौ चेतनेऽपि योजयितुं शक्यौ, लिङ्गानुसारेण तथा योजितौ, इह तु भूताकाशे रूढाकाशश्रुति लिङ्गानुसारेण योजयितुं न युक्ता। ईक्षितृत्वादिलिङ्गमेव "कूलं पिपतिषती"त्यादिन्यायेन भूताकाशे योज्यमित्याक्षेपः। ननु " आत्मन
आकाशस्सम्भूत" इत्युत्पत्तिमत्वेन श्रुतस्य भूताकाशस्य कथं सर्वभूतस्थितिलयकारणत्वरूपलक्षणसम्बन्धोपपत्तिः, इत्थं-- तत्र " आत्मन" इति स्वस्मादेव शब्दतन्मात्ररूप सूक्ष्मावस्थात् स्थूलावस्थोभूताकाशस्सम्भूतइति तदर्थः। आत्मशब्दस्य शरीरप्रतिसंबंधिनि चेतनइव "मृदात्मकोघटइत्यादिषु स्वरूपेऽपि प्रयोगात्, आत्मा जीवे धृतौ देहे स्वभावे परमात्मनी "त्यादि कोशेषु तस्य नानार्थत्वानुशासनात्। तस्मात् भूताकाशस्यैव जगत्कारणत्वरूप ब्रह्मलक्षणपर्यवसाननिर्णये यत् सद्विद्यानन्दवल्ली भृगुवल्लीषु जगत्कारणवस्तुपरं ब्रह्मपदं श्रुतम्, तत्सर्वभूतकाशपरमेव। अतएव "आकाशोहवै नाम नामरूपयोर्निर्बहिता ते यदन्तरा तद्रब्रह्मे " ति वाक्यान्तरे तस्मिन् ब्रह्मपदंश्रूयतइति। एवं प्राप्ते सिद्धान्तः-- अयमाकाशोभूताकाशादन्यः परमात्मैव, भूताकाशासंभावितसर्वभूतकारणत्वश्रवणात्, तद्धिसर्वप्रणिवर्गकारणत्वं, "यतोवा इमानि भूतानि जायते येन जातानि जीवंती"ति लक्षणवाक्यार्थैकरूप्यात्। न च भूताकाशस्य अचेतनवर्गकारणत्वसंभवेऽपि चेतनकारणत्वमुपपद्यते।। न च पारायणत्वं चेतनानां परमप्राप्यत्वमचेतनस्य अपुरुषार्थस्य हेयस्य भूताकाशस्य घटते। न वा
सर्वतोज्यायस्त्वं, तद्धिकल्याणगुणैस्सर्वेभ्योनिरतिशयोत्कृष्टत्वं, न च जगत्कारणविशेषाकांक्षायामाकाशशब्देन विशेषसमर्पणात् इदं सर्व मूताकाशएव यथाकथञ्चित्वक्तव्यमिति वाच्यं। "सर्वाणि ह वे "ति वाक्येन ह्यत्र कारणत्वं न विधीयते, हवैशब्देन प्रसिद्यर्थकेन वाक्यांतरप्रसिद्धार्थानुवादत्वद्योतनात्, अतः पुरोवादाकांक्षायां "सन्मूलास्सोम्येमास्सर्वाः प्रजा" इत्यादिवाक्यमेव पुरोवादत्त्वेनावतिष्ठइति तत्रेक्षितृच्वादिभिश्चेतनत्वेन सिद्धं सच्छब्दाभिधेयं कारणं वस्विह आकाशशब्देन परामृश्यतइति वक्तव्यत्वात्, "आत्मन आकाशस्संभूत " इत्यत्र आत्मशब्दस्य शरीरप्रतिसंबंधिनि चेतने प्रसिद्धिप्राचुर्येण "तस्यैषएव शरीरआत्मे"ति शारीरत्वश्रवणेन च चेतनपरत्वावश्यंभावात्, स्वस्मादेव आकाशउत्पन्नइत्यर्थानुपपत्त्या भूताकाशस्य सर्वभूतकारणत्वान्वयायोग्यत्वाच्च, भूताकाशोयं, किंतु तदतिरिक्तं ब्रह्मैवेति तस्मिन्नेव आकाशशब्दस्य आसमन्तात्काशत इत्यादिरूपेण योगवृत्तिरास्थेया, पुरोवादानुसारेण अनुवादे रूढिभङ्गस्य अदोषत्वात्, योग्यार्थश्रुतिमूललिङ्गात् अयोग्यार्थपदरूढिभङ्गस्य गङ्गाघोषादौ दृष्टत्वाच्चेति।।
सङ्ग्रहकारिकाः।।
अव्यक्तं जीवो वा माभूज्जगतोऽस्य कारणमथापि।
आकाशस्स्यादेव ङान्दोग्ये स हि तथाऽऽम्नातः।।
आत्मन आकाश इति स्वात्मन एवेत्यनन्यजनितोक्ता।
प्रथमश्रुत्यनुसारातत्रानन्दश्रुतिर्गौणी।
मैवं छान्दोग्युतिरनुवादः खलु ह वै शब्दात्।
सतु सत्कारणमेव प्रतिपन्नं सेवते पुरोवदात्।।
इति आकाशाधिकरणम्।।8।।
अत एव प्राणः।।24।।
छान्दोग्ये कस्यचिद्राजः कृतौ समागतस्य उषस्तेः प्रस्तावभक्तिदेवताप्रश्ने तामजानानेन प्रस्तोत्रा "कतमा सा देवते" ति पृष्टस्य उषस्तेः "प्राण इति होवाचे"ति उत्तरमुपक्रम्य श्रूयते "सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशंति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ते " ति अतिदेशाधिकरणस्यास्य पूर्वाधिकरणवत् पूर्वोत्तरपक्षौ। प्राणश्रुतेः प्राणवायुरेव सर्वभूतलयोत्पत्तिकारणमिति प्राप्ते। ह वै शब्देन तदनुवाद्यत्वद्योतनात् पुरोवादानुसारेण योग्यतानुसारेण च प्राणवाय्वतिरिक्तः परमात्मैव सर्वभूतलयोत्पत्तिकारणभूतः प्राणइति। अतिदेशस्य तु सर्वस्य भूतजातस्य प्राणाधीन स्थितिप्रवृत्त्यादिदर्शनात् प्रसिद्धएव वायुः सर्वभूतलयोत्पत्तिकारणतामर्हति, साक्षाच्च बृहदारण्यके "यदा वै पुरुषस्स्वपिति प्राणन्तर्हि वागप्येति प्राणञ्चक्षुः प्राणं श्रोत्रं प्राणं मनः सयदा प्रबुद्ध्यते प्राणादेवाऽथ पुनर्जायत" इति स्वापप्रबोधयोः प्राणवायुस्सर्वभूतलयोत्पत्तिस्थानमिति श्रवणाच्चेत्यधिकाऽऽशङ्कानिरासः प्रयोजनम्। तन्निरासस्तु चेतनवर्गं प्रति प्राणवायोः कारणत्वाऽयोगात्, आनंदवल्ल्यां चेतनविशेषोत्पन्नादाकाशादुत्पन्नत्वेन श्रुतस्य तस्य सर्वाचेतनकारणत्वायोगाच्च, न तस्य सर्वभूतलयोत्पत्तिस्थानत्वनिर्देशार्हता। अत एव बृहदारण्यकोक्ताप्राणोऽपि परमात्मैवेति।।
सङ्ग्रहकारिका।।
एवं तस्यां प्राणवाक्यादनूक्तेः प्राणेपितस्यान्नैवतत्कारणत्वं।
प्राणाधीनं दृश्यतां देहमात्रं नैवं भूतं जीवर्गादिदृष्टम्।।
इति प्राणाधिकरणम्।।
एवं केवलश्रुत्यवलम्बनपूर्वपक्षावान्तरपेटिकावृत्ता-- अथ कारणत्वाक्षेपकलिङ्गानुगृहीताश्रुत्यवलम्बनमवान्तरपेटिकान्तरं प्रस्तूयते।।
ज्योतिश्चरणाश्रिधानात्।। 25।।
छन्दोश्रिधानान्नेति चेन्न तथा चेतोर्पणनिगमात्तथा हि दर्शनम्।।26।।
भूतादिपादव्यपदेशोपपत्तेश्चैवम्।।27।।
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ।।28।।
छन्दोगास्समामनन्ति। "अथ यदतः परो दिवो ज्योतिर्दीप्यते। विश्वतः पृष्ठेषु सर्वतः पृष्ठवनुत्तमेषूत्तमेषु लोकेष्विदं वावतद्यदिदमस्मिन्नन्तःपुरुषे ज्योति"रिति। अत्र आकाशप्राणवाक्ययोः स वाय्वाकाससर्वभूतकारणत्वश्रवणवत् इह सज्योतिष्कसर्वकार्यकारणत्वाश्रवणेन विरोधाभावात्, विरोधभावे श्रुत्यवलंबनायोगात्, प्रसिद्धमादित्याद्येव ज्योतिरस्त्विति आक्षेपेणोत्थानादवान्तरसङ्गतिः। ननु यदीहप्रसिद्धमादित्याद्येव ज्योतिरिति पूर्वपक्षः क्रियते, कस्तेन सिद्धान्तस्योपमर्दश्शङ्कितो भवति। न हि ज्योतिरिह जगत्कारणं श्रूयते, येनादित्याद्येव जगत्कारणं न ततोऽन्यज्जगत्कारणं ब्रह्मास्तीति सिद्धान्तोपमर्दश्शङ्कितस्स्यात्। अथोच्येत-- निरतिशयदीप्तियोग इह श्रूयमाणः कारणत्वाक्षेपकं लिङ्गं, "न तत्र सूर्यो भाति" "तस्य भासा सर्वमिदं विभाती"ति प्रकरणे "तथाक्षरात्संभवतीहविश्व"मिति निरतिशयदीप्तियुक्तवस्तुनः कारणत्वश्रवणादिति। यदि सूर्यचन्द्राद्यभिभावकं प्राकृततेजोरूपं मुण्डके श्रुतं, जगत्कारणं वस्त्विह निरतिशयदीप्तियुक्तज्योतिः ज्योतिश्शब्दार्त्थः पूर्वपक्षिणा गृह्यते, कथन्तर्हि आदित्यादिकमिह ज्योतिरिति पूर्वपक्षः क्रियते, नह्यादित्यादिरेव आदित्याद्यभिभावकज्योतिरित्येतद्धटते। उच्यते-- " न तत्र सूर्यो भाती "ति मन्त्रेण सूर्याद्यभिभावकत्ववन्नोच्यते, किंतु सूर्याद्यभास्यत्वं, " न तद्भासयते सूर्यो न शशांको न पावक " इति गीतावचनेनैव सूर्याद्यभास्यत्वञ्च सूर्यादेरपि संभवतीति पूर्वपक्ष्याशयः। इह ज्योतिः किमादित्यादि उत तदतिरिक्तं ब्रह्मेति प्रसिद्धिभूतचरणत्वाभ्यां संशये पूर्वपक्षः। आदित्याद्येव ज्योतिः, प्रसिद्ध्यिलङ्घनायोगात्, "इदं वा व तद्यदितमस्मिन्नन्तः पुरुषे ज्योति "रिति जाढरैक्योपदेशाच्च। प्राकृतज्योयिष्वेवहि तत्साजात्याभिप्रायेण तदैक्योपदेशोघटते। नच "विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषु लोकेष्वि"ति श्रुतसर्वोत्तरात्युत्तमलोकप्रसृमरदीप्तिमत्वमादित्यादेर्न घटत इति वाच्यं। विश्वतः पृथिवीलोकात् सर्वतोन्तरिक्षलोकाच्च उपरितनेष्वत्युत्तमेषु द्युलोकेष्वादित्यस्यापि रश्मिप्रसृतिसद्भावात्, तस्मान्निरतिशयदीप्तिरूपलिङ्गाक्षिप्तं जगत्कारणत्वमादित्यादिज्योतिष एवेति न ततोन्यज्जगत्कारणं ब्रह्म नामास्तीत्येवं प्राप्तेसिद्धान्तः-- ज्योतिरिह प्रसिद्धज्योतिरतिरिक्तं ब्रह्मैव, पूर्वत्र " पादोऽस्य सर्वाभूतानि त्रिपादस्यामृतंदिवी" ति सर्वभूतपादत्वाभिधानात् तस्य च प्रसिद्धज्योतिष्यसंभवात्, पूर्वत्र यस्य सर्वभूतपादत्वमभिहितं तदेवेह ज्योतिश्शब्देन परामृश्यतइति द्युसंबन्धप्रत्यभिज्ञानेनावगमात्। जाठरैक्योपदेशस्तु फलाय तदात्मकत्वानुसन्धाविधानार्थः। "तदेतदृष्टञ्च श्रुतञ्चेत्युपासीत चक्षुष्यश्श्रुतो भवती "त्यग्रे तथा विधानदर्शनादिति न तेन तस्य प्राकृतज्योतिष्ट्वसिद्धिः। ननु पूर्वत्र "गायत्री वा इदं सर्व" मित्युपक्रम्य "सैषा चतुष्पदे "ति तस्याश्चतुष्पदत्वमभिधाय " तदेतद्दचाभ्यनूक्तं तावानस्य महिमा ततोज्यायांश्च पूरुषः पादोऽस्य सर्वाभूतानि त्रिपादस्यामतन्दिवी"त्युक्तार्थे प्रमाणत्वेन अस्य मन्त्रस्योदाहृतत्वात् गायत्रीविषयोऽयं मन्त्रः, अतो नैतदतेन सर्वभूतपादत्वाभिधानेन तथाभूतपरमात्मसिद्धिरिति चेत्। मैवं--न गायत्रीशब्देन छन्दोमात्रमिहाभिधीयते, छन्दसस्सर्वभूतपादत्वासंभवात्, अपितु ब्रह्मणि गायत्रीसादृश्यानुसन्धीनमिहफलायोपदिश्यते, अस्तिच " पादोस्य सर्वाभूतानि त्रिपादस्यामृतंदिवी"ति चतुष्पादत्वेनाम्नातस्य ब्रह्मणश्चतुष्पदया गायत्र्या सादृश्शं, अस्ति हि चतुष्पदापि गायत्री। "इन्द्रश्शचीपतिः। वलेन पीडितः। दुश्च्यवनो वृषा। समित्सु सा सहि" रिति तथा ह्यन्यत्रापि गायत्रीसादृश्यात् छन्दोऽभिधायि शब्दः अर्थान्तरे प्रयुज्यमानो दृश्यते। यथा संवर्गविद्यायां "ते वा एते पञ्चान्ये पञ्चान्ये दश सन्त " इत्यारभ्य "सैषा विराडि" त्युक्तं, अत्र हि वायूस्सूर्यश्चन्द्रोऽग्निराप इत्येते पञ्च, प्राणो वाक्चक्षुश्श्रोत्रं मन इत्येते पञ्च, इत्येतेषु दशसु संख्यासाम्यात् विराड् छन्दोरूपत्वमुक्तं, दशाक्षरं हि विराड्छन्दः। किञ्च भूतपृथिवीशरीरहृदयानि निर्दिश्य "सैषा चतुष्पदे " ति भूतादिचतुष्टयपादत्वव्यपदेशादपि गायत्रिशब्दोक्तः परमात्मैव। छंदस्तथात्वानुपपत्तेः। ननु अस्तु यत्किञ्चित्सर्वभूतपादं
वस्तुपूर्वत्राभिहितं, तथापि न तस्येह प्रत्यभिज्ञानं, "दिवि" "दिव" इति निर्देशभेदादिति चेन्न। निर्देशभेदेऽपि अर्थविरोधाभावात्, वृक्षाग्रस्थिते श्येने वृक्षात्परश्श्येनइत्यपि व्यपदेशदर्शनात्, तस्मात् "तावानस्य महिमे" ति मंत्रप्रत्यभिज्ञापितपुरुषसूक्तप्रतिपाद्यं
"आदित्यवर्णे तमसस्तु पार" इति निरतिशयदीप्तियुक्तदिव्यमङ्गळविग्रहवत्वेन तत्र प्रतिपन्नं यत्परमपुरुषाख्यं परं ब्रह्म तदेवात्र निरतिशयदीप्तियुक्तं ज्योतिरिति निर्दिश्यते। ननु, पुरषसूक्तेनैव सकलचेतनाचेतनप्रपञ्चविलक्षणः तस्य सर्वस्यापि कारणभूतः परमपुरुषः परंब्रह्मेति सिद्ध्यतीति किमर्थोयमयोगव्यवच्छदार्थः पादः। उच्यते बहुषु श्रुत्यन्तरेषु प्राणकाशज्योतिरिन्द्रादिशब्दैः कारणवस्तुनिर्देशे जाग्रात पुरुषसूक्तमात्रेण तत्प्रतिपाद्यं परमपुरुषो जगत्कारणं ब्रह्मेत्येतत् न दृढीकरणार्थ एवायमयोगव्यवच्छेदार्थो विचारः।।
संग्रहकारिका।।
परं ज्योतिस्साम्निश्रुतमुदरवह्न्यात्मकतया
परं ज्योतिष्ट्वं च प्रथितमिह न कारणगतम्।
अतो भानुर्लिङ्गाद्भवतु जगतां कारणमिति
प्रवास्या शङ्केयं पुरुषचरणोक्त्या विशदया।।
इति ज्योतिरधिकरणम्।।10।।
प्राणस्तथानुगमात् ।।29।।
न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमाह्यस्मिन्।।30।।
शास्त्रद्दष्ट्यातूपदेशो वामदेववत्।।31।।
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रित
त्वादिह तद्योगात्।।32।।
कौषीतकिनामुपनिषदि "प्रतर्दनो हवै दैवोदासिरिन्द्रस्य प्रियं धामोपजगामे " त्युपक्रम्य "वरं वृणीष्वे "त्युक्तवति इन्द्रे "त्वमेव वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यस" इति मनुष्याय मह्यं हिततमं वरं त्वमेव जानासि, अतस्तादृशं वरं त्वमेव विचित्य मह्यन्देहीति प्रतर्दनेन प्रार्थितस्येन्द्रस्य वचनं श्रूयते-- "सहोवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमुपास्वे "ति। तत्र संशयः-- किमिह हिततमोपासनकर्मभूतइन्द्रप्राणशब्दनिर्दिष्टः प्रसिद्धेन्द्रजीवः, उत तदतिरिक्तः परमात्मेति। तत्र पूर्वः पक्षः-- "प्राणाकाशवाक्ययोस्तत्तद्वाक्यएव प्राणाकाशश्रुतिविरोधिसर्वभूतकारणत्वश्रवणवत् ज्योतिर्वाक्ये प्राक् ज्योतिःश्रुतिविरोधिसर्वभूतपादत्वश्रवणवच्च नेह स्ववाक्ये ततः पूर्वं वा इन्द्रश्रुतिविरोधिश्रवणमस्ति, प्रत्युत इन्द्रवाक्योपक्रमएव इंद्रस्य हिततमशब्दोक्तामृतत्वप्राप्त्युपायोपासनाकर्मत्वश्रवणमस्ति, तथाभूतोपासनाकर्मत्वञ्च जगत्कारणत्वव्याप्तं लिंगमिति " तस्य तावदेव चिरं यावन्नविमोक्ष्ये अथ संपत्स्य " इति सद्विद्यावाक्यावगतं, तस्मादिन्द्राख्यो जीवविशेषएव जगत्कारणं, न तदतिरिक्तः, परमात्माऽस्ती"ति। एवं प्राप्ते सिद्धान्तः-- अयमिन्द्रप्राणशब्दनिर्दिष्टो न जीवमात्रं, अपितु जीवादर्थान्तरभूतं ब्रह्म "स एष प्राणएव प्रज्ञाऽऽत्माऽऽनंदोऽजरोऽमृत " इति इन्द्रप्राणशब्दाभ्यां प्रस्तुतस्य सकलजीवासंभावितधर्मनिर्देशात्। ननु उपक्रमे "मामेव विजानीही"ति इन्द्रस्सावधारणं स्वात्मानमेव उपास्यमुपदिदेश, तदुपपत्त्यर्थे "त्वाष्ट्रमहनं अरुन्मुखान्यतीन् सालावृकेभ्यः प्रायच्छं बह्वीस्सन्धाअतिक्रम्य दिवि प्राहादीनतृणहं अन्तरिक्षे पौलोमान् पृथिव्यां कालकञ्जान् तस्य मे न लोमच मीयत" इति त्वाष्ट्रवधादिभिकृत्यैः स्वस्य लोमाऽपि नहिस्यत इति महामहिमयत्त्वेन स्वात्मानं तुष्टाव। तस्मादुपक्रमे जीवविशेष उपास्य इति निर्णये सति तदनुसारेण औपसंहीरिकं आनन्दाजरामृतत्वश्रवणं स्तावकतया नेतव्यमितिचेत् मैवं। सकलजीवासंभाविताध्यात्मसंबन्धभूयस्त्वं हि अस्मिन् प्रकरणे दृश्यते। तथाहि-- प्रथमं " त्वमेव चरणं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यस " इति पृष्टवन्तं प्रति "मामेव विजानीहि एतदेवाहं मनुष्याय हिततमं मन्ये यन्मां विजीनीया " दिति परमात्मासाधारणमोक्षसाधनोपसानकर्मत्वं इन्द्रप्राणशब्दनिर्दिष्टस्योच्यते, तदुपपादकञ्च पुष्करपलाशवाक्यप्रतिपन्नं सर्वपापाश्लेषफलमुपवर्ण्यते "सयोमां विजानीयात् नास्य केन कर्मणा लोको मीयते न मातृवधेन न पितृवधेन न स्तेयेन न भ्रूणह्त्यये "ति। अथापि स्यात् इन्द्रस्यैव एवंभूतफलप्रदानसामर्थ्यमस्त्विति हि पूर्वपक्षः क्रियते-- "इन्द्रोराजा जगतोय ईशे इन्द्रोराजा
जगतश्चर्षणीनां। इन्द्रोयातोवसितस्य राजा न त्वावामन्यो दिव्यो नपार्थिवो नजातोनजनिष्यत " इत्यादिषु महामहिमत्वञ्च
तस्य श्रूयते, का तस्यामृतत्वसाधनोपासनाकर्मत्वानुपपत्तिरिति। तथाऽपि "तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरावर्पिताएवमेवैताभूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिता " इति भूतमात्राशब्दोदितानामचेतनानां प्रज्ञामात्राशब्दोदितेषु चेतनेषु प्रतिष्ठितत्वमभिधाय यत्तेषामपि प्राणे प्रतिष्ठितत्वमभिधीयते तत् " प्राणोऽस्मी" त्यादेः प्रसिद्धेन्द्रातिरिक्तपरमात्मविषयतामन्तरेण नोपपद्यते। नहि देवताऽधिकरणन्यायेन मुक्त्यर्थीन्द्रः कञ्चिदुपासनेन अप्रसाद्य स्वयं मुकिं्त लभेत, अतः प्रसिद्धेन्द्रातिरिक्तपरमात्मोपासनमेव इन्द्रेण "मामुपास्वे"त्युपदिष्टं, तेन स्वक्रियमाणमुक्त्यर्थोपासनावान्तरफलभूतः सर्वपापाश्लेषः "त्रिशीर्षाण "मित्यादिनोपन्यस्य इत्येव श्लिष्टतरं। एवञ्च "सन साधुना कर्मणा भूयान्नोएवासाधुना कनीयान् एषह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्यो उन्निनीषति एव उएवासाधु कर्म कारयति तं यमधो निनीषते एषलोकाधिपतिरेष लोकपाल एष लोकेश" इति मद्ध्यगतन्यपि सकलजीवासंभावितसाध्वसाधुकर्मप्रयुक्त भूयस्त्वकनीयस्त्वरीहित्यादिवचनानि सङ्गच्छते। तस्मान्मामुपास्वेति उपासनकर्मतया उपदिष्टः इन्द्रजीवातिरिक्तः परमात्मैव। कथन्तर्हीद्रेण मामुपास्वेत्युपदिष्टं "एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायण" इत्यादिशास्त्रदृष्ट्या स्वान्तर्यामिण उपास्यत्वाभिप्रायेण, यथाऽहमादिपदानां तत्तच्छरीरकपरमात्मपर्यतत्वं जानता वामदेवेन स्वांतर्यामिणः स्वात्म्याभिप्रायेण अहं मनुसूर्यादिसर्वात्मभाव उपदिष्टः। तथाहि श्रूयते-- "तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चे"त्यादि। ननु कथमिह अध्यात्मसंबन्धभूयस्त्वं, "नवाचं विजिज्ञासीत वक्तारं विद्यात्, त्रिशीर्षाणं त्वाष्ट्रमहनं, यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायु" रित्यादिजीवमुख्यप्राणलिङ्गानामत्र सत्त्वादिति चेत् उच्यते-- परमात्मन एव त्रिविधमिहोपासनं विवक्षितं। तत्र "आनन्दोऽजरोऽमृत" इति स्वरूपेणोपासनं, जीवलिंगवाक्यैः चिद्विशिष्टयोपासनं, मुख्यप्राणलिंगैरचिद्विशिष्टतयोपासनञ्चेति। अन्यत्रापि त्रिविधामुपासनं दृश्यते, यथा आनन्दवल्ल्यां-- "सत्यं ज्ञानमनंतं ब्रह्मे"त्यादौ स्वरूपेणोपासनं "तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्चत्यच्चाभवत् निरुक्तञ्चानिरुक्तञ्च निलयनञ्चानिलयनञ्च विज्ञानञ्चाविज्ञानञ्चे" त्यादिषु चेतनं विशिष्टत्वेन अचेतनविशिष्टत्वेन चोपासनं, एवमिहापि परमात्मनस्रिविधोपासनसमाश्रयणमुपपद्यत इति सर्वमनवद्यम्।
संग्रहकारिका।
स्यादिंद्रस्त्विहकारणं हिततमोपासैककर्मत्वतो
नैतत्साध्वजरामृताद्यनुगमादग्रे तदुक्त्यात्मकात्।
इन्द्रस्य स्वशरीरकेश्वरदृशा मामित्युपासास्पदे
निर्देशो घटते ततोऽस्य चिदचिद्भिन्नं परं कारणम्।।
इति इन्द्रप्राणाधिकरणम्।।
प्रथम पादे समस्तचिदचिद्वलक्षणश्रीपुरुषोत्तमाख्यवेदान्तवेद्यजगत्कारणास्तित्वं प्रसाधितं, तथाऽपि कानिचिद्वेदान्तवाक्यानि चिदचिदन्तर्भूतवस्तुविशेषप्रतिपादकानि दृश्यंत इत्याशङ्कानिरासः क्रियते। किञ्च जन्मादिसूत्रै ब्रह्म कारणमेव ब्रह्मैव कारणमिति अयोगान्ययोगव्यवच्छेदौ लक्षणस्य असम्भावातिव्याप्तिपरिहाराय विवक्षितौ, तत्र अयोगव्यवच्छेदः प्रथमपादेन सिद्धः अन्ययोगव्यवच्छेदार्थस्रिपाद्यारम्भइति च विभागः। तत्र स्पष्टतरजीवलिङ्गकानि वाक्यानि प्रथमे पादे विचारितानि, अस्पष्टजीवलिंगकानि द्वितीये विचार्यन्ते, स्पष्टजीवलिङ्गकानि तृतीये, प्रधानादिप्रतिपादनच्छायानुसारीणि चतुर्थ इति प्रायिकोऽयं पादार्थविभागः।।
सर्वत्र प्रसिद्धोपदेशात्।।1।।
विवक्षितगुणोपपत्तेश्च।।2।।
अनुपपत्तेस्तु न शारीरः।।3।।
कर्मकर्तृव्यपदेशाच्च।।4।।
शब्दविशेषात्।।5।।
स्मृतेश्च।।6।।
अर्श्रकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न
निचाय्यत्वादेवं व्योमवच्च।।7।।
संश्रोगप्राप्तिरिति चेन्न वैशेष्यात्।।8।।
छन्दोगास्समामनंति-- "सर्वं खल्विदं ब्रह्म तज्जलानिति शांतउपासीत अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति सक्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प " इत्यादि। अत्र "सर्वं खल्विदं ब्रह्म तज्जलानिति शांतउपासीते"त्यनेन सर्वात्मकं ब्रह्म शांतस्सन्नुपासीतेति विधीयते, "सक्रतुं कुर्वीते"ति तस्यैवोपासनस्य मनोमयत्वाद्यग्रिमगुणविधानार्थोऽनुवादः। ननु उत्पत्तिशिष्टसार्वात्म्यगुणावरुद्धे कथं मनोमयत्वादिगुणांतरविधानं घटते। अथोच्यते-- "सर्वं खल्विदं ब्रह्म तज्जलानि"त्यंतं भिन्नं वाक्यं, सर्वशब्दयोगेन "सर्वं खल्वि"त्यस्य "शान्तउपासीते"त्येतदेकवाक्यत्वनिवारणादिति। नैतद्युक्तं। तथाऽपि "शान्तउपासीते"त्यत्र अन्यार्थसन्निहितस्य ब्रह्मण उपास्यत्वेनेव तथा भूतस्य सार्वात्म्यस्यापि उपास्यगुणत्वेन अन्वयानिवारणात्, शतपथे अग्निरहस्यब्राह्मणे "सत्यं ब्रह्मेत्युपासीते"ति शाण्डिल्यविद्याविधौ उपास्यब्रह्मणः सत्यत्वविशेषणश्रवणेन अत्रापि तदैकार्थ्येन तादात्म्यगुणविधानौचित्याच्च।।
उभयोरैकार्थ्यञ्च "सच्चत्यच्चाभव"दिति श्रुत्यनुसारेण सत्यशब्दस्य परोक्षापरोक्षात्मकसकलवस्त्वात्मकत्वपरतया सूपपादं। एवञ्च कथं सार्वात्म्यगुणावरुद्धे मनोमयत्वादिगुणान्तरविधानमिति चेत् उच्यते-- उत्पत्तिशिष्टे गुणः स्वविरोधिनमेवोत्पन्नशिष्टं न सहते, न तु गुणांतरमात्रं। न हि सोमद्रव्यमुत्पत्तिशिष्टमिति द्रव्यांतरमिव देवतादिगुणांतरमपि प्रतिक्षिपति। ननु तथाऽपि उपास्यब्रह्मगुणतया मनोमयत्वादिविधानमित्येतन्न युज्यते, "सक्रतुं कुर्वीत मनोमयः प्राणशरीर " इत्यादिसामानाधिकरण्येन मनोमयत्वादीनामुपासकविशेषणत्वप्रतीतेरितिचेत्, उच्यते-- अग्निरहस्ये समानप्रकरणे मनोमयत्वादिकमुपास्यविशेषणमाम्नायते। तत्रहि-- "सर्वं खल्विदं ब्रह्म तज्जलानिति शांतउपासीते" तिस्थाने सत्यत्वविशिष्टब्रह्मोपासनां विधाय "अथ खलु क्रतुमयोऽयं पुरुषः सयावक्रतुरयं अस्माल्लोकात्प्रैति एवंक्रतुरिहामुं लोकं प्रेत्यभिसंभवती"ति तत्क्रतुन्यायप्रदर्शनपूर्वकं "सआत्मानमुपासीत मनोमयं प्राणशरीरं भारूपमाकाशात्मनं कामरूपिणं मनोजवसं सत्यसङ्कल्पं सत्यधृतिं सर्वगन्धं सर्वरसं सर्वाअनुदिशः प्रभूतं सर्वमिदमभ्यात्तमवाकमन्तदर" मिति मनोमयत्वादीनामुपास्यविशेषणत्वं स्पष्टमाम्नातं। ननु तदनुसारेणाप्यत्र प्रथमांतानां मनोमयादिपदानां "क्रतुं कुर्वीते "त्यत्र कथमुपास्यगुणसमर्पकतया अन्वय उपपादनीयः, प्रथमांतानां षष्ठ्यन्ततया विपरिणामेनोपपादनीयः। यद्वा "क्रतुं कुर्वीते"त्यनूदितसर्वात्मब्रह्मोपासनां प्रति प्रकारसमर्पको "मनोमयः प्राणशरीर" इत्यादिः एतमितः प्रेत्यभिसंभविताऽस्मी"त्यन्तः, तदनंतरमितिकरणबलात्। अनेन प्रकारेण क्रतुं कुर्वीतेत्यन्वयप्रतीतेः, तथाऽन्वये सत्येव "एषमआत्माऽन्तर्हृदय" इति वाक्यसामञ्चस्याच्च। तस्योपासनाप्रकाराभिनयपरत्वं विनास्वतंत्रश्रुतिवाक्यत्वे "म" इत्यस्यान्वयसामञ्जस्याभावात्, तथासत्येवच "एषमआत्माऽन्तहृदय" इति वाक्यानां त्रिः पाठस्य "सर्वकर्मा सर्वकाम" इत्यादीनां द्विः पाठस्यचोपपत्तेः। तथासति हि "प्रायणीयं प्रथममहः चतुर्विंशं द्वितीयं चत्वारोऽभिप्लवाष्षडहाः एकः पृष्ठ्यष्षडहः समासः सद्वितीयः सतृतीयः सचतुर्थः सपंचमः त्रयोऽभिप्लवाष्षडहाएकः पृष्ठ्यष्षडह" इत्यादौ गवामयनसत्रगताहः कलृप्तिवाक्ये अभिप्लवषडहादिशब्दानां असकृत्पाठस्य तत्रतत्रस्थाने षडहाद्यनुष्ठानाभ्यासार्थत्वेनेव तत्रतत्रस्थाने हृदयांतर्वर्तित्वानुसन्धानाभ्यासार्थत्वेन असकृत्पाठः साफल्यमश्नुते, तेषां वाक्यानामुपास्ये तत्तद्धर्मसद्भावमात्रबोधकश्रुतिवाक्यत्वे तद्वैफल्यं स्यात्। एवंच विहितोपासनानुवादेन मनोमयत्वाद्यनेकगुणविधाने वाक्यभेद इत्यपि शङ्का निरस्ता भवति। तेषामितिकरणोक्तेन प्रकारभावेनैकेन रूपेण विधेयत्वात्, वेधेयताऽवच्छेदकरूपैक्ये विधेयपदार्थभूतरूपांतरभेदेन वाक्यभेदाप्रसङ्गात्। अतएव "गौश्चाश्वश्चाश्वतरश्च गर्दभश्चाजाश्चावयवश्च व्रीहियवाश्च तिलाश्च माषाश्च तस्य द्वादशशतं, दक्षिणेः "ति ज्योतिष्टोमदक्षिणाविधिवाक्ये गवादीनां रूपभेदे सत्यपि तेषां दक्षिणात्वेनैकेन रूपेण विधेयत्वान्नवाक्यभेदइति गवात्मकैकदक्षिणाविधानाङ्गीकारेण वाक्यभेदः परिहृतः। यद्वा श्रुतावितिशब्दः क्रमरूपं मनोमयत्वादीनां प्रकारमाचष्टेमनोमयत्वाद्यनुसन्धानक्रमेण क्रतुं कुर्वीतेति। तथा च विततिरूप एकः क्रम एवात्र विधेय इति न
वाक्यभेदः, मनोमयत्वादीनामुपास्यगुणानां विधानं तु तत्क्रमविधानादाक्षेपतो लभ्यते, यथा "विश्वजित्सर्वपृष्टोऽतिरात्र" इत्यत्र पृष्ठगतसर्वताविधानात् पृष्ठसाम्नां रथन्तरादीनामित्यलं प्रपञ्चेन। एवं "उपासीते"त्यन्ते वाक्ये सर्वात्मकब्रह्मोपासनाविधिः, क्रतुवाक्ये मनोमयत्वाद्युपास्यगुणविधिरिति स्थिते संशयः। किमिह ब्रह्मशब्देन उपास्यतया निर्दिष्टो जीवः, उत परंब्रह्मेति, तत्र जीव इति पूर्वपक्षः। तस्यैव सर्वपदसामानाधिकरण्यनिर्देशोपपत्तेः, सर्वपदनिर्दिष्टंहि ब्रह्मादिस्तंबपर्यतं जगत्,
ब्रह्मादिभावश्च जीवस्यैव अनादिकर्मप्रवाहविपाकानुसारिणा जन्मभेदेनोपपद्यते, परस्य तु ब्रह्मणः समस्तमङ्गलगुणाकरस्य निरस्तसमस्तहेयसम्बन्धस्य अतिहेयसर्वभावो नोपपद्यते। नच परिच्छिन्ने जीवे ब्रह्मशब्दायोगः, इदं ब्रह्मागच्छतीति श्रुत्यन्तरे तत्रापि तत्प्रयोगात्, तद्व्यावर्तनार्थ परमात्मनि परब्रह्मेति तत्र तत्र सविशेषनिर्देशदर्शनाच्च। जीवस्य च निर्मुक्तसंसारोपाधेः मुक्तिदशायां धर्मज्ञानविकासेन बृहत्त्वञ्चास्तीति तदीयकर्मनिमित्तत्वाज्जगज्जन्मस्थितिलयानां "तज्जलानि"ति हेतुनिर्देशोऽप्युपपद्यते। तस्माज्जीव एव अत्र उपास्यतया निर्दिष्टं ब्रह्मेति। एवं प्राप्ते सिद्धान्तः-- "सर्वे खल्विद"मिति निर्दिष्टे सर्वस्मिन् जगति तदत्मतया विधीयमानं ब्रह्म परमेव ब्रह्म। न जीवः। जगज्जन्मादिहेतुकतादाम्यस्य प्रसिद्धत्वेनोपदेशात्। ब्रह्मणो जातत्वात् ब्रह्मणि लयवत्त्वात् ब्रह्माधीनजीवनत्वाच्च हेतोः ब्रह्मात्मकं खलु सर्वमिदं जगदित्युक्ते हि यस्माज्जगज्जन्मस्थितिलया वेदान्तेषु प्रसिद्धा तदत्र ब्रह्मेति प्रतीयते। तच्चा परमेव ब्रह्मा, "यतोवा इमानि भूतानि जायन्त" इत्यादिश्रुतेः। ततश्च ब्रह्माधीनजन्मजीवनलयस्य स्थूलचिदचिद्वस्तुरूपस्य सर्वस्य जगतः तदपृथक्सिध्या तच्छरीरत्वेन तदात्मभूतत्वलक्षणं तत्तादात्म्यं तस्य सकलहेयप्रत्यनीककल्याणगुणाकरत्वेन न विरुध्यते, प्रकारभूतशरीरगतदोषाणां प्रकारिण्यात्मन्यप्रसङ्गात्। जीवस्य तु सर्वतादात्म्यनिर्देशो नोपपद्यते। तस्य प्रतिशरीरं भिन्नस्य अन्योन्यतादात्म्यासम्भवात्। तस्मादिह ब्रह्मशब्देन निर्दिष्टं परमेव ब्रह्मा। नन्वेवं सति कथं "मनोमयः प्राणशरीरं"इत्यनयोरूपास्यगुणतया ब्रहामण्यन्वयः, मनःप्राणयोरुपकरणोपकरणिभावेन जीवसम्बन्धस्यैव सुप्रसिद्धत्वादितिचेत् उच्यतेसांसारिकमनःप्राणसम्बन्धोऽत्र नार्थत्वेन ग्रहीतुं योग्य-, तस्य हेयस्य मुक्तिदशायां त्यक्तव्यस्य अनुपदोक्ततत्क्रतुन्यायविरोधेन उपास्यगुण्तवायोगात्। तस्मान्मुक्तदशाविकसितधर्मज्ञानरूपविशुद्धमनोग्राह्यत्वं मनोमयत्वं, सर्वप्राणिप्राणधारकत्वं प्राणशरीरत्वं, निरतिशयदीप्तियुक्तदिव्यमङ्गलविग्रहवत्त्वं भारूपत्वमित्यादिर्भाष्योक्तएव तेषामर्थो ग्राह्यः। एवं च एवंरूपा मनोमयत्वादयो जीव एव नोपपद्यते। तथा "एतमितः प्रेत्य अभिसम्भविताऽस्मी"ति प्रकृतस्य ब्रह्मणः उपासकप्राप्यतया निर्देशः, "एषम आत्माऽन्तर्हृदय" इति षष्ठीनिर्दिष्टादुपासकात् प्रथमान्तेन तस्य व्यतिरेकनिर्देशश्च, "ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठती"त्यादिस्मृतिश्च, हृदयदेशास्थितमुपास्यं ब्रह्मजीव इति पक्षे नोपपद्यते। ननु ब्रह्मेति पक्षेऽपि "एषम आत्माऽन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वे"ति अल्पौकस्त्वाणीयस्त्वव्यपदेषो नोपपद्यते। मैवं, ध्यानार्थमणीयस्त्वमुपदिश्यते, न पुनरणीयस्त्वमेवास्य स्वरूपमिति। व्योमवच्चैष व्यपदेशो द्रष्टव्यः। अतएव "ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्य" इति तस्य स्वाभाविकं महत्त्वमपि श्रूयते। एवं च यस्योपाध्यनुक्त्या स्वाभाविकं महत्त्वमवगम्, तस्योपाध्युक्तिपूर्वकमुच्यमानं परिच्छिन्नत्वमैवोपाधिकमिति एवमौचित्यात्। इह अल्पत्वोपाधेः हृदयायतनत्वस्यैव ज्यायस्त्वोपाधेरश्रवणात् उपासनार्थमौपाधिकमणीयस्त्वं स्वाभाविकं ज्यायस्त्वञ्च विवक्षितमिति न कश्चिद्विरोधः। एवं तर्हि जीवस्येव परस्यापि शरीरान्तर्वर्तिचेतनत्वाविशेषात् तत्प्रयुक्तसुखदुःखभोगः प्राप्नुयादिति चेन्न। हेतुविशेषात्, नहि शरीरान्तर्वर्तिचेतनत्वमात्रं सुखदुःखभोगहेतुः अपि तु कर्मपारवश्यमपि, तत्त्वपहतपाप्मनः परमात्मनो न शक्यशङ्कं, तस्मादिहोपास्यं ब्रह्म परमेव ब्रह्मेति सिद्धम्।।
सङ्ग्रहकारिकाः।।
सर्वं खल्वित्यत्र सार्वात्म्यमुक्तं हेयं यस्य ब्रह्म तज्जीव एव।
पर्यायेणानादिंसारभाजस्तस्यह्येतद्युज्यते नो परस्य।।
मैवं खलुप्रयोगाद्धि प्रसिद्धवदनूद्यते।
सार्वात्म्यं कारणत्वोत्थं तच्च ब्रह्मणि विश्रुतम्।।
येऽन्ये मनोमयत्वाद्या वपाक्यशेषश्रुता गुणाः।
ब्रह्मण्येव च ते सर्वे युज्यन्ते न तु भोक्तरि।।
इति सर्वत्रप्रसिद्ध्यधिकरणम्।।1।।
अत्ता चराचरग्रहणात्।।9।।
प्रकरणाच्च।।10।।
गुहांप्रविष्टावात्मनौ हि तद्दर्शनात्।।11।।
विशेषणाच्च।।12।।
कठवल्लीषु श्रूयते-- "यस्य ब्रह्म च क्षत्रञ्चोभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्थावेद यत्र स " इति। अस्य यस्मिन् प्रकारे स्थितः यत्प्रकारविशिष्टः। तं प्रकारं को वेदेत्यर्थः। अत्र ओदनोपसेचनसम्बन्धात् यस्येति षष्ठीनिर्दिष्टः तयोरत्ता प्रतीयते, स किं जीवः, उत परमात्मेति अत्तृत्वस्य कर्मफलभोक्तृत्वजगदुपसंहर्तृत्वान्यतररूपत्वानिर्द्धारणात् संशये पूर्वपक्षः-- ओदनोपसेचनसम्बन्धात् अत्ता भोक्तैव। नच मृत्योरूपसंहारकारिणः उपसेचनत्वरूपणात् अत्ता संहर्ता प्रतीयत इति वाच्यम्। जीवस्य नित्यत्वेन मृत्युवश्यत्वाभावात् मृत्युर्जीवस्य विधेयप्राय इत्याशयेन मृत्यूपसेचनवादोपपत्तेरिति। सिद्धान्तस्तु-- मृत्यूपसेचनवादोपपत्तेरिति। सिद्धान्तस्तु-- मृत्यूपसेचनवादो मृत्योरबाधकत्वाभिप्रायो न वक्तुं युक्तः, उपसेचनशब्दस्य गौणत्वेऽपि स्वयमद्यमानत्वे सत्यन्यादनहेतुत्वेन विशेषाकारेण गौणत्वे सम्भवति अबाधत्वरूपेण गौणत्वायोगात्। नहि "सिंहो देवदत्त " इत्यत्र शौर्यादिविशेषाकारेणेव द्रव्यत्वादिसामान्याकारेण संहशब्दस्य गौणत्वमिष्यते। अत एव पूर्वतंत्रेऽपि "उद्गातृचमसमेकस्य श्रुतिसंयोगा"दित्यधिकरणे "प्रैतुहोतुश्चमसः प्रब्रह्मणः प्रोद्गातॄणां प्रयजमानस्ये"ति अध्वर्युप्रैषगतस्य उद्गातृपदस्य बहुवचनानुसारेण अजहल्लक्षणया बहुषु वृत्तौ वक्तव्यायां उद्गातृगणमात्रवृत्तिर्विशेषाकारस्तन्निमित्तं, नतु षोडशाÐत्वक्साधारणः सामान्याकार इति निरूपितम्। एवं च यथौदनो येन दधिपयःप्रभृतिना तद्भोजनायोपसिच्यते तस्याप्यदनीयता, एवमोदनस्थानीयं ब्रह्मक्षत्रशब्दितं येन मृत्युनोपसिच्यमानमदनीयं प्रतीयते, तस्यापि मृत्योस्तेन महादनीयताप्रतीतेः, मृत्युना सह जगददनस्य प्रलय एव भावात् , प्रलये च सर्वस्य चराचरस्य संहारात्, समस्तं चराचरबृन्दं ब्रह्मक्षत्रशब्दलक्षितमवसीयते। नच समस्तस्य चराचरस्य मुख्यमदनं सम्भवतीति ओदनशब्दस्य विनाश्यत्वे लक्षणाऽवसीयते, यद्यपि विनाश्यत्वं भोज्यत्वभोग्यत्वापेक्षया सामान्याकारः. तथाऽपि सर्वस्य चराचरस्य ब्रह्मक्षत्रमात्रस्य वा कञ्चित्प्रत्योदनवत् भोज्यत्वाभावात् स्रीभृत्यादिवत् भोग्यत्वाभावाच्च समभिव्याहृदपदान्तरसामर्थ्यप्राप्तं विनाश्यत्वरूपसाधारणाकारनिमित्तत्वं न्यायप्राप्तत्वादुररीकरणीयम्। अतएव "इमां स्पृष्ट्वोद्गायेत् इमां हि विश्वभूतान्युपजीवन्ती"त्यत्र विश्वभूतोपजीव्यत्वसम्भिव्याहारप्राप्तं भूमिपरत्वं इमामित्यस्येष्यते, नतु सन्निहितौदुंबरीपरत्वं, एवं सिद्धे सकलचराचरसंहर्तृत्वे परमात्मलिंगे तेनात्ता परमात्मैव। "महान्तं विभुमात्मानं मत्वा धीरो न शोचती "त्यादिना प्रकृतस्य परमात्मनो "यत्रस" इति तत्पदेन परमर्शादप्येवमवसीयते। अथ स्यात् "ऋतुं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्थ्ये। छायाऽऽतपौ ब्रह्मविदो वदंति पञ्चाग्नयो ये च त्रिणाचिकेता" इत्यनन्तरमन्त्रे ऋतुपानशब्दितकर्मफलभोक्तृत्वाभिधानात्, तस्य च जीवलिङ्गतया पूर्वाधिकरणे समर्थितत्वात्, तयोरेकस्तावत् ऋतुपानकर्ता जीवः, तस्य द्वितीयोऽपि बुद्धिप्राणयोरन्यतरः, कर्मफलभोगोपकरणत्वेन ऋतपानसम्बन्धित्वात्, अतः पूर्वप्रस्तुतोऽत्तापि तदेकप्रकरणक्वाज्जीवएवावसीयत इति चेत् उच्यते---
न प्राणजीवौ बुद्विजीवौ वा "गुहां प्रविष्टौ" "ऋतंपिबन्तावि"ति चोच्यन्ते, अपितु जीवपरमात्मानौ हि तथोच्येते; तस्मिन् प्रकरणे जीवपरयोरेव गहाप्रवेशव्यपदेशदर्शनात्, "तं दुर्दर्श गूढमनुप्रविश्टं गूहाहितं गह्वरेष्टं पूराणं। अद्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाती"ति परस्य गुहाप्रवेशव्यपदेशो दृश्यते, "या प्राणेन संभवत्यदितिर्देवतामयी। गुहां प्रविश्य तिष्टंती या भूतेभिर्व्यजायते"ति जीवस्य। अत्र कर्मफलान्यत्तीति यौगिकेनादितिशब्देन जीव उच्यते, नतु देवमाता पृथिवी वा, तयोरस्मदादिहृदयगुहाप्रवेशाभावात्।
"प्राणेनसंभवति" सह वर्तते। देवतामयी। देवताशब्दादिंद्रियवाचिनः स्वार्थे मयट्प्रत्यय इति इन्द्रियाधीनभोगा। हृदयगुहांप्रविश्यतिष्ठंतीति-पृतीव्यादिभूतैःसहिता देवादिरूपेण विविधा जायत इति। एवञ्च "ऋतंपिबंता" विति व्यपदेशः छत्रिन्यायेन अजहल्लक्षणया योज्यः।यद्वा- स्वतंत्रप्रयोजकोभयसाधारणकर्तृत्वसामान्यपरः शतृप्रत्यय इति जीवपरयोरुभयोरपि मुख्यतयैव योज्यः, बुद्विप्राणयोरूपकरणायोः कर्त्रर्थे प्रत्ययो हि "चक्षूरूपग्राहक" मितिवत् कर्तृत्वोपचारादिति समर्थनीयं स्यात्। न च "सुकृतस्य लोक " इत्यस्य कर्मफलभोगार्थमुपात्तस्य परमात्मद्वितीयपक्षेऽनुपपत्तिः, भोक्तिरिव भोजयितुरपि भोगस्थाने सन्निधानस्य वक्तव्यत्वात्। न च जीवपरयोः प्रकाशरूपत्वात् छायातपत्वनिर्देशानुपपत्तिः, अज्ञत्वसर्वज्ञत्ववैलक्षण्येन तदुपपत्तेः, "ज्ञाज्ञौ द्वावजावीशनीशा"वित्यादुश्रुतेः, हृदयगुहां प्रविष्टौ बुद्धिजीवाविति युक्तम्, "आत्मानं रथिनं विद्धि शरीरं रथमेवच। बुदिं्ध तु सारथिं विद्धि मनः प्रग्रहमेव चे "त्यत्रैवप्रकरणे जीवस्य रथित्वेन बुद्धेः सारथित्वेन च शरीराकाररथारूढत्ववर्णनात्। जीवपराविति तु न युक्तं, "सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पद "मिति तयोः प्राप्तृप्राप्यभावनिर्देशात् प्राप्यस्य रथ एव प्राप्तत्वे कस्य प्राप्तये रथारोहः कल्प्यत इति चेत्। उच्यते-- गुहां प्रविष्टौ जीवपराविति युक्तं, "तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्टं पूराणं। अध्यात्मयोगाधइगमेन देवं मत्वा धीरो हर्षशोकौ
जहाति" त्यादिपूर्वापरमंत्रेषु तयोरेव उपास्योपासकभावेन प्राप्यप्राप्तृभावेनच तयोरेव विशेष्यमाणत्वात्। रथिरथसारथ्यादिरूपणन्तु उपासनोपयोगिशरीरादिवशीकरणसिव्द्यर्थ, "यस्तु विज्ञानवान्भवति युक्तेन मनसा सह। तस्येन्द्रियाणि वश्यानि सदश्वाइव सारथे" रित्यादिमंत्रातराम्नानात्। न तु परमपदप्राप्त्यर्थे, तावत्पर्यन्तं प्राकृतशरीरोंद्रियविषयादिगमनाभावात्। सर्वमेतदानुमानिधिकरणे स्पष्टीकरिष्यते। तस्मात् गुहां प्रविष्टौ जीवपरौनतु बुद्विजीवौ, अत्ताच परमात्मैवेति सिद्वम्।।
संग्रहकारिके।।
औदनसम्बन्धित्वादत्ता भोक्तेति जीवएव स्यात्।
नास्ति ब्रह्मप्रकरणमृतमन्त्रोऽग्रे हि बुद्विजीवपरः।।
मृत्युपसेचननिरूपणसन्निधानात् कृत्स्त्रञ्चरामिहाद्यतया प्रतीतम्।
तेनादनं हरणमित्युचितस्तदत्ता नाथस्सएव ऋतमंत्रगतस्स जीवः।।
इति अत्रधिकरणम्।।1।।
अन्तर उपपत्तेः ।।13।।
स्थानादिव्यपदेशाच्च।।14।।
सुखविशिष्टाभिधानदेव च ।।15।।
अतएव च सब्रह्म।।16।।
श्रुतोपनिषत्कगत्यभिधानाच्च।।17।।
अनवस्थितेरसंभवाच्च नेतरः।।18।।
छन्दोगाः समामनन्ति --"य एषोऽक्षिण पुरुषो दृश्यत एष आत्मेतिहोवाच एतदमृतमभयमेतद्ब्रह्मेति तद्यद्यप्यस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनीह्येव गच्छति एतं संयद्वाम इत्याचक्षते एतं हि सर्वाणि वामान्याभिसंयंति सर्वाण्येनं वामान्याभिसंयंति यएवंवेद एष उएवं वामनीरेष हि सर्वाणि वामानि नयति एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाती"ति। अत्र अक्ष्यन्तरः पुरुषः प्रतिबिंबः स्यात्, "य एष "इति प्रसिद्धवन्निर्देशात् "दृश्यत" इत्यापरोक्ष्याभिधानाच्च। जीवात्मावा, तस्यापि चक्षुषि विशेषसन्निधानात् उन्मीलितं हि चक्षुरुद्वीक्ष्य जीवस्य शरीरे स्थितिन्निश्चिन्वन्ति। "नेत्रस्थं जाग्रत"मिति च माण्डूक्यश्रुतेः। चक्षुः प्रतिष्ठो देवताविशेषो वा स्यात्, "रश्मिभिरेषोऽस्मिन्प्रतिष्ठित" श्रौतप्रसिद्धेः। न तु परमात्मा। "तन्दुर्दर्श"मिति दुर्दर्शत्वेनोक्तस्य तस्य "य एष दृश्यत" इति निर्देशायोगात्। इति पूर्वपक्षः। ननु कथमयं पूर्वपक्षो घटते, विषयवाक्य एव अमृतत्वाभयत्वयोरात्मब्रह्मश्रुत्योः संयद्वामत्ववामनीत्वभामनीत्वानाञ्चा तल्लिङ्गानामाम्नात्, "तद्यद्यप्यस्मि"न्निति स्थानिनिर्लेपत्वप्रयुक्तस्थाननिर्लेपत्वाम्नानात्, "तद्यथा पुष्करपलाशआपो न श्लिष्यन्ते एवमेवंविदं पापं कर्म न
श्लिष्यत" इति वाक्येन "अथ यदुचैवास्मिन् शव्यं कुर्वन्ति यदुचन अर्चिषमेवाभिसम्भवन्ती"ति वाक्येन च ब्रह्मविद्याफलत्वेन प्रसिद्धयोः सकलपापश्लेषब्रह्मप्राप्तिफलयोः प्रतिपादनात्, "प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मे"त्युपक्रान्तब्रह्मप्रकरणानुवृत्तेश्च। एवं परमात्मपक्ष इवं प्रतिबिंबादिपक्षेषु श्रुतिलिङ्गादीनामन्यतमस्याप्यभावात्। अक्षिस्थत्वन्तु "यच्चक्षुषि तिष्ठन्, य एषोऽक्ष्णि पुरुषो दृश्यत" इत्यादिश्रुत्यन्तरेषु परमात्मन्यपि श्रुतं तत्साधारणमिति चेत् उच्यते-- अक्ष्याधारत्वं परमात्मव्यावृत्तं प्रतिबिंबादिपक्षोत्थापकं भवत्येव। तस्य हि स्वमहिमप्रतिष्ठस्य मुख्यं तावदक्ष्याधारत्वं न सम्भवति, रूपविशेषावच्छेदोपाधिकं औपचारिकं सम्भवदपि तदाऽङ्गीकार्यम्, यद्यक्षिस्थस्य परमात्मत्वगमकं श्रुतिलिंगादिषु किञ्चिदिह जागृयात्। नत्वेतदस्ति। आत्मब्रह्मश्रुत्योः संयद्वामत्वादिगुणश्रवणस्य च इति शब्दाशिरस्कत्वेन "मनोब्रह्मेती" त्यादिवत् अतस्मित् तद्रूपप्रत्ययपत्वावगमात् तत्समभिव्याहृतामृतत्वादिश्रवणस्य च तन्मात्रपरत्वात् उदाहृतफलानां अब्रह्मोपासनयाऽपि वैवाहिकवरवधूदर्शनेन अभ्युदयवत् वचनबलादुपपत्तेः। ब्रह्मप्रकरणानुवृत्तिस्त्वसिद्धा, "प्राणो ब्रह्मे"त्यादेः "मनो ब्रह्मे"त्यादिसारूप्येण ब्रह्मदृष्टिविधिपरत्वात्, तस्य ब्रह्मोपासनाविधिपत्वेऽपि तदग्नीनां वाक्यं इदमाचार्यवाक्यमिति वक्तृभेदात्, अग्निविद्याभिर्व्यवधानाच्च। एवं ह्युपाख्यायते-- उपकोसलः सत्यकाममाचार्यमुपसन्नः तस्य द्वादशवर्षाम्यग्नीन् परिचरन्नास्त, तस्मै ब्रह्मोपदेशमकृत्वैव आचार्यें प्रोषिते तदाऽपि आचार्याग्निपरिचर्यायमवहितं तमवेक्ष्यगार्हपत्यादयस्रयोऽग्नयः सम्भूय करुणया तस्मै "प्राणोब्रह्मे"त्यादिना ब्रह्मविद्यां "यएषआदित्ये पुरुषोदृश्यते
सोहमस्मी"त्यादिना प्रत्येकं स्वस्वविषयविद्यांच उपदिश्य "एषा सोम्य तेऽस्मद्विद्या चात्मविद्याचे"त्यभिधाय "आचार्याद्धैव विद्या विदिता साधिष्ठं प्राप" दिति श्रुत्यनुसारेण स्वोपदिष्टा ब्रह्मविद्या तदाचार्यकर्तृगत्युपदेशेन साधिष्ठत्वं प्राप्नोत्विति आलोच्य "आचार्यस्तु ते गतिं वक्ते "त्यवोचन्निति। अतोगतिमात्रस्य वक्तव्यत्वेन
परिशेषितत्वात्, तस्य ब्रह्मविद्याशेषत्वेऽपि "यएषोऽक्ष्णी" त्यादेस्तच्छेषत्वाभावात् तस्य प्रतिबिंबादिविषयतायां न काचिदनुपपत्तिः। यत्तु स्थानिमाहात्म्यप्रयुक्तसर्पिरूदकाद्यश्लेषवर्णनं स्थानिनः परमात्मत्वे लिंगमितितन्नः, वस्तुतः सलेपेऽक्ष्णिस्थानिमाहात्म्यायत्तसर्पिरुदकाश्लेषवर्णनस्य स्तुतिमात्रत्वात्। तस्मात्प्रतिबिंबादीनामन्यतमएवाक्षिपुरुष इति। एवं प्राप्ते सिद्धान्तः-- यत्रोच्यमानस्यार्थस्याप्तवचनसंबन्धः प्रतिपाद्यः तत्र इतिशब्दोनार्थविवक्षां वारयति। यथा "इति हस्मोपाध्यायः कथयती"ति तस्मादिहामृतत्वादीनामाचार्यवचनसंबंधस्य प्रतिपाद्यत्वात् इतिशब्दो नार्थविवक्षावारकः । स्वाभाविकंचाम-तत्वादिकं जीवस्य न संभवति प्रतिबिंबस्य तु कथमपि नसंभवतीति आत्मब्रह्मश्रुत्यमृतत्वाभयत्वसंयद्वामत्ववामनीत्वाभमनीत्वलंगैर्बहुभिरक्षितपुरुषस्य परमात्मत्वनिश्चये सति अक्ष्याधारत्वमेकमौपचारिकं नेतव्यं, उपक्रमस्थैकप्रमाणापेक्षया उपरितनानेकप्रमाणानां बलवत्त्वात्। किंच "य एष ऽक्ष्णी पुरुषो दृश्यत" इति व्यपदेशात् उपासनाकोलेऽक्ष्णि वर्तमानत्वं विवक्षितमिति गम्यते, तत्तावत्प्रतिबिंबे न संभवति, उपासनाकालेऽक्ष्यभिमुखबिंबसन्निधापनकल्पने गौरवं, नासाग्रन्यस्तदृष्टिके तस्मिन् काले बिंबसन्निधापनकल्पनेऽपि न प्रतिबिंबोदयः संभवति, जीवस्यापि जागरे नियमेन अक्षिणस्थितिर्नसंभवति, अणुपरिमाणस्य तस्य सर्वस्मिन्नपि जागरे नेत्रमात्रवर्तित्वे शब्दादिज्ञानानुपपत्तेः। अतस्सर्वोद्रियकदभूतेः हृदिस्थितस्य तस्य धर्मभूतज्ञानप्रसरेण नेत्रपदोपलक्षितसर्वेन्द्रियाधिष्ठातृत्वं "नेत्रस्थ"मिति श्रुत्योच्यत इत्येवाभ्युपगन्तव्यं। चक्षुरधिष्ठात-देवताविशेषस्यापि "रश्मिभिरेषाऽस्मिन् प्रतिष्ठित" इति श्रुतेः तत्परिग्रहेऽपि अक्ष्याधारत्वस्यऔपचारिकत्वानपायात्, तं परिगृह्य ब्रह्मश्रुत्याद्युपेक्षणमयुक्तं। किंच "कं ब्रह्म खं ब्रह्मे"ति प्रकृतस्य सुखविशिष्टस्य परमात्मन उपासनास्थानस्य गुणांतराणांच विधानार्थं "य एषोऽक्ष्णि पुरुषः" इत्यभिधानादष्यक्षिपुरुषः परमात्मा। ननु अग्निविद्याव्यवधानात् "कंब्रह्मे"ति प्रकृतः परमात्मा नेह सन्निधत्ते। उच्यते-- प्रवासात्पुनरागत आचार्यः प्रसन्नमुखमुपकोसलं वीक्ष्य "ब्रह्मविदइव वै सोम्यते मुखं भाति कोनु त्वानुशशासे" ति पृष्ट्वा सहाग्निभिर्भीते तस्मिन् अग्नयोऽस्मा उपदिदिशुरिति निश्चित्य "किन्तु सोम्य किल तेऽवोचन्नि"ति पृष्ट्वा एतावदवोचन्निति तेनोक्ते तत्र वक्तव्यविशेषोऽस्तीत्यवधार्य "अहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश" इत्यादिना स्ववक्तव्यं प्रतिज्ञाय "ब्रवीतु मे भगवा"निति तेन प्रार्थितः ततः संयद्वामत्वादिगुणकमक्षिपुरुषं यदुपदिदेश तस्य प्रकृतस्य सुखविशिष्टब्रह्मान्यविषयत्वं कथं कल्पयितुमीश्महे। ननु "एषा सोम्यते अस्मद्विद्याचात्मविद्याचे"ति निचशेषमुपदिष्टतया उपसंतायां परमात्मविद्यायां
वक्तव्यशेषसद्भावमालोच्य आचार्यः स्वयमुपदिदेशेति कल्पनेऽपि अग्नीनामनृतवादित्वं अनभिज्ञत्वं वा प्रसज्यत इति चेन्न। "आचार्यस्तु ते गतिं वक्ते"त्यग्निनां वचने गतिग्रहणस्य यदाचार्येण अग्रे वक्तव्यं तस्य सर्वस्यापय्पलक्षणार्थत्वात्, अन्यथा अग्रिमार्यवचनानामान्वययोगात्। ननु "कं ब्रह्म खं ब्रह्म" त्यत्र न ब्रह्मविद्याविदानं किं तु प्रसिद्वाकाशलौकिकसुखयोः ब्रह्मदृश्टिविधानमात्रं "कं ब्रह्म खं ब्रह्म"ति प्रत्येकं ब्रह्मपदयोगितिचेत्। उच्यते - भवभयभीतस्तावदुपकोसलः सत्यकाममुपसम्पन्नः। "व्याधिभिः प्रतिपूर्णोऽस्मि" त्याचार्यजायां प्रत्युकोसलस्यसांसारिकेषु विषयेषु व्याधित्वमारेप्य निंदावचनात्, अध्ययनार्थमुपसन्नेषु सर्वष्वन्येषु ब्रह्मचारिषु अध्याप्य समावर्तितेष्वपि अमुमसमावर्त्य अग्निपरिचर्यायां नियुज्य स्वयं सत्यकामः प्रोवासेत्यस्माच्च लिंगात्। एवं मुमुक्षया उपम्पन्नंप्रति कथं तदनुपयोगिनं दृष्टिविधिमग्नय उपदिशेषुः, तस्मात् यथा "प्राणोब्रह्मे"त्यत्र प्राणशरीरतया ब्रह्मणि सुखाकाशशब्दौ, उत तयोरन्योन्यव्यवच्छेदकतया निरतिशयानन्दब्रह्मस्वरूपसमर्पकत्वाभिप्रायेण वेत्यन्तरनिर्दिधारयिषया प्रश्नः। अमुमभिप्रायं जानन्तोऽग्नयः "यद्वाव कं तदेव खं यदेव खं तदेव कं" मित्युचुरिति तेषां द्वितीयपक्षएवाभिमत इत्याशयः। अत एवं "कं ब्रह्म खं ब्रह्मे" ति ब्रह्मपदद्वयमप्युपपद्यते, आकाशवत् ब्रह्मानवच्छिन्नं च भवति, तदेव ब्रह्म सुखरूपंच भवतीति प्रत्यायितुं। एवं च "यद्वाव कं तदेव खं यदेव तदेव क"मित्युभयथा विशेषणविशेष्यभावोक्तिः, अनवच्छिन्नसुखरूपं ब्रह्म सुखात्मकानवच्छिन्नवस्तुस्वरूपं च ब्रह्मेति उभयथा उपासनासिद्यर्थमिति सर्वमनवद्यम्। श्रुतोपनिषत्कस्य अधिगतपरमपुरुषयाथात्म्यस्य श्रुत्यन्त रप्र सिद्वा या अर्चिरादिगतिः तामपुनरावृत्तिलक्षणपरमपुरुषप्राप्तिकरीं उपकोसलायाक्षिपुरुषं श्रुतवते "अर्चिषमभिसम्भवन्ती"त्यादिना "एष देवपथो ब्रह्मपथः एतेन प्रतिपद्यमाना इमं मानवमावर्तन्नावर्तन्त" इत्यन्तेन यदाचार्य उपदिदेश, ततोऽप्यक्षिपुरुषः परमात्मा, न
तु प्रतिबिंबादिः। नहि तस्य नियमेनोपासनाकालेषु वाऽक्षिण्यवस्थानमस्ति, न वा तस्मिन्निरुपाधिकममुतत्वादिकं संभवतीति।।
संग्रहकारिका।
यएषपुरुषोऽक्ष्णिदृश्यत इति प्रसिद्विगकादुपक्रमगतात्।
शरीरभृदिनोऽथवा प्रतिकृतिः सइत्यनुचितं बहुप्रतिहते।।
इति अन्तराधिकरणम्।।3।।
अन्तर्याम्यधिदैवाधिलोकादिषु तद्वर्मव्यपदेशात्।18।
नचस्मार्तमतद्धर्माभिलापाच्छारीरश्च।।19।।
उभयेऽपि हि भेदेनैनमधीयते।।20।।
"स्थनादिव्यपदेशाच्चे"ति सूत्रे "यश्चक्षुषितिष्ठ" न्नित्यादिनोक्तं चक्षुषि स्थितिनियमनादिकं परमात्मधर्मइति सिद्धं कृत्वा अक्षिपुरुषस्य परमात्मत्वं साधितं, तदेवेदानीं समर्थ्यत इति सङ्गतिः। वाजसनेयिनः समामनंति-- "यः पृथिव्यांतिष्ठन् पृथिव्याअन्तरोयं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमंतरो यमयति एषतआत्मांतर्याम्यमृत " इति। एवं अब्वग्न्यन्तरिक्षवाय्वादित्यदिक्चन्द्रतारकादिष्वपि तिष्ठन्त तदंतरभूतं तदवेद्यं तच्छरीरकन्तत्तद्यमयन्तमामनंति। माद्ध्यन्दिनास्तु "यस्सर्वेषु लोकेषु सर्वेषु वेदषु सर्वेषु यज्ञेष्वि"ति पर्यायांतराण्यप्यामनंति। तत्र किमयमंतर्यामी जीवः परोवेति संशये जीवइति तावत्प्राप्तं, वाक्यशेषे "द्रष्टा श्रोतामन्ता विज्ञाते"ति चक्षुरादिकरणायत्तज्ञानताश्रुतेः। नच दर्शनश्रवणमननविज्ञानशब्दाः रूपादिसाक्षात्कारवाचिनः, न चाक्षुषादिज्ञानवाचिनः, न चाक्षुषादिज्ञानवाचिनः, रूपादिसाक्षात्कारास्तु परस्यापि सन्ति, "पश्यत्यचक्षुस्स श्रृणोत्यकर्ण " इत्यादिश्रुतोरिति वाच्यम्। तथासति "नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञाते"ति वाक्यश्रुतद्रष्टन्तरादिनिषेधायोगात्, दर्शनादिशब्दानां चाक्षुषादिज्ञानपरत्वे हि जीवादनयस्तद्वान् नास्तीति निषेधो युज्यते। रूपादिसाक्षात्कारवाचित्वे तस्य परस्मिन्नपि सत्त्वादन्यत्र तन्निषेधो न युज्यते। न च जीव इति पूर्वपक्षेऽपि "य इमञ्च लोकं परञ्च लोकं सर्वाणि च भूतानि योऽन्तरोयमयती"त्येकवचनं, "यः पृथिव्यां तिष्ठ"न्नित्यादिपृथिव्यादिस्थितत्ववचनं, "यं पृथिवी न वेदे"ति पृथिव्याद्यवेद्यत्ववचनं, "यः पृथिवीमन्तरोयमयती"त्यादिपृथिव्यादि नियन्तृत्ववचनञ्च, न युज्यतइति वाच्यम्।
एकवचनस्य जीवसमुदायाभिप्रायेण, स्थितिवचनस्य स्वमहिमप्रतिष्ठितत्वोक्तरीत्या, तदन्तरत्वतन्नियन्तृत्ववचनयोरात्मेश्वरत्वोक्तरीत्या, तदवेद्यत्वोक्तेः निष्कृष्टस्वरूपज्ञानाभावाभिप्रायेण च, योजयितुं शक्यत्वात्। तस्माज्जीवएवायमन्तर्यामीति। एवं प्राप्ते सिद्धान्तः-- "य इमञ्च लोकं परञ्च लोकं सर्वाणि च भूतानि योऽन्तरोयमयति तमन्तर्यामिणं ब्रूही"ति सर्वान्तर्यामी कश्चिदेकोऽन्तर्याम्यस्ति तमन्तर्यामिं ब्रूहित्युद्दालकप्रश्नस्य हि "यः पृथिव्यान्तिष्ठ"न्नित्यादि याज्ञवल्क्यस्योत्तरं, अत्रैकवचनं जात्यभिप्रायादिना योजयितुं न युक्तं, प्रथमप्रवृत्तैकविषयप्रश्नानुसारेण उत्तरवचनानां सर्वदेलोकादिनियंत्रेकविषयत्वस्य वक्तव्यत्वात्। तस्मात् सुबालोपनिषदि "यस्य पृथिवीशरीरं यः पृथिवीमन्तरे सञ्चरन् यं पृथिवी न वेद यस्यापश्शरीर" मित्यादिवाक्यसन्दर्भप्रतिनिर्देशे "एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देवएको नारायण " इति वाक्ये श्रुतः परब्रह्मरूपः पुरुषोत्तमएवात्रान्तर्यामि विवक्षितइति युक्तम्। तस्यैव च "एषत आत्माऽन्तर्याम्यमृत" इति निर्दिश्यमानं जीवाद्व्यतिरिक्तत्वं स्वाभाविकामृतत्वञ्च सङ्गच्छते। यत्तु "नान्यतोऽतोऽस्ति द्रष्टे"त्यदिकरणायत्तज्ञानवतोऽन्यस्य निषेधएव सङ्गच्छते, नतु रूपादिज्ञानवतोऽन्यस्य निशेध इति जीवपूर्वपक्षोपाद्बपकमुक्तं, तत्रेदमुत्तरं, "नान्योऽतोऽस्ति द्रष्टे"त्यादि न द्रष्ट्रान्तरादिनिषेधमात्रपरं, किंतु तत्सदृशसर्वभूतनियन्तृरूपद्रष्ट्रन्तरादिनिषेधपरं, "नञिवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थगति"रिति शाब्दिकन्यायात्, तमेव हि न्यायमवलम्ब्य इषुनामके क्रतौ कतिपयवैशेषिकधर्माम्नानानन्तरमाम्नाते "समानमितिरच्छ्येनेने"ति वाक्ये इतरशब्दः स्येननामकक्रतुवैशेषिकधर्मानामतिदेशार्थः, न तु श्येनसाधारणानाञ्चोदकप्राप्तानां प्राकृतधर्माणामनुवादक इति निर्णीतं पूर्वतन्त्रे सप्तमाध्याये। एतेन "न दृष्टेर्द्रष्टारं पश्येः न श्रुतः श्रोतारं श्रृणुयाः न मतेर्मन्तारं मन्वीथाः न विज्ञातेर्विज्ञातारं विजानीयाः आत्मा वाऽरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्य" इति मैत्रीयब्राह्मणे श्रोतेत्यादिपदानां श्रवणमनननिदिध्यासनसाक्षात्कारकर्तृपरताया दृष्टत्वात् इहापि तत्परत्वं वक्तिमुचितमिति श्रवणमननादिकर्त्रन्तरनिषेधो
जीवपक्षएव घटते न परमात्मपक्ष इति शङ्काऽपि निरस्ता। नञिवयुक्तन्यायावलम्बनेन तत्सदृशनियन्त्रन्तरनिषेधस्य "पश्यत्यचक्षु"रित्यादिश्रुत्यन्तरप्रसिद्धार्थग्रहमानुकूलस्यैव तदर्थतया ग्राह्यत्वसमर्थनात्। यद्यपि चाक्षुषादिज्ञानवत्त्वेन सदृषस्यान्यस्यापि निषेधो जीवपक्षेऽपि घटते, तथाऽपि प्रधानवज्जीवोऽपि नान्तर्यामी भवितुमर्हति, सर्वनियन्तृत्वनिरूपाधिकामृत्वाद्यसम्भवात्। अपिचैतं जीवं काण्वामाध्यन्दिनाश्च उभयेऽपि अन्तर्यामिणो भेदेनाधीयते। "यो विज्ञाने तिष्ठन् विज्ञानादन्तर" इत्यादि हि काण्वा अधीयते। तत्रैव स्थाने "य आत्मनि तिष्ठ"न्नित्यादि माध्यन्दिनाः। तस्मादन्तर्यामी परमात्मैव न जीवः।।
संग्रहकारिका।।
द्रष्टृश्रोत्रादिशब्दाभिहितकरणजज्ञानभेदाश्रयत्वा
दन्तर्यामी शरीरी स्वनियमनवचोभाक्तमत्रेत्यसाधु।
एकस्यैव ह्यधीताखिलयमयितृता ब्रह्मणोऽन्यत्र कस्मिन्
संभाव्या तत्र रूपाद्यवगतिविषयादर्शनाद्या घटन्ते।।
इति अन्तर्याम्यधिकरणम्।।4।।
अदृश्यत्वादिगुणको धर्मोक्तेः।।22।।
विशेषणभेदव्यपदेशाभ्याञ्च नेतरो।।23।।
रूपोपन्यासाच्च।।24।।
आथर्वणिकास्समामनन्ति। "अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुरश्श्रोत्रन्तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यंति धीरा " इति तदनन्तरञ्चामनंति। "दिव्योह्यमूर्तः पुरुषस्सबाद्याभ्यंतरोह्यजः। अप्राणोह्यमनाश्शुभ्रोह्यक्षरात्परतः पर " इति । तत्र किमदृश्यत्वादिगुणकमक्षरं अक्षरात्परतः परश्च प्रकृतिपुरुषौ, उतोभयमपि परमात्मेति। प्रकृतिपुरुषाविति तावत्प्रातं, नह्यस्मिन्नक्षरेऽन्तर्यामिणि "अदृष्टोद्रष्टे"त्यादौ
द्रष्टृत्वादिरिव चेतनधर्मः कश्चित्समाम्नायते। "अक्षरात्परतः पर" इत्यत्र च सर्वस्माद्विकारजातात् परं यत्प्रकृतं भूतयोन्यक्षरं तस्मात्परः क्षेत्रज्ञस्समष्टिपुरुषउच्यते। ननु इह चेतनधर्माश्रवणेऽप्यदृश्यत्वादिकं साधारणमिति कुतोऽक्षरस्य प्रधानत्वनिर्णयः। उच्यते-- यथाखलु "अबालोऽयमतरुणोऽय"मित्यादिशब्दाः पुरुषविशेषे प्रयुज्यमानाः प्रत्यासन्नावस्थांतराश्रये तस्मिन्नेव वर्तते, एवं दृश्यत्वग्राह्यत्वरूपज्ञानंद्रियकर्मेंद्रियविषयत्वनिषेधाः धर्मिविशेषाकांक्षायां दृश्यत्वग्राह्यत्ववदचेतनजातएव सूक्ष्मावस्थे वर्तते इति युक्तं, तस्यैवावस्थांतरापन्नस्य धर्मित्वे संभवति धर्म्येतरकल्पनायोगात्। ननु तर्हि "अगोत्रमवर्णमचक्षुरश्रोत्रमपाणिपाद"मिति जीवे प्रसिद्धानां गोत्रादीनां निषेधजातस्य धर्म्याकांक्षायां तस्यैव शरीरान्निष्कृष्टस्य सूक्ष्मावस्थस्य धर्मित्वोपपत्या भूतयोन्यक्षरं जीवएव स्यात्, "अद्रेश्यमग्राह्य"मिति प्रकृतिलिंगनिषेधयोरूपक्रमगतत्वेपि गोत्रनिषेधादीनां जीवलिंगानां बहुत्वेन ततः प्राबल्यात्
"क्षरं प्रधानममृताक्षरं हर " इति जीवेप्यक्षरशब्ददर्शनात्, न क्षरति स्वरूपेण न विक्रियतइति तस्मिन्नप्यक्षरशब्दोपपत्तेः, अदृष्टद्वारा जगत्कारणे तस्मिन् भूतयोनित्वव्पदेशोपपत्तेश्चेतिचेत्। उच्यते-- भूतयोन्यक्षरसमाम्नानन्तरं तस्य भूतयोनित्वविवरणार्थं प्रवृत्ते "यथोर्णनाभिस्सृजते गृह्णते च यथा पृथिव्यामोषधयस्संभवन्ति। यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्व " मिति मन्त्रे परिणाभ्युपादानभूतोर्णनाभ्यादिदृष्टांतोपादानेन अक्षरस्य भूतयोनित्वं परिणाभ्युपादानत्वरूपमवगमितं, तदनन्तरञ्च "यथा सुदीप्तात्पावकाद्विस्फुलिंगास्सहस्रशः प्रभवन्ते सरूपाः। तथाक्षराद्विविधास्सोम्यभावाः प्रजायंते
तत्रचैवापियंती "ति भूतयोन्यक्षरस्य सरूपकार्यप्रभवत्वोक्यापि तस्य भूतयोन्तवं परिणाभ्युपादानत्वरूपमवगमित्तं, तस्मादुपक्रमोपसंहाराभ्यामवगमिते भूतयोन्यक्षरस्य प्रकृतित्वे "यदगोत्र" मित्यादिजीवलिंगन्तत् तत्रैव कथञ्चिन्नेतव्यं। ननु उक्तरीत्या भूतयोन्यक्षरं प्रथानमित्यस्तु, "अक्षरात्परतः परस्समष्टिपुरुषइतित्वयुक्तं। उपक्रमादिविरोधात्। तथाहि परमोपक्रमे "सब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राहे " ति
ब्रह्मविद्यासमाख्या आम्नायते। ततः "कस्मिन्नुभगोविज्ञाते सर्वमिदं विज्ञातं भवती" ति एकविज्ञानेन सर्वविज्ञानमुच्यते अक्षरवाक्येऽपि परविद्यासमाख्या दृश्यते। अपि च सद्विद्यावाक्यानां प्रधानपरत्वनिरासाऽर्थं
ईक्षत्यधिकरणदर्शितायुक्तयोऽत्रापि प्रवर्ततएव, अस्तिखल्वीक्षापूर्वकस्रष्टृत्वश्रवणं अत्रापि "तपसा चीयते ब्र्मे"ति, यतस्तपश्शब्दोऽत्र "तपआलोचन"इति धातोर्निष्पन्नः स्रष्टव्यालोचनरूपज्ञानवाची, "यस्य ज्ञानमयं तप" इत्यग्रे विवरणात्, आत्मशब्दश्चास्ति "दिव्ये ब्रह्मपुरे ह्येष व्योमन्यात्मा प्रतिष्ठित" इति तन्निष्ठस्य मोक्षोपदेशोऽप्यस्ति "यदापश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिं। तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैती"ति। हेयत्वञ्च तस्य नोच्यते, प्रतिज्ञाविरोधोऽप्यस्तीत्युक्तं, साक्षाच्च ब्रह्मणः कर्तृत्वमुपादानत्वं च श्रूयते-- "कर्तारमीशं पुरुषं ब्रह्मयोनि"मिति। एतानि प्रमाणानि अक्षरात्परः पुरुषो ब्रह्मेति पूर्वपक्षश्चेत् तत्तद्विषयतया उपपद्यन्ते। सोऽपि समष्टिपुरुषइति पूर्वपक्षे केषांचिदुपपत्तावपि का भवेदन्येषां गतिरिति चेत्, उच्यते-- "यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयं तपः। तस्मादेतद्ब्रह्म नामरूपमन्नञ्च जायत" इति यस्सामान्यतो विशेषतश्च समस्तवेत्ता सर्ववेदान्तेषु प्रसिद्धः परमात्माऽसि "तस्मादेतद्ब्रह्म, स ब्रह्मविद्या"मित्युपक्रमे ब्रह्मशब्देनोक्तं सकलक्षेत्रज्ञसमष्टरूपं हिरण्यगर्भाख्यं ब्रह्म तज्ज्ञायत इत्युच्यते, तद्विद्यायाः परविद्यात्वं मोक्षफलकत्वादुपपद्यते, अपरब्रह्मविद्यायाः मोक्षफलकत्वञ्च वचनबलाद्युज्यते, समष्टिपुरुषज्ञानेन तद्व्यष्टयोऽन्येपि क्षेत्रज्ञाः विज्ञाताभवंतीति सर्वविज्ञानवचनमपि घटत इति पूर्वपक्षी मन्यते। एवं प्राप्ते सिद्धान्तः--
भूतयोन्यक्षरं तावद्ब्रह्मैव, भूतयोनित्विवरणार्थे " यथोर्णनाभि"रिति मन्त्रे "तथाऽक्षरात्सम्भवतीह विश्व" मिति विश्वशब्दस्य चेतनाचेतनात्मकसकलप्रपञ्चपरत्वात्, चेतनवर्गे च ब्रह्मकार्यत्ववत् प्रकृतिकार्यत्वस्याभावात्। न च ऊर्णनाभ्याद्युपादानोपन्यासानुसारेण विश्वशब्दः तत्परिणामत्वयोग्याचेतनमात्रपरः ख्यादिति वाच्यम्। प्रतिज्ञावाक्यानुसारेण तदपेक्षितोपादानत्वांशमात्रे दृष्टान्तोपन्यास इत्युपपत्तेः. प्रतिज्ञातार्थानपेक्षितदृष्टान्तगतसाम्यान्तरस्य अनुपयुक्तत्वात्। तथा "तपसा चीयते ब्रह्मे"ति तदनन्तरमन्त्रोऽपि तत इति पञ्चम्या प्रकृताक्षरगतस्य भूतयोनित्वस्य अन्नादिशब्दोक्तशब्दतन्मात्रादिकारणत्वप्रतिपादनद्वारा विवरणपर इति। तत्रत्यब्रह्मश्रुत्याऽपि अक्षरं ब्रह्मेत्यवसीयते। तथा "यस्सर्वज्ञ" इति तदनन्तरमन्त्रे
सर्वज्ञत्वादिब्रह्मलिंगप्रतिपादके यच्छब्दस्य प्रकृतपरत्वादपि तथाऽवसीयते। न च अक्षरे पुल्लिंगानुपपत्तिः, भूतयोन्यभिप्रायेण तदुपपत्तेः, योनिशब्दस्य द्विलिंगत्वात्। न च "यथा सुदीप्ता" दिति मंत्रोक्तं कार्यकारणसारूप्यं अक्षरस्य प्रकृतित्वं गमयतीति वाच्यम्। तत्र "भावा" इत्यनेन चेतनवर्गस्यैव ग्रहणेन तत्कारणत्वस्य ब्रह्मण्येव सत्त्वात्। अत्र हि "सुदीप्ता"दिति विशेषणेन प्रकाशमानत्वं सारूप्यं विवक्षितं गम्यते, तत्तु चेतनवर्गस्यैवास्ति। किञ्च इदं प्रकरणं प्रधानात्पुरुषाच्च भूतयोन्यक्षरं व्यावर्तयति सर्वविज्ञानोक्त्यादिभिः। न च "सर्वमिदं विज्ञात" मिति चेतनाचेतनात्मकसकलप्रपञ्चविज्ञानत्वोक्तिः समष्टिपुरुषज्ञानेन व्यष्टिपुरुषज्ञानेन विज्ञातत्वविषयतया क्लेशेन योजनामर्हति। प्रकृतस्याक्षरस्य प्रधानात्समष्टिपुरुषाच्च भेदो व्यपदिश्यते-- "दिव्योह्यमूर्तः पुरुषः सबाह्याभ्यन्तरोह्यजः। अप्राणोह्यमनाश्शुभ्रः अक्षरात्परतः पर" इति। अक्षरादव्याकृतात् परो यः समष्टिपुरुषः तस्मादपि परोऽयं भूतयोन्यक्षररूपः पुरुषइत्यर्थः। ननु स्वाकार्येभ्यः परं यत्प्रकृतमक्षरं तस्मात्पर इत्यर्थः किं न स्यात्, स एव च युक्तः, "अक्षरात् परत" इति पञ्चम्योः सामानाधिकरण्यलाभादिचेत्, उच्यते-- "सबाह्याभ्यान्तर" इत्यत्र स इति भिन्नं पदं पुरुषविशेषणं, यथा सुदीप्तादिति मन्त्रप्रकृतभूतयोन्यक्षरपरामर्शि सत् अक्षरात्परस्य पुरुषस्य तदभेदबोधनार्थं, नतु "सबाह्यान्तराभ्यन्तर" इति एकं पदं, वैयर्थ्यात्। "सबाह्यान्तराभ्यन्तर" इति सर्वगत्वोक्यैव सकलवस्तुसंसर्गसिद्धेः। एवंभूतयोन्यक्षरस्य अक्षरात्परस्य पुरुषस्य च अभेदेन ब्रह्मरूपत्वसिद्धौ पंचम्यन्ताक्षरपदवाच्यमव्याकृतमेव पर्यवस्यति। "अक्षरात्परतः पर" इत्यतः प्राचीने मंत्रे "येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्या"मित्यक्षरपुरुषपदसामानाधिकरण्यादप्ययमर्थो निश्चीयते। अपि च "अग्निर्मूर्द्धा चक्षुषी चन्द्रसूर्यौदिशश्श्रोत्रे वाग्विवृताश्च वेदाः। वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवीह्येष सर्वभूतान्तरात्मे"ति मंत्रे प्रकृतं भूतयोन्यक्षररूपं पुरुषं "अस्ये"ति सर्वनाम्ना परामृश्य त्रैलोक्यशरीरत्वोपन्यासादपि न प्रधानमक्षरं, नापि समष्टिपुरुषोऽक्षरात्परतः परः, यद्यपि पुराणादिषु हिरण्यगर्भस्यापि त्रैलोक्यात्मकं वैराजं शरीरं प्रसिद्धमस्ति, तथापि यस्मिन् चारचरात्मकं समस्तं जगत् हृगयवत्प्रतिष्ठितं तथाभूतं तत्तस्य न सम्भवति। यत्सम्भवति तदपि परमात्मात्मकमेव, "सृष्ट्यन्तरं करिष्यामि त्वामाविस्य प्रजापत " इति वचनात्। न च "अग्निर्मूर्द्धे"कति मंत्रोक्तं सर्वभूतान्तरात्मत्वं हिरण्यगर्भे सम्भवति। तस्मादक्षरं अक्षरात्परतः परश्च परमात्मैव।।
संग्रहकारिके।।
भजति खविषयाणां लाघवात्सूक्ष्मरूपं
जडजगदनुवृत्तं दृष्यतादेर्निषेधः।
तदभिहितमथर्वण्यक्षरं स्यात्प्रधानं
तदुपरि च निरुक्तस्तत्परः पंचविंशः।।
सर्वज्ञत्वादिधर्मोक्तेः परएवाद्यमक्षरम्।
अन्यदव्याकृतन्तस्माद्यत्परस्तत्परोपि सः।।
इति अदृश्यत्वादिगुणकाधिकरणम्।।5।।
वैश्वानरस्साधारणशब्दविशेषात्।।25।।
स्मर्यमाणमनुमानं स्यादिति।।26।।
शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदे-
शादसंश्रवात्पुरुषमपि चैनमधीयते।।27।।
अत एव न देवता भूतञ्च।।28।।
साक्षादप्यविरोधं जैमिनिः।।29।।
अभिव्यक्तेरित्याश्मरध्यः।।30।।
अनुस्मृतेर्बादरिः।।31।।
संपत्तेरिति जैमिनिस्तथाहि दर्शयति।।32।।
आमनंति चैनमस्मिन्।।33।।
त्रैलोक्यात्मकरूपोपन्यासादक्षरवद्वैश्वानरोपि परमात्मेति निर्णीयत इति सङ्गतिः। छन्दोगाः "आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि तमेव नो ब्रूहि"ति ऋषिभिः पृष्टस्य केकयराजस्योत्तरेष्वामनन्ति-- "यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्त" इति । तत्र किमयं वैश्वानरः परमात्मेति शक्यनिर्णयः उताशक्यनिर्णयइति वैश्वानरशब्दस्य साधारण्यात्। संशये पूर्वपक्षः। वैश्वानरशब्दश्चतुर्ष्वर्थेषु दृश्यते। जाठराग्नौ तावत् "अयमग्निवैश्वानरो येनेदमन्नं पच्यते यदिदमद्यते तस्यैषघोषो भवति यदेतत्कर्मावपिधाय श्रृणोती"ति, महाभूततृतीये च "विश्वस्माअग्निं भुवनाय देवाः वैश्वानरं केतुमह्नामकृण्व"न्निति, देवतायांच "वैश्वानरस्य सुमतौ स्याम राजा हि कं भवनानामभिश्री"रिति, परमात्मनिच "सएषवैश्वानरो विश्वरूपः प्राणोग्निरुदयत" इति। ननु अयमादित्यविषयोवैश्वानरशब्दः, न तु परमात्मविषयः, तदनन्तरं "तदेतदृचाभ्युक्त"मित्युपक्रम्य हि "सहस्ररश्मिश्शतधावर्तमानः प्राणः प्रजानामुदयत्येषसूर्य" इति सौरमन्त्रस्य वैश्वानरविषयत्वेनोदाहरणात्, तत्र "सएष" इति सर्वनाम्नोः "आदित्योहप्राण" इति प्रकृतादित्यपरत्वाच्चेतिचेत् उच्यते---
न केवलमादित्यपरस्तत्र वैश्वानरशब्दः, किंतु आदित्यान्तर्वर्तिपरमात्मपर्यन्तः, "अथोत्तरेण तपसा श्रद्धया विद्ययाऽऽत्मान्नमन्विष्यादित्यमभिजायन्ते एतद्धै प्राणानामायतनममृतमभयं परायणमेतस्मान्न पुनरावर्तन्त " इत्यग्रे श्रवणात्। ननु "को न आत्मा किं ब्रह्मे"त्युपक्रमगतब्रह्मश्रुत्या वैश्वानरः परमात्मेति शक्यनिर्णयः। नच वाजसनेयिशाखायां "वैश्वानरं ह वै भगवान् सम्प्रति वेद तन्नो ब्रूहि"ति वैश्वानर शब्देन उपक्रमात् उपक्रमो न विनिगमक इति वाच्यम्। तस्य साधारणस्य वैश्वानरशब्दस्य छान्दोग्योपक्रमगतब्रह्मश्रुत्यनुसारेण परमात्मनि पर्यवसानोपपत्तेरितिचेत् मैवम्। "को न आत्मा किं ब्रह्मे"ति विमृष्टवतां प्राचीनशालादिनामग्रे द्युप्रभृतिषु वैश्वानरात्मदृष्टिर्वर्णितेति तदनुसारेण तदीयवचनगतयोरात्मब्रह्मश्रुत्योरात्मब्रह्मदृष्टिविषयत्वाकारेण अन्यत्र गौणतयैव प्रयोगात्। एवं ह्युपाख्यायते-- औपमन्यवादयः पंच महर्षयः "को न आत्मा किं ब्रह्मे" ति मीमांसित्वा निश्चयमलभमानः वैश्वानरोपासनापरमुद्दालकं गत्वा तेनापि तस्यामकृत्स्नवेदिना अश्वपतिः केकयो वैश्वानरमुपास्ते तमभ्यागच्छामेत्युक्ताः उद्दालकषष्ठास्तमभिजग्मुः, स च तेषां ज्ञानं परीक्ष्य ततो वक्तव्यशेषं वक्ष्यामीत्यभिसन्धाय औपमन्यव कं त्वमात्मानमुपास्त" इत्यादिना तान् षडपि ऋषीन् क्रमेण पृष्टौ तैः "दिवमेव भगवोराज"न्नित्यादिभिर्यथाक्रमं द्युसूर्यानिलाकाशजलावनिषु वैश्वानरबुद्द्या स्वैरूपास्यमानतयोक्तेषु दिवादयो वैश्वानरं प्रति मूर्द्धचक्षुः प्राणमध्यस्थानपादावयवत्वेनोपास्याः, न तु वैश्वानरत्वेनेति व्यस्तोपासनाः प्रतिषिध्य समस्तोपासनाविषयस्य वैश्वानरस्य प्रागुपक्षिप्तं द्युमूर्द्धत्वादिविशिष्टं रूपमेकीकृत्योपदिदेश "मूर्द्धैव सुतेजा" इत्यादिनेति। तस्माद्वैश्वानरः परमात्मेति न शक्यनिर्णय इति । एवं प्राप्ते सिद्धांतः-- परमात्मेति शक्यनिर्णयएव, "को न आत्मा किं ब्रह्मे
"ति जीवात्मनामात्मभूतं परमात्मानं जिज्ञासमानैस्तदभिज्ञइति राजानमुपसन्नैः प्राचीनशालादिभिः पृष्टेन राज्ञोपदिष्टत्वात्। न च तेषामात्मब्रह्मशब्दयोर्गौणत्वाभिमानश्शङ्कनीयः, यतः "को न आत्मा किं ब्रह्मे " ति विमर्शः अस्माभिरन्योन्यविरोधेन आत्मब्रह्मबुद्धद्योपास्यमानेषु द्युप्रभृतिषु वस्तुतः किन्तथाभूतं ब्रह्म किमेतेषामन्यतममन्यद्वेति वस्तुतत्वविषयः, न तु तेषु किंतथाभूतब्रह्मदृष्टिमारोप्योपास्यमित्यारोपितरूपविशिष्टविषयः, "अन्नब्रह्मे मनोब्रह्मे "त्यादिवत् अनेकत्र प्रतीके ब्रह्मदृष्ट्यापोरसंभवात् विरोधाभावेनास्मदुपास्यानां द्युप्रभृतीनां मध्ये किंतथाभूतब्रह्मदृष्ट्योपास्यमिति निर्द्धारणानपेक्षनात्। अतएव "दिवमेव भगवोराज" न्नित्यादिवाक्यैः स्वस्वभ्रमएवोद्धाटितः, सम्भवति ह्यद्यापि चन्द्रसूर्यादिषु केषांचित् ब्रह्मत्वभ्रमवत् द्युप्रभृतिषु तेषां तद्भ्रमः, अतस्तत्र गौणत्वशङ्काऽनास्पदाभ्यामात्मब्रह्मश्रुतिभ्यां वैश्वानरः परमात्मेति शक्यएव निर्णेतुं। किं च "सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ती"त्यनेन सर्वत्र वर्तमानमनवधिकातिशयानन्दरूपतया भोग्यं परंब्रह्मानुभवतीत्युच्यते, न तु कर्मवश्यैरात्मभिर्यदन्नं भुज्यते तदत्तीति, तस्य मुमुक्षून् प्रति हेयत्वात्। परमानन्दानुभवफलञ्च परमात्मपक्षएव घटते। "तद्यथैषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयत" इत्युच्यमानं सर्वपापप्रदाहफलञ्च तत्पक्षएव घटते। द्युप्रभृतिपृथिव्यन्तत्रैलोक्यात्मकं शरीरमिहोपदिस्यमानं "अग्निर्मूर्द्धा चक्षुषी चन्द्रसूर्या " विति श्रुतौ "द्यां मूर्द्धानां यस्य विप्रा वदंति खं वै नाभिश्चन्द्रसूर्यौ च नेत्रे। दिशश्श्रोत्रे विद्धि पादौ क्षितिञ्च सोऽचिन्त्यात्मा सर्वभूतप्रेणेत"त्यादिस्मृतिषु च परमात्मनः प्रसिद्धं रूपं प्रत्यभिज्ञापयद्वैश्वानरं
परमात्मानमवगमयति। स्यादेतत्, उक्तहेतुभिः वैश्वानरः परमात्मेति नशक्यनिर्णयः, शब्दादिभ्योन्तःप्रतिष्ठानाच्च जाठरइत्यपि प्रतीतेः। अग्निशब्दस्तावत् वाजसनेयके "सएषोग्निवैश्वानर" इति वैश्वानरसमानाधिकरणश्श्रूयते। छांदोग्ये च "हृदयं गार्हपत्योमनोऽन्वाहार्यपचनआस्यमाहवनीय" इति वैश्वानरस्याग्नित्रयस्थानकल्पनं क्रियते। "तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं सयां प्रथमामाहुतिं जुहुयात्तां जुहुयात् प्राणाय स्वाहे " त्यादिना वैश्वानरस्य प्राणाहुत्याधारत्वमाम्नायते। तस्य च पुरुषेऽन्तः प्रतिष्ठितत्वं वाजसनेयिभिराम्नायते-- "सयोहैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठित्वं वेदे"ति। एवमुक्तहेतुभिः वैश्वानरोजाठरइत्यपि प्रतीयत इति चेत्, नैषदोषः। त्रैलोक्यशरीरस्य वैश्वानरस्य परमात्मनोजाठराग्निशरीरतया तद्विशिष्टस्योपासनोपदेशात्। अग्निशब्दादिभिः न केवलो जाठरः प्रतिपाद्यते, किन्तु तद्विशिष्टः परमात्मा, केवलस्य जाठरस्य त्रैलोक्यशरीरत्वासंभवात्, "अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विध "मिति गीतासु भगवतो जाठराग्निशरीरतया अशितपीतान्नादिपक्तृत्वप्रतिपादनाच्च। एतेभ्यएव हेतुभ्यः अग्न्देवतायाः तृतीयमहाभूतस्य च वैश्वानरत्वशङ्काऽपि प्रत्युक्ता। जैमिनिस्त्वाचार्योमन्यते-- यथा वैश्वानरशब्दस्साधारणोपि परमात्मासाधारणधर्मदर्शनात् विश्वेषां नराणां नेता वैश्वानरः स एव स्वार्थिकाण्प्रत्ययेन वैश्वानर इत्येवं परमात्माभिधायको निश्चीयते, एवंमग्न्शब्दोऽग्रनयनादियोगेन परमात्माभिधायक इति निश्चीयते, तस्य योगस्य ज्वलनादपि सर्वान्तरात्मनि परमात्मन्येव सुप्रतिष्ठितत्वादिति। ननु अपरिच्छिन्नस्य परमात्मनः "यस्त्वेतमेवं प्रादेशमात्र"मिति श्रूयमाणं द्युप्रभृतिपृथिव्यन्तप्रदेशसम्बन्धिन्या मात्रया परिच्छिन्नत्वं कथमुपपद्यते, उपासकबुद्ध्यारोहार्थतया तथा प्रादेशमात्रत्वप्रतिपादनं, न तु परिच्छिन्नत्वाभिप्रायेण। तत्रैव "अभिविमान"मिति अभितो विगतमानत्वोक्तेः। तथाऽपि प्राकृतद्युमूर्द्धादिमत्त्वं अप्राकृतरूपस्य परमात्मनो न सम्भवतीति चेन्न। उपासनार्थं तथा पुरुषविधत्वकल्पनोपपत्तेः। परमात्मा वैश्वानरश्चेत् उरःप्रभृतीनां "उरएव वेदिर्लोमानि बर्हिर्हदयं गार्हपत्य" इत्यादिना कथं वेद्यादित्वोपदेशः, जाठरपरिग्रहे हि स उपपद्यत इति चेत्, उच्यते-- तस्य वैश्वानरस्य समाराधनभूताया उपासकैरहरहः क्रियमाणायाः प्राणाहुतेरग्निहोत्रत्वसम्पादनार्थो ऽयमुरःप्रभृतीनां वेद्यादित्वोपदेशः। अत एव प्राणाहुतेरग्निहोत्रत्वसम्पतिं्त परमात्मोपासनोचितफलञ्च दर्शयति श्रुतिः-- "स य इदमविद्वानग्निहोत्रं जुहोति यथाऽङ्गारानपोह्य भस्मनि जुहुयात्तादृक्तत्स्यात् अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वत्मसु हुतं भवति तद्यथैषिकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्त" इति। ननु परमात्मनो द्युप्रभृतीशरीरत्वमयुक्तं, उपासकस्य मूर्द्धाद्यवयवानामेव द्युप्रभृतित्वेनोपासनाविधानात्, "तस्य हेवा एतस्ये" त्यादि ह्युपासकस्य द्युमूर्द्धत्वादिप्रतिपादकं, "उर एव वेदि"रित्यादिसमभिव्याहारादिति चेत् सत्यं, उपासकद्युमूर्द्धत्वाद्यनुसन्धानं न परमात्मद्युमूर्द्धत्वादिकमुक्तं, तदीयमेव द्युमूर्द्धत्वादिकमुपासकस्याप्युक्तं, "तस्य हवा एतस्यात्मनो वैश्वानरस्ये "ति तदीयत्वेन परामृष्टमेव हि द्युमूर्द्धत्वादिकमुपासके वर्णितम्। अतः परस्य मूर्द्धादिना अहं द्युमूर्द्धा परस्य चक्षुषा सूर्येण अहं सूर्यचक्षुक इत्यादिरूपेणानुसन्धानपरस्य प्राणाग्निहोत्रेणाराधंनं कार्यम्। तस्मादिहोपक्रान्तो वैश्वानरः परमात्मेति सिद्धम्।।
संग्रहकारिके।।
वैश्वानरो न परमात्मतया नियन्तुं शक्यश्चतुर्विषयसंशयहेतुसत्त्वात्।
साधारणं हि जठराग्नितृतीयभूततद्दैवतस्य च पदं परमात्मनश्च।।
मैवं मुमुक्षुप्रश्नाच्च ब्रह्मशब्दश्रुतेश्च सः।
तादृक्फलोपदेशाच्च परं ब्रह्मावधार्यते।।
इति वैश्वानराधिकरणम्।।
।।इति द्वितीय पादः।।
।।अथ तृतीय पादः।।
द्युभ्वाद्यायतनं स्वशब्दात्।।1।।
मुक्तोपसृप्यव्यपदेशाच्च।।2।।
नानुमानमतच्छब्दात्प्राणभृच्च।।3।।
भेदव्यपदेशाच्च।।4।।
प्रकरणात्।।5।।
स्थित्यदनाभ्याञ्च।।6।।
आथर्वणिकाः समामनंति-- "यस्मिन् द्यौः पृथीवी चांतरिक्षमोतंमनस्सप्राणैश्च सर्वैः तमेवैकंजानथात्मानमन्यावाचो विमुंचथ अमृतस्यैषसेतुरिति। अत्र द्युभ्वाद्यायतनं जीवः परोवेति संशये जीवइति तावत्प्राप्तं, "अराइव रथनाभौ संहतायत्र नाड्यः सएषोऽन्तश्चरते बहुधा जायमन इति उत्तरमत्रे नाड्याधारत्तवशरीरांतस्संचारजन्मवत्त्वानां जीवलिंगानामाम्नानात्, तत्र आदिमन्त्रे "ओतं मनस्सह प्राणैश्च सर्वै"रिति मनः प्राणाश्रयत्वरूपजीवलिंगाम्नानात्, "एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पंचधा संविवेष। प्राणैश्चित्तं सर्वभोतं प्रजानां यस्मिन् विशुद्धे विभवत्येव आत्मे"त्यन्यत्र जीवे मनः प्राणयोरोतत्वश्रवणात्। द्युपृथिव्याद्यायतनत्वन्तु जीवस्य अदृष्टद्वारा सङ्गमयितव्यमित्येवं प्राप्तेऽभिधीयते-- द्युभ्वाद्यायतनं परमात्मा, तदसाधारणामृतसेतुत्वश्रवणात्, अमृतसेतुत्वं ह्यमृतत्वप्रापकत्वं, सेतुर्हि नद्यादिषु कूलस्य प्रतिलम्भकः। एवं संसारार्णवपारभूतस्यामृतस्य प्रतिलम्भक इत्यर्थः। आत्मशब्दश्चात्र स्वशब्दः, सह्याप्नोतेर्मन्प्रत्यये बाहुलके दकारे च सति निष्पन्नः। नियंतृत्वेन सर्वत्र व्याप्तिमति परमात्मन्येव मुख्यवृत्तिः। नाड्याधारत्वं परस्यापि सम्भवति "सन्ततं सिभिस्तु लम्बत्याकोशसन्निभ"मित्युपक्रम्य "तस्याश्शिखायामध्ये परमात्मा व्यवस्थित" इत्याम्नानात्। बहुधा जायमान्तवमपि तस्यास्ति, "अजायमानो बहुधा विजायते, अजोऽपि सन्नव्ययात्मा भूतानामूश्वरोऽपि सन्। प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायये" त्यादिश्रुतिस्मृतिदर्शनात्। किंच "यदा पश्यः पश्यते सुक्मवर्णं कर्तारमूशं पुरुषं ब्रह्ययोनिं। तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति, यथा नद्यस्स्यन्दमापास्समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्मारूपाद्विमुक्तः परात्परं पुरुषमुपैतिदिव्य"मिति मुक्तप्राप्यत्वश्रवणादपि द्युपृथिव्याद्यायतनं परमात्मा। अपि च यथाऽस्मिन् प्रकरणे प्रधानप्रतिपादकशब्दाभावात् न प्रधानं द्युपृथिव्याद्यायतनं, एवंजीवोऽपि, तत्प्रतिपादकशब्दस्याप्यभावात्, ननु इदं दृष्टांतदार्ष्टान्तिकद्वयमप्युक्तं। तथाहि-- प्रधानस्य तावत् "यस्मिन् द्यौ"रित्यादिरेव तच्छब्दः, अक्षरब्राह्मणे "यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या " इत्यादिना प्रधानस्य द्युपृथिव्यादिसकललोकाधारत्वप्रतिपादनात् "यस्मिन् द्यौ" रित्यस्य गच्छब्दयोगेन तदनुवादत्वप्रतीतेः। नच तस्मिन् "अमृतस्यैषसेतु" रिति व्यपदेशानुपपत्तिः। अमृतश्दोह्यत्र ब्रह्मपरः, नत्वमृतत्वरूपमोक्षपरः। "यस्मिन् द्यौ" रिति मन्त्रात्पूर्व "तदेतत्सत्यममृत"मिति "आनन्दरूपममृतं यद्विभाती"ति च ब्रह्मणि अमृतशब्दाम्नानेन तस्यैव अत्रामृतशब्देन प्रत्यभिज्ञानात्। अतः प्रधानं "अमृतस्यैषसेतु"रिति व्यपदेष्टुं शक्यम्। ब्रह्माधीनत्वेन ब्रह्मसंबन्धित्वात्। "सेतु" रित्यपि व्यपदेष्टुं शक्यम्। सेतु शब्दोहि "षिञ्बन्धन् " इति धातोः व्युत्पन्नोबन्धहेतुमाचष्टे। नच बन्धहेतुमात्रं जलबन्धहेतुमात्रं वा तदर्थः, घटोदरनिस्सरज्जलबन्धहेतुमधूच्छिष्टादौ तदप्रयोगात्, किंतु पारावारमध्यवर्तित्वविशेषितं जलबन्धनहेतुत्वं तदर्थः, तस्मादिह लक्षकेण सेतुशब्देन पारवत्त्वं लक्षयितुं युक्तं, सहजत्वात् शब्दार्थैकदेशत्वाच्च। पारवत्त्वन्तु प्रधानस्यैव अस्ति, न ब्रह्मणः, "महद्भूतमनंतमपार"मिति श्रुतेः। आत्मशब्दोऽपि देहपरतया तस्मिन्नुपपद्यते, "आत्मा जीवे धृतौ देह " इत्यादिस्मरणात्। "अन्यवाचो विमुंचथे"त्येतदपि प्रधानमेव देहं जानीध्वं स्थूलदेहविषयास्तु देहत्ववाचो विमुंचथ
देहविविक्तात्मज्ञानार्थं हि देहोमुमुक्षुभिर्ज्ञातव्यः, सतु न स्थूलदेहः, आगमापायिनः ततो विवेकस्य मुज्ञानत्वात्। किंतु अन्तःकरणादिरूपापन्नाव्याकृतात्मा सूक्ष्मदेह इति, तस्मात् प्रधानं द्युभ्वाद्याधार इति घटते। जीवइति पक्षोऽपि घटते, जीवोपकरणानां तेषां जीवादृष्टायत्तोत्पत्तिस्थितिकत्वेन तदाश्रितत्वव्यपदेशोपपत्तेः। यथावा असनाभौ समर्षिताएवमस्मिन् प्राणे सर्वं समर्पितमिति भृमविद्यायां, "एवमेताभूतमात्राः प्रज्ञामात्रस्वर्पिता " इति प्रतर्दनविद्यायांच, अचिद्वर्गस्य जीवाश्रितत्वप्रतिपादनाच्च। "एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पंचधा संविवेशे"ति "प्राणैश्चित्तं सर्वमोत प्रजानां यस्मिन्विशुद्धे विभवत्येषआत्मे"ति मुण्डकएव अग्रे मनसः प्राणानांच जीवाश्रितत्वप्रतिपादनात्। आत्मशब्दश्च तस्मिन्नुपपद्यते
"प्रणवोधनुश्शरोह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवे"दिति प्राचीनमन्त्रे तत्रैव आत्मशब्दस्य प्रयुक्तत्वात्। तमेवैकं जानथात्मन"मित्येतदपि तस्मिन्नुपपद्यते।
"मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय। तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाती"ति जीवविज्ञानस्य ब्रह्मदर्शनहेतुत्वोक्त्या तस्याप्राधान्येन अपेक्षितत्वात्। "अन्या वाचो विमुञ्चथे"त्येतदपि तस्मिन्नुपपद्यते। "धनुर्गृहीतत्वौपनिषदं महास्रं शरंह्युपासानिशितं सन्दधीत। आयम्य तद्भावगतेन चेतसा लक्ष्यन्तदेवाक्षरं सोम्य विद्धी"ति व्यवहितपूर्वमंत्रे देहस्थौल्यादिविशिष्टतया भासमानस्य जीवस्य उपासनया देहादिविवेकदार्ढ्यापादनेन तनूकरणोक्तेः, जीवोपासनायाञ्च तदन्यविषयवाग्विमोकावश्यम्भावात्। "अमृतस्यैष सेतु"रिति व्यपदेशस्तु प्रधाने वर्णितयैव रीत्या जिवेप्युपपद्यते। तस्मात् प्रधानजीवपक्षयोः न काचिदनुपपत्तिरिति चेत् उच्यते-- "यस्मिन् द्यौ"रित्यादेरक्षरब्राह्मणोक्ताक्षररूपाधारान्तरसापेक्षद्युपृथिव्याद्याधारप्रधानानुवादकत्वन्तावदयुक्तम्। सन्मूलास्सोम्येमास्सर्वाः प्रजा" इत्यादि छान्दोग्य श्रुत्याम्नातनिरपेक्षसर्वाधारब्रह्मानुवादकत्वे सम्भवति सापेक्षाधारानुवादकत्वकल्पनायोगात्। एवं च द्युभ्वादिसर्वाधारत्वोक्तिनिर्वाहार्थं अपेक्षितत्वेन आत्मशब्दस्य व्यापकत्वरूपार्थएव ग्राह्यः, समभिव्याहृतपदान्तरैकवाक्यत्वयोग्यएव लाक्षणिकार्थोग्राह्यइति अत्रधिकरणे व्यवस्थापितत्वात्। एवं ब्रह्मैकान्तिकद्युपृथिव्याद्याधारत्वात्मश्रुत्यनुसारेण "निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्। अमृतस्य परं सेतुं दग्धेन्धमिवानल"मिति श्वेताश्वतरे ब्रह्मणि अमृतसेतुत्वव्यपदेशदर्शनात्, तदनुसारेण "अमृतस्यैषसेतु" रित्यस्य अमृतस्यस्वस्य स्वयमेव प्रापक इत्येवार्थौ ग्राह्यः, तथाऽपि उत्तरमन्त्रगता शरीरान्तस्सञ्चारोक्तिर्व्यापके ब्रह्मणि न युज्यत इति चेत् न। सुबालोपनिषदि-- "यस्य पृथिवी शरीरं यः पृथिवीमन्तरे सञ्चर"न्नित्यादिवाक्यसन्दर्भे सर्वनियन्तृतया सर्वत्र व्याप्तेस्संचारत्वेन व्यपदेशदर्शनात्, इहापि तस्यास्तथात्वेन व्यपदेशोपपत्तेः। अपि च अस्मिन् प्रकरणे "समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक" इति मंत्रः श्रूयते। अस्यार्थः-- समाने एकस्मिन् वृक्षे वृक्षवदूश्चनार्हस्वभावे शरीरे निमग्नः पांसुपुञ्जनिमग्नजलकण इव तदैक्यमापन्नः पुरुषो जीवः अनीशया प्रकृत्या मुह्यमानश्शोचति। अयं यदा स्वस्वमादन्यं जुष्टं प्रीयमाणं प्रसीदन्तं सर्वस्येषं अस्यचेश्वरस्य निखिलजगन्नियमनरूपं महिमानं च पश्यति तदा वितशोको भवतीति। अस्मिन् मंत्रे यद्यपि ब्रह्मवज्जीवोऽप्युपात्तः, तथाऽपि द्रष्टृत्वसमानाधिकरणं मुह्यमानत्वं दृश्यत्व समानाधिकरणमीशत्वं च व्यपदिशन्तीयं श्रुतिः "तमेवैकं जानथे"ति ज्ञयतया निर्दिष्टं द्युभ्वाद्याधारमीशमेव प्रत्यभिज्ञापयति। किं च प्रकरणमिदं परमात्मन इति प्रागक्षराधिकरणे दर्शितम्। अतोऽप्ययं परमात्मा। न च अक्षरप्रकरणादेव अक्षराधिकरणसिद्धात् द्युपृथिव्याद्याधारस्य परमात्मत्वसिद्धौ किमनेनाधिकरणेनेति शङ्कनीयम्। प्रकरणस्य नाडीसम्बन्धबहुधाजायमानत्वमनःप्राणाधारत्वादिभिः जीवैकातिभिः विच्छेदशङ्कायां तत्परिहारार्थत्वात्। अपि च अस्मिन्प्रकरणे "द्वासुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्ति अनस्नन्नन्यो दीप्यमानः परमात्मा च प्रतिपाद्यते, तथाऽपि द्युभ्वाद्याधारः परमात्मैवेति युक्तं, दीप्यमानत्वोक्त्या तत्रैव प्राकरणिकसर्वज्ञत्वाद्यन्वयस्वारस्यात्। अनेन सूत्रेण सर्वविज्ञानप्रतिज्ञोपक्रमात् " ब्रह्म वेद ब्रह्मैव भवती" त्युपसंहाराच्च जीवब्रह्माभेदे प्रकरणस्य तात्पर्यमिति शङ्कानिराकरणमपि कृतम्। "अभि , अनश्न" न्नित्युपपत्तिसहितभेदव्यपदेशेन तयोर्भेद एव सिद्ध्योदिति।।
सङ्ग्रहकारिके।।
द्युभ्वाद्यायतनं जीवो मनः प्राणान्वयश्रुतेः।
समनन्तरमन्त्रे च नाडीयोगजनिश्रुतेः।।
परमेश्वर एव स्यात् सर्ववस्तुविधारकः।
अमृतप्रापयितृताप्रमुखप्रतिपादनात्।।
इति द्युभ्वाद्यधिकरणम्।।
भूमा सम्प्रसादादध्युपदेशात्।।7।।
धर्मोपपत्तेश्च।।8।।
मुण्ड केपरमात्मप्रकरणाविच्छेदेनं परमात्मत्वं साधितम्, तर्हि भूमविद्यायाः जीवप्रकरणाविच्छेदेन जीवपरत्वमिति उत्थामात्सङ्गतिः। छन्दोगास्समानंति। "यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति सभूमा
यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्प" मिति। भूमशब्दः "पृथ्वादिभ्य इमनिज्वे "ति पृथ्वादिगणपठितात् बहुशब्दात् भावार्थे इमनिच्प्रत्यये "बहोर्लोपो भूच बहोरि"ति बहोः परस्य इमनिचः इकारलोपे बहुशब्दस्य भूइत्यादेशे च सति निष्पन्नो बहुत्ववाची। यद्यपि बहुत्वं वैपुल्यं संख्याविशेषश्च। तथाऽप्यत्र वैपुल्यमर्थः, "यत्रान्यत्पश्यति तदल्प"मित्यल्पप्रतियोगित्वश्रवणात्, पूर्वत्र "आकाशोवाव तेजसो भूया" नित्यादौ बहुत्वसंख्याहीनेऽप्यकाशादिके वैपुल्यवति बहुशब्दनिष्पन्नभूयश्शब्ददर्शनाच्च। भूमशब्दोऽयमप्लशब्दनिर्दिष्टधर्मिप्रतियोगिविषयत्वादेव धर्मिपरः, न धर्ममात्रपरः। ततश्च भूमेति विपुल इत्यर्थः। वैपुल्यविशेष्यश्चात्मा। "तरति शोकमात्मवि" दिति प्रकृत्य भूमानमुपदिश्य "आत्मैवेदं सर्व "मित्युपसंहारात्। तत्र किमयं भूमविशिष्टः प्रत्यगात्मा परमात्मा वेति संशये प्रत्यगात्मेति तावत्प्राप्तम्। आत्मजिज्ञासयोपसेदुषे नारदाय नामादिप्राणपर्यन्तेषु उपास्यतयोपदिष्टेषु "अस्ति भगवो नाम्नो भूयः, अस्ति भगवो वाचो भूय "इत्यादिप्रश्नतत्प्रतिवचनवच्च "अस्ति भगवः प्राणाद्भूय " इति प्रश्नस्य "अदोवाव प्राणाद्भूय" इति प्रतिवचनस्यचाभावेन आत्मोपदेशस्य प्राणपर्यन्तताप्रतीतेः प्राणशब्दस्य प्राणसहचरिते प्रत्यगात्मनि वृत्त्युपपत्तेः, "प्राणोह पिता प्राणो माता प्राणो भ्राता प्राणस्स्वसे" त्यादिचतनवाचिपित्रादिशब्दसामानाधिकरण्याच्च पित्रादिरूपजीववाचित्वावगमात्, नत्वयमात्मोपदेशः परमात्मविषय इति युक्तम्। "स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वा आचार्ये वा ब्राह्मणं वा किञ्चिद्भृशमिव प्रत्याह धिक्त्वास्त्वित्येवैनमाहुः पितृहावै त्वमसि मातृहावै त्वमसी" त्यादिना सप्राणेषु पित्रादिषु अधिक्षिप्यमाणेषु हिंसोपक्रोशवचनात्। "अथ यद्यप्येनानुत्क्रान्तप्राणान् शूलेन समासं व्यतिषन्दहेन्नैवैनं ब्रूयुः पितृहासीति न मातृहासी" त्यादिना तेषु उत्क्रान्तप्राणेषु शूलेन सम्यक्प्रक्षेपपूर्वकं व्यत्यस्य समन्तादृह्यमानेष्वपि हिंसाव्यवहाराभाववर्णनाच्च। नहि परस्य हिंस्यत्वमस्ति, न वा तस्योत्क्रान्तिरस्ति। न च प्राणशब्दोक्तजीवप्रतिपादनानन्तरं "एष तु वा अतिवदति यस्सत्येनातिवदति" ति तुशब्देन तत्प्रकरणविच्छेदद्योतनात् ततःप्रभृति सत्यशब्दोक्तपरमात्मप्रकरणमिति तस्मिन् प्रकरणे प्रतिपाद्यमानो भूमा परमात्मैव स्यादिति शङ्कनीयम्। "सवा एष एवं पश्यन्नेवं मन्वान एं विजानन्नतिवादी भवती"ति प्राणवादिनो यदतिवादित्वं स्वोपास्यस्यान्यतउत्कर्षवादित्वरूपमुक्तं तस्य "एषतुवा" इति वाक्ये प्रत्यभिज्ञानेन प्रकरणविच्छेदाभावात्। "एष तु वा अग्निहोत्री यस्सत्यं वदती"त्युक्तौ प्रसिद्धाग्निहोत्रिण इव प्रकृतप्राणातिवादिनस्सत्यवदनमङ्गं विधीयते, सत्येव तु सत्यवचने अग्निहोत्रित्ववत् प्राणातिवादित्वं प्रतिष्ठितं भवतीत्येततदर्थतया तुशब्दसामञ्जस्यात्। तस्मात् प्रत्यगात्मैवात्र प्रतिपाद्यः। अत एव "अहमेवाधस्तादहमुपरिष्टा"
दित्यारभ्य "अहमेवेदं सर्व " मित्युपसंहारे प्रत्यगात्मन एव वैभवमुपदिश्यते, तस्य च भूमशब्देन "अहमेवाधस्ता " दित्यादिनाचोक्तं वैपुल्यं मुक्तौ धर्मज्ञानविकासादुपपद्यत" इति। एवं प्राप्ते सिद्धांतः--
"एषतु वा अतिवदति यस्सत्येनातिवदती" त्यत्र तुशब्दसत्यशब्दाभ्यां प्राणातिवादिनोऽन्यः सत्यादिवादी प्रतीयते। "अपशवोवा अन्य गोअश्वेभ्यः पशवो गोअश्वा"नित्यत्र पश्वन्तरेभ्योगो अश्ववत् प्रकृतप्राणातिवादिनः सत्यादिवादी प्रशस्त इत्यपि प्रतीयते। ततश्च तस्मादेतस्य प्राशस्त्यं तदतिवदननिमित्तात् प्राणात् एतदतिवदननिमित्तस्य सत्यस्याधिक्येनैवेति पर्यवस्यतीत्यनेन वाक्येन प्रकृताज्जीवात् अधिकत्वेन भूमोपादिश्यते। नचात्र "एषतु वा अग्निहोत्री"ति वाक्यान्यायावतारः, तत्रहि द्रव्यदेवताऽन्तराभावेन अग्निहोत्रांतरप्रतीतेः तुशब्दस्वारस्यभङ्गः, इह प्रकृतातिवदननिमित्तप्राणव्यतिरिक्तसत्यशब्दोक्त परमात्मरूपातिवदननिमित्तान्तरप्रतीतेः किमिति तत्स्वारस्यभङ्गः कार्यः। सत्यशब्दोहि परमात्मवाचकः, छांदोग्यएव "तस्य ब्रह्मणोनाम सत्यमिती" ति श्रवणात्। "सत्यने" ति तृतीयाविभक्तिः करणत्ववाचिनी तस्यातिवदननिमित्तत्वमाह। अतस्तुशब्दस्यनामाकरणविभक्तिस्वरस्यभङ्गेन प्रकृतप्राणादिवादिविषयत्वककल्पनाया नावकाशः। अतश्च प्रकृतात् प्राणशब्दोक्तात् जीवादधिकत्वेनोपदेशात्
सत्यशब्दोक्तोभूमा परमात्मा। नच "महतः परमव्यक्त"मिति श्रुतौ जीवादधिकत्वेनोपदिष्टे शरीरे व्यभिचारान्नायं हेतुरिति वाच्यम्। जीवाधिकात्मत्वेनोपदेशे तात्पर्यात्। एवं निरतिशयानन्दत्वश्रवणादपि भूमा परमात्मा। ननु सत्यशब्दोक्तोभूमैव प्रकरणी परमात्मा, प्राणशब्दोक्तोजीवस्तु तदधस्तनपर्वभूत इति सिद्धान्ते "अस्ति भगवोनाम्नोभूयः वाग्वावनाम्नोभूयसी" त्यादि प्रश्र्नप्रतिवचनाभ्यां। न हि यदर्थमन्यत्प्रक्रांतं तदनुक्तिर्युक्तितिचेत्, उच्यते- पूर्वपर्यायेष्वनुक्तस्यातिवादित्वस्य प्राणपर्याये प्रतिपादनात् उपक्रांतात्मोपदेशः प्राणएव समाप्त इति मत्वा नारदे भूय- पृच्छति सनत्कुमारः प्राणविज्ञानमप्युक्रांतात्मविषयं नभवतीति न तेन सम्यगतिवादित्वं किंतु सत्येन परमात्मनेति सत्यविज्ञानं स्वयमेव उपचिक्षेप, ततः "सोहं भगवस्सत्येनातिवदानी"ति पृष्टवते तस्मै विज्ञानमतिश्रद्धादिसाधनरपरंपरया तमेव सत्यशब्दोक्तं परमात्मानं भूमानमुपदिदेश इत्येवमन्यथोपपन्नौ प्रश्र्नप्रतिवचनाभावौ। ननु "यत्रनान्य" दित्यादिविषयवाक्यस्य यस्मिन् अधिकरणे अन्यन्नपश्यतीत्याद्यर्थप्रतीतेः ब्रह्मणि दर्शनश्रवणादिगोचरस्य सर्वस्य मिथ्यात्वेन निर्विशेषविषयन्तद्भूमवाक्यं प्रतिभाति, कथन्तदनन्तकल्याणु- गुणाकरस्य भगवत- प्रतिपादकं वर्ण्यते, कथञ्च "नपश्योमृत्युं पश्यति नरोगं नोत दुःखताम्। सर्वं हि पश्यः पश्यति सर्वमाप्नोति सर्वश" इति मन्त्रेण भूमदर्शिनः सर्वदर्शित्वं वर्णयताऽपि दुःखादर्शनं प्रतिपाद्यते। उच्यते-- तत्र "यस्मि" न्नित्यत्र अनुभूयमानइत्यध्याहारः कार्यः। न हि ब्रह्मसद्भावमात्रात्तस्मिन्नन्यस्यादर्शनादिकं भवति, अस्मदादीनामपि द्दश्यदर्शनाद्यभावापत्तेः। "यत्रे" त्यस्य च निजसकलगुणविभूतिविशिष्टइत्यर्थः। भूमशब्दस्य ब्रह्मशब्दवत् त्रिविधपरिच्छेदराहित्यार्थकत्वात् तद्वैशिष्ट्येन च दर्शनं च सत्येव च सर्वस्य तदन्तर्गतत्वात् निजसकलगुणविभूतिविशिष्टात् तस्मादन्यस्य ततः पृथग्भूतस्यादर्शनादिवचनमुपपद्यते। यदितु विभूतिरैश्वर्यं नियमनरूपं, तदा तन्नियाम्यस्य प्रतीतिसापेक्षमिति नियाम्यरूपप्रतियोगितया सर्वस्यापि दर्शनादिकमोपेक्षितं। अस्त्वेवं, तथापि कथं दुःखादर्शनमुपपादानीयं, भूमविभूत्यन्तर्गततया सकल संसारिगतदुःखानामपि दर्शनस्यानिवारणात्। ततश्च समन्वयाधिकरणोक्तरीत्या सुखसाक्षात्कारमात्रस्य पुरुषार्थत्ववत् दुःखसाक्षात्कारमात्रस्य हेयत्वं वाच्यमिति भूमानं पश्यतो मुक्तस्य संसारदशापेक्षयाऽप्यधिकदुःखानुभवत्वं स्यात्। न च ब्रह्मविभूतितया अनुभूयमानं सर्वं सुखरूपमेव स्यादितिवाच्यं। ब्रह्मणोऽन्यतया संसारिभिरनुभूयमानं दुःखरूपं परिमितसुखरूपञ्च भवत् ब्रह्मविभूतित्वेनानुभूयमानं सुखरूपं भवतीत्यस्य विरुद्धत्वात्, एकस्यसुखदुःखोभयरूपतानुपपत्तेरितिचेत्, उच्यते-- कर्मवश्यैर्ब्रह्मान्यत्वेनानुभूयमानं जगत् तेषां तत्तत्कर्मानुरूपं दुःखरूपं परिमितसुखरूपञ्च भवति, कर्मरूपाविद्याविमुक्तस्य तदेव जगत् विभूतिगुणविशिष्टब्रह्मानुभवान्तर्गतं सुखमेव भवति, यथा पित्तोपहतेन पीयमानं पयः पित्ततारतम्येन दुःखरूपमल्पसुखञ्च भवति, तदेव पयः पित्तानुपहतेन पीयमानं सुखात्मकमेव भवति, यदा हि यदनुभूयमानं पुरुषानुकूलं भवति तदा तत्सुखं, यदातदननुकूलं तदा तदेव दुःखं। अतएव हिमातपादीनां निदाघहेमताद्यवस्थाभेदेन सुखदुःखोभयरूपत्वमिति न काचिदनुपपत्तिः। यत्तु "अहमेवाधस्ता"दित्यादि "सएवेदं सर्व " मित्यन्तस्य स्वरूपेणोपासनार्थ, "आत्मैवाधस्तादित्यादि "आत्मैवेदं सर्व " मित्यन्तं विद्वदन्तर्यामित्वेनोपासनार्थं, "तस्यह वा एतस्यैवंपश्यत एवं
मन्वानस्यैवं विजानत आत्मतः प्राणआत्मतआशा आत्मतस्समर " इत्यादिना प्रकृतादात्मनः प्राणाद्युत्पत्तिप्रतिपादने प्रकृतस्यात्मनो विद्वांसं प्रत्यात्मत्वं विशिष्योक्तं। एवं त्रेधा तस्य सर्वात्म्योपदेशः त्रिविधोपासनासिद्ध्यर्थं इति न कस्यापि वैयर्थ्यमिति विवेक्तव्यम्।।
संग्रहकारिकाः।।
भूमा प्राणस्तस्मात् ऊर्ध्वन्नाम्न इव वागादेः।
प्रश्नप्रतिवचनाभ्यां विनैव भूम्नोऽवतारणतः।।
प्राणश्च जीवएव स्फुटमात्मोपक्रमोपसंहारात्।
मातृत्वादिश्रवणात् हिंस्यत्वोक्तेरहंत्ववचनाच्च।।
सत्यं प्राणो जीवः स न भूमा किं तु पुरुष एव परः।
एष तु वा अतिवदतीत्यत्र तुशब्देन पूर्वविनिवृत्तेः।।
निरतिशयानन्दत्वश्रवणादपि यत्र नान्यदित्यादौ।
अहमेवाधस्तादित्यहं ग्रहो दर्शितस्तस्मिन्।।
इति भूमाधिकरणम्।।2।।
अक्षरमम्बरान्तधृतेः।।9।।
सा च प्रशासनात्।।10।।
अन्यभावव्यावृत्तेश्च।।11।।
यथा जीवादूर्ध्वपदेशात् भूमा न जीवः, एवं प्रधानादूर्ध्वमुपदेशात् अक्षरं न प्रधानमिति समर्थ्यतइति सङ्गतिः। वाजसनेयिनस्समामनंति-- "एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति अस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छाय " मित्यादि। अत्राक्षरं प्रधानं परमात्मावेति संशये प्रधानमिति तावत्प्राप्तम्। "अक्षरात्परतः पर " इत्यादिषु अक्षरशब्दस्य प्रधाने प्रयोगात्। तथा "तदक्षरमधिगम्यत " इत्यादिषु परमात्मनि तस्य प्रयोगसत्त्वेऽपि प्रमाणान्तरप्रसिद्धश्रुतिप्रसिद्धयोः प्रधानपरमात्मनोर्मध्ये प्रमाणांतरप्रसिद्धस्य प्रथानस्य झटिति बुद्ध्यारोहेण प्रथमप्रतीतत्वात् अनुमानस्य प्रत्यक्षमात्रापेक्षापेक्षा श्रुतेर्व्युत्पत्तिग्रहादावुभयापेक्षेति आनुमानिस्याक्षरस्य श्रुतिप्रतिपन्नात् परमात्मनश्शीघ्रप्रतीतिकस्य श्रुतिलिंगादिषु पूर्वपूर्वस्य उत्तरोत्तरस्मादिव ततः प्रबलत्वात् अस्थूत्वादीनां प्रधानेऽपि संभवेन भूतयोन्यक्षरइव परमात्मैकांतिकलिङ्गाभावात्। एवंप्राप्तेसिद्धांतः-- अक्षरंपरमात्मा, नाव्याकृतं प्रधानम्। "एतस्मिन् खल्वक्षरे गार्ग्याकाशओतश्च प्रोतश्च"त्यव्याकृताधारतयाऽक्षरस्यो- पदेशात्। स्यादेतत्, आकाशशाब्दोयं भूताकाशपरोऽस्तु, प्रसिव्द्यतिलङ्घनायोगात्। यद्युच्येत अक्षरब्राह्मणात्पूर्वं गार्गिब्राह्मणे गार्गियाज्ञवल्क्ययोः प्रश्नोत्तरपरंपरायां "यदिदं सर्वमप्स्वोतञ्च प्रोतञ्च कस्मिन्नु खल्वापओताश्च प्रोताश्चेति वायौगार्गीति कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति अन्तरिक्षलोकेषु गार्गि"त्यारभ्य, "ब्रह्मलोकेषु गार्गि" त्यन्तेन सन्दर्भेण पृथिवीसलिलवाय्वन्तरिक्षलोकगन्धर्वलोकादित्यलोकचन्द्रलोकनक्षत्रलोकदेवलोकेंद्रलोकप्रजाप- तिलोगब्रह्मलोकानां पूर्वपूर्वस्य उत्तरोत्तस्मिन् ओतत्वप्रोतत्ववर्णनानन्तरं "कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्च"ति पुनः पृष्टे याज्ञवल्क्येन "गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपप्तदनतिप्रशन्यो वै दैवतामतिपृच्छसि मातिप्राक्षी" रिति सक्रोधमुक्ता भीता गार्ग्युपरराम। अनेन ब्रह्मलोकांतसकललोकाधारतया वक्त्व्या महती काचिद्देवतेति सूचितं। ततश्च बहुषुब्राह्मणेषु याज्ञवल्क्यविजिगीषया तेन सह जल्पकथायां पर्यायेण प्रवर्तमानेष्वनुप्रविष्टा गार्गी तदानीं भीत्योपरताऽपि स्वोपरमानन्तरमुद्दालके प्रसिद्धब्रह्मविदि सूत्रमन्तर्यामिणञ्च पृष्टवति याज्ञवल्क्येन जिते सर्वेषां ब्राह्मणानामेव परीजयोजायते, समाभूदिति मन्यमाना याज्ञवल्क्यं प्रक्ष्यामीति ब्राह्मणाननुज्ञाप्य "अहं वै याज्ञवल्क्य यथा काश्योवा वैदेहोवा उग्रपुत्रउज्जयं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ शरौ सपत्नातिव्यायिनौ" हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यां उपोदस्थां तौ मे ब्रूही"ति द्वितीयप्रश्ननिवारणपरिजिहीर्षया प्रश्नद्वयानुज्ञां युगपदेश याज्ञवल्क्यं प्रतिपृष्ट्वा पृच्छति तदनुज्ञाता "यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवच्च भविष्यच्चेत्याच्चत्याचक्षते कस्मिन् तदोतञ्च प्रोतञ्च"ति पृष्ट्वा "यदूर्ध्वं गार्गि दिव" इत्यादिना "आकाशएवतदोतञ्च प्रोतंचे"त्यन्तेनोत्तरिते "कस्मिन्नु खल्वाकाशओतश्च प्रोतश्चे"ति द्वितीयप्रश्नस्य उत्तरतया "एतद्वैतदक्षर"मित्यादि "एतस्मिन् खल्वक्षरे गार्ग्याकाशओतश्च प्रोदश्चे"त्यन्तं कृत्स्नमक्षरब्राह्मणं प्रवृत्तं। तत्र गार्गिब्राह्मणांते याज्ञवल्क्येन यः प्रश्नस्सक्रोधं निवारितः, सएव खलु गार्ग्या सर्वेषां ब्राह्मणानां पराजयोभविष्यतीति भीतया तस्य प्राग्वक्त्व्यतया उपक्षिप्ता देवता सेह आकाशशब्देनोदितेति सूचितं। एवञ्च कथमयमाकाशशब्दो भूताकाशपरस्स्यादिति तर्हि प्रधानपरोपि नस्यात्, तस्यापि देवतात्वाभावात्। तस्मात् प्रथानपरत्ववादिना इत्थं समाधेयं। पूर्वं ब्रह्मलोकांतसललोकाधारप्रश्ने यदव्यवहितोत्तरं तत्परदेवातविषयमित्याशयेन न तन्निवारणं, किंतु धृष्टैषा तस्याप्याधारं प्रक्ष्यति, सप्रश्नः परदेवताविषयोभविष्यतीति दूरद्दष्ट्या तन्निवारणं कृतमिति, तस्याकाशशब्दस्य भूताकाशविषयत्वेप्येवमेव समाधातुं शक्यमिति चेत्, उच्यते- "यदूर्ध्वं गार्गिदिव" इत्यादिना "आकाशशब्दस्य भूताकाशपरत्वे घटते, तस्यापि विकारांतर्गतत्वात्, तस्मादिहाकाशपदमव्याकृतपरमिति तस्याप्याधारतयोपदिश्यमानमक्षरं परमात्मैव। नाव्यक्तम्। यत्तु श्रुतिप्रसिद्धात् प्रमाणातरप्रसिद्धं प्रथमं प्रतीयत इति तन्न। अक्षरशब्दस्य अश्नोति व्याप्नोतीति अवयवशक्त्या
स्वार्थप्रतिपादने प्रमाणान्तरानपेक्षणात् व्युत्पत्तिदशायामर्थस्वरूपं येन प्रमाणेनावगतं तस्य प्रतिपादनदशायामनुपयोगात्। उक्तं हि वार्तिके-- "अर्थबोधेनपेक्षत्वान्मानांतरमनाद्दतं। व्युत्पत्त्युपायभूतं यत् तच्च तन्मात्रएव त्वि" ति। किंच गोशाब्दादिसम्बन्धग्रहविषयसास्नावव्द्यक्त्यादिष्विव प्रधाने प्रत्यक्षे न प्रवर्तते, अनुमानमपि सांख्याद्यभिमतं तत्र न प्रवर्तत इति सांख्याधिकरणे वक्ष्यते, ततश्च ब्रह्मवत् प्रधानमपि श्रुत्येकगम्यमिति न प्रसिध्यप्रसिद्धिकृतोऽपि तयोर्विशेषः, तस्मात्
सर्वविकाराधारत्वलिंगेन आकाशशब्दोदितमव्याकृतमित्यवगमात्, अक्षरशब्दोदित मव्याकृतमित्यत्र हेत्वसिद्धेश्च, आकाशशब्दोदितस्य अव्याकृतस्याधारतयोच्यमानमक्षरं परमात्मैव। "तदा एतदक्षरं गार्ग्यद्दष्टं द्रष्ट्रश्रुतं श्रोतृ अमतं मन्तृ अविज्ञातं विज्ञातृ" इति द्रष्ट्टच्वाद्युपदेशादप्यक्षरं परमात्मा, नत्वव्याकृतं। ननु तर्ह्यक्षरं जीवास्तु, तत्र दर्शनाद्यविषयत्वस्य दर्शनादिमत्त्वस्य चोपपत्तेः। "यथा वा अरानाभौ समर्पिता एवमस्मिन् प्राणे सर्वं समर्पित"मिति श्रवणेन तस्यसकलचिद्वर्गाधारत्वोपपत्तेश्चेतिचेत् मैव- "एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठत" इत्यादिना प्रशासनाधीनधारकत्वश्रवणात्। यद्यपि पर्यायेण देवमनुष्यादिजन्मवति जीवेपि द्यावापृथिव्यादिशासितृत्वं तत्तददिकारोपयुक्तजन्मप्राप्त्याकथंचित्समर्थयितुं शक्यं, तथापि निरपेक्षशासितृत्वरूपं प्रकृष्टशासितृत्वं तत्पूर्वकजचन्द्रसूर्यादिधारकत्वञ्चास्मिन्नसम्भवत्येव। किंच सर्वैरद्दष्टस्य सतस्सर्वद्रष्ट्टत्वादिकं "नान्यदतोऽस्ति द्रष्ट्ट नान्यदतोऽस्ति श्रोतृ" इत्यादिनाक्रियमाणं द्रष्ट्रन्तरनिषेधादिकञ्च जीवे नोपपद्यते, किंतु अन्तर्याम्यधिकरणोक्तरीत्या परमात्मन्येवोपपद्यते। तस्मादक्षरं परमात्मैव।।
संग्रहाकारिका।।
अक्षरमनुमितिगम्या प्रकृतिर्नागमनिरूपितं ब्रह्म।
अनुमानमक्षरमात्रापेक्षं सहि तद्द्वयापेक्षः।।
मैवमव्याकृतधृतेः श्रौतं ब्रह्म तदक्षरं।
श्रुतेरपेक्षा व्युत्पत्तौ न त्यर्थप्रतिपादने।।
द्रष्ट्टत्वश्रोतृत्वप्रमुखा नाव्याकृतं हि पश्यंति।
न च जीवोऽक्षरमेतत् प्रशासितृत्वादिवैघट्यात्।।
इति अक्षराधिकरणम्।।3।।
ईक्षतिकर्मव्यपदेशात्सः।।12।।
प्रश्नोपनिषदि- "सयोह वै तद्भगवन्मनुष्येषु प्रायणांतर्मोकामभिध्यायीत कतमं वाव स तेन लोक्रं जयती" ति पिप्पलादं प्रति सत्यकामप्रश्ने "एतद्वै सत्यकाम परञ्चापरञ्च ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैवायतनेन एकतरमन्वेती"ति तत्प्रतिवचनमुपक्रम्य "स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसमभिसम्पद्यते तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवत्यथ यो द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकं स सोमलोके विभूतिमनुभूय पुनरावर्तत " इत्येकमात्रमोङ्कारमुपासीनस्य तत्प्रथममात्रात्मकऋक्प्रापणीयमनुष्यलोकप्राप्तिफलं द्विमात्रं तमुपासीनस्य तद्द्वितीयमात्रात्मकयजुः प्रापणीयांतरिक्षलोकप्राप्तिफलञ्चाभिधाय इदमाम्नायते-- " यः पुनरेतं त्रिमात्रेण ओमित्यनेनैवाक्षरेण परंपुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षत" इति। अत्र ध्यातव्यः परमपुरुषएवेक्षणीयः। फलफलिनोरीक्षणध्यानयोरेकविषयत्वनियमात्, "परं पुरुष "मित्यत्र परत्वावधित्वेन विवक्षितस्यापि केभ्यश्चित् परत्वसम्भवेन "परात्परं पुरिशयं पुरुष "मिति निर्देशस्य ततो भेदावहत्वाभावादित स्थिते ध्यातव्य ईक्षणीयश्च पुरुषः किं जीवसमष्टिरूपश्चतुर्मुखः, उत सर्वेश्वर इति संशये चतुर्मुख इति तावत्प्राप्तम्। ब्रह्मलोकशब्दोदितचतुर्मुखलोकगतेनेक्ष्यमाणत्वात्। न च ब्रह्मलोकशब्दो भगवल्लोकपर इति वाच्यम्। मनुष्यलोकान्तरिक्षलोकप्रायपाठेन तस्यापि प्राकृतचतुर्मुखलोकपरत्वात्। न च जीवघशब्दो जीवसमष्टिरूपचतुर्मुखवाचीति तस्मात्परः पुरुषस्सर्वेश्वर एव स्यादिति वाच्यम्। तस्य
व्यष्टिजीवसंघातवाचित्वोपपत्तेः। "घनाः कठिनसंघातमेघकाठिन्यमुद्गरा" इति संघातेऽपि घनशब्दस्मरणात्। न च तथाऽपि व्यष्टिजीवसंघातात् परस्समष्टिजीव इति तस्मात्परः पुरुषस्सर्वेश्वर एव स्यादिति वाच्यम्। देहेन्द्रियादिभ्यः पराद्व्यष्टिजीवसंघातात् चतुर्मुखस्य परत्वोपपत्तेः। परजीवघनशब्दयोस्सामानाधिकरण्यसम्भवे वैयधिकरण्यकल्पनायोगात्। न च "ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत्तत्कवयो वेदयन्ते तमोङ्कारेणान्वेति विद्वान् यत्तच्छांतमजरममृतमभयं परञ्चे" ति तदनन्तरश्लोकोक्तममृतत्वादिकं सर्वेश्वर एवान्वेतीति तदनुसारेण परः पुरुषस्सर्वेश्वरस्स्यात् ध्यातव्यास्यैव प्राप्यत्वादिति
वाच्यम्। उपक्रमानुसारेण औपसंहीरिकामृतत्वादेश्चतुर्मुखएवापेक्षिकामृतत्वादिरूपतया अन्वयोपपत्तेरिति। एवं प्राप्ते सिद्धान्तः--
ईक्षतिकर्म परमात्मा। उत्तरमन्त्रगतात् अमृतत्वादिव्यपदेशात्,एतस्माज्जीवघनात्परापर"मिति व्यपदेशाच्च जीवत्वाविशेषेण हिरण्यगर्भस्यापि जीवघनकोटिनिविष्टत्वात्। ब्रह्मलोकशब्दश्च भगवल्लोकपरः। सर्वपापविनिर्मुक्तप्राप्यत्वात्। "यत्तत्कवयो वेदयन्त"इत्यत्र "तद्विष्णोः परमं पदं सदा पश्यंति सूरय"इत्यादिश्रुत्यन्तरसिद्धकविशब्दोक्तसूरिद्दश्यत्वलिङ्गात् "एतद्वै सत्यकामे"त्यादिना उपक्रान्तपरोपासनाप्रकरणाच्च लिंगप्रकरणैः प्रायपाठस्य बाधेन तस्य अकिञ्चित्करत्वात्। ननु उपक्रमे परोपासनावत् अपरोपासनस्यापि श्रवणात् तदपि निरुपणायमितिचेत् सत्यम्। पूर्वमेव तन्निरूपितम्। पूर्वं हि तदुपासनं ऐहिकामुष्मिकत्वेन द्विधा विभज्य एकमात्रप्रणवेन तदुपासनस्य मनुष्यलोकावाप्तिं, द्विमात्रप्रणवेन तदुपासनस्य स्वर्गावाप्तिञ्च उपन्यस्य हि त्रिमात्रप्रणवेन परमपुरुषोपासनं प्रक्रान्तम्। तस्मात् ध्यानेक्षणविषयभूतः परः पुरुषः सर्वेश्वर इति सिद्धम्।।
संग्रहकारिके।।
आदिष्टस्सत्यकामं प्रतिहि पुरिशयः पूरुषोह्येष वेधाः
पुंसा लोकं तदीयं समधिगतवता वीक्ष्यमाणत्वलिङ्गात्।
उक्तोऽत्र ब्रह्मलोको न भवति हि परब्रह्मलोकस्तदा हि
स्यादुक्तैकद्विमात्रप्रणवविदि फलप्रायपाठस्य बाधः।।
विष्णुरेष विजरामृततोक्तेः सर्वजीवपरताव्यपदेशात्।
ब्रह्मलोकमिति तत्पदमुक्तं लिंगतो भवतु सन्निधिबाधः।।
इति ईक्षतिकर्माधिकरणम्।।4।।
दहरुत्तरेभ्यः।।13।।
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गञ्च।।14।।
धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः।।15।।
प्रसिद्धेश्च।।16।।
इरपरामर्शात्स इति चेन्नासम्भवात्।।17।।
उत्तराच्चेदाविर्भूतस्वरूपस्तु।।18।।
अन्यार्थश्च परामर्शः।।19।।
अल्पश्रुतेरितिचेत्तदुक्तम्।।20।।
अनुकृतेस्तस्य च।।21।।
अपि स्मर्यते।।22।।
पूर्वाधिकरणे "परात्परं पुरुशयं पुरुषमीक्षत" इत्युक्तस्य पुरिशयस्य परमात्मत्वं समर्थितम्। इहापि तथैव पुरिशयस्य परमात्मत्वं समर्थ्यत इति सङ्गतिः। छान्दोग्ये- "अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुंडरीकं वेश्मदहरोस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यः" मिति ब्रह्मपुरशब्दोक्तशरीरान्तर्वर्तिहृदयपुण्डरीकमध्यवर्तित्वेन श्रुतौ दहराकाशो भूताकाशः।"तस्मिन्यदन्त"रिति दहराकाशेऽन्तरन्वेष्टव्यतया श्रुतः परमात्मा। अथवा दहराकाशः परमात्मा। "तस्मिन् यदन्त"रिति श्रुतः तदीयोऽपहतामत्वादिगुणनिवह इति संशये भूताकाश इति तावत्प्राप्तं, अत्र रूढेः। "तस्मिन् यदन्त" रिति श्रुतस्तु
परमात्मा, न तु तदीयगुणनिवहः। "तदन्वेष्टव्य"मित्यस्य "तस्मिन्यदन्त" रित्येतन्मात्रान्वयित्वेन गुणमात्रस्योपास्यत्वापत्त्या गुणिनोऽनुपास्यत्वप्रसङ्गात् । एवञ्च वाक्यशेषे श्रूयमाणाः सर्वे परमात्मधर्माः "तस्मिन् यदन्त"रिति निर्दिष्टे परमात्मन्यन्वयं लभन्त इति न तेषामप्यनुपपत्तिरित। एवं प्राप्ते सिद्धान्तः- दहराकाशः परमात्मा। न भूताकाशः। वाक्यशेषगतेभ्यो हेतुभ्यः। वाक्यशेषे हि "यावन्वा अयमाकाशः तावानेषोऽन्तर्हृदय आकाश" इति दहराकाशस्य भूताकाशात् भेदापेक्षः। तेनोपमानोपमेयभावो निबध्यते। तदनन्तरं "अस्मिन्द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ
विद्युन्नक्षत्राणी"ति प्रकृतं दहराकाशं अस्मिन्निति निर्दिश्य तस्य सर्वजगदाधारत्वमुच्यते। ततो "यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहित" मित्यस्योपासकस्य लोके यद्भोग्यजातं वर्तते यच्च मनोरथमात्रस्पदमिह नास्ति सर्वं तद्भोग्यजातमस्मिन् दहराकाशे समाहितमिति तस्य निरतिशयभोग्यत्वेन तस्य निरतिशयानन्दत्वं प्रदर्श्यते। "तदेतत्सत्यं ब्रह्मपुर" मिति तमेव दहराकाशमेतच्छब्देन परामृश्य तस्य सत्यभूतब्रह्माख्यपुररूपत्वमुच्यते। "ब्रह्मपुर" मित्यत्र निषादस्थपतिन्यायेन सामानाधिकरण्यौचित्यात्। ततः "अस्मिन्कामास्समाहिता" इति तमेव दहराकाशं "अस्मिन्निति" निर्दिश्य काम्यभूतांश्च गुणान् "कामा" इति निर्दिश्य तेषां दहराकाशान्तर्वर्तित्वमुक्त्वा तदेव दहराकाशस्य काम्यभूतकल्याणगुणविशिष्टत्वं तस्यात्मत्वञ्च "एष आत्माऽपहपाप्मा विजरो विमृत्युर्विशोको वलिजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्प" इति वर्ण्यते। ततः "अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकषु कामचारो भवती"त्यात्मशब्देन परामृष्टं तदन्तर्वर्तिनश्च काम्यानपहतपाप्मत्वादिगुणांश्च अनुसन्दधतां फलं प्रदर्श्यते। तथा "तद्यथाऽपि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो नविन्देयुरेवमेवेमास्सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढा" इति "एत"मिति प्रकृतं दहराकाशं निर्दिश्य तत्र अहरहस्सर्वेषां गमनं गन्तव्यस्य तस्य ब्रह्मलोकशब्देन निर्देशश्च दृश्यते। परमात्मनि खलु सर्वेषामहरहस्सुषुप्तिकाले गमनमन्यत्राभिधीयमानं दृष्टम्, "एवमेव खलु सोम्येमास्सर्वाः प्रजास्सतिसम्पद्य नविदुः सतिसम्पत्स्यामह" इति। ब्रह्मलोकशब्दश्च तस्मिन्दृष्ट "एष ब्रह्मलोकस्सम्राडिति होवाचे" ति । तथा "अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाये"ति, प्रकृतदहराकाशं "य आत्मे" ति निर्दिश्य तस्य जगद्विधारकत्वं प्रतिपाद्यते। सच परमात्मनो महिमा। "एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाये"ति श्रुत्यन्तरात्। एतेभ्यो वाक्यशेषगतेभ्यो हेतुभ्यो दहराकाशः परमात्मा। आकाशशब्दस्य हिपरमात्मन्यपि वैदिकी प्रसिद्धिरप्यस्ति "आकाश इति होवाचे"त्यादिश्रुत्यन्तरे। ननु यदि "तस्मियदन्त"रित्येतत् परमात्मवर्तिगुणनिवहपरं स्यात्, न तु प्राधान्येन दहराकाशस्यापि। तस्यापि प्राधान्येन उपास्यत्वमुपपादनीयम्। "अथ य इहात्मानमनुविद्य व्रजत्येतांश्च सत्या कामा"निति वाक्यशेषानुसारादिति चेत्। सत्यं इत्थं तदुपपादनं। "तदन्वेशष्टव्य"मित्यत्र तत्पदेन प्रथमानिर्दिष्टमन्तर्वर्तिमात्रं न परामृश्यतेस, किं तु सप्तमीनिर्दिष्टो दहराकाशोऽपि। "त्यदादीनि सर्वैर्नित्यं, नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्या"मिति सूत्रैर्नपुंसकैकशेषस्य एकवचनस्यचोपपत्तेरित्युक्तं भाष्यादिषु। अत्रेदं विचार्यते- तदिति नपुंसक शेषत्वं "त्यदादीनि सर्वैर्नित्य" मिति परसूत्रेणैव हि वक्तव्यम्। तत्र नैकवद्भावानुवृत्तिरस्ति। "एकवच्चास्यान्यतरस्या"मित्यत्र
अस्येतद्यस्य नपुंसकसूत्रकृतैकशेषस्यैवायमेकवद्भाव इत्येतदर्थत्वात्। न च वाच्यं त्यदादिषु नपुंसकानपुंसकयोर्नपुंसकशेषसिध्यर्थं "नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्या"मिति सूत्रस्याप्यनुवृत्त्या भाव्यमिति त्यदादिषु स च सा च ताविति स्रीपुंसकयोः पुंशेषसिध्यर्थं स च तच्च ते सा च तच्च ते इति नपुंसकानपुंसकयोर्नपुंसकशेषसिध्यर्थं च "त्यदादितश्शेषे पुंनपुंसकतो लिंगवचना"नीति वार्तिककृतायत्नान्तरस्य कृतत्वात् तथैकवद्भावसिध्यर्थं भाष्यवार्तिकादिषु यत्नान्तरदर्शनात्। कथं तर्हि तंत्ररूपे "दधि मधु घृतं पयो धाना उदकं तंडुलास्तत्संसृष्टं प्राजापत्य"मिति चित्रेष्टिविधिवाक्ये दध्यादिप्रत्येकद्रव्यको यागगणः न तु संसृष्टैकद्रव्यको याग इति सिद्धान्तसिद्धये तत्पदं संसृष्टशब्दोक्तैकद्रव्यपरं न भवति, किं तु दध्याद्यनेकद्रव्यपरमित्युक्त्वा दध्यादिषु तदिति नपुंसकैकशेषाभ्यां निर्व्यूढुं अभ्युच्चायार्थं तथा निर्वाहान्तरं कृतम्। सर्वनाम्नां प्रक्रान्तपरत्व एव स्वारस्येन प्रक्रंस्यमानपरत्वस्यानन्यगतिकत्वात् द्रव्यविशेषस्यैवाकांक्षापूरकत्वेन संसृष्टमात्रस्य प्रजापतिसम्बन्धानर्हत्वाच्च न्यायतस्तत्पदस्य दध्याद्यनेकद्रव्यपरत्वावश्यं भावेसति
तदित्येकवचनोपात्तमेकत्वं "गुणेत्वन्याय्यकल्पने"ति न्यायेन पाशबहुत्ववदनिवक्षितमिति मुख्यहेतुक्तयनन्तरं अथवा "नपुंसकनमनपुंसकेनैकवच्चास्यान्यतरस्या"मिति स्मरणात् नपुंसकानपुंसकानेकाभिप्रायमुपि युक्तमेव तदिति नपुंसकैकवचनं एवं प्राजापत्यमपि द्रष्टव्यमित्युक्तत्वादिति। अत्रेदं समाधानं "अन्वेष्टव्य"मित्यत्र नपुंसकानपुंसकैकशेषे कृते सति तत्रैकस्मिन्नर्थ इवैकवचनरुपं कार्यं भवत् तद्विशेषणे तदर्थानुपपत्तिनि सर्वनाम्न्यापि भवति, यथा "अस्मदोद्वयोश्चे"ति सूत्रेणास्मदर्थस्य एकत्वे द्वित्वे च बहुवचनं भवत् अस्मदर्थवर्तिनि क्रियापदेऽपि भवति वयं ब्रूमइति इहापि "शुक्लश्च शुक्ला च शुक्लञ्च शुक्लं वर्तत" इति क्रियापदेऽपि एकवचनं दृश्यते तद्वत् सर्वनाम्न्यपि भवितुमर्हति। अत एव महाभाष्ये-- "शुक्लश्च कम्वलः शुक्ला च बृहतिका शुक्लञ्च वस्रं तदितं शुक्लं तानीमानि शुक्नाली"ति द्विविधे नपुंसकसूत्रोदाहरणे कृतैकवद्भावमेव तदिति पदं प्रथमोदाहरणविशेषणं कृतम्। एं चित्रेष्टिवाक्येऽपि प्राजापत्यशब्दे नपुंसकसूत्रप्रवृत्तौ,
तदन्तर्वर्तिनि तदिति पदेऽपि नपुंसकैकवचनं भवतीति तन्त्ररत्नाभिप्रायः। एवमिहापि "अन्वेष्टव्य" मित्यत्र नपुंसकसूत्रेणैकवद्भावे कृते तदन्तवर्तिनि तदिति पदेऽपि नपुंकलिंगमेकवचनं च युक्तमेव। तस्माद्दहराकाशः स्वान्तर्वर्त्यपहतपाप्मत्वादिगुणनिवहेन सहोपास्यः परमात्मैव। न भूताकाश इति सिद्धम्। ननु माभूदयं भूताकाशः, जीवस्तु स्यात्, दहरविद्याप्रकरणे-- "अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत" इति तस्य परामर्शादिति चेन्न। तत्र अपहतपाप्मत्वाद्यसम्भवात्। ननु दहरवाक्यादुत्तरस्मिन् प्राजापतिवाक्ये जीवस्याप्यपहतपाप्मत्वादिकमाम्नातम्। तत्र हि "य आत्माऽपहतपाप्त्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्सविजिज्ञासितव्यस्ससर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानाती" ति प्राजापतिवचनमैतिह्यरूपेणोपश्रुत्य अन्वेष्टव्यात्मजिज्ञासया प्राजापतिमुपसेदुषे मघवते प्रजापतिना "य एषोऽक्ष्णि पुरुषो दृश्यते एष आत्मे"ति "य एष स्वप्ने महीयमानश्च रत्येष आत्मे"ति च #ाजागराद्यवस्थात्रयवान् जीव एव जिज्ञासितापहतपाप्मत्वादि गुणकात्मेत्युपदिष्टः। सत्यम्। संसारदशायामविद्यातिरोहितापहतपाप्मत्वादिगुणको जीवः पश्चाद्विमुक्तकर्मरूपाविद्याबन्धः शरीरात् समुत्थितः परंज्#ोतिरुपसम्पन्नस्सन्नपहतपाप्मत्वादिगुणविशिष्टः प्रजापतिवाक्येऽभिधीयते। "एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत" इति जीवस्य परंज्योतिः प्राप्त्या तस्यापहतपाप्मत्वादिगुणकस्वरूपाभिनिष्पत्तिमुक्त्वा प्राप्यस्य परंज्योतिषः "स उत्तमः पुरुष" इति पुरुषोत्तमत्वं विधाय "स तत्र पर्येति जक्षत्क्रीजन् रममाणस्स्रीभिर्वा यानैर्वा ज्ञातिभिर्वे"त्यादिना तं प्राप्नुवतो जीवस्य तल्लोकानुभाव्यमहाफलकीर्तनात्। दहरवाक्ये तु नित्याविर्भूतापहतपाप्मत्वादिगुण एव दहराकाशः प्रतीयते। तथाभूतापहतपाप्मत्वादिग्रहणसम्भवे कारणाधीनाविर्भावस्य तस्य ग्रहणायोगात्। तस्माद्दहराकाशे जीवत्वाशङ्का न कार्या। यद्येवं दहरविद्याप्रकरणे- "अस्माच्छरीरात्समुत्थाये"त्यादिना जीवपरामर्शः किमर्थः, दहराकाशस्य जगत्विधरणादिवत् जीवस्स्वरूपाविर्भावापादानरूपमहिमविशेषप्रतिपादनार्थः प्रजापतिवाक्यसिद्धस्यार्थस्यायमनुवादः। ननु यदि दहरो न जीवः, कथं तर्ह्यल्पपरिमाणश्रवणमिति चेत्, अत्र वक्तव्यमुत्तरम् "सर्वत्र प्रसिद्धोपदेशा" दित्यधिकरणे "निचाय्यत्वादेवं व्योमवच्चे" ति पूर्वमेवोक्तम्। ननु संसारदशातिरोहितजैवापहतपाप्मत्वादिव्यतिरेकेण नित्याविभूतमन्यदपहतपाप्मत्वादिकमस्तीत्यत्रैव न प्रमाणम्। दहरविद्याप्रकरणे अपहतपाप्मत्वादिश्रवणस्य प्रजापतिवाक्यसिद्धसंप्रतिपन्नजैवापहतपाप्मत्वादिविषयत्वोपपत्तेः। अतो नित्याविर्भूतैरपहतपाप्मत्वादिभिः दहरो न जीव इत्येतन्नयुक्तम्। किंतु सूक्ष्मत्वलिंगात् दहरो जीव इत्येव यक्तमितिचेदुच्यते-- परमात्मानुकाररूपा तत्साम्यापत्तिर्हि मुक्तिः। "यदा पश्यः पश्यते रूक्मवर्ण"मित्यादि श्रुतेः, "इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यधंतिचे"ति स्मृतेश्च। एवं च जीवस्य मुक्तावपहतपाप्मत्वादिगुणाविर्भावः परमात्मनो नित्याविर्भूतापहतपाप्मत्वादिगुणकत्वमन्तरेण न सम्भवति। अन्यथा जीवस्य मुक्तौ तत्साम्यापत्तययोगात्। अतो जीवस्य मुक्तिदशाविर्भाववत् जैवापहतपाप्मत्वादप्रतिपादकप्रजापतिवाक्यसामर्थ्यादेव परस्य नित्याविर्भूतमपहतपाप्मत्वादिकमस्तीति सिद्धेः तद्विषयत्वं दहरविद्याप्रकरणश्रुतस्य "य आत्माऽपहतपाप्मे"त्यादेर्युक्तमिति ततः परमात्मैव दहराकाशः न जीव इति सिद्धम्।।
संग्रहकारिकाः।।
युक्तो दहराकाशोः भूताकाशः प्रसिद्धत्वात्।
अपहतपाप्मत्वाद्या गुणास्तदन्तरगतान्वयिनः।।
जीवोवाऽसो श्रवणादमुं प्रकृत्यैष संप्रदाय इति।
संति च तत्रोक्तगुणाः प्राजापत्येन वाक्येन।।
मैवं परमात्माऽसौ स्वामिन्यभिहितगुणेभ्य इत्युचितम्।
तस्माद्यदिति गुणोक्तर्गुणविषय इति तद्वृत्तम्।।
नित्याविर्भूतास्ते गुणा न सन्त्येव जीवस्य।
संति तु परस्य लिंगान्मुक्तेस्तत्परमसाम्यरूपत्वात्।।
इति दहराधिकरणम्।।5।।
शब्दादेव प्रमितः।।23।।
त्द्दद्यपेक्षया तु मनुष्याधिकारत्वात्।।24।।
पूर्वत्राणीयस्त्वरूपं अल्पपरिमाणं परस्मिन्नुपपादितम्। इदानीमंगुष्ठमात्ररूपमप्यल्पपरिमाणं तस्मिन्नुपपाद्यत संगतिः। कठवल्लीषु श्रूयते--"अंगुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति। ईशानो भूतभव्यस्य न ततो विजुगुप्सत" इत्यादिः। किमयमंगुष्ठप्रमितो जीवः परोवेति संशये जीव इति प्राप्तम्। "स विष्वरूपस्रिगुणस्रिवर्त्मा प्राणाधिपस्सञ्चरति स्वकर्मभिः। अंगुष्ठमात्रो रवितुवल्यरूप- सङ्कल्पाहङ्कारसमन्वितो य" इति तस्यांगुष्ठमात्रत्वश्रयणात्। न तु परः, तस्य क्वचिदपि तथात्वश्रवणाभावात्। एवञ्चोपक्रमभूतांगुष्ठमात्रत्वानुसारेण भूतभव्येशानत्वश्रवणं जीव एव देहेन्द्रियादिनियन्तृत्वादिविषयतया योजनीयमिति। ननु श्वेताश्वतरे- "अंगुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः। हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ती"ति, तैत्तिरीयके- "अंगुष्ठमात्रः पुरुषोऽगुष्ठञ्च समाश्रितः। ईशस्सर्वस्य जगतः प्रभुः प्रीणाति विश्वभु"गिति परस्याप्गुष्ठमात्रत्वं श्रूयते। सत्यम्। परस्यांगुष्ठमात्रत्वश्रवणं क्वचिदपि नास्तीति कृत्वाचिंतयेदमधिकरणम्। यद्वा तदपि मंत्रद्वयं "अंगुष्ठमात्रो रवितुल्यरूप" इति मन्त्रान्तरानुसारेण जीवपरमिति पूर्वपक्षी मन्यते। एवं प्राप्ते सिद्धान्तः--
अंगुष्ठप्रमितः परमात्मा। भूतभविष्यदात्मकसर्वजगदीशितृत्वश्रवणात्। तस्य देहेन्द्रियादिनियन्तृत्वविषयतया सङ्कोचायोगात्। नन्वगुष्ठमात्रत्वं प्रथमश्रुतमिति तदनुसारेण देहेन्द्रियादिनियन्तृत्वविषयतया चरमश्रुतं तत् योजनीयम्। तं स्वाच्छरीरात् प्रवृहेन्मुञ्जादिवेषीकां धैर्येण। तं विद्याच्छुक्रममृत" मिति मंत्रे हृदयनिविष्टत्वश्रवणात् तदुपाधिकमंगुष्ठमात्रत्वं परमात्मनस्सम्भवतीति वाच्यम्। शाण्डिल्यविद्यायां- "एषम आत्माऽन्तर्हृदयेऽणीय"निति हृदयोपाधिकं परस्याणीयस्त्वमेव श्रुतम्। दहरविद्यायामपि तैत्तिरीयके- "तस्य मधये वह्निशिखा अणीयोर्ध्वा व्यस्थितः। तस्याश्शिखायमध्ये परमात्मा व्यवस्थित" इत्यणीयोवह्निशिखामध्यवर्तित्वोक्त्या परमात्नोऽप्यणीयस्त्वे तात्पर्यमवगतम्। तस्मादुंगुष्ठमात्रत्वं हृदयोपाधिकमित्येतत् न सम्भवतीतिचेत् सम्भवत्येव। दहरशाण्डिल्यविद्ययोहृदयकमलोर्ध्ववर्तिसुषिरवर्तितयोपास्यः परमात्मेति तत्र तदवच्छेदोपाधिकमणीयस्त्वं, इह कृत्स्नहृदयवर्त्युपास्यो विवक्षित इति तदवच्छेदोपाधिकमंगुष्ठमात्रत्वमिति व्यवस्थोपपत्तेः। न च खरतुरगभुजगादीनां अंगुष्ठाभावात् अंगुष्ठमात्रत्वं हृदयोपाधिकमित्येतन्नव्यापकमिति वाच्यम्। मनुष्याणामुपासनाधिकारात् तेषाञ्च हृदयस्य तत्तदंगुष्ठप्रमितत्वात्। आराग्रमात्रस्य जीवस्य हृदयोपाधिनाऽप्यंगुष्ठमात्रत्वं न सम्भवतीति। अत्रेदं वक्तव्यम्। अंगुष्ठमात्रत्वं जीवलिंगमेव। अंगुष्ठमात्रशब्देन हि अंगुष्ठाधिकपरिमाणव्यवच्छेदः क्रियते। न त्वंगुष्ठपरिमाणमपि विधीयते। एकस्य शब्दस्य उभयत्र तात्पर्यायोगात्। अत एव अग्नीषोमीयपशौ अध्रिगुप्रैषे छागस्य पार्श्वद्वयगतानामस्थ्नां वंक्तिशब्दवाच्यानामियत्ताप्रकाशकस्य "षड्विंशतिरस्य वंक्रय" इति मंत्रस्य अश्वमेधपशौ अश्वे चोदकप्राप्तस्य
तत्प्रकरणाम्नातेन "चतुसिं्रशद्वाजिनो देवबंधोर्वक्रीरश्वस्य स्वधितिसमेती"ति वैशेषिकमंत्रेण अपवादप्रसक्तौ तदपवादार्थेन "षड्विंशतिरेषां वंक्रय"इति षड्विंशतिपदयुक्त एव सः प्राकृतोमंत्रः प्रयोक्तव्यः। न तु "अश्वस्तूपरो गोमृगस्ते प्राजापत्या" इति विहिताश्वतूपरगोमृगवंक्रीणां समस्यवचन ऊहः कर्तव्य इति पूर्वपक्षे प्राप्ते।।
"षड्विंशतिरित्येव ब्रूया"दिति वाक्यस्यैवकारेण षड्विंशतिमात्रव्यतिरिक्तं यदन्यत् चतुसिं्रशदिति मत्रान्तरं प्राप्तम्, तन्नकर्तव्यमित्यत्र तात्पर्यावगमात् षड्विंशतिपदयोगेऽपि तात्पर्यकल्पने वाक्यभेदापत्तेः न्यायप्राप्तस्य अश्वतूपरगमृगवंक्रीणां समस्वचनरूपस्य ऊहस्य न बाध इति व्यवस्थापितं पूर्वतंत्रे नवमाध्याये। अत एव च भाष्यकारैरिहाधिकरणे "यावन्वा अयमाकाश" इति दहराकाशस्य परमात्मनो भूताकाशसमपरिमाणत्वोक्तिरयुक्ता, "ज्यायान् दिव" इत्यादिवाक्यान्तरे तस्य तदधिकरपरिमाणश्रवणादित्याशंक्य "यावन्वा" इत्यादिवाक्यं हृदयावच्छेदप्रयुक्ताल्पपरिमाणत्वनिवृत्तिमात्रपरम् न तु भूताकाशसमपरिमाणत्वपरमपीत्युक्तम्। एवमंगुष्ठमात्रत्वस्य अंगुष्ठाधिकपरिमाणव्यवच्छेदरूपतायामाराग्रमात्रत्वस्याप्याराग्राधिकपरिमाणव्यवच्छेदरूपत्वप्राप्तेराराग्रपरिमाणत्वमपि जीवस्य न स्यादिति चेत्। नास्त्येववस्तुततस्तस्याराग्रपरिमाणत्वमपि। अत एव "आराग्रमात्रोऽप्यवरोऽपि दृष्ट" इत्येतदनन्तरं" वालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवस्स विज्ञेयस्सचानन्त्याय कल्पत" इति मंत्रेण आराग्रपरिमाणत्वादत्यल्पमतिसूक्ष्मं परिमाणान्तरं प्रतिपादितम्। तस्मादंगुष्ठाधिकपरिमाणव्यवच्छेदस्य परमात्मन्यनुपपत्तेः
जीवे तदुपपत्तेश्च जीव एवांगुष्ठमात्र इति निश्चिते तदनुसारेण चरमश्रुतं भूतभव्येशितृत्वं तस्मिन्नेव सङ्कोचनीयमिति पूर्वपक्षो वर्णनीयः। "अंगुष्ठमात्र " इत्येतन्मात्रशब्दस्य अवधारणार्थं परिगृह्य अंगुष्ठपरिमाणाधिकपरिमाणव्यवच्छेदपरत्वं न कल्पनीयम्, किं तु शब्दस्य "प्रमाणे द्वयसच्दघ्नच्मात्र च" इति प्रमाणार्थविहितमात्रच् प्रत्ययरूपत्वं परिगृह्य अंगुष्ठसमपरिमाणत्वपरत्वकल्पनं युक्तम्। भावरूपलध्वर्थपरिगृह्ये सम्भवति अभावद्वयघटितगुर्वर्थकल्पनायोगात्। एवं च अंगुष्ठमात्रत्वं परमात्मन्येव सम्भवति। अधिकपरिमाणस्य अल्पपरिमाणावच्छेदोपाधिकाल्पत्वस्य व्योमादिषु दृष्टत्वात्। वालाग्रायुतांशपरिमाणस्य जीवस्य तु हृदयावच्छेदप्रयुक्तमप्यंगुष्ठमात्रत्वं न सम्भवति। अल्पपरिमाणस्य अधिकपरिमाणवकवस्तुमध्यवर्तित्वप्रयुक्ताधिकपरिमाणत्वव्यपदेशस्य क्वचिदप्यदर्शनात्। जीववाक्येषु अंगुष्ठमात्रत्वश्रवणन्तु अंगुष्ठाधिकपरिमाणव्यवच्छेदविषयत्वेनोपपादनीयम्। एकस्यापि शब्दस्य तत्र तत्र उचितार्थभेदसम्भवात्। यद्वा- तेषु हृदयशततमनाड्यवच्छेदोपाधिकयोर्धर्मज्ञानगतयोरंगुष्ठमात्रत्वाराग्रमात्रत्वयोस्तस्मिन् सद्वारकान्वयः। नचेहांगुष्ठवाक्ये सद्वारकान्वयः कल्प्यः। परमात्मनि साक्षात्तदन्वयसम्भवादिति सिद्धांतो वर्णनीयः। यद्येवं प्रथमश्रुतेन अंगुष्ठमात्रत्वलिंगेनैव परमात्मेति निर्णयसम्भवे किमिति तन्निर्णयार्थं ईशानश्रुतिस्सूत्रकारेणाश्रिता। तस्यास्सर्वेश्वरे रूढतया ततो झटिति निर्णयमभिप्रेत्य। अत एव सूत्रे "शब्दादेवे"त्येवकारः। आस्तां यौगिकार्थविचारावगम्याल्लिंगान्निर्णयः रूढतयाऽभिधानश्रुतिरूपादीशानशब्दादेव तावन्निर्णयस्संभवतीतिहि तदाभिप्रायः। तस्मादंगुष्ठप्रमितः परमात्मेति सिद्धं।।
संग्रहकारिकाः।।
अंगुष्ठमात्रः पुरुश्शरीरी श्रुत्यन्तरे तस्य तथा प्रसिद्धेः।
ईसानतात्वस्तु जघन्यपाठात् तद्भोग्यभोगस्थितिहेत्वपेक्षा।।
ईशानशब्दस्वरसोपनीतस्सर्वस्य नेता पुरुषोत्तमोऽसौ।
अंगुष्ठमात्रत्वमणौ विभौ च स्वारस्यहीनं हृदयपेक्षयाऽस्तु।।
अस्माद्भयेन जगतः प्रवृत्तिरुक्ता स्वकार्येषु।
अस्य च निरवधि दृष्टं सर्वानुग्राहकं ज्योतिः।।
यदिदं किंचेति मनौ न तत्र सूर्यइति मंत्रे च।
आभ्यामपि लिंगाभ्यां परमात्मांऽगुष्ठमात्रोऽसौ।। इति।।
"हृद्यपेक्षयात्वि" त्येतावतीह स्थितमधिकरणं कम्पनात् ज्योतिर्दर्शनादिति सूत्राभ्यामुत्तरत्र
समापयिष्यते। मध्ये प्रासंगिकमधिकरणत्रयं पूर्वतंत्रगर्तेद्रपीताद्यधिकरणवत् गर्भाधिकरणतया प्रासंगिकं प्रवृत्तम्। संग्रहश्लोकेषु तु बुद्धिसौकर्यार्थं उपरितनसूत्रद्वयार्थोऽपि अत्रैव संगृहीतः।।
तदुपर्यपि बादरायणस्सम्भवात्।।25।।
विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात्।।26।।
शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्यां।।27।।
अत एव च नित्यत्वं।।28।।
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च।।
मनुष्याधिकारप्रसङ्गात् देवादीनां ब्रह्मविद्यायामधिकारोस्ति न वेति विचार्यते। तत्र पूर्वपक्षः- नास्त्यधिकारश्शरीररहितानां तेषां ब्रह्मविद्यानुष्ठाने सामर्थ्याभावात्। न च तेषां शरीरवत्त्वे प्रमाणमस्ति। नच "वज्रहस्तः पुरन्दरः, इन्द्रोवृत्राय वज्रमुदयच्छ" दित्यादिमन्त्रार्थवादः तत्र प्रमाणं। अनुष्ठेयार्थस्मृतिस्तुत्यर्थानां तेषान्तत्र तात्पर्याभावात्। नच स्मृतिद्वारतया तत्सिद्धिः। सताचासताचस्तुतिदर्शनेन स्तुत्यर्थं द्वारभूतार्थसत्तानपेक्षणात्। न च स्तुत्यर्थं प्रतीयमानतामात्रेण तत्सिद्धिः। तात्पर्याभावे तदसिद्धेः, तात्पर्याधी#िनत्वाच्छब्दप्रामाण्यस्य । नच तत्रापि तात्पर्यं, कल्पकाभावात्। प्रामाण्यनिर्वाहप्रयोजनपर्यवसानाय हि तत्कल्पनं। कर्मकाण्डवचसां विधिनिषेधाधीनप्रवृत्तिनिवृत्तिभ्यां ब्रह्मकाण्डवचसां स्वतः पुरुषार्थब्रह्मप्रतिपादनेन च प्रयोजनपर्यवसानं लब्धमेव। न च देवतोद्देस्यकद्रव्यत्यागात्मकयागविधिवाक्यान्येव देवतापेक्षणीति वाच्यं। शरीररहितस्यापि उद्देशसम्भवेन ततस्तासां शरीरापेक्षाऽसिद्धेः। न च क्षणध्वंसिनां कर्मणां कालांतरभाविफलसाधनत्वनिर्वाहाय द्वारापेक्षायां "तृप्त एवैवमिंद्रप्रजया पशुभिस्तर्पयती" त्याद्यर्थवादतः प्रतीतस्य देवताप्रसादस्य द्वारत्वेन परिग्राह्यतया तासां विग्रहादिपञ्चकसिद्धिः। अपूर्वस्य द्वारस्य सद्भावेन द्वारान्तरानपेक्षणात् ।नच
अर्थवादप्रतीते देवताप्रसादे स्थिते नापूर्वं कल्प्यमिति वाच्यम्। देवतारहितेषु दानादिषु अपूर्वकल्पनाऽवश्यंभावात् यागहोमेष्वपि सम्प्रतिपन्नाचेतनदेवताकेषु चेतनदेवताकेष्वपि केषुचित् तत्कल्पनाऽवश्यम्भावाच्च। न ह्यश्वमेधे मेध्यस्याश्वस्य गुणक्रियांगान्युद्दिश्य "कृष्णाय स्वाहा श्वेताय स्वाहा यन्मेहसि तस्मै स्वाहा यच्छकृत्करोषि तस्मै स्वाहा दद्भ्यस्स्वाहा हनूभ्यां स्वाहे" त्यादिमन्त्रैः किर्यमाणेषु होमेषु चेतनादेवतास्ति। न च तिर्यग्जन्मगतान् पितॄनुद्दिश्य क्रियमाणेषु श्राद्धेषु तिर्यग्भूताः पितरः फलप्रदानसमर्थाः। न च इन्द्रादयोपि कल्पावसानेषु निवृत्ताधिकारः कल्पावसानानुष्ठितभाविकल्पभोग्यफलयागादिफलप्रदानसमर्थाः। एतेन "यजदेवपूजाया"मिति स्मरणेन यागस्य देवताराधनरूपत्वात् तदाराधनानां राजाराधनवत् आराधनप्रसन्नाराधनीयदेयफलार्थत्वावश्यम्भावात् यागविधिसामर्थ्येन देवताविग्रहसिद्धिरित्यपि शङ्का निरस्ता। राज्ञश्शिशवः तत्पादुकादयश्च राजभृत्यैरुचितोपचारेण पूज्यन्ते। ज्योतिष्टोमे सोमलता पयोन्ननिवेदनेन पूज्यते। पितृमातृगुरुभर्त्रतिथिविद्यावृद्धादयश्च शुश्रूषादिभिः पूज्यन्ते। न च तेषां फलप्रदातृत्वमस्ति। राजकुमारादीनामुपंचारो राजादीनामेव पूजा, तेषाञ्च फलदातृत्वमस्तीति यद्युच्येत, तदा देवतानामिज्या वर्णाश्रमादिरूपाचारप्रवर्तकस्य सर्वेश्वरस्यैव पूजा, तस्य फलदातृत्वमस्तीति ततएव यागस्य देवपूजात्वसिद्धेः न तत इन्द्रादिदेवानां विग्रहसिद्धिः। एतेन "इन्द्रो ह वै देवानामभिप्रवब्राजविरोचनोऽसुराणा"मित्यादि ब्रह्मकाण्डगतोपाख्यानैः इन्द्रादीनां विग्रहसिद्धिशङ्काऽपि निरस्ता। कर्मकाण्डगतोपाख्यानानामपि पारिप्लवाधिकरणन्यायत् तत्तद्विद्याविधिशेषत्वेन कर्मकाण्डगतैरिव ब्रह्मकाण्डगतैरपि अर्थवादैः स्तुतिद्वाराभूतार्थासिद्धेः। तस्माद्देवादीनां विग्रहरहितानां सामर्थ्याभावेन नास्ति ब्रह्मविद्यास्वधिकार इत्येवं प्राप्ते सिद्धांतः।।
ब्रह्मोपासनं मनुष्याणामुपरि ये देवादयः तेष्वपि संभवत्येव। न च विग्रहाभावेन तेषां सामर्थ्याभावः, सर्वास्वप्युपनिषत्सु सृष्टिप्रकरणेषु "नारायणद्ब्रह्मा जायते, नारायणाद्रुद्रोजायते, इन्द्रो वरुणस्सोमे रुद्र" इत्यादिवाक्यैः देवादीनां सृष्टिप्रतिपादनात्, सर्वासु श्रुतिषु इन्द्रादिपदानां कर्मविशेषफलत्वप्रतिपादनाच्च। तथा हि सामगानां सामविधिब्राह्मणे "मयिवर्च" इत्यनेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जानः त्रयाणां लोकानामाधिपत्यं गच्छती"ति श्रूयते। त्रैलोक्याधिपत्यमिंद्रत्वमेव। तथा छन्दोगानामुपनिषदि- "वसूनामेवैको भूत्वाऽग्निनैव
मुखेनैतदेवामृतं द्दष्ट्वा तृप्यती"त्यादिवाक्यैः वसुरुद्रादित्यमरुत्साध्द्याख्यगणदेवतापदप्राप्तिः मधुविद्याफलत्वेन प्रतिपाद्यते। तथा देवतावशीकरणस्य कर्मविशेषफलत्वश्रवणादपि तासां विग्रहसिद्धिः। तथा हि सामविधिब्राह्मणे श्रूयते- "यः कामयेतावर्तयेयामित्येकरात्रं क्षुरसंयुक्तस्तिष्ठेत् सुतासांमधुमत्तमा" इति वर्गः। "एतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानः एकरात्रेण कुटुंबिनमावर्तयति, द्विरात्रेण राजोपजीविनं, त्रिरात्रेण राजानं, चतूरात्रेण ग्रामं, पञ्चरात्रेण नगरं, षड्रात्रेण जनपदं, सप्तरात्रेणासुररक्षांसि, अष्टरात्रेण पितृपिशाचान्, नवरात्रेण यक्षान्, दशरात्रेण गन्धर्वाप्सरसः, अर्धमासेन वैश्रवणं, मासेनेंद्रं, चतुर्भिः प्रजापतिं, संवत्सरेण यत्किञ्चिज्जगत् सर्वं हास्थ गुणीभवती"ति। एवं देवतानां विग्रहसामान्यसिद्धौ "सहस्राक्षो गोत्रभिद्वज्रवाहुरस्मासुदेवो द्रविणं दधातु, चत्वारि शृङागा त्रयो अस्य पादा द्वेशीर्षे सप्तहस्तासो अस्ये"त्यादिमन्त्रैः इन्द्राग्न्यादीनां सहस्राक्षसप्तहस्तत्वादिविशिष्ट- विग्रहविशेषसिद्धिः। न च तेषु विग्रहविशेषप्रतिपादनानपेक्षा शङ्कनीया। "यां देवतां वषट्करिष्यन् स्यात्तांमनसाध्यानासम्भवात्, तथा अर्थवादैरपि वज्रहस्तत्वादिविशिष्टविग्रहसिद्धिः। अत एव शाबरभाष्ये प्रजापतिचपोत्खननादिवाक्यानामपि लाक्षणिकार्थपरिग्रहेण द्वारभूतस्याप्यर्थस्य सद्रूपता दर्शिता। किंच "इन्द्रो वृत्राये"त्यादिवादानां इन्द्रवृत्रादिशब्देभ्योपि विभक्त्युत्पत्त्यर्थमर्थवत्त्वन्तावदपेक्षितम्। तदभावे प्रातिपदिकत्वाभावेन विभक्त्यनुत्पत्तेः। अपेक्षितोर्थस्तदर्थवादैस्समर्पितो वज्रहस्तत्वादिरूप एव पर्यवस्यति। अपेक्षितार्थविशेषसमर्पणे विद्यमाने तं परित्यज्य अपेक्षापूरणार्थं अर्थांतरग्रहणायोगात्। ननु "नकिरिन्द्र त्वदुत्तरः न ज्यायो अस्ति वृत्रहन् नक्येवं यथात्वं, आत्वा विशंत्विन्दवःसमुद्रमिव सिन्धवः, नत्वामिन्द्रातिरिच्यते, इन्द्रं विश्वा अवीवृधन् समुद्रव्यचसङ्गिरः" इत्यादयो मन्त्राः न केवलमिन्द्रं प्रकाशयन्ति। किन्तु सर्वोत्तरत्वसर्वसोमग्रहपात्रत्वसर्वाग्जाल- प्रतिपाद्यत्वादिभिरसदर्थैस्स्तुवन्त्यपि। अतो न स्तुतिद्वारा अर्थसत्तानियम इति चेत्, यत्र विरोधः तत्र "श्रृणोतग्रावाण" इत्यादिष्विव असदर्थावलम्बनत्वस्यापि दर्शनात्। यत्र न विरोधः तत्र औत्सर्गिकस्वतः प्रामाण्यवशादपि अर्थसत्ताऽभ्युपगन्तव्या। किमुत तदपेक्षायां। तस्माद्विधिमन्त्रार्थवादैर्देवादीनां विग्रहसिद्धेः सामर्थ्यसद्भावात् मोक्षफलायां ब्रह्मविद्यायामस्त्यधिकारः। ननु मन्त्रार्थवादादिवशात् देवानां विग्रहवत्त्वाभ्युपगमे "अग्निमग्न आवह, इन्द्रागच्छ हरिव आगच्छ, अध्वर्यो द्रावयत्वं सोममिन्द्र पिपासति, उपोनूनं युयुजे बृषणा हरी, आ च जगाम वृत्रहा, कस्यवाऽहदेवा यज्ञमागच्छति कस्य वा न बहूनां यजमानाना"मित्यादिबहुतरमंत्रार्थवाददर्शनात् देवानां
यज्ञदेशागमनमपि अङ्गीकर्तव्यम्। कथमेकस्येन्द्रस्य युगपदनेकयज्ञदेशागमनं घटते। भूतवशिनान्तेषां योगिनामिव युगपत् बहुशरीरपरिग्रहसम्भवादिति ब्रूमः। "अग्नेस्त्रयो ज्यायांसो भ्रातर आसन् ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त, अवाढ्ढव्यानि सुरभीणि कृत्वे"त्यादि श्रुतिषु लोकान्तरस्थदेवसमीपप्रापणार्थं हव्यवदृनश्रवणं तु येषु दर्वीहोमादिषु देवताह्वानं तदागमनं वा न श्रुतं तद्विषयं। यद्वा यज्ञदेशमागता देवाः हविर्गृहीत्वा "यद्वै देवा हविजुषन्ते अल्पमप्येकमाहुतिमपि तद्गिरिमात्रं वर्धत" इति यज्ञदेशागमनहव्यवहनश्रुत्योर्न विरोधः। माभूदिन्द्रादीनां विग्रहवत्वे कर्मणि विरोधः। शब्दे तु स्यात्, विग्रहाणामनित्वावश्यंभावेन तद्विशिष्टवाचिनामिन्द्रादिशब्दानां तदुत्पत्तेः पूर्वं पश्चाच्च अर्थशून्यत्वस्य अनिवार्यत्वात्। यद्युच्येत डित्थादिसाङ्केतिकशब्दानामिव कादाचित्केनाप्यर्थेन अर्थवत्त्वमुपपद्यत इति तदाऽपि इन्द्रादिपूर्वापरकालयोः- "इन्द्रागच्छे"त्यादीनामर्थशून्यत्वमनिवार्यमिति चेन्न। इन्द्रादीनामिंद्रादिशब्दप्रभवतयेन्द्रादि- शब्दानां घटादिशब्दवत् प्रवाहनादिव्यक्तिपरम्परागजातिवाचित्वात्। यथा हि शिल्पी शिल्पशास्रावगतमिंद्राद्याकारं स्मृत्वा तदाकारां प्रतिमां निर्माति, तथा प्रजापतिर्वेदावगतं पूर्वपूर्वेन्द्राद्याकारं स्मृत्वा तत्तदाकारविशिष्टानिंद्रादीन् सृजतीति हि "वेदेन रूपे व्याकरोत् सतासती प्रजापतिस्सभूरिति व्याहरत् स भूमिमसृजत स भुव इति व्याहरत् सोऽन्तरिक्षमसृजते"त्यादिश्रुतिषु श्रूयते। तथा स्मर्यते च "नामरूपं च भूतानां कृत्यादीनां प्रपञ्चनम्। वेदशब्देभ्य एवादौ देवादीनां चकार स" इति। ननु माभूदर्थद्वारको वैदिकशब्दे विरोधः। शब्दद्वारकस्तु स्यात्। मंत्रार्थवादादीनां हि प्रतीयमानार्थे प्रामाण्यमुपपादितम्। तथा च "मंत्रकृतो वृणीते" विश्वामित्रस्य सूक्तं भवति, संहिताकारपदकारसूत्रकारब्राह्मणकाराणा" मित्यादिप्रामाण्याद्वेदस्य पौरुषेयत्वनिवार्यमितिचेत् नायमपि दोषः। "विश्वामित्रस्य सूक्तं भवती"त्यादिवेदशब्देभ्यो विश्वामित्रादीनां तत्तत्सूक्तविशेषदर्शनादिरूपकृत्यविशेषान् नामरूपाणिचानुसन्धाय पूर्वकल्पानुष्ठितपुण्यवशात् विश्वामित्रादीन् सूक्तादीननधीत्यैव द्रष्टुं समर्थान् प्रजापतिः
सृष्ट्वा विश्वामित्रादिपदेषु निवेशयति। अनधीत्य तत्तत्सुक्तादिदर्शनसामर्थ्यमेव च मन्त्रकृत्त्वादिकं। ततो न वेदानित्यत्वापत्तिः। अथ स्यात चतुर्मुखस्य स्वमानेन परार्धद्वयजीविनः चतुर्युगसहस्ररूपैकैकदिवसात्मकस्य अवान्तरकल्पस्यावसाने तावत्कालप्रमाणरात्रिरूपे नैमित्तिकप्रलये भूर्भुवस्स्वरिति त्रैलोक्यमात्रस्य नाश इति वेदसत्त्वात् भवतुवेदशब्दपूर्विका तदनंतरसृष्टिः। तदीयवर्षशतावसाने तावत्प्रमाणोः यः प्राकृतप्रयकालः तदा व्याकृतप्रयन्तसर्वनाशे वेदस्यापि नाशावश्यम्भावात् कथन्तदनन्तरमहाकल्पादौ वेदशब्दपूर्विका सृष्टिः, कथञ्च प्राकृतप्रलये नश्यतो वेदस्य नित्यत्वमितिचेत् उच्यते- तदा वेदानां नाशो न दोषः, "छन्दांसि जज्ञिरेतस्मादि"ति श्रुतिषु महाकल्पादौ तेषामपि सृष्टिश्रवणात्। समानानुपूर्विकत्वरूपे तु नित्यत्वे नास्ति विरोधः। महाकल्पावृत्तावपि सृज्ज्यानां समाननामरूपत्वात्। नच तदसिद्धिः। " यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मा" इति मन्त्रे महाकल्पादौ ब्रह्मसृष्ट्यनन्तरं तस्मै वेदप्रदानश्रवणस्य ब्रह्मा शिल्पिन्यायेन पूर्वकल्पेन्द्रादिनामरूपाणि मन्त्रार्थवादेभ्योऽवगत्य तत्समाननामरूपानिन्द्रादीन् सृजत्वित्येतदर्थत्वात्, "तस्य सुप्तस्य देवस्य नाभौ पद्ममजायत। तस्मिन् पद्मे महाभावग वेदवेदाङ्गपारगः। ब्रह्मोत्पन्नस्सतेनोक्तः प्रजास्सृजमहामत" इत्यादिस्मरणाच्च। तस्माद्देवादीनां विग्रहवतामर्थित्वसामर्थ्ययोगादस्तिब्रह्मविद्यायामधिकार इति सिद्धं।।
संग्रहकारिकाः।।
देवादीनामधिकृतिर्विद्यायां नैव विद्यते।
तेषां विग्रहशून्यानां नखल्पवस्ति समर्थता।।
न च मन्त्रार्थवादेभ्यस्तत्सिद्धिप्रार्थनोचिता।
आन्यपर्याद्विरोधाच्च दुर्वारात्कगर्मशब्दयोः।।
मैवम्मन्त्रार्थवादानां द्वारार्थेऽप्यस्ति मानता।
न कर्मणि विरोधोऽस्ति नैकविग्रहसम्भवात्।।
न शब्दे जातिशब्दत्वात् सम्त्वान्नामरूपयोः।।
इति देवताधिकरणम्।।7।।
मध्वादिष्वसम्भवादनधिकारं जैमिनिः।।30।।
ज्योतिषि भावाच्च।।31।।
भावं तु बादरायणोऽस्ति हि।।32।।
पूर्वाधिकरणे सामान्येन देवानां तदभीप्सितपरोपासनाधिकारोऽस्तीत्युक्तम्। अथ उपासनाविशेषेषु देवताविशेषाणामधिकारोऽस्ति न वेति चिन्त्यत इति सङ्गतिः। अस्ति छान्दोग्ये मधुविद्याः। तस्यां वस्वादय उपास्याः प्राप्याश्च श्रूयन्ते। तत्रह्यादित्यव्यपाश्रयाणि लोहितादिपञ्चरूपात्मकानि पञ्चामृतानि वसुरुद्रादित्यमरुत्साध्यगणभोग्यत्वेनोपास्यानि, तदुपासनानाञ्च वस्वादिपदप्राप्तिः फलमिति वर्णितं, "तद्यत्प्रथमममृतं तद्वसव तृप्यन्ति सयएतदेवममृतं वेद वसूनामेवैको भूत्वा अग्निनैव मुखेन एतदेवामृतं दृष्ट्वा तृप्यन्ती"त्यादिना। तस्यांवस्वादीनां नास्त्यधिकारः। स्वस्य स्वोपास्यत्वासम्भवात्, स्वपदप्राप्तेः फलत्वसम्वाच्चेति पूर्वःपक्षः। ननु नायं पूर्वपक्षो युक् इह कल्पे वस्वादीनां सतां कल्पान्तरेऽपि वसुत्वादिकम्विति, इहि जन्मनि ब्राह्मणस्य सतो जन्मान्तरेऽपि ब्राह्मण्यमस्त्वितीच्छावदिच्छोपपत्तेः, भूमविद्यामद्ध्यगतायां प्राणविद्यायां स्वस्य स्वोपास्यत्वसम्प्रतिपत्तेश्चेति चेत्, एवं पूर्वपक्षी मन्यते। मधुविद्याया न वस्वादिभावः फलम्। किन्तु वस्वादिस्थानप्राप्तिपूर्वकं तत्तद्भोगसाम्यं। यथा "अस्मद्भ्रातॄणाम्मध्ये त्वमेक" इत्युक्तौ भ्रातृभिर्भोगसाम्यं। अन्यथा मधुविद्यानिष्ठानां प्रायणानन्तरं वस्वादिभावप्राप्तौ "अष्टौवसव" इत्यादिश्रुतिसिद्धसंख्यातिरेकप्रसङ्गात्। दृष्टञ्च "वैष्णवं वामनमालभेत स्पर्धमान" इति विधिशेषस्य "विष्णुरेव भूत्वेमान् लोकानभिजयती"त्यर्थवादस्य विष्णुवज्जेतृत्वमात्रपरत्वं। तस्माद्वस्वादीनामप्राप्तफलत्वोक्तिर्युक्तैव। तथा स्वोपासनासम्भवोक्तिरपि युक्ता। तदुपासनया तद्भोगसाम्यप्राप्तेश्तत्प्रीतिद्वारत्वस्यौत्सर्गिकत्वेन वस्वादिषु प्रीणयितृत्वप्रीणनीयत्वरूपकर्तृकर्मभाव-
विरोधात्। न हि स्वयमेव स्वात्मानं प्रीणयित्वा प्रीतात्स्वस्मात् फलंलभत इत्यस्ति सम्भवः। प्राणविद्यायांतु भगवत्प्रीत्यैव फललाभः। न हि तत्र स्वोपासनस्य स्वसमभोगप्राप्तिफलश्रवणमस्तीति। किंच "तन्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृत" मिति श्रुतिः न देवादीनां ब्रह्मविद्याधकारप्राप्त्यर्था। मनुष्याणामिव तेषामप्यर्थित्वादिसत्त्वे- नाधिकारस्य स्वतः प्राप्तत्वात्। किन्तु मधुविद्यायामधिकार इति पूर्वपक्षः। सिद्धान्तस्तु-
वस्वादीनामपि तस्यामस्त्येवाधिकारः। तेषामपि स्वान्तर्यामितया ब्रह्मोपासनसम्भवात् "य एतामेवं ब्रह्मोपनिषदं वेदे" त्युपसंहारे ब्रह्मविद्यात्वश्रवणात् तेषामपि भाविवस्वादित्वप्राप्तिपूर्वकब्रह्मप्रेप्सासम्भवाच्च। एतेन पूर्वपक्ष्यापादितः प्रीणयितृप्रीणनीयैक्यापत्तिमूलस्सर्वोऽपि दोषो निरस्तः। वस्वादिभिस्स्वान्तर्यामितयोपास्यस्य सर्वेश्वस्यैव प्रीणनीयत्वात्। तस्माद्वस्वादीनागपि स्वप्रीणनीयोपास्यतत्फलप्रेप्सयोस्सम्भवात् अस्ति मधुविद्याधिकारः। एवं वाय्वादीनां संवर्गविद्याद्यधिकारोऽपि द्रष्टव्यः। नन्वग्न्यादिभ्य उपरि स्थितानामिन्द्रादीनामर्चिरादिगतिस्मरणं न सम्भवति। तच्च विद्याङ्गमिति "तदोकोग्रज्वलन" मिति सूत्रे सूत्रकार एव "तच्छेषगत्यनुस्मृतियोगा" दिति सूत्रांशेन स्फुटिकरिष्यति। अप्तोऽङ्गानुष्ठानाशक्तानां देवानां कथं विद्याधिकारः। यदि गतिस्मरणमदृष्टार्थं तदाऽर्चिरादिदेवता अपि मनुस्याणां मुच्यमानानां अर्चिरादिका गतिरिति स्मरिष्यति। यदि त्वेवंभूतेन मार्गेण मया विद्यया परमपदं प्राप्यमिति स्मरणमहरहः कर्तव्या। यामुपासनायां ऋत्विक्कर्तृकहविश्शेषभक्षणनियमस्तेषांकरिष्यमाणकर्मसन्तताविवोत्साहजननार्थं, तदाग्न्यादयः स्वस्वानपेक्षितांश विहायापेक्षितं स्वपदान्मुपरित्थितं गत्यंशं स्मरिष्यन्ति। यथा ऋत्विजोऽश्वमेधादिषु अतिबहुपशुप्रभवहविश्शेषमध्ये अपेक्षितांशमात्रं भक्षयन्तीति न सङ्कटं किंचित्। ननु देवानां ब्रह्मविद्याधिकारचिन्तेयं क्कोपयुज्यते। न तावदस्मदादीनां प्रवृत्तौ। नापि देवानां। तेषां स्वकीये विग्रहवत्त्वे तत्प्रयुक्तसामर्थ्यादिमत्त्वे च स्वयमेवावगतिसद्भावात्। उच्यते- देवता न संति चेत् मधुविद्यादीनां वस्वादिपदप्राप्तिः फलं न भवेत्। वरुणग्रहनिर्मोकादिवत् बाधितस्य फलत्वेन श्रुतस्यापि विधेयक्रियाफलत्वायोगात् अन्यदेव तत्फलं कल्प्यं स्यात्। अन्तरादित्यविद्यादिष्वादित्यदेवतान्तर्यामित्वेन ब्रह्मोपासनं न सिध्यत्। गत्यनुस्मृतावचेतनान्यर्चिरादीन्येव मार्गपर्वत्वेन चिन्तनीयानि स्युः। " भाक्तं वानात्मवित्त्वा"दित्यादिसूत्रोक्तन्यायेन यागादिफलं भुञ्जानानान्निरन्तरमाजानदेवकर्मकरतावगत्या वैराग्यं न सिध्यत्। मनुष्याणामेतादृशाभिमतासिद्धिः फलं देवतासद्भावप्रसाधनस्य। मंत्रार्थवादाः प्राप्तिविरोधयोरसतोः प्रतीयमानार्थे प्रामाण्यं न जहातीति देवताविग्रहप्रसाधनोपयोगिन्यायसमर्थनस्यापि "प्लवाह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म। एतच्छ्रेयो येऽभिनन्दन्ति ,मूढा जरामृत्यू ते पुनरेवापियंति।। जायस्व म्रियस्वेत्येतत् तृतीयं स्थानं, तेनासौ लोको न संपूर्यते तस्माज्जुगुष्सेते"त्यादिमन्त्रार्थवादप्रामाण्यावधारणेन विवेकवैराग्यादिसिद्धिः फलमित्याद्यूह्यम्।।
संग्रहकारिके।।
तथाऽपि मधुविद्यायां वस्वादीनान्नविद्यते।
अधिकारो विरोधाच्च प्राप्तत्वात्तत्फलस्य च।।
मैवं सा ब्रह्मविद्यातदधिगतिफला वर्णिता वाक्यशेषे
तस्माद्वस्वादिशब्दे प्रविकसितपरब्रह्मपर्यन्तशक्तिः।
स्वावस्थब्रह्मचिन्ताविधिषु न वलते कर्मकत्रैक्यशङ्का
मुक्तेः प्राक् द्वारभूतं फलमपि घटते भावि वस्वादिप्राप्तिः।।
इति मध्वधिकरणम्।।8।।
शुगस्य तदनादरश्रवणात्तदाद्रवणात् सूच्यते हि।।33।।
क्षत्रियत्वगतेश्च।।34।।
उत्तरत्र चैत्ररथेन लिंगात्।।35।।
संस्कारपरामर्शात्तदभावाष्तिलापाच्च।।36।।
तदष्तावनिर्धारणे च प्रवृत्तेः।।37।।
श्रवणाध्ययनार्थप्रतिषेधात्।।38।।
स्मृतेष्च।।39।।
वस्वादीनामर्थित्वसामर्थ्यसद्भावात् ब्रह्माविध्यायामधिकारोऽस्तीत्युक्तं।तर्हि शूद्राणामपि तत्सत्भावात् अधिकार स्स्या दिति शङ्कया सङ्गतिः।शूद्राणामधिकरोऽस्ति न वेति तदुपसंहारसामर्थ्यसत्वासत्त्वाभ्यां,संशये पूर्वपक्षः।अस्त्यधिकारस्तेषामपि।अग्निविध्याभावाध्दि कर्मानधिकारः पूर्वतन्त्रापशूद्राधिकरणे साधितः।न चोपासनेषु मनोवृत्तिमात्ररूपेषु तदापेक्षाऽस्ति।अतः स्रीणामिव तेषामप्यधिकारोऽस्त्येव।न च तेषां विध्यासहकारिकर्मासम्भवः।
स्ववर्णाश्रमधर्मसम्भवात् ।न च तेषां ब्रह्मस्वरूपतदुरासानप्रकारज्ञानासम्भवः,इति हासपुराणसत्त्वात् ।अत एव हि विदुरादयो ब्रह्मनिष्ठाः।अस्तिच छन्दोग्योपनिषदि तेषां विध्याधिकारलिङ्गम्।तत्राहि संवर्गविध्यायां विध्याधिकारिणः शूद्रेत्यामन्त्राणं द्दश्यते ।"आजहारेमाश्शूद्रानेनैव मुखेन मामालापयिष्यता" इत्येवन्तत्रोपाख्यायते।
जानश्रुतिर्नाम राज्यपरिपालकः श्रध्दयाबहुप्रदः सर्वासु दिक्षु ग्रामनगरमार्मारष्यतीर्थादिषु पान्थानामन्नोदकशयनाचछादनादिभोग्यजातसंपूर्णानावसथान् मापयांचक्रे ।तस्य धार्मिकप्रवरस्य कर्माभिः क्षीणदुरितस्य ब्रह्म्मविविदिषामुत्पादायितुं केचन महर्षयो हंसरूपमास्थाय निशायां हम्र्ये शयावस्य तस्योपरि पङ्क्तिमाबध्याजम्मुः। तेषामग्रेसरं हंसं "भोगो भल्लाक्ष भल्लाक्षे"ति विपरीतलक्षणया मन्दलोचनेति सम्भ्रमेण द्विवारं सम्बोध कश्चिद्धंस उवाच। जानश्रतेरन्नदानादिप्रभावजनितं ज्योतिः द्युलोकपर्यन्तं व्याप्तं वर्तते। तत्र त्वं सग्नः प्रदग्धो माभूरिति, एकमुक्तवन्तन्तग्रगामी हंसः प्रत्युवाच। एतं वराकं जानश्रुतिं शकटसहितं रैक्वमिव कीद्दशमाहात्म्यशालिनमात्थेति। एतदाकर्ण्य तेन पृष्ठगामिना हंसेन कोऽसौ रैक्व इति पुनः पृष्टस्सएव प्रत्युवाच। सर्वेषामपि सर्वं सत्कर्मविज्ञानजातं यदजीयसत्कर्मविज्ञानन्तर्भूतं सरैक्व इति। तदेतद्धंसवाक्यं जानश्रुतिः स्वनिंदारैक्वप्रशंसागर्भमाकर्ण्य कथमपि निशामतिवाह्य तल्पं त्यचन्नेव क्षत्तारमाहूय शकटचिह्नसहितं रैक्वमुक्त्वा तदन्वेषणाय प्रेषयित्वा क्वचिद्देशे शकटस्याधस्तात् पामानं कण्डूयमानं रैक्वं द्दष्ट्वा प्रत्यागत्य तस्मिन्निवेदितवति स्वयं रैक्वमुपसंपद्य गवां षट्शतानि निष्कमश्वतरीयुक्तं रथञ्चोपहृत्य त्वदुपास्यां देवतामुपदिशेति प्रार्थयामास। ततस्तमुवाच रैक्वः "अहहारेत्वा शूद्र तवैव सह गोभिरस्त्वि"ति। अहेति निपातः। हारसहितः इत्वा रथः गोभिस्सह तवैवास्त्विति तदर्थः। पुनर्जानश्रुतौ रैक्वस्यैतावता न सन्तोष इति मत्वा गवां सहस्रं पूर्वानीतं हारादिकं रैक्वस्य विवाहार्थं स्वकन्याञ्चोपहृत्य विद्योपदेशार्थं प्रार्थयमाने रैक्वस्येदं वाक्यं "आजहारेमाश्शूद्रे"त्यादि। इमाः दक्षिणाः आहृतवानसि। अनेनैव मुखेन विद्याग्रहणोपायेन मामालापयिष्यसि। विद्योपदेष्टारं करिष्यसीत्यर्थः। यद्यपि "अहहारेतवाशूद्रे"ति पूर्ववाक्येऽपि "शूद्रे" त्यामन्त्रणमस्ति। तथाऽपि शूद्रवत् ब्रह्मविद्यागौरवमजानानस्स्वल्पांदक्षिणामाहरसीति कोपेन क्षत्रिय एव "शूद्रे"त्यामन्त्रित इत्यन्यथासिद्धिर्वक्तुं शक्या। न तु द्वितीयवाक्य इत्यभिप्रेत्य इदं सन्तोषवाक्यमुदाहृतं भाष्ये। एवं शूद्रस्यापि विद्याधिकारोऽस्तीति प्राप्ते राद्धान्तः--
शूद्राणान्तात् न ब्रह्मस्वरूपतदुपासनप्रकारपरिज्ञानोपायोऽस्ति। न च पुराणादिकं तदुपायः, "इतिहासपुराणाभ्यां वेदं समुपबृह्मये"दिति वेदतात्पर्यनिर्णयार्थत्वेन तस्य विनियुक्तम्। न च "श्रावयेच्चतुरोवर्णान् कृत्वा ब्राह्मणमग्रत" इति शूद्राणां पुराणादिश्रवणानुमतेर्वैफल्यं, पापक्षयार्थत्वोपपत्तेः। विदुरधर्मव्याधादीनान्तु ब्रह्मनिष्ठा न पुराणादिना, किंतु जन्मान्तरवासनानुवृत्त्या। "शूद्रे"त्यामन्त्रणमपि न शूद्राणां विद्याधिकारे लिङ्गं। इह शूद्रशब्दस्य रूढ्या जदातिवाचित्वाभावात् "शूचेर्द्दश्चे"त्युणादिसूत्रेण "शुच शोक" इति धातोः "स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपी"त्यादिसूत्रानुवृत्तरप्रत्ययस्य "अमितम्योर्दीर्घश्चे"ति तदनन्तरसूत्रानुवृत्तदीर्घस्य धातुचकारस्थाने दकारादेशस्य च विद्यायकेन निष्पन्नस्य तस्य योगेन शोचितृत्वार्थकत्वात्। नचेह रूढिप्राबल्यं शङ्कनीयं।हंसवाक्यानादरश्रवणेन तदैव रैक्कोपसर्पणेन कार्येण च सूचितस्य शोकस्य वुद्धिस्थतया बुद्धिस्थयोगस्य रूढितः प्रबसत्वात् ।किंच जानश्रुतेःक्षत्रियत्वावगमादपि तद्धिषयशूद्र शब्दो यौगिकः।उपाक्यानोपक्रमेहि "जानश्रतिर्ह पौत्रायणः श्रद्धा देयो बहुदायि बहुवाक्य आससहसर्त आवसथान्मापयांचक्रे सर्वत एव मेन्नमत्स्यन्ती"ति जानश्रुतेः दानपतित्वं सर्वेभ्यःपक्कान्नदयित्वञ्चोक्तम्।मध्ये च "सह सञ्जिहान एव क्षत्तरामुवाचे"ति क्षत्तृप्रेषणं।"इयं जाया अयं ग्रामो यस्मिन्नास्स"इति रैक्काय कनायाप्रदानं
रैक्कस्तदा यत्र ग्रामेस्थितः तस्य ग्रामस्य दानंचोक्तम्।अन्ते च "ते हैते रैक्कपर्णानाममहावृषेषु यत्रास्म उवासे"
ति तस्मै महावृषाख्यदेशगतबहुग्रामप्रदत्वमुक्तम्।एतैर्लिगैःजानश्रुतेः क्षत्रियत्वमवगतम्।यद्यपि अन्यायवृत्ताश्शूद्रा अपि राज्यं परिपालयन्तः "वैश्यात् ब्राह्मणकन्यायां क्षत्ता नाम प्रजायते"।"जीविकावृत्तिरेतस्य राजांतःपुररक्षण"मित्युक्तलक्षणत्रसंग्रहादिकं कुर्वति। तथाऽपि वेदनिबद्धं तत् न तादृशं वक्तुं शक्यम्। बाधकाभावे वैदिकलिंगावगम्यस्य धर्म्यस्यैव ग्राह्यत्वात्। अन्यथा शूद्रेत्यामन्त्रणेनावगतशूद्रस्य विद्याग्रहणं अधर्म्यं वेदेन निबद्धमिति वक्तुं शक्यतया शूद्रस्य विद्याधिकारे उक्तवैदिकलिंगासिध्या तद्बाधकानामनुपन्यसनीयतापत्तेः। तस्माज्जानश्रुतिः क्षत्रियोऽवगम्यत इति युक्तमेव। किंच अस्यामेव संवर्गविद्यायामुत्तरत्र चैत्ररथस्य क्षत्रियत्वात् तस्यापि क्षत्रियत्वमवगम्यते। उत्तरत्र हि "अथ ह शौनकञ्च कापेयमभिप्रतारिणञ्च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्ष" इत्यादौ शौनकस्य ब्राह्मणस्य द्वितीयोऽभिप्रतारिं क्षत्रिय इति तत्प्रायपाठात् रैक्कस्य ब्राह्मणस्य द्वितायो जानश्रुतिरपि क्षत्रिय इत्यवगम्यते। स्यादेतत्। जानश्रुतेः क्षत्रियत्वनिर्धारणमिह प्रायपाठसत्वाधीनं, तत् अभिप्रतारिणः क्षत्रियत्वनिर्धारणाधीनं, तदपि तस्य चैत्ररथत्वनिर्धारणाधिनं, तच्च तस्य कापेययाज्जयत्वनिर्धारणाधीनं, तत्कुतो निर्धार्यते। नहि तदिह वा अन्यत्र वा श्रुतमस्ति। न च कापेयसहपाठात् तत्सम्बन्धः क्वचित्सिध्यन् तद्याज्यत्वरूपस्सिध्यतीति वाच्यम्। भोजनार्थं सहोपविष्टावित्येव हि सहपाठः। न च तावन्मात्रेण कश्चन कुलसम्बन्धस्सिध्यति। अतिथिगृहस्थयोर्व्यभिचारात्, प्राचीनशालीयसंज्ञादिषु व्यभिचाराच्च। तेषामेकविद्यत्वं सम्बन्धश्चेत्, इहापि तदेव सम्बन्धस्स्यात्। उभयोरपि असंवर्गाविद्योपासकत्वात्। ननु छन्दोगब्राह्मणे "अथ यस्य ज्योतिरुक्थ्यः पूर्वमहर्भवत्यायुरुत्तर" इति विहितस्य द्विरात्रस्य "एकाकिनमेवैनमन्नाद्यस्याद्यक्षं करोती" त्येनं द्विरात्रयाजिनमेकमेव भ्रातृवर्गादिमध्ये ऐश्वर्यस्याध्यक्षं करोतीत्येवं फलार्थवादमुक्त्वा तदुपपादकमर्थवादान्तरमाम्नातम्। "एतेन वै चित्ररथं कापेया अयाजयन् तेमेकाकिमन्नाद्यस्याध्यक्षमकुर्वन् तस्माच्चैत्ररथीनामैकः क्षत्रपतिर्जायत" इति चित्ररततद्वंश्यानां कापेययाज्यत्वं श्रुतमिति चेत्, किंततः। न खल्वभिप्रतारी चित्ररथः, नामभेदेन ततो भेदावगमात्। नापि चित्ररथवंश्यः, तथा श्रवणाभावात्। भाष्ये तु "एते नवै चित्ररथं कापेया अयाजयन्नि"ति श्रुतिपाठो लिखितः। तत्रापि अभिप्रतारिणः कापेययाज्यत्वासिद्धिशङ्का तुल्या। तस्य चैत्ररथत्वाश्रवणादेव। तस्मादभिप्रतारिणः कापेययाज्यत्वं ततश्चित्ररथवंश्यत्वञ्च अवगन्तुमशक्यमिति चेत् उच्यते-- कापेयस्तावत् श्रुत्यन्तरबलात् चित्ररथयाजकत्वेन प्रत्यभिज्ञायत इति तावन्निर्विवादं। तत्सहोपविष्टोऽभिप्रतारी कापेययाज्यः चित्ररथवंश्यश्चेति बुद्धिरौत्सर्गिकी। बाधकाभावात्। भवत्येव यथाह्विदितपूर्वस्य हस्तिनो निकटे दृश्यमाने पुरुषे राज्ञो हस्तिपकोऽयमिति प्रत्यभिज्ञायमाने सति अयमस्य हस्तिपकस्य शिक्षणीयो हस्ती राजकीयश्चेति बुद्धिः। ननु सिध्यतु कापेययाज्यत्वमभिप्रतारिणः, ततश्चित्ररथवंश्यत्वं न सिध्यति, अन्यस्यापि तद्याज्यत्वसम्भवादिति चेत्। न त्रिविधाः खलु याजकाः पितृपितामहादिपरम्परया कुलक्रमागाताः याजकाः पितृभूताः तदसम्भवे कस्यचिदाधानप्रभृतिषु सर्वेषु कर्मसु याजका मनुष्यभूताः, तदसम्भवे तत्र कर्मणि दैवादागत्य आÐत्वज्यं कुर्वन्तो देवभूताः। अतस्समानान्वयानां याज्ययाजकभावस्य मुख्यत्वेन औत्सर्गिकत्वात्, पूर्वराजचरित्रेषु बहुशो याज्ययाजककुलव्यवस्थादर्शनाच्च कापेयानां पितृभूतयाजकत्वावधारणात् कापेययाजकयोगेन चित्ररथवंश्यत्वसिद्धिः। तस्मात् संवर्गविद्यान्वयिनोर्द्वयोः ब्राह्मणस्य द्वितीयः
क्षत्रिय इत्युत्तरदर्शनात् तत्प्रायपाठादपि रैक्वस्य द्वितीयो जानश्रुतिः क्षत्रियः। ननु रैक्वो ब्राह्मण इति कुतोऽवगतं, येन शौनकद्वितीयवत् तद्वितीयः क्षत्रियस्स्यात्। तदन्वेषणार्थं प्रेषिते क्षत्तरि तमन्विष्यप्रत्यागते सति "यत्रारे ब्राह्मणस्यान्वेषणा तदेनमच्छे"ति यत् तपोनवादौ ब्राह्मणानामावासस्थले ब्राह्मणस्यान्वेषणं कर्तुमुचितं, तत्र गत्वैनं प्राप्नुहीत्यर्थकेन तस्य ब्राह्मणत्वस्य स्फुटीकरणात्। तस्मादिह आमन्त्र्यमाणस्य क्षत्रियत्वावगमात् न शूद्रेत्यामन्त्रणेन तस्य विद्यादिकारः। विद्यापेरदेशेषु उपदेश्यस्य उपनयनसंस्कारपरामर्शात् शूद्रस्य तदभावाभिलापाच्च न शूद्रस्य विद्याधिकारः। छान्दोग्ये ह्येवमुपाख्यायते शैसवे प्रमीतपतृकस्सत्यकामो "विद्यार्थमाचार्यमुपेस्य, ब्रह्मचर्य चरिष्यामि किं गोत्रोऽह"मिति मातरं पृष्ट्वा तया त्वज्जनकपरिचरणं कृत्वैव स्थिताऽस्मिनाहं गोत्रं वेदेत्युक्तः गौतममासाद्य "ब्रह्मचर्यं भवति वत्स्याम्युपेयां भगवन्त" मित्युक्त्वा "किंगोत्रस्व " मिति पृष्टो "नाहं गोत्रवं वेद माताऽपि नावेदीत्
माता मे जबाला सत्यकामोऽह" मित्युवाच। अथ गौतमस्सत्यवचनेन "नायमब्राह्मण" इति निर्धार्य "समिधं सोम्याहरोपत्वानेप्य" इत्युक्तवानिति। ननु अपरामृष्टमुपनयनं विद्याङ्गमध्ययनाङ्गं वा उभयधापि नोपपद्यते। विद्यांगोपनयने गोत्रपरिज्ञानस्य अनपेक्षितत्वेन गोत्रप्रश्नानुपपत्तेः। अध्ययनांगोपनयन एव गोत्रभेदेन प्रकारभेदसत्त्वेन गोत्रप्रश्नोपयोगात् अध्ययनागोपनयने "समिधं सोम्याहरे" ति विनियोगानुपपत्तेः। विद्यांगोपनयन एव "तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठ"मिति तमित्पाणित्वस्य विहितत्वात्, अग्रे सत्यकामाय षोडशकलब्रह्मविद्योपदेशस्यैव दर्शनात्, वेदाध्यापनस्यादर्शनाच्च। उच्यते-- उपक्रमगतोगोत्रप्रश्नानुसारादध्ययनांगमिदमुपनयनं। अध्ययनन्तु "उपनीये"त्यनेनैव गृहीतं। तस्य अध्ययनपर्यंतोपनयनपरत्वात्। पूर्वतन्त्रे हि "तस्मादग्निचिद्वर्षति न धावे"दित्यत्र अग्निचि"दित्यस्य यदर्थोग्नेश्चयनसंस्कारः, तत्पर्यन्ताग्निचयनपरते त्यग्निचयनांगकक्रतौभूत एव "वर्षति न धावे"दित्यादीना आग्निचिद्वतानि, न त्वग्निचयनसंस्कारमात्रे भूत इति निर्णीतं क्रमलक्षणे।विद्याप्रदेशे अध्ययनांगोप"नयनपरामर्शो विद्यार्थमपि तदपेक्षास्ति,अतस्तद्रहितस्य न विद्याधिकार"इति ज्ञानपनार्थः।समिदाहरणनियोगस्तु तस्मिन् दयया तस्मै विद्यामप्युपदेक्ष्यामीत्यभिप्रायो वर्णनीयः।अस्तु शूद्रस्याप्युपनयनमिति चेत् न "न शूद्रेपातकं किञ्चिन्नच संस्कारमर्हति"त्येतदनन्तरं "धर्मेप्सवस्तु धर्मज्ञास्सतां वृत्तिमनुव्रताः"।मन्त्रवर्जन्नदुष्यन्ति प्रश्सां प्राप्नुवन्ति चे "ति
धार्मिकाणां शूद्राणां मन्त्रवर्जसंस्काराभ्यनुज्ञानं कृतमिति चेत् सत्यं।तज्जातकर्मादिमात्रविषयं।न तु उपनयनविषयमपि।"शूद्रश्चतुर्थो वर्ण एकजाति"रिति गौतमस्मृतौ।आहत्य तस्य द्वितीयजन्मरूपोपनयनाभावस्रणात् इहापि शूद्रत्वाभावनिर्धारणे सत्येव अध्ययनांगोपनयनप्रवृत्युपन्यासाच्च।किंच शूद्रस्य वेदवाक्यश्रवनतदध्ययनतदर्थविचारज्ञानानुष्ठानानि,"पद्यु वा एतत्श्मशानं यच्छूद्रःतस्माच्छूद्रसमीपे नाध्येतव्य"मिति
शूद्रसमीपे अध्ययनप्रतिषेधेन गौतमस्मृतौ "अथहास्यवेदमुपश्रुण्वतस्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेद"इति शूद्रस्य वेदश्रवणादिषु दण्डविधानेन चार्थात्प्रतिषिध्यन्ते।यस्य हि समीपेऽपि नाध्येतव्यं वेदवाक्यं,यस्य च तच्छ्रवणेऽपि महान् दण्डः,स तत्कथं श्रुणुयात्।अश्रुण्वतः कुतोऽध्ययनमनुष्ठानं वा,तस्मान्नशूद्रस्य विद्याधिकार इति सिद्धम्।।
संग्रहकारिके।।
विद्यास्वस्त्यधिकारश्शूद्राणामपि फलार्थित्वात्।
इतिहासपुराणाभ्यां वेद्यत्वाद्दर्शनाच्च तथा।।
वेदोपबृह्मणतया विद्यार्थे ते न तु स्वतन्त्रतया।
विदुराद्यास्स्वयमुद्गतविद्या जानश्रुतिस्तु स नृपः।।
इति अपशूद्राधिकरणम्।।9।।
कम्पनात्।।40।।
एवं प्रासंगिकेऽधिकरणत्रये वृत्ते यदंगुष्ठाधिकरणान्ते स्थितमुत्तरत्र समापयिष्यतइत्युक्तं, तत्सूत्रद्वयेन समापयति- "अंगुष्ठमात्रः पुरुषो मध्य आत्मनी"ति " अंगुष्ठमात्रः पुरुषोऽन्तरात्मे"त्यनयोर्मन्त्रयोर्मध्ये "यदिदं किं च जगत्सर्वं प्राण एजति निस्सृतम्। महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ती"ति मन्त्रः पठ्यते। अस्यार्थः। अस्मिन्नंगुष्ठमात्रे पुरुषे प्राणशब्दनिर्दिष्टे स्थिते ततो निस्सृतमिदं सर्वं जगदुद्यतवज्रतुल्यादेतस्माद्यन्महतोभयं तस्माद्धेतोः एजति- कम्पते।
तच्छासनातिवृत्तौ प्रत्यवायो भवष्यतीति भयात् स्वस्वकार्येषु प्रवर्तत इत्यर्थः। "भयादस्याग्निस्तपति भयत्तपति सूर्यः। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चम" इत्यनन्तरमंत्रे आग्न्यादीनामंगुष्ठमात्रनिमित्तभयहेतुकस्वस्वव्यापारप्रवृत्त्युपन्यासादिहापिमंत्रे "महद्भयं वज्रमुद्यत" मिति प्रथमानां पञ्चम्यर्थतां कम्पत इत्यस्य स्वस्वव्यापारप्रवृत्यर्थताञ्चोलोच्यैवं व्याख्यातम्। एवंरूपात् कम्पनादपि अंगुष्ठप्रमितः परमात्मा।।
व्योतिर्दर्शनात्।।41।।
तयोरेव अंगुष्ठमात्रविषययोर्मन्त्रयोर्मध्ये " न तत्र सूर्यो भाति न चं द्रतारकं नेमा विद्युतो भा#्ति
कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाती"ति परमात्मासाधारणं सर्वतेजसां छादकं तेषां कारणभूतं अनुग्राहकञ्च अंगुष्ठमात्रपुरुषस्य ज्योतिर्दृश्यते। अत्र हि "तमेव भान्तमनुभाति सर्व" मिति तद्भानानुभानरूपभानपौर्वापर्योक्त्या सर्वतेजः- कारणत्वमुक्तम्। पूर्वार्धेन सर्वतेजश्छादकत्वमुक्तम्। चतुर्थपादेन सर्वतेजोऽनुग्राहकत्वमुक्तं। इदं परमात्मासाधारणम्। "तं देवा ज्योतिषां ज्योतिः, यस्यादित्यो भामुपयुज्य भाती" त्यादिश्रुत्यन्तरदर्शनात् आथर्वणस्यैव " न तत्र सूर्य" इति मन्त्रस्य पाठाच्च। एवम्भूतज्योतिर्दर्शनादपि अंगुष्ठमात्रः पुरुषः परमात्मा।।
इति प्रमिताधिकरणम्।।10।।
आकाशोऽर्थान्तरत्वादिव्यपदेशात्।।42।।
सुषुप्त्युत्क्रान्त्योर्भेदेन।।43।।
पत्यादिशब्देभ्यः।।44।।
पूर्वं दहराकाशस्य परब्रह्मत्वसमर्थनाय अल्पश्रुतिपरिहारे कृते तत्प्रसङ्गादंगुष्ठमात्रस्य परमात्मत्वं साधितम्। तत्प्रसङ्गामतं तु अधिकरणत्रयम्। अथ पूर्वप्रकृचदहरविद्याया बुद्धिस्थत्वेन तदनन्तरश्रुतस्याकाशवाक्यस्य परमात्मपरत्वं निरूप्यत इति सङ्गतिः। छान्दोग्ये दहरविद्यानन्तरं श्रूयते-- "आकाशो हवै नामरूपयोर्निर्वहिता ते यदन्तर तद्ब्रह्म तदमृतं स आत्मे"ति। तत्र आकाशः "अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य। धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानी"ति पूर्वमन्त्रप्रकृतो मुक्तात्मा, पूर्वपक्षः-- स मुक्तात्मा। " ते यदन्तरे"ति नामरूपमध्यस्थितत्वोक्त्या नामरूपास्पृष्टत्ववर्णनात्। "नामरूपयोर्निर्वहते"ति तु मुक्तात्मनु पूर्वावस्थाभिप्रायेण उपपद्यते। स हि बद्धावस्थायां नामरूपयोर्नितरां वोढा, देवमनुष्यादिजन्मपर्यायेण बहुविधनामरूपवोढा स्थित इत्येवं प्राप्त उच्यते--
अयमाकाशः परमात्मा। न मुक्तात्मा। मुक्तात्मभेदोपपादकनामरूपनिर्वोढृत्वश्रवणात्। निर्वोढृत्वं हि रूढ्या कर्तृत्वम्। न तु योगेन नितरां वोढृत्वम्। रूढेः प्रबलत्वात्। नामरूपकर्तृत्वं तु जीवस्य न बन्धमुक्त्यवस्थयोस्सम्भवति। जगद्व्यापारनिषेधात्। तत्तु परमात्मन एव धर्मः। "नामरूपे व्याकरवाणि, तस्मादेतद्ब्रह्म नाम रूपमन्नञ्च जायत" इत्यादि श्रुतेः। तस्माद्यद्यपि पूर्वमंत्रे अभिसम्भवितृत्वेन मुक्तात्मा प्रकृतः। तथाऽपि अभिसम्भाव्यत्वेन परमात्माऽपि प्रकृत इति तद्विषय एवायमाकाशशब्दः। आकाशशब्देन प्रकृतस्य दहराकाशस्य प्रत्यभिज्ञानादपि तद्विषयोऽयं। नच प्रजापतिवाक्येन व्यवधानात् न तत्प्रत्यभिज्ञानमस्तीति शङ्कनीयम्। तस्याप्युपासकस्वरूपयाथात्म्यकथनद्वारा दहरवाक्यशेषत्वात्। दहरवाक्ये दहराकाशउपास्यतयोपक्रान्त इह प्राप्यतयोपसंह्रियत इति विशेषः। अथ स्यात् जावात्मनो भिन्नं आत्मान्तरमेव नास्ति। बृहदारण्यके-- "योऽयं विज्ञानमयः प्राणे" ष्विति प्रकृतस्य जीवस्य "एष ब्रह्मलोकस्सम्म्राडि" ति निर्दिष्टपरमात्मैक्योपदेशात्, "नेह नानास्ति किं चने" ति भेदनिषेधाच्च। एं च नामरूपकर्तृत्वमपि मुक्तात्मनि घटते। तस्यैव परमात्मत्वात्। अतोऽयमाकाशो न मुक्तात्मा, किं तु तद्भिन्नः परमात्मेति निर्णयो न युक्त इति चेत्, मैवं। बृहदारण्यके प्राणेष्विति जीवं प्रकृत्य "प्राज्ञेनात्मनाऽन्वरूढउत्सर्जन्याती"त्युत्क्रान्तौ च, भेदेन व्यपदेशात् "एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल" इत्यादिवाक्यश्रुतपरिष्वज्जकविषयपत्यादिशब्देभ्यश्च जीवभिन्नस्य परमात्मनः प्रत्याख्यानासम्भवात्। ऐक्योपदेशभेदनिषेधौ तु प्रकार्यैक्यनिबन्धनाविति समनन्तरपादे वक्ष्यते। तस्मादिहाकाशः परमात्मा न मुक्तात्मेति युक्तमेव।।
संग्रहकारिकाः।।
मुक्तात्मा प्रकृतस्स्यात् आकाशो नामरूपनिर्वोढा।
प्राग्बद्धस्तुद्दूनिति तन्निर्वोढा ततस्तदस्पृष्टः।।
निर्वोढेष्येत कर्ता यदि भवतु तथा पूर्वमन्त्रोपदिष्टः
प्राप्तव्यब्रह्मलोकोदिततदभिदया यद्विमुक्तोऽपि कर्ता।
तेनैक्यं ब्रह्मलोकश्रुतिसमधिगतेनैकधैवेति किञ्चि-
न्नानानास्तीति चास्य स्फुटगतिबृहदारण्यके प्रत्यपादि।।
मैवन्निर्वोढा स्यात् कर्ता योगाद्धि बलवति रूढिः।
तत्कर्तृताच बद्धे मुक्तेऽपि च नैव सम्भवति।।
बृहदारण्यकवचसामर्थो न ब्रह्मजीवैक्यं।
सुप्त्युत्क्रांन्त्योर्भेदश्रवणात्पत्यादिशब्देभ्यः।।
इति अर्थातरत्वादिव्यपदेशाधिकरणम्।।11।।
इति तृतीय पादः
अथ चतुर्थ पादः
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्त
गृहीतेर्दर्शयति च।।1।।
सूक्ष्मं तु तदर्हत्वात्।।2।।
तदधीनत्वादर्थत्वात्।।3।।
ज्ञेयत्वावचनाच्च।।4।।
वदतीति चेन्न प्राज्ञो हि प्रकरणात्।।5।।
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च।।6।।
महद्वच्च।।7।।
इह पादे सांख्यतन्त्रप्रतिपादनच्छायापन्नानां वाक्यानां सांख्याभिमतार्थनिरासेन ब्रह्मणि समन्वयः प्रतिपाद्यत इति पादार्थस्तत्सङ्गतिश्चेत्युभयमपि प्रथमपाद एव दर्शितं। काठके श्रूयते- "इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परम्मनः। मनसस्तु परा बुद्धि र्बुद्धेरात्मा महान् परः।। महतः परमव्यक्तमव्यक्तात्पुरुषः परः।। पुरुषान्नपरं किंचित् सा काष्ठा सा परागति"रिति। तत्र किं सांख्यतन्त्रसिद्धं प्रधानमव्यक्तशब्दनोच्यते, उत शरीरमिति शाख्यतत्वप्रक्रियाप्रत्यभिज्ञानशरीरीपरिशेषाभ्यां संशये, पूर्वपक्षः सांख्याभिमतं प्रधानमिदमव्यक्तम्। "महतः परमव्यक्तमव्य्क्तात्पुरुषः परः" इति तत्प्रक्रियाप्रत्यभिज्ञानात्, "पुरुषान्न परं किंचि"दिति पञ्चविंशपुरुषातिरिक्ततत्वनिषेधाच्च। न तु शरीरमव्यक्तं। व्यक्ते तस्मिन्नव्यक्तशब्दस्य शक्त्यभावात्। लक्षणातः प्रधाने रूढेर्बलवत्त्वात्। सांख्यकल्पिता सा रूढिः नैयायिककल्पितपक्षसपक्षादिरूढिवदन्यत्रशब्दार्थनिर्णये अनुपयोगिनीति चेन्न। सांख्यतन्त्रसिद्धतत्वानुवादोयमिति तत्प्रक्रियाप्रत्यभिज्ञानात् सिद्धौ तदीयरूढेरेव ग्राह्यत्वात्, "न पक्षे न सपक्षे वा विपक्षे केवलं स्थितः। चित्रंनिसिं्रशधूमस्ते प्रतीपाग्न्यनुमापक" इति काव्यश्लोके नैयायिककल्पतिरूढेरप्युपयोगदर्शनात्। ननु "पुरुशान्न परं किंचि"दित्यत्र पुरुषः पंचविंश इति कथमवगम्यते, येनायं पंचविंशातिरिक्तनिषेधस्स्यादिति चेत्, इत्थं। ज्ञानंकर्मेंद्रियाणि दशोंद्रियशब्दगृहीतानि, भूततन्मात्राः दशार्थशब्दोदिताः, मनोऽन्तः करणं बुद्धिरहङ्कारः महानात्मा महत्तत्त्वमव्यक्तं प्रथानमिति सांख्याभिमतानि चतुर्विंशतिस्तत्वानि प्राङ्निर्दिष्टानि। अतः पुरुषः पंचविंशः। यद्यपि सांख्यानाम्महत्तत्व एव बुद्धिशब्दः, आत्मशब्दश्च चेतने, तथापि प्रत्यभिज्ञापकभूयस्त्वानुसारेण कार्ये कारणोपचारादहङ्कारे बुद्धिशब्दः, महत्तत्वे व्यापकत्वयोगेनात्मशब्दः। "यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनी" त्युपरितनमन्त्रे ज्ञानेप्यात्मशब्ददर्शनात्। ननु पूर्वत्र "आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेवच।। इन्द्रियाणि हयानाहुर्विषयांस्तेषुगोचरा" नित्यात्मशरीरादिषु रथिरथादिरूपेण रूपितेषु इन्द्रियादिपत्ववाक्ये शरीरव्यतिरिक्तानींद्रियादिशब्दैर्गृहीतानि, शरीरमेकं स्वशब्देन नगृहीतं, अव्यक्तशब्दश्चाधिकोस्तीति परिशेषादव्यक्तशब्दो लक्षणयापि शरीरार्थको वक्तुं युक्त इति चेत् न। रथिरथादिरूपेण निरूपितान्येव इन्द्रियादिपरत्ववाक्येप्यन्यूनातिरेकेण
ग्राह्याणीति नियमे कारणाभावात्। तथा नियमे हि न
तावद्रूपकवाक्यस्याकांक्षाकारणं। तस्य वाक्यस्येन्द्रियादिभिरसंयतैर्जीवैः पुनः पुनः संसारमेति संयतैस्तुमुक्तिमिति प्रदर्शनार्थे रथिरथादिरूपेणांगभावमासाद्य निराकांक्षत्वात्। नापीन्द्रियादिपरत्ववाक्यस्याकांक्षा तत्र कारणं। तस्यापि पुरुषपत्वप्रतिपादनेऽङ्गभावमासाद्य निराकांक्षत्वात्। अतः परिशेषादव्यक्तशब्दश्शरीरलक्षक इत्येतदयोगात् सांख्यतन्त्रप्रक्रियाप्रत्यभिज्ञानुसारेण तत्तन्त्रसिद्धप्रधानार्थक इत्येव युक्तमिति। एवं प्राप्ते राद्धान्तः---
पूर्वत्र रथिरथादिरूपेण रूपितानां मध्ये यच्छरीरं रथरूपकेण विन्यस्तं तदात्मनारूपितं तदव्यक्तशब्देन परिशेषात् गृह्यत इति युक्तम्। तत्रह्यात्मा शरीरं बुद्धिर्मन इन्द्रियाणितद्विषया इति षडर्था रथरथिसारथितद्गृह्यमाणतुरगरज्जुतुरगतन्मार्गात्मना यद्रूपिताः तन्मुक्तयर्थोपासनोपकरणत्वाद्वशीकार्यत्वायेति तावन्निर्विवादं। "यस्त्वविज्ञानवान्भवति अयुक्तेन मनसा सह। तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः। यस्तु विज्ञानवान्भवति युक्तेन मनसा सह। तस्येंन्द्रियाणि वश्यानि सदश्वा इव सारथे"रिति तत्रैव श्रवणात्। तत्र च वशीकार्यतायां प्राधान्याप्राधान्यविवेचनमपेक्षितं यत् प्रधानं तद्वशीकरणे यत्नातिशयसिद्ध्ये। इन्द्रियादिपरत्ववाक्यमपि वशीकार्यतायां प्राधान्याप्राधान्यरूपं परापरभावं विना विषयान्तरन्नलभते। न हि "दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः। भौतिकास्तु शतं पूर्णं सहस्रन्त्वाभिमानिकाः।। बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः। पूर्णं शतसहस्रन्तु तिष्ठन्त्यव्यक्तचिन्तकाः।। पुरुषन्निर्गुणं प्राप्य कालसंख्या न विद्यत" इति सांख्यकल्पिततत्तदुपासनाफलभूयस्त्वाल्पत्वरूपः परापरभाव इति वक्तुं शक्यम्। तत्र मनसः इन्द्रियेभ्यः पृथक्परिगणनाभावेन भूततन्मात्रापेक्षया निकर्षापत्त्या तद्विषयत्वे "अर्थेभ्यश्चपरम्मन" इति मनइन्द्रियस्य अर्थशब्दोक्तभूतपरत्वोक्त्यनुपपत्तेः। नापि हेतुहेतुमद्भावरूप इति वक्तुं शक्यम्। सांख्यमते इन्द्रियाणामाहङ्कारिकत्वेन " इन्द्रियेभ्यः पराह्यर्था" इति भूततन्मात्राणामिंद्रियपरत्वोक्त्यनुपपत्तेः, तेषां भौतिकत्वाभ्युपगमे "अर्थेभ्यश्च परं मन " इति मनंइंद्रियस्य भूतपरत्वोक्तयनुपपत्तेः। तस्मात् इंद्रियेभ्यः तद्विषयाः वशीकार्यत्वे पराः। वश्येंद्रियस्यापि विषयसन्निधाविंद्रियविजृम्भणात्। तेभ्योऽपि मनः परं। मनसि विषयध्यानप्रवृत्ते विषयासन्निधाने रागविजृम्भणात्। तस्मादपि बुद्धिः परा। अध्यवसायाभावे मनसोऽकिंचित्करत्वात्। ततोऽप्यात्मा परः। सर्वस्या अपि विषयवृत्तेः आत्मेच्छायत्तत्वात्। तत एवात्मा अणुरपि महानिति विशेष्यते। तस्मादपि शरीरं परं। तदायत्तत्वात् सर्वासामपि पुरुषप्रवृत्तीनां। तस्मादपि परस्सर्वान्तर्यामी सर्वप्रेरकः परिपूर्णः पुरुषोत्तम इति इन्द्रियादयो वशीकार्यतायामुत्तरोत्तरं परा उच्यन्त इति तदर्थो वाच्यः। सर्वान्तर्यामिणो भगवतो वशीकरणं तच्छरणागतिरेव। "तमेव शरणं गच्छे" त्यादिवचनात्। तदिदमिंद्रियादिपरमपुरुषान्तानां वशीकार्यतायामुत्तरोत्तरपरत्वमग्रे श्रुतिरेव दर्शयति-- "यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि। ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्तआत्मनी"ति। अस्य हि मन्त्रस्यायमर्थः। वागुपलक्षितं सर्वं ज्ञानकर्मेन्द्रियजातं मनसि नियच्छेत्। बाह्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणावतिष्ठेत्। विषयविकल्पाभिमुखं तन्मनः आत्मनि स्थितायां बुद्धौ विषयदोषाध्यवसायरूपायां नियच्छेत्। तां बुदिं्ध महति प्रत्यगात्मनि नियच्छेत्। तदुपादेयताविषयां तत्प्रवणां कुर्यात्। तञ्च प्रत्यगात्मानं निरूपप्लवे परमात्मनि नियच्छेत्। तच्छेषताप्रतिपतिं्त कुर्यादिति। तस्मात्सूक्ष्मव्याकृतमव्यक्तशब्दार्हमिति तदवस्थांतररूपं शरूरमुपचारादव्यक्तमित्युक्तम्। यदि सूक्ष्ममव्याकृतमभ्युपगम्यते तर्हि तदेव सांख्यमतमापन्नमिति कथं तन्निरसनम्। स्वतन्त्रमेवाव्याकृतं कार्याणि साधयतीति सांख्यमतन्निरसनीयम्। परमपुरुषाधिनत्वात् तेन प्रेर्यमाममेवाव्याकृतम्महदादिकार्यजातं साधयतीति त्वस्माकमभ्युपगम इति विशेषः। किञ्च- यदि सांख्याभिमतमव्यक्तमिहश्रुतिरवक्ष्यत्, तदातस्यतत्कार्यस्य व्यक्तजातस्यच ज्ञेयत्वमप्यवक्ष्यत्। "व्यक्ताव्यक्तज्ञविज्ञानान्मोक्ष" इति हि सांख्यानामुद्धोषः। ननु "अशब्दमस्पर्शमरूपमव्ययन्तथाऽरसन्नित्यमगन्धवच्च यत्। अनाद्यनन्तम्महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात् प्रमुच्यत " इत्यनन्तरमेव सा श्रुतिरव्याकृतं वदति। व्यक्तधर्मभूतशब्दादिनिषेधानामव्यक्तपर्यवसानस्य न्याय्यत्वात् महतः परत्वोक्तेश्च यत्तदिति सामान्यतोऽपि निर्देशस्याव्याकृतपरत्वौचित्यादितिचेन्मैवम्। "विज्ञानसारथिर्यस्तु मनःप्रग्रवान्नरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पद"मिति परमपुरुषप्रकरणात्। स एव ह्यन्यत्र निचाय्यत्वन प्रतिपाद्यते। अत एव "पुरुषान्नपरं कि चि"दिति पञ्चविंशपुरुषातिरिक्ततत्वनिषेध इति शङ्का
निरस्ता। प्रकरणेन तत्र पुरुषशब्दस्य परमपुरुषपरत्वात्। "अशब्दमस्पर्श" मित्यादि तु "यत्तदद्रेश्यमग्राह्य" मित्यादिवत् तस्मिन्नप्युपपद्यते। "महतः पर"मिति "बुद्धेरात्मा महान्पर" इति प्रस्तुतात् जीवात् परत्वमुपक्तम्। अपिचास्मिन्प्रकरणे प्राप्यस्य परमपुरुषस्य प्राप्त्युपायस्योपासनस्य प्राप्तुरुपासकस्यचेति त्रयाणामेव ज्ञेयत्वेनोपन्यासः प्रश्नश्च दृश्यते। तत्र "तं दुर्दर्शं
गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाती"ति। अतं "देवं मत्वा धीर" इति क्रमेण उपास्योपासनोपासकानामुपन्यासः, "येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणमेष वरस्तृतीय" इति मोक्षरूपप्रश्नद्वारा उपायोपेयोपेतॄणां त्रयाणामपि प्रश्नः। प्रेतः प्रकर्षेणेतः अपुनरावृतिं्त मुकिं्त प्राप्तः। आत्मोच्छत्तिर्मुक्तिरिति शून्यवादिनां विमतिः "नायमस्तीति चैक " इत्युपन्यस्ता। नत्वत्र प्रेतशब्दो मृतवचनः। मृतास्तित्वस्य वैवस्वतं लोकं प्राप्य तं पृच्छता " न साम्परायः प्रतिभाति बालं प्रमाद्यंतं वित्तमोहेन मूढम्। अयं लोको नास्ति पर इति मानी पुनःपुनर्यशमापद्यते म" इत्यादिवैवस्वतवचनं श्रुतवता च नचिकेतसा निर्ज्ञातत्वेन मृते देहातिरिक्ते नास्तित्वविमत्युपन्यासायोगात्। तस्मात्रयाणामेवात्र ज्ञेयत्वेनोपन्यासः प्रश्नश्चेति नेह तांत्रिकस्याव्यक्तस्यानुवादप्रसक्तिरस्ति। अपि च "बुद्धेरात्मा महान्पर" इत्यत्र महत्तत्वन्नग्राह्यं, चेतनरूढात्मशब्दसामानाधिकरण्यात्। "तद्यच्छेज्ज्ञान आत्मनी"त्यत्र सप्तम्यौ तु वैयधिकरण्येन प्राग्व्याख्यातौ। अतोऽपि जीवात्मपरत्वेनोच्यमानमव्यक्तं न सांख्यतन्त्रसिद्धं प्रधानमिति युक्तम्। महत्तत्वपरत्वानभिधानात्।।
संग्रहकारिके।।
महतः परमव्यक्तं पठितं यद्धि काठके।
प्रधानं कपिलोक्तं तत्तत्तन्त्रप्रत्यभिज्ञया।।
मैवं तत्स्याच्छरीरं रथिरथतुरगाद्यात्मना रूपिताना
मात्मादीनां मुमुक्षो र्नियतमिह वशीकार्यताज्ञापनार्थम्।
एतस्यां तारतम्यस्फुटसमधिगमायेन्द्रियेभ्यः पराइ
त्यारभ्याम्नातमन्त्रे न्यसनमभिलषत्यस्वशब्दं शरीरम्।।
इति आनुमानिकाधिकरणम्।।
चमसवदविशेषात्।।8।।
ज्योतिरुपक्रमातु तथाह्यधीयत एके।।9।।
कल्पनोपदेशाच्च मध्वादिवदविरोध।।10।।
पूर्वत्र रूपकवाक्ये शरीरश्रवणादव्यक्तं शरीरं न तंत्रसिद्धा प्रकृतिरित्युक्तम्। तर्हि तदश्रवणादंजा तंत्रसिद्धा प्रकृतिस्स्यादिति प्रत्यवस्थानात्सङ्गतिः। श्वेताश्वरोपनिषदः पठ्यते-- "अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजास्सृजमानां सरूपाः। अजोह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य" इति। अत्र किमजाशब्देन तन्त्रसिद्धा स्वतन्त्रा प्रकृतिरुच्यते, उत सिद्धान्ताभिमता ब्रह्माधीना प्रकृतिरिति संशये पूर्वपक्षः। तन्त्रसिद्धैवोच्यते। "अजा"मिति जन्मराहित्यश्रवणात्, "सृजमाना"मिति स्वातंत्र्यश्रवणाच्च। न तु ब्रह्मात्मिका। तस्यास्सिद्धान्ते ब्रह्मकारणकत्वाभ्युपगमेन जन्मराहित्याभावात्, सृष्टौ ब्रह्मप्रेर्यत्वाभ्युपगमेन स्वातन्त्र्याभावाच्चेति। सिद्धान्तस्तु--
ब्रह्मकारणिकाया अपि जन्मराहित्यमुपपादयिष्यते। तथा अजाशब्दयौगिकार्थस्य जन्मराहित्यस्य साधारणत्वात् न तेन तत्रसिद्धेति विशेषः प्रतीयते। यथा "अर्वाग्बिलश्चमसऊर्ध्वबुध्नस्तस्मिन् यशोनिहितं विश्वरूपम्। तस्यासत ऋषयस्तप्ततीर" इत्यस्मिन् मंत्रे यौगिकेन चमसशब्देन चम्यते भक्ष्यते अनेनेति व्युत्पत्तिमता भक्षणसाधनमात्रं प्रतीयते। न कश्चित्विशेषः, यौगिकशब्दानामार्थप्रकरणवाक्यशेषादिभिर्विनाऽर्थनिश्चयासम्भवात्। तत्र "यथेदं तच्छिर एषह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्न" इति वाक्यशेषः शिरोऽत्र चमस इति निश्चायकोऽस्ति। तस्मिन्निहितं यशः प्राणवायुः तस्य
तीरस्थास्सप्त ऋषयश्श्रोत्रचक्षुर्घ्राणयुगलरसनानीति निश्चायको वाक्यशेषोऽस्ति। नैवमिहाजा तंत्रसिद्धा प्रकृतिरित्यत्र किञ्चिन्निश्चायकमस्ति। सृष्टिस्वातंत्र्यं तु स्वव्यापारकर्तृत्वरूपं परप्रेर्यत्वेऽर्युपपद्यते। सारथिना प्रेर्यस्यापि रथस्य "रथो गच्छती" ति स्वातंत्र्यव्यवहारात्। तस्मादिह तन्त्रसिद्धा अजा न ग्राह्या। किं तु ब्रहामात्मिकैव ग्राह्या। ब्रह्मकारणकत्वाम्नानात्। तैत्तिरीत्या हि "अणोरणीयान्महतो महीया" निति मंत्रेण ब्रह्मोपक्रम्य "सप्त प्राणाः प्रभवंति तस्मा"दित्यादिना "यस्माज्जाता न परा नैव किं च नासे"त्यंतेन प्राणसमुद्रपर्वतादिकस्य सर्वस्य प्रपञ्चस्य ब्रह्मणस्सकाशात्प्रभवमधीयानास्तेषां मंत्राणां मध्य एव "अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम्। अजोह्येको जुषमाणोऽनिशेते जहात्येनां भुक्तभोगामजोऽन्य" इति पठन्ति। अतोऽत्र ब्रह्मकार्यवर्गमध्ये पाठादजाऽपि
ब्रह्मकारणिका विवक्षितेत्यवसीयते। ननु अयमजामन्त्रस्तद्भोगत्यागरूपबन्धमुक्तजीवृत्तांतविषयः, कथमिह "अजा"मिति द्वितीयान्तेन "सप्त प्राणाः प्रभवंती त्यनुवृत्तक्रियान्वयः। अतो नास्याः प्राणादिवत् ब्रह्मकारणकत्वं प्रतीयइतिचेत् उच्यते- यथा "ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छ" दितिवाक्यमिंद्रवृत्तांतमात्रविषयतया प्रतीयमानमपि दर्शपूर्णमासप्रकरणानुरोधादिंद्रेण अग्नीषोमाभ्यां दत्ततयोच्यमानस्य पुरोडाशद्रव्यकस्य यागस्य विधायकं, तथा वृत्तान्तमात्रविषयतया प्रतीयमानोऽपि अयं मंत्रस्सकलकार्यजनयित्र्याः प्रकृतेः परमेश्वरसृज्यत्वप्रतिपादक इति पूर्वापरपरामर्शादङ्गीकर्तव्यम्। ननु कथं प्रकृतेः परमेश्वरकारणकत्वं जन्मराहित्यढ्च। स्थूलसूक्ष्मभेदान्नैतद्विरूद्धम्। यथा मधुविद्यायामादित्यस्य व्वादिदेवताभोग्यरसाश्रयत्वोदयास्तमयादिमत्त्वं, "अथ ततऊर्ध्वं उदेत्य नैवोदेता नास्तमेतैकलएव मध्ये स्थाते" त्युक्तम् सर्वविशेषप्रहाणेनैकतयाऽवस्थानञ्च कार्यकारणवस्थाभेदरूपस्थूलसूक्ष्मावस्थाभेदेन न विरुद्धम्। "एकल" इति लकारोपजनश्छान्दसः। एकएवेत्यर्थः। तस्मात् ब्रह्माधीननैवेयमजा तंत्रसिद्धेरिति सिद्धम्।।
संग्रहकारिके।।
स्वातंत्र्यजनिराहित्ये सृजमानामजामिति।
यस्याश्श्रुते सा प्रकृतिस्सांक्योक्ता न परात्मिका।।
मैवं ब्रह्मात्निकायामपि यदजनिता कारणावस्थया स्यात्
स्वव्यापाराश्रयत्वं रथवदिह परप्रेर्यतायामपि स्यात्ऽ
तस्मान्नायं विशेषोऽस्त्यपितु परसृजिप्रक्रियास्तेविशेष
स्तत्सृ#ायान्ततस्स्यादतिविशदमजामन्त्रतात्पर्यमस्याः।।
इति चमसाधिकरणम्।।2।।
न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च।।11।।
प्राणादयो वाक्यशेषात्।।12।।
ज्योतिषैकेषामसत्यन्ने।।13।।
अजा शब्दस्य स्वतन्त्रप्रकृतिपत्वे विशेषकस्याभावात् वाक्यान्तरानुरोधेन ब्रह्मात्मकत्वं साधितम्। तदत्रनप्रसरति। ब्रह्मसत्वे संख्याधिक्यात्, तेन विनैव संख्यापूरणएन अब्रह्मात्मिका प्रकृतिरिति निश्चयसंभवादिति शङ्कया सङ्गतिः। वाजसनेयिनस्समामनंति। "यस्मिन्पञ्च पञजना आकाशश्च प्रतिष्ठितः। तमेव मन्यआत्मानं विद्वान् ब्रह्मामृतोऽमृत"मिति। अयम्मन्त्रः सांख्यतन्त्रसिद्धतत्वपरः उत वाक्यशेषाम्नातप्राणादिपर इति पंचविंशतिसंख्यातत्वाधिक्यप्रतीतिभ्यांसंशये पूर्वपक्षः। सांख्यतत्वपरः। पंचविंशतिसंख्यातत्वाधिक्यप्रतीतेः। तत्प्रतिश्च पंचशब्दविशेषितात्पञ्चशब्दात्। पंचजनाइति हि न मनुष्यादिवाचीशब्दः। प्रथमपंचशब्दसमभिव्याहारेण द्वितीयपंचशब्दस्यापि संख्यापरत्वावसायात्। ततश्च पञ्चानां जनानां समूहाइति समाहारविषयोयं समासः। तथा निश्चये च पंचपूल्यइतिवदीकाराभावो लिङ्गव्यत्ययश्च छान्दसस्समर्थनीयः। तद्धितार्थोत्तरपदयोरभावेन समासस्य समाहाविषयत्वावश्यंभावात्। ते समूहाः कतीत्याकांक्षायां पुनः पञ्चसंख्यया विशेष्यन्ते "पञ्च पञ्च पूल्य" इतिवत्। ननु समासमभअयुपगम्य छान्दसत्वेन रूमसमर्थनं किमर्थं, असमासेऽपि पञ्चशब्दद्वयेन
पञ्चविंशतिसंख्यालाभोपपत्तेः। एवं संवर्धनेन संख्याविशेषलाभोऽप्यन्यत्र संप्रतिपन्न एव। यथा "पञ्चपञ्चाशतस्रिवृतस्संवत्सरा" इत्यत्र पञ्चगुणितपंचाशत्संख्यया पंचाशदुत्तरद्विशतसंख्यालाभः। यथावा "वयसो वयसस्सप्त दशसप्तदशानि ददाती"त्यत्र सप्तदशगुणितसप्तदशसंख्यया एकोननवत्युत्तरद्विशतसंख्यालाभः। यथावा "पंचभिर्धाता विदधाविदं यत्तासां स्वसॄरजनयत् पंच पंच तासामुयंति प्रयवेण पंच नानारूपाणि क्रतवो वसानाः तिं्रशत्स्वसार उपयंति निष्कृत" मित्यत्र पंचगुणितपंचसंख्यया पंचविंशतिसंख्यालाभा इति चेत् मैवं। पंचजनशब्दस्य समासपदत्वेन तन्नायायनवतारात्। समासपदत्वंच शतपथब्राह्मणपठितस्यास्य मन्त्रस्य अन्तानुदात्तस्वरेण निश्चीयते। अस्यान्तानुदात्तस्वरस्य शतपथब्राह्मणस्वरविधायकभाषिकाख्यग्रन्थविहितब्राह्मणपठितमन्त्रत्वनिमित्तोदात्तादेशरूपत्वात्। अतस्तस्य "स्थानिना समासस्ये" ति व्याकरणविहितेन अन्तोदात्तस्वरेण "पंचानांत्वा पंचजनाना"मिति मन्त्रान्तरे समासदर्शनेन च अत्रापि समासेन भाव्यमिति। तस्मात्समाहारसमासोऽयं, छान्दसत्वेन रूपसिद्धिरित्येव युक्तम्। न च तत्वाधिक्यप्रसङ्गः। चतुर्विंशतेस्तत्वानां आत्मनि प्रतिष्ठितत्ववचनं तददृष्टायत्तत्वात् भाक्तं, आत्मनस्तद्वचनं स्वमहिमप्रतिष्ठितत्ववचनवत् भाक्तमित्युपपत्तेः।
सांख्यतत्वापरिग्रहे श्रुतपंचविंशतिसंख्यान्वयानिर्वाहादिति। एवं प्राप्ते सिद्धान्तः।।
पंचविंशतिसंख्योपसंग्रहादपि न सांख्यतत्वप्रतीतिः। तेभ्यः पृथग्भावात्। तद्वैलक्षण्यात्। "यस्मिन् पंच पंचजना" इति तेषां यच्छब्दनिर्दिष्टब्रह्मात्मकताप्रतीतेः, आत्माकाशाभ्यां संख्यातिरेकाच्च। नच पंचविंशतिसंख्यान्वयानुरोधेन पूर्वपक्षावसानोक्ता क्लिष्टगतिः कल्पनीया। कठवल्लीषु "इन्द्रियेभ्यः पराह्यर्था" इत्यादिना पुरुषावरत्वेन वर्णितानां ज्ञानेन्द्रियकर्मेन्द्रियभूततन्मात्रा मनोबुद्धिभोक्तृस्थूलसूक्ष्मशरीराणां "तच्चाकाशं सनातन"मित्यादिष्वाकाशशब्देन प्रसिद्धस्य अप्राकृतभगवल्लोकस्य च ग्रहणसम्भवात् कठवल्लीषु अव्यक्तशब्दस्य स्थूलसूक्ष्मशरीरद्वयपरत्वोपपत्तेः. एवमक्लेशेन अन्तरङ्गशाखान्तरदृष्टसंख्योपसंग्रहसंभवे क्लिष्टगत्या बहिरङ्गाप्रामाणिकसांख्यतत्वोपसंग्रहायोग्ता। वस्तुतोऽत्र पंचविंशतिसंख्याप्रतीतिरेव नास्ति। समाहारसमासे स्रीप्रत्ययाभावपुल्लिंगयोः छान्दसत्वेन समर्थनीयत्वात्, पंचजनशब्दस्य संज्ञाशब्दत्वमभ्युपगम्य "दिक्संख्ये संज्ञाया" मिति सूत्रविहितसंज्ञआसमासवर्णनोपपत्तेः। ननु तर्हि पंचजनसंज्ञकाः केचिदिह वर्णनीया इति चेत् सत्यम्। सन्त्येव वाक्यशेषश्रुताः प्राणादयः "प्राणस्य प्राणमुत चक्षुषश्चक्षुश्श्रोत्रस्यश्रोत्रमन्नस्यान्नं मनसो ये मनोविदु"रिति वाक्यशेषे हि षष्ठ्यन्तैः प्राणादिशब्दैः प्रसिद्धाः प्राणादयः श्रूयन्ते। ननु शतपथब्राह्मणे माध्यन्दिनानामेवान्नपाठः। न काण्वानाम्। अतस्तेषां प्राणादयः पंचपंचजना नस्युरिति चेत् उच्यते- "यस्मिन्पंचपंचजना" इत्यस्मात् पूर्वस्मिन्मंत्रे "तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृत" मिति ज्योतिषां ज्योतिष्ट्वेन ब्रह्मण्यभिधीयमाने ब्रह्माधीनस्वकार्याणां केषांचिज्जोतिषां प्रतिपादकेन षष्ठ्यन्तज्योतिश्शब्देन प्रकाशकानि ज्ञानेन्द्रियाणइ गृह्यन्त इति इन्द्रियविशेषाणां समर्पकेण "प्राणस्य प्राण" मित्यादिवाक्यशेषेणावधार्यते। तत्र "प्राणस्ये"ति शब्देन वायुसम्बन्धिनस्स्पर्शेन्द्रियस्य ग्रहणम्। मुख्यप्राणस्य ज्योतिश्शब्देन षष्ठ्यन्तेन प्रदर्शनायोगात्। "चक्षुष" इति "श्रोत्रस्ये" ति चक्षुश्श्रोत्रेन्द्रिययोर्ग्रहणम्। "अन्नस्ये"त्यन्नशब्दोदितपृथिवीसम्भन्धिघ्राणेन्द्रियग्रहणम्। तेनैव अद्यतेऽनेनान्नमिति व्युत्पत्त्या तंत्रेण रसनेन्द्रियस्यापि ग्रहणम्। "मनस" इति मन इन्द्रियस्य। एवं गृहीतानां सर्वेषामिन्द्रियाणआं ग्रहणसिध्यर्थं कण्वशाखायामप्युपसंहर्तव्यम्। षष्ठ्यन्तज्योतिःपदोदितेन्द्रियोपक्रमस्य वाक्यशेषगतेंद्रियविशेषोपन्यासस्य च तत्रापि तुल्यत्वात् तदेवं "यस्मिन् पंच पंचजना आकाशश्च प्रतिष्ठित " इति पंचजनशब्दनिर्दिष्टानि इन्द्रियाणि आकाशशब्दोपलक्षितानि भूतानि च ब्रह्मणि प्रतिष्ठितानीति सर्वतत्वानां ब्रह्माश्रयत्वप्रतिपादनात् नतन्त्रसिद्धब्रह्मानधीनपंचविंशतितत्वानुवादशङ्कावकाशइति स्थितम्।।
संग्रहकारिकाः।।
यस्मिन्पञ्चेति मनौ पचोक्ताः पंचजनसमाहाराः।
तत्वानि पंचविंशतिरेते कपिलेन कथितानि।।
मैवं ब्रह्माश्रयताभेदान्नहिधीस्तदुक्तत्वानां।
अधिकरणाऽऽकाशाभ्यां तदुक्तसंख्यातिरेकाच्च।।
पंचजनाइति संज्ञापदेन पंचेंन्द्रियाणि कथ्यन्ते।
दृष्टानि यानि शेषे ब्रह्माधीनस्वकार्याणि।।
संग्राह्यं काण्वैरप्यन्नपदं घ्राणरसनपरं।
ज्योतिः पदोदितेन्द्रियसमुपक्रमवाक्यशेषगतितौल्यात्।।
इति संख्योपसंग्रहाधिकरणम्।।3।।
कारणत्वेनचाकाशादिषु यथाव्यपदिष्टोक्तेः।।14।।
समाकर्षात्।।15।।
माभूवन् पंचपंचजनास्सांख्यतत्वानि, तथापि ब्रह्मकारणमिति सिद्धांत्यभिमतं न सिध्यति। कारणवाक्यानां परस्परविरोधेन क्वचिदपि प्रतिष्ठितत्वाभावात्, तानि विहाय स्मृत्यनुसारेण प्रधानस्यैव कारणतया वक्तव्यत्वादिति प्रत्यवस्थानात्सङ्गतिः। कारणवाक्यैः ब्रह्म कारणमिति निश्चेतुं शक्यं, उत परस्परविरोधेन तैः किमपि निश्चेतुं नशक्यमिति, तान्यनपेक्ष्य कपिलादिस्मृतिभिः प्रधानं कारणमिति निश्चेयमिति संशये पूर्वपक्षः- छांदोग्ये "सदेवसोम्येदमग्रआसीदेकमेवाद्वितीय"मिति सत्पूर्विकासृष्टिराम्नाता। तत्रैव "तद्धैक आहुरसदेवेदमग्रआसीत् एकमेवाद्वितीय"मित्यस्रत्कारणवादमुपक्षिप्य "कुतस्तुखलु सोम्यैवंस्यात् कथमसतस्सज्जायेते"ति असत्कारणवादं निराकृत्य
"सदेवसोम्येदमग्र आसी"दिति सत्पूर्विकासृष्टिः स्थिरीकृता। तैत्तिरीयकेतु छान्दोग्ये नीराकृतमसत्कारणवादं परिगृह्य असत्पूर्विका सृष्टिराम्नाता। "असद्वा इदमग्रआसीत् ततो वै सदजायत" इति। बृहदारण्यकेऽपि तथैवाम्नायते-- "सदेवेदमग्रआसीत् तत्सदासीत् तत्समभव"दिति। तत्रैव अव्याकृतपूर्विकाऽपि सृष्टिराम्नायते-- "तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियते"ति। अव्याकृतं ह्यव्यक्तं प्रधानमेव। एवं कारणवाक्यानां परस्परविरोधेन ब्रह्म वा स्वतन्त्रं प्राधानंवैकं कारणमिति निर्णयालाभेसति आप्ततमकपिलादिप्रणीतस्मृतिभिः प्रधानं कारणमिति निश्चेयं, तत्रैव सर्वाणि कारणवाक्यानि योजनीयानि, ईक्षणादयोऽपि गौणायोजनीयाइति। एवंप्राप्ते सिद्धांतः--
ब्रह्मणएव जगदुत्पद्यत इति निश्चेतुं शक्यते। जन्मादिसूत्रे सर्वज्ञत्वसत्यसङ्कल्पत्वादिविशिष्टं ब्रह्मयथाव्यपदिष्टंतथाभूतस्यतस्यैकस्यैव "तस्माद्वाएतस्मादात्मनआकाशस्संभूतः, तत्तेजोऽसृजते"त्यादिश्रुतिभिराकाशादिषु कारणत्वेन प्रतिपादनात्। नन्वस्तु तथाप्रतिपादनं, तथाऽप्युदाहृतकारणवाक्यजातविगानं कथं समाधेयं। उच्यते- आनन्दवल्ल्यां "सोऽकामयत बहुस्यां प्रजायेये" ति पदेन पूर्वप्रकृतमानंदमयं परामृश्य तस्य जगत्सृष्टिसङ्कल्पमुक्त्वा "इदं सर्वमसृजत यदिदं किंचे"त्यादिना तस्य सर्वस्रष्टृत्वसर्वानुप्रवेशसर्वात्मभावानभिधाय "तदप्येष श्लोकोभवती"त्युक्ते सर्वस्मिन्नर्थे साक्षित्वेन "असद्वा इदमग्र आसी"दिति श्लोक उदाहृतः। तस्मादानन्दमयसमाकर्षात् असच्छब्दस्तस्मिन्नेवानभिव्यक्तनामरूपताभिप्रायो वक्तव्यः।"असदेवेदमग्र आसी" दित्यत्रापियमेव निर्वाहः। असच्छब्दोक्तस्य "तत्सदासी" दिति सत्पदेन समाकर्षात्, अत्यन्तासतश्च "नासतोदृष्टत्वा" दिति न्यायेन सद्रूपतापत्त्ययोगात्। "तद्धेदं तर्ह्यव्याकतमासी" दित्यत्राप्यव्याकृतपदं अव्याकृतशरीरकपरमपुरुषपरं। "सएष इह प्रविष्ट आनखाग्रेभ्यः पश्यंचक्षुश्श्रृण्वन् श्रोत्रं मन्वानोमन" इत्यनन्तरवाक्ये "सएष" इत्यनेन प्रकृतमव्#ाकृतं समाकृष्य तस्य अन्तःप्रविष्टसर्वांतर्यामिपुरुषत्वाभिधानात् । "तन्नामरूपाभ्यां व्याक्रियते"ति कर्मकर्तरिलकारः। तदव्याकृतशरीरमविभक्तनामरूपं ब्रह्म स्वयमेव स्वात्मानं विभक्तनामरूपमकरोदित्यर्थः। "तदात्मानं स्वयमकुरुते" ति श्रुत्यन्तरैकार्थ्यात्। एवं कारणवाक्यानां ब्रह्मपरत्वे सति ईक्षणब्रह्मात्मश्रुतयोऽप्यनुगृहीता भवती। तस्माद्ब्रह्मैककारणकं जगदिति सिद्धम्।।
संग्रहकरिके।।
कारणवाक्यविगानादाप्ततमोक्तं प्रधानमेव भवेत्।
कारणमशेषजगतः कारणवाक्यानि तत्र नेयानि।।
मैवं सर्वत्रापि ब्रह्मसमाकर्षसत्वेन ।
तेषां नास्ति विगानं तस्माद्ब्रह्मैव कारणं जगतः।।
इति कारणत्वाधिकरणम्।।4।।
जगद्वाचित्वात्।।16।।
जीवमुख्यप्राणलिङ्गादिति चेत्तद्व्याख्यातम्।।17।।
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपिचैवमेके।।
अत्रेयं विषयशुद्धिः-- अजातशत्रुर्नाम काशीराजः स्वसमीपमागत्य "ब्रह्मे ते ब्रुवाणी"त्युक्तवन्तं बालाकिं गार्ग्यं "सहस्रं दद्म एतस्यां वाचि जनको जनक इति वै जना धावन्ति"ति प्रशस्य बालाकिना "य एवैष आदित्ये पुरुषस्तमेवाहमुपास" इत्यादिभिर्वाक्यैर्ब्रह्मत्वेनोपदिष्टानादित्यचन्द्रविद्युत्स्तनयित्न्वादिगतान् पुरुषानब्रह्मत्वेन तत्तत्पुरुषोक्त्यनन्तरमेव प्रत्याख्याय ततस्तूष्णींभूते तस्मिन् किमेतावदेव परिज्ञानमिति पृष्ट्वा तेनैतावदेवेत्यभिमते "मृषा वै किल मासमवादिष्ठाः ब्रह्म ते ब्रवाणी"त्युक्त्या तमपोद्य "यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म सवै वेदितव्य" इति स्वयमुपदिदेश। अत्र यो वेदितव्य उपदिष्टः पुरुषः स किं सांख्यतन्त्रसिद्धः पुरुषः उतपुरुषोत्तम इति संशये पूर्वपक्षः।तन्त्रसिद्धः पुरुष एवायम्। "यस्य वै तत्कर्मे"ति पुण्यपापसम्बन्धश्रवणात्। नच तस्य "एतेषां पुरुषाणां कर्ते"ति श्रुतादित्यादिपुरुषकर्तृत्वासम्भवः। आलोकदानादिना तद्भोगोपयोगिनां तेषां तददृष्टजन्यत्वेन अदृष्टद्वारा तस्य तत्कर्तृक्वाक्। "तद्यता श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाश्श्रेष्ठिनं भुञ्जन्ति एवमैवेष प्राज्ञ आत्मा एतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मानः एतमात्मानं भुञ्जन्ति"ति वाक्यशेषे यथा
प्रधानपुरुषः स्वकीयैर्भृत्यादिभिर्भोगसाधनान्युपहरद्भिर्भोगान्भुङ्क्ते यथा च ते भोगसाधनान्युपहरन्तः प्रधानपुरुषं पालयन्ति तथा वेदितव्यत्वेनोपदिष्ट आत्मा प्रकृतैरादित्यादिपुरुषैर्भुङ्क्ते ते च तं पालयन्तीत्युक्तत्वाच्च। ननु तथाऽपि पुण्यपापवान् पुरुषो वेदितव्यः परिग्राह्य इत्यत्र किन्नियामकम्। कर्मशब्दस्य पुण्यपापरूढितवत् क्रियत इति व्युत्पत्या कार्यमात्रयोगस्यापि सत्वेन परमपुरुषपक्षेऽपि "यस्य वैतत्कर्मे"त्येतदुपपन्नम्। रूढिप्राबल्यावलम्बने चलनेऽपि रूढेस्सत्वेनान्यतरपरिग्रहे विनिगमनाविरहात् रूढ्योः परस्परं कलहायमानयोर्लब्धोन्मेषो योग एवेह प्रबल इति वक्तुं शक्यत्वादिति चेन्न। आदित्यादिपुरुषकर्तृत्वमपूर्वद्वारकं विवक्षितमित्येतदर्थसमर्पणार्थतया कर्मशब्दस्यापूर्वरूढेरिहोपयुक्तत्वेन रूढ्यन्तराद्योगाच्च तस्याः प्रबलत्वात् चलनरूढेः परमपुरुषपक्षे विभौ तस्मिन्ननन्वयेन सांख्यपुरुषपक्षेऽपि विभुत्वेन तैरभ्युपगते तस्मिन्ननन्वयेन जीवाणुत्वपक्षेऽपि चनलोक्तेः प्रयोजनाभावेन रूढ्यन्तरोन्मेषशङ्कानवकाशाच्च। तस्माद्वक्तव्यतयोपक्रान्तं ब्रह्म तन्त्रसिद्धः पुरुष एवेति न तद्व्यतिरिक्तेश्वरसिद्धिः। एवञ्च यद्यपि पूर्वाधिकरणेषु सकलवेदान्तप्रसिद्धब्रह्माधिष्ठानेन प्रधानस्य जगत्परिणामित्वमुक्तं, तथाऽपि तथाभूतं ब्रह्म सांख्यपुरुष एवेतीह ब्रह्मनिरूपणोपक्रमसांख्यपुरुषनिरूपणाभ्यामवगमात् तस्मिन्नेव सर्वेषां वेदान्तानां पर्यवसानमभ्युपेयमिति सर्वपूर्वाधिकरणाक्षेपेणायं पूर्वपक्षः। तत एवास्य पूर्वाधिकरणसङ्गतिश्च। एवं प्राप्ते सिद्धान्तः--
"यस्य वैतत्कर्मे"त्यत्र एतच्छब्दस्तावत् प्रत्यक्षादिसन्निधापितसकलजगद्वाची। प्रकरणोपपदादिसङ्कोचकाभावात्। अतस्तत्समानाधिकरणः कर्मशब्दोऽपि कार्यत्वयोगेन सकलजगद्वाचीत्यभ्युपेयं। सकलजगद्वाच्येतच्छब्दसामानाधिकरण्येन दुर्बलस्यापि योगस्योन्मेषात्। पूर्ववाक्योक्तमादित्यादिपुरुषकर्तृत्वं प्रति द्वारतया निर्वाहकत्वेन अपूर्वं बुद्धिस्थमितिचेत् न। जगदेकदेशभूतादित्यादिकीर्तनेन तदेकदेशि जगत् बुद्धिस्थमित्यपि वक्तुं शक्यत्वात्। उभयोर्बुद्धिस्थत्वसंभवे च एतत्पदसामानाधिकरण्येन जगद्वाचित्वस्यैव युक्तत्वात्। अपूर्ववाचित्वमादित्यादिपुरुषकर्तृत्वनिर्वाहकतया प्रकृतोपयोगीतिचेत् न। एकः कथमेतावतामादित्यादिपुरुषाणआं कर्तेत्याकांक्षायां नह्यन्तेषामेव कर्ता किंतु सर्वस्यास्यजगतः। तथाच यस्यैतत्सर्वमेव जगत्कार्यं तस्यादित्यादिपुरुषकर्तृत्वे का विचिकित्सेति कैमुतिकन्यायेन कार्यसामान्ययोगस्याप्यादित्यादिपुरुषकर्तृत्वनिर्वाहकतया प्रकृतोपयोगसाम्यात्, तत्साम्येच
एतत्पदसामानाधिकरण्यबलात् कार्यत्वयोगोन्मेषेण जगद्वाचित्वस्यैवाभ्युपेयत्वात्, "एतेषां पुरुषाणां कर्ते"ति प्रकृतं कर्तारं "यस्य" ति परामृश्य कर्मशब्देन तत्संबन्धिनिर्देशरूपेण कर्तृकर्मसम्भिव्याहारेणापि कर्मशब्दे कर्तृव्यापारविषयत्वात्मककार्यत्वयोगोन्मेषात् सर्वकार्यसाधारणेन कार्यसामान्योगेनैव अपूर्वेऽपि वृत्तिसम्भवेन तत्र तस्य असाधारण्येन रूढिकल्पनायोगाच्च। पूर्वतंत्रे हि बर्हिराज्याधिकरणे बर्हिश्शब्दस्य लवनादिसंस्कृतेषु दर्भेष्वाज्यशब्दस्योत्पवनादिसंस्कृते घृते च सार्वभौमे शिष्टप्रयोगो सत्यपि क्वाचित्कं तयोर्दर्भघृतजातिमात्रे प्रयोगमवलम्ब्य तेनैव संस्कृप्रयोगनिर्वाहात् तयोस्संस्काररूपं प्रवृत्तिनिमित्तान्तरं न कल्प्यमित्युक्तम्। "एकदेशेऽपि यो द्दष्टश्शब्दो जातिनिबन्धनः। तदत्यागान्नतस्यास्ति निमित्तान्तरकल्पने"ति। अतः "क्लृप्तो योगः कल्प्यां रूढिं बाधत" इति न्यायात् नापूर्वरूडिकल्पनावकाशः। तस्मात् "यस्य वैतत्कर्मे" ति सकलजगत्कर्तृत्वोपदेशोऽयम्। #ेवं च प्रत्यक्षादिसन्निधापितसकलजगदुपस्थापकैतच्छब्दः आदित्यपुरुषाद्येकदेशमात्रकर्तृत्वमात्रव्यवच्छेदको वाशब्दश्च सार्थको भवति। ब्रह्मनिरूपणोपक्रमः "चक्षोस्मीर्यो अजायते" त्यादिश्रुतिप्रतिपन्नपरब्रह्मधर्मादित्यपुरुषादिकर्तृत्वोपन्यासश्च सर्वलोकप्रसिद्वजीवातिरिकिक्तबालाक्यविदितपुरुषोपदेशश्च अनुकगीलितो भवति। "सर्वान् पाप्मनोऽपहत्य सर्वेषाञ्च भूतानां श्रैष्ठयं स्वराज्यं पर्येति यएवं वेदे"त्यौपसंहारिकब्रह्मवेदनफलवर्णनमप्युपपादितं भवति। ननु "एतैरात्मभिर्भुङ्क्ते" इति भोक्तृत्वं, "अथास्मिन् प्राणएवैकधा भवती"ति सप्तम्यन्तनिर्दिष्टवेदितव्यपुरुषाश्रितमुख्यप्राणसंबन्धश्चेति जीवलिंगद्वयं वेदितव्यपुरुषस्य जीवत्वगमकं वाक्यशेषे श्रूयत इति चेत्, तस्य निर्वाहः प्रतर्दनविद्यायामेवाभिहितः। उपक्रमोपसंहारबलात् ब्रह्मपरत्वेन निश्चिते वाक्ये तन्मध्यगतान्यन्यलिंगानि तदनुरोधेन नेयानीति। कथन्तन्नयनमिति चेत्। इत्थं जीवातिरिक्तब्रह्मस्वरूपप्रतिबोधनार्थं जीवसङ्कीर्तनमिति तदिदं प्रश्नव्यापाख्यानाभ्यामवगम्यते। प्रश्नस्तावत् राज्ञा गार्ग्यं प्रति कुतः, "क्वैष एतत्बलाके पुरुषोऽशयिष्ट क्कैषतदाऽभूत् कुतएतदागा"दिति। एवं राज्ञा पृष्टं सुषुप्तजीवाधिकरणमविजानात् गार्ग्ये "हितानाम हृदयस्य नाड्य" इत्यादिना "तासु तदा भवति यदा सुप्तः स्वप्नं नकथञ्चन पश्यती"त्यन्तेन जीवस्य सुषुप्त्यधिकरणं हृदयावच्छिन्नं ब्रह्म प्राप्तं मार्गतयाऽधिकन्तव्यासु नाडीषु सर्पणमुक्त्वा "अथास्मिन् प्राणएवैकधाभवती" ति राज्ञैव कृतं स्वपृष्टार्थविवरणम्। तस्य व्याख्यानमिदं सुषुप्तौ जीवस्य ब्रह्मणि लयप्रतिपादकं। "सता सोम्य तदा सम्पन्नो
भवती" ति छन्दोगश्रुत्यैकार्थ्यात्, "य त्रैषएतत्सुप्तोभूत्, यएष विज्ञानमयः पुरुषः क्वैषतदाऽभूत् कुतएतदागा"दिति "यत्रैषएतत्सुप्तोभूत् यएषविज्ञानमयः पुरुषः तदैषां प्राणानां विज्ञानेन विज्ञानमादाय यएषोऽन्तर्हृदयआकाशस्तस्मिन्शेत"इति वाजसनेयिशाखाम्नातबालाक्यजातशत्रुसंवादगतप्रश्नोत्तरैकार्थ्याच्च। तस्माद्वेदितव्यतयोपदिष्टः पुरुषस्सुषुप्तजीवाधिकरणत्वेन ततोभिन्न उक्तइति सभगवान् परमपुरुषएवेति सिद्धम्।।
संग्रहकारिकाः।।
ब्रह्मेति सर्वागमसीमलालितः सांक्योदितः पूरुषएव नाधिकः।
ब्रह्मप्रसङ्गो यदजातशत्रुणा कर्मान्विते तत्र समाप्तिमापितः।।
मैवमिह कर्मशब्दः कार्यपरो नैव पुण्यपापपरः।
निखिलजगत्स्वरसैतत्पदसमभिव्याहृतिग्रासात्।
बालाक्यविदितपुरुषोपदेशवाक्यप्रवेशाच्च।
चक्षोस्सूर्य इतीदृक्प्रापकवचनानुरोधाच्च।।
इति जगद्वाचित्वाधिकरणम्।।5।।
वाक्यान्वयात्।।19।।
प्रतिज्ञासिद्धेर्लिंगमाश्मरथ्यः।।20।।
उत्क्रमिष्यत एवंभावादित्यौडुलोमिः।।21।।
अवस्थितेरिति काशाकृत्स्नः।।22।।
बृहदारण्यके मैत्रेयीब्राह्मणे याज्ञवल्क्यः स्वयंप्रविव्रजिषया मैत्रेयीकात्यायन्योः स्वभार्ययोर्वित्तसंविभागं चिकीर्षन् वित्तेन किममृतत्वं प्राप्तुं शक्यमिति मैत्रेय्या पृष्टो "यथैवोपकरणवतां जीवितं तथैवतेजीवितंस्यात् अमृतत्वस्य तु नाशास्ति वित्तेन " त्युक्त्वा "येनाहन्नामृतास्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मेब्रूही" ति तया पुनरमृतत्वसाधनं पृष्टः "न वा अरे पत्युः कामाय पतिः प्रियोभवति आत्मनस्तु कामाय पतिः प्रियोभवती" त्यादिभिः "न वा अरे सर्वस्य कामाय सर्वं पिर्यं भवति आत्मनस्तु कामाय सर्वं प्रियं भवती"त्यन्तैः वाक्यैः पतिजायापुत्रवित्तादिकं स्रवं यद्भोगार्थतयैव प्रियं भवति तं पत्यादिसर्वभोक्तारमात्मानमुपक्रम्य "आत्मावा अरे दृष्टव्यश्श्रोत्व्योमन्व्योनिदिध्यासितव्य " इत्यमृतत्वसाधनमात्मदर्शनं तत्साधनानि श्रवणादीनि चोपदिश्य "आत्मनिखल्वरे दृष्टे श्रुते मते विज्ञाते इदंसर्वंविदित " मित्यात्मविज्ञानेन सर्वविज्ञआनमुक्त्वा "सयथाऽऽर्द्रैधाग्नरभ्याहितस्य पृथक्धूमाविनिश्चरन्त्येवंवा अरेऽस्य महतोभूतस्य निश्वासितमेतद्यदृग्वेतो यदुर्वेदस्सामवेदोऽथर्वाङ्रसइतिहासः पुराणं विद्याउपनिषदश्लोकास्सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टं हुतमाशितं पायितमयञ्च लोकः परश्च लोकस्सर्वाणि च भूतन्यस्यैवैतानिसर्वाणिनिश्वसितानी"ति तस्य नामरूपात्मकसकलप्रपञ्चकारणत्वं प्रदर्श्य "प्रज्ञानघनएवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविश्यति नप्रेत्यसंज्ञाऽस्ती"ति तस्योत्पत्तिविनाशविशेषविज्ञआनाभावानुक्त्वा "एतावदरेखल्वमृत्व"मिति तस्यात्मनोवेदनममृतत्वसाधनमुपसञ्डहारेति श्रूयते। अत्र पतिजायादिवाक्यजातमुत्पत्तिविनाशवाक्यञ्च परमात्मविषयमिति प्रतीयते। सर्वाणि चैतानि वाक्यानि एकविषयत्वेन प्रवृत्तानि प्रकृतपरमर्शिभिरात्मशब्दसर्वनामशबादैरुत्तरोत्तरवाक्यप्रवृत्तेः। चतुर्थाध्याये मैत्रेयीब्राह्मणे महद्भूतमनन्तमपार"मिति परमात्मासाधारणविशेषणानि "प्रज्ञानघनएवे"त्यादिवाक्योक्तोत्पत्तिविनाशादिजीवलिंगसामानाधिकरण्येन निर्दिष्टानि। एवं जीवेश्वरलिंगयुक्तवाक्यानामेकविषयत्वप्रतीतावपि नाबेदस्तयोश्श्रुतितात्पर्यविष इत्यभ्युपगन्तुं युक्तम्।
"नाहं सर्वज्ञ " इत्याद्यनुभवेन जीवे सर्वज्ञत्वादिविशिष्टेश्वरभावबाधात्। उभयोर्भेदेन अत्र प्रतिपादनकल्पनंत्वेकविषयत्वप्रतीतिविरुद्धम्। तस्मात् जीवेश्वरयोरन्यतरएवात्र प्रतिपाद्यः। अप्रतिपाद्यलिंगानि च प्रतिपाद्ये योज्यानीति स्थिते जीवधर्माणामीश्वरे योजनेन सिद्धान्तो भविष्यति। ईश्वरलिंगानां जीवे योजनेन सांख्यतन्त्रसिद्धः पुरुष एवात्र प्रतिपाद्य इति तावत्पूर्वपक्षः। तथाहि- पतिजायादिसम्बन्धस्तावदविचलं जीवलिंगम्। "नवा अरे पत्युः कामाये"त्यत्र वैशब्देन प्रसिद्धिद्योतकेन। प्रसिद्धं ह्येतत् तवापि, मैत्रेयि यत् पत्यादयो जायादीनां पत्यादिप्रयोजनाय प्रिया न भवंति किं तु स्वप्रयोजनायैवेत्येवमर्थप्रतीतेः। अतः पत्यादिकं परित्यज्यामृतत्वसाधकं स्वात्मदर्शनमेव श्रवणादिभिस्सम्पादनीयमिति
"आत्मा वाऽअरे द्रष्टव्य" इत्यादि नोच्यत इति सङ्गच्छते। ननु स्वात्मभोगाय पत्यादीनां प्रियत्वमुक्त्वा ततः केवलमात्मस्वरूपमन्वेष्टव्यमिति वचनं न संघटते। प्रियमेवह्यन्वेष्टव्यं नतु प्रियवियुक्तस्वरूपमिति चेत्, उच्यते-- सर्वेषामपि स्वात्मा स्वतः प्रियः, पतिजायादयस्तु न पतित्वादिना प्रियाः, तेषां स्वेष्टसंपादकत्वदशायामिव स्वानिष्टकरणत्वदशायां प्रीत्यदर्शनात्। अतः स्वात्मनः पत्यादीनां चानुभवानुसारेण व्यवस्थिताव्यवस्थितपुरुषार्थत्वरूपं तत्वमालोच्याव्यवस्थितगौणपुरुषार्थरूपं पत्यादिकं परित्यज्य मुख्यमेवाश्रयेदिति प्रकृतिवियुक्तात्मदर्शनतदर्थश्रवणमननध्यानविधानं सङ्गच्छत एव। "दशमन्वन्तराणीह तिष्ठन्तींद्रियचिन्तका" इत्यादिना तन्त्रसिद्धपुरुषध्यानस्य सांख्यैर्मुक्तफलकत्वप्रतिपादना। सर्वविज्ञानवचनमपि तत्र सङ्गच्छते। मुक्त्यर्थानुसन्धेयप्रकृतिवियुक्तजीवस्वरूपाणां विशेषकान्तराभावेनैकारतया स्वात्मनि तथा विज्ञातेसति "एवमाकारस्सर्वे जीवा" इति ज्ञातुं शक्यत्वात्। सर्वोपादानत्व वचनं तु जीवाधिष्ठितप्रधानविषयतया सङ्गच्छते। तत्रह्याद्रेंधनविशिष्टस्याग्नेः धूमोपादानत्वं दृष्टान्तीकृतं। न चाग्निर्धूमोपादनां, किंत्वाद्रेंधनमेव। तदुत्कर्षेण धूमोत्कर्षदर्शनात्। एं दार्षान्तिकभावेऽप्याद्रेंधनकल्पजडप्रकृतिविशिष्टस्याग्निकल्पस्य चेतनस्योपादानत्ववर्णनं दृष्टान्तानुसारात् "दध्ना जुहोती"ति विधानमिव विशेषणए संक्रामति। एवमिह ब्रह्मधर्माणां जीवे योजयितुं शक्यत्वात्, जीवधर्माणां पतिजायादिसम्बन्धोत्पत्तिविनाशाविशेषविज्ञानाभावानां ब्रह्मणि योजयितुं शक्यत्वात्। बृहदारण्यकचतुर्थषष्ठाध्यायाम्नातयोर्मैत्रेयीब्राह्मणयोस्तन्तरसिद्धे पुरुषे पर्यवसानेन तत्सामान्यात् सर्वाण्यपि
कारणवाक्यानि पुरुषाधिष्ठितप्रधानकारणत्वपराणि। अतः प्रधानमेव जगत्कारणं नत्वीश्वरो नाम कश्चिदस्तीति। एवं प्राप्ते सिद्धांतः---
अमृतत्वसाधनवेदनेनोपक्रमस्तेनोपसंहा#ो मध्येचामृतत्वसाधनात्मदर्शनश्रवणमननध्यानकीर्तनञ्च प्रकरणस्य परमात्मविषयत्व एवोपपद्यते, नतन्त्रसिद्धपुरुषविषयत्वे। "नान्यः पन्था" इति श्रुतेः श्रुतिविरुद्धस्य "पुरुषं निर्गुणं प्राप्ये"त्यादितान्त्रिकवचनस्य हेयत्वात्। कथं ब्रह्मणि पतिजायादिवाक्यघटना। इत्थं- पतिजायापुत्रवित्तादयो मत्प्रयोजनायाहमस्यप्रियस्स्यामिति स्वसङ्कल्पात् प्रिया न भवन्ति, किन्तु परमात्मनस्स्वाराधकप्रियप्रतिलंभनविषयकामनानिर्वृत्तय इति। परमात्मा हि कर्मभिराराधितस्तत्तत्कर्मानुगुणं प्रतिनियतदेशकालस्वरूपपरिमाणमाराधकाननान्तत्तद्वस्तुगतं प्रियत्वमापादयति। "एष ह्येवानन्दयाती"ति श्रुतेः। न तु किमपि वस्तु स्वतः प्रियमप्रियं वा भवति। यथोक्तं भगवता परशरेण-- "तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते। तदेव कोपाय पुनः प्रसादाय च जायते। तस्माद्दुःखात्मकन्नास्ति न च किञ्चित् सुखात्मक"मिति। नन्वित्थं पतिजायादिवाक्यं परमात्मविषयतां प्राप्नोतु नाम। "तान्येवानुविनश्यती"त्यादि जीवपरामर्शः कथन्तद्विषयतां प्राप्नुयादिति चेत्, इत्थं जीवस्तावत् ईश्वरादुत्पद्यते। "यथा सुदीप्तात्पावकाद्विप्फुलिङ्गा"इत्यादिश्रवणात्। अतस्तयोः कार्यकारणभूतयोरस्ति घटमृत्पिण्डयोरिव मुख्यमेवैक्यं, तदिह ज्ञापनीयम् "आत्मनिखल्वर"इत्यादिपूर्ववाक्योक्तसर्वविज्ञानप्रतिज्ञासिध्यर्थमिति तत्ज्ञापनार्थं जीवशब्दैरीश्वराभिधानमित्याश्मरथ्य आचार्यो मन्यते। संसारदशायां जीवेश्वरयोर्भेदेऽपि मोक्षदशायां "यथा नद्यस्स्यंदमानास्समुद्र"इति मन्त्रोक्तनदीसमुद्रन्यायेन अभेदप्राप्तेः जीवशब्दैरीश्वराभिधानमित्योडुलोमिराचार्यो मन्यते। ईश्वरस्य जीवेऽन्तर्यामितयाऽवस्थितेस्तन्नियाम्यत्वेन तच्छरीरस्य जीवस्य शब्दाश्शरीरिपर्यन्ताइति जीवशब्दैरीश्वराभिधानमिति काशकृत्स्नआचार्यो मन्यते। इतमेव मतं सूत्रकारस्याभिमतम्। जीवोत्पत्तेः "नात्माऽश्रुते"रित्यत्र, मुक्तावागन्तुकरूपाभिनिष्पत्तेः "संपद्याविर्भाव"इत्यत्र निराकरिष्यमाणत्वात्, सर्वशब्दानां शरीरिपरमात्मपर्यन्तत्वस्य "चराचरव्यपाश्रयस्तु स्या" दिति सूत्रेण प्रसाधयिष्यमाणत्वाच्च। तस्मादादिमध्यावसानपरामर्शात् मैत्रेयीब्राह्मणं परमात्मपरम्। नतु तन्त्रसिद्धपुरुषपरमिति सर्वेषां कारणवाक्यानां सिद्धं परमात्मपरत्वम्।।
संग्रहकारिकाः।।
मैत्रेयीब्राह्मणोक्तः पतिसुतवनिताद्यन्वयात् पञ्चविंश-
स्तस्य ज्ञानाद्विमुक्तिः प्रकृतिविरहितस्येति तंत्रे प्रसिद्धिः।
तन्न्यायात्सर्ववेदावधिपरिपठिताश्चेतनैकान्तशब्दाः
तत्रैवाख्यां लभंतां भवतु च तदधिष्ठातृकं तत्प्रधानम्।।
पतिसुतवनितादिकीर्तनेऽपि स्पृशति न संसृतिभाजमात्मशब्दः।
इह सुदृढमुपक्रमादिदृष्ट्या परविषये सति तस्य कः प्रसङ्गः।।
तस्मादिहात्मा भणितः पुमान्परस्तदिष्टमाराधकसौख्यलम्भनम्।
तत्सिद्धये स्युस्तनयादयः प्रियाःस्वरूपतो नेति तदर्थइष्यतां।।
जीवपरामर्शोऽयं शरीरिपरमात्मपर्यन्तः।
यत्रोत्पत्तिविनाशज्ञानाभावाहि न गदितास्तस्य।।
इति वाक्यान्वयाधिकरणम्।।6।।
प्रकृतिश्च प्रतिज्ञादृष्ठान्तानुपरोधात्।।23।।
अभिध्योपदेशाच्च।।24।।
साक्षाच्चोभयाम्नात्।।25।।
आत्मकृतेः।।26।।
परिणामत्।।27।।
योनिश्च हि गीयते।।28।।
एवं निरीश्वरसांख्ये निरस्ते सतीश्वरः केवलं निमित्तभूतः प्रधानमेव तु परिणामिजगदुपादानमिति वदतस्सेश्वरसांख्यस्य मतं निराक्रियत इति सङ्गतिः। किं ब्रह्म जगतोनिमित्तमात्रं उतोपादानमपीति तस्योपादानत्वे श्रुतिन्यायविरोधतदानुकूल्याभ्यां संशये पूर्वपक्षः- ईश्वरोनिमितिमात्रं, प्रधानमेव उपादानं। "मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरं, मयाध्यक्षेण प्रकृतिस्सूयते सचराचर"मित्यादिश्रुतिस्मृतिदर्शनात्, लोके कुलालमृत्पिण्डादिनिमित्तोपादानभेददर्शनाच्च परमात्मनउपादानत्वासम्भवाच्च। कार्यकारेण परिणामित्वं ह्युपादानत्वं, नतु परिणाम्याधारत्वमपि। मृदि घटाकारेण परिणममानायां तदाधारस्य भूतलक्स्याप्युपादानत्वप्रसङ्गात्। न च "बहुस्यां प्रजायेये"ति ब्रह्मणस्सृक्ष्यमाणतेजःप्रभृतिरूपेण स्वस्य बहुभवनसङ्कल्पश्रवणादुपादानत्वमप्येष्टव्यमिति वाच्यम्। तदनुपादानत्वेपि ततो भेदेऽपि स्वकीयत्वप्रयुक्ताभेदोपचारेणतदुपपत्तेः। "प्रजायेमहिरूद्रप्रजाभिः, अग्ने यन्मे तनुवा ऊनन्तन्मआपृणेत्याह यन्मे प्रजायै पशूनामूनन्तन्मआपूरयेतिवावैतदाहे"त्यादिमन्त्रार्थवादा हि प्रजापशुरूपेण स्वस्यैव जननं स्वस्यैव प्रजापश्वात्मकत्वञ्चावेदयन्ति। नच प्रतिज्ञादृष्टान्तानुसारेणोपादानत्वमप्येष्टव्यमिति वाच्यम्। ब्रह्मज्ञाने सत्यपि वियदादिषु मृतिपिण्डादिज्ञाने सत्यपि घटशरावादिषु च संशयदर्शनेन प्रतिज्ञादृष्टान्तयोरौपचारिकतया नेतव्यत्वात्। "तदात्मानं स्वयमकुरुते"त्यादेः "यदायदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्स्य तदाऽऽत्मानं सृजाम्यह" मित्यादिवन्नयनसम्भवादिति। एवंप्राप्ते सिद्धान्तः--
ब्रह्म जगत उपादानमपि, न निमित्तमात्रं। उपादानत्वे सत्येवहि सर्वविज्ञानप्रतिज्ञामृत्पिण्डघटशरावादिदृष्टान्तौ नोपरुध्येयाताम्। न च तयोरौपचारिकत्वं कल्प्यं, मुख्यत्वसमर्थनोपपत्तेः। तथाहि-- "सदेव सोम्ये दमग्रआसीत् एकमेवाद्वितीय" मित्यत्र सत्पदं सूक्ष्मचिदचिद्विशिष्ट वस्तुपरम्।अन्यथा ब्रह्मातिक्तस्य जीववर्गस्य अव्यक्तस्य च सत्वेन अवधारणविरोधात्, अवधारणस्य तत्पृथग्भूतवस्त्वन्तरव्यवच्छेदकत्वेनोपापादनीयत्वात्। तज्ज्ञाने च तत्कार्ये सर्वमपि विषयोभवति। कार्यद्रव्यस्य कारणानन्यत्वात्। कार्यगतस्थूलावस्था परं विषयो नभवति। अतस्तेनाकारेण संशय उपपद्यते। अन्यदिहापेक्षितं प्रतिज्ञाद्दष्टान्तवाक्ययोर्विश्वारणीयमारम्भणाधिकरणे विचारयिष्यते। न च कुलालमृत्पिण्डन्यायेन निमित्तोपादानभेदन्यमश्शङ्कनीयः। तत्र हि निमित्तोपादानाभेदग्राहकप्रमाणाबावात् तद्भेदः, इह तत्प्रमाणे जाग्रति कथमभेदो न स्यात्। न च भूतलवत्परिणाम्युपादानाधारस्योपादानत्वोक्तिर्निरालंबनेति वाच्यं। अपृथक्सिद्वकार्वाश्रयत्वरूपत्वादुपादानत्वस्य तस्य ब्रह्मण्यपिमुख्यत्वात्। नच कार्याश्रयत्वे साक्षात्त्वन्निवेशनीयं, येन साक्षात्तदाश्रयभूता प्रकृतिरेवोपादानं स्यात्। साक्षात्त्वविशेषणे गौरवात्। किंच प्रतिज्ञाद्दष्टान्ताभ्यां तावद्ब्रह्मण उपादानत्वमवसीयते। ""बहुस्यां प्रजायेये"" त्यभिध्योपदेशादपितदवसीयते। न चतस्य मुख्यत्वसम्भवे पूर्वपक्षोदाहृतमन्त्रार्थवादवत्क्लिष्टगतिः कल्पनीया। तथा "ब्रह्मवनं ब्रह्मसवृक्ष आसीत् यतोद्यावापृथिवी निष्टतक्षुः। मनीषिणो मनसा विब्रवीमिवः ब्रह्माध्यतिष्ठद्भुवनानि धारय"न्निति साक्षाच्च तस्य निमित्तोपादानोभयरूपत्वमाम्नायते। अत्र हि "वृक्ष" इति तक्षणनिर्वर्त्यद्यावापृथिव्युपादानत्वमुक्तम्। "ब्रह्माध्यतिष्ठ" दिति निमित्तत्वं। तथा "तदात्मानं स्वयमकुरुते" ति सृष्टौ
तस्यैव कर्तृकर्मभावश्रवणादपि तस्य निमित्तोपादानोभयरूपत्वमवगम्यते। "तदात्मानं सृजाम्यह"मितिवदुपपद्य इत्युक्तमितिचेत् न। तत्रापि निमित्तोपादानभावसिध्यविशेषात्। इयांस्तु विशेषः। तत्र अवतारशरीररूपेण स्वात्मानः स्वेम सृष्टिरुच्यते, इह प्रपञ्चरूपेणेति। एं बहुविधश्रुतिसिद्धमपि तस्योपादानत्वं "निष्कलं निष्क्रियं शान्त" मित्यादिनिर्विकारत्वविषयबहुश्रुत्यन्तराविरोधेन कल्पनीयम्। तथा तत्कल्पनञ्च निरुक्तोपादानलक्षणे साक्षादाश्रयत्वाविवक्ष्यैव निर्वहतीत्यतोऽपि साक्षात्वन्नविवक्षणीयम्। न च व्यवहितकारणवद्व्यवहिताश्रयो नास्ति, स केवलमाश्रयस्यैवाश्रय इति शङ्कनीयम्। पर्यङ्कास्तीर्णवस्रे शयानं प्रति तद्वहनाक्षमस्य वस्रमात्रस्य आश्रयत्वायोग्यतया व्यवहितस्य पर्यङ्गस्य वस्रद्वारा तदाश्रयत्वात् प्रासादस्थपर्यङ्कशयिते पुरुषे "प्रसादे शेत" इति व्यवहारदर्शनाच्च। एतेन स्वाभिन्नकार्यावस्थाश्रयत्वमुपादानलक्षणम्, तथा च ब्रह्मप्रपञ्चयोरपृथक्सिद्धिसत्वेऽप्यभेदाभावात् न ब्रह्मणः प्रपञ्चोपादानत्वमित्यपि शङ्का निरस्ता।
श्रुतोपादानत्वनिर्वाहार्थमपृथक्सिद्धिगर्भस्यैव लक्षणस्य वाच्यत्वात् श्रुतोपपत्त्यनुसारेण अश्रुतकल्पनौचित्यात्। तस्मादुक्तलक्षणपरिणामित्वाभ्युपगमे श्रुतोपादानत्निर्वाहात् श्रुतिनिर्विकारत्वाव्याकोपाच्च निरुक्तपरिणामित्वरूपं निरवद्यमेवोपादानत्वम्, यदक्षरवाक्यगतभूतयोन्यादिशब्दैरपि जोघुष्यते। योनिशब्दोह्युपादानपर्यायः। अक्षरप्रकरणे "कर्तारमीशं पुरुषं ब्रह्ययोनि" मिति कर्तृत्वस्यापि श्रवणात् ततोऽपि निमित्तोपादानोभयरूप्तवसिद्धिः। तस्मात् ब्रह्म जगत उपादानं निमित्तञ्चेति सिद्धम्।।
संग्रहकारिके।।
अस्तीश्वरस्तथाऽपि तु नोपादनामयमपिणामित्वात्।
तदधिष्ठितं प्रधानं श्रुतिस्मृतिभ्यामुपादानम्।।
निर्दोषो निर्विकारस्स्वत इति चिदचिद्देह एष स्वदेह
द्वारादोषैर्विकारैरपि च न सहते सङ्गतिं विश्वनेता।
तेनोपादानलक्ष्मच्युतमिह न भवेद्भाव्यवस्थाश्रयत्वं
पर्यङ्कास्तीर्णवस्रस्थितिजुष इव यद्देहगत्याश्रयोऽसौ।।
इति प्रकृत्यधिकरणम्।।7।।
एतेन सर्वे व्याख्याता व्याख्याताः।।29।।
अतीतपञ्चतिं्रशदधिकरणन्यायादिदेशरूपत्वात् सङ्गतिः। अतीताधिकरणेष्वनुदाहृताः कारणवाक्यवेशेषाः किमुक्तलक्षणब्रह्मपरा उत नेति तेषामुक्तन्यायविषयत्वसम्भवासमभवाभ्यां संशये पूर्वपक्षः। अनुदाहृताः कारणवाक्यविशेषास्सर्वे परमपुरुषैकान्तिका न भवन्ति। "हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्, यदा तमस्तन्नदिवा न रात्रिर्नसन्नचासच्छिव एव केवल" इत्यादिकारणवाक्यान्तरेषु ब्रह्मशिवादिशब्दोक्तकारणान्तरप्रतीतेरिति। सिद्धान्तस्तु--
अतीताधिकरणोक्तन्यायैरेव तेऽपि परमपुरुषविषयास्सिद्ध्यन्तीति। तत्सिद्धिप्रकारस्तु श्रुतप्रकाशिकादिषु प्रपञ्चितो द्रष्टव्यः। अतिविस्तरापत्तेर्नेह सलिख्यते। कारणभूते वस्तुनि शिवादिशब्दा अपि श्रुता इतिचेत् पूर्वन्यायैस्तेऽपि ब्रह्मणि नारायणे योज्याः।।
इति सर्वव्याख्यानाधिकरणम्।।8।।
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैताविद्याचार्यश्रीविश्वजि-
द्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे
नयमयूखमालिकाख्ये द्वितीयपरिच्छेदे प्रथमस्याध्यायस्य
चतुर्थपादः
प्रथमोऽद्यायस्समाप्तः।।
।।श्रीः।।
द्वितीयोऽद्ध्यायः
।।स्मृत्यनवकाशदोषप्रसंगइतिचेन्नान्यस्मृत्यनवकाशदोषप्रसंगात्।।
।।इतरेषाञ्चानुपलब्धेः।।
प्रथमेऽध्याये श्रीमन्नारायणाख्यं परंब्रह्म सकलजगत्कारणमिति तत्र सर्वेषां वेदान्तानां न्यायतस्समन्वयव्युत्पादनेन प्रसाधितं। तत्र संभावितसर्वविधविरोधसमाधानेन तदेव स्थिरीकर्तुं द्वितीयोऽध्याय आरभ्यते। तत्र प्रथमाधिकरणे सांख्यस्मृतिविरोधेन वेदांतानामन्यपरत्वाशङ्का निरस्यते। ननु कथं स्मृतिविरोधे श्रुतेरन्यपरत्वशङ्का, श्रुतिस्मृतिविरोधे स्मृतेरेवाप्रामाण्यस्य "विरोधेत्वनपेक्ष्यं स्यादसति ह्यनुमान" मिति पूर्वतन्त्राधिकरणे स्थितत्वात्। तत्र हि "औदुंबरीं स्पृष्ट्वोद्राये"दिति प्रत्यक्षश्रुतिविरोधेन "औदुंबरी सर्वा वेष्टयितव्ये"ति स्मृतेरनादरणीयत्वं, असत्येव प्रत्यक्षश्रुतिविरोधे स्मृतेर्मूल श्रुत्यनुमापकत्वेन प्रामाण्यञ्चोक्तम्। सत्यं। प्रत्यक्षश्रुतेः स्फुटार्थत्वे तथैव। जगत्कारणविषयावेदान्तास्तु स्पर्शनश्रुतिवन्नस्फुटार्थाः, किंत्वतिगहना नानाप्रकाराः "वेदार्थोयस्स्वयं ज्ञातस्तत्राज्ञानं भवेदपि। ऋषिभिर्निश्चिते तस्मिन् का शङ्का स्यान्महात्मभि" रित्युक्तरीत्योपबृह्मणनिश्चयार्थाइति कपिलदिमहर्षिप्रणीतसांख्यस्मृतिरूपोपबृह्मणानुसारेण तेषामन्यपरत्वशङ्का भवत्येवेति तन्निरासार्थमिदमधिकरणम्। अत्र प्रथमाध्यायप्रसाधितं ब्रह्मणो जगत्कारणत्वमयुक्तं युक्तंवेति सांख्यमन्वादिस्मृतिविप्रतिपत्तेः किं सांख्यस्मृत्योपबृंहणीयास्सन्तो वेदान्तास्तदनुसारेण प्रधानकारणपराः, उत मन्वादिस्मृत्युपबृंहणीयास्सन्तस्ते ब्रह्मकारणपराइत्यनिर्धारणात् संशये पूर्वपक्षः सांख्यस्मृत्योपबृंहणीयाः। तस्या निरवकाशत्वात्। मन्वादिस्मृतीनां वर्णाश्रमादिधर्मेषु अग्निहोत्रादिकर्मसु च सावकाशत्वात्। न च मनुव्यासादि बहुस्मृतिविरोधात् सांख्यस्मृतेर्भ्रान्तिमूलत्वं कल्प्यतामिति वाच्यम्। "ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जयमानञ्च पश्ये"दिति श्वेताश्वतरोपनिषदि सांख्यकर्तुः कपिलस्य ज्ञानपरिपूर्णत्वश्रवणेन तत्कल्पनाऽयोगात्। "यद्वै किञ्च मनुरवदत्तद्भेषज" मिति मनूक्तीनामपि कार्त्स्न्येन प्रामाण्यं श्रुतमितिचेन्न। भेषजशब्दस्य प्रामाण्यार्थत्वाभावेन तदसिद्धेः। यजुर्वेदेहि "यो बरह्मवर्चसकामस्स्यात् तस्मा एतं सोमारौद्रंचरुं निर्वपे"दिति ब्रह्मवर्चसकामस्येष्टिं विधाय "यावदेव ब्रह्मवर्चसं तत्सर्वं करोती"ति फलार्थवादानन्तरं "अत्ब्रह्मवर्चसंक्रियत इत्याहुरीश्वरो दुश्चर्माभवितो"रित्येवंरूपेष्ठ्यनुष्ठानेन "अतिब्रह्मवर्चसं क्रियते तेन यजमानश्वित्रीभवितुं प्रभवती"त्येवं फलमेव पुनर्दोषपर्यवसायिनं सङ्कीर्त्य तत्परिहारार्थं "मानवी ऋचौ धाय्ये कुर्या"दिति मनुना दृष्टे "अग्निं वः पूर्व्यंगिरा देवमीडे वसूना"मित्यादिके ऋचौ सामिधेनीमध्ये धाय्यारूपे वेधाय कथं मानवीभ्यामृग्भ्यां श्वित्रपरिहारइत्याकांक्षायां "यद्वै किञ्च मनुरवदत्तद्भेषजं भेषजमेवास्मै करोती"त्यर्थवादेन तत्सङ्घटकं, न तु मनुदृषऋगर्थानां "अग्निर्वसूनाम्मध्ये पूर्व्य" इत्यादीनां मनुस्मृतिवचनार्थानाञ्च प्रामाणिकत्वप्रतिपादनम्। मनूक्त्यर्थानां श्वित्रे व्याध्यन्तरे वा भेषजरूपत्वं बाधितमिति चेत्, तर्हि असदर्थावलम्बनार्थवादत्वमस्तु। नह्यर्थवादस्य सदर्थावलम्बनत्वसिध्यर्थं प्रकृतार्थासङ्धटकार्थान्तरपरिग्रहो युक्तः। तस्मात् यद्वै किञ्चे त्यादिकमनुवाक्यानां सर्वेषां स्वस्वविषयत्वेन प्रतीते सर्वत्रार्थे प्रामाम्यप्रतिपादनपरमित्येतदसिद्धेः मनुस्मृतिवचनानां ब्रह्मकारणवादांशमपहाय वर्णाश्रमधर्मेष्वेव अवकाशकल्पनं युक्तमिति वेदान्तानां निरवकाशया सांख्यस्मृत्यैवोपबृंहणीयत्वात् ते कपिलसूत्रहरिहरवार्तिकादिप्रतिपादितेन प्रकारेण प्रधानकारणत्वपरा नेतव्याः। तेषु ये पुरुषस्यैव कारणत्वं स्फुटं वदन्ति तेत्वमात्यजयं राज्ञीव प्रधानकृत्यं पुरुषे व्यपदिशंतीति नेतव्याइति मन्वादिस्मृतिभिरेवोपबृंहणीयाः। तासामाप्ततमप्रणीतानां बहूनामनवकाशत्वात्। न च कर्मभिस्तासां सावकाशत्वं, परमपुरुषाराधनभूतकर्मप्रतिपादकानामपि तदाराधनीयतया तच्छेषिणि परमपुरुषे जगत्कारणे ब्रह्मण्येव तात्पर्यात्। अत एव मनुना वर्णाश्रमादिधर्मान् ऋषिभिः पृष्टेन तदाराधनीयपरमपुरुषोपदेशपूर्वकमेव तेषामुपदेशः कृतः। "आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रतर्क्यमनिर्देश्यं प्रसुप्तमिव सर्वतः।। ततस्स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम्। महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः।। सोऽभिध्याय शरीरात्स्वात् सिसृक्षुर्विविधाः प्रजाः। अप एव ससर्जादौ तासु वीर्यमपासृजत्।। तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्। तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः।। आपो नारा इति प्रोक्ता आपो वै नरसूनवः। ता यदस्यायनं प्रोक्तं तेन नारायणस्स्मृतः"
इत्यादिना पुराणेषु परः पुमान्। विष्णुराराध्यते पन्था नान्यस्तत्तोषकारक" इत्यादिवचनैस्तदाराधनतया तच्छेषत्वेनैव कर्मप्रतिपादनमिति स्पष्टमेव। तथा याज्ञवल्क्येनापि "क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता" इतीश्वरं प्रस्तुत्य "मुखपादोरुपज्जास्स्युस्तस्य वर्णा यथाक्रम"मिति पुरुषसूक्तप्रक्रियया तस्य जगत्कारणत्वं प्रतिपादयता मनुवदेव
स्ववर्णितवर्णाश्रमधर्माणामाराधनीये पुरुषसूक्तप्रतिपाद्ये श्रियःपतौ नारायण एव तात्पर्यमाविष्कृतम्। तथा आपस्तम्बेनापि "पूः प्राणिनस्सर्व एव गुहाशयस्याहन्यमानस्यविकल्मषस्ये"ति एवं "एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण" इति सुबालोपनिषत्प्रतिपाद्यरूपं नारायणं प्रस्तुत्य "तस्मात्कायाः प्रभवति सर्वे समूलं शाश्वतिकस्सनित्य"इति तस्य सकलमूलकारणत्वं वदता सएव स्ववर्णितवर्णाश्रमादिधर्माणामाराधनीय इति तत्र तात्पर्यमाविष्कृतम्। एवमन्येषामपि स्मतर्ॄणां वचनान्युदाहरणीयानि। नच अनवकाशत्वतौल्ये कथं मन्वादिस्मृतिभिरेवोपब्रह्मणीया इति निर्णय इति वाच्यम्। मन्वादीनामाप्ततमत्वात्। मनोस्तावदाप्ततमत्वं तदुक्तीनां भेषजत्वश्रुत्याऽवसितम्। तथाहि -- भेषजत्वमिह रोगदुरितोभयशान्त्यथसा धारणदोषपरिहारार्थत्वमात्रं विवक्षितं, नतु विशिप्य रोगशान्त्यार्थत्वमेव। "यद्वैकिंचे"ति वाक्यस्यात्यंतासार्थत्वापत्तेः। नहि मनुस्मृतिवचनानां मध्ये किमपि वचनं वैद्यकवद्रोगशांत्यर्थभेषजप्रतिपादकमस्ति। दुपितशांत्यर्थप्रतिपादकंत्वस्त्येव वर्णाश्रमधर्मविषयचनजातम्। नित्यनैमित्तिकानां वर्णाश्रमधर्माणां दुरितक्षयहेतुत्वात्। ननु तथाऽपि सर्वाणि मनुस्मृतिवचनानि दुरितक्षयोपयोगीनि न भवंति, मनुस्मृतौ राजनीतिव्यवहारपदनिर्णयविषयत्वेन द्दष्टार्थानामपि सत्त्वादिति वीप्सार्थकयत्किञ्चिच्छब्दासांगत्यमस्तीतिवाच्यं।
तेषामपि दुरितक्षयार्थकर्मानुष्ठानोपकारकत्वेन परम्परया तादर्थ्यसत्त्वात्, तदभावेऽपि कार्त्स्न्यपरयत्किञ्चिच्छब्दस्य वर्णाश्रमधर्मविषयवचनजातपरत्वेन सङ्कोचोपपत्तेश्च असंकुचितसर्वपरत्वासंभवे संकुचितसर्वपरत्वौचित्यात्। अतएव "सर्वएव हारियोजनस्य लिप्सन्त" इति ज्योतिष्टोमप्रकरण श्रुतिवाक्ये सर्वशब्दस्य असंकुचितसर्वपरत्वासम्भवात् केनचिदवच्छेदेन सामस्त्यपरत्वे वाच्ये प्राकरणिकज्यौतिष्टोमिकाÐत्वज्यावच्छिन्नसामस्त्यपरत्वं युक्तमिति ऋत्विजामेव हारियोजनभक्षणविधायकमिदं वाक्यमिति निर्णीतं पूर्वतन्त्रे। एवञ्च भेषजत्वोक्त्या लब्धप्रामाण्यानां मनूक्तीनां परमतात्पर्यविषयमाराधनीयं विहाय तदाराधनमात्रे तात्पर्यपर्यवसानायोगस्य उक्तत्वात्। तत्रैव धर्मशास्त्ररूपाणां सर्वासां मनूक्तीनां परमतात्पर्यविषयमाराधनीयं विहाय तदाराधनमात्रे तात्पर्यपर्यवसानायोगस्य उक्तत्वात्। तत्रैव धर्मशास्त्ररूपाणां सर्वासां मूक्तीनां प्रामाण्यं लभ्यत इति तत्र तस्याप्ततमत्वम्। तथा "सहोवाच व्यासः पाराशर्य" इति श्रुत्या स्वप्रतिपाद्येऽर्थे व्यासोक्तत्वेन गौरवप्रदर्शनात् तथा व्यासोपदिष्टानां सर्वेषां प्रामाण्यं लभ्यत इति तस्याप्ततमत्वम्। एवं याज्ञवल्क्यादीनामपि "जनकोह वै देहो बहुदक्षिणेन यज्ञेनेज" इति बृहदारण्यकाध्यायादिवचनभङ्गीभिराप्ततमत्वं, कपिलस्यत्वाप्तत्वमात्रम्। "ऋषिं प्रसूत" मित्यादेस्तदृषित्वोपयो- गिकतिपयवेदवेदार्थगोचरज्ञानवत्त्वमात्रविषयत्वेनापि चारितार्थ्यात्। तथा सांख्यशास्त्रप्रवक्तारः कपिलासुरिपञ्चशिखादयस्त्रिचतुराएव स्मृतीतिहासपुराणवक्तारो मन्वादयस्त्वतिबहवइति सुप्रसिद्धम्। स्मृतीतिहासपुराणानिच कपिलादिप्रणीतकतिपयसूत्ररूपात् सांख्यशास्त्रात् अतिबहुलानीतिव्यक्तमेव। तस्मादाप्ततममन्वादिबहुप्रणीतबहुशास्त्रविरोधात् सांख्यशास्त्रस्य निरवकाशत्वमकिंचित्करमिति निवकाशाभिर्मन्वादिस्मृतिभिरेवोपबृह्मणीया वेदांताः। ततश्च तेषां समन्वयात् ब्रह्मणोजगत्कारणत्वमविचलमिति।।
संग्रहकारिकाः।।
वेदान्तौघस्य सांख्यस्मृतिरतिगहनस्यार्थतत्वावधृत्यै
वक्तुं युक्तोपबृह्मण्यनितरविषया साह्यलब्धावकाशा।
नत्वन्या कापि धर्मावगतिपरतया विश्रुता सावकाशा
तस्माद्वेदान्तवेद्यं न भवति जगतः करणं ब्रह्मतत्ते।।
मैवं मनुव्यासमुखस्मृतीनामपि प्रतीतोऽनवकाशभावः।
आराधनीये खलु कर्मभिस्स्वैर्नारायणे भावमुशन्ति तासाम्।।
तस्माद्भजन्त्याप्ततमैः प्रणीतास्ताएव तेषामुपबृह्मणत्वम्।
या तद्विरुद्धार्थरैव दृष्टा सांख्यस्मृतिर्भ्रान्तिनिबन्धना सा।।
इति स्मृत्यधिकरणम्।।
।।एतेन योगः प्रत्युक्तः।।3।।
अत्रापि विषयसंशयपूर्वपक्षसिद्धान्तहेतवः पूर्ववद्ब्रष्टव्याः। हिरण्यगर्भस्य भ्रमासम्भवात् तत्कृतस्य
शास्त्रस्येश्वराभ्युपगमेन श्वेताश्वतरोपनिषदाद्युक्तयोगानुष्ठानवर्णनेन च कपिलादिस्मृतिवैलक्षण्येन च वेदान्तान्तरङ्कत्वात् तेनोपबृंहणीया वेदान्ता इति तदुक्तरीत्या ईश्वराधिष्ठितस्य प्रधानस्य कारणत्वोनाभ्युपगन्तव्यत्वात् ब्रह्म कारणमित्येतदयुक्तं इत्यस्यातिदेशाधिकरणस्याधिका शङ्का। हिरण्यगर्भस्यापि क्षेत्रज्ञत्वेन तत्कृतस्य शास्त्रस्य भ्रममूलत्वसंभवात्, अब्रह्मात्मकप्रधानकारणत्वाभ्युपगमात्, ईश्वरस्य निमित्तमात्रत्वाङ्गीकारात्, वेदांताभिमतध्येयवैषम्यात्, तन्निरूप्यविलक्षणध्यानविधानाच्च विरुद्धेन तेन वेदान्ता नोपबृंहणीया इति तत्परिहारः।।
संग्रहकारिका।।
योगस्तर्ह्युपबृंहणत्वमयतां सह्यब्जभूनिर्मित-
स्तत्राङ्गीकृत ईश्वरश्श्रुतिमितो योगश्च तद्रोचरः।
मैवं श्रुत्युदितेश्वरात्तदुदिताद्योगाच्च तद्गोचरा-
द्वैलक्षण्यजुषौ हि तौ भववतः कस्येह नास्ति भ्रमः।।
इति योगप्रत्युक्त्याधिकणम्।।
न विलक्षणत्वादस्य तथात्वञ्च शब्दात्।।
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्।।
दृश्यते तु।।
असदिति चेन्न प्रतिषेनुगतिभ्याम्।।
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्।।
न तु दृष्टान्तभावात्।।
स्वपक्षदोषाच्च।।
तर्काप्रतिष्ठानादपि।।
अन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः।।
मन्वादिस्मृतिभिरोवोपबृंहणं कार्यमित्युक्तमयुक्तम्। तासां तर्कविरुद्धत्वात्। अतस्तर्कानुगृहीतया सांख्यस्मृत्यैवोपबृंहणं कार्यमिति प्रत्यवस्थानात्सङ्गतिः। ब्रह्मकारणत्वं युक्तमयुक्तंवेति चेतनात् ब्रह्मणोऽचेतनतया तद्विलक्षणस्य जगत उत्पत्तिसम्भवासम्भवाभ्यां संशये पूर्वपक्षः चेतनाद्ब्रह्मणोऽचेतनस्य जगत उत्पत्तिर्न सम्भवति। विलक्षणत्वात्। घटकुण्डलमृत्सुवर्णादीनां मृत्त्वसुवर्णत्वादिकारणगतासाधारणरूपेण सालक्षखण्ये सत्येव हि कार्यकारणभावो दृष्टः। चेतनस्य च चेतनत्वमसाधारणं न तत्कार्येषूपलभ्यते। न च कदाऽप्युनुपलभ्यमानं चैतन्यं सुषुप्तजीवेष्विव घटादिष्वनुद्भूतं श्रुत ब्रह्मकारणताऽन्यथाऽनुपपत्त्या कल्पनीयम्। सति चैतन्ये कदाचिदुद्भवावश्यम्भावेन तथा कल्पनाऽयोगात्। अन्यथा श्रुतयृपादित्यभावान्यथानुपपत्त्या यूपेऽप्यनुद्भूतादित्यत्वकल्पनापत्तेः, "विज्ञानञ्चाविज्ञानञ्चे"त्यादिचेतनाचेतनविभाजकश्रुतिविरोधापत्तेश्च विलक्षणाविलक्षणयोः कार्यकारणभावाभ्युप गतौ वैलक्षण्ये सति भेदावश्यंभावेन कार्यकारणैक्यसिद्धांतविरोधापत्तेश्चेति। सिद्धांतस्तु-
क्रिमिमाक्षिकादिषु सत्यपि वैलक्षण्ये कार्यकारणभावो दृश्यते। तत्राचेतनांश एव माक्षिकप्रकृतिक इति सालक्षण्यमस्तीति चेत् न। यथा कथञ्चित्सालक्षण्यस्य कार्यकारणभावप्रयोजकत्वे सर्वस्य सर्वस्मादुत्पत्तिः
प्रसज्यत #िति कारणगतासाधारणरूपेण सालक्षण्यं तवाभिमतम्। न च तदिहोपपादयितुं शक्यम्। क्रिमौ माक्षिकत्वस्याभावात्। एवमुपपद्यते विलक्षणयोरपि जगद्ब्रह्मणोः कार्यकारणभावः। न च तथा सति भेदाभ्युपगमापत्तिः। सालक्षण्यप्रतिषेधेऽपि कुण्डलहिरण्ययोरिवाभेदोपपत्तेः। न च जगद्ब्रह्मणोरभेदे जगत्सृष्ट्यादिषु सत्सु हेया जगदवस्थाः जगतीव ब्रह्मण्यपि स्युरित्येकस्मिन्नेव ब्रह्मणि हेयगुणाः तद्विरुद्धाः श्रुत्यन्तरसिद्धापहतपाप्मत्वादयश्चेत्यसामञ्जस्यापत्तिः। सूक्ष्मचिदचिद्वस्तुशरीरकं ब्रह्म कारणं, स्थूलचिदचिद्वस्तुशरीरकं ब्रह्म कार्यमित्येवंरूपे सिद्धान्ताभिमते कार्यकारणाभेदे तदप्रसक्तेः शरीरगतधर्माणां शरीरिण्यप्रसङ्गे बाल्ययौवनत्थाविरादीनामात्मन्यसम्बन्धस्य दृष्टान्तस्य सद्भावादिति। एवं च यद्यपि स्थूलसूक्ष्म शरीररूपविशेषणांशे कार्यकारणयोरचेतनत्वेन विशेष्यांशे तयोश्चेतनत्वेन च सालक्षण्यमस्तीति वक्तुं शक्यम्, तथाऽपि कारणगतविशेष्यांशस्य कार्यगत विशेषणांशेऽपि कारणत्वं वक्तव्यमित्यभ्युपेत्य वैलक्षण्यम्। तत्र दृष्टान्त
उपन्यस्तः। बाल्यावस्थस्य यौवनाद्यवस्थान्तरापत्तावपि हि कारणगतविशेष्यांशस्य कार्यगतविशेषणांशेऽपि कारणत्वमस्ति, निरात्मकशरीरस्य यौवनादिप्राप्त्यभावात्, तथेहापि सत्यपि वैलक्षण्ये कार्यकारणभाव उपपद्यत इति दर्शयितुम्।।
संग्रहकारिके।।
अचेतनं चेतनतः कथं स्याद्विलक्षणाद्विश्वमिति स्थवीयः।
विशिष्टयोः कारणकार्यभावे न चोद्यमेतद्धि पदं लभेत।।
तथाऽपि तर्कप्रतितर्कउच्यते न सर्वसाम्यं क्वचिदप्युदीक्ष्यते।
यथा कथञ्चित्प्रकृतेऽपि वर्तते विशेषतो न क्रिमिमाक्षिकादिषु।।
इति विलक्षणत्वाधिकरणम्।।
एतेन शिष्टापरिग्रहा अपि व्याख्याताः।।
प्रधानकारणवादिसांख्यामात्रतर्केण समन्वयभङ्गाभावेऽपि परमाणुकारणवादिकणभक्षाक्षचरणक्षपणकादि- बहुत्वान्त्रिकाभिमततर्केण तद्भङ्गस्स्यादित्यधिकाशङ्कानिरासाय पूर्वन्यायातिदेशार्थमिदमधिकरणम्। परमाणुकारणवादिनां तर्केण समन्वयभङ्गो भवति न वेति तेषा परस्परविरोधसद्भावेऽपि तद्भङ्गसामर्थ्यसम्भवतदसम्भवाभ्यां संशये पूर्वपक्षः। सम्भवति तद्भङ्गे सामर्थ्य, यथा शुनां परस्परविरोधसत्त्वेऽपि एकं वराहं मारयितुमैकमत्येन तद्भक्षणलिप्सया प्रवृत्तानां सर्वेषां शुनां तदलाभेऽपि वराहस्य मारणं भवति। एवं परमाणवस्सत्याः शून्याः विज्ञानात्मकाः क्षणिकाश्चतुर्विधाः एकविधा इत्येवमवान्तरकलहसद्भावेऽप्यल्पपरिमाणानामेव तंत्वादीनां महापरिमाणपटाद्यारम्भकत्वदर्शनात् तद्विपरीतपरिमाणयोर्ब्रह्मजगतोरुपादानोपादेयभावो न सम्भवतीति प्रतिष्ठितेन सकलपरमाणुवाद्यभिमतेन तर्केण तद्भङ्ग उपपद्यत इति पूर्वः पक्षः। सिद्धान्तस्तु-
यथा नानादिग्विप्रकीर्णमपि बहुलन्तमस्तोमं एक एवादित्यः प्रतिक्षिपति, एवमुदाहृतं अन्यदप्येतादृशं तर्कजालं "यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मय" मित्याद्यो मृत्याद्यो मृत्पिण्डारब्धघटशरावादिप्रत्युदाहरणेन प्रतिक्षिपन् वेद एव जागर्तीति नात्रप्रयतितव्यमस्तीति।।
संग्रहकारिके।।
अणुकारणता बहवादिमता प्रतितिष्ठति तर्क इहेति मुधा।
तदवान्तरभेदकथाकलहक्षपितश्श्रुतिसीम्नि न स प्रभवेत्।।
अल्पान्महत्स्यान्महतो नाल्पमित्येष वादिनां।
श्ववराहनयः क्षिप्तः श्रुत्या दृष्टान्तवर्णनात्।।
इति शिष्टापरिग्रहाधिकरणम्।।
।।भोक्रापत्तेरविभागश्चेत्स्याल्लोकवत्।।
पूर्वाधिकरणस्यातिदेशाधिकरणत्वात् तद्विहाय तन्मूलाधिकरणेन सङ्गतमिदमधिकरणम्। तत्र हि "न तु दृष्टान्तभावा"दिति सूत्रेण शरीरगतबालत्वयुवत्वादीनां शरीरिण्यप्रसङ्गं दृष्टान्तीकृत्य चिदचिच्छरीरकं ब्रह्मेति तद्गतदोषाणां ब्रह्मण्यप्रसक्तिरुक्ता। साऽनुपपन्ना। जीववच्छरीरित्वे तत्कृत सूखदुःखभोगप्रसक्तेरित्याक्षिप्यते। प्रथमेऽध्याये "सम्भोगप्राप्तिरिति चेन्न वैशेष्या"दिति सूत्रेण परस्यास्मदादिशरीरानुप्रवेशप्रयुक्ता सुखदुःखभोगप्रसक्तिर्निराकृता। यथा परगृहप्रविष्टस्यागृहस्वामिनो गृहसाकल्यवैकल्यप्रयुक्तहर्षविषादभाक्त्वं नास्ति एवं परस्यापीति। इह पुनः शरीरस्वामित्व प्रयुक्ता सा निराक्रियते। "न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ती"ति श्रवणात् शरीरस्वामित्वे तत्कृतसुखदुःखभोगो न निवारयितुं शक्य इति पूर्वः पक्षः। सिद्धान्तस्तु-
यथाऽपराधिनमपराधानुगुणं क्लेशयितुं तदर्थं कारागृहं निर्माय तत्क्लेशनार्थं स्वयमपि तत्र प्रविष्टस्य स्वतन्त्रस्य तत्कृतक्लेशभाक्त्वं न भवति, एवं परस्यापि। "नहवै सशरीरस्ये"त्यादिश्रुतिरपि स्वकर्मोपार्जितशरीरविषया। न तु शरीरस्वामिमात्रविषया। अन्तर्यामिब्राह्मणो- "यस्य पृथिवी शरीर"मित्यादिना परस्य पृथिव्यादिशरीरस्वामित्वमुक्त्वा
तत्तदभिमानिदेवतावत् तत्कृतसुखदुःखभाकत्वशङ्कानिरासायैव प्रतिपर्यायं "एषत आत्माऽन्तर्याम्यमृत" इत्यमृतत्ववचनादिति।।
संग्रहकारिके।।
यदि वर्ण्येत चिदचिच्छरीरं ब्रह्म कारणम्।
तदा शरीरिणोऽस्य स्यात् भोक्तृत्वं सुखदुःखयोः।।
मैवं कर्मकृतं तन्न शरीरकृतं ततोऽस्य तन्न भवेत्।
राजानुग्रहनिग्रहवशवर्तित्वं यथा राज्ञः।।
इति भोक्त्रापत्त्यधिकरणम्।।
तदनन्यत्वमारम्भणशब्दादिभ्यः।।
भावेचोपलब्धेः।।
सत्वाच्चापरस्य।।
असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेश्शब्दान्तराच्च।।
पटवच्च।।
यथा च प्राणादिः।।
विलक्षणत्वाधिकरणे कारणात् ब्रह्मणः कार्यस्य जगतो वैलक्षण्येऽप्यनन्यत्वं "असदिति चेन्न प्रतिषेधमात्रत्वा" दिति गुणसूत्रोक्तं कुण्डलहिरण्यन्यायेन सांख्यंप्रत्युपपादितम्। इदानीं वैलक्षण्ये सत्यनन्यत्वमयुक्तम्। वैलक्षण्यस्य भेदव्याप्तत्वात्। अत एव कुण्डलहिरण्ययोरप्यनन्यत्वमसिद्धम्। सर्वत्र कार्यकारणयोर्बुद्धिशब्दान्तरादिभिर्भेदावश्यम्भावादिति वदतो वैशेषिकस्य मतमास्थायानन्यत्वमाक्षिप्य समाधीयत इति सङ्गतिः। तत्रैवं पूर्वपक्षः- अनन्यत्वे ब्रह्मणो जगत्कारणत्वं न संभवति। लोके कार्यकारणभूतानां घटमृत्पिण्डादीनां बुद्धिशब्दान्तरादिभिः कार्यकारणभावस्य भेदव्याप्तिनिर्धारणात्। नहि मृत्पिंडे पिंडशब्दो वा घटे वा पिंडाकारा बुद्धिरुदेति। न च घटशब्दो मृत्पिंडे पिंडशब्दो वा घटे प्रयुज्यते। न च पिंडाकारो घटे पृथुबुध्नोदराकारो मृत्पिंडेवाऽस्ति। न च मृत्पिंडेनोदकाहरणं घटेन वा कुड्यनिर्माणं क्रियते। न च तंतुष्विव पटे बहुत्वं पटइव तंतुष्वेकत्वं वाऽस्ति। न च घटस्येव मृत्पिंडस्य दण्डचक्रादि कारणम्, मृत्पिंडस्येव घटस्य जलसंयोजनपूर्वकमर्दनं वा कारणं भवति। न चोत्तरकाले मृत्पिंडः पूर्वकाले घटोवाऽस्ति। न च पूर्वकाले घटादिदर्शनमुत्तरकाले मृत्पिंडदर्शनं वाऽस्ति। तस्माद्बुद्धिशब्दादिभेदात् कार्यकारणयोर्भेद एष्टव्यः। एकस्मिन्नेव शरीरे बाल्ययौवनाद्यवस्थाभेदेनेव एकस्मिन्नेव मृद्द्रव्ये पिंड घटावस्थाभेदेन बुद्धिशब्दान्तरादय उपपद्यन्त इति चेत् न । अवस्थानामनित्यतायामसत्कार्यवादापत्तेः, अनित्यानामवस्थानां प्राक्सता कारणेनानन्यत्वासम्भवात्
कार्यकारणानन्यत्वसिद्धांतभङ्गापत्तेश्च। तासामपि नित्यातायां बुद्धिशब्दान्तरादिव्यवस्थित्यसम्भवात् दण्डचक्रादिकारणकलापवैयर्थ्यप्रसङ्गाच्च। ननु मृदः पिण्डतादशायामनभिव्यक्ता घटावस्था, अभिव्यक्तैव सा बुद्धिशब्दान्तरादिभाजनं, अभिव्यक्त्यर्थश्च दण्डचक्रादि कारणकलापः। न च तथा सति मृत्पिण्डगतघटावस्थाभिव्यक्त्यर्थेन दण्डचक्रादिव्यापारेण तद्गतकरककपालमणिकमल्लकाद्यवस्थानामप्यपवरकगतघटाभिव्यक्त्यर्थमारोपितेन प्रदीपन तद्गतकरकादीनामिवाभिव्यक्तिप्रसङ्गः। नैल्योत्पलत्वयोः प्रदीपप्रभयोत्पलत्वस्यैवाभिव्यक्तिः। कूपजलस्य कूपान्तरस्थितिसमये जलत्वशौक्ल्ययोर्जलत्वस्यैवाभिव्यक्तिरित्यादिव्यवस्थादर्शनेन तद्वदिहापि यथा दर्शनमभिव्यङ्ग्याभिव्यञ्जकभाववैचित्र्योपपत्तेरिति चेत्- मैवम्।
अभिव्यक्तावपि नित्यत्वानित्यत्वविकल्पे पूर्वोक्तदोषानातिप्रसक्तेः।किंच केयमभिव्यक्तिः, ज्ञानं चेत्, तदा दण्डचक्रादिमेलनस्य घटज्ञानकारणत्वापत्त्या तस्मिन्नसति क्वचिदपि घटज्ढानोदयो न स्यात्। आवरणाभिभवश्चेत् तेन किमावरणमभिभूयते? पूर्वं मृदिस्थिता पिंडावस्थेति चेत्-न। तथा सति घटध्वंसकमुद्गरपातानंतरमपि घटावस्थायाः प्रतीतिप्रसङ्गः। तदावरणभूतायाः पिण्डावस्थायास्तिरोहितत्वात्। ननु तदानीं मुद्गरपाताभिव्यक्ता कपालावस्था तदावरणं, स्वकारणाभिव्यक्तायाः कस्याश्चित् कार्यावस्थायाः तद्गतसकलकार्यावस्थांतरावरणत्वाभ्युपगमात्। न च तथा सति कपालेषु कदाचित् घटकारणमेलने घटावस्थाभिव्यक्तिप्रसङ्गः। इष्टापत्तेः। कपालानि चूर्णीकृत्य जलमृदन्तरसंयोजनमर्दनव्यापारैर्मार्दवं
प्रापय्य दण्डचक्रादिमेलने घटाभिव्यक्तिदर्शनात्। न च दग्धपटकारणानां पुनः पटभावो न दृश्यत इति शङ्कनीयम्। तद्भस्मनां क्षितितलपतितानां तत्क्षितिप्ररूढकार्पासतरुफलपरिणतौ क्रमेण तेषां पटभावाभिव्यक्तिदर्शनादितिचेत् मैवं। एवं घटाद्यवस्थानां पिण्डाद्यवस्थास्वपि सद्भावस्य तदानीं तदप्रतीत्यर्थं प्रतीयमानपिंडाद्यवस्थानां तदावरणत्वस्य च कल्पने कल्पकाभावात् यथानुभवमवस्थानामागन्तुकत्वेन व्यवस्थित्युपपत्तेः। अन्यथा कदाचित् कस्याश्चितेवावस्थाया अनुभवः, नावस्थान्तराणामित्यनुभवाननुभवव्यवस्थाया अप्यनुपपत्तेः। न ह्यभिव्यक्तिरनुभवस्वयंवरलभ्यः, येन दंडचक्रादिसमवधानात्पूर्वं पिंडावस्थाया एवानुभवः, तदनन्तरं घटावस्थायाएव। ततो मुद्गरपातानन्तरं कपालावस्थाया एवेत्यादिव्यवस्था सिध्येत्। न च जलसंयोजनमृण्मृदुकरणादिकं दण्डचक्रादिकं मुद्गरपातनादिकञ्च पिंडघटकपालावस्थानामनुभवेषु वा तत्तदितरावस्थानामननुभवेषु वा करणानीत्युक्त्या तथा व्यवस्थानिर्वाहः। उदाहृततत्तत्कारणसमवधानेष्वतीतेष्वपि पिंडाद्यवस्थानामनुभवस्य तत्तत्प्रतिद्वंद्विव्यवस्थानामननुभवस्यचानुवृत्तिसत्त्वात्। तस्माद्यथानुभवं पूर्वं पिंडावस्थैव, मध्ये घटावस्थैव, ततःकपालावस्थैवेति व्यवस्थैवाङ्गीकर्तुं युक्ता। तथा सत्यवस्थानामागन्तुकत्वेनासत्कार्यवादः प्रसज्यत इति तत्परिहारार्थमिदंकल्प्यत इति चेत्, किमभिव्यक्तीनामागन्तुकत्वे स न प्रसज्यते, अभिव्यक्तीनामपि नित्यत्वे तु कथमपि त्वदुक्तव्यवस्थासिद्धिः। एवमवस्थानां तत्तदभिव्यक्तीनां वाऽऽगन्तुकत्वेवासत्कार्यवादस्य अप्रतिक्षेप्यत्वस्थितौ द्रव्यमात्रे सत्कार्यवादाभ्युपगमस्य निष्प्रयोजनत्वात्। कुलालेन घटः कृतः, कलादेन कुण्डलं कृतमिति कर्तृकार्ययोरिव मृत्पिण्डेन घटः कृतः सुवर्णेन कुण्डलं कृतमिति समवायिकारणतत्समवेतकार्ययोरप्यबाधित भेदव्यवहारदर्शनात् कार्यकारणयोरवस्थाभेदवद्द्रव्यभेद उपगन्तुं युक्तः। "मृद्धटस्सुवर्णं कुण्डल" मित्यभेदव्यवहारेण भेदव्यवहारो बाधित इति चेत् न। मृत्त्वसुवर्णत्वयोरवयवावयविवृत्तिजातित्वेन तथा व्यवहारोपपत्त्या तेन भेदव्यवहारबाधनायोगात्। अत एव यत्रावयववृत्तिस्तन्तुत्वादिजातिर्नावयविपटादिवृत्तिः, न तत्र तन्तयः पट इत्यादिव्यवहारः। तस्मात् सहावस्थाभिः कार्यकारणद्रव्ययोर्भेद एव युक्त इति लोके कार्यकारणभेदनियमदर्शनात् जगद्ब्रह्मणोरनन्यत्वे ब्रह्मणोजगत्कारणत्वासम्भवात् जगत्कारणे ब्रह्मणि समन्वय इत्येतन्नघटत इति एवंप्राप्ते सिद्धांतः-
तदनन्यत्वं परमकारणाद्ब्रह्मणोऽनन्यत्वमेव। जगतः तदुपपादयद्भ्य आरम्भणशब्दादिभ्यः। तथा च छान्दोग्ये- "श्वेतकेतुर्हारुणेय आस तं ह पितोवाचे"ति प्रस्तुत्य "श्वेतकेतो वस ब्रह्मचर्यं न व सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवती"ति पित्रा नियुक्तस्य तस्य गुरुकुलवासं प्रतिनिवृत्तिञ्च "सहद्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः पुनरेयाये"त्युक्त्वा तस्य वेदाभ्यासमूलमवलेपं
पश्यतातमवलेपमपनीयतस्याब्रह्मजिज्ञासामुत्पिपादयिषता पित्रा स इत्थं पृष्ट इत्युक्तम्। "स्तब्धोस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञात"मिति। येन श्रुतेन मतेन विज्ञातेन चेत्यर्थः। "आत्मनि खल्वरे दृष्टे श्रुते मतेविज्ञाते इदं सर्वं विदितं भवती"ति श्रुत्यन्तरात्। एवं कृत्स्नस्य जगतो ब्रह्मैककारणकत्वं कारणात् कार्यस्यानन्यत्वं च हृदि निधाय ब्रह्मविज्ञानेन सर्वविज्ञाने प्रतिज्ञाते सति तदभिप्रायमजानता पुत्रेण कथमन्यविज्ञानेनान्यद्विज्ञातं भवतीति मन्यमानेन "कथन्नुभगवस्स आदेश" इति पृष्टे पिता स्वप्रतिज्ढातमर्थमुपपादयितुं कारणात् कार्यस्यानन्यत्वे लौकिकृष्टान्तमुवाचेति वर्णितम्- "यथा सोम्यैकेन मृत्पिंडेन सर्वं मृण्मयं विज्ञातं स्या"दिति । यथा एकमृत्पिण्डारब्धघटशरावाद यस्तदनतिरिक्तद्रव्यत्वात् तज्ज्ञानेन ज्ञाता भवन्तीत्यर्थः। अत्र वैशेषिकप्रक्रियया कारणात्कार्यस्य बुद्धिशब्दान्तरादिभिर्द्रव्यान्तरत्वमाशंक्य लोकप्रतीत्यैव कार्यकारणानन्यत्वमुपपादयितुं वाक्यशेषः "वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्य"मिति। अस्यार्थः- आरभ्यते आलभ्यते स्पृश्यत इत्यारम्भणम्। "यत्पर्यपश्यत्सरिरस्य मध्य" इतिवत् रलयोरभेदाद्रेफः। आलम्भ इह स्पर्शः। "आलम्भस्स्पर्शहिंसयो"रिति हि कोशकाराः। "कृत्यल्युटो बहुल"मिति कर्मणि ल्युट्। वाचा- "घटेनोदकमाहरे"त्यादिवाक्पूर्वकोदकाहरणादिव्यवहारेण हेतुनेत्यर्थः। वाक्पदेनाजहल्लक्षणया व्यवहारस्यापि संग्रहः। वाचेति हेतौ तृतीया, अध्ययनेन हेतुना वसतीतिवत् प्रयोजनस्य हेतुत्वविक्षया प्रयोजनार्था। वाक्पूर्वकव्यवहारसिद्ध्यर्थं मृद्द्रव्येणैव पृथुबुध्नोदरत्वादिविकारस्संस्थानविशेषः ततप्रयुक्तञ्च घट इति नामधेयं स्पृश्यते। "नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्या"मिति विकारनामधेयोभयवर्तिन आरम्भणशब्दस्य नपुंसकशेषतैकवचनञ्च। उदकाहरणादिव्यवहारविशेषसिध्यर्थं मृद्द्रव्यमेवावस्थांतरनामधेयांरभाग्भवति। अतो घटाद्यपि मृत्तिकेत्येव सत्यं प्रामाणिकं न तु द्रव्यांतरत्वेनेति। "आरम्भणशब्दादिभ्य" इत्यादिशब्देन "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं, तदैक्षतबहुस्यांप्रजायेयेती"त्यादयः कार्यकारणयोर्जगद्ब्रह्मणोरननयत्वप्रतिपादकाश्शब्दागृह्यंते। एवञ्च यद्यपि बालस्थविररीत्या
बुद्धिशब्दान्तरादयोऽवस्थाभेदेनेव घटरुचकादिरीत्या द्रव्यभेदेनाप्युपपद्यन्ते। द्रव्यभेद एव चात्यन्तसामञ्जस्यम्। तथाऽपि कार्यकारणानन्यत्वे मृद्घटादिकं दृष्टां तयंत्या श्रुत्याऽवस्थाभेद एव दर्शित इति अवस्थाभेदकृता एव बुद्धिशब्दान्तरादय इत्युररीकरणीयम्। न चावस्थानामागन्तुकतायामसत्कार्यवादापत्तिर्दोषः। सत एव द्रव्यस्योत्पत्तिर्हि सत्कार्यवादः, न त्ववस्थानामप्यनागन्तुकत्वं। न च प्रागपि सतो द्रव्यस्योत्पत्त्यनुपपत्तिः। न ह्यभूत्वा भवनुमुत्पत्तिरित्यभ्युपेयते। किं त्ववस्थान्तरोत्पत्तिरुत्पत्तिः, पूर्वावस्थाप्रहाणं नाश इति। एवं च एकमृत्पिण्डारब्धेषु घटशरावादिष्वेकत्वावस्थाप्रहाणेनानेकत्वावस्थापत्तिः। सांद्रतंत्वारब्धे पटे अनेकत्वावस्थाप्रहाणेनैकत्वावस्थापत्तिः। अतो विरलतंत्वारब्धे पटे पटगतैकत्वावस्थापत्तावपि न तन्तुसतस्तन्तुत्वस्येवाऽनेकत्वस्यापि न ग्रहाणम्। किन्तु तन्तुत्वावच्छेदेनानेकत्वानुवृत्तिः, पटत्वावच्छेदेनैकत्वापत्तिरित्यादयोपि विशेषा यथादर्शनमनुसन्धेयाः। ननु "मृत्तिकेत्येवसत्य"मित्य श्रुत्या घटशरावादिकं मृत्तिकेत्येव प्रामाणिकम्, न तु द्रव्यांतरत्वेनेत्येवमर्थया कार्यकारणद्रव्यानन्यत्वे प्रमाणांतरमप्यादर्शितमिति व्याख्यातम्, तत् किं प्रमाणान्तरमिति चेत्-प्रत्यभिज्ञाप्रत्यक्षमिति ब्रूमः। मृत्पिण्डावस्थासद्भावेपि हि घटशरावादिद्रव्यसद्भावः प्रत्यभिज्ञाप्रत्यक्षेणोपलभ्यते। इदं घटशरावादिकं सर्वं पूर्वाह्ने मृत्पिण्ड एवासीदिति पूर्वाह्नस्थित एक एव मृत्कूटः एतावद्घटशरावादिरूप आसीदिति च प्रत्यभिज्ञा दृश्यते। नन्विदं घटशरावादिकं सर्वं पूर्वाह्ने नासीदित्यपि लोके व्यवहारो दृश्यते। श्रुतावपि "असदेवेदमग्र आसी"दिति प्राग्जगदसत्त्वं व्यपदिश्यते। कथं प्रत्यक्षश्रुतिभ्यां लोकवेदयोः कार्यकारणानन्यत्वव्यवस्थासिद्धिरिति चेत उच्यते- पृथुबुध्नोदरादिस्थूलत्वविरोधिसूक्ष्मत्वं यद्धर्मान्तरं ततोऽयमसद्व्यपदेशः। न तु प्राक्सर्वथैवाभावात्। कुतः श्रुतौ वाक्यशेषात् "इदं वा अग्रेनैव किंच नासी"दित्यत्र हि "तदसदेव सन्मनोऽकुरुत स्या"मितीत्यसतो मनस्काराख्यमानससङ्कल्पप्रतिपादको वाक्यशेषश्श्रूयते। लोकेऽपि तत एवासद्व्यपदेश इति युक्तितोऽवगम्यते। न हि सर्वत्र तत्तद्विरोधिधर्मव्यतिरेकेणाभावोनाम कश्चिदस्ति। कल्पनीयाभाववत् तद्विरोधनः क्लृप्तभावरूपधर्मांतरस्यैवाभावव्यवहारालंबनतोपपत्तावतिरिक्ताभावकल्पने गौरवात्। लोकवेदयोरसद्व्यपदेशप्रतिद्वंद्विनश्शब्दान्तराच्च "सदेव सोम्येदमग्र आसीत्" "इदं घटशरावादिकं पूर्वाण्हे
मृदेवासी"दित्येवंरूपात्तथाऽवगम्यते। असद्व्यपदेशात् सद्व्यपदेशस्य कार्यकारणानन्यत्वपर्यवसायिनो युक्तिसाहित्येन बलवत्तवात्। युक्तिर्हि विरोधिभावधर्मव्यतिरेकेणाभावनामकं वस्त्वन्तरं न कल्पनीयमिति प्रागुपन्यस्ता। यथा तन्तव एव व्यतिषक्ततन्तुव्यतिरेकेण पटनामकमवयविद्रव्यान्तमस्ति। तस्य रूपादिराहित्ये चाक्षुषतवाद्यभावप्रसंगात्। रूपान्तरादिमत्त्वेऽवयवरूपव्यतिरेकेण अवयविनि रूपान्तरस्य गुरुत्वद्वैगुण्यस्य चोपलब्धिप्रसंगात्। एवं व्यतिषक्तन्तूनामेवपटभाववत् एकस्यैव वायोश्शरीरे वृत्तिविशेषेण प्राणापानादिभाववच्च ब्रह्मण एव विचित्रचराचररूपजगद्भावोपपत्तेर्न वस्तुभेदः कल्पनीय इत्यनयापि युक्त्या सद्व्यपदेशेभ्योबलवत्त्वमवधारणीयम्। एवञ्च "सुवर्णेन कुण्डलं कृत" मित्यादिव्यवहारोप्यवस्थाभेदकृतेनैव कार्यकारणभावेन उपपादनीयः। अन्यथा कुण्डलाय सुवर्णे तोलयित्वार्पिते सुवर्णकारेण कुण्डलं कृत्वा द्विगुणगुरुत्वेन तोलयित्वा प्रत्यर्पणीयत्वप्रसंगात्। तस्मान्मृत्पिण्डघटशारावादीनामनुन्यत्वात् तद्दृष्टां तेन ब्रह्मजगतोरप्युपादानोपादेयभूतयोरनन्यत्वमिति।।
संग्रहकारिका।।
कार्याणां बुद्धिशब्दाकृतिफलगणनाहेतुकालादिभेदा-
द्भिन्नत्वंकारणेभ्यस्स्थिरमिति न दशाभेदतस्स्यात्स भेदः।
एकस्यैव ह्यनेका समुदयति दशा हेतुभिः कालभेदात्
सत्वासत्वादिरूपात्तदिदमपि जगद्ब्रह्मणोऽनन्यदेव।।
इति आरम्भणाधिकरणम्।।
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः।।21।।
अधिकन्तु भेदनिर्देशात्।।22।।
अश्मादिवच्च तदनुपपत्तिः।।23।।
ब्रह्मणस्स्वानन्यजगत्स्रष्टृत्वे तस्य हिताकरणादयो दोषास्स्युरित्याक्षेपिकी संगतिः पर्वपक्षश्च- न च प्रसाधितेन मृत्पिंडघटशरावादिदृष्टांतेन ब्रह्मणस्सूक्ष्मचिदचित्प्रपञ्चविशिष्टरूपेण कारणत्वं, स्थूलचिदचित्प्रपञ्चरूपेण कार्यत्वमिति
ब्रह्मण एव कार्यकारणभावेनानन्यत्वमुच्यते, न तु ब्रह्मजगतोरिति वाच्यम्। ब्रह्मणस्सर्वकारणस्य स्वविशेषणे चिदचिदात्मके जगद्रूपकार्येऽपि कारणत्वस्यावश्यवक्तव्यत्वात्। ततश्च ब्रह्मणस्तेनाप्यनन्यत्वं वाच्यमिति सर्वज्ञं सर्वशक्तिकं ब्रह्म स्वाभिन्नत्वेन जीवं पश्यदपि तस्य हितरूपं जगन्नसृजति, अहितरूपमेव जगत्सृजतीति स्वस्यैव हिताकरणादिदोषः प्रसज्यते। अतस्स्वस्मादनन्यदेव जगद्ब्रह्म सृजतीत्येतन्नयुक्तमिति। राद्धान्तस्तु-
जीवादधिकं ब्रह्म ततो भिन्नमेव। "सत्यकामस्सत्यसङ्कल्पः, ज्ञाज्ञौ द्वावजावीशनीशौ, सकारणं करणाधिपाधिपः, अस्मान्मायी सृजते विश्वमेत तस्मिंश्चान्यो मायया सन्निरुद्धः" इत्यादि भेदनिर्देशात्। अनन्यत्वश्रुतयस्तु अपृथग्भावविषयाः। पृथग्भूतप्रकारो हि ब्रह्मणश्चिदचिदात्मकप्रपञ्चः। "सदेवे" त्यादिश्रुतौ अग्रे "इदं सर्वंसदेवासी"दिति सामानाधिकरण्यनिर्देशेन जगतस्सूक्ष्मतादशायां सच्छब्दनिर्दिष्टब्रह्मविशेषणत्वस्य "तदैक्षत बहु स्यां प्रजायेये"ति ब्रह्मणे बहुभवनसङ्कल्पाद्युक्त्या। स्थूलतादशायां तद्विशेषणत्वस्य च प्रतिपादनेन जगतः कदापि ब्रह्मपृथग्भावो नास्तीत्यवगमात् मृद्घटशरावादिरप्यपृथग्भावरूप एवानन्यत्वे दृष्टान्तः। स्वाभिन्नात् स्वस्य कदापि पृथग्भावासंभवात्। न चानन्यत्वश्रुतयाः "सर्वं खल्विदं ब्रह्म तत्त्वमसी"त्याद्यावा मुख्याभेदविषयाः, भेदश्रुतयस्तु तत्तद्विशेषणभेदादौपचारिकभेदविषया इत्यस्त्विति वाच्यम्। तथासीत प्रसक्तहिताकरणादिदोषस्यैव परिहारालाभादश्मकाष्ठलोष्टादिवदस्यन्तहेयगुणानां जीवानां निर्दोषकल्याणगुणैकतानब्रह्माभेदासंभवाच्च। तस्मात् "अवस्थितेरितिकाशकृत्स्न" इत्यादि सूत्रोक्तप्रकारेमानन्यत्वश्रुतय एवापृथग्भूतप्रकारप्रकारिभावविषया इत्येव युक्तमिति।।
संग्रहकारिका।।
एवं जीवा अपि नियमतस्तत्वमस्यादिवाक्या
द्ब्रह्माभिन्ना इति तदहितां नैव कुर्वीत सृष्टिम्।
मैवं वाक्यं न तदभिदया भेदनिर्देशदृष्टे-
स्तत्स्थत्वेनत्वितिहिकथितः काशकृत्स्नीयपक्षः।।
इति इतरव्यपदेशाधिकरणम्।।
उपसंहारदर्शनान्नेतिचेन्नक्षीरवद्धि।।24।।
देवादिवदपि लोके।।25।।
सत्यसङ्कल्पत्वादिभेदनिर्देशादनन्यत्वश्रुतयस्संत्वपृथग्भावमात्रविषयाः। नैवं सत्यसङ्कलप्पत्वेऽपि सर्वशक्तिमत्त्वेऽपि सहकारिसाहितस्य ब्रह्मणो जगदुपादानत्वतत्स्रष्टृत्वश्रुतयस्समर्थयितुंशक्यन्ते। शक्तस्यापि सहकारिरहितस्याकार्यकरत्वादित्युत्थानादवांतरसङ्गतिः। पूर्वपक्षश्च- "सदेव सोम्येदमग्र आसी"दित्यवधारणेन प्राक्त्सृष्टेस्सर्वसहकारिशून्यं खलु ब्रह्म श्रूयते। तत्कथं जगत्कारणभावमश्नुवीत। न च सर्वशक्तिकत्वेन कश्चिद्विशेषः। घटाद्युत्पादनशक्तएव हि कुलालादिस्सहकारिणः अपेक्ष्यैव घटादिकमुत्पादयति। एवं ब्रह्मापि सर्वकार्योत्पादनशक्तञ्चेत्, तत्तत्कार्योचितानि सहकारीण्यपेक्ष्यैव तानि तानि कार्याणि जनयेत्। न हि कुलालो घटोत्पादनशक्तइति सहकार्यनपेक्षः तमुत्पादयति। अशक्तस्सहकारिषु सत्स्वपि न तमुत्पादयतीत्येव शक्तस्याशक्ताद्विशेषः। तस्मात् सहकारिरहितं ब्रह्म न कारणं भवितुमर्हतीति पूर्वःपक्षः। राद्धान्तस्तु-
ब्रह्मणस्सहकारिराहित्येऽपि क्षीरस्य दधिभावापत्तिवत् देवर्षिप्रभृतीनां स्वस्वभोगसाधनस्रष्टृत्ववत् जगदुपादानत्वं तत्स्रष्टृत्ववञ्च उपपद्यते। न च क्षीरस्य दधिभावापत्तौ पाकातंचने सहकारिणी स्तः। न च ब्रह्मणो जगदुपादानत्वे किञ्चित्सहकार्यस्ति। देवादीनाञ्च योगप्रभावासादितैश्वर्यतया भूतवशिनां स्वसङ्कल्पाकृष्टैर्भूतैस्स्रष्टृत्वमुपपद्यते। न तथेश्वरस्य नित्यसिद्धस्य भूतवशितापादको योगप्रभावोऽस्तीतिचेत्- मैवं। विनापि पाकातंचनाभ्यां चिरेण दधिभावो भवत्येव। अचिरेण दधिभावापत्त्यर्थं रसविशेषार्थञ्च तयोरपेक्षा। योगाभ्यासादैश्वर्यावाप्तिश्च श्वेताश्वतरोपनिषदादिमन्त्रार्थवादेभ्योऽवगन्तव्या। ब्रह्मणोऽपि सङ्कल्पमात्रेण स्रष्टृत्वे मन्त्रार्थवादास्संतीति न कश्चिद्विशेषः।
किंच सर्वस्यापि सङ्कल्पमात्रेण स्वशरीरव्यापारयितृत्वं दृष्टम्। कृत्स्नञ्जगत् ब्रह्मणश्शरीरमिति तस्य जगद्व्यापारे न काचिदनुपपत्तिः।।
संग्रहकारिका।।
अग्रे सदेकं सहकारिशून्यं कथं ह्युपादानतया जगत्स्यात्।
सङ्कल्पमात्रेण कथं च कुर्यात् क्षीरादिदेवादिवदित्यवेहि।।
इति उपसंहारदर्शनाधिकरणम्।।
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपोवा।।26।।
श्रुतेस्तु शब्दमूलत्वात्।।27।।
आत्मनि चैवं विचित्राश्च हि।।28।।
स्वपक्षदोषाच्च।।29।।
सर्वोपेता च तद्दर्शनात्।।30।।
विकरणत्वान्नेति चेत्तदुक्तम्।।31।।
यदि क्षीरद्दष्टांतेन ब्रह्मणोजगद्भावापत्तिः, तर्हि कार्त्स्न्येन क्षीरस्य दधिभाववत् ब्रह्मणोऽपि कार्त्स्न्येन जगद्भाव आपद्येतेति आक्षेपिकी सङ्गतिः। पूर्वपक्षस्तु- क्षीरं दध्याकारेणेव ब्रह्म कार्त्स्न्येन जगदाकारेण
परिणमते, उत अग्निसंयुक्तैकभागोजतुपिंडोमुद्रिकाद्युपयुक्तैकदेशेनेव तत्तत्कार्योपयुक्तैकदेशेन परिणमते। नाद्यः। कृत्स्नस्य जगद्भावापत्त्या ब्रह्मावशेषाभावप्रसङ्गात्। न च सूक्ष्मचिदचित्प्रपञ्चविशिष्टं ब्रह्म कारणं, स्थूलचिदचित्प्रपञ्चविशिष्टं ब्रह्म कार्यामिति पक्षे नब्रह्मानवशेषदोषप्रसङ्गः, कार्यरूपतया ब्रह्मावस्थानादिति वाच्यम्। इदानीं कारणरूपेणापि ब्रह्मणस्सत्त्वस्य वक्तव्यत्वात्। अन्यथा कारणस्य ब्रह्मणस्सार्वदिकसत्ताबोधकानां तत्साक्षात्कारोपायविद्याविधायकानांच वाक्यानामानर्थक्यप्रसङ्गात्। सर्वोपादानस्य ब्रह्मणश्चिदचिद्रूपविशेषणांशेऽपि कारणत्वस्य वक्तव्यतया तत्र कृत्स्नस्य ब्रह्मण एककार्यात्मना परिणामे कार्यान्तरात्मना परिणामः कारणब्रह्मावशेषश्च न स्यादिति दूषणस्य वज्रलेपायमानत्वाच्च। तस्मादाद्यः पक्षो न युक्तः। नापि द्वितीयः। निरवयवस्यैंकदेशेन परिणामायोगात् सावयवत्वमिष्यतामिति चेन्न। "निष्कलं निष्क्रियं शांत"मित्यादिनिरवयवत्व श्रुतिव्याकोपप्रसङ्गात्। तस्माद्ब्रह्म जगदुपादानमित्येतन्नयुक्तमिति।। सिद्धांतस्तु-
नैवं शङ्कावकाशोऽस्ति। निरवयवमेव ब्रह्म जगदाकारेण परिणमते। स्वयञ्च यथापूर्वं परिपूर्णमवतिष्ठत इति श्रुत्यैव मुखतः प्रतिपादनात्। न च श्रुतिप्रतिपन्नोऽर्थः कुतर्केणोपनयमर्हति। "नैषा तर्केण मतिरापनेये"ति श्रुतिः। ननु श्रुतिरपि ग्रावप्लवनादिवत् प्रमाणांतरविरुद्धं प्रतिपादयितुं नशक्तोतीति चेत्, न। ब्रह्मणश्शब्दैकबोध्यत्वेन तद्वैलक्षण्यात्। प्रत्यक्षादियोग्येह्यर्थे तद्विरुद्धं श्रुतिरपि न बोधयति। श्रुत्येकगम्यस्त्वर्थो यथा श्रुत्येव सिध्यति। न तु तद्विषयत्वायोग्येन प्रमाणांतरेण बाधितुं शक्यम्। न हि रूपसाधनाक्षमस्य श्रोत्रस्य तद्बाधकत्वमस्ति। किंच जीवात्मन्यचिद्धर्मविलक्षणाः कर्तृत्वभोक्तृत्वादयोऽभ्युपेयन्ते। एवं परमात्मनि चिदचिद्धर्मविलक्षणा धर्माः कुतो न स्युः। लोकेऽग्निजलादयोऽपि औष्ण्यशैत्यादिभिर्विचित्रा दृश्यन्ते। न खलु ते परस्परदृष्टांतेन परस्परविलक्षणधर्मशून्यास्स्वीक्रियन्ते। न च "जातिर्व्यक्तौ नांशेन वर्तते निरवयवत्वात्। नापि परिसमाप्य वर्तते। व्यक्त्यन्तरे तदभावप्रसङ्गा"दिति कृत्स्नैकदेशवृत्तिविकल्पेन जातेर्व्यक्तौ वृत्तिर्निराक्रियते। स्वपक्षे च सांख्यस्य तुल्यमिदं दोषापादनम्, निरवयवं प्रधानं कथमिव महदादिविचित्रकार्यारम्भकमिति। सत्वरजस्तमांसि तस्यावयवास्सन्तीति चेन्न। प्रधानातिरिक्तानां तेषां तदवयवानमभ्युपगमे तत्त्वानां चतुर्विंशतिसंख्याविरोधात्, तेषामपि कृत्स्नैकदेशविकल्पेन महदहङ्काराद्यारम्भकत्वायोगाच्च। परमाण्वादिकारणवादिनामपि कृत्स्नैकदेशसंयोगादिविकल्पैद्र्व्यणुकाद्यारंभायोगाच्च। तस्मात् कल्प्यमपि प्रधानं कृत्स्नैकदेशवृत्तिविकल्पागोचरं मन्यमानस्य श्रुतिसिद्धे ब्रह्मणि का तद्गोचरत्वप्रत्याशा।किञ्च श्रुतिवशादिव सर्वशक्त्युपेतत्वादपि ब्रह्मणो निरवयवस्यापि विचित्रजगदाकारेण परिणामो घटते। सर्वशक्त्युपेतं हि ब्रह्म। "परऽस्य शक्तिर्विविधैव श्रूयत" इत्यादिदर्शनात्। अल्पशक्तिमतामपि प्रपञ्चान्तर्गत चिदचितामतर्कणीया विविधा वैचित्री दृश्यते। सर्वशक्तिमतस्सा कथं न भवेत्। ननु शक्तिमतामपि करणकलेबरापेक्ष एव शक्त्युन्मेषो दृष्टः। अतस्तदनपेक्षं सदपि
सर्वशक्तिमत्त्वमध्ययनानपेक्षं धीशक्तिमत्त्वामिवाप्रयोजकमिति चेत्- अत्रोत्तरमुक्तमेव। शब्दैकप्रमाणकं वस्तु यताशब्दमेव ग्राह्यम्। न तु लोकदृष्टकारणविरहेण प्रत्याख्यातुं शक्यम्। तथैव च श्रुत्तिः- "अपाणिपादो जवनो गृहीता पश्यत्यचक्षुस्सश्रृणोत्यकर्णः। न तस्य कार्यं करणंच विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते। परास्यशक्तिर्विवधैव श्रूयते स्वाभाविकी ज्ञानबलक्रियाचे"ति। अतश्श्रुत्या श्रुतिदर्शितयुक्त्युपोद्बलितया निरवयवमपि ब्रह्म जगदाकारेण परिणमते, तथैव परिपूर्णमतिष्ठते चेति युक्तमेव।।
संग्रहकारिके।।
कृत्स्नं यदि परिणमते ब्रह्म तदा नावशिष्येत।
नांशेन निरंशत्वाद्विशिष्टपक्षेऽपि तुल्यमिदम्।।
एतादृशाः प्रधाने परमाण्वादौ च दोषास्स्युः।
न ब्रह्मणि श्रुतिशतप्रतिपन्ने विविधशक्तियुते।।
इति कृत्स्नप्रसक्त्याधिकरणम्।।
न प्रयोजनवत्त्वात्।।32।।
लोकवत्तु लीलाकैवल्यम्।।33।।
वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति।।34।।
नकर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यतेच।।35।।
सर्वधर्मोपपत्तेश्च।।36।।
युक्त्युपोद्बलितश्रुत्या कृत्स्न प्रसक्त्यादिदोषनिराकरणेन ब्रह्मण उपादानत्वसमर्थनेऽपि स्रष्टृत्वसमर्थनं न संभवति। प्रेक्षावत्प्रवृत्तेः प्रयोजनवत्त्वनियमादित्युत्थानात्संगतिः। पूर्वपक्षस्तु- ब्रह्मणो जगत्सृष्टिस्स्वार्था परार्था वा। नाद्यः। अवाप्तसमस्तकामस्यापेक्षितप्रयोजनाभावाच्च। न च प्रेक्षावतामपि निष्प्रयोजना कंतुकक्रीडादिप्रतीतिर्दृष्टेति शंक्यम्। ततोऽपि क्रीडापराणां तात्कालिकानन्दसत्त्वात्। न च ब्रह्मणो जगत्सृष्टावपि तादृशं प्रयोजनं कल्प्यम्। अवाप्तसमस्तकामत्वश्रुतिविरोधात्। नन्ववाप्तसमस्तकामानामपि राज्ञां कन्तुकक्रीडादिपृवृत्तिर्दृश्यत इति चेत्-न। अवाप्तभोगान्तरप्रयुक्तसकलकामानामप्यनवाप्तकन्तुकक्रीडानन्दार्थमेव तत्र प्रवृत्तेः। न चैवं ब्रह्मणि वक्तुं शक्यम्। किंच स्वप्रयोजनार्थं जीवान् संसारदुःखे निमज्जयतश्च ब्रह्मणो वैषम्यनैर्घृण्ये स्यातां। तल्लीलाचासमञ्जाख्यसगरतनयलीलाकल्पा स्यात्। एतेन परार्थासृष्टिरिति द्वितीयपक्षोऽपि निरस्तः। सृष्टेः पारार्थ्ये हि सर्वान् सुखिन एव सृजेत्। पक्षपातरूपेण वैषम्येण कांश्चित्सुखिनः कांश्चिदुःखिनश्च न सृजेत्। दुःखिनस्सृजतश्च नैर्घृण्यं प्रसज्यते। न च कर्मक्षपणेन रक्षितुमेव पापिनो दुःखं प्रापयति ब्रह्म, यथा व्रणिनो रक्षितुमेव व्रणदाहच्छेददुःखं वैद्यः प्रापयतीति वाच्यम्। व्रणदाहादिकमकृत्वा व्रणशांति कर्तुमशक्तस्य वैद्यस्य दाहादिदुःखप्रापकत्वेऽपि सर्वशक्तिकस्य ब्रह्मणोदुःखमप्रापय्यापि रक्षितुं शक्तस्य तत्प्रापकत्वायोगात्। न च तत्तत्कर्माण्यपेक्ष्य विषमसृष्टिकर्तुः पक्षपातित्वनैर्घृण्यदोषौ न प्रसज्येतेइति वाच्यम्। "सदेव सोम्येदमग्र आसी"दिति ब्रह्ममात्रावशेषत्वेन श्रुतायामाद्यसृष्टौ कर्माभावेन तदानींतनिविषमसृष्ट्या वैषम्यनैर्घ-ण्यप्रसङ्गा निवारणात्। तस्माद्ब्रह्मणो जगत्सृष्टृत्वं न युक्तमिति।। सिद्धान्तस्तु-
सत्यं। प्रयोजनार्थैव प्रेक्षावत्प्रवृत्तिः। इहाप्यस्त्येव सृष्ट्या ब्रह्मणो लीलारूपं प्रयोजनं राज्ञ इव बालस्येव चाक्षद्यूतादिना, "क्रीडा हरेरिदं सर्वं क्षरमित्युपधार्यतां। क्रीडतो बालक्स्येव चेष्टास्तस्य निशामये"त्यादि भगवत्पराशरवचनात्। न चैवं सति ब्रह्मणोऽवाप्तसमस्तकामत्वविरोधः। यद्यदेप्सति तत्तदाऽवाप्तुं सामर्थ्यं ह्यवाप्तसमस्तकामत्वं सार्वभौमादिसाधारणं, न तु सर्वदा सर्वकामावाप्तिमत्वम्। शीतोष्णादिकालभेदेन सुरनरतिर्यगा च विषमसृष्ठ्या वैषम्यनैर्घृण्यदोषापत्तिः, "पुण्यो वै पुण्येन कर्मणा भवति पापः पापेने"ति श्रुतेः। कर्मविशेषमूलं जगद्वैषम्यमीश्वरस्तदुत्पत्तौ निमितमात्रं साधारणकारणम्। यथा सस्योत्पत्तौ पर्जन्यस्साधारणकारणम्।
तद्भूयोऽल्पत्वव्रीहियवत्वादिवैषम्यं क्षेत्रबीजादिविशेषकृतमित्यभ्युपगमात्। यथोक्तं भगवता पराशरेण- "निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि। प्रधानकारणीभूता यतो वै सृज्यशक्तय"इति। सृज्यशक्तयस्सृज्यकर्माणि। एवं च ब्रह्मणः प्रजानां व्यवहारदर्शने तदीययुक्तायुक्तवचनानुसारेणानुग्रहविशेषं कुर्वतो राज्ञ इव न निरवद्यत्वहानिः। प्रत्युत विषमकर्मणामेकरूपसृष्टावेव युक्तायुक्तवादिनामेकरूपानुग्रहे व्यवहारद्रष्टुरिव तद्धानिस्स्यात्। न च सृष्टेः प्रागेकत्वावधारणात् तदा जीवानामप्यभावेन तत्कर्मणामभावश्शङ्कनीय इति वाच्यम्। जीवानां तत्कर्मप्रवाहाणाञ्चानादित्वेनैकत्वावधारणस्य पृथग्व्यपदेशार्हविभक्तनामरूपात्मकस्थूलरूपाभावाभिप्रायत्वात्। अतो जीवतत्कर्मणामनादित्वेन सत्वेऽप्यविभाग उपपद्यते। अनादित्वं जीवानां तत्सृष्टिप्रवाहाणाञ्च "न जायते म्रियते वा विपश्चित्, सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पय" दित्यादिश्रुतिषूपलभ्यते। विचित्रसृष्टिप्रवाहानादित्वेनैव तत्कारणविचित्रकर्मप्रवाहानादित्वमप्यवसीयते। तस्माज्जगदुपादानत्वतत्स्रष्टृत्वोपयुक्तानां सर्वेषां धर्माणां ब्रह्मण्युपपत्तेः प्रधानपरमाष्वादिष्वेव उक्तवक्ष्यमाणन्यायैस्तदुनुपपत्तेः ब्रह्म जगतो मूलकारणामित्येतद्युक्तमेवेति सिद्धम्।।
संग्रहकारिकाः।।
नावाप्तव्यं किमपि फलमस्त्याप्तकामस्य सृष्ठ्या
लीलाऽप्येवं जगति वलते नासमञ्जेतराणाम्।।
तत्पारार्थ्ये कथमपि स्रजेन्नैव कस्यापि दुःखं
कर्मापेक्षा परिहृतिरपि व्यापिका नाद्यसृष्टिः।।
राज्ञइव द्यूतकृतिः लीलेयं ब्रह्मणो जगत्सृष्टेः।
कर्मापेक्षानियमान्नविषमता नापि नैर्घृण्यम्।।
तच्चास्ति प्रलयेष्वपि संसारभुजामनादित्वात्।
श्रुतिषु सदेवेत्यवधृतिरविभागार्हास्तदाऽतइति।।
कारणतानिर्वाहो यैस्स्यात्सर्वेऽपि ते धर्माः।
उपपद्यन्ते ब्रह्मणि तद्वैकल्यं प्रधानादौ।।
इति प्रयोजनवत्त्याधिकरणम्।।
इति श्रीमद्भरद्वाजकुपलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजि
द्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे
नयमयूखमालिकाख्ये द्वितीयपरिच्छेदे द्वितीयस्याध्यायस्य
प्रथमः पादः।।
।।श्रीमते हयवदनपरब्रह्मणे नमः।।
।।अथ द्वितीयस्याध्यायस्य द्वितीय पादः।।
रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्र्व।।1।।
पयोऽम्बुवच्चेत्तत्रापि।।2।।
व्यतिरेकानवस्थितेश्र्वानपेक्षत्वात्।।3।।
अन्यत्राभावाच्च न तृणादिवत्।।4।।
पुरुषाश्मवदिति चेत्तथाऽपि।।5।।
अंगित्वानुपपत्तेश्च।।6।।
अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात्।।7।।
अभ्युऽपगमेऽप्यर्थाभावात्।।8।।
विप्रतिषेधाच्चासमंजसम्।।9।।
प्रथमाध्यायप्रतिपादिते ब्रह्मणो जगत्कारणत्वे प्रधानपरमाणुकारणवादिभिस्सांख्य वैशेषिकादिभिः
केवलतर्कमवष्टभ्यापादितानि दूषणानीति प्रथमपादेन निराकृतानि। तत्रापि प्रणेतृगौरवेण तेषां तर्काणामुपादेयत्व शङ्कास्मृत्यधिकरणयोगाधिकरणाभ्यांनिराकृता। तत्तत्तर्कस्वरूपपर्यालोचनया तेषामुपादेयत्वशङ्का नविलक्षणत्वाधिकरणमारम्भ निराकृता। एवमाद्याधिकरणयोस्तृतीयादीनामष्टानामधिकरणानाञ्चावान्तरार्थभेदेऽपि ब्रह्मवादप्रतिक्षेपकतर्कनिराकरणार्थत्वेनैकार्थ्यं, अस्मिन्पादे शुष्कतर्कालम्बनास्सांख्यादिपक्षास्तथाभूतैरेव तर्कैर्दूष्यन्ते। अन्यथा प्रधानादिकारणत्वप्रतिष्ठापकानां परपक्षाणां तदर्काभासमूलत्वं जानतां मन्दधियां तेषु प्रामाणिकत्वशङ्कया ब्रह्मवादश्रद्धा शिथिलीभवेत्। एवं स्वपक्षस्थापनार्थः प्रथमपादः। परपक्षप्रतिक्षेपार्थोऽयं पादः। स्वपक्षस्थापनस्याभ्यर्हितत्वात् प्रथमं कृतमिति तदानन्तर्यमस्य। यद्यपि तृतीयचतुर्थपादयोरपि कार्यगोचरश्रुतिविरोधपरिहारेण स्वपक्षस्थापनं क्रियते, तथाऽपि कारणविषयत्वेन प्रथमद्वितीयपादयोरैकार्थ्येन अवान्तरसङ्गतिः। तत्र वैदिकानुमतसत्कार्यवादाद्यभ्युपगमेन सांख्यमतस्योपादेयत्वसम्भावनास्पदत्वातिरेकात् प्रथमं तन्निराकरणं क्रियते। सांख्याः स्वतन्त्रतर्कैः स्वमतं प्रसाध्य स्वमतानुगुण्येन श्रुतिवाक्यानां नयनं कुर्वन्ति। तैः कृतनयनमीक्षत्याद्याधिकरणेषु निराकृतम्। इदानीं तदीयास्स्वतन्त्रतर्का निराक्रियन्त इति न पौनरुक्त्यम्।
एषा सांख्यानां प्रक्रिया "मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयस्सप्त। षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः"। तत्र मूलप्रकृतिः सत्वरजस्तमोगुणरूपाणां द्रव्याणां साम्यावस्था। साचैका स्वयमचेतना सकलचेतनभोगापवर्गार्था नित्या सर्वगता च स्वयं प्रकृतिरेव न कस्यचिद्विकृतिः। महदाद्याः प्रकृतेर्महान् महतोऽहङ्कारः अहङ्कारात् पञ्च तन्मात्राणि शब्दस्पर्शरूपरसगन्धात्मकानीत्येतास्सप्त स्वस्वकार्यापेक्षया प्रकृतयः स्वस्वकारणापेक्षया विकृतयश्च। आकाशादीनि पञ्च महाभूतानि श्रोत्रादीनि पञ्च ज्ञानेन्द्रियाणि वागादीनि पञ्च कर्मेन्द्रियाणीति षोडशको गुणो विकृतिरेव नकस्यचित्तत्वान्तरस्य प्रकृतिः पुरुषस्त्वपरिणामित्वान्नकस्यचित्प्रकृतिः। नित्यत्वान्नकस्यचिद्विकृतिः। निर्धर्मकश्चैतन्यमात्रवपुः सर्वगतः प्रतिशरीरं भिन्नश्च। निर्विकारत्वान्नकर्ता, नापि भोक्ता। एवंभूतेऽपि तत्वे मूढाः प्रकृतिपुरुषसन्निधिमात्रेण पुरुषस्य चैतन्यं प्रकृतावध्यस्यन्ति। तेन चैतन्ययोगात् कर्तृशक्तिमत्त्वाच्च ज्ञातृत्वम्। प्रकृतेरेवान्तः करणरूपापन्नायाः तस्याश्च कर्तृत्वं पुरुषेऽध्यस्यन्ति। एवमन्योन्याध्यासादहंकर्ता अहंभोक्तेत्यभिमानात्मकोभोगस्तत्वज्ञानादपवर्गइत्येवं पञ्चविंशतिस्तत्वानीति। तत्र सकलमूलकारणत्वाभिमतत्वज्ञानादपवर्गइत्येवं पञ्चविंशतिस्तत्वानीति। तत्र सकलमूलकारणत्वाभिमतस्वतन्त्रप्रधानानुमाननिरसनेन तन्मतं सर्वं निरस्तं भवतीति तदिह निरस्यते। इदमिह तेषामनुमानं- सर्वं कार्यं सुखदुःखमोहात्मकद्रव्यप्रकृतिकं, तत्समन्वितत्वात्। सामान्यव्याप्तौ घटादिवदिति। आद्यानुमाने सुखदुःखमोहात्मकानि द्रव्याणि कार्याणां कारणत्वेन सिध्यंति सत्वरजस्तमांस्येव पर्यवस्यंति, तेषान्तथात्वात्। उक्तंतत्वसंग्रहे- "प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्था"इति। अयमर्थः- सत्वरजस्तमोगुणाः प्रीत्यप्रीतिविषादात्मकाः क्रमात्सुखदुःखमोहात्मकाः क्रमादेव प्रकाशप्रवृत्तिनियमप्रयोजनाश्च। स्वच्छं सत्वं प्रकाशयति, रजोगुणः प्रकाशकार्ये सत्वं प्रवर्तयति, लघोस्सत्वगुणस्य चलनस्वभावेन रजसा सर्वत्र प्रवर्तने प्रसक्ते यथाकार्यं गुरुस्तमोगुणो नियच्छतीति। नचाद्यहेतोरसिद्धिः। कार्याणां सुखदुःखमोहान्वितत्वस्य लोकसिद्धत्वात्। तथाहि- घटो येन प्राप्यते तं प्रति सत्वगुणोद्भवात् घटस्सुखात्मकोभवति। यदीयस्सोन्येनापह्रियते तं प्रति रजोगुणोद्भवात् दुःखात्मकोभवति। यस्य तस्मिन्नुपेक्षया दर्शनमेव नोदेति तं प्रति तमोगुणोद्भवात् मोहात्मकोभवति। "मुहवैचित्त्य"इतिधातुः। नच गुणानां पुरुषभेदव्यवस्थयोद्भवे विनिगमनाविरहः। तत्तत्पुरुषभोगरूपप्रयोजनवशादुद्भवासिद्धेः। तद्यथा- सत्वं रजस्तमसी कञ्चित्प्रति कदाचिदभिभूय शान्तां स्ववृतिं्त लभते, एवं रजस्सत्वतमसी अभिभूय घोरां स्ववृतिं्त, तमः सत्वरजसीआभिभूय मूढां स्ववृत्तिमिति। नच द्वितीयानुमानस्य परमाण्वादिकारणकत्वेनार्थान्तरं, लाघवादेककारणकत्वसिद्धेः। नच तथापि ब्रह्मप्रकृतिकत्वेनार्थान्तरं जडं सुखदुःखमोहात्मकं कार्यजातं प्रत्यतथाभूतस्य कारणत्वेन सिध्यनवकाशादिति। एवंरूपस्य सांख्यानुमानस्य दुषणानुमानमुच्यते। प्रधानं न जगद्रचनायां समर्थम्। अचेतनत्वे सति चेतनानधिष्ठितत्वात्। यदेवं तदेवम्। यथा चेतनानधिष्ठितं मृद्दार्वादिकम्। न च व्याप्त्यसिद्धिः, चेतनानधिष्ठितस्य कार्यारम्भकत्वानुपपत्तेः, चेतनाधिष्ठितस्यैव कार्यारम्भप्रवृत्तेस्सर्वत्र दर्शनाच्च। ननु सिद्धान्ते पक्षासिद्धिः। नच "प्रधानक्षेत्रज्ञपतिर्गुणेश" इति श्रुतिसिद्धं प्रधानं सिद्धान्तेऽप्यस्तीति वाच्यम्। तस्यानुमानगम्यत्वाभावेन कर्मव्युत्पन्न सूत्रानुमानपदनिर्देश्यत्वायोगात्। साध्यस्य च बाधः, प्रधानस्य सिद्धान्तेऽपि जगद्रचनासामर्थ्याभ्युपगमात्। हेतोश्चासिद्धिः, तस्य सिद्धान्ते चेतनाधिष्ठानसत्त्वादिति चेत्- सत्यं।
परप्रक्रियया परो दूषणीय इति परसिद्धं पक्षादिकं परिगृह्य इदमनुमानमुकत्म्। यद्वा परानुमानस्य प्रतिकूलतर्करूपं दूषणानुमानमुक्तम्। यदि प्रधानं अचेतनत्वेसति चेतनानधिष्ठितं स्यात्, जगद्रचनायामसमर्थं स्यात्। अथवा हेतोर्विशेष्यांशस्य साध्ये प्रतियोगिविशेषणतयाऽन्वयः, ततश्च प्रधानं न चेतनानधिष्ठितं कार्यजनकं, अचेतनत्वात् घटगृहादिजनकमृद्दार्वादिवचदित्यनुमानशरीरम्। नचानुमानिक प्रधानानभ्युपगमादाश्रयसिद्धिः। महदादिकं सप्रकृतिकं कार्यत्वाद्घवटदित्यनुमानस्य विरोधाभावेन सिद्धान्तेऽभ्युपगन्तुं शक्यत्वात्, साध्ये स्वातंत्र्याप्रवेशात्, तस्येश्वरपारतंत्र्यमात्रे श्रुत्यपेक्षणात्। ननु अचेतनस्य चेतनाधिष्ठितस्यैव प्रवृत्तिरिति न नियमः, वृत्सवृध्यर्थं धेनुगतस्य क्षीरस्य स्वयमेव प्रस्रवदर्शनात्। सस्यवृध्यर्थं वारिदमुक्तस्य जलस्य स्वयमेव निस्सरणदर्शनात्। एवं पुरुषस्य भोगापवर्गार्थं चेतनानधिष्ठितस्यापि प्रधानस्य प्रवृत्तिसम्भवादिति चेन्न। क्षीरजलयोरप्यचेतनत्वाच्चेतनाधिष्ठानाभावे प्रवृत्त्यसम्भवतौल्येन पक्ष इव पक्षतौल्येऽपि व्यभिचाराभावात्। एतेन
धेन्वाद्युपयुक्ततृणादेः क्षीरादिभावापत्तिरपि व्याख्याता। तत्रापि चेतनाधिष्ठानावश्यम्भावेन पक्षतौल्यात्। अन्यथा चेतनविशेषसङ्कल्पस्य नियामकस्याभावे अनडुहाद्युपयुक्तस्यापि तृणादेः क्षीरादिभावप्रसङ्गात्। न च धैनवजाढराग्निसंयोगे कश्चित्पाके विशेषः। अग्निसंयोगमात्रस्य पाकहेतुत्वात्, तस्य अनडुहादिजठरसंयोगेऽप्यविशेषात्। पाचकसङ्कल्पविशेषात् पाकविशेषस्तु लोके दृष्टः। ननु अप्रयोजकमिदं चेतनाधिष्ठानानुमानं, यथा प्रवृत्तिशक्तियुक्तोऽन्धः दृक्छक्तियुक्तपंगुसन्निधानात्प्रवर्तते, यथा च अयस्कान्मणिसन्निधानादयः प्रवर्तते, तथा चैतन्यवपुषः पुरुषस्य सन्निधानात् प्रधानस्य प्रवृत्त्युपपत्तेरिति चेत्, एवं दृष्टान्तोपादानेऽपि प्रधानस्य प्रवृत्त्यसम्भवरूपदोषस्तदवस्थः। अस्ति हे पंगोर्गमनशक्तिविकलस्य अंधेनोह्यमानस्य स्वयं मार्गदर्शनं, वोढारमन्धं प्रति तदुपदेश इति च व्यापारः। पुरुषस्य तु निष्क्रियस्य न तादृशः कश्चिद्व्यापारः। अयः प्रवृत्तावपि चेतनाधिष्ठानावश्यम्भावान्नव्यभिचारोऽपि। तस्मान्निर्दोषं दूषणानुमानम्। सांख्यानुमानमेव च प्रतिकूलतर्कपराहतम्। पुरुषसन्निधानमात्रेण प्रधानस्य परिणामित्वे सर्गव्यतिरेकः प्रलयः कदाऽपि न स्यात्, नित्यस्य पुरुषसन्निधानस्य सर्वदाऽप्यविशिष्टत्वादिति। तस्मादधिष्ठातुरीश्वरस्यैव सङ्कल्पविशेषास्सर्गप्रळयनियामका इत्युभ्युपेयम्। न च धर्माधर्मावेव तन्नियामकौ स्यातामिति वाच्यम्। धर्माधर्मयोः पुरमपुरुषाराधनतद्विपर्ययरूपतयैव सकलश्रुतिप्रसिद्धयोस्तदनभ्युपगतावात्मलाभाभावात्। यदि च गुणानां कदाचित्साम्येनावस्थानमभ्युपेत्य तदा गुणानामुत्कर्षानिबन्धनाङागाङ्गिभावाभावात् तन्निमित्ता जगत्प्रसूतिर्नीस्तीति प्रळयावस्थायां साम्येनावस्थितानां गुणानां क्षोभकपुरुषव्यापारभावेन स्वयमेव वैषम्यावस्थां प्राप्तुमक्षमाणामङ्गाङ्गिभावानुपपत्तेः कदाचिदपि जगत्सर्गो न स्यात्। यदि सुखदुःखमोहात्मकवैषम्यावस्थं जगत् दृष्ट्वा यथाकार्यं वैषम्यावस्थापन्नमेव त्रिगुणमनुमीयते, तदा धर्मिग्राहकमानसिद्धाया वैषम्यावस्थायास्सदावृत्तेस्सदासर्ग एव स्यात्। यद्युच्येत त्रिगुणं न वैषम्यावस्थं नापि साम्यावस्थमनुमीयते, येन सदा सर्गः प्रलयो वा स्यात्। किं तु अनादिसृष्टिप्रलयप्रवाहमूलद्विविधसंस्कारानुवृत्तिसद्भावात्तत्तत्संस्कारोद्बोधानसारतः साम्यवैषम्यभागुभयस्वभावमनुमीयत इति। नैतदपि युक्तम्। अन्धस्य मार्गोपदेशकपुंगुसन्निधानात् मार्गज्ञातृत्ववत् प्रधानस्य निर्व्यापारपुरुषसन्निधानात् चिच्छायापत्त्या ज्ञातृत्वासम्भवस्य उक्तत्वात्, तदसम्भवेचाचेतनस्य चेतनाधिष्ठानं बिना प्रवृत्त्ययोगात्। किं च प्रधानाभ्युपगमे यदि प्रयोजनं किंचित्स्यात् तदा यताकथंचिदभ्युपगच्छेम। न किमपि प्रयोजनमस्ति। पुरुषस्य भोगापवर्गौ हि प्रयोजनमितीष्यते। भोगश्च सुखदुःखानुभवरूपः प्रधानपरिणामरूपाया बुद्धेर्धर्मः। पुरुषस्य तु बुद्धिच्छायापत्त्या तदैक्यमिवापन्नस्य तद्दर्शनं भोगः। तेन तस्य वेवेकाग्रहात् आध्यासिकं भोक्तृत्वं, भोक्तृत्वाध्यासस्य तद्विवेकख्यात्या निवृत्तिर्मोक्ष इति सांख्यैरिष्यते। न च निर्विकारचैतन्यमात्रवपुषः पुरुषस्य सविकारबुध्यैक्याभिमानः तदीयभोगदर्शनं तद्विवेकानुन्धानं वा सम्भवति। ननु सांख्यैरेव बुध्यादिष्वचेतनेष्वसम्भाविताभ्यां भोक्तृत्वमोक्षोपायश्रवणादिप्रवृत्तिभ्यां बुध्याद्यतिरिक्तो भोक्ता श्रवणादिप्रवृत्तिमांश्च पुरुषस्साधितः "पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थप्रवृत्ते"श्चेति। प्रकृतेः पुरुषभोगार्थत्वं च तत्स्वरूपदर्शने सति तदैव पुरुषस्यापवर्गश्चेत्येतदुभयमपि बहुधा प्रपञ्चितम्। "नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः। गुणवत्यगुणस्य सतः तस्यार्थमपार्थकं चरति।। रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्तात्। पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः।। प्रकृतेस्सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति। या दृष्टास्तीति पुनर्नदर्शनमुपैति पुरुषस्ये"ति।। तस्मादस्त्येव तन्मते पुरुषस्य प्रकृतिभोक्तृत्वं तद्याथार्थ्यदर्शनार्थश्रवणादिकर्तृत्वंच। अतः कथं तन्मते प्रयोजनासंभवइति चेत् तर्हि परस्परविरुद्धार्थकथनादेव
तन्मतमसमंजसं। तत्वसंग्रह बध्यते मुच्यते च नानाश्रया प्रकृति"रित्यादिभिः प्रकृतेरेव बंधमोक्षाविति प्रपंचितं। किञ्च जगतः कारणं सिध्यत् लाघवादेकमेव प्रकृतिरूपं सिध्यतीति वदद्भिरेव गुणत्रयसंघातएव प्रकृतिः नतु तद्व्यतिरिक्ता प्रकृतिर्नामास्तीत्यभ्युपगतं, ततोपि तन्मतं विप्रतिषिद्धं। पंचविंशतिस्तत्वानीत्युक्त्वैव गुणाः परस्परभिन्नाइत्यप्युक्तं, तदपि विप्रतिषिद्धं। गुणभेदे हि सप्तविंशतिस्तत्वानि स्युः। अर्थविप्रतिषिद्धंचेदं दर्शितं। न हि पटलाभादिमतां सुखदुःखमोहाभवन्तीति विषयाणामपि सुखदुःखमोहान्वयकल्पनं युक्तं। रजतभुजगादिदर्शिनामिच्छाद्वेषाद्युदयेन विषयाणामपि तद्वत्त्वकल्पनापत्तेः।
विषयाणां सुखदुःखाद्यन्वयेन च तत्कारणं कुतस्सुखदुःखमोहात्कं सिध्यति। न खलु शौक्ल्यगोत्वादिकं विषयान्वितं द्रव्यं घटान्वितमृन्न्यायेन कारणं भवतीति चेन्न। सत्वरजस्तमसां द्रव्यत्वासिद्धेः। पृथिव्यादिद्रव्यगतलघुत्वप्रकाशादिहेतवस्तद्गुणा एव हि सत्वादयः। अतएव गुणा इत्येव तेषां प्रसिद्धिः। तस्मात्परस्परविप्रतिषेधार्थविप्रतिषेधाभ्यामप्यसमञ्जसं सांख्यमतम्।।
इति रचनानुपपत्त्यधिकरणम्।।
महद्दीर्घवद्वा ह्रस्वपरिमंडलाभ्याम्।।10।।
उभयथाऽपि न कर्मातस्तदभावः।।11।।
समवायाभ्युपगमाच्च साम्यादनवस्थितेः।।12।।
नित्यमेव च भावात्।।13।।
रूपादिमत्त्वाच्च विपर्ययो दर्शनात्।।14।।
उभयथा च दोषात्।।15।।
अपरिग्रहाच्चात्यन्तमनपेक्षा।।16।।
आनुमानिकप्रधानकारणवादवत् आनुमानिकपरमाणुकारणवादोऽपि न युक्त इति समर्थितइति दृष्टान्तसङ्गतिः। ईश्वरानङ्गीकारात् चेतनाधिष्ठानाभावेन प्रधानकारणवादे रचनानुपपत्तिवत् न परमाणुकारणवादे साऽस्ति। वैशेषिकैरीश्वरस्याङ्गीकृतत्वात्। अतएव प्रलयानुपपत्तिदोषोऽपि नास्ति। सृष्टिप्रापकप्राणिकर्मविशेषोपहितत्वेन सिसृक्षारूपाया ईश्वरेच्छायास्तदानीमभावस्य वक्तुं शक्य्त्वादिति प्रत्युदाहरणसंगतिश्च।। इयमिह परमाणुवादिनां प्रक्रिया। प्रलीने जगति प्राणिकर्मोन्मेषविशेषोपधानादीश्वरस्य इच्छायां सिसृक्षारूपायां सत्यां निश्चलेषु निरवयवेषु परमाणुषु आद्यं कर्मोत्पद्यते। तेन कर्मणा परमाणुद्वयं संयुज्यते। संयुक्तेन परमाणुद्वयेन द्व्यणुकमारभ्यते। त्रिभिद्र्व्यणुकैस्त्र्यणुकमित्यादिक्रमेण सर्वं जगदुत्पद्यत इति। तत्र परमाणूनां निरवयवत्वं तावदयुक्तम्। यथांगुलिद्वयं प्रत्येकं दशदिक्सम्बन्धिदशप्रदेशावच्छिन्नं परस्परं संश्लेप्यमाणमेकया महादिशा विदिग्द्वयेन चावच्छिन्नैः प्रत्येकं त्रिभिस्त्रिभिः प्रदेशैः संश्लिष्यत इत्येवं षड्भिः पार्श्वैस्संयुज्यते, एवं पटारम्भकास्तन्तवस्संश्लेष्यमाणाप्षड्भिः पार्श्वैस्संयुज्यमानाः प्रत्येकमसंयुक्तसप्तपार्श्वयुक्तास्सन्तः स्वाधिकपरिमाणं पटमारभन्त इति दृष्टम्। एवं परमाणवोऽपि षड्भिः पार्श्वैस्संयुज्यमाना एव पारिमंडल्याख्यस्वपरिमाणाधिकपरिमाणमणुत्वह्रस्वस्य द्व्यणुकस्य द्व्यणुकान्महतो दीर्घस्य त्र्यणुकस्य च पृथिमानुपपत्तेः। नच वाच्यं माभूत्परमाः णुतः प्रथिमा द्व्यणुकस्य, द्व्यणुकात् त्र्यणुकस्य तु प्रथिमा कारणबहुत्वाद्भविष्यतीति चेन्न। तथासति परमाणोः पारिमाण्डल्यं परिमाणं द्व्यणुकस्याणुत्वह्रस्वत्वे इति विभागाभावप्रसङ्गात्। परमाणुद्वयसंयोगस्य व्याप्यवृत्तित्वे द्व्यणुकस्यापि परिमण्डलत्वापत्तेः, द्व्यणुकोत्पादकं परमाण्वोस्संयोगमभ्युपगच्छतः तेनैव तयोः प्रदेशसिद्धेश्च। न हि परमाणू संयुज्यमानौ द्वावपि समानदेशौ संतौ तयोः प्रदेशसिद्धेश्च। न हि परमाणू संयुज्यमानौ द्वावपि समानदेशौ संतौ संयुज्येते। मूर्तानां समानदेशताविरोधात्। अतः प्राक्प्रत्यग्भावेन, दक्षिणोत्तरभावेन, उर्ध्वाधरभावेन वा, भिन्नदेशस्थितौ संयुज्येते इत्येव वक्तव्यम्। तथासति यद्देशस्थितः परमाणुः येन परमाण्वन्तरेण संयुज्यते सतद्देशान्यदेशावच्छिन्नेनापि तेन किं संयोक्तुमर्हति, अनर्हत्वे वा कथं तस्मिन् प्रदेशभेदो न भवेदेति त्वमेवं परिभावय। ननु परमाणूनां निवयवत्वेऽपि तत्तद्दिगवच्छेदलभ्यः प्रदेशभेदो वक्तुं शक्य इति तत एव परमाणुद्वयसंयोगस्य प्रादेशिकत्वं द्व्यणुके परिमाणोत्कर्षश्च भुविष्यतीति चेन्न- दिग्विशेषसंयोगस्यापि परमाणावव्याप्यवृत्तित्वोपपादकांशाभावेन व्यप्यवृत्तित्वापत्त्या तस्य परमाण्वंतरसंयोगाव्याप्त्यवृत्तित्वोपपादकत्वायोगात्। न हि कपिसंयोगतदभावावच्छेदकवृक्षमूलाग्रवत् व्यवस्थितदेशावच्छेदकाभावेऽपि यथाकथंचिदवच्छेदकभेदसद्भावमात्रेण
परमाणुद्वयसंयोगस्याव्याप्यवृत्तित्वं घटत इति वक्तुं शक्यं। सर्वादिक्संयोगानामपि व्याप्यवृत्तित्वाविशेषे किं दिक्संयोगः परमाण्वंतरसंयोगावच्छेदकइति अत्रैव नियामकाभावेन सर्वदिक्संयोगानामपि तदवच्छेदकत्वप्राप्तौ अवच्छेकभेदाभावात्, यथाकथंचिदवच्छेदकभेदलाभेऽपि व्यवस्थितदेशत्वाभावे तयोरव्याप्यवृत्तित्वानुपपादकत्वाच्च।
अन्यथा पृथिव्यास्संख्यावत्त्वे द्रव्यत्वमवच्छेदकं गंधवत्त्वे प्रथिवीत्वमित्याद्यवच्छेदकभेदसत्त्वेन संख्यादीनामव्याप्यवृत्तित्वव्यवहारप्रसंगात्। तस्माद्व्यणुकोत्पादकसंयोगनिर्वाहार्थं परमाणुष्ववयवरूपप्रदेशभेदोऽवश्यमभ्युपेयः। तथा त्र्यणुकोत्पादकद्व्यणुकत्रयसंयोगनिर्वाहार्थमपि सोऽभ्युपेयः। स हि कायपुस्तकसंयोगोहस्तपुस्तकसंयोगेनेव द्व्यणुकस्य द्व्यणुकांतरारंभकपरमाणुना सह संयोगे निर्वाह्यः। कारणाकारणसंयोगात् कार्याकार्यसंयोग इति त्वयाऽभ्युपगतत्वात्। तथा च द्व्यणुकारभंकपरमाणौ तदारंभकपरमाण्वंतरसंयोगे प्राक्सिद्धे स्थिते प्रदेशभेदं विना कथं त्र्यणुकोत्पत्तिसमये द्व्यणुकांतरसंयोगोऽपि स्यात्, मूर्तानां समानदेशताविरोधादेव। यदितु मूर्तत्वेपि परमाणुषु समानदेशताविरोधमर्यादा नेष्यते, तदा षण्णां परमाणूनां पिंडरूपं त्र्यणुकं परमाणुमात्रं भवेत्। तदाहुः- "षट्केन युगपद्योगात् परमाणोष्षडंशता। षण्णां समानदेशत्वे पिंडस्स्यादणुमात्रक"इति। प्रागाद्यूर्ध्वाधारदेशवर्तिभिः षढ्भिः परमाणुभिः संबध्यमानोमध्यवस्थः परमाणुष्षडंशः प्राप्नोति। भिन्नदेशत्वात्संबन्धानां। अथ समानदेशास्सर्वे संबंधाः, तदा सर्वेषामेषां पिंडः परमाणुमात्रः प्राप्नोतीत्यर्थः। समानमिदं दूषणं द्व्यणुकेभ्यस्त्र्यणुकोत्पत्तावपि। तस्मात्द्व्यणुकत्र्यणुकादिजननतत्परिमाणातिशयसिध्यर्थं परमाणु षडं शत्वमनिच्छद्भिरपि परमाणुवादिभिरंगीकार्यः। ननु तदंगीकारे तत्तदंशानामपि उक्तन्यायेन सांशतायामनवस्था प्रसज्यते। तथाचानन्तावयवारब्धत्वाविशेषात् मेरुसर्षपयोस्तुल्यपरिमाणत्वप्रसंगः। अतस्सांशत्वमपि नांगीकारार्हमिति चेत्, तर्हि सांशत्वे त्वनवस्था निरंशत्वे द्व्यणुकोत्पत्त्याद्यनुपपत्तिरिति पक्षद्वेऽपि समापतद्दोषं परमाणुकारणवादव्यसनमेव त्यक्त्वासुखीभव। किं च परमाणूनां सांशत्वे नास्ति दोषः मेरुसिद्धार्थयोरनन्तावयवारब्धत्वेऽपि आनन्त्यविशेषात्परिमाणविशेषोपपत्तेः। न हि पाद्मकल्पात्पूर्वं वाराहकल्पात्परं पातालादूर्ध्वं रविमण्डलादधश्च अवच्छेद्यदेशानन्त्ययोर्द्रव्यत्वपृथिवीत्वादिपरापरजात्याधार व्यक्त्यानन्त्ययो र्मेरुमन्दरान्तर्गतपरमाण्वानन्त्ययोश्च न तारतम्यम्। यदि तु परमाणोस्सावयवतायामनित्यत्वापत्त्या स्वाभ्युपगतमूलकारणत्वासिद्धिप्रसंगात् सांशत्वं नेष्यते, तदा द्व्यणुकादिजननतत्प्रथिमानुपपत्तिरनिवार्या। तस्मादनवस्था। परमाण्वनित्यत्वद्व्यणुकादिजननतत्प्रथिमानुपपत्त्यान्यतरदूषणाक्रान्तः परमाणुकारणवाद एव हेयः। किं च प्रलये निश्चलेषु परमाणुषु सर्गाद्यकालद्व्यणुकारम्भकसंयोगोत्पादककर्मासम्भवेन तत्संयोगासम्भवादपि सहेयः। ननु "अग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनं अणुमनसोश्चाद्यं कर्मेत्येतानि अदृष्टकारितानी"त्यभ्युपेयते। अतोऽदृष्टवशादुत्पन्नेन कर्मणा संयोगस्सम्भवतीति चेन्न। तददृष्टं यदि प्राणिषु समवेतं, यदि वा परमाणुषु, उभयथाऽपि तत्कर्म न भविष्यति। तस्य तत्कर्मकारणत्वे पूर्वकल्पोपार्जितस्य तस्य प्रलयेऽपि सत्त्वेन तदानीमपि ततस्तत्कर्मोत्पत्त्या जगत्कल्पनाप्रसंगात्। अथ "विपाकादृष्टं कर्म कारणं कर्मेश्वररूपोभयविधजगत्कारणसाफल्यप्रति पादनार्थस्येश्वरः कारणं पुरुषकर्मसाफल्यदर्शना"दित्याक्षपाद सूत्रजातस्य व्याख्यानावसरे वार्तिककृता "न ब्रूमः कर्मानपेक्ष ईश्वरः कारणमिति कर्म पुरुषस्य ईश्वरोऽनुगृह्णाति कोऽनुग्रहार्थः यद्यथाभूतं यस्य च यदा पाककालः तत्तदा तथा च विनियुक्त"मिति प्रतिपादनात् अतो नायं दोष इति चेन्न। हरीतक्यादिद्रव्यस्येव आत्मगुणस्यादृष्टस्य विपाकासम्भवात्। फलकालागमो विपाकः सतु सर्गाद्यकालागम एवेति चेन्न। अनन्तैः प्राणिभिरयुगपदनुष्ठितविधिधकर्मजनितादृष्टानां सर्गाद्यकालएव फलकालः, नतु ततः प्राग्द्विपरार्थात्मके प्रलये न कोपि क्षणइति कल्पनस्य अप्रामाणिकत्वात्। ननु सर्गकालरूपेऽहनि निरंतरगतागताखन्नानां प्रामिनां तत्समानपरिमाणं कालं शर्वरीरूपं कृत्वा तस्मिन् तान् महासुषुप्तिं प्रापय्य विशिश्रमयिषेरीश्वरस्य इच्छया प्रलयमध्ये समागतफलकालान्यपि कर्माणि प्रतिबद्धशक्तिकानि भवन्ति। अत एव ब्रह्महंतुस्तद्देहपातानन्तरं कल्पपर्यन्तं यातनानुभवः ततः परं सप्तसु जन्मसु क्षयरेगादितच्चिह्नानुवृत्तिरिति चोदितं फलं प्रलयाव्यवहितपूर्वकाले कृतब्रह्महननस्य पुंसः तद्देहपातानन्तरमेव न भवतीति चेन्न। त्वन्मते नित्यायाम् ईश्वरेच्छायाः प्रलयेपि सत्वात्। ममतु प्रलये प्राक्सिद्धानां प्राण्यदृष्टानामीश्वरस्येच्छांतराणांच सत्वेपि "बहुस्यां प्रजायेय, तासां त्रिवृतं त्रिवृतमेकैकां करवाणि, नामरूपे व्याकरवाणी"ति तदानीन्तनसृष्टिसंकल्परूपाणां भाविनीनामीश्वरेच्छानाभावात् सर्गाभावः। एवं तर्हि यस्मिन् काले तथा सङ्कल्परूपेश्वेरच्छा भवीति त्वयेष्यते, तत्कालोपहितैव नित्येश्वरेच्छा मम परमाणुकर्मोत्पिपादयिषा भविष्यतीति चेत् उच्यते- मया कश्चित्
तादृक्संकल्पकालः स्वमनीषिकाकल्पितो न परिगृह्यते, किन्तु "सदेवसोम्येदमग्रआसी"दित्यादि
श्रुतितदुपबृह्मणपुराणेतिहासादिप्रमाणक द्विपरार्धात्मकमहाशर्वर्यंतरकालः परिगृह्यते। न च तवेश्वरं तदीयसृष्ट्यादिव्यापारं च युक्तिभिरेव कल्पयितुमिच्छतः एतस्मिन् काले बहुभवनसंकल्पः ततोभूतानां क्रमेण सृष्टिः ततस्त्रिवृत्करणसंकल्पस्त्रिवृत्करणं च ततोनामरूपव्याकरणसंकल्पः तद्व्याकरणं चेत्यादिकं युक्तिपथत्वमवतरति। न हि रामचरितादिकं रामायणादिप्रतिपन्नं युक्तिभिः कल्पयितुं शक्यं। यद्यैश्वरे कालविशेषावच्छिन्नसृष्ट्यादिव्यापारे श्रुतिश्शरणीकरणीया, तदेश्वरेपि सैव शरणीकर्तुं युक्तेति यथाश्रुत्यनन्तकल्याणगुणाकरस्तदातदोदित्वरैस्सङ्कल्पविशेषैर्जगद्व्यापारलीलां कुर्वन्नेवेश्वरोऽभ्युपेयः, नतु श्रुतिषु स्वानभिमतांशं परित्यज्य नित्यज्ञानेच्छाप्रयत्नमात्रवान् स्वाभिमतसृष्टिव्यापारमात्रकर्ताऽभ्युपेयः। दूषितश्चानुमानिकेश्वरः शास्त्रयोनित्याधिकरणे। तेनापि तस्य परमाणुकर्मोत्पादनप्रक्रियया स्रष्टृत्वं त्वदभिमतं निरस्त्प्रायं। अतोऽप्रामाणिपरमाणुकारणवादाभ्युपगमादसमंजसं वैशेषिकमतं। तथा समवायाभ्युपगमादप्यसमंजसं। अयुतसिद्धेष्ववयविगुणक्रियाजातिषु अयुतसिध्युपपादनार्थं हि समवायोभ्युपगम्यते, तदा समवायस्यापि सम्बन्धातरमपेक्षणीयं। अयुतसिद्धिसाम्यात्। एवं तस्य तस्यापि सम्बन्धातरस्यायुतसिध्युपपादकं सम्बन्धातरमपेक्षणीयमित्यनवस्थानात्। समवयस्याभावादिवत् स्वरूपसम्बन्धइष्यत इति चेत्, अवयव्यादिष्वपि स एवास्तु। ननु अवयव्यागीनामनन्तत्वात् लाघवेन सर्वानुगतएकस्समवायः कल्प्यतइति चेन्न। एक्सय बहूनां च कल्प्यत्वे हि लाघवादेकस्य कल्पनं। इह बहूनां च कल्प्यत्वे हि लाघवादेकस्य कल्पनं। इह बहूनां क्लृप्तत्वात् किमर्थमेकस्यापि कल्पनं। ननु बहूनां क्लृप्तत्वेपि तेषु सम्बन्धत्वं कल्प्यं तत्तु नैकं कल्पयितुं शक्यं। अवयव्यादिस्वरूपानुगतैकसंन्बधत्वानिर्वचनात्। अतोनन्तसम्बधत्वकल्पनात् एकस्य समवायस्य तद्रतस्यैकस्य सम्बधत्वस्य च कल्पनं तत्तु नैकं कल्पयितुं शक्यं। अवयव्यादिस्वरूपानुगतैकसंबन्धत्वानिर्वचनात्। अतोनन्तसंबन्धत्वकल्पनात् एकस्य समवायस्य तद्रतस्यैकस्य सम्बधत्वस्य च कल्पनं लघ्विति चेन्न। अवयव्यादिषु तत्तदभावादिकं प्रति सम्बन्धत्वस्यापि क्लृप्तत्वात्, तेष्ववयवादिनिरूपितसम्बन्धत्वक्लृप्तिर्नास्तीति तान्यनंतानि कल्प्यानीतिचेन्न। निरूपकभेदेन सम्बन्धत्वभेदे समवायेपि तद्भेदेन तान्यनन्तानि कल्प्यानि समवायश्च कल्प्य इति समवायपक्ष एव गौरवापत्तेः। अवयवगुणक्रियाजातीस्तद्वतश्चायुतसिद्धत्वेन क्रोडीकृत्य अयुतसिद्धनिरूपितसम्बन्धत्वमेकमेव समवाये कल्प्यत इति चेन्न। एवं ताः क्रोडीकृत्य तेष्वेकसम्बन्धत्वकल्पनोपपत्तौ समवायकल्पन एव गौरवात्। किंच अवयवावयव्यादिषु समवायाभ्युपगमेऽपि स्वरूपसम्बन्धाभ्युपगमआवश्यकः। अन्यथा समवायविशेषेण अवयवावयव्यादिषु आधाराधेयव्यवस्थित्यभावप्रसंगात्। तस्मादवयवादिष्ववयव्यादीनिरूपितमाधारत्वरूपं स्वरूपसंबन्धत्वमेकं अवयव्यादिषु अवयवादिनिरूपितमाधेयत्वरूपं तदन्यदिति स्वरूपसम्बन्धद्वयेन विषयीभूतेन "इह तंतुषु पट" इत्यादिप्रत्ययोनिर्वाह्यः। समवायेन तन्निर्वहणे वायौ रूपसमवायसत्वेन वायौ रूपमिति प्रतीत्यापत्तेः। अतस्समवायस्थलेऽपि स्वरूपसम्बन्धस्यावश्यकत्वे तेनैवाधाराधेयभावप्रतीतेः निर्वहणीयत्वे च किं समवायेन। एतेन यदुक्तं काणादसूत्रे- "इहेति यतः कार्यकारणयोस्ससमवाय" इति तन्निरस्तं। इहप्रत्ययस्य सर्वत्राधाराधेयभावरूपस्वरूपसम्बन्धद्वयविषयत्वावश्यंभावेन तेनैव विशिष्टप्रत्ययचारितार्थ्यात्। स्यादेतत् इह सूत्रे वर्णितप्रत्ययनिर्वाहकत्वेन समवायसिद्धिरुक्तेति सत्यं- नतु तन्निर्वाहकत्वं विषयतया विवक्षितं। तन्मते समवायस्याप्रतयक्षत्वात्। किन्तु कारणतया अवयवक्रियादिविशिष्टबुद्धीनामनुगतं किञ्चित्कारणं यत्सिध्यति ससमवायइति। मैवं- अवयवादिविशिष्टबुद्धीनां स्वयमननुगतत्वेनानुगतकारणापेक्षाभावात् विशिष्टबुद्धिष्वतिप्रसंगात्। स्फुटतरविवेकरहितसम्बन्धिद्वयगोचरविशिष्टप्रत्यक्षत्वेनानतिप्रसक्तेनानुगमइति चेत् तर्हि स्फुटतरविवेकरहितत्वेनानुगतीकृताणामवयवावयव्यादीनामेव तत्र कारणत्वमस्तु कृतं समवायकल्पनया। अतिप्रसक्तंचेदमुक्तविशिष्टबुद्धित्वं अभावाधिकरणयोर्विशिष्टबुद्धौ, पीतं सुवर्णमिति तदुपष्टंभकयोर्विशिष्टबुद्धावपि। ननु दंडादिविशिष्टबुदधिसाधारण्येन प्रत्यक्षविशिष्टबुद्धिमात्रे अनुगतं कारणं कल्प्यमानं नित्यत्वादेकत्वाच्च सर्वत्र संभवन् समवायएवेति सिध्यति। विषयभावं विनापि सर्वासु तासु तस्य कारणत्वसंभवादिति चेन्न। संयोगस्यानुगतकारणस्यसंभवात्। संतिहि चाक्षुषादिविशिष्टप्रत्यक्षेषु तत्तद्द्रव्येन्द्रियसंयोगाः कारणत्वेन क्लृप्ताः।
शब्दप्रत्यक्षत्वेप्यस्ति श्रोत्रमनस्संयोगः। तेषामेव संयोगत्वेनास्तु कारणता। किञ्च विशिष्टज्ञानत्वं विशेषणज्ञानकार्यतावच्छेदकं प्रत्यक्षत्वं इन्द्रियकार्यतावच्छेदकमिति अवच्छेदकान्तरोपपन्नकार्यताधिकरणवृत्तित्वात् नीलघटत्ववदर्थवशसंपन्नं विशिष्टप्रत्यक्षत्वं न कार्यतावच्छेदकमिति नतदवच्छेदेनानुगतकारणापेक्षास्ति। एतेन तन्त्वादिनाशे तन्निष्ठावयवगुणादिकं यन्नश्यति तत्र तन्निष्ठावयव्यादिनाशत्वस्याननुगमात्, तत्सम्बन्धिनाशत्वस्य तत्संयुक्ततृणादिनाशेऽतिप्रसक्तत्वात् तावदनुगतस्सम्बन्धः सिध्यन् समवायः पर्यवस्यदिति चेन्न। समवायांगीकारेऽपि तन्तुनाशे
तन्तुसमवायवतामंशूनां नाशप्रसंगानिवारणात्। न च समवायवत्वे सत्याधेयत्वरूपसमवतत्वमवच्छेके निवेशनीयं, तथापि तंत्वाश्रिततृणादिनाशप्रसन्गतादवस्थ्यात्, समवायस्यैकत्वेन तन्तुसमवायस्य तृणेपि सत्त्वात्, अयुतसिद्धाधेयत्वस्यैव अक्लिष्टस्य क्लृप्तस्य कार्यतावच्छेदके निवेशयितुं युक्तत्वाच्च। नच तथासति तदयुतसिद्धाधेयस्य पटध्वंसादेर्नाशप्रसंगः। परपक्षेपि तन्तुसमवेतजात्यादिनाशप्रसंगतौल्यात्। तन्तुनाशे तत्समवेतकार्यनाश इति नियमश्चेत्तर्हि तन्नाशे तदयुतसिद्धाधेयस्य विनाशिनोनाशइति नियमोस्तु। नचध्वंसनाशेनापि किञ्चिदनिष्ठमापद्यते। प्रागभावध्वंसस्य घटस्येव तध्वंसस्यापि ध्वंसोपपत्तेः। घटतध्वंसयोरुभयोरपि प्रागमावप्रध्वंसत्वांगीकारेण प्रागभावानुन्मज्जनसमर्थने घटतध्वंसपरंपराया घटध्वंसत्वांगीकारेण घटानुन्मज्जनसमर्थनोपपत्तेः। तदेवं समवायासिद्धौ तद्धटितस्य समवायिकरणत्वस्यासिध्या त्र्यणुकद्व्यणुकसमवायिकारणत्वेन द्व्यणुकपरमाण्वनुमानं न प्रवर्ततइत्यतोप्यसमञ्जसः परमाणुकारणवादः। किञ्च समवायस्य नित्यत्वाभ्युपगमात् तदाश्रयाणामपि नित्यत्वमभ्युपगन्तव्यं। अन्यथा सम्बन्धिनाशे संयोगवत् समवायस्यापि नाशप्रसङ्गात्। अतस्समवायाश्रयतया त्र्यणुकस्यापि नित्यत्वं त्वया वक्तव्यं स्यादित्यतोपि तत्कारणतया द्व्यणुकाद्यनुमानासिद्धिः। यद्युच्येत सम्बन्धिनाशनाश्यत्वे संयोगत्वं प्रयोजकं। लाघवात्। न संबन्धत्वमुपाधित्वादिति, तदेत्थं लाघवमनुसरता जगन्मूलकारणानुमानेप्यैक्यलाघवमनुसरणीयमिति तेन ब्रह्मणः प्रधानस्य वा सिद्धेर्न तेन परमाणुसिद्धिः। नच कार्यद्रव्यस्यावयवसंयोगारभ्यत्वनियमस्य पटादिषु दृष्टत्वानैकस्माद्द्रव्योत्पत्तिस्संभवतीति लाघवमिहाकिंचित्करमिति वाच्यं। एकावयविरूपेण क्षीरेण दध्यारम्भे नियमभङ्गात् क्षीरारंभकावयवाः परस्परं संयुज्य पुनस्संयोगान्तरं लब्ध्वा दध्यारम्भत इति कल्पनायां प्रमाणाभावात् क्षीरनाशकारणानुपलब्धिवत् दध्युत्पत्तिवच्च तदुपपत्तिः न पयसः परिणामो गुणांतरप्रादुर्भावादित्याद्यक्षपादसूत्राणां प्रमाणमूलत्वाभावात् स्थितेऽपि द्रव्ये पार्थिवपरमाणूनामिव गुणांतरप्रादुर्भावोपपत्तेः। तन्तुसंयोगपटयोः कुविन्दव्यापारादिरूपसामग्यैक्येन समाकालोत्पत्तिकतया पटस्य तन्तुसंयोगारभ्यत्वासम्प्रतिपत्तेश्च। न च तन्तुसंयोगनाशे पटनाशदर्शनात् अकारणनाशेन अकार्यनाशासम्भवात् पटतन्तुसंयोगयोः कार्यकारणभावो वक्तव्य इति वाच्यम्। नाशयोरपि सामग्न्यैक्येन समकालत्वोपपत्तेः। किंच यदि जगन्मूलकारणं रूपादिमत्स्यात् तदा तत्र नित्यत्वनिरवयवत्वयोर्विपर्ययस्स्यात्। रूपादिमतामनित्यत्वसावयवत्वदर्शनादिति तर्कानुगृहीतेन त्र्यणुकमूलकारणं रूपादिरहितं नित्यत्वान्निरवयवत्वादित्यनुमानेन पराहतत्वादपि न रूपादिवत्परमाणुरूपकारणसिद्धिः। विपक्षे बाधकाभावात् व्याप्त्यसिध्या प्रशिथिलमूलस्तर्कइति चेत् त्र्यणुकं समवायिकारणारभ्यं महदारम्भकत्वादिति द्व्यणुकपरमाणुसाधकानुमानयोः को विपक्षबाधको दृष्टः। येन मदनुमानस्य दौर्बल्यं त्वदनुमानयोः प्राबल्यञ्च स्यात्। ननु त्र्यणुकसाधकानुमानेऽस्ति विपक्षबाधकतर्कः। तथा हि महत्त्वपरिमाणस्य जन्यत्वे महत्त्वावान्तरजातिरूपापकर्षमात्रं प्रयोजकम्। नतूत्कर्षापकर्षरूपतदवान्तरजातिद्वयं, गौरवात्। तथा च त्र्यणुकमहत्त्वस्य अपकृष्टमहत्त्वरूपतया जन्यत्वेन कारणापेक्षायां महत्त्वे स्वाश्रयसमवायिकारणगतसंख्यापरिमाणसंयोगविशेषाणामेव कारणत्वात् त्र्यणुकस्य समवायिकारणत्वमवश्यमभ्युपेयमिति, एवं तर्ह्यक्तरीत्यैव तर्कमूलव्याप्तावप्यस्ति विपक्षबाधकतर्कः। रूपादीनां जन्यत्वे रूपत्वादिकं प्रयोजकं अनुगतत्वाल्लघुत्वाच्च। न तु कार्यगतरूपत्वादिकम्। पार्थिवपरमाणुरूपाद्यननुगतत्वात् गुरुत्वाच्च। तथा च परमाणुषु रूपाङ्गीकारे अग्निसंयोगाजन्या रूपादयः स्वाश्रयकारणगतरूपादिजन्या इति त्वद्रीत्यैव जलपरमाणुगतरूपादीनां पार्थिवपरमाणुश्यामत्वस्य चोत्पत्तावपेक्षितानां रूपादीनामाश्रयत्वेन परमाणूनामवयवास्सिध्यन्तो न निवारयितुं शक्याः।
सावयवत्त्वेचानित्यत्वमप्यनिवार्यमिति रूपादीनां जन्यत्वे रूपत्वादिकं प्रयोजकमित्येतत् त्वयाऽप्यवश्यमेष्टव्यम्। अन्यथा त्र्यणुककारणत्वेन अनुमीयमानेषु द्व्यणुकेषु रूपाद्यसिद्धिप्रसङ्गात्। तेषु रूपादिमत्त्वानुमाने हि रूपादीनां कारणगुणपूर्वकत्वनियममूलएवहि तत्र विपक्षबाधकतर्क एष्टव्यः। किञ्च महत्त्वस्य जन्यत्वे परिमामापकर्षः प्रयोजको युक्तः। अतएव आकाशादिगतपरममहत्वव्यावृत्तिसिद्धेः। नतु महत्वापकर्षः, विशेषरूपत्वात् दैर्घ्याननुगतत्वाच्च। तथा च यदि त्र्यणुकमृलकारणे अपकृष्टपरिमाणमभ्युपगम्येत तदा तस्य जन्यत्वेन कारणपरिमाणापेक्षया मूलकारणस्य सावयवत्वं प्रसज्येतेति तत्परिहाराय तस्मिन् परममहत्त्वमेवाभ्युपगन्तव्यम्। न च कार्यद्रव्यस्य स्वन्यूनपरिमाणद्रव्यारभ्यत्वनियमात् दीर्घैस्तंतुभिर्दृढतरावर्तितैस्तन्न्यूनदैर्घ्यस्य विशालैः पटैरावर्तितैस्तन्न्यूनवैपुल्यस्य च सूत्रस्यारम्भदर्शनात्। तस्माद्बलवत्प्रत्यनमानपराह्वतं रूपादिवज्जगन्मूलकारणानुमानम्। तथा यद्यनित्यत्वादिपरिहाराय परमाणूनां रूपादिशून्यत्वमुच्यते, तदा कार्यगुणानां कारणगुणपूर्वक्वनियमासिद्धिः। तत्सिद्धये रूपादिमत्वांगीकारे च
अनित्यत्वाद्यापत्तिरिति उभयथाऽपि दुष्टः परमाणुकारणवाद इति असमञ्जसं वैशेषिकमतम्। अतस्सांख्यपक्षस्य श्रुतिन्यायविरुद्धस्यापि सत्कार्यवादादौ क्वचिदंशे वैदिकपरिग्रहोऽस्ति । वैशेषिकपक्षस्य तु केनाप्यंशेन अपरिग्रहादत्यन्तमनपैक्षैव कार्या।।
संग्रहकारिकाः।।
अल्पानां संयोगाद्विपुलस्योत्पत्तिरीक्षिता लोके।
तस्मादणवः कारणमनवयवास्तेऽनवस्थितेश्शान्त्यै।।
तेषां प्रदेशभेदैस्संयोगे क्वानवस्थितेश्शान्तिः।
नोचेत्तदयुतयोगोऽप्यस्तु प्रथिमा कथं कार्ये।।
समवायिकारणञ्च त्रसरेणोनैव षत्मनुमाचुम्।
बहुबाधकसद्भावात् समवायस्यैव निष्प्रमाणत्वात्।।
तन्मूलकारणत्वस्य च रूपित्वादावनित्यतापत्तेः।
रूपादिमतां लोके ह्यवयववत्वादिनित्यता दृष्टा।।
इति महद्दीर्घाधिकरणम्।।
समुदायउश्रयहेतुकेऽपि तदप्राप्तिः।।17।।
इतरेतरप्रत्ययत्वादुपपन्नमितिचेन्न संघातभावा-
निमित्तत्वात्।।18।।
उत्तरोत्पादेचपूर्वनिरोधात्।।19।।
असतिप्रतिज्ञोपरोधोयौगपद्यमन्यथा।।20।।
प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात्।।21।।
उभयथाचदोषात्।।22।।
आकाशोचाविशेषात्।।23।।
अनुस्मृतेश्च।।24।।
नासतोदृष्टत्वात्।।25।।
उदासीनानामपि चैवं सिद्धिः।।26।।
माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकसंज्ञाश्चतुर्विधा बौद्धाः। ते सर्वेऽप्यादिबुद्धस्य शिष्याः क्रमेण सर्वशून्यत्वबाह्यर्थशून्यत्वबाह्यार्थानुमेयत्वबाह्यार्थप्रत्यक्षत्ववादिनः। तत्र "बुध्या विविच्यमानानां स्वभावो नावधार्यते। अतो निरभिलप्यस्ति निस्स्वभावाश्च दर्शिताः।। यथा यथा विचार्यन्ते तथा तथे"त्यादिन्यायैः गुरुणा सर्वशून्यत्वं बोधितेषु शिष्येषु ये गुरुक्तं तथैवांगीकृत्य पर्यनुयोगं नाकुर्वन् ते गुरुक्तस्य श्रद्धयांगीकरणादुत्तमाः, तत उपरि पर्यनुयोगाकरणादधमाश्चेत्युत्तमाधमत्वयोगात् मध्यमां स्थितिमास्थिता
माध्यमिकाः। ये तु बाह्यार्थानां शून्यत्वमंगीकृत्य कथं विज्ञानस्यापि शून्यत्वं, जगदान्ध्यप्रसंगादिति पर्यनुयोगमकुर्वन्, ते गुरूक्तांगीकरणस्य आचारसंज्ञया तन्मते परिभाषितस्य तत उपरि पर्यनुयोगस्य योगसंज्ञया तन्मते परिभाषितस्य च सद्भावात् योगाचाराः। गुरुणा तान् प्रत्यान्तरं विज्ञानमात्रमस्ति, तदेव नीलाद्याकारं न तु तद्व्यतिरेकेण बाह्यं नीलादिकमस्ति सहोपलम्भनियमेन नीलादीनां तद्विज्ञानानाञ्चाभेदसिद्धेः, भेदे गवाश्वत्तन्नियमाभावप्रसङ्गात्, तदेव विज्ञानाकारात्मकं नीलादिकमनादिवासनावशात् बहिर्वदवभासत इति बोधिते कथं सर्वथैव बाह्यार्थस्य शून्यत्वं, बाह्यस्य नीलादेरवभासात्। अहमुल्लेखेन विज्ञानस्यान्तरतया इतमुल्लेखेन नीलादेर्बाह्यतया च भेदेऽवभासमाने सहोपलम्भनियममात्रस्याप्रयोजकस्याभेदसाधनाक्षमत्वात्, सहत्वोक्त्यैव भेदानुमतेश्चेति यैः पर्यनुयुक्तं, तान् प्रति सत्यमस्ति बाह्यं नीलादिकं न तु तत्प्रत्यक्षं अनुत्पन्नस्याविद्यमानस्य प्रत्यक्षत्वायोगात्, उत्पन्नस्य क्षणिकस्य स्थित्यभावात्।
किं तु उत्यपद्यमानं नीलादिविज्ञाने स्वाकारं समर्प्य नश्यति। ततोविज्ञानगताकारेणातीतन्नीलादिकमनुमीयतइति बोधिते सति तैरित्थं शिष्यप्रश्नानुरोधेन कियत्पर्यंत मुपदेशसूत्रं प्रवर्तिष्यतइति सूत्रस्यांते पृष्टे गुरुणाऽभिहितं--
भवन्तस्सूत्रस्यांतं पृष्टवन्तस्सौत्रांतिकाभवन्त्विति। अतस्ते सौत्रांतिकाः। ततो विज्ञानेनानुमेयं बाह्यमितीयं विरुद्धाभाषा। तस्यैव विज्ञानस्य तद्विषयप्रत्यक्षत्वात् प्रत्यक्षस्य कस्यचिदप्यर्थस्याभावे व्याप्तिसंवेदनस्थानाभावेन अनुमानाप्रवृत्तेश्चेति यैः पर्यनुयुक्तं ते वैभाषिकाः। तात् प्रति बाह्यप्रत्यक्षत्वमप्युपदिष्टं। एवं यथाश्रुतं स्व स्व प्रश्नोत्तरवाक्यार्थं श्रद्दधानास्ते तथैव मतभेदानास्थिषत। तत्र वैभाषिकादिक्रमेण चतुर्विधानपि बौद्धान् निरसितुं क्रमेण चत्वार्यधिकरणानि। ततः क्षपणकान्निरसितुमेतमधिकरणम्। वैदिककापिलकणभुङ्निराकरणानन्तरमवैदिकास्ते निरस्यन्त इति अर्धवैनाशिकनिरासानन्तरं सर्ववैनाशिका निरस्यन्त इति पूर्वाधिकरणेन पेटिकासङ्गतिः वैभाषिकाद्यधिकरणानां त्रयाणां केषांचित् क्षणिकत्वमभ्युपगच्छन्तस्तार्किकाः अर्धवैनाशिकाः। ते हि जाठराग्निना पच्यमानानां भुक्तपीताहारावयवानां प्रतिक्षणमुपचयापचयवैषम्यात् अवयविशरीरमपि प्रतिक्षणमुपचयापचयवदन्यदन्यद्भवति। यद्यपि शरीरस्य प्रतिकलमुपचयापचयदर्शनं नास्ति, तथाऽपि वर्षधारानिपातैस्तटाकजलस्येव घटीयंत्रोक्षेपणैः कूपजलस्येव चान्ते तद्दर्शनात् यौक्तिकं प्रतिक्षणं किंचित्किंचिदुपचयापचयज्ञानस्त्येव। आहारावयवानां शरीरावयवत्प्राप्त्या तदपचयोपचयाभ्यां शरीरापचयोपचयावश्यम्भावात्। यथा हि चन्द्रतारकादीनां मुहूर्तादिकालव्यवधानेन बहुदेशान्तरप्राप्तिदर्शनात् प्रतिक्षिणं स्वल्पदेशांतरप्राप्तिज्ञानं योक्तिकमस्तीत्यभ्युपगच्छन्ति। एवं प्रतिक्षणमवश्यम्भाविभिः खननपूरणादिभिः भूगोलकस्य, नदीजलसंसर्गशीकरोत्पतनैस्समुद्रस्य च उपचयापचयवत्त्वेन क्षणिकत्वमभुयपगच्छन्तस्सर्ववैनाशिकाः। बौद्धास्तु सर्वस्यापि प्रपञ्चस्य क्षणिकत्वमभुयुपगच्छन्तस्सर्ववैनाशिकाः। बौद्धास्तु सर्वस्यापि प्रपञ्चस्य क्षणिकत्वमभ्युपगच्छन्तस्सर्ववैनाशिकाः। बौद्धेष्वपि वैभाषिक सौत्रान्तिकाः परमाणुवादिनइति काणादप्रत्यासत्त्या तदुभयसाधारणैस्सौत्रान्तिकासाधारणैश्चदूषणैरुभयेषां प्रथमाधिकरणे निरासः, द्वितीयाधिकरणे क्षणिकवादसाम्यात् योगाचाराणां. ततो बौद्धत्वसाम्यात् माध्यमिकानां, तदनन्तरमवैदिकत्वसाम्यात् क्षपणकानामितिविवेकः। यद्यपि क्षपणकाअपि परमाणुवादिनः, तथापि वैभाषिकसौत्रांतिकैः खरस्नेहोष्णतेणस्वभावाश्चतुर्विधाः परमामवस्तैरभ्युपगम्यन्ते। परमाणूनां तार्किकैः स्थिरत्वैकान्त्यवत् क्षणिकत्वैकांत्यंतैरभ्युपगम्यते। क्षपणकास्तु परमाण्वैकविध्यवादिनः स्थैर्याद्यनैकान्त्यवादिनश्चेति वैभाषिकसौत्रांन्तिकानां तार्किकप्रत्यासत्त्यतिशयोस्तीति संगतिविशेषोद्रष्टव्यः। तत्र परमाणुवादिनोवैभाषिकसौत्रान्तिकाएवमाहुः- रूपरसगन्धस्पर्शस्वभावाः पार्थिवाः परमाणवः रूपरसस्पर्शस्वभावाआप्याः, रूपस्पर्शस्वभावास्तैजसाः, स्पर्शस्वभावावायवीयाः, भूसूधरसमुद्रबडबानलमहावाय्वात्मकभूतरूपेण संहन्यन्ते। तेभ्यश्च पृथिव्यादिभ्यः शरीरेन्द्रियघटादिविषयरूपभौतिकसंघाताभवन्ति। सर्वत्र संघातः अवयवसमुदायएव। न तद्व्यतिरेकेण अवयविद्रव्यान्तरोत्पत्तिरस्ति तदुत्पत्तौ तत्र चाक्षुषत्वाद्यर्थं पूथग्रूपादिमत्त्वस्य अभ्युपगन्तव्यत्वात्। अवयवरूपादिव्यतिरिक्तस्य च अवयविनि रूपादेरनुपलम्भात्। नहि नानावर्णैस्तन्तुभिरारब्धे पटे तन्तुगतनानारूप व्यतिरेकेण पटे रूपान्तरं, अवयवभेदव्यवस्थितमधुराम्लरसव्यतिरेकेण आम्रफले रसान्तरं अतिपक्वाल्पपक्व
भागभेदव्यवस्थितपूतिगन्धसुरभिन्धव्यतिरेकेण नागवल्लीपर्णे गन्धान्तरं, भागभेदव्यवस्थितकठिनसुकुमारस्पर्शव्यतिरेकेणकदलीदलेस्पर्शान्तरं, मूलमध्याग्रभागव्यवस्थितमहदल्पाल्पतर परिमाणव्यतिरेकेण वृक्षे परिमाणांतरञ्च उपलभामहे। नानावर्णतन्त्वारब्धेषु पटेषु चित्राख्यं रूपान्तरं कैश्चिदभ्युपगतमिति चेत् तदन्यैर्दूषितमेव। "चित्रं चेदेकता नस्यात् एकंचेच्चित्रता कथं। एकंच तच्च चित्रंचेत्येतच्चित्रतरं ह"दिति। रसादिषु तु अव्याप्यवृत्तित्वं केनापि नाभ्युपगतम्। तस्मादणुहेतुको भूतसमुदायः भूतहेतुकोभौतिकसमुदायइत्येवमणुभूतहेतुकसमुदायद्वयरूपएव बाह्यार्थः। सेयं प्रक्रियाऽनुपपन्ना। यतोऽणुभूतहेतुकसमुदायद्वयेऽभ्युपगम्यमाने जगदात्मकसमुदायभावः चेतनस्य तद्विषयव्यवहारश्च न प्राप्नोति। कुतः। अणुनां भूतानांच मेलनार्थव्यापारं विना हेतुत्वे सदा कार्योत्पत्त्यापत्तेः, मेलनहेतुव्यापारविशिष्टानामणूनां भूतानांच भूतभौतिकहेतुत्वं वक्तव्यं। न च तत्क्षणिकत्वे घटते। येषां व्यापारावेशः, तेषां मेलनक्षणे नष्टत्वात्। येषां मेलनं तेषां व्यापारक्षणानुत्पन्नत्वात्। यस्यचेतनस्येंद्रियसन्निकर्षः तस्य ज्ञानोत्पत्तिकाले, यस्य ज्ञानोत्पत्तिः तस्य हानादिव्यवहारकाले च नष्टत्वात्। केषांचिन्मेलनहेतुव्यापारेणान्येषां मेलनाभ्युपगमे कस्यचिदिन्द्रियसन्निकर्षादिनाऽन्यस्य वेदनद्यभ्युगमे चातिप्रसंगात्। नच व्यापारवतां मेलनवतांचाणुभूतानामेकसंतानवर्तित्वात् इन्द्रियसन्निकर्षवतो वेदनादिमतश्चेतनस्य एकसंतानवर्तित्वाच्चानतिप्रसंगः। क्षणिकसंतानव्यतिरिक्तस्य स्थिरस्य संतानस्य क्षणिकत्ववादिभिरनभ्युपगमात्। नन्वस्थिरेष्वपि स्थिरत्वभ्रान्तिरूपाविद्याऽस्ति, साच रागादिहेतुः, रागादिपारवश्यंचाविद्याहेतुरिति अविद्यारागादेः
प्रवाहस्तावदनुभवसिद्धः। तस्य शरीरेन्द्रियविषयादिरूपसमुदायभावाभावे अनुपपत्तेः तदाक्षिप्तसमुदायसिद्धिरप्रतिक्षेप्येति चेन्न। कारणाभावेन समुदायभावानुपपत्तावुक्तायां कारणोक्त्या हि तदुपपत्तिस्समर्थनीया। नचाविद्यारागादिः परमाण्वादिव्यापारनिरपेक्षस्समुदायहेतुः। शुक्तिरजतभ्रांतिरूपाविद्यारजतरागादिनाऽपि शुक्तेश्शुक्तिरूपसमुदायताप्रहाणेन रजतरूपसमुदायतापत्तिप्रसंगात्। अन्यस्याविद्ययान्यस्य रागादिजननेऽतिप्रसंगेनाविद्यारागादिप्रवाहानुपपत्तेश्च। स्यादेतदन्यस्य कर्मणा अन्यत्र संयोगजननेऽतिप्रसंगइतिदोषो न बौद्धमते प्रसरति। न हि तैः क्षणिकेषु परमाण्वादिषु कर्मसंयोगावभ्युपगम्येते। किन्तु देशान्तरस्थेन देशान्तरस्थस्योत्पादः सकर्मप्रत्ययस्यालम्बनं, विप्रकृष्टदेशेन सन्निकृष्टदेशस्य उत्पादः ससंयोगप्रत्ययस्य। ततश्च यथा न्यायमते नानादिक्प्रभवशब्दमूलकशब्दपरम्पराजननक्रमेण बहूनां शब्दानां मेलने सति कोलाहलप्रत्ययः, एवं बहूनां परमाणूनां तथा पुञ्जीभावेसति भूभूधरादिप्रत्ययः। दृष्टंह्येकैकस्य केशस्य दूरे दृश्यत्वाभावेऽपि बहूनां केशानां कवर्यादिरूपेण पुञ्जीभावेसति तत्समुदायस्य दृश्यत्वं। न चादृश्यसमुदायस्या दृश्यत्वनियमः। अप्रयोजकत्वात्। एकैकस्य तन्तोस्स्यवनाकर्षणशक्त्यभावेऽपि तत्समुदायस्य तदाकर्षणशक्तिवत् एकैकस्य परमाणोरदृश्यत्वेऽपि तत्समुदायस्य तदाकर्षणशक्तिवत् एकैकस्य परमाणोरदृश्यतवेऽपि तत्समुदायस्य दृश्यत्वोपपत्तेः। तदाहुः- "प्रत्येकं दृष्ट्ययोग्यत्वेऽप्यणूनां दृश्यता भवेत्। मेलनेसति तन्तूनां नौकाद्याकृष्टिशक्तिव"दिति। तस्मान्न हेत्वसम्भवेन समुदायभावानुपपत्तिरिति चेत् एवमपि हेतुहेतुमद्भावो नोपपद्यते। उत्तरघटक्षणोत्पत्तिदशायां पूर्वघटक्षणस्य विनष्टत्वेन तस्य उत्तरघटक्षणं प्रति हेतुत्वानुपपत्तेः। बौद्धमते वस्तुतः कालो नास्ति। उद्यन्नेव स्वरसभंगुरो घटादिः क्षणकल्पनामात्रनिमित्तं भवति। स च घटादिः स्वोदयविनाशपरिकल्पितक्षणवत्त्वात् क्षणिक इत्युपचर्यते, वपुष्मान् शिलापुत्रक इतिवदिति तेषां प्रक्रिया। अतस्तन्मतमर्यादया घटएव क्षण इति सामानाधिकरण्येन घटः क्षण इति ग्रन्थेषु व्यवहारः। ननु नष्टस्य हेतुत्वासम्भवः, उक्तं हि तेषां तत्वसंग्रहे- "भावानां कारणत्वं न नष्टतया अवस्थिततया वा। अपितु भूततया। भूतश्च स्थितो वा भवतु, नष्टो वा। कारणान्तरपौष्कल्ये सति स्वकार्यमविलम्बेन करोती"ति। दृष्टं हि बीजकृतदोहलसंस्कारस्य कालान्तरभाविपुष्पफलादिगतवर्णरसविशेषहेतुत्वं तस्मान्नष्टत्वेन हेतुत्वानापत्तिरिति चेत्। मैवं। यदि कार्यदशायामसदपि यदा कदाचित्पूर्वसत्त्वमात्रेण हेतुस्स्यात् तदा सर्वदा सर्वत्र सर्वस्याप्युत्पत्तिस्स्यात्। घटोत्पत्तिदशायामंकुरादेरपि उत्पत्तिस्स्यात्। अनादौ कालप्रवाहे नष्टस्य बीजादेस्सत्वात्। न च क्षेत्रतत्कर्षणादिसहकार्यभावश्शङ्कनीयः। तस्यापि नष्टस्य पूर्वसत्त्वाविशेषात्। दोहलद्रव्याणां तु यावत्कार्योत्पत्तिसूक्ष्मरूपेणानुवृत्तिरस्त्येव वृक्षायुर्वेदादिदोहलशास्त्रप्रसिद्धा। स्यादेतच्चिरनष्टस्य
निर्व्यापारस्य माभूद्धेतुत्वं, स्वरूपेण स्वव्यापाररूपेण वा पूर्वक्षणवर्तिनस्तु स्यात्। अवश्यञ्च कारणस्य पूर्ववृत्तित्वं वाच्यम्। तेनैव कारणत्वोपपत्तौ किं कार्यंकालवर्तित्वेन। लोके च विनष्टस्य बीजस्य अङ्कुरे, क्षीरस्य दध्नि, मृत्पिंडस्य घटे च कारणत्वं दृष्टम्। यदि तु कारणस्य कार्यकालवृत्तित्वमपेक्ष्येत, तदा बीजादीनां विनाशोंकुरादिकारणं पूर्वघटक्षणविनाश उत्तरघटक्षणकारणमित्यस्त्विति चेत्। यद्येवं कार्यकालासतः कारणत्वमिष्यते, "अधिपतिसहकार्या लम्बनसमनन्तरप्रत्ययाः चत्वारः चित्तचैत्तहेतव"इति हि बौद्धानां प्रतिज्ञा। तथा हि बुद्धसूत्रम्- "चतुर्विधान् हेतून् प्रतीत्य चित्तचैत्त्या उत्पद्यन्त" इति। अधिपतिरिन्द्रियं। तद्धि ज्ञानस्य रूपादिषु पञ्चसु एकैकमात्रविषयत्वनियामकम्। नियामकश्च लोके अधिपतिरुच्यते। सहकारि आलोकादिकं। आलम्बनं घटादिकं। समनन्तरप्रत्ययः पूर्वज्ञानम्। एतान् चतुर्विधान् हेतून् प्राप्य चित्तं ज्ञानं चैत्याः तदभिन्नास्सुखादयश्च जायन्त इति प्रतिज्ञार्थः। इयं हीयेत प्रतिज्ञा। पूर्वक्षणवृत्तित्वाभावे कारणत्वायोगात्। उत्तरक्षणवृत्तित्वाभावे वर्तमानत्वग्राहिप्रत्यक्षविषयत्वायोगात्। अन्यथा कारणस्य विषयतासिध्यर्थं तस्यापि कार्योत्पत्तिक्षणे स्थित्यभ्युपगम्येत, तदा संप्रयोगज्ञानयोर्हेतुहेतुमतोः यौगपद्यं स्यात्। एतेन पूर्वक्षण विनाशस्योत्तरक्षणकारणत्वमपि निरस्तम्। तथा सत्यधिपत्यादिकारणत्वप्रतिज्ञाविरोधात्। किं च पराभिमतो निरोधाख्ये विनाश एव न संभवति। एवं हि ते कल्पयन्ति। सर्वत्र निरन्वयो निरनुवृत्तिक एव स निरोधशब्दे, नोच्यते, स द्विविधः स्थूलस्सूक्ष्मश्च। मुद्गरपातानन्तरं सर्वैरुपलभ्यमानो घटनाशस्स्थूलः प्रतिसंख्यानिरोधः, प्रतिसंख्या विषयत्वप्रतिकूला तदसत्वग्राहिणी लौकिकानां बुद्धिः, तद्विपरीतः अप्रतिसंख्यानिरोधस्सूक्ष्मः, लौकिकोपलब्ध्ययोग्योयुक्त्या साध्यमानः प्रतिक्षणविनाश इति द्विविधोऽप्ययं निरन्वयविनाशो न सम्भवति। अविच्छेदात्। सदैवाविच्छिन्नतयाऽनुवर्तमानस्य द्रव्यस्य पूर्वावस्थाप्रहाणोत्तरावस्थापत्तिभ्यामेव नाशोत्पत्तिव्यवहारः। न तु द्रव्यस्य क्विदपि निरन्वयविनाशोऽस्तीत्यारम्भणाधिकरणे समर्थितत्वात्। अतो विनाशस्य कारणत्वं न सम्भवति। "आकाशं द्वौ निरोधौ च नित्यं त्रयमसंस्कृतम्। बुद्धिबोध्यं त्रयादन्यत् संस्कृतं क्षणिकञ्च त"दिति
बौद्धैः "संस्कृतं कार्यमेवानित्यं, असंस्कृतमकार्यमाकाशादित्रयं तु नित्य"मिति नित्यत्वेनाभ्युपगतस्य निरोधद्वयस्य कारणत्वानुपपत्तेश्च, अविच्छेदेनानुवर्तमानस्य कारणत्वे सदा सर्वत्र सर्वकार्योत्पत्तिप्रसङ्गात्। तत्सहकारित्वेनाभिमतानामपि निरोधद्वयस्य नित्यत्वात्। किं च निरोधद्वयं आकाशं चेति त्रयमवस्थात्मकं तुच्छमिति बौद्धा मन्यन्ते। तत्र तुच्छात् कथं जगदुत्पत्तिः? तुच्छादुत्पत्तौ तुच्छस्य निर्विशेषत्वेन कारणविशेषकृतकार्यविशेष व्यवस्थित्यसम्भवात् घटक्षणानन्तरं सर्वस्य जगत उत्पत्तिस्स्यात्। तुच्छादुत्पद्यमानञ्च कार्यं तुच्छमेव स्यात्। तस्य सद्रूपतया प्रतीतिर्न स्यात्। सुवर्णरुचकादिन्यायेन कारणानुसारित्वात् कार्यस्य। अपिच- आकाशमपि तुच्छमिति बौद्धैरुच्यते। तत्कथमुपपद्यते। प्रतीयते हि स्पष्टमाकाशं "अत्र श्येनः पतति, अत्र गृध्र"इति श्येनादिपतनदेशत्वेन। नन्वियं प्रतीतिश्चन्द्रसूर्यालोकविषयत्वेनोपपद्यते। महान्धकारे "खद्योत इह पतती"ति प्रतीतिः खद्योतप्रकाशविषयत्वेनोपपद्यते। "इह चन्द्र इह सूर्य" इति प्रतीतिरपि तत्तदालोकविषयत्वेनोपपद्यते। तदाश्रितस्याप्यालोकस्य स्वरूपसम्बन्धविशेषेण तदाधारतया प्रतीतिरप्युपपद्यते। "वने तिलक"इति वृक्षसमुदायरूपस्य वनस्य स्वरूपसम्बन्धविशेषेण तिलकवृक्षाधारत्वप्रतीतिदर्शनात्। आकाशस्यापि हि श्येनाधारता स्वरूपसम्बन्धविशेषेणैवोपपादनीया। निबिडमूर्तद्रव्यस्य भूतलादेरिव तस्य मुख्यतया गुरुद्रव्याधारत्वासम्भवात्। किं च- "इह पक्षी, नेह पक्षी"ति आधारत्वानाधारत्वप्रतीतिद्वयं अवयवभेदावच्छेदेन शक्यमुपपादयितुमालोके। नत्वाकाशे। तस्य निरवयवत्वात्। न चाकाशेऽपि तत्तदधः क्षितिभागभेद एव अवच्चेदकभेदसस्यादिति वाच्यं। ऊर्ध्वाधरदेशयोः "इह पक्षी, नेह पक्षी"ति प्रतीत्योस्तदभावात्। तस्माच्छ्येनपतनादिप्रतीतेरालोकविषयत्वसम्भवात् आकाशे सा न प्रमाणमिति चेत् उच्यते- अस्तितावत् "प्राग्भागे श्येनः पतति प्रत्यग्भागे गृध्र" इत्यादिप्रतीतिः। तस्यां प्राग्देशादिरुपाधारः प्रतीयते। स एवाकाशः। तद्व्यतिरेकेण दिशोऽनंगीकारात्। तस्यैव तत्तदुपाधिभेदेन प्रागादिरूपत्वोपपत्तेः। न च वाच्यं तत्तदुपाधिसम्बन्धेन आलोक एव प्राग्भागादिरूपोऽस्त्विति। "प्राग्भागे चन्द्रालोकः प्रत्यग्भागे तम" इत्यादिप्रतीतिष्वपि आलोकादेरप्याधारत्वेन प्रागादिदेशप्रतीतेः। एवं तर्हि प्राग्भागेऽवकाशोस्तीत्यादिव्यवहारेण अवकाशात्मकादाकाशादप्यन्यस्तदाधारो देशस्स्यादिति चेत् न। तत्रावकाशशब्दस्य निबिडमूर्तद्रव्यावस्थानविरोधिमूर्तद्रव्यान्तरनिरोधाभावपरत्वात्। अत एव
"प्राग्भागेऽवकाशोऽस्ति न प्रत्यग्भागे भुञ्जानैर्निबिड" इति क्वचिद्देशे अवकाशनिषेधोऽपि दृश्यते। न ह्याकाशस्य तत्र निषेधस्सम्भवति। सर्वगतत्वात्। असर्वगतत्वे चावरणापायेऽप्यवकाशाभावप्रसङ्गात्। नहि पूर्वमसन्नाकाशः। एवं च मूर्तद्रव्याभाव एवावकाशः तत्तदुपाध्यवच्छिन्नः प्रागादिव्यहारालम्बनमस्तीत्यपि शङ्का निरस्ता। तस्य देशाधेयत्वेन प्रतीतेः, "प्राग्भागेऽवकाशो नास्ति तत्र नीरन्ध्रमासते द्विजा" इति आवरणाभावरूपावकाशप्रतिषेधेऽपि प्रागादिदेशसत्त्वव्यवहाराच्च। नचैव मावरणाभावरूपावकाशस्येव प्राग्भागादिरूपदेशस्यापि देशाधेयत्वेन व्यवहारोऽस्ति। येन ततोऽपि व्यतिरिक्तो देशस्सिध्येत्। अयं प्राग्देश इत्यादिरेव हि व्यवहारः। न त्वस्मिन् देशे प्राग्देशे इत्यादिरूपः। "इहाकाश" इत्यपि लौकिकप्रतीतेस्तद्व्यतिरिक्तो देशस्स्यादिति चेन्न। लौकिकानामाकाशप्रतीतेरुपरि परितश्चावाङ्मुखेन्द्रनीलमहाकटाहवदवभासमाने मेरुशिखर रत्नप्रभाविशेषत्वेनागमसिद्धे नीलद्रव्य एव व्यवस्थितत्वात् तस्य दिग्विशेषाधेयत्वेन प्रतीत्यविरोधात्। देशरूपस्याकाशस्य "इदानीमिह घट" इत्यादि प्रतीतिषु कालवत् पदार्थविषयत्वेन भानंविना क्वचिदपि लौकिकप्रतीतौ स्वातंत्र्येण भानानङ्गीकारात्। तस्मादाकाशस्य प्रामाणिकत्वात् "आकाशं निरोधद्वयमिति तुच्छत्रयमेव नित्यं, सद्रूपमन्यत्सर्वं क्षणिक"मित्येतदयुक्तं। ननु क्षणिकत्वं प्रामाणिकं कथं प्रत्याख्यायते। प्रत्यक्षं हि वर्तमानवस्तुविषयं, अवर्तमानादतीतात् पूर्वक्षणवर्तिनोऽनागताच्चोत्तरक्षणवर्तिनस्स्वविषयं व्यावृत्तमवगमयति। यथा "नीलो घट" इति नैल्यविशिष्टप्रत्यक्षं अरुणादिव्यावृत्तं घटमवगमयतीतिचेत् उच्यते- उदाहृतमभिज्ञाज्ञानं घटस्य वर्तमानकालसम्बन्धमिव "सोऽयं घट" इति प्रत्यभिज्ञानं तस्यावर्तमानकालसम्बनधमपि विषयीकरोति। अतस्तदनुसारादेकस्य वर्तमानावर्तमानकालद्वय सम्बन्धसिद्धौ क्रमिकत्वेन कालद्वयस्याविरोधोपपत्तेश्च वर्तमानकालसम्बन्धविषयं ज्ञानमयोगव्यवच्चेदमवगमयेत् नान्ययोगव्यवच्छेकं स्वावच्छेदेन वाऽन्ययोगव्यवच्छेदं। न तु सर्वात्मना। अत एव चित्रपटे नैल्यज्ञानं नानीलव्यावृतिं्त गमयति। प्रदेशविशेषावच्छेदेन वा तां गमयति। न हि धर्मयोरविरोधो धर्मिभेदेनैवोपपादनीयः। अपि तु सामानाधिकरण्यप्रमित्यनुदयेनापि। तदुदये तु स्वमनीषिकामात्रकल्पितो विरोधो न प्रामाणिकानां हृदयंगमः। ननु स्मृतिप्रत्यक्षयोः क्लृप्तकारणाभ्यां "स" इति "अयं घट" इति च स्मृन्यनुभवरूपं ज्ञानद्वयमेव भवितु मर्हति। न प्रत्यभिज्ञारूपमेकज्ञानमिति चेन्न। तदिदं मया निहितं रजतमिति तदर्थिन इदमर्थे प्रवृत्तिदर्शनेन प्रत्यभिज्ञानस्यैकज्ञानत्वसिद्धौ तत्र कार्यबलात् तत्र संस्कार प्रत्यासत्तिसहितमिन्द्रियं कारणमिति कल्पनोपपत्तेः। ननु तथाऽपि प्रत्यभिज्ञाभ्रान्तिरूपैव
क्रमसंवर्धमानेषु तरुगुल्मलतादिषु सन्ततसन्तन्यमानाबयवोपचयापचयवत्सु गिरिसमुद्रादिष्वतयन्तविलक्षणेषु बालवार्धक्यापन्नशरीरेष्वपि दृश्यते। अतः कूटसाक्षिणी प्रत्यभिज्ञा न क्वापि प्रमाणमिति चेन्न। उदाहृतप्रत्यभिज्ञानस्यावस्थाभेदेऽप्यवस्थावद्द्रव्यैक्यविषयत्वेन प्रामाण्योपपत्तेः। न हि प्रत्यभिज्ञानस्य अवस्थैक्यं विषयः येनाप्रामाण्यं भवेत्। किं त्ववस्थावद्द्रव्यैक्यमेव। न च आगमापाय्यवस्थातिरेकेणानेकावस्थानुयायिद्रव्यमेव नास्तीति वाच्यम्। तस्मिन्नन्तत उदाहृतप्रत्यभिज्ञानामेव प्रामाण्यसिध्या तत्प्रत्याख्यानायोगात्। ज्वालालूनपुनर्जातकेशनखादिप्रत्यभिज्ञामात्रस्य सादृश्यनिबन्धनभ्रान्तित्वकल्पनमपि न युक्तम्। वाधितज्ञानदृष्टान्तेन अबाधितज्ञानानामप्यप्रामाण्यकल्पने प्रमाणेन वस्तुसिद्धिमात्रस्य लोपप्रसङ्गात्। एतेन यद्बौद्धा वदन्ति- "स्मृतिः पूर्वानुभूतेऽर्थे दर्शनं वार्तमानिके। तयोरत्यन्तभेदे च केनाभेदः प्रतीयताम्।। रूपशक्त्यादिभेदेन बालाद्वृद्धोऽतिभेदवान्। परस्मिन्पूर्वरूपस्य न लेशोऽप्युपलभ्यते।। परस्यापि न पूर्वत्र कथमेकन्तु तद्भवेत्। अवस्थानामयं भेदो नावस्थानवतो यदि।। अवस्था एव दृश्यन्ते न स्वप्नेऽपि ततो पर"मिति। ननु इदं सर्वं क्षणिकत्वनिराकरणहेतुजालं वैभाषिकमत इव न सौत्रान्तिकमे प्रवर्तते। तत्र यत्प्रत्यक्षविषयस्य तत्कारणत्वं न स्यादिति प्रत्यभिज्ञाविरोधापादनं तत्तावन्नप्रवर्तते। सा हि प्रतिज्ञा बाह्यार्थप्रत्यक्षत्ववादिनामेव। यच्च क्षणिकत्वकल्पनस्य प्रत्यभिज्ञाप्रत्यक्षेण बाधवचनं न तदपि प्रवर्तते। बाह्यार्थेषु प्रत्यक्षप्रत्यभिज्ञायामसिद्धेः। एवञ्च "घटादि क्षणिकं अर्थक्रियाकारित्वात् शरीरादिवदिति बौद्धानां क्षणिकत्वानुमानमपि प्रत्यभिज्ञानबाधासिध्या निरुपप्लवं। अस्ति चात्रविपक्षबाधकतर्कस्स्सत्वोच्छित्तिप्रसंगः। अर्थक्रियाकार्यत्वमेव हि सत्त्वं। न ततोन्यज्जात्यादिरूपं। प्रमाणाभावात्। तच्चन्थायि वपक्षे न संभवति। तथा हि- स्थायी भावः स्वीयामर्थक्रियां क्रमेण कुर्यात् युगपद्वा। आद्ये कालांतरभाविनीं प्रत्यपि इदानीं समर्थो वा न वा।
प्रथमेताबदिनानीमेव कुर्यात्। नहीदानीमसमर्थः कालान्तरे समर्थो भवति। युगपदिति पक्षे त्विदानीमेव कर्तव्यस्य सर्वस्य कृतत्वात् कालान्तरे समर्थे भवति। युगपदिति पक्षे त्विदानीमेव कर्तव्यस्य सर्वस्य कृतत्वात् कालान्तरे तस्यासत्त्वं भवेत्। ननु इह क्षणिकत्वानुमाने अस्ति प्रबलः प्रतिकूलतर्कः। क्षणिकत्वे हि त्वदुक्तविपक्षबाधकतर्कोपि न प्रवर्तते। तदुपयोग्यापाद्यापादकभूयस्सहचारदर्शनोपाध्यभावावधारण व्याप्तिग्रहणादीनामैकाधिकरण्यनियमात्। मैवं। एवमादीनामैकाधिकरण्यनियमे क्षणिकत्ववादिनामसंप्रतिपत्तेः। अतिप्रसंगशंका तु कार्यकारणभावस्य नियामकत्वेन निवारणीया। चैत्रमैत्रादयोहि प्रत्येकं कार्यकारणभावापन्ननिरंतरसन्तन्यामानालयविज्ञानक्षणनिचयात्मकाः। तस्मात् सौत्रांतिकपक्षे न कोपि दोष इत्यधिकया प्रत्यवतिष्ठमानानां सौत्रांतिकानां मतमित्थं- ज्ञानगतैर्नीलाद्याकारैः बाह्यार्थगतास्तेऽनुमीयंते। इन्द्रियसन्निकृष्टेन नीलाद्यर्थेन जायमानं हि ज्ञानं स्वयमप्यर्थवन्नीलाद्याकारं भवति। तज्ज्ञानं स्वप्रकाशतया स्वात्मानं विषयीकुर्वत् स्वगतं नीलाद्यर्थिनो बहिः प्रवृत्तिस्तु नापरोक्षज्ञानात्। किन्तु तदनन्तरभाविन आनुमानिकज्ञानात्। यथा वायुनिषेवणार्थिनश्शाखाचलनं दृष्ट्वा वक्षमूले प्रवृत्तिः। न चाक्षुषशाखाचलनज्ञानात्। किन्तु तल्लिंगवायुसञ्चारविषयानुमानिकज्ञानादिति। तत्रेदं दूषणं- इन्द्रियसन्निकृष्टभावक्षणानन्तरक्षणे हि ज्ञानं जायते। तत्र तस्य भावक्षणस्य स्वधर्मसंक्रमणनिमित्तत्वं न युज्यते। असतः कुसुमादेः स्फटिकादिषु स्वध्रमसंक्रमणनिमित्तत्वादर्शनात्। तथाऽपि नीलादिसंक्रमणाभ्युपगमे तद्गतं पुरोवर्तित्व-नेदीयस्त्व-दवीयसत्व- जडत्वादिकमपि संक्रामति न वा। संक्रामतिचेत्, आन्तरत्वज्ञानत्वादेस्तद्विरोधिनोऽवभासो न स्यात्। स्फुटिके लौहित्यसंक्रान्तौ शौक्ल्यस्येव। अथ न संक्रामति दर्पणे मुखगतप्राङ्मुखत्वनेदीयस्त्वादिवत् तदा लिंगाभावात्तदवभासो न स्यात्। अतः क्षणिकवादे बाह्यार्थप्रत्यक्षस्येव तदनुमानस्यासम्भवात् अतस्तेषां व्यवहारसिध्यर्थं स्थायित्वमेवाङ्गीकरणीयम्। क्षणिकत्वेन भावानां यानीष्टप्राप्त्यनिष्टपरिहारार्थानि लौकिकानि विहितानि च कर्माणि तेषां यः कर्ता स न तत्फलभोक्ता। किं त्वन्य एवेत्यापत्तेरुदासीनानामपि फलसिद्धिस्स्यात्। कस्यापि कर्मसु प्रवृत्तिर्न स्यात्। भाविभोक्रैक्यभ्रमात् प्रवृत्तिरिति चेन्न। क्षणिकत्वनिश्चयवतः प्रवृत्तिर्नस्यात्। भाविभोक्रैक्यभ्रमात् प्रवृत्तिरिति चेन्न। क्षणिकत्वनिश्चयवतः प्रवृत्त्यनुपपत्तेः। ननु भेदग्रहेऽपि पुत्रपौत्रादिषरम्परानुभाव्यफलेच्छया कर्मसु प्रवृत्तिदर्शनात्तथेहापि प्रवृत्तिस्स्यात्। तत्र कार्यकारणभावस्य नियामकत्वक्लृप्तेरिति चेत्। तर्हि पितृकृतानां सर्वेषां कर्मणां फलं पित्रनुभवादिफलस्मरणादिकञ्च पुत्रपौत्रादिपरम्परायां भवेत्। कार्यकारणभावस्य स्वकीयविज्ञानसन्तान इव तस्यामपि सत्त्वात्। तस्मात् कार्यकारणभावस्यानियामकत्वात् फलादिव्यवस्थासिद्धये प्रत्यभिज्ञाप्रामाण्यनिर्वाहाय च आत्मनोऽन्येषां च स्थैर्यमेवाङ्गीकार्यम्। क्षणिकत्वानुमानस्य विपक्षबाधकतर्कस्तु न प्रवर्तते। समर्थस्यापि सहकारिसमवधानक्रमात्
कार्यक्रमोपपत्तेरित्यादिक्षणिकत्वनिराकरणप्रपञ्चोऽन्यत्र द्रष्टव्यः।।
संग्रहकारिका।।
उक्ते वैभाषिकेण क्षणभवसमुदायद्वये सन्निकर्ष-
ज्ञानोपादानहानक्षिति जलदहनाद्युद्भवा नो घटन्ते।
ज्ञानाकारानुमेयं तदसदपि तदा वक्ति सौत्रान्तिकाख्यो
नष्टार्थाकारसंक्रान्तत्यघटनवचसा बोधनीयस्समन्दः।।
इति समुदायाधिकरणम्।।
नाभाव उपलब्धेः।।27।।
वैधर्म्याच्च न स्वप्नादिवत्।।28।।
नभावोऽनुपलब्धेः।।29।।
क्षणिकत्वे नीलाद्यर्थानां प्रत्यक्षत्वमनुमेयत्वं वा न घटत इति वैशेषिकसौत्रांतिकमतयोरुक्तं दूषणं न योगाचारमते प्रवर्तते। नीलाद्यर्थनामान्तरविज्ञानरूपत्वेन स्वप्रकाशैस्तैरेव तत्प्रत्यक्षीकरणसंभवात् तदिति प्रत्यवस्थानात् सङ्गतिः। इदानामिह योगाचारमतं घटपटादिज्ञानानां तत्तदर्थासाधारण्यं तत्तदर्थसारूप्यमन्तरेण
न घटत इत्यवश्यं ज्ञानेऽर्थसरूपं रूपमास्थेयम्। तावतैव सर्वव्यवहारोपपत्तेः। ज्ञानाकारनीलादिव्यतिरेकेण बाह्यार्थकल्पना नीलादीनां विज्ञानाकारत्वे च "नीलादिकं ज्ञानाभिन्नं भासमानत्वात् ज्ञानसहोपलम्भनियतत्वात् ज्ञानव"दित्यनुमानञ्च। न च सहत्वस्य भेदगर्भत्वाद्द्वितीयहेतुर्विरुद्ध इति वाच्यम्। ज्ञानोपलम्भव्याप्योपलम्भविषयत्वस्य तदर्थत्वात्, तदविनाभावरूपस्य च व्याप्यत्वस्याभेदेऽपि सत्त्वात्। नचाभेदे "इदं जानामी"ति क्रियाकर्मभावरूपभेदावभासविरोधः। तस्य द्विचन्द्रज्ञानवद्भ्रान्तित्वात्। तदाहुः "सहोपलम्भनियमादभेदो भेदतद्धियोः। भेदस्तु भ्रान्तिविज्ञानैः दृश्यश्चन्द्र इवाद्वय" इति। बाह्यस्य नीलादेः कथमान्तरज्ञानभेदावभासो भ्रम इति चेत्, बाह्यत्वावभासोऽपि भ्रम एव। उपरिस्थितानां नक्षत्रादीनामुद्यतां भूमिस्थत्वावभासवत्। एतेन "अहं जानामी" ति कर्तृकर्मभावेन भेदावभासोऽपि व्याख्यातः। तदप्याहुः- "अविभागोऽपि बुध्यात्मा विपर्यासितदर्शनैः। ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्य" इति। ननु वस्तुत एकस्य ज्ञानस्य "अहमिदं जानामी"ति कर्तृकर्मक्रियात्मतया भेदेनैव स्फुरणं कथमिति चेत्, पूर्वपूर्ववासनावशात्। घटाकारज्ञानोत्पत्त्यनन्तरं कपालाकारज्ञाननोत्पत्तिस्तु वासनावैचित्र्यादिति। इदमयुक्तं। कर्तुः क्रियाकर्मतया बाह्यत्वेन प्रत्यक्षानां नीलाद्युपलब्धौ जाग्रत्यां तेषां ज्ञानाभेदानुमानानामनुत्थानात्। न च वाच्यं "बाह्यं नीलादिकमुपयद्भिरपि ज्ञानानां नीलाद्याकारत्वमनुभवसिद्धमंगीकार्यं। तेनैव सर्वव्यवहारोपपत्तौ किं बाह्यार्थकल्पनया। न हि नीलाद्याकारद्वयमुपलभ्यत" इति। यतो नीलाद्यर्थविशेषविषयेच्छादिव्यवहारानुगुण्यमेव ज्ञानस्य नीलाद्याकारः। नतु बाह्यार्थस्येव मुख्यं नीलाद्याकारत्वमस्ति। नीलशीतोष्णादिसमूहालंबनानां परस्परविरुद्धानेकरूपत्वापत्तेः। स्वप्नदृष्टांतेन ज्ञानानां बाह्यार्थशून्यत्वकल्पनमपि नयुक्तं। बाधाबाधाभ्यां स्वप्नज्ञानानामपि तादात्विकविषयत्वाच्च। वासनावैचित्र्यात् विचित्रज्ञावोदयसमर्थनमप्ययुक्तं, निरन्वय विनाशवादे वासनाधानस्याप्यसंभवात्।।
संग्रहकारिका।।
विज्ञानमेव त्रिपुटं योगाचारस्य जल्पतः।
निह्नुतिर्वेद्यवेदित्रोः उपलब्ध्यैव वार्यते।।
इति उपलब्ध्यधिकरणम्।।
सर्वथाऽनुपपत्तेश्च।।
विज्ञानमात्रास्तित्ववादियोगाचारमतनिराकरणान्तरं तदप्यपलपतां माध्यमिकानां मतं निराक्रियत इति संगतिः। ते खलु एवमाहुः-नेष्टन्तदपि धीराणां विज्ञानं पारमार्थिकं। एकानेकस्वभावेन वियोगाद्वियदब्जवत्।। विज्ञानानामपि नीलपीतशीतोष्णाद्येकानेकस्वभाववत्वविकल्पदौस्थ्यान्न परमार्थसत् अतस्तुच्छत्वमेव तत्व"मिति। इदमयुक्तं। तुच्छत्वं प्रतिजानानस्य तत्तुच्छत्वं सत्त्वरूपमिति वा असत्त्वरूपमिति वा प्रकारांतरमिति वा अभिप्रायः। सर्वथाऽपि नसंभवति। लोके
सत्त्वासत्वयोः नित्यानुवर्तमानद्रव्यावस्थाविशेषत्वेन आरम्भणाधिकरणे प्रतिपादततया तुच्छत्वं सत्त्वमेवेति वा, असत्त्वमेवेति वा, प्रकारान्तरमिति वा, उपपादनासम्भवात् सर्वेष्वपि कार्येषु सतएव कारणत्वेन केवलादसतः प्रकारान्तरापन्नाद्वा कार्योत्पत्तयभावात्। एतेन अभावात्मकत्वमेव तुच्छत्वं, चतुष्कोटिविनिर्मुक्तत्वं वा तुच्छत्वं। "नसन्नासन्नसदसत् नचाप्यनुभयात्मकं। चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिकाविदु"रितिवचनादिति निरस्तं। भावातिरिक्ताभावानगीकारेण अभावकारणतोक्तेः सत्कारणवादएव पर्यवसानात्। सद्बुद्धिशब्दवत् सत्त्वनिषेधादिबुद्धिशब्दानामपि देशकालपरिच्छिन्नवस्तुविषयत्वेन ततस्तुच्छत्वासिद्धेः। इदमिदानीमस्ति इदमेवंरूपभवतीति सत्त्वबुद्धिशब्दयोरपि देशकालवस्तुपरिच्छिन्नसत्त्वाविषयत्त्वेनैव लोके प्रसिद्धतया क्वचिदपि निरूपाधिकनिषेधासिद्धेः।।
संग्रहकारिका।।
सर्वशून्यत्ववादस्तु सर्वथानोपपद्यते।
यस्मात्सदसदित्युक्ती वस्त्ववस्थातदाश्रये।।
इति सर्वथानुपपत्त्यधिकरणम्।।
नैकस्मिन्नसंभवात्।।31।।
एवञ्चात्माकार्त्स्न्यम्।।32।।
न च पर्यायादप्यविरोधोविकारादिभ्यः।।33।।
अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः।।34।।
निरस्तास्सौगताः। जैनानिरस्यन्ते। ते किलमन्यन्ते- जीवधर्माधर्म पुद्गलकालाकाशाख्यषड्द्रव्यात्मकंजगत् निरीश्वरं। तत्र जीवा बद्धयोगसिद्धमुक्तास्त्रिविधाः। धर्मो गतिमतां गतिहेतुर्व्यापी द्रव्यविशेषः। अधर्मस्स्थितिहेतुर्व्यापी द्रव्यविशेषः। पुद्गलस्त्वणुभूधरसमुद्रादिः। "अभूदस्तिभविष्यती"ति व्यवहारहेतुरणुद्रव्यविशेषः कालः। आकाशोऽप्येकः। किंत्वनन्तप्रदेश इति। पुनश्चापरमपि संग्रहं कुर्वन्ति। जीवाजीवास्रवबन्धनिर्जरसंवरमोक्षा इति। जीवा उक्ताः। अजीवो जीवभोग्यं सर्वंवस्तुजातं। आस्रवत्यनेन जीवो घटादिज्ञानरूपेणेत्यास्रव इन्द्रियसंघातः। केचित्वास्रवति जीवे गच्छतिसति सर्वत्रानुगच्छतीति कर्मबन्ध आस्रव इत्याहुः। तदाह जिनदत्तः "आस्रवः कर्मणा बन्धो निर्जरस्तद्विमोचन"मिति। बन्धः घातिकर्मचतुष्काघातिकर्मचतुष्कभेधेनाष्टविधः। तत्राद्यचतुष्कं जीवस्य ज्ञानदर्शनसुखवीर्यगुणानां मोक्षदशायामाविर्भविष्यतां प्रतिघातकं प्रवाहानादिपापरूपम्। द्वितीयचतुष्कं शरीर संस्थानतदभिमानतत्स्थिति ततप्रयुक्तसुखादि निमित्तपुण्यमिश्रितत्वात् पुण्यरूपम्। निर्जरो निश्शेषं जीर्यत्यनेन कामक्रोधादिरिति व्युत्पत्त्या केशोल्लुंछनतप्तशिलारोहणदिरूपं तपः। संवर इन्द्रियनिरोधः। स्वाभाविकात्मस्वरूपाविर्भावो मोक्षः। केचित्तु सततोर्ध्वगमनं मोक्षः। बन्धमुक्तस्य ह्यूर्ध्वगमनं स्वभावः। यथा पञ्जरमुक्तशुकस्य, यथा वा निर्भिन्नस्य परिणतैरण्डबीजस्य, यथावा दृढपङ्कलिप्तस्य जलनिमज्जनप्रक्षीणपङ्कलेपस्य शुष्कालाबुफलस्य। इह्वनादिकालप्रवृत्तबन्धविगमात् सततोर्ध्वगमनं सर्वेषां लोकानामुपरि स्थितो निरवधिरलोकाकाशस्सततोर्ध्वगमन स्यावकाश इत्याहुः। तथा पठन्ति- "गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः। अद्यापि न निवर्तन्ते त्वलोकाकाशमार्गगा"इति।। अपरेत्वाविर्भूतज्ञानादिगुणस्योपरिदेशावस्तम् मोक्षइत्याहुः। सर्वमेतद्वस्तुजातं सप्तभङ्गीनयेन योजयन्ति। "स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यं, स्यादस्ति चा वक्तव्यञ्च, स्यान्नास्तिचावक्तव्यञ्च, स्यादस्ति च नास्तिचावक्तव्यञ्चे"ति। अत्र सत्वासत्व-सदसत्व सदसद्विलक्षणत्व-रूपानिर्वचनीयत्व विषयाश्चत्वारः प्रकाराः। पुनश्चानिर्वचनीयत्वेन सह सत्वासत्वसदसत्वसंयोजनेन त्रयः प्रकारा इत्येवं सप्तप्रकारावादिभिरुत्प्रेक्षितुं शक्याः। ते सर्वेऽपि प्रकारा जैनैरीषदीषत्स्वाङ्गीकृतेषु सर्वेष्वपि पदार्थेषु वर्ण्यते। स्याच्छब्द ईषदर्थ इति केचित्। अनैकान्त्यार्थं इत्यन्ये। उभयथाऽपि तिङन्तप्रतिरूपकमव्ययम्। सत्वे प्रदर्शितः सप्तभङ्गीनयस्स्यान्नित्यं स्यादनित्यमित्यादिरूपेण नित्यत्वभिन्नत्वादिधर्मेष्वपि समान इति तदिदं जैनमतमपि न युक्तम्। एकस्मिन्विनोपाधिभेदं विरुद्धानेकधर्मसमावेशासम्भवात्। नन्वेकस्मिन्नपि देशकालाद्युपाधिभेदेन विरुद्धधर्मसमावेशोऽभ्युपगम्यते। नन्वेकस्मिन्नपि देशकालाद्युपाधिभेदेन विरुद्धधर्मसमावेशोऽभ्युपगम्यते। स न तत्रोपाधिभेदस्सम्भवतीत्येतावताऽभ्युपगम्यते। स न तत्रोपाधिभेदस्सम्भवतीत्येतावताऽभ्युपगम्यते। किन्तु प्रमाणवत्त्वेन। अत एव पिंडत्वघटत्वयोः कालोपाधिभेदेन समावेशमभ्युपगच्छताऽपि सिद्धान्तिना जीवत्वेश्वरत्वादीनां तथा समावेशे प्रमाणन्नास्तीति तेषां यत्किंचिदुपाधिभेदेन समावेशो नाभ्युपगम्यते। एवञ्च प्रमाणाधीन एव धर्मसमावेशः। न तूपाधिसम्भवाधीन इति स्थिते सत्यत्वादिकं
व्यवस्थापयद्भिस्तैस्तैर्वादिभिरूपपादितानि सत्वासत्वसदसत्त्वादिषु प्रमाणानीति तेषां समावेशः कुतो न स्यादिति चेन्न। तैस्तैर्वादिभिरुत्प्रेक्षितानां सर्वेषां प्रामाण्यसंभवात् परस्परविरोधित्वेन केषांचिदाभासत्वावश्यंभावात्। अन्यथा प्रपंचसत्त्वाद्विवादिभिस्तदसत्यत्वादौ दोषाणामप्युमानत्वेन तेषामप्यारोप्यत्वापत्त्याऽनैकान्त्यवादिनस्तत्तद्वाद्युक्त दोषभाक्त्वस्यापि प्रसंगात्। एतेन यदुक्तं स्याद्वादमंजर्यां- "अन्योन्यपक्षप्रतिपक्षभावाद्यथापरे मत्सरिणः प्रवादाः। न यानशेषानविशेषमिच्छन्नपक्षपाती समयस्तथान" इति, तन्निरस्तं। अपक्षपातेन सकलसमयोक्तसत्त्वादिसंग्रहे तत्तदुक्तासत्वदोषाणामपि संग्रहापत्तेः। ननु तर्हि लोकाविरोधेनैव सप्तभंगीनयं समर्थयामहे। सर्वसंप्रतिपन्नेन तावदेकस्य कालभेदेन सत्वासत्वे। अतस्तयोस्स्वस्वकालविवक्षया अस्तीति नास्तीति च भंगद्वयं क्रमविवक्षया
सदसदिदमिति तृतीयभंगः युगपत्सत्वासत्वविवक्षयाऽनिर्वचनीयमिति चुतर्थभंगः। न हि युगपदेकस्य सत्वमसत्वं च निर्वक्तुंशक्यं। यगपत्सत्वासत्वयोरनिर्वचनीयत्वेन सह सत्वस्यासत्वस्य क्रमिकोभयस्य च मेलनेऽवशिष्टं भंगत्रयमिति। तदाहानन्तवीर्यः- "तद्विधानाविवक्षायां स्यादस्तीति गतिर्भवेत्। स्यान्नास्तीति प्रयोगस्स्यात् तन्निषेधे विवक्षिते।। क्रमेणोभयवांछायां प्रयोगस्समुदायभाक्। युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः। आद्यावाच्यविवक्षायां पंचमो भंगं इष्यते। अन्त्यावाच्यविवक्षायां षष्ठभंगस्समुद्भवी।। समुच्चयेन युक्तश्च सप्तमो भंग उच्यत" इति। तस्मादविरोधेन सप्तभंगीनय उपपद्यत इति चेत्, यद्येवं पारिभाषिकोयं सप्तभंगीनयः तदास्वीक्रियत एव। घटादिस्स्वदेशेऽस्ति अन्यदेशे नास्ति, स्वकालेऽस्ति-अन्यकगाले नास्ति, स्वात्मनास्ति-अन्यात्मना नास्तीति देशकालप्रतियोगिभेदेन सत्वासत्वसमावेशे लौकिकपरीक्षकाणां विप्रतिपत्त्यभावात्। न चैतावता जैनाभिमतवस्त्वनैकांत्यसिद्धिः। स्वकाले सदेव अन्यकाले असदेवेत्यादिनियमक्षत्यभावात्। ननु सर्वधर्मानैकांत्यवादिनामेकत्वमपि न व्यवस्थितं। अतः "स्यादनेक"मित्यनेक त्वपर्यायमादाय सत्वासत्वादिसमावेश उपपद्यत इति चेन्न। प्रथमापेक्षितस्यैकत्वानेकत्वसमावेशस्याप्यविरोधेनोपपादयितुमशक्यत्वात्। संख्यैकांत्यानङ्गीकारे जींवधर्माधर्मादीनि षड्द्रव्याणीति स्वसिद्धान्तस्थित्युपन्यासायोगाच्च। किं बहुना। सर्वानैकान्त्यवादिनां "अयमस्याः पुत्रः, अयमस्याः पतिः, अयमस्याः पिते"त्यादिव्यवस्थाया अप्यसिध्या तस्यां पुत्रादीनां मातृत्वाद्युचितव्यवहारा अपि न व्यवतिष्ठेरन्। तस्मात् सर्वबहिष्कार्योऽयमनकान्तवादः। किं चात्मा देहपरिमाण इति जैनैरिष्यते। तदप्ययुक्तम्। मातङ्गशरीरं व्याप्य स्थितस्यात्मनो मशकशरीरप्रवेशे वैकल्यप्रसङ्गात्। भशकशरीरान्मातंगशरीरं प्रविशतस्तद्व्यापनसमर्थपरिणामाभावेन तत्र तस्य सर्वांगीणसुखानुभवाभावप्रसंगाच्च। ननु संकोचविकासवानात्मा तत्तच्छरीरानुसारेण संकोचरूपं विकासरूपं वा पर्यायमवस्थांतरमापद्यत इत्यभ्युपेयते। अतो न दोष इति चेन्न। तथासत्यात्मनो विकार तत्प्रयुक्तानित्यत्वादिप्रसंगात्। तस्मान्मोक्षदशायामात्मनो यदंत्यं परिमाणं तस्य तथैवावस्थानं जैनैरपि वक्तव्यम्। तदनन्तरं देहान्तराभावेन तदुचितपरिमाणाप्रसक्तेः। अतो मोक्षदशावस्थितात्मस्वरूपवत् तत्परिमाणस्यापि नित्यत्वाविशेषात् तदेवात्मनस्स्वाभाविकं परिमाममित्यंगीकर्तुं युक्तं। न तु संकोचविकासवत्त्वम्।।
संग्रहकारिका।।
सप्तभंगीनये कार्या न प्रत्याशा दिगंबरैः।
सत्वासत्वादियुगपत् नन्वेकस्मिन्नसंभवि।।
इति एकस्मिन्नसंभवाधिकरणम्।।
पत्युरसामञ्जस्यात्।।35।।
अधिष्ठानानुपपत्तेश्च।।36।।
करणवच्चेन्न भोगादिभ्यः।।37।।
अन्तवत्वमसर्वज्ञतावा।।38।।
सत्वासत्वादिविरोधाज्जैनानां मतमिव परस्परविरोधाद्वेदविरोधाच्च शैवानां मतमप्यसमंजसमित्युपपाद्यत इति संगतिः। कापाल-कालामुखपाशुपत- सिद्धांतशैवाख्यचतुर्विधशैवमध्ये कापालानां कालामुखानांच मतं भाष्ये प्रदर्शितं। पाशुपतास्वित्थमाहुः- कार्यकारणयोगविधिदुः खांताः पंच पदार्थाः पशउपाशविमोक्षाय बोद्धव्याः। तत्र कार्याणि पृथिव्यादीनि पञ्चभूतानि, रूपादयः पञ्च गुणाश्चेति दशविधानि। करणानि ज्ञानेन्द्रियाणि पञ्च, कर्मेन्द्रियाणि पञ्च,
मोबुध्यहङ्काररूपाणि त्रीण्यन्तः करणानीति त्रयोदशविधानि। ध्यानादिरूपो यगः। धर्मार्थव्यापारो विधिः। स व्रतद्वाररूपेण द्विविधः। भस्मस्नानभस्मशयनोपहारादिव्रतम्। भस्मस्नानं द्विविधम्। त्रियवणकर्तव्यं जलस्नानप्रतिनिधिरूपं नित्यमेकम्। मलमूत्रोत्सर्जनक्षुतनिष्ठीवनादिषु कर्तव्यं जलशुद्धिप्रतिनिधिरूपानुस्नानाख्यं नैमित्तिकमन्यद्भस्मस्नानम्। भस्मशयनञ्च गृहस्थगृहेष्वन्नवद्भिक्षितेन भस्मना कार्यं। उपहारष्षड्विधः- हसितगीतनृत्तहुडुकारनमस्कारजपभेदेन। तत्र हसितमट्टहासः। गीतं नृत्तञ्च यथारुचि गान्धर्वशास्त्रानादरेण। हुडुकारो जिह्वा तालुसंयोगेन निष्पाद्यमानो वृषभनादसदृशो नादः। यत्र लौकिका
नभवन्ति तत्र चत्वार्येतानि गूढं प्रयोक्तव्यानि। जपः पञ्चब्रहममन्त्राणां नमस्कारः प्रसिद्धः। द्वाराणि कायनस्पन्दनमन्दयानश्रृङ्गारणापितत्करणापितद्भाषण भेदेन षड्विधानि। असुप्तस्येव सुप्लिङ्गप्रदर्शनं कायनम्। वातव्याध्यभि भूतस्येव शरीरावयवानां कम्पनं स्पन्दनम्। उपहतपादेन्द्रियस्येव गमनं मन्दयानम्। रूपयौवनसम्पन्नां कामिनीमवलोक्यात्मानं कामुकमिव यैर्विलासैः प्रदर्शयति, तदाचरणं श्रृङ्गारणम्। कार्यकार्यविवेकविकलस्येव लोकनिन्दितकर्मकरणमपितत्करणम्। व्याहतापार्थकादिशब्दोच्चाराणमपि तद्भाषणम्। दुःखान्तो द्विविधः। अनात्मकस्सात्मकश्च। अनात्मकस्सर्वदुःखानामत्यन्तोच्छेदः। सात्मकस्तु दृक्क्रियाशक्तिबललक्षणमैश्वर्यम्। तत्र दृक्छक्तिरेकाऽपि वषयभेदात्पञ्चधोपचर्यते। दर्शनं श्रवणं मननं विज्ञानं सर्वज्ञत्वं चेति। सूक्ष्मव्यवहितविप्रकृष्टाशेषचाक्षुषस्पर्शनादिविषयं ज्ञानं दर्शनम्। अशेषशब्दविषयं ज्ञानं श्रवणम्। निरवशेषशास्त्रविषयं ज्ञानं मननम्। ग्रन्थतोऽर्थतश्चासन्दिग्धं ज्ञानं विज्ञानम्। सर्वज्ञत्वं प्रसिद्धम्। क्रियाशक्तिरेकाऽपि त्रिविधोपचर्यते- मनोजवत्वं कामिरूपत्वं विकरणथर्मित्वञ्चेति। निरतिशयशीघ्रगामित्वं मनोजवित्वम्। कर्मानपेक्ष्य स्वेच्छयैवानन्तशरीरेन्द्रियाधिष्ठातृत्वं कामिरूपित्वम्। उपसंहृतशरीरेन्द्रियस्यापि निरतिशयैश्वर्यशालित्वं विकरणधर्मित्वम्। पशुपतिस्तु परमेश्वरस्सर्वत्रापि कार्ये निमित्तम्। पशूनां कर्मानपेक्ष्य स्वेच्छयैव फलप्रदः। निरतिशयस्वातंत्र्यशालित्वात्। न चैवं कर्मवैयर्थ्यम्। ईश्वरेच्छानुगृहीतकर्मणस्साफल्यात्, तदननुगृहीतस्य कर्मणः पर्जन्याननुगृहीतकृषिकर्मण इव वैफल्येऽपि दोषाभावात्, तदनुग्रहसम्भावनया कर्मसु प्रवृत्त्युपपत्तेः। सृष्टिक्रमोऽपि तादात्विकेश्वरेच्छाधीनः। न तु नियमेनाकाशादिरिति। एवंविधस्य पाशुपतमतस्य कापालकालामुखमताभ्यां विरोधस्स्पष्टः। भस्मस्नानादेः क्रियातस्साम्येपि शवभस्मवत् किंचिद्भस्माभिक्षितं भस्मेति ग्राह्यभस्मस्वरूपेऽस्ति विरोधः। वेदेनचास्ति विरोधः। न हुडुकारादिकं वेदेषु तदुपबृह्मणेषु स्पष्टमस्ति। श्रृङ्गारणं भस्मस्नानानुस्नानाभ्यां प्रत्याम्नानतया जलस्ननं जलशुद्धिनिवर्तनं प्राणिकर्मनियतसृज्यक्रमानपेक्षणञ्चात्यंतं वेदमार्गविरुद्धं। एवं कापालादिशैवत्रयं परस्परविरोधाद्वेदविरोधाच्चासमंजसमिति सिद्धं। यद्यपि सिद्धांतशैवस्य नात्यंतं वेदविरोधोस्ति। वेदविरोधाभावे च कामिकादिवातुलांतानामष्टाविंशतितंत्ररूपाणामवांतरभेदानां परस्परविरोधस्त्वागमसिद्धांत दिव्यसिद्धांततंत्रसिद्धांततंत्रांतरसिद्धांतरूपपांचरात्रावांतरतंत्रभेदपरस्परविरोधवत् तत्तत्तंत्रगीक्षिताधिकारिभेदेन समाधातुं शक्यः। कामिकादिषु शिवागमस्य वेदादुत्कर्षोक्तिश्च पांचरात्रस्य तत उत्कर्षोक्तिवत् समाधातुं शक्या। तथापि वेदप्रामाम्यमंगीकृत्यापि वेदं प्रच्छाद्य सिद्धांतशैवतंत्रेषु यदनुमानेनैवेश्वरप्रसाधनं कृतं तन्नूनं यथावेदमीश्वराभ्युपगमे प्रायः कारणवाक्येषु पुरुषोत्तमासाधारणेन नारायणनाम्ना कारणवस्तुनिर्देशात् स एव जगत्कारणं परब्रह्म भेदिति तत्प्रच्छादनार्थमित्यवसीयते। अतस्तेषामनुमानेनेश्वरप्रसाधनमात्रस्यासामञ्जस्यमुद्भावयामः। लोके कुलालमृत्पिण्डादिभेददर्शनेन हि श्रुतिसिद्धजगन्निमित्तोपादानाभेदमविगणय्यानुमानेन केवलनिमित्तेश्वरः प्रसाध्यते। तर्हि लोकदर्शनेनैव शरीरित्वमप्यंगीकरणीयं। शरीरिण एव कुलालादेः कर्तृत्वदर्शनात्। न चाधिष्टेयं मायादिकमेव तस्य शरीरं भवेत्, स्वशरीरव्यापारेनात्। न चाधिष्ठेयं मायादिकमेव तस्य शरीरं भवेत्, स्वशरीरव्यापारे नियम्यातिरिक्तशरीरानपेक्षणस्य दृष्टत्वादिति वाच्यं। न हि शरीरमात्रमापादयामः। किन्तु भोगाश्रयरूपं। भोगार्थं तथाभूतं शरीरमधितिष्ठतो हि सुखार्थं दुःखपरिहारार्थं वा क्वाचित्कत्वं दृष्टं। तथा च कर्तृत्वनिर्वाहार्थं भोगाश्रयशरीराभ्युपगमे तन्मूलपुण्यपापवत्वं, शरीरस्यानित्यत्वनियमात् अन्तवत्वं, जननमरणावृत्तिमतां किञ्चिज्ज्ञत्वदृष्टेरसर्वज्ञत्वं च, स्यात्। अतोऽनुमानेनेश्वरसिद्धिमिच्छतां यथाभिमतरूप ईश्वरो नसिध्येदिति। यत्तु शास्रयोनित्वाधिकरणे अनुमानेनेश्वरसिद्धौ ईश्वरानेकत्वादिकमपि सिध्येदिति दुषणमुक्तं, तदप्यत्रत्यदुषणमेव। अत्रैव सूत्रकारस्यानुमानदूषणकंठोक्तिदर्शनात्। तत्र तु सूत्रकृतां "तंत्वौपनिषदमि"त्यादिश्रुतितात्पर्यविचारेमैव परमेश्वरस्य शास्त्रयोनित्वं व्यवस्थापितं। अतो न तेन पौनरुक्त्यं। "रचनांनुपपत्ते"श्चेति सांख्याधिकरणे मृद्घटादिन्यायेन सुखदुःखमोहात्मकस्य जगतस्तत्सरूपेण कारणेन
भवितव्यमित्यनुमिमानं सांख्यं प्रति तर्हि तदृष्टांतेनैव चेनाधिष्ठानेनैव भाव्यमित्येतावन्मात्रमापादितं। न तु स्वतंत्रमीश्वरानुमानमनवद्यमिति तेनेश्वरः प्रसाधितः। अतस्तत्रेश्वरानुमानमनुमोदितं। इह दूषितमिति न विरोधः।
संग्रहकारिका।।
पत्युर्मतं नादरणीयमेव परस्परेण श्रुतितोऽपि बाधात्।
निमित्तमात्रेश्वरकल्पनाया मधिष्ठितेरप्यसमंजसत्वात्।।
इति पशुपत्यधिकरणम्।।
उत्पत्त्यसंभवात्।।39।।
न च कर्तुः करणम्।।40।।
विज्ञानादिभावे वा तदप्रतिषेधः।।41।।
विप्रतिषेधाच्च।।42।।
पाशुपतवत् पाञ्चरात्रस्यापि तंत्रत्वेनाप्रामाण्यमाशंक्य निरस्यत इति संगतिः। पाञ्चरात्रिणो भागवता मन्यन्ते- भगवान्नारायणः परंब्रह्म सवासुदेवादिचतुर्व्यूहात्मनाऽवतिष्ठते। तत्र वासुदेवः परिपूर्णषाड्गुण्यशाली। षड्गुणास्तु ज्ञानबलैश्वर्यशक्तितेजांसि। तत्र चेतनाचेतनात्मकसकलप्रपञ्चगताशेषविशेषोल्लोखिततया सकलवस्तुगोचरं तस्य ज्ञानं ज्ञानमुच्यते। जगत्प्रकृतिभावश्शक्तिः। जगत्सृजतोऽस्य श्रमाभावस्तिलकालकवदप्रयत्नेन स्वसृष्टसकलजगद्भरणञ्च बलम्। अप्रतिहतेच्छत्वमैश्वर्यम्। जगत्प्रकृतित्वेऽपि पयसो दधिभावेनेव विकारविरहो वीर्यम्। जगत्सृष्टौ सहकार्यनपेक्षत्वं पराभिभवसामर्थ्यञ्च तेजः। ततो ज्ञानबलोन्मेषेण सङ्कर्षणरूपः प्रादुर्भवति। ततो वीर्यैश्वर्योन्मेषेण प्रद्युम्नरूपाः। ततश्शक्तितेजस्समुन्मेषेणानिरुद्धरूपः।। सङ्कर्षणादयश्च जीवमनोऽहङ्कारूरपाः। एवं चतुर्व्यूहं भगवन्तं प्रत्यहं पाञ्चकालिकेनाभिगमनादिपञ्चकेन वार्षशतिकादिव्रतेन समाराध्य पुरुषः क्लेशैर्मुच्यते। तत्राभिगमनं प्रातर्भगवन्मन्त्रजपस्तुतिनमस्कारादिकम्। ततः पूजार्थपुष्पादिस्पादनमुपादानम्। ततः पूजनमिज्या। ततो भगवच्छास्त्रतदनुगुणपुराणागमश्रवणादिकं स्वाध्यायः। ततस्सायंसन्ध्यानन्तरं भगवति चित्तसमाधानं योग इति। तदिदमयुक्तमिति पूर्वपक्षः। तथा हि- पाञ्चरात्रे जीवस्योत्पत्तिराम्नायते। "वासुदेवात्सङ्कर्षणो नाम जीवो जायते। सङ्कर्षणात्प्रद्युम्नसंज्ञं मनो जायते। तस्मादनिरुद्धसंज्ञोऽहङ्कारो जायत" इति। न च जीवस्यानादेरुत्पत्तिस्सम्भवति। न च सङ्कर्षणादीनां जीवाद्यभिमानित्वमनेनोच्यत इति वाच्यम्। तथा सति "सङ्कर्षणो नाम जीव" इत्याद्यनुपपत्तेः। अनेन हि प्रसिद्धानामेव जीवमनोऽहङ्काराणां पाञ्चरात्रपरिभाषया सङ्कर्षणप्रद्युम्नानिरुद्धनामानि विधीयन्ते। ततश्च सङ्कर्षणादिनामभिरनूद्य तस्मिन् शास्त्रे यद्विग्रहायुधादिविधानं तत्ककाराद्यक्षराणां वर्णविशेषविधानवत् तेषामेव ध्यानार्थमिति सिध्यति। न तु मनोऽभिमानिनो देवाः तत्तद्विग्रहायुधादिविशिष्टा इति। किं च जीवस्योत्पत्तिरिव जीवात् कर्तुः मन आदिकरणोत्पत्तिश्च न सम्भवति। "एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चे"ति परस्मादेव ब्रह्मणो मन आद्युत्पत्तिश्रवणात्। तस्मात् पाञ्चरात्रस्यापि वेदविरोधादप्रामाण्यमिति।।
सिद्धान्तस्तु- पाञ्चरात्रे वासुदेवाज्जीवस्य जीवादिभ्यो मन आदीनामुत्पत्तिश्च नोक्ता। किन्तु जीवाद्यधिष्ठातॄणां सङ्कर्षणादिव्यूहानां प्रादुर्भाव एव "अजायमानो बहुधा विजायत" इति श्रुतिसिद्ध उक्तः।
"जनीप्रादुर्भाव"इति च धातुः। न तु प्रसिद्धानां जीवादीनां सङ्कर्षणादिसंज्ञा उक्ताः। तत्र जीवादिशब्दानां नियाम्यवाचिनां तत्तन्नियन्तृव्यूहविशेषपरत्वाच्छरीरवाचिनां शरीरिपर्यन्तत्वस्यापृथक्सिद्धप्रकारवाचिनां प्रकारिपर्यन्तत्वस्य च द्वितीध्याये व्युत्पादयिष्यमाणत्वात्, पाञ्चरात्र एव जीवं प्रकृत्य "सह्यनादिरनन्तश्च पारमार्थ्येन निश्चित" इति तस्योत्पत्तिप्रतिषेधाच्च। तस्माद्भगवता वासुदेवेन प्रणीतं पाञ्चरात्रं प्रमाणमूर्धन्यमेवेति।।
संग्रहकारिका।।
जीवोत्पत्त्यभिधानान्नग्राह्यं पाञ्चरात्रमिति चेन्न।
व्यूहाभिव्यक्त्युक्तेस्तत्र निषेधाच्च जीवजनेः।।
इति उत्पत्त्यसम्भवाधिकरणम्।।
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजि-
द्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे
नयमयुखमालिकाख्ये द्वितीयपरिच्छेदे द्वितीयस्याध्यायस्य
द्वि ती यः पा दः ।।
।।द्वितीयस्याध्यायस्य तृतीयः पादः।।
सांख्यादितंत्राणां न्यायाभासमूलत्वाद्विप्रतिषेधाच्चासामंजस्यमुक्तं। इदानीं स्वपक्षस्यापि वियदुत्पत्त्युनुत्पत्त्यादिविषयुश्रुतिविप्रतिषेधदोषोस्तीति प्रतिबन्दीं मनसि विपरिवर्तमानां निरसितुं तदभावख्यापनाय ब्रह्मकार्यस्य प्रपञ्चस्य कार्यताप्रकारः पादद्वयेन विशोध्यते। नन्वेवं सति वियदादि कार्यत्वप्रसाधनस्य परोक्तदोषपरिहारार्थेन प्रथमपादेन संगत्त्या तदानंतर्यं स्यात्। कारणविषयपादद्वयानन्तरं कार्यविषयपादद्वयारम्भ इति चेत् तर्हि कार्यविषयस्यास्य पादद्वयस्याध्यायसंगतिरेव न स्यात्। प्रथमाध्यायनिरूपिते वेदांतानां जगत्करणब्रह्मसमन्वये परिपन्थिनो विरोधस्य समाधानं हि द्वितीयाध्यायार्थ इति चेत् उच्यते- कारणविषयश्रुतीनां ब्रह्मणि समन्वयो वियदाद्युत्पत्तिश्रुतीनां स्वार्थसमन्वयमपेक्षते। अन्यथा वियन्नित्यत्वे परनादीनां वियदादिजन्यत्वे च ब्रह्म कथं वियदादिकस्य कारणं भवेत्। कथंच ब्रह्म सर्वस्य कार्यस्य कारणं स्यात्। अतो वियदाद्युतपत्ति श्रुतिसमन्वयचिंता, तदनुबन्धेन जीवनित्यत्वज्ञातृत्वाणुत्वादिचिंता। अथवा "विप्रतिषेधाच्चासमंजस"मित्यादिसूत्रैस् सांख्यादिदर्शनानां परस्परविरोधादप्रामाण्ये समर्थिते वेदांतेष्वपि वियदादेर्जीवस्यचोत्पत्त्यनुत्पत्तिश्रुतीनां जीवस्य ज्ञातृत्वज्ञानरूपत्वादिश्रुतीनां च परस्परविरोधेनाप्रामाण्ये तेषां कारणविषयेप्यप्रामाण्यशंकया निर्विचिकित्सं प्रामाण्यं नसिध्येदिति प्रथमाध्यायनिरूपितकारणविषयश्रुतिसमन्वयाक्षेपकतया ज्ञातृत्वादिविचारस्यापि साक्षादेव संगतिरनुसंधेया। इह प्रथमं वियदुत्पत्तिस्समर्थ्यते-
नवियदश्रुतेः।।1।।
अस्तितु।।2।।
गौण्यसंभवाच्छब्दाच्च।।3।।
स्याच्चैकस्य ब्रह्मशब्दवत्।।4।।
प्रतिज्ञाहानिरव्यतिरेकात्।।5।।
शब्देभ्यः।।6।।
यावद्विकारंतु विभागो लोकवत्।।7।।
एतेन मातरिश्वा व्याख्यातः।।8।।
असंभवस्तु सतोऽनुपपत्तेः।।9।।
वियदुत्पद्यते नवेति तदुत्पत्तिप्रतिपादनक्षमश्रुतिसंभवासंभवाभ्यांसंशये पूर्वपक्षः- वियन्नोत्पद्यते। तदुत्पत्तिप्रतिपादनक्षणश्रुत्यभावात्। छांदोग्येतावत् तद्विषया श्रुतिरेव नास्ति। तैत्तरीयकाथर्वणादिषु सत्यपि सा न तदुत्पत्तिप्रतिपादनक्षमा। निरवयवत्वेन सर्वगतत्वेन च तस्य नित्यत्वावगमात्। नच द्वितीयहेतोरसिद्धिः। क्वचिदपि तदभावस्य बुध्यारोहासंभवात्। अत्र वियन्नास्तीति निषेधस्य व्याहतत्वात्। यत्र निषिध्यते तस्यैव
देशस्य वियद्रूपत्वात्। अतस्तैत्तिरीयकश्रुतौ वियतिश्रुता संभूतश्रुतिः "एतस्माज्जायते प्राणोमनस्सर्वेन्द्रियाणि च। खंवायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी"त्याथर्वणे वियत्यनुषक्ता जायतेश्रुतिश्च गौण्येव वाच्या। न च
श्रुतानुषक्तयोस्सम्भूतशब्दयोर्जायतेशब्दयोश्चार्थभेदे कश्चिद्दोषः। आथर्वणएव "तपसा चीयते ब्रह्म ततोऽन्नमभिजायते। तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायत" इति श्रुतयोरपि ब्रह्मशब्दयोर्मुख्यामुख्यत्वदर्शनात् वियदुत्पत्तिवादिनाऽपि "आकाशवत्सर्वगतश्च नित्य" इति श्रुतौ सकृच्छØतयोर्नित्यसर्वगतशब्दयोः एकत्र मुख्यत्वस्य अन्यत्रामुख्यत्वस्य च अङ्गीकर्तव्यत्वाच्चेति। एवं प्राप्ते सिद्धान्तः-
यत्र तेजसः प्राथम्यं श्रुतं, तत्रैव छान्दोग्ये मृत्पिण्डादिदृषान्तपूर्वकं एकविज्ञानेन सर्वविज्ञानं यत्प्रतिज्ञातं तस्याहानिः आकाशस्यापि ब्रह्मकार्यत्वेन तदव्यतिरेकादेव भवति। तेनाकाशस्य ब्रह्मकार्यत्वं छान्दोग्यश्रुतेरप्यनुमतमवसीयते। "सदेव सोम्येदमग्रआसी"दिति सृष्टेः प्रागेकत्वावधारणं "ऐतदात्म्यमिदं सर्व"मिति सर्वस्य ब्रह्मात्मत्वप्रतिपादनमित्यादिशब्दैश्च तथाऽवसीयते। एवंचैभिश्शब्दैराकाशस्यापि साधारण्येन ब्रह्मविकारत्वेऽध्यवसिते तस्य विशिष्यापि ब्रह्मणो विभागरूपोत्पत्तिरुक्तैव भवति। यथा लोके "सर्व एते देवदत्तस्य पुत्रा" इति सामान्येनाभिधाय केषांचिद्विशिष्य तत उत्पत्तिवचनेन सर्वेषामपि तत उत्पत्तिरुक्तैव भवति। एवं सति छान्दोग्ये तेजस्सृष्टिप्राथम्यश्रवणं कथमितिचेत् न खलु ब्रह्मणा तेजः प्रथमं सृष्टमिति श्रुतम्। येन श्रुतिप्राप्तं तत्प्राथम्यं स्यात्। किन्तु तेजस्सृष्टिः प्रथमपठितेति स्थानप्रमाणतस्तत्प्राथम्यं प्राप्नोति। नच स्थान प्रमाणं "आकाशस्सम्भूत" इति सम्भूतश्रुतेरीष्टे। आकाशस्य नित्यत्वसाधको निरवयवत्वहेतुरप्रयोजकः। श्रुत्युदाहृतैकमृत्पिंडारब्धघटशरावादिन्यायेन परिणामवादे निरवयवस्याप्यनित्यत्वोपपत्तेः। न च इह वियत् नास्तीति निषेधस्य व्याहत्या सर्वगतत्वसिद्धिः। तत्र इहप्रत्ययवेद्यस्य निबिडमूर्तद्रव्याभावरूपावकाशपरत्वोपपत्तेः। इह अवकाशे स्थातव्यमित्यादिव्यवहारेषु तस्यापि इहप्रत्ययवेद्यत्वात्। एवं सति "वायुश्चान्तरिक्षं चैतदमृत"मिति वियदमृतत्वश्रुतेः का गतिरितिचेत्, वाय्वमृतत्वश्रुतेर्या गतिः सैव। स्पष्टोत्पत्तिकस्य वायोरपि ह्यमृतत्वं श्रूयते। किं बहुना। ब्रह्मव्यतिरिक्तं यद्यावदस्ति अव्यक्तमहदहङ्कारतेजः प्रभृतिकं, तत्सर्वमपि वियद्वायुवदुत्पत्तिमदेव। सर्वविज्ञानप्रतिज्ञाद्यनुरोधात्।।
संग्रहकारिकाः।।
वियन्नित्यं निरंशत्वादमृतत्वस्य च श्रुतेः।
सृष्टौ च तेजः प्राथम्याद्गौणी तज्जननश्रुतिः।।
असाधकं निरंशत्वममृतत्वममर्त्यवत्।
श्रुतं न तेजःप्राथम्यं बाधः पाठेन कल्पने।।
तस्माज्जनिमदाकाशं मरुच्च महदादिभिः।
एवं हि सर्वविज्ञानप्रतिज्ञाद्युपपद्यते।।
इति वियदधिकरणम्।।
तेजोऽतस्तथाह्याह।।10।।
आपः।।11।।
पृथिवी।।12।।
अधिकाररूपशब्दान्तरेभ्यः।।13।।
तदभिध्यानादेव तु तल्लिङ्गात्सः।।14।।
विपर्ययेण तु कमोऽतउपपद्यते च।।15।।
अन्तराविज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात्।।16।।
चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशोभाक्तस्तद्भावभावित्वात्।।17।।
ब्रह्मव्यतिरिक्तं सर्वं ब्रह्मकार्यमिति निर्णीतम्। इहेदं चिन्त्यते किं तेजः प्रभूतीनां पूर्वपूर्वस्माद्वाय्वादेरुत्पत्तिः, तेषां ब्रह्मकार्यत्वं तु परम्परया, उत पूर्वपूर्वशरीरकात्परमात्मनस्तेषामुत्पत्तिरिति। तत्र पूर्वःपक्षः। पूर्वपूर्वस्मादेवोत्पत्तिः। "वायोरग्निः, अग्नेरापः, अद्भ्यःपृथिवी"ति श्रुतिराह। ननु "तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज ऐक्षत तदपोऽसृजत ता आप ऐक्षन्त ता अन्नमसृजन्ते"ति ईक्षापूर्वकं तेजः प्रभृतीनां स्रष्टृत्वं श्रूयते। नचेक्षणमचेतनानां सम्भवति। अत ईक्षणलिंगात् तेज आदिशब्दाः तत्तच्छरीरकपरमात्मपरा इति तेजश्शरीरात् परमात्मनोऽपां अच्छरीरकात् ततः पृथिव्याश्चोत्पत्तिर्वक्तुं युक्ता। न च "ता अन्नमसृजन्ते"ति अन्नशब्देन कथं पृथिव्यभिधीयत इति वाच्यम्। महाभूतसृष्ट्यधिकारात्। "यदग्नेरोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्ये"ति त्रिवृत्कृतमहाभूतरूपोक्तिप्रकरणे अन्नस्य रूपोक्तेः, समानप्रकरणे "अद्भ्यः पृथिवी"ति पृथिवीवाचकशब्दान्तरश्रवणाच्च। अतस्तेजआदिशब्दास्तत्तच्छरीरकपरमात्मपरा वाच्याः। अन्तर्याम्यधिकरणे सर्वेषां परमात्मशरीरत्वस्य उक्तत्वादितिचेत् मैवं- तथासति तेज आदिशब्दानां तत्तच्छरीरके परमात्मनि लक्षणया श्रुतहानिप्रसङ्गात्। न चेक्षणलिगेन श्रुतिबाधनं युक्तम्। किन्तु श्रुत्यनुसारात् ईक्षणमेव गौणं वक्तुं युक्तम्। "एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च। खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी"त्याथर्वणमंत्रोऽपि पुत्रपौत्रप्रपौत्रादिरीत्या साक्षात्परम्परासाधारण्येन ब्रह्मकार्यत्वपरतयोपपद्यते। एवं प्राप्ते सिद्धान्तः-
तत्तच्छरीरकात्परमात्मनो जगदुत्पद्यते। ईक्षणलिंगात्। न च श्रुतिबाधः। चराचरप्रपञ्चवाचिनां सर्वेषां शब्दानां तत्तच्छरीरके परमात्मनि मुख्यत्वात्। लोके "ब्राह्मणोऽधीते, ब्राह्मणो विद्वा" नित्यादिप्रयोगेषु, वेदे "ब्राह्मणमुपनयीत, ब्राह्मणो यजेते"त्यादिप्रयोगेषु च शरीरवाचिशब्दानां शरीरिपर्यन्तत्वस्य व्युत्पत्तिसिद्धत्वात्। सर्वस्य चराचरस्य परमात्मशरीरताया अन्तर्यामिब्राह्मणेन, "अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणी"ति तेजआद्यनुप्रवेशपूर्वकनामरूपव्याकरणश्रुत्याचावगमात्। न च सर्वशरीरत्वश्रवणमौपचारिकं, तेजआदिसृष्ट्यनन्तरं नामरूपवयाकरणार्थमेवानुप्रवेशश्रवणात् "तत्सृष्ट्वा तदेवानुप्राविशदि"ति श्रुत्यन्तराच्चेति वाच्यं। सर्वगतस्येश्वरस्य क्वचिदसतः पश्चात्प्रवेशासंभवेन प्रवेशश्रुतीनां नियंतृतया सार्वदिकसत्तप्रितापादनपरत्वात्। तस्मात्तेजः पृभृतिशब्दानां परमात्मनि मुख्यत्वात् "तत्तेज ऐक्षते" त्यादिभिः परमात्मन एव सर्वस्मिन् प्रपंचे साक्षात्स्रष्टृत्वमवसीयते। "एतस्माज्जायत"इत्याद्याथर्वणमंत्रेणापि तथाऽवसीयते। अयं हि मंत्रोऽव्यक्तमहदहंकारादिकार्येषूत्तरोत्तरः पूर्वपूर्व स्मादुत्पद्यत इति पुत्र पौत्रन्यायानुसारिणः क्रमाद्वैपरीत्येन सर्वं परमात्मन एवोत्पद्यत इति सर्वस्य परमात्मानन्तर्यरूपो यः क्रमः तत्रैव स्वारसिकः। स च तत्तच्छरीरकात् ब्रह्मणस्साक्षाज्जगत्सृष्टेरेवोपपद्यते "एतस्माज्जायत" इत्यत्र साक्षात्त्वस्य मुख्यत्वेनौत्सर्गिकत्वात्। नन्वयं मंत्रः प्राणस्य भूतानां च मध्ये चक्षुरादीनि मनश्चोत्पद्यन्त इत्येवंरूपक्रमतात्पर्यकः। खादिपृथिव्यन्तानां क्रमाम्नानलिंगात्। न तु सर्वस्य प्राणादेः परमात्मन उत्पत्तिपर इति चेत्-न। इन्द्रियमनःखादीनामपि "एतस्माज्जायत" इति साक्षात् परमात्मसृष्टतयोपात्तप्राणाविशेषात्। न हि प्राण एव साक्षाज्जायते अन्ये पौत्रादिन्यायेन परंपरया ब्रह्मणो जायन्त इति विशेषश्रवणमस्ति। नत्वयं मंत्रः क्रमपरः। क्रमस्तु खादिषु श्रुत्यंतरसिद्धोनूद्यते। अन्यत्र श्रुत्यंतरविरुद्धो न गृह्यते। सुबालोपनिषदि स्पष्टं क्रंमाम्नानात्। तस्मात् सर्वं जगत्
साक्षात् परमात्मन एवोत्पद्यत इति सिद्धं।।
संग्रहकारिकाः।।
तेजोजलपृथिवीनां मारुततेजोजलेभ्य उत्पत्तिः।
श्रुत्यनुरोधात् ब्रह्म तु मूलं कूटस्थपुरुषइव।।
"तत्तेजऐक्षते"त्याद्याम्नायोक्तादभिध्यानात्।
साक्षादेव निदानं तेषां तत्तच्छरीरकं ब्रह्म।।
एवं स "त्येतस्माज्जायत" इत्यादिवचनमुपपन्नं।
तद्ध्यविशेषादेषां ब्रह्मानंतर्यमेव बोधयति।।
तेजः प्रमुखाश्शब्दा लोकेऽन्यत्र प्रसिद्धिमंतोपि।
व्याकरणश्रुत्यादेर्गम्यंते ब्रह्मपर्यंताः।।
इति तेजोधिकरणम्।।
नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः।।18।।
वियदादिवज्जीवोप्युत्पद्यते न वेति चिंत्यते। उत्पद्यत इति पूर्व पक्षः। "यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, प्रजापतिः प्रजा असृजते"त्यादिश्रवणात् एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात् प्राक्सृष्टेरेकत्वावधारणाच्च। न च "तत्वमसी"ति जीवस्य ब्रह्माभेदश्रवणादुत्पत्त्यनुपपत्तिः। "सर्वं खल्विदं ब्रह्मे" त्यादिश्रवणेन वियदादीनामप्यनुत्पत्तिप्रसंगात्। नच "न जायते म्रियते वा विपश्चि"दित्यनेन जीवोत्पत्तिनिषेधश्शंकनीयः। वाय्वाकाशामृतत्ववचनेन तयोरप्युतपत्तिनिषेधापत्तेः तस्य देहोत्पत्तिविनाशानुबंध्युत्पत्तिविनाशाबावपरत्वाच्च। "जीवापेतं वाव किलेदं म्रियते नजीवो म्रियत"इति देहमरणानुबन्धिमरणनिषेधक श्रुत्यन्तरानुसारेणास्यापि तथैवाभिप्रायावगमाच्च। न च कृतहानाकृताभ्यागमप्रसंगो दोषः। सर्वत्र द्रव्यं नित्यं तस्य पूर्वावस्थाप्रहाणं विनाशः अवस्थांतरापत्तिरुत्पत्तिरिति सिद्धांत्यभिमते परिणामवादे द्रव्यात्मना नित्ये जीवे तदप्रसंगात्। नैयायिकमते घटादीनामिव जीवस्याभूत्वा भवनरूपोत्पत्त्यभ्युपगमो हि प्रसज्येत। तस्माज्जीवो वियदादिवदुत्पद्यत इति। एवं प्राप्ते सिद्धांतः-
जीवो वियदादिवन्नोत्पद्यते। "न जायते म्रियते वाविपश्चित्, ज्ञाज्ञौ द्वावजावीशनीशा"वित्यादिषु तदनुत्पत्तिश्रवणात् "अजो नित्यश्शाश्वतोयं पुराणो न हन्यते हन्यमाने शरीरे, नित्योनित्यानाञ्चेतनश्चेतनानाम्" इत्यादिश्रुतिभ्यः तस्य नित्यत्वेनोत्पत्त्यभावावगमाच्च। न च "न जायते म्रियत" इति हि श्रुतिः देहोत्पत्तिमरणानुबंध्युत्पत्तिमरणाभावमात्रपरेति वाच्यं। तत्रैव "न हन्यते हन्यमाने शरीरे"इति देहहननानुबन्धिहनना भावोक्त्यैवार्थसिद्धस्य तस्य पृथगवक्तव्यत्वात्। प्रागवियतोवियद्रूपेणेव प्रागजीवस्य जीवरूपेण परिणामाभ्युपगमे जीवकर्तृकत्वनियतयोः पुण्यपापयोरजीवाश्रितत्वासंभवेन कृतहानाकृताभ्यागमप्रसंगापरिहाराच्च। सर्वविज्ञानप्रतिज्ञानमेकत्वावधारणञ्च सृष्टेः प्राग्जीवस्य सूक्ष्मतापत्त्या सृष्टौ स्थूलकार्यतापत्त्याचोपपद्यते। कथं तर्हि विदादिभ्यो विशेषः। इत्थं- वियदादीनामस्ति स्वरूपान्यथाभाव इति तेन रूपेण कार्यत्वं। जीवस्य त्वविक्रियस्य न स्वरूपान्यथाभावोस्ति। किन्तु ज्ञानाख्यगुणसंकोचविकासलक्षण धर्मान्यथाभावमात्रं। तावन्मात्रेण तस्य कार्यत्वमिति। इदमुत्तराधिकरणे स्पष्टीभविष्यति।।
संग्रहकारिका।।
श्रुतेर्जीवोऽपि जनिमान् मैवं तदजनुश्रुतेः।
धर्मज्ञानान्यथाभावविषया तज्जनिश्रुतिः।।
इति आत्माधिकरणम्।।3।।
ज्ञोऽत एव।।19।।
उत्क्रांतिगत्यागतीनाम्।।20।।
स्वात्मना चोत्तरयोः।।21।।
नाणुरतच्छØतेरिति चेन्नेतसधिकारात्।।22।।
स्वशब्दोन्मानाभ्याञ्च।।23।।
अविरोधश्वंदनवत्।।24।।
अवस्थितिवैशेष्यादितिचेन्नाभ्युपगमात्धृदिहि।।25।।
गुणाद्वाऽऽलोकवत्।।26।।
व्यतिरेको गन्धवत्तथाच दर्शयति।।27।।
पृथगुपदेशात्।।28।।
तद्गुणसारत्वात्तद्व्यपदेशः प्राज्ञवत्।।29।।
यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात्।।30।।
पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात्।।31।।
नित्योऽपलब्ध्यनुपलब्धिप्रसंगोन्यतरनियमोवान्यथा।।32।।
जीवोत्पत्तिविचारप्रसंगात् तस्य ज्ञातृत्वादिधर्मश्चित्यते ज्ञानरूपत्व ज्ञातृत्वादिविषयश्रुतिविरोधसमाधानेन जगत्कारणब्रह्मविषयश्रुतीनां निर्विचिकित्सप्रामाण्यसिध्यर्थं। अपि च जीवस्य धर्मान्यथाभावरूपो विकारः, न स्वरूपान्यताभावरूपइत्येतदयुक्तं। स्वरूपातिरेकेण ज्ञानाख्यधर्माभावात्। ज्ञानमेव हि तस्य स्वभावः इत्युत्थानादाक्षेपिकी संगतिरप्यनुसंधेया। किं ज्ञानस्वरूपो जीवः उतजड एवागंतुकज्ञानः, अथवा नित्यमेव ज्ञानगुणाधारतया स्वतोज्ञातेति संशये पूर्वपक्षः-"विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपिच। यो विज्ञाने तिष्ठन् विज्ञानादंतरः, ज्ञानस्वरूपमत्यंतनिर्मलं परमार्थत" इत्यादिश्रुतिस्मृतिभ्यो ज्ञानस्वरूपएवेत्येकः पूर्वपक्षः। अपरस्तु जीवस्य ज्ञानस्वरूपत्वे तस्य सर्वगतस्य सर्वदा सर्वविषयोपलब्धिप्रसंगेन चक्षुरादिवैयर्थ्यप्रसंगेन च ज्ञानविकलसुषुप्तिमूर्छाद्यभावप्रसंगेन च तस्य ज्ञानरूपत्वं नयुक्तं। अतएव सिद्धांत्यभिमतं नित्यज्ञानाधारतया ज्ञातृत्वमप्ययुक्तं। किन्तु नैयायिकादिमतरीत्या चक्षुरादिकरणाधीनज्ञानवत्त्वमेवाभ्युपेयमिति। एवं प्राप्ते सिद्धांतः-
"अथ योवेदेदं जिघ्राणीति स आत्मा, मनसैतान् कामान् पश्यन् रमते, नपश्यो मृत्युं पश्यति, जानात्येवायं पुरुषः, एषहि द्रष्टा श्रोता घ्राता रसयिते"त्यादिश्रुतिभ्यः ज्ञातैवायमात्मा। नचैवं सति सर्वदा द्रष्टा श्रोता घ्राता रमयिते"त्यादिश्रुतिभ्यः ज्ञातैवायमात्मा। नचैवं सति सर्वदा सर्वविषयोपलब्धिप्रसंगः। तस्याणुत्वात्। अणुत्वंच उत्क्रांतिगत्यागतिश्रवणात्। "तेन प्रद्योतेनैष आत्मा विष्क्रामति, यैवैकेचास्माल्लोकात्प्रयंति चन्द्रमसमेव ते सर्वे गच्छन्ति, तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मण"इति हि तस्योत्क्रान्तिगत्यागतयश्श्रूयन्ते। नचैतासां विभुत्वे शक्यमुपपादनं। ननु "योयं विज्ञानमयः प्राणेष्वि"ति प्राणसम्बन्धिनं जीवं प्रस्तुत्य "सवाएष महानजआत्मे"ति महत्वाम्नानान्नाणुरिति चेन्न। तत्र जीवादितरस्य ब्रह्मणोधिकारात्। उपक्रमे जीवप्रस्तावेपि मध्ये "यस्यानुवित्तः प्रतिबुद्धआत्मे"ति परप्रतिपादनात्, तदनुबन्धित्वाच्च महत्वाम्नानस्य। किञ्च "एषोणुरात्मा चेतसा वेदितव्याः यस्मिन् प्राणः पंचधा संविवेशे"ति जीवस्य साक्षादणुत्वं श्रूयते। "वालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवस्सविज्ञेय" इति "आराग्रशतभागस्य" इति च तस्याल्पपरमाणत्वं श्रूयते। एवं सति शरीरैकवर्तिनो जीवस्य कथं सर्वांगीणसुखाद्यनुभव इति चेत्- चंदनवदिति ब्रूमः। यथा हरिचन्दनबिंदुर्देहैकदेश वर्त्यपि सकलदेहव्यापिनमाह्लादं जनयति, तथैकदेशस्थितोपि जीवस्सर्वांगीणसुखमनुभवति। "योयं विज्ञानमयः प्राणेषु हृद्यंतर्ज्योतिः, हृदिह्ययमात्मे"त्यादिश्रुतिभिः तस्यापि हृदयदेशे स्थित्यभ्युपगमात्। वस्तुतस्तु- जीवो हृदि स्थितोपि स्वगुणेन ज्ञानेन सकलदेहं व्याप्नोति, यथामणिर्द्युमणिर्वा एकदेशवर्तिभिः स्वालेकैरनेकदेशं। नच ज्ञानस्वरूपएवात्मा नज्ञानगुणकइति शंकनीयं। यथा गन्धस्य पृथिवीगुणत्वेनोपलभ्यमानस्य ततो व्यतिरेकः तथा
जानामीति आत्मगुणत्वेनानुभूयमानस्य ज्ञानस्य जीवाद्व्यतिरेकात्। "जानात्येवायंपुरुष" इति श्रुत्यापि तस्य ज्ञातृगुणत्वप्रदर्शनात्, "न हि विज्ञातुर्विपरिलोपोविद्यत" इति श्रुतौ ज्ञातृज्ञानयोः पृथगुपदेशाच्च। कथं तर्हि "विज्ञानं यज्ञं तनुत" इत्यादिषु तस्य ज्ञानरूपत्व व्यवहारः। ज्ञानगुणसारत्वात्। ज्ञानं हि तस्य सारभूतो गुणः। ततश्च यथा ब्रह्मणः प्राज्ञस्य ज्ञानमानन्दश्च सारभूतो गुण इति "सत्यं ज्ञानमनन्तं ब्रह्म, आनन्दो ब्रह्मेति व्यजाना"दिति ज्ञानान्दव्यपदेशः, एव मिहापि ज्ञानव्यपदेशः। ननु "सत्यं ज्ञान"मित्यत्र अन्तोदात्तस्वरबलात् ज्ञानवत्वमर्थः प्रतिभाति। केवलं भावार्थल्युडन्ततायामंतोदात्तस्वरानुपपत्तेः। तथा हि-ल्युडादेशस्य अनइत्यस्य "आद्युदात्तश्चे"ति प्रत्ययस्वरेण प्रथमाकारे उदात्तेलितीति लित्स्वरेण प्रकृत्याकारेचोदात्ते "अनुदात्तं पदमेकवर्ज"मिति शेषनिघातस्वरेण प्रत्ययस्थयोरकारयोरनुदात्तयोः "एकादेश उदात्तेनोदात्त"इत्येकादेशस्वरेण प्रकृत्याकारप्रत्ययाद्यकारयोः एकादेशेचोदात्ते सति प्रत्ययान्त्याकारस्यानुदात्तस्य
विभक्त्यकारस्य च "अनुदात्तौ सुप्तिषा"विति सुप् स्वरेण अनुदात्तस्य "अमिपूर्व" इत्येकादेशो भवन् "स्थानोऽन्तरतम" इति परिभाषयानुदात्तस्स्यात्। तस्य चानुदात्तस्य "उदात्तादनुदात्तस्य च स्वरित" इति स्वरितादेशो भवेत्। अत एव तत् ज्ञानमिति पदं केवलल्युडन्तत्वे स्वरितान्तं स्यात्। यथा काठके "संज्ञानं विज्ञानं प्रज्ञान"मिति। तस्मादन्तोदात्तनिर्वाहार्थमिदं ज्ञानपदं ल्युडन्तरं मत्वर्थीयाच् प्रत्ययान्तं वाच्यं। अर्शादेराकृतिगणत्वात्। तथासत्यंतोदात्तस्वरउपपद्यते। अर्शांद्यच्प्रत्यये "यस्येति चे"ति प्रकृतावंत्यस्य अकारस्य लोपे "चित" इति चित्स्वरेण मत्वर्थींयप्रत्ययस्योदात्तत्वे च सति तस्य विभक्त्यकारस्य चैकादेशस्यापि "एकादेशउदात्तेनोदात्त" इत्युदात्तस्यैव भावात्। एवमिह ज्ञानपदप्रक्रियाश्रयणे ज्ञानवत्वमेवात्मनस्सिध्येत्। न ज्ञानरूपत्वं। तस्मात्ज्ञानरूपत्वमनेन न प्रतीयतइति चेदुच्यते- औणादिकनप्रत्ययांतत्वाश्रयणे तदपि प्रतिभाति। ज्ञाधातोराहत्य न प्रत्ययविधानाभावेऽपि "उणादयो बहुल"मिति बहुलग्रहणेन यतो विहितास्ततोऽन्यत्रापि ते भवन्तीत्येतदर्थेन तत्सिद्धेः। औणादिकप्रत्ययांतत्वे भावार्थत्वमप्युपपद्यते। अर्त्यादिसूत्रविहितमन्प्रत्ययस्वरेणोदात्तत्वे सति तस्य विभक्त्यकारेण भवतएकादेशस्याप्युदात्तस्यैव भावात्। एवमुभयथेह ज्ञानपदप्रक्रियाश्रयणसंभवेपि प्रक्रियालाघवादौणादिकनप्रत्ययांततया भावार्थत्वमेव युक्तमित्यभिप्रेत्य भाष्यकारैर्ज्ञानस्वरूपत्वेप्रमाणतयेदमुदाहृतं। ज्ञानस्य यावदात्मभावित्वादपि तेन तस्य व्यपदेशः। खंडादीनां यावत्स्वरूपभाविगोत्वादिधर्मवाचिगवादिशब्देन व्यपदेशदर्शनात्। जीवस्य स्वप्रकाशत्वादपि ज्ञानव्यपदेशउपपद्यते। स्वप्रकाशत्वमपि स्वापेक्षमेव नतु परापेक्षमपि। स्वापेक्षमपि अहमितिप्रत्यक्त्वैकत्वविशिष्टतामात्रेण। स्वपरप्रकाशत्वं तु धर्मज्ञानस्यैव। सोयं प्रभाप्रभावन्न्यायोधर्मधर्मिज्ञानयोः। यदाहुः- "स्वस्यैव भासकोदीपः स्वात्मनोऽन्यस्य च प्रभा। एवंभेदोस्ति साम्येपि ज्ञानयोर्धर्मधर्मिणो"रिति। ननु सुषुप्त्यादिषु ज्ञानाभावात् कथं ज्ञानस्य गोत्वादिवत् स्वरूपानुबन्धिधर्मत्वमिति चेत्। पुंस्त्वादिवदभिव्यक्त्येति ब्रूमः-यथा सप्तधातुमये शरीरे सदासन्नपि पुंस्त्वरूपसप्तमधातुः न बाल्ये यौवनइवाभिव्यज्यते, एवं सदासन्नेव ज्ञानगुणः सुषुप्तौ जागरइव नाभिव्यज्यते। तदानीमपि स्वयमेव प्रकाशमानतार्हत्वरूपस्य स्वयंप्रकाशत्वस्य न हानिः। अहमर्थस्य तु सुषुप्तावपि प्रकाशमानताऽस्त्येव। "सुखमहमस्वाप्स"मिति परामर्शात्। यदाहुः- "प्रत्यक्स्वयंप्रभसुखे नित्ये पुंसि व्यवस्थिते। अस्वाप्सं सुखमित्यादौ कालाद्यंशेऽनुमास्थितिः।। अगायं मधुरं मदमयामित्येवमादिषु। माधुर्यादिवदत्रापि सुखं भाति तदातन"मिति। तस्माज्ज्ञानगुणस्संकोचविकासशाली, तद्धर्मी जीवस्त्वणुरित्यस्मत्पक्षे न कश्चिद्दोषः। किन्तु "ज्ञानस्वरूपोजीवः सच सर्वगत" इति पक्षएव नित्योपलब्ध्यनुपलब्धिप्रसंगोन्यतरनियमोवा स्यात्। तथाहि- सर्वगतज्ञानरूपं जीवस्वरूपं किमुपलब्धेरेवहेतुः, उत अनुपलब्धेरेव, अथावाउभयोरपि। आद्ये देहावच्छिन्नप्रदेश इव अन्यत्रापि तदुपलब्धिस्स्यात्। द्वितीये देहावच्छिन्नप्रदेशेपि तदुपलब्धिर्नस्यात्। तृतीये सदोपलब्ध्यनुपलब्धी परस्परविरुद्धे स्यातां। सर्वगतोजीवश्चक्षुरादिकरणायत्तगन्तुकज्ञानइति नैयायिकादिपक्षेप्ययंदोषस्समानः। अयमर्थः "अंशोनानाव्यपदेशा"दित्यधिकरणे स्फूटीभविष्यति।
संग्रहकारिके।।
जीवं विज्ञानरूपं कतिचिदभिदधुश्श्रूयतेऽसौ तथेति
ज्ञानैरागन्तुकैस्तं कतिचदथ पुनर्ज्ञातृताभाजमूचुः।।
नित्यज्ञातृत्वमन्ये तदिह समुदितो मध्यमस्तर्कपक्षः
जानीयाद्दूरदेशे स्थितमपि हि विभुर्जीवएषोऽन्यथा ते।।
जानात्येवायमित्याद्युपनिषदुदितो ज्ञातृरूपस्सनित्यं
सर्वज्ञस्तावतास्यादिति न यदणुरुत्क्रांतिगत्यादिमानैः।
देहव्याप्तिस्तु दीपद्युतिसदृशगुणज्ञानतस्तस्य युक्ता
ज्ञानत्वोक्तिस्ससारोगुणइति घटते स्वप्रकाशस्सचेति।।
इति ज्ञाधिकरणम्।।
कर्ता शास्त्रार्थवत्त्वात्।।33।।
उपादानाद्विहारोपदेशाच्च।।34।।
व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः।।35।।
उपलब्धिवदनियमः।।36।।
शक्तिविपर्ययात्।।37।।
समाध्यभावाच्च।।38।।
यथाच तक्षोभयथा।।39।।
ज्ञातृत्वनिरूपणानन्तरं कर्तृत्वं निरूप्येत ज्ञानाधीनत्वात् कृतेरिति कार्यकारणभावस्सङ्गतिः। ज्ञानस्वरूपस्सर्वगतो जीव इत्यत्र उपलब्धिनियमादिव्यवस्थित्यसिद्धिवत् प्रकृतेः कर्तृत्वे तस्यास्सर्वसाधारणत्वात् कर्तृनियमव्यवस्थित्यसिद्धिवत् प्रकृतेः कर्तृत्वे तस्यास्सर्वसाधारणत्वात् कर्तृनियमव्यवस्थित्यसिद्धिरुच्यत इति दृष्टान्तसङ्गतिश्च। किं प्रकृतिरेवकर्त्रीति तदीयकर्तृत्वाध्यासेन जीवस्य कर्तृत्वव्यहारः उत स्वभावतएव जीवः कर्तेति संशये पूर्वपक्षः- अकर्तैवात्मा। कठवल्लीषु "हन्ताचेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यत" इति श्रवणात्। हन्तुंउहन्तारम्। "जन्तु" मित्यादाविव औणादिकस्तुन् प्रत्ययः। "य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यत" इति गीतावचनैकार्थ्यात्। हननकर्तृत्वप्रतिषेधश्च कर्तृत्वमात्रप्रतिषेधोपलक्षणम्। अत एव गीतासु भगवद्वचनं- "प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते।। कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते। पुरुषस्सुखदुःखानां भोक्तृत्वे हेतुरुच्यत" इति। अतो जीवः प्रकृतिगतं वा कर्तृवं तत्तज्जीवासाधारणप्रकृतिपरिणामबुद्धिगतं वा कर्तृत्वमात्मन्यध्यस्यन् कर्तेति व्यपदिश्यते। शास्त्रमपि तथाभूतमेव कर्तृत्वमपेक्ष्य प्रवर्तते सहोपादानादिव्यवहारेणेति। एवं प्राप्ते सिद्धान्तः-
बुद्धेः प्रकृतेर्वा कर्तृत्वे "यजेत स्वर्गकामः, मुमुक्षुर्ब्रह्मोपासीते"त्येवमादिशास्त्रं स्वर्गमोक्षादिफलकामं भोक्तारमेव नियुङ्क्ते। "शास्त्र फलं प्रयोक्तरी"ति न्यायात्। किं च शास्त्रेण कर्ता बोधजननद्वारा नियुज्यते। न च अचेतनयोः बुद्धिप्रकृत्योः बोधनीयत्वमस्ति, अतो भोक्तृत्वात् बोधनीयत्वाच्च आत्मैव विधिनिषेधशास्त्रनियोज्य इति युक्तम्। न च कूटस्थ आत्माऽहङ्कर्तेति परकीयं कर्तृत्वमात्मन्यध्यसितुमपि प्रभवति। तस्मादध्यासोऽप्यात्मप्रभास्थानीयधर्मज्ञानपरिणामतया तद्धर्मतां नेतव्य इति तथैव कृतिरपि तद्धर्मतां नीयताम्। किमर्थं बाधानुपलम्भेऽपि "अहं कर्ते"ति प्रतिभासस्य भ्रान्तिरूपत्वं, शास्त्रस्य भ्रांतिकृतकर्तृत्वालम्वनत्वञ्च, कल्प्यते। "हन्ता चेन्मन्यते हन्तु"मिति मंत्रस्तु "न जायते म्रियते वा विपश्चि"दिति मन्त्रे "न हन्यते हन्यमानेऽपि देह" इति देहातिरिक्तस्य आत्मनो हननायोग्यत्वेन प्रकृतत्वात्तद्विषयतयोपपद्यते। कर्तृत्वप्रतिषेधकानि। "तत्रैवं सति कर्तारमात्मानं केवलं तु यः। "पश्यत्यकृतबुद्धित्वान्न सपश्यति दुर्मति"रिति तदीयवचनांतरेणैकार्थ्यात्। किञ्च "सयथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तत" इत्युपादानविहारोपदेशदर्शनात्, "विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि चे"ति लौकिकवेदिकक्रियासु कर्तृत्वव्यपदेशाच्च, आत्मा कर्तैव। नच विज्ञान शब्दोऽन्तःकरणपरः। अन्तः करणनिर्देशे
श्रुतिषु तृतीयायाएव दर्शनात्। इहापि तथा निर्देशविपर्ययप्रसङ्गात्। "तदेषां प्राणानां विज्ञानेन विज्ञानमादाये"त्यादिवाक्यान्तरेषु अन्तः करणपरस्य विज्ञानशब्दस्य तृतीयानिर्देशो हि दृश्यते। किं च प्रकृतेः कर्तृत्वे तस्यास्सर्वपुरुषसाधारणत्वात् पूर्वाधिकरणोक्तोपलब्ध्यादिनियमासम्भवरीत्या कर्मनियमस्याप्यसम्भवात्। तथा च सर्वाणि कर्माणि सर्वेषां भोगाय स्युः। आत्मनां सांख्यमते विभुत्वेन सर्वत्र सर्वेषां सन्निधानाविशेषात्। न च अन्तः करणस्य कर्तृत्वपक्षे नायं दोषः, अन्तः करणानां प्रतिशरीरं भिन्नत्वादिति वाच्यम्। तेषां तदायतनशरीराणाञ्च सर्वात्मसन्निधावुत्पद्यमानानां प्रत्यात्मव्यवस्थितेरुपपादयितुमशक्यत्वात्। बुद्धेः कर्तृत्वपक्षे च कर्तुरन्यस्य भोक्तृत्वानुपपत्तेः भोक्तृत्वमपि तस्या एव स्यादिति आत्मनो भोक्तृत्वशक्तिर्नस्यात्। तथा च "पुरुषोऽस्ति भोक्तृभावा"दिति तेषामेव अभ्युपगमविरोधः। बुद्धेः कर्तृत्वे च "प्रकृतेरन्योऽस्मी"त्येवंरूपमोक्षसाधनसमाधिकर्तृत्वमपि तस्या एव वाच्यम्। न च प्रकृतिः स्वरूपेण बुद्धिपरिणतिरूपेण वा प्रकृतेरन्यः कूटस्थोऽस्मीति समाधातुं प्रभवति। किंच आत्मनः कर्तृत्वाभ्युपगमे सत्यामिच्छायां करोति, अन्यदा न करोति। यथा तक्षा वास्यादिकरणसम्पन्नोऽपि सत्यामेवेच्छायां करोति नान्यदेति नियम उपपद्यते। बुद्धेस्तु अचेतनायाः कर्तृत्वे तस्या भोगेच्छादिनियमकारणाभावात् सर्वदा कर्तृत्वं स्यात्। तस्मादात्मैव स्वभावतः कर्तेति युक्तम्।।
स न कर्ता गुणानां हि कर्तृत्वं विभुना स्मृतम्।
मैवं शास्त्रार्थवत्वाद्यैः कर्ता स गुणयोगतः।।
इति कर्त्रधिकरणम्।।
परात्तु तच्छØतेः।।33।।
कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः।।34।।
कर्तृत्वे चिन्तिते तद्विशेषश्चिन्त्यत इति सङ्गतिः। जीवस्य कर्तृत्वं स्यात्तं, उत परमात्मायत्तमिति विधिनिषेधशास्त्रान्तर्यामिशास्त्राभ्यां संशये पूर्वपक्षः- स्वायत्तमेव जीवस्य कर्तृत्वम्। अन्यथा विधिनिषेधशास्त्रयोरत्यन्तवैयर्थ्यं स्यात्। न च "अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा, एषह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते एष उ एवासाधुकर्म कारयति तं यमधो निनीषत" इत्याद्यन्तर्यामिशास्त्रात् परमात्मायत्तं कर्तृत्वमिति शङ्कनीयम्। तथासति पुरुषप्रवृत्तिनिवृत्त्यैदंपर्येण प्रवृत्तानां विधिनिषेधशास्त्राणां अत्यन्तवैयर्थ्यापत्तेः, अन्तर्यामिशास्त्रस्याप्यसामञ्जस्यप्रसङ्गाच्च। न हि कश्चित् स्वयमेव किंचिदनिष्टं कर्म कारयित्वा तत्फलं निग्रहमपि करोतीति युक्तमिति। एवंप्राप्ते सिद्धान्तः।
परमात्मायत्तमस्य कर्तृत्वम्। अन्तर्यामिशास्त्रबृन्दाबाधसम्भवे तद्बाधनायोगात्। सम्भवति च तदबाधेन विधिनिषेधशास्त्रावैयर्थ्योपपादनम्। आद्यपृवृत्तौ भगवानुदासीनः द्वितीयादिप्रवृत्तिष्वनुमन्ता स्वभक्तानां स्वद्वेषिणञ्च स्वेष्टानिष्टकर्मसु कारयितेति भगवतोऽवस्थात्रयसत्वात्। तथा हि- आदौ जीवस्य करणकलेबरादि दत्वा किमयं करिष्यतीति पश्यन्नुदासीनो भगवानास्ते। स यत्करोति पुण्यं पापं वा तत्फलरूपं द्वितीयादिप्रवृत्तिमनुमन्यते। प्रवृत्तप्रवर्तनमनुमतिः। यत्तु मुमुक्षूणां प्रपदनोपासनादिकं साधुकर्म, यच्च तामसानां भगवद्वेषिणां भगवन्निन्दादिरूपमसाधुकर्म, तदुभयं स्वयं कारयति तद्विषयं "एषह्येबे"त्यादिशास्त्रद्वयम्। न सर्वविषयम्। तेषां सततयुक्तानां भजतां प्रीतिपूर्वकं। ददामि बुद्धियोगन्तं येन मामुपयान्ति त"इति तानहं द्विषतः क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु" इतिच भगवद्वचनातू ततोन्यत्रविधिनिषेधशास्त्रावकाशः तन्नात्यन्तवैयर्थ्यमिति केचिदाचार्याः तद्वैयर्थ्यं समादधुः।
अन्येत्वाहुः- नैवमन्तर्यामिशास्त्रस्य विषयसङ्कोचः कल्पनीयः। भगवतो जीवकर्मविशेषेषु औदासीन्यानुमन्तृत्वकल्पने प्रमाणाभावात् उदाहृतगीतावचनयोः कर्मान्तरकारयितृत्वाभावपर्यन्तकल्पने कल्पकाभावात्। न च विधिनिषेधशास्त्रावैयर्थ्यार्थं तथाकल्पनम्। सर्वेषु विहितनिषिद्धकर्मसु ईश्वरस्य कालादृष्टेन्द्रियादिवत् कारणत्वेऽपि जीवस्य कर्तृत्वाक्षतेः तदिच्छादीनामिवेश्वरस्यापि कारणत्वोपपत्तेः। न च
तथासंति जीवस्य विहितनिषिद्धकर्मसु "स्वतन्त्रः कर्ते"ति लक्षितं कर्तृत्वं नस्यात्, बलादीश्वरस्य कारयितृत्वेन नदीरयाकृष्यमाणपुरुषस्येव स्वातंत्र्यहानिरिति वाच्यम्। प्रयोयोजकेन राज्ञा नियुक्तानां प्रयोज्यकतर्ॄणाममात्यादीनामपि स्वकर्मसु स्वेच्छया प्रवर्तमानानां स्वातंत्र्यदर्शनात्। तस्मादन्तर्यामिशास्त्रासङ्कोचेन विधिप्रतिषेधावैयर्थ्योपपादनासम्भवात् न तत्सङ्कोचः कल्प्य इति। मतद्वयस्याप्युपपादनप्रपञ्चस्तत्तद्ग्रन्थेषु द्रष्टव्यः।।
सङ्ग्रहकारिकाः।।
कर्तृता परवती शरीरिणामीश्वरेण यदि नाम वर्ण्यते।
व्यर्थता विधिनिषेधशास्त्रयोश्शक्यते शमयितुं न केनचित्।।
अस्ति तावदरविंदलोचनश्शासिता यमयितेति च श्रुतिः।
सा यथा विधिनिषेधलङ्घनं नादधीत नयतस्तथोच्यते।।
दत्वादौ करणकलेबरादि पश्यत्युद्योगं प्रथममुदासितैव देवः।
पश्चात्तत्फलमनुमन्यते द्वितीयं केषांचिद्भवति कृतौ प्रयोजकोऽपि।।
अन्तर्यामिश्रुतेरित्थमन्यवैयर्थ्यशङ्कया।
सङ्कोचमूचिरे केचित् मुमुक्षुद्वेषिकर्मसु।।
इच्छाद्यधीनतावत्स्यात् ईश्वराधीनताऽपिनः।
तावता शास्त्रवैयर्थ्यं नेत्यसङ्कोचनं परे।।
इति परायत्ताधिकरणम्।।
अंशोनानाव्यपदेशादन्यथाचापि दाशकितयादिवत्वमधीयतएके।।35।।
मंत्रवर्णात्।।36।।
अपिच स्मर्यते।।37।।
प्रकाशादिवत्तु नैवं परः।।38।।
स्मरन्ति च।।39।।
अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत्।।40।।
असन्ततेश्वाव्यतिकरः।।41।।
आभासएव च।।42।।
अदृष्टानियमात्।।43।।
अभिसंध्यादिष्वपि चैवम्।।44।।
प्रदेशभेदादिति चेन्नान्तर्भावात्।।45।।
जीवेश्वरयोः प्रवर्त्यप्रवर्तकभावे राजभृत्ययोरिव अत्यन्तभेदस्स्यादिति जीवस्य परमात्मांशत्वकथनमप्यौपचारिकं स्यादिति शंकया संगतिः। किं जीवः परस्मादत्यंतभिन्नः, उताज्ञानावस्थापन्नं परमेव ब्रह्म, यद्वा ब्रह्मैवोपाध्यवच्छिन्नं, अथवा विशिष्टस्य ब्रह्मणोविशेषणरूपोंशइति श्रुतिविप्रतिपत्तेस्संशये पूर्वपक्षः- अत्यंतभिन्नोजीवः। "ज्ञाज्ञौद्वा"वित्यादिभेदनिर्देशात्। अज्ञंब्रह्मैववा जीवः। "तत्वमसि, अयमात्माब्रह्मे"त्यदिश्रवणात्। ब्रह्मैव सत्वोपाध्यवच्छिन्नं वा जीवः। तत्वमस्यादिश्रवणादेव। न तु ब्रह्मणोंशोजीवइति युक्तं। अंशत्वं हि तन्त्वादिवन्नावयवत्वरूपं। निरवयवस्य ब्रह्मणोऽवयवारब्धत्वाभावात्। अतएव टङ्कच्छिन्नपाषाणशकलवदपि नांशत्वम्। ब्रह्मणः खण्डनानर्हत्वाच्चेति।। सिद्धान्तस्तु-
ब्रह्मणोंऽश एव जीवः। नानाव्यपदेशात्। अभेदव्यपदेशाच्च। स्रष्टॄत्वसृज्यत्वनियन्तृत्वनियाम्यत्व सर्वज्ञत्वकिंचिद्ज्ञत्वस्वाधीनत्वपराधीनत्वपतित्वशेषत्वादिभिर्भेदव्यपदेशो हि भूयान् दृश्यते। तथैव अभेदव्यपदेशोऽपि तत्वमस्यादिर्दृश्यते। अपि च आथर्वणिकाः ब्रह्मसूक्ते ब्रह्मणोदाशकितवादिरूपत्वमप्यधीयते।
"ब्रह्मदाशा ब्रह्मदासा ब्रह्मे मे कितवा उत। स्त्रीपुंसौ ब्रह्मणो जातौ स्त्रियो ब्रह्माऽथवा पुमा"निति। तस्माद्विशिष्टब्रह्मणो विशेषणरूपोंशो जीवइत्येव अभ्युपगन्तव्यम्। एवं सत्येव भेदाभेदश्रुतीनां बंधमोक्षव्यवस्थादीनाञ्च उपपत्तिः। सत्यमिथ्योपाध्यवच्छिन्नब्रह्मजीववादयोस्तु बन्धमोक्षव्यवस्थाद्यनुपपत्तिः, सर्वश्रुतिसामञ्जस्यानुपपत्तिश्च अन्यत्र प्रपञ्चिता। अतो विशिष्टैकदेशरूपोंशो जीवइत्येव युक्तम्। "पादोऽस्य विश्वाभूतानि, त्रिपादस्यामृतं दिवी"ति मंत्रवर्णात्, "ममैवांशो जीवलोके जीवभूतस्सनातन" इति गीतावचनाच्च एवमेवावगम्यते। एवञ्च यथा प्रकाशो मण्यादीनां प्रकाशवतां विशेषणांशः, यथा वा देहिनां देवमनुष्यादिदेहः, तथैव अपृथक्सिद्धप्रकारतया शरीरतया च ईश्वरस्य जीवो विशेषण रूपोंशः। न तु सएव सइति। विशेषणभेदात् भेदश्रुतयः विशेष्टरूपैक्यादभेदश्रुतयश्चोपपद्यन्ते। यथाभूतो जीवश्शेषत्वादिलक्षणः नैवंभूतः परश्शेषत्वादिलक्षण इति प्रभाप्रभावन्न्यायेन शरीरशरीरिभावेन च जीवेश्वरयोर्व्यवस्थितशेषशेषिभावादयश्च उपपद्यन्ते। स्मरन्ति च पराशरादयः जीवेश्वरयोः प्रभाप्रभावन्न्यायं शरीरशरीरिभावञ्च, "एकदेशस्थितस्याग्नेर्ज्योत्स्नाविस्तारिणी यथा। परस्य ब्रह्मणश्शक्तिस्तथेदमखिलञ्जगत्।। यत्किञ्चित्सृज्यते येन सत्वजातेन वै द्विज। तस्य सृज्यस्य संभूतौ तत्सर्वंवै हरेस्तानु" रिति। ननु सर्वेषामीश्वरांशत्वाविशेषे कथं द्विजानां वेदाध्ययनाद्यनुज्ञा, शूद्राणां तत्परिहार इति चेत्, देहविशेषसम्बन्धादिति ब्रूमः। यथाऽग्न्युदकादीनां श्रोत्रियागारस्थितिदशायां कर्मार्हत्वं, तेषामेव श्मशानदेशं प्राप्तानां कर्मानर्हत्वं, एवमात्मनां विविधदेहस्थितिदशायामनुज्ञापरिहारद्वयमुपपद्यते। सर्वेषामात्मनां ब्रह्मांशत्वेनैकरूप्येऽपि तेषामन्योन्यभेदात् अणुत्वेन प्रतिशरीरं भिन्नत्वाच्च भोगव्यतिकरोऽपि न भविष्यति। किन्तु ब्रह्मात्मैक्यवाद एव जीवपरयोर्जीवानाञ्च सप्रसज्यते। न च अविद्याकृतोपाधिभेदात् तदप्रसङ्गः। अखण्डैकरसप्रकाशमात्रस्वरूपस्य ब्रह्मणः स्वरूपतिरोधायकोपाधिभेदोपपादकहेतूनामाभासत्वात्। न खलु दारुखण्डे निपतन् कुठारो दारुखण्डमिव ब्रह्मणि समन्वयन्नुपाधिर्ब्रह्म भिनत्ति। उपाधयो भिन्ना इति चेत्। किं ततः? भोगानाश्रयाणां तेषां भेदेन भोगाश्रयैक्यादापतत्साङ्कर्यं कथं परिह्रियेत। सत्यमिथ्योपाध्युपहित ब्रह्मजीववादयोरुपाधिहेतुभूतानाद्यदृष्टवशात् व्यवस्था भविष्यतीति चेत्, न।
उपाधिभिरिवादृष्टैरपि अखण्डे ब्रह्मणि छेदनाद्यसंभवात्। एतेन अदृष्टहेतुसङ्कल्पानुष्ठानशरीरादिप्रतिनियमात् व्यवस्थेत्याशङ्काऽपि निरस्ता। सङ्कल्पादीनामपि सर्वात्मसननिधावत्पद्यमानानां प्रत्यात्मनियमहेत्वभावात्। ननु आत्मप्रदेशनव्यवस्थया भोगव्यवस्थाऽस्त्विति चेत् न।ब्रह्मणः प्रदेशाश्शरीरान्तर्भूताएव भोगाश्रयावाच्याः। तदन्तर्भूतप्रदेसास्तु न व्यवस्थिताः। प्रायः सर्वेषामपि प्रदेशानां सञ्चरत्सु सर्वेषु शरीरेष्वन्तर्भावात्। तस्मात्सर्वगतात्मपक्ष इव सत्यमित्#ोपाध्युपहितात्मैक्य पक्षेऽपि न भोगव्यवस्थोपपद्यत इति आत्मनामणुत्ववत् भेदोऽप्यभ्युपगन्तव्य इति सिद्धम्।।
संग्रहकारिका।।
जीवस्यात्यन्तभेदे गतिरुपचरणं स्यादभेदश्रुतीनां
गाढाभेदे तु भेदश्रुतिततिसहितस्सङ्करो दुर्निवारः।
तस्मादंशःपरस्येत्युचितमिह सखल्वेकवस्त्वेकदेशो
विंख्यातोऽयं विशिष्टे भगवतिच भवत्येकदेशः प्रकारः।।
इति अंशाधिकरणम्।।7।।
इति श्रीमद्भरद्वाजकुलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजि-
द्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्पय्यदीक्षितस्य कृतौ चतुर्मतसारे
नयमयूखमालिकाख्ये द्वितीयपरिच्छेदे द्वितीयस्याध्यायस्य
तृतीयः पादः।।
द्वितीयस्याध्यायस्य चतुर्थपादः।।
तथा प्राणाः।।1।।
गौण्यसंभवात्तत्प्राक्छØतेश्च।।2।।
तत्पूर्वकत्वाद्वाचः।।3।।
जीवोत्पत्तितदनुबधिज्ञातृत्वादिनिरूपणानंतरं जीवोपकरणानामिंद्रियामामुत्पत्तिप्रकारो विशोध्यत इति संगतिः। किमिंद्रियाणां वियदादिवत् स्वरूपान्यथाभावरूपोत्पत्तिः, उत जीववत् धर्मान्यथाभावमात्ररूपेति श्रुतिविप्रतिपत्तेस्संशये पूर्वपक्षः-- यद्यपि वियदधिकरणे "ब्रह्मातिरिक्तं सर्वमुत्पत्तिम" दिति निर्णीतं, तथापींद्रियाणां वियदादिवत् न स्वरूपान्यथाभावरूपोत्पत्तिः। "असद्वा इतमग्रआसीत् तदाहुः किं तदासीदिति ऋषयो वाव ते अग्रे सदासीत् के ते ऋषय इति प्राणावाव ऋषय इती" ति, सर्गाद्यकालेऽपि स्थितिश्रवणात् प्राणशब्दस्य बहुवचनांतस्य इंद्रियेष्वेव, "प्राणमनूत्क्रामंतं सर्वे प्राणा अनूत्क्रामंती"ति प्रयोगदर्शनात् "तस्यासतऋषयस्सप्ततीर" इति ऋषिशब्दस्यापि तेषु दृष्टप्रयोगत्वाच्च। यद्यपि प्राणशब्दो ब्रह्मण्यपि दृष्टप्रयोगः, ऋषिशब्दश्च ज्ञानवत्त्वादुपपन्नः, तथाऽपि बहुवचनांतयोरनयोस्तस्मिन्नन्वयो न घटते। न "अदितिः पाशा" निति बहवचनवत् इह बहुवचनं अवयवबहुत्वविषयतया योजयितुं शक्यम्। ब्रह्मणो निरवयवत्वादिति। सिद्धान्तस्तु--
ब्रह्मण एकस्यैव सर्गाद्यकालेऽवस्थितेः सावधारणासु बहुषु श्रुतिषु श्रवणात्, प्राणशब्दस्य तस्मिन्निरूढिसत्वात्, ऋषिशब्दस्य ज्ञानसाधनेन्द्रियापेक्षया ज्ञानवति तत्र स्वारस्याच्च, ब्रह्मैवात्र प्राणाः। बहुवचनं तु "गुणेत्वन्याय्यकल्पने" ति न्यायात् पाशबहुत्ववन्नेतव्यम्। अवयवाभावेऽपि विशेषणबहुत्वस्य तदालम्बनस्य सद्भावात्। नच एकत्वावधारणेऽपि जीववदिंद्रियाणामपि सत्वमस्त्विति वाच्यम्। कृतहानाकृताभ्यागमपरिहाराय अदृष्टाश्रयतया जीवस्येव तेषां तदा सत्वस्यावक्तव्यत्वात्, उदाहृतश्रुतेः ब्रह्मण्येव स्वरस्यस्य दर्शितत्वाच्च। सर्गाद्यकाले जीवकृत्या दृष्टावस्थितिवत् वागादीन्द्रियकृत्यस्य कस्याप्यभावात्, भूतसृष्ठ्यनंतरमेव नामरूपव्याकरणश्रवणेन ततः प्राग्वागादींद्रियकृत्यानां नामोच्चारणादीनामभावावगमात्, "एतस्माज्जायत" इति मंत्रे तेषां वियदादिसमानस्वरूपान्यथाभावरूपजननश्रवणाच्च।।
संग्रहकारिका।।
अग्रे सत्वात्प्राणाः नित्या इतिचेन्न सृज्यत्वात्।
प्राणपदन्तद्ब्रह्मणि बहुवचनं पाशवन्नेयं।।
इति प्राणाधिकरणम्।।
सप्तगतेर्विशेषितत्वाच्च।।4।।
हस्तादयस्तु स्थितेऽतो नैवं।।5।।
वियदादिवदुत्पत्तिमत्त्वेन सिद्धानामिंद्रियाणां संख्याविशेषश्चित्यत इति संङ्गतिः। "किमिंद्रियाणि सप्त उत एकादशे" ति श्रुतिविप्रतिपत्तेस्संशये पूर्वपक्षः। सप्तैव। इह परत्र च जीवेन सह सप्तानामेव हि गतिः श्रूयते।
"सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषस्समिधस्सप्तजिह्वाः। सप्त इमे लोका येषु चरंति प्राणा गुहाशया निहितास्सप्त सप्ते"। वीप्सा पुरुषभेदाभिप्राया। विशेषिताश्च ते गतिमन्तः प्राणाः स्वरूपनिर्देशेन-- "यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश्च न विचेष्टेत तामाहुःपरमां गति"मिति।अत्र हि ज्ञानसाधनानि चक्षुरादीनि पञ्च मनोबुद्धिश्चेति सप्तैवेदंतयोंद्रियाणि निर्दिष्टानि। परमांगतिमिति परमगतिरूपमोक्षसाधनं योगमाहुरित्यर्थः। "यानि त्वष्टौ ग्रहाः अष्टावतिग्रहाः सप्त वै शीर्षण्याः प्राणाः द्वाववाञ्चौ, नव वै पुरुषे प्राणानाभिर्दशमी, दश वै पशोः प्राणा आत्मैकदश" इत्याद्यष्टाद्यधिकसंख्याश्रवणं तदन्येषामपि किंचित्किंचिज्जीवोपकारकत्वमात्रेण इंद्रियत्वोपचारात् नाभिवत्। न हि नाभिरंध्रमिंद्रियम्। इंद्रियाणि तु सहगतिमंति सप्तैव। न्यूनाधिकसंख्याश्रवणए च न्यूनसंख्याग्रहणं न्याय्यम्। लाघवात्। अधिकसंख्याग्रहणे न्यूनसंक्यानां तत्रान्तर्भावात् सर्वाबाधो भवतीत्यधिकसंख्याग्रहणमेव न्याय्यमिति चेन्न। तथासति
वागादिप्चगाहङ्कारचित्ताभ्यां सह क्वचिच्चतुर्दशेंद्रियाणि श्रूयन्त इति चतुर्दशसंख्याग्रहणापत्त्या एकादशेति नियमाभावप्रसङ्गादिति। सिद्धान्तस्तु--
हस्तादीनामपि शरीरस्थिते जीवे कार्यभेदेन तद्भोगोपकरणत्वात्, ज्ञानेंद्रियाणि पंच, कर्मेंद्रियाणि पंच, मनश्चेत्येकादशेंद्रियाणीत्येवं मंतव्यम्। अतो "दशेमे पुरुषे प्राणा आत्मैकादशएकादशमतश्चे"त्यादिश्रुतिस्मृतिसिद्धेन्द्रियसंख्या व्यवस्थितैव। नानाविधसंख्याश्रवणे कार्यानुसारेम संख्यानियमनमेव हि युक्तं। नानाविधावदानसाधनश्रवणे सामर्थ्यानुसारेणावदेयनियमनमिव। तदधिकसंख्यावादास्तु मनोवृत्तिभेदाभिप्रायाः। महदनुगृहीते मनः अध्यवसायं, अहङ्कारानुगृहीतं मनः अभिमानं, पूर्वसंस्कारानुगृहीतं मनः चिन्तांचकारोति। मन एवाध्यवसायादिरूपवृत्तिभेदोपहितं बुद्ध्यहङ्कारचित्तशब्दैरभिधीयत इति। न्यूनसंख्याश्रवणानि तु तत्र तत्र विवक्षितगमनादिकार्यविशेषाभिप्रायाणि। योगदशायां कर्मेन्द्रियेभ्योऽपि ज्ञानेन्द्रियाणां यत्नेन वशीकर्तव्यत्वरूपमस्ति प्राधान्यं तदभिप्राया "यदा पंचावतिष्ठंत" इति स्मृतिः। "सप्तवै शीर्षण्याः प्राणा" इति सप्तानां शीर्षण्यत्वरूपमस्ति प्राधान्यम्, तदभिप्राया "सप्तप्राणा" इति श्रुतिः गतिश्रुतिश्च। एकादशानामपि गतिश्रुतिरस्त्येव। "दशेमे पुरुषे प्राणाः आत्मैकादशः ते यदाऽस्मान्मर्त्याच्छरीरादुत्क्रामन्ती" त्यादिका। अतो एकादशेन्द्रियाणीति सिद्धम्।। सङ्ग्रहकारिका।।
सप्तप्राणा युक्ताः सप्तानामेव गतिकथनात्।
मैवं सह हस्ताद्यैः एकादशकार्यभेदात्स्युः।।
इति सप्तगत्यधिकरणम्।।
अणवश्च।।6।।
तानीन्द्रियाणि किं विभूनि परिच्छिन्नानिवेति संशये "त एते सर्व एव समाः सर्वेऽनन्ता" इति आनन्त्यश्रवणात् अस्येन्द्रियस्य इदं परिमाणमिति परिमाणविशेषानुक्तिसहितात् विभुरेवेति प्राप्ते सिद्धान्तः-
उत्करान्तिगत्या गतिश्रवणात्, आनन्त्यश्रवणस्य "स योहैताननन्तानुपास्ते अनन्तं सलोकं जयति" इति वाक्यशेषेण उपासनार्थत्वावगमाच्च परिच्छिन्नान्येव। दूरगतवस्तुग्रहणं तु शीघ्रगतिमत्वादिनोपपद्यते।।
संग्रहकारिका।।
ते विभवोऽनंतत्वश्रवणात् मैवं गतागतोत्क्रमणैः।
सूक्ष्मास्ते तेषां पुनरुपासनाफलमनन्तताश्रवणम्।।
श्रेष्ठश्च।।7।।
इन्द्रियाणामुत्पत्तिविचारानन्तरं छन्दोगानां प्रामसंवादे इन्द्रियैस्सह विवादेन लब्धश्रैष्ट्यस्य मुख्यप्राणस्य इन्द्रियैस्सह विवादोक्त्यैव तत्समानच्छायतावगमात् इन्द्रियोत्पत्तिविचारानन्तरं मुख्यप्राणोत्पत्तिर्विचार्यत इति संगतिः। यद्यपि "एतस्माज्जायते प्राण" इति मंत्रत एव इन्द्रियाणामिव प्रामस्यापि वियदादिवदुत्पत्तिस्सिध्यति, तथापि प्राणस्य भूतवायोः इन्द्रियवृत्तिभ्यश्चान्यत्वं श्रुतिविरोधसमाधानेन निर्निनीषुः तस्य प्राकू प्रकृतोत्पत्तिविचारेण प्रासंगिकत्वसंपादनाय किंचिदधिकशंकानिराकरणाय च प्राणस्योत्पत्तिरिह चिंत्यते। अधिकशंकात्वित्थं- सर्गाद्यकाले जीवकार्यमदृष्टावस्थानमिव वागादीन्द्रियकार्यं नामधेयोच्चारणादिकं नास्ति। अतः प्राणर्षि शब्दौ ब्रह्मणि दृष्टप्रयोगौ ब्रह्मपरावित्युक्तं। प्राणस्यतु "नासदासीन्नोसदासीत्तदानीं तम आसीत्तमसा गूढमग्रे प्रकेत" मित्युपक्रान्ते नासदासीये सूक्ते "आनीदवातं स्वधयातदेक"मिति अननाख्यासाधारणव्यापारसद्भावश्श्रुतः। न च आनीच्छब्दः क्वचिदपि ब्रह्मणि दृष्टप्रयोमः। न च "अबात"मिति विशेषणात् अननाख्यप्राणव्यापारो नभवत्यानीच्छब्दः। किन्तु ब्रह्मसत्तापर इति वाच्यम्। संवर्गविद्यादिषु वायुप्राणयोः पृथगुपदेशेन वाय्वभावेऽपि प्राणसद्भावोपपत्तेरिति।। तन्निवृत्तिस्त्वित्थं- वायोस्तत्वांतराभावेन वायुविशेषात्मको भवत्येव प्राणः। तस्मात् "अवात"मिति वायुसामान्यनिषेधात् आनीच्छब्दस्य प्राणव्यापारत्वायोगेन ब्रह्मपरत्वमेव वक्तुं युक्तं। तथाच स्वेन ब्रह्मण धीयते उपभुज्यत इति व्युत्पत्त्या स्वधाशब्देन लक्ष्मीरुच्यत इति लक्ष्मीविशिष्टस्य भगवतः
परब्रह्मणस्सर्गाद्यसमये स्थितिरुक्ता भवतीति "श्रेष्ठश्चे"ति सूत्रं "पौष्णं पेषणं विकृतौ प्रतीयेते"ति पूर्वतंत्रसूत्रवत् उत्तरचिन्तार्थत्वात् उत्तराधिकरणशेषएव। नाधिकरणान्तरमिति केचिदाहुः।। इति श्रेष्ठाणुत्वाधिकरणम्।।
न वायुक्रिये पृथगुपदेशात्।।8।।
चक्षुरादिवत्तु तत्सहशिष्ठ्यादिभ्यः।।9।।
अकरणत्वाच्च न दोषस्तथा हि दर्शयति।।10।।
पंचवृत्तिर्मनोवद्व्यपदिश्यते।।11।।
किमयं मुख्यप्राणः वायुमात्रं. उत उच्छ्वासनिश्वासरूपा तत्क्रिया, अथवा अवस्थाविशेषापन्नो वायुरिति संशये "यः प्राणस्स वायु"रिति श्रवणात् वायुमात्रं उच्छ्वासनिश्वासरूपा तत्क्रियावा। तत्र प्राणशब्दप्रयोगादिति पूर्वःपक्षः। सिद्धान्तस्तु-
"एतस्माज्जायत" इति मंत्रे पृथगुपदेशान्नवायुमात्रम्। वायुमात्रे प्राणशब्दाप्रयोगाच्च। अत एव तदीया निश्वासादिक्रियाऽपि न भवति। अग्न्यादिक्रियाया इव वायुक्रियाया अपि "एतस्माज्जायत" इति द्रव्योत्पत्तिमंत्रे पृथगुत्पत्त्युपदेशानर्हत्वात् तस्याभावार्थप्रत्ययान्तप्राणशब्दार्हत्वेऽपि प्राणितीति कर्त्रर्थप्रत्ययान्तस्य प्राणिति अनेन जीवतीति करणार्थप्रत्ययान्तस्य वा तस्यां प्रयोगाभावादिति। ननु यदि वायुरेव किंचिदवस्थान्तरं प्राप्तं#ः प्राणः, तर्हि किमग्निरिव प्राणोपि वायुत्वं परित्यजेत्, नेत्युच्यते। नायमग्निवद्भूतान्तरं। किन्तु वायुत्वापरित्यागेनैव जीवस्य चक्षुरादिवदुपकरणविशेषः। तैर्विशिष्टत्वात्। प्राणसंवादे हि "अथ ह प्राणा अहंश्रेयसे व्यूदिरे अहं श्रेयानस्मी"ति चक्षुरादिभिस्सहकलहाभिधानेन तत्समानच्छायत्वावसायात्, तदनन्तरं "त्वंनश्रेष्ठोऽसीति चक्षुरादिवचनेन प्राणस्य मुख्यत्वनिर्धारणाच्च। समानजातीयानामेव हि सहशिष्टस्तुल्योपकारकत्व संशयेन परस्परोत्कर्षकलहः। कस्यचिदुपकारादिशयदर्शनेन मुख्यत्वनिर्धारणं च भवति। जीवोपकरणत्वेनप्रसिद्धैस्समानजातीयत्वञ्च प्राणस्यापि तदुपकरणत्वे सत्येव भवति। ननु चक्षुरादिभिरिव प्राणेन जीवस्योपकारविशेषो न दृश्यतइतिचेन्नायं दोषः। श्रुतिरेवाहि शरीरेन्द्रियधारणरूपां क्रियां तदुपकारत्वेन दर्शयति। यथा प्राणसंवादे चक्षुरादीन् प्रति प्राणस्य वचनं "मामोहमापद्यथाहमेवैतत्पंचधात्मानं प्रविभज्य एतद्बाणमवष्टभ्य विधारयामी"ति। ननु पंचधा भेदे व्यानादयः किं प्राणात्तत्वांतराणि नेत्युच्यते। "कामस्संकल्पोविचिकित्सा श्रद्धाऽश्रद्धाधृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मनएवे"ति वचनात्कामसंकल्पादयो मनस इव प्राणवायोरकस्यैव प्राणापानादयोवृत्तिभेदाः। एतेनेन्द्रियाणां साधारणी वृत्तिः प्राणइति सांख्यपक्षे निरस्तः। तेहि कल्पयन्ति "पंजरस्थानं सर्वेषां शुकानां पंजरचालनमिव वा सर्वासां
खलकपोतिकानामुपरिपतितवागुरोत्क्षेपणमिववा शरीरस्थानां सर्वेषामिन्द्रियाणां साधारणवयापारः प्राण"इति। नैतद्युक्तं। इन्द्रियकार्यविषयोपलब्धिव्यतिरेकेणोच्छ्वासनिश्वासक्रियायाः, स्वात्मानं पंचधा विभज्य देहधारणक्रियायाश्च मुख्यप्राणस्वतंत्रकार्यस्यदर्शनात्।।
संग्रहकारिके।।
मुख्यप्राणोप्यक्षवर्गोक्तरीत्या ब्रह्मोत्पन्नोवायुमात्रं तथोक्तेः।
देहांतर्वा तत्क्रिया श्वासरूपा मैवं द्रव्यैस्साकमुत्पत्तिवादात्।।
वायोरेवत्ववस्थांतरमयमिति संगच्छते वायुतोक्तिः
पूर्वावस्थानुवृत्तेर्भवति दहनवन्नास्य भूतांतरत्वं।
नित्यं संसारभाजामुपकरणमिदं शिष्यते चक्षुराधैः
ख्यातात्यंतोपकारस्तनुकरणमयं धारयन्पञ्चवृत्तिः।।
इति वायुक्रियाधिकरणम्।।
अणुश्च।।12।।
प्राणस्वरूपनिर्धारणान्तरं तत्परिमाणं निरूप्यतइति संगतिः। प्राणोविभुः परिच्छिन्नोवेति श्रुतिविप्रतिपत्तेस्संशये विभुरिति पूर्वःपक्षः। "समएभिस्त्रिभिर्लोकैस्समोनेन सर्वेण, प्राणे सर्वं प्रतिष्ठितं, सर्वं हीदं प्राणेनावृत"मिति श्रवणात्। नन्विन्द्रियाणामानन्त्यश्रवणेऽपि उक्रमणादिलिंगेन परिच्छिन्नत्वं प्रसाधितं, तेनैव न्यायेन प्राणस्यापि परिच्छिन्नत्वं सिध्येत्। किमनेनाधिकरणेन। उच्यते- उपास्तिविधानांतर्गतमानन्त्यं, इदंतु नतथेति पूर्वपक्षीमन्यते। यद्वा "सर्वंहीदंप्राणेनावृत"मितीत्युपपत्तिसहितं सर्वसाम्यश्रवणमुत्क्रमणादिलिंगात् प्रबलं। अतस्तदौपयिकोत्क्रमणादिरूपं वाच्यमिति पूर्वपक्ष्यभिप्रायः। उपासनाविधिशेषत्वं सर्वसाम्यलिंगेपि तुल्यं "एवमेतत्साम्यं वेदे"त्युपासनाविधिसन्निधानात्। "प्राणे सर्वं प्रतिष्ठितं सर्वाहीदं प्राणेनावृत"मित्येतदपि सर्वस्य शरीरस्य प्राणे प्रतिष्ठितत्वं प्राणेनावृतत्वं च ब्रूते। न तु सर्वस्य जगतः प्राणावृतत्वरूपं। प्राणस्य व्यापकत्वं हिशब्दप्रयोगेन प्रसिद्धार्थवादत्वावगमात् शरीरस्येव च प्राणप्रतिष्ठितत्वप्राणावृतत्वयोः लोकतश्श्रुत्यंतरतश्च प्रसिद्धेरिति सिद्धान्तः।।
संग्रहकारिका।।
समएभिस्त्रिभिर्लोकैरित्याम्नानादयं विभुः।
अणुरुत्क्रमणादिभ्यः सर्वसाम्यश्रुतिस्स्तुतिः।।
इति प्राणाणुत्वाधिकरणम्।।
ज्योतिराद्यधिष्ठानन्तु तदामननात्प्राणवता शब्दात्।।
तस्य च नित्यत्वम्।।14।।
प्राणानामुत्पत्तिमत्तापरिमाणादिविचारानन्तरं अग्न्यादिदेवताधिष्ठितत्वप्रकारविशेषश्चित्यत इति संगतिः। किमग्न्यादिदेवतानां प्राणाधिष्ठातृत्वं "अभिमानिव्यपदेशस्तु विशेषानुगतिभ्या"मिति प्राक्प्रसंगादुक्तं। तत् स्वस्वायत्तं उत ईश्वरायत्तमिति संदेहे पूर्वपक्षः-यद्यपि "परात्त तच्छØते"रित्यधिकरणे जीवानां कर्तृत्वमीश्वरायत्तमित्युक्तं, तथापि अग्न्यादित्यादीनामीश्वरदत्तैश्वर्याणां ईश्वरवत् वरदायित्वफलप्रदत्वादिसत्वेन स्वातंत्र्यसत्वात्तत्तदायत्तमेवाधिष्ठातृत्वमस्तु परायत्तताश्रुतेः मनुष्यादिविषयत्वेन संकोचोपपत्तेरिति। सिद्धान्तस्तु-
ज्योतिरादीनामग्न्यादित्यादीनां यच्चक्षुराद्यधिष्ठातृत्वं तत्परमेश्वरस्यैव संकल्पात्। कुतः? तस्य सर्वान्तर्यामित्वश्रुतेः। अतो यथा जीवस्य "एवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिचर्तत" इति स्वातंत्र्यश्रवणेऽपि तस्य इन्द्रियाधिष्ठातृत्वं परायत्तं, एवमभिमानिदेवतानामपीति युक्तं। ननु परमेश्वरदत्तैश्वर्येम देवतानां मनुष्यादिभ्यो विशेषोस्तीति चेन्न। सर्वेषां संसारिणामीश्वरनियम्यत्वस्य नित्यत्त्वात् "स ईशोऽस्य जगतोनित्यएवे"त्यविशेषश्रवणात्। अतः
प्राग्देवतापदप्राप्तेः परमेश्वरनियम्यानां तासां तदनन्तरमपि अमात्यानां राजनियम्यत्ववत् ईश्वरनियम्यत्वमवर्जनीयमे।।
संग्रहकारिके।।
अग्न्यादिदेवतानामाराध्यानां फलप्रदानांच।
प्राणाधिष्ठातृत्वं स्वायत्तं भवतु को दोषः।।
मैवं तदीश्वरादीनां तासां प्राणवता सह।
नित्यानुबन्धिनीह्येषां सर्वेषां तन्नियम्यता।।
इति ज्योतिराद्यधिष्ठानाधिकरणम्।।
त इन्द्रियाणि तद्व्यपदेशादन्यत्रश्रेष्टात्।।15।।
भेदश्रुतेर्वैलक्षण्याच्च।।16।।
इन्द्रियाणां प्राणस्य चोत्पत्त्यादिनिरूपणान्तरं किं सर्वे प्राणशब्दनिर्द्रिष्टा इन्द्रियाणि उत मुख्यप्राणव्यतिरिक्ता इति विचार्यते। ननु किमस्य विचारस्य प्रयोजनं। मुख्यप्राणानुगततद्व्यावृत्तलक्षणविचारस्य व्यवहार विशेष एव प्रयोजनमिति चेत् मैवं। न खलु वैशेषिकशास्त्र इव व्यवहारमात्रप्रयोजनो लक्षणविचारोस्त्यस्मिन् शास्त्रे उच्यते। श्रुतिविप्रतिपत्तिनिरासार्थ एवायमपि विचारः। तथाहि - बहुवचनांतः प्राणशब्दः इन्द्रियपर्याय इति निर्विवादं। तस्य मुख्यव्यावृत्तः प्रयोगो दृश्यते-"प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ती"ति। तेन श्रेष्ठादन्ये चक्षुरादय एवेंद्रियाणीति प्रतीयते। "अथह यएवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिर"इति श्रेष्ठे मुख्यप्राणशब्दप्रयोगात् सोपीन्द्रियांतर्भूत इति प्रतीयते। येन प्रवृत्तिनिमित्तेन चक्षुरादिषु प्राणशब्दप्रवृत्तिः तेनैव श्रेष्ठे तत्प्रवृत्तौ हि श्रेष्ठःप्राणानां मध्ये मुख्यप्राणो भवति यथा ब्राह्मणानां मध्य एव कश्चिन्मुख्यब्रह्मणो भवति। एवं श्रुतिविप्रतिपत्तौ सत्यां पूर्वपक्षः-प्राणोपीन्द्रियमेव। प्राणशब्दवाच्येषु तस्य मुख्यत्वप्रतिपादनात्। न च "एतस्माज्जायत" इति मंत्रे प्राणस्य पृथगुत्पत्तिवचनान्दिन्द्रियेभ्यो भेदश्शंकनीयः। तथा सति मनसोपि तेभ्यो भेदापत्तेः। प्राणस्यापीन्द्रियत्वे सत्येव प्रायस्सजातीयेष्वेव लोके दृष्टः परस्परोत्कर्षकलहः चक्षुरादीनां प्राणस्य च श्रूयमाणस्संगच्छते। न चांतरंगेणेन्द्रियत्वेन साजात्ये संभवति बहिरंगेण जीवोपकरणत्वेन साजात्यात् स उपपादनीयः। एवं च "इन्द्रियाणि दशैकञ्चे"त्यादिवचनं मुख्यप्राणातिरिक्तेन्द्रियादिविषयं। यथा "सप्तप्राणा"इति वचनं शीर्षण्यप्राणमात्रविषयमिति नैकादशसंख्योक्तिविरोधः। तस्मात् "स योहैताननंतानुपास्त" इति विहितमिन्द्रियोपासनं मुख्यप्राणसहितमेव कार्यमिति। सिद्धांतस्तु-
श्रेष्ठे मुख्यप्राणशब्दः प्राणशब्दोदितानामिन्द्रियाणां मध्ये मुख्येन्द्रियरूप इत्येवमर्थो न भवति, किन्तु मुखेभवः प्राण इत्येतदर्थकः। बृहदारण्यके समानप्रकरणे "अथहेममासन्यंप्राणमूचु"रिति मुख्यशब्दस्थाने आसन्यशब्दप्रयोगात्, तस्यचास्येभव इत्येतदर्थकत्वात्। तत्रह्यास्यशब्दस्य "पद्दन्नोमास्"इत्यादिसूत्रेणासन्नादेशः। यदि तु मुख्यः प्राण इत्यस्य प्राणानां मध्येमुख्य इत्यर्थः, तथापि प्राणस्येन्द्रियत्वं न लभ्यते। अयं प्राणः प्राणशब्दस्य मुख्योभिधेयः, अन्ये प्राणा इन्द्रियाणि तस्य लक्षणीया न मुख्या इत्येवमर्थकत्वोपपत्तेः, "त एतस्यैव सर्वे रूपमभवं स्तस्मादेत एतेनाख्यायंत" इति मुख्यप्राणवाचकेनैव सता चक्षुरादीनां लक्षणीयत्वोक्तेः। सर्वमेतत् "अन्यथात्वंशब्दादितिचे"दिति गुणोपसंहारपादाधिकरणे स्पष्टीभविष्यति। तस्मान्मुख्यप्राणव्यतिरिक्ताश्चक्षुरादय एवेन्द्रियाणि। "एतस्माज्जायते प्राण"इति मंत्रे पृथङ्निर्देशादपि तथावसीयते। मनस इन्द्रियेभ्यः पृथङ्निर्देशेऽपि "मनष्षष्ठानीन्द्रियाणी"ति वचनांतरानुसारेण मनस इन्द्रियत्वमभ्युपेयते। न तथेह प्राणस्येन्द्रियत्वे वचनांतरमस्ति। किंच प्राणस्येन्द्रियाणांच वैलक्षण्यमप्यस्ति। सुषुप्तौ हि चक्षुरादिषु सर्वेषूपरतेष्वपि प्राणस्य वृत्तिरुपलभ्यते। "प्राणाग्नय एवैतस्मिन् पुरे जाग्रति भूर्भूरित्येव श्वसिती"ति श्रुत्याप्यनूद्यते। कार्यवैलक्षण्यं चास्ति- ज्ञानानि कर्माणि च इन्द्रियाणां कार्याणि, प्राणस्य तु देहधारणं। तस्मान्मुख्यप्राणव्यतिरिक्ताश्चक्षुरादयएव इन्द्रियाणि। तेषांचैकादशानामनुगतं लक्षणं सात्विकाहंकारविकारत्वम्।।
संग्रहकारिका।।
प्राणोऽपीन्द्रियमेहः सर्वेषां प्रणशब्दावाच्यत्वात्।
मैवं पृथगुपदेशा दन्येषां प्राणता तु लक्षणया।।
इति इन्द्रियाधिकरणम्।।
संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात्।।17।।
मांसादिभौमं यथाशब्दमितरयोश्च।।18।।
वैशेष्यात्तु तद्वादस्तद्वादः।।19।।
खादिषु पूर्वपूर्वशरीरकस्य ब्रह्मण उत्तरोत्तरसृष्टिकर्तृत्वप्रतिपादनेन सर्वत्रापि सृष्टौ ब्रह्मणस्साक्षातकर्तृत्वं "भेदश्रुते"रिति सूत्रेण दर्शितं। तन्नोपपद्यते-नामरूपव्याकरणे केवलं हिरण्यगर्भस्य कर्तृतायाः श्रुतिस्मृति
प्रसिद्धत्वादित्याक्षेपेणोत्थानात् संगतिः। खादिसृष्टाविव नामरूपव्याकरणेऽपि तस्य साक्षात्कर्तृत्वमुपपद्यत इति दृष्टान्तसङ्गतिर्वा। "अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणी"ति श्रुतिः, "नामरूपञ्च भूतानां कृत्यानांच प्रपंचनम्। वेदशब्देभ्यएवादौ देवादीनां चकार स" इच्यादि स्मृतिश्च हिरण्यगर्भस्य नामरूपव्याकर्तृत्वं प्रतिपादयति, उत तच्छरीरकस्य परमात्मन इति संशये पूर्वपक्षः-हिरण्यगर्भस्यैव प्रतिपादयति। "जीवेन व्याकरवाणी"ति श्रवणात्। नन्वेवं सति "यथा चारेण परसैन्यं कलयानीति नरपतिरमन्यते"ति लौकिकवाक्ये चारकर्तृकं परसैन्यसङ्कलनं राज्ञि गौणं व्यपदिश्यते। एवमिहापि जीवकर्तृकं नामरूपव्याकरणं ब्रह्मणि गौणं व्यपदिष्टमिति स्यात्, नैष दोषः। राजचारयोरिव जीवेश्वरयोरंशांशिनोस्स्वरूपभेदाभावेनात्रापि "जीवेनात्मने"ति जीवस्येश्वरकर्तृत्वस्वात्मत्वपरामर्शेन च जीवकर्तृकस्य सङ्कलनस्य मुख्यतयैवेश्वरकर्तृत्वस्वात्मत्वपरामर्शेन च जीवकर्तृकस्य सङ्कलनस्य मुख्यतयैवेश्वरकर्तृकत्वोपपत्तेः। नच सहयोगलक्षणेयं तृतीयास्तु, तथाच ईश्वरस्यापि तत्र कर्तृत्वं घटत इति वाच्यम्। उपपदविभक्तितः कारकविभक्तेः पदान्तरयोगनिरपेक्षत्वेन बलीयस्त्वात्। न च करणार्थतया कारकविभक्तित्वनिर्वाहः। ईश्वरकर्तृके व्याकरणे जीवस्य साधकतमत्वाभावात्। किं च करणार्थत्वेऽपि व्याकरणं जीवकर्तृकमेव पर्यवस्यति। नेश्वरकर्तृकम्। चेतन कर्तारं प्रति चेनांतरस्य करणतयोपकारकत्वं हि तत्प्रयोज्यकर्तृतयैव भवति। अस्मिन्पक्षे राज्ञश्चारकर्तृके सङ्कलन इव ईश्वरस्य जीवकर्तृके व्याकरणे कर्तृत्वममुख्यं विवक्षितमिति नेतव्यम्। एवं करणार्थत्वकल्पने सति तृतीयानुपपत्तिशङ्काऽपि निरस्ता भवति। कर्त्रर्थत्वे हि तच्छङ्का स्यात्। व्याकरणकर्तुः तिङाऽभिहितत्वात्। न च जीवस्य कर्तृत्वं प्रवेशमात्रे पर्यवस्यति। व्याकरणंत्वीश्वरस्यैवेतिकल्पनेन कर्तरि तृतीयानिर्वाहः। "समानकर्तृकयोः पूर्वकाल"इति क्त्वाप्रत्ययस्य कर्त्रैक्यार्थत्वस्मरणेन भिन्नकर्तृकयोस्तदसम्भवात्। तस्यापि कर्त्रर्थत्वस्मरणेन तदभिहितेऽपि कर्तरि तृतीयानुपपत्तेश्च। अतस्संकलनस्य चार इव व्याकरणस्य जीव एव मुख्यकर्ता। तथा सत्येव "नामरूपं च भूताना"मिति स्मृतिरपि संगच्छते। न हि हिरण्यगर्भजीवांतर्यामी परमेश्वरो देवादिनामरूपसृष्टये पूर्वसर्गवृत्ततन्नामरूपस्मृत्यर्थंवेदशब्दानपक्षत इति। एवंप्राप्तेसिद्धांतः
संज्ञामूर्तिक्लृप्तिः- देवादीनां नामरूपव्याकरणं त्रिवृत्कुर्वतः परमेश्वरस्यैव सृष्टिः। "सेयं देवतैक्षतहंताहमिमास्तिस्रो देवताः अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणी"ति त्रिवृत्करणनामरूपव्याकरणयोस्समानकर्तृकत्वश्रवणात्। त्रिवृत्करणं हि परमेश्वरस्यैव कर्म। न तु "तस्मिन्नंडेऽभवद्ब्रह्मा सर्वलोकपितामह" इति अंडांतस्संभूतत्वेन स्मृतस्य हिरण्यगर्भस्य। त्रिवृत्कृतैस्तेजोवन्नैरंडस्योत्पादनीयत्वात्। तस्मात् त्रिवृत्करणकर्तेश्वरः नामरूपव्याकरणस्यापि कर्ता। हिरण्यगर्भस्यापि तत्कर्तृत्वस्मृतिः घटादेरिव तस्य द्विकर्तृकत्वादुपपद्यते। कथमिदानीं "जीवेनात्मने"ति सामानाधिकरण्यं। जीवशब्दस्य जीवशरीरकपरमात्मपरत्वादित्यवेहि। कथमाख्याताभिहिते कर्तरि तत्कर्तृकाख्यातोपात्तक्रियापेक्षया क्त्वाप्रत्ययप्रकृत्युपात्तक्रियायाः पूर्वकालत्वं तयोः क्रिययोः कर्तुरैक्यं चेत्येतावन्मात्रमेव हि क्त्वार्थः। लाघवात्। नत्वन्यलभ्या कर्तृशक्तिरपि। तथाऽपि प्रधानक्रियान्वयस्याभ्यर्हितत्वात् व्याकरणान्वय एव जीवशरीरकस्य परमात्मनो वक्तव्यस्स्यादिति चेत्- सत्यं। प्रधानक्रियान्वयासंभवे उपसर्जनक्रियान्वयोपि युक्त एव। यथा "इष्टकाः कृत्वा भुङ्क्त" इत्यत्र तत्र इष्टकानां भोजनक्रियाकर्मत्वेन अन्वयानर्हत्वादसंभवः। इह तृतीयांतनिर्दिष्टस्य कर्तुः कर्त्रर्थकाख्यातान्वयानर्हत्वादित्येव विशेषः। यदि क्त्वाप्रत्ययस्य कर्त्रैक्यपूर्वकालत्वमात्रमर्थमंगीकृत्य कर्तृशक्त्यभिधायकत्वं प्रत्याख्यायेत तदेह जीवेनेतिवत् "इष्टकाः कृत्वाऽहंभोक्ष्य" इत्यत्रापि मयेति
अनभिहिताधिकारविहितया तृतीययैव भाव्यं स्यात्। अतस्तस्य कर्तृशक्त्यभिधायकत्वमंगीकृत्यैव तत्र प्रथमा समर्थनीया। ततश्च अत्रापि क्त्वाप्रत्ययेन कर्तुरभिधानात् जीवेनेति तृतीया न स्यात् प्रथमयैव भाव्यं स्यादिति कर्तृशक्त्यनभिधानमाश्रित्य तृतीयासमर्थनायामनुपपत्तिः, तदा छांदसत्वेनेयं व्याकरणकर्तरि जीवशरीरके परमात्मनि तृतीयोपपादनीया। न तु जीवस्येश्वराभिन्नत्वं व्याकरणस्य जीवकर्तृकत्वंचांगीकृत्य तृतीयेयमुपपादनीया। जीवेश्वरयोर्भेदस्य समर्थितत्वात्। अतस्त्रिवृत्करणसमानकर्तृकं व्याकरणं त्रिवृत्करणकर्तुरीश्वरस्यैव कृतिरिति सिद्धं। यद्यपि हिरण्यगर्भसृष्ट्यनंतरनामरूपव्याकरणानन्तरं
त्रिवॄत्करणं श्रुतौ पठितं, तथापि पाठक्रमादर्थक्रमस्य बलीयस्त्वात् त्रिवृत्करणं प्रागेवेत्यस्यार्थस्य प्रपंचनं भाष्ये द्रष्टव्यं।।
संग्रहकारिके।।
सरसिजसंभव एव व्याकरणनामरूपयोः कर्ता।
जीवेनेति श्रवणात् तत्सृज्यप्रकरणे च तत्स्मरणात्।।
मैवं यस्त्रिवृतं चकार कथितः कर्ता स हि व्याकृतौ
तद्धाता न तथा त्रिवृत्कृतधराद्युत्पादिताण्डोद्भवः।
तेन व्याकरणत्रिवृत्करणयोः कर्ता स एवेश्वरो
जीवेनेति तु तच्छरीरकतया तत्रैव शक्तं पदम्।।
इति संज्ञामूर्त्यधिकरणम्।।
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजि-
द्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे
नयमयूखमालिकाख्ये द्वितीयपरिच्छेदे द्वितीयस्याध्यायस्य
च तु र्थः पा दः।।
।।द्वितीयोऽध्यायस्समाप्तः।।
श्रीमते हयवदनपरब्रह्मणे नमः।।

।।श्रीमते हयवदपरब्रह्मणे नमः।।
।।चतुर्थोऽध्यायः।।
।।चतुर्थस्याध्यायस्य प्रथमः पादः।।
सा धननुरूपणानन्तरं फलमस्मिन्नध्याये निरूप्यते। देहे स्थितस्य विदुषः पापाश्लेषविनाशो मूर्धन्यनाड्या देहान्निर्गमोर्गतस्यार्चिरादिगतिर्ब्रह्म प्राप्तिश्चेति चतुर्विधं फलम्। तदिदं चतुर्विधं फलं क्रमात्पादचतुष्टयेन विचार्यते। आदौ तावाद्विद्यायां विचारणीयाः केचन विशेषाः विचार्येन्ते। साधनभूताया विद्याया भक्तिदशापन्नायाः फलरूपत्वमस्तीति दर्शयितुं तृतीयविचारणीययानामपूह विचारः--
आवृत्तिरसकृदुपदेशात्।।1।।
लिङ्गाच्च।।2।।
" ब्रह्मविदाप्नोति पर " मित्यादौ ब्रह्मप्राप्तिसाधनत्वेन श्रुता विद्या किं सकृदेवानुष्ठेया उतासकृदावर्तनीयेति संशये पूर्वपक्षः। सकृदनुष्ठेया। आवृत्तौ प्रमाणाभावात्। अवघातादिवत् दृष्टोपायत्वाभावात्। यागादिकर्मवद्वेदनमपि हि " फलमतउपपत्तेः " रित्यत्र प्रतिपादितम्। ननु " मनोब्रह्मेत्युपासीते " त्युपासिनाऽनुक्रम्य " यएववेदे " त्युपसंहारात् संवर्गाविद्यायां " यस्तद्वेदे " ति विदिनोपकर्म्य " यां देवतामुपास्स " इत्युपालिनोपसंहाराच्चज वेदान्तेषु विदिधात्वर्थविधान्यस्यावृत्तिगर्भोपासनापर्यवसानावगमादावृत्तिः सिध्येतिचेत्, अस्तु त्रिचतुर वृत्त्याऽप्यावृत्तिशास्त्रार्थसिद्धिर्न तन्मात्रेणासकृदावृत्तिस्सिद्धान्त्यभिमता सिद्ध्यीति। राद्धान्तस्तु। " द्रष्टव्यश्श्रोतव्योमन्तव्यो निदिध्यासितव्य " इति " तत्तस्तु तं पश्यति निष्कळं ध्यायमान " इति च विशदतरावभासतया विद्याया दर्शनसमानाकारपत्त्यपेक्षाप्रतिपादनात् तादर्थ्येन " तद्रूपप्रत्ययैकात्मा सन्ततिश्चान्यनिस्पृहा। तद्ध्यानं प्रथमैष्षड्भिरङ्गैर्निषपद्यते तदे " ति स्मृत्यनुसारेमचासकृदावर्तनीया विद्येति।
संग्रहकारिके।।
मुमुक्षुभिस्सकृत्कराय विहितं ब्र्हमवेदनम्।
ज्योतिष्टोमादितुल्यं हि दृष्टार्थं नावहन्तिवत्।।
आवर्तनीयमसकृत्तदुपास्तितया मितम्।
उपक्रमोलपसंहारशाखान्तरगतैः पदैः।।
इति आवृत्त्यधिकरणम्।।1।।
आत्मेतितुपगच्छन्ति ग्राहयन्ति च।।3।।
विद्यायां विशदतरावभासरूपफलार्थापत्तिप्रसूतमावृत्तिगुणकत्वं निरूपितम्। तदनन्तरं मुक्तावपि भगवतत्पारतंत्र्यरूपफलार्थापत्तिप्रसूतं भगवतः स्वात्मत्वेननानुसन्धेयत्वं नुरूपप्यत इति सङ्गतिः। विद्यास्वीश्वरः स्वात्मत्वेन नानुसन्धेयाः। किं तु पृथक्त्वेननैव। " पृथगात्मानां प्रेरितारञ्च मत्वाजुष्टस्ततस्तेनामृतत्वेमती " ति श्रुतेः। अत्नर्यामिब्राह्मणोक्तं भगवतः स्वात्मत्वमस्तिचेत् अस्तु तन्न निषिध्यते। मुक्त्यर्थमनुसन्धानं पृथक्त्वेनैव कर्तव्यमूदाहृतश्रुतेरिति। राद्धान्तस्तु-- तत्क्रतुन्यायेन मुक्तावपि भगवत्पारतंत्र्यसिद्ध्यर्थ स्वात्मत्वेनानुसन्धानं कार्यम्। तथैव पूर्वेऽप्युपासितारोऽनुसन्देधते " त्वंवा अहमसि भगवो देवतेऽहं वै त्वमसी " ति। तथैव च शास्त्राण्यन्तर्यामिब्र्हमाणादीन्युपदिशन्ति। न च पृथक्त्वानुसन्धानवविरोधः। स्वशरीरात् स्वात्मनैव ततोऽपि परमात्मानोऽधिकत्वेन तथाऽनुसन्धानोपपत्तेः।।
संग्रहकारिके।
अन्यत्वेनोपासितुरपासनं भगवतः कार्यम्।
नत्वहमिति भिन्नत्वात् पृथगात्मामनमिति च श्रवणात्।।
भिन्नमपि तावदात्मा ब्रह्मशरीरस्य जीवस्य।
तस्मान्नरोऽहमितिवत् ब्रह्माहमितीदमुपपन्नम्।।
इति आत्मत्वोपासनाधिकरणम्।।2।
न प्रतीके न हि सः।।4।।
ब्रह्मदृष्टिरुत्कर्षात्।।5।।
अहं ग्रहेष्वीश्वरस्यात्मत्वेनोपासनमुक्तम्। प्रतीकोपासनेष्पपि तच्छङ्कया सङ्गतिः।
" मनोब्रह्मे " त्यादिषु ब्रह्मण आत्मत्वेनानुसन्धानं कार्यं नवेति तस्यस्वतंत्रोपास्यत्वदृष्टिविशेषणत्वाभ्यां संशयः। यदि ब्रह्मणि मनोदृष्टिर्विद्येया तदा ब्रह्मणस्स्वतन्त्रोपास्यत्वात् पूर्वाधिकरणन्यायेन तस्यात्मत्वेनानुसन्धानं कार्यम्। यदि मनसि ब्रह्मदृष्टिर्विद्येया तदोपास्यस्याब्रह्मत्वात् न तथोपासनं कार्यमिति फलफलिभावः। तत्र ब्रह्मोपास्यं। मनोदृष्टि विशषणम्। अचेतनस्य मनसः फलप्रदानाशक्तस्योपास्यत्वायोगादिति पूर्वपक्षः। मनसि ब्रह्मदृष्टिर्विधेया ब्रह्मण उत्कृष्टत्वात्। अपकृष्टेह्युत्कृष्टबुद्धिरभ्युदयाय भवति। यथा राजभृत्ये राजबुद्धिः। उत्कृष्टेत्वपकृष्टबुद्धिरनथायैव स्यात्। तस्मान्मनस उपास्यत्वन्नात्मत्वेनानुसंधानं कार्यम्।मनसोऽप्यभिमानिदेवतारूपेण चेतनत्वादिति।।
सङ्ग्रहकारिके।
एवमात्मत्वधीः कार्या प्रतीकोपासनेष्वपि।
मैवं स हि भवक्यात्मा न खलुपासकं प्रति।।
स हि ब्रह्मदृश्योपास्यो नत्वत्र विपीरतता।
उत्कृष्टब्रह्मदृष्टिर्हि निष्कृष्टे फलदीयिनी।।
इति प्रतीकाधिकणम्।।3।।
आदित्यादिमतयश्वांग उपपत्तेः।।6।।
उत्कृष्टदृष्टिर्निकृष्टे कर्तव्येत्युक्तम्।तदोद्गीथादिदृष्टिरादित्यादौ कर्तव्येति शङ्कया सङ्गतिः। " य एवासौ तपति तमुद्गीथमुपासाञ्चक्रिर " इत्यादिषु किमादित्यादावुद्गीथादिदृष्टिर्विधेया उतोद्गीथादावादित्यादिदृष्टिरित्यन्यतरोत्कर्षानवधारणात् संशये पूर्वपक्षः। आदित्यादावुद्गीथादिदृष्टिर्विधेया फलवत्कर्माङ्गतया फलवत्त्वात्। आदित्यादेर्देवतारूपेण कर्माङ्गत्वे सत्यपि स्वतस्साध्यस्योद्गीथादेः फलसन्निकर्षात् मनोब्रह्मेत्यत्रेवादित्यादेः प्रथमनिर्दिष्टस्योपास्यत्वप्रतीतेश्चेति।।
सिद्धान्तस्तु--
उद्गीथादिष्वादित्यादिदृष्टिर्विधेया। कर्मणामादित्यादिदेवताराधनद्वारेणैव फलसाधनतयाऽऽदित्यादिनामुत्कृष्टत्वोपपत्तेः। आराधनानामाराध्यदेवताप्रधानतया साध्यानुरागेण तस्यापि साध्यतोपपत्तेस्तत्प्रयुक्तोत्कर्षस्याप्यनादरणीयत्वात्। यद्यादित्यादेः "अर्यम्णे चरुं निर्वपेत्स्वर्गकाम " इत्यादि विध्यन्तरविहितेषु कर्मसु फलप्रदत्वेऽप्यस्मिन्नुपासनाप्रकरणे देवतात्वाभावेन फलप्रदत्वाभावात् तत उद्गीथादेरेवात्र फलवत्कर्मौगतया फलवत्त्वादुत्कृष्टत्वमुच्यते तदाऽप्युद्गीथादावेवादित्यादृष्टिर्विधेया अंगानंगसमभिव्याहारवतीनां विद्यानामंगेष्वगदृष्टिरूपत्वे प्रधानकर्मप्रयुक्तांघाश्रयत्वात्। स्वतन्त्रफलानामपि तासां पृथक्प्रयुक्तिर्नकल्प्येति प्रयुक्तिलाघवाद्वैपरीत्ये प्रयुक्तन्तरकल्पनागौरवात्।।
सङ्ग्रहकारिके।।
यद्वृत्तप्राधम्यं यस्मादादित्यमुख्येषु।
फलसाधनकर्मत्वादुद्गीथादिच तदुत्कृष्टम्।।
तस्मादुद्गीथादिदृगादित्यादिषु समाधेया।
मैवमिह देवतैव हि कर्माराध्या तदुत्कृष्टा।।
इति आदित्यादिमत्त्याधिकरणम्।।4।।
आसीनस्सम्भवात्।।7।।
ध्यानाच्च।।8।।
अचलत्वञ्चापेक्ष्य।।9।।
स्मरन्तिच।।10।।
यत्रैकाग्रता तत्राविशेषात्।।11।।
अवसितमहंग्रह प्रसक्तानुप्रसक्तं।परविद्याविषय एव विचारितौऽनुवर्तते।परविद्यानां प्रधानफलार्थापत्तिमूलावावृत्त्यहंग्रहौ विचारितौ। इदानीमंगरूपप्रदानोपकाराथापत्तिमलौगविशेषश्चित्यते। परविद्यास्वासननियमोऽस्ति नवेति संशये नास्ति नियामकम्। नचासीनस्यैवोपासनोपयोग्यैकाग्न्यं सम्भवतीति वाच्यम्। ऋत्विक्कर्तृकांगावबद्धोपासनेष्विव तिष्ठतोऽपि तत्सम्भवात्। ऋत्विजां कर्मविध्यनुसारेण तिष्ठतामपि तत्तंदंगाश्रयोपासनादर्शनादिति।
सिद्धान्तस्तु--विशदतरावभासरूपदर्शनसमानाकारतापत्तयुपयोगिनीनां परब्रह्मापासनानां निरन्तरस्मृतिसन्तानरूपध्रुवानुस्मृत्यात्मतया क्रत्वंगाश्रयोपासनावैषम्यात् अचलत्वसाम्यमपेक्ष्य " ध्यायतीव पृथधिवी ध्यायीवान्तरिक्ष " मित्यादिनिर्देशनात् "उपविश्यासने युज्याद्योगमात्मविशुद्धये" इति स्मृतश्चासीनएवोपासीत। शयानस्य निद्रासम्भवात् गच्छतस्तिष्ठत्च देहधारणप्रयत्नापेक्षणात्। आसीनस्यापि पश्चार्धधारणप्रयत्नोऽस्तीति तन्निवृत्त्यपेक्षायां सापाश्रय आसीत देशकालयोः परं न नियमः। एकाग्रतातिरिक्तदेशकालविशेषाश्रवणात्। एकाग्रतानुकूलो यो देशःकालश्च स एवोपासनस्य। न तु तत्र विशेषोऽस्ति। " समे शुचौ शर्करावह्निवालुकाविवर्जिते शीतलाश्रयादिभिः।मनोऽनुकूले न तुः चक्षुः पूडने गुहानिवाताश्रयणे प्रयोजये " दिति वचनमप्येकाग्रतोपयोगिनं देशमाह न तु देशविशेषं नियच्छति।मनोऽनुकूल इति वाक्यशेषात्।
संग्रहकारिके।
आसीन एव योगं कुर्यादेकाग्रतोत्पत्तेः।
स्थितिगत्योरतियत्नाच्छयने निद्राभिभूतेश्च।।
मनोऽनुकूलतामात्रं देशकालेष्वपेक्ष्यते।
न तारारण्यतिथ्यादि वाक्यशेषे तथा श्रुतेः।
इति आसीनाधिकरणम्।।5।।
आप्रयाणात्तत्रापि हि दृष्टम्।।12।।
पूर्वाह्णादिकालनियमवदेव तावत्कालपर्यन्तमुपासनाकार्येति कालेयत्तानिमस्याप्यश्रवणात् " सुकृत्कृते कृतश्शास्त्रार्थ " इति न्यायादेकस्मिन्नेव दिने कार्या। न तु यावदायूषम्।" स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पूनरावर्तत " इति श्रुतिः कर्मणामेव यावदायुषमनुष्ठेयत्वमाह। न तु विद्याया पूर्वपक्षः। यावदायुषं कर्मानुष्ठा कर्मानुष्ठानस्यापुनरावृत्तिफलकत्वमुचिमानं विद्यां प्रति स्वरूपोपकारत्वेनैवोपपादनीयमिति तदुक्तिसामर्याद्विद्याया अपि यावदायुषमनुष्ठेयत्वं तत्र
विवक्षितमुन्नीयत इति तद्बलात् "प्रायणान्तर्मोंकारमभिध्यायीते " ति श्रुत्यन्तरदर्शनाच्च यावदायुषमनुष्ठेयेति सिद्धान्तः।।
संग्रहकारिके।
उपासनमिदं कार्यमकस्मिन्नेव वासरे।
तावताऽपि कृतार्थं हि स्यादुपासनशासनम्।।
कार्यमन्वहमुपक्रमप्रभृयाशरीरविलयादुपासनम्।
यावदायुषमिति श्रुतौ तथा प्रायणान्तमिति च श्रुतौ विधेः।।
इति आप्रयाणाधिकरणम्।।6।।
तदधिगमफत्तरपूर्वाघयोरश्लेषविनाशो तद्व्यपदेशात्।।13।।
एवं विद्यायामावृत्त्यादिविशेषा विचारिताः। अथैतत्पादार्थभूतं पापाश्लेषविनाशरूपं फलं विचार्यत इति सङ्गतिः। " तद्यथा पूष्करपलाशआपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यत " इति " तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्त " इति च श्रूयमाणौ पापाश्लेषविनाशौ ब्रह्मविद्याफले भवितुर्महतो नवेति अभुक्तकर्मक्षयशास्त्रविरोधाभ्यां संशये पूर्वपक्षः। ब्रह्मविद्याफले तौ। " नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि " इति शास्त्रेण कर्मणां भोगैकनाश्यत्वावगस्या तयोर्विद्याफलत्वकल्पनायोगात्। न च तत्सामान्यशास्त्रं विद्याविनाश पापातिरिक्तकर्मविषयं स्यादिति वाच्यम्। विद्यायाः पापाश्लेषविनाषार्थत्वेन विधेरश्रूततया तत्संकोचकल्पकाभावात् । न च तथा विधिकल्पनं ब्रह्मप्राप्तिसाधनत्वेन विहिताया विद्यायाः फलान्तरानपेक्षत्वत् पापाश्लेषविनाशक्षवणस्य विद्याप्रशसार्थत्वोपपत्तेरिति।।
सिद्धान्तस्तु-- विद्यालाभे सति उत्तरपूर्वाघयोरश्लेषविनाशौ भवतएवा " तद्यथा पुष्करपलाश " इत्यादिश्रुतिषु तथा व्यपदेशात्। न च ब्रह्मप्राप्तिफलकविद्यार्थवादस्तथा व्यपदेशः अभुक्तकर्मक्षयशास्त्रानुरोघादिति वाच्यम्। भोगं विना कर्मक्षयाभावे भोगार्थे शरीरं ग्राह्यं तस्मिन्नपि शरीरे कर्मान्तरार्जनमवर्जनीयम्त्यनिर्मोक्षापत्त्या मोक्षशास्त्रैरेव पापाश्लेषविनाशयोरपेक्षितत्वात्। पापाश्लेषविनाशाभुक्तकर्मक्षयशास्त्रयोर्भिन्नविषयत्वे विरोधाभावाच्च। तथाहि। अभुक्तर्माक्षयशास्त्रं कर्मणां फलजननशकिं्त प्रतिपादयति। पापविनाशाश्लेषशास्त्रे तु प्राचीनकर्मणां फलजननसाम्र्थ्यविनाशक्तिमागामिकर्मणां फवजननसामर्थ्योत्पत्तिप्रतिबन्धशकिं्त च प्रतिपादयतः।न च तत्र विरोधशङ्कास्ति। अग्निजलयोरौष्ण्यतन्निवारणश्कितवदुपपत्तेः। अश्लेषवचनं प्रामादिकपापमात्रविषयम्। "नाविरतो दुश्चरिता" दित्यादिशास्त्रैराप्रायणमहरहरनुष्ठेयाया विद्याया दुश्चरितविरतिनिष्पाद्यत्वावगमात्। " अपिचेत्पातकं किंचिद्योगि कुर्यात्प्रमादतः। योगमेव निषेवेत नान्यत्कर्म समाचरे"दिति स्मृतेश्च। नन्विदं पापश्लेषविनाशद्वयमुपसनारम्भ- प्रथमदिवसे उत मध्ये अथवा तदवसान इति विवेक्तव्यम्।मध्ये दर्शनसमानाकारापत्तिसमय इति वविक्तमेव "क्षीयन्तेचास्य कर्माणि तस्मिन्दृष्टे " इति श्रुत्या। ननु पूर्वै शरीरपातसमये कर्मक्षय उक्तःअत्र कथं समयान्तरोक्तिः। उच्यते। भगवदप्रितिः पापं। तत्प्रीतिविशेषरूपावश्लेषविनाशौ। ततश्च दर्शनसमाकारापत्तिसमये प्रीतिः परमात्मा तत्समाप्तावुपासकस्याघं क्षमिष्य इति सङ्कल्पयतीति तद्विषयमिदमधिकरणम्। समाप्तौ क्षान्तामिति सङ्कल्पयतीति तद्विषयं पूर्वाधिकरणमिति न विरोधः।।
संग्रहकारिके।
विद्योदयानन्तरपूर्वपापयोरश्लेषविध्वंसनवर्णनं स्तुतिः।
नाभुक्तिकर्माक्षयशास्त्रबाधितं विद्याफलत्वप्रतिपादनक्षमम्।।
विभिन्नशक्त्योरनयोर्विरुदधतानशास्त्रयोरस्ति मुधैकबाधनम्।
अमोधशक्तेरपि किं न सम्भवेद्विनाजन्मप्रतिबन्धकारणम्।।
इति तदधिगमाधिकरणम्।।7।।
इतरस्याप्येवमसंश्लेषः पातेतु।।14।।
पापातिरिक्तकर्मविषयं स्यादिति वाच्यम्। विद्यायाः पापाश्लेषविनाशार्थत्वेन विधेरश्रुततया
तत्संकोचकल्पकाभावात्। न च तथा विधइकल्पनं ब्रह्मप्राप्तिसाधनत्वेन विहितया विद्यायाः फलान्तरानपेक्षत्वात् पापाश्लेषविनाशश्रवणस्य विद्याप्रशशार्थत्वोपपत्तिरिति।।
सिद्धान्तस्तु-- विद्यालाभे सति उत्तरपूर्वाघयोरश्लेषविनाशौ भवतएव। " तद्यथा पुष्करपलाश " इत्यादिश्रुतिषु तथा व्यपदेशात्। न च ब्रह्मप्राप्तिफलकविद्यार्थवादजस्तथा व्यपदेशः अभुक्तकर्मक्षयशास्त्रानुरोधादिति वाच्यम्। भोगं विना कर्मक्षयाभावे भोगार्थं शरीरं ग्राह्यं तस्मिन्नपि शरीरे कर्मान्तरार्जनमवर्जनीयमित्यनिर्मोक्षापत्त्या मोक्षशास्त्रैरेव पापाश्लेषविनाशयोरपेक्षितत्वात्। पापाश्लेषविनाशाभुक्तकर्मक्षयशास्त्रयोर्भिन्नविषयत्वे विरोधाभावाच्च। तथा हि। अभुक्तकर्माक्षयशास्त्रं कर्मणां फलजननशकिं्त प्रतिपादयति। पापाविनाशाश्लेषशास्त्रे तु प्राचीनकर्मणां फलजननसामर्थ्यविनाशशक्तिमागामिकर्मणां फलजननसामर्थ्योत्पत्तिप्रतिबन्धशकिं्त च प्रतिपादयतः। न च तत्र विरोधशङ्काऽस्ति। अग्निजलयोरौष्ण्यतन्निवारणाशक्तिवदुपपत्तेः। अश्लेषवचनं प्रामदिकपापामात्रविषयं। न तु
विनाशवचनवत् सर्वपापाविषयम्। "नाविरतो दुश्चरिता " दित्यादिशाश्त्रैराप्रायणमहरहरनुष्ठेयाया विद्याया दुश्चरितविरतिनिष्पाद्यत्वावगमात्। " अपिचेत्पादकं किचिद्योगि कुर्यात्प्रमादतः। योगमेव नि निषेवेत नान्यत्कर्म समाचारे " दिति स्मृतेश्च। नन्विदं पापाश्लेषविनाशद्वयमुपासनारम्भप्रथमदिवसे उत मध्ये अथवा तदवसान इति विवेक्तव्यम्। मध्ये दर्शनसमानाधिकारापत्तिसमय इति विविक्तमेव " क्षीयन्तेचास्य कर्माणि तस्मिन्दृष्टे परावर " इति श्रुत्या। ननु पूर्व शरीरपातसमये कर्मक्षय उक्तः अत्र कथं समयान्तरोक्तिः। उच्यते। भगवनदप्रीतिः पापम्। तत्प्रीतिविश्षरूपावश्लेषविनाशौ। ततश्च दर्शनसामानाधिकारापत्तिसमये प्रीतः परमात्मा तत्समाप्तावुपासकस्याघं क्षमिष्य इति सङ्कल्पयतीति तद्विषयमिदमधिकरणम्। समाप्तौ क्षान्तमिति सङ्कल्पयतीति तद्विष्यं पूर्वाधिकरणमिति न विरोधः।।
संग्रहकारिके।।
विद्योदयानन्तपूर्वपापयोरश्लेषविध्वंसनवर्णनं स्तुतिः।
नाभुक्तकर्माक्षयशास्त्रबाधितं विद्याफलत्वप्रतिपादनक्षमम्।।
विभिन्नशक्त्योरनयोर्विरुद्धतानशास्त्रयोरस्ति मुधैकबाधनम्।
अमोघशक्तेरपि किं न सम्भवेद्विनाशजन्मप्रतिबन्धकारणम्।।
इति तदधिगदमाधिकरणम्।।
इतरस्याप्येवमसंश्लेषः पातेतु।।14।।
पापवत्पुण्यस्यापि विनाशाश्लेषादातिदेशिसी संगतिः। तत्रेयमतिदेशनिवर्तनीयाऽधिका शङ्का। अश्लेषविनाशवचनयोः पापग्रहणात् न पुण्यस्याश्लेषविनाशौ। न च " न जरा न मृत्यर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्त " इति वचवनान्तरे पाप्मशब्दस्य पुण्यसाधारण्यादन्यत्रापि वेदान्तेषु स्थितः पापवाची शब्दः पुण्यसाधारणः। मुमुक्षुन्प्रत्यनिष्टफलत्वाविशेषादिति वाच्यम्। तथा नियमाभावात्। सर्वे पाप्मान इत्यत्र पाप्मशब्देन गृहीतानामपि जरा मृत्युशोकानां " अपहतपाप्मा विजरो विमृत्युर्विशोक " इत्यत्र पृथग्गृहीतत्वात्। एवमिहापि पापशब्दास्य पापमात्रपरत्वोपपत्तेरिति। एवमधिकशंकानिवृत्तिस्तु -- वेदान्तेषु क्वचित्क्वचित्पापशब्दास्य पापमात्रपरत्वेऽपि स इह सुकृतसाधारण एव " न ससुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्त " इति विद्यामाहात्म्यात् एव सुकृतस्यापि निवृत्तिक्षनणात् तस्य मुमुक्षुनिष्टफलत्वन्यायसाम्येन मुमुक्षुशास्त्रप्रामाण्येनचाश्लेषसाधारणत्वादिति। ननु विदुषोऽप्युपासनमिर्वृत्तये वृष्ट्यन्नाद्यादिफलानि पुण्यान्यपेक्षितानि। कथं सर्वेषां पुण्यानां विनाशः। तेषां विद्यानिगुणदृष्टफलानां यावच्छरीरधारणमनुवृत्तानां शरीरपातसमयेऽवशिष्टांशविनाश इति न विरोधः।।
संग्रहकारिके।।
सुकृतं विहितं हि विद्याया न तदश्लेषलयौ प्रपद्यते।
अत एव तया स्वशब्दतो दुरतस्यैव विशिष्य तौ श्रुतौ।।
विहितमपि तद्विद्याभाजामनिष्टफलत्वतो
दुरुतसदृशं दूरे त्याज्यं परानुभवार्थिनाम् ।
तदुभयपरश्रुत्यन्तस्थं च पाप्मपदादिकं
तदिह नियतं तस्याप्यश्लेषणं सलयं तया।।
वृष्ट्यन्नाद्यादिफलं यत्पुण्यमपेक्षितं विदुषाम्।
यत्र तदवशिष्टं स्याच्छरीरपाते लयस्तस्य
इति इतराधिकरणम्।।
अनारब्धकार्ये एव तु पूर्वे तदवधेः।।15।।
उक्तस्सुकृतदुष्कृतयोर्विद्यया नाशः किमविशेषण उतानारब्धकार्ययोरिति " सर्वे पाप्मानः प्रदुष्यन्ते तस्य तावदेव चिर " मिति श्रुतिद्वयविरोधात् संशये सर्वश्रुत्यविरोधादशेषयोः पुण्यपापयोर्विनाशः " तस्य तावदेव चिर " मिति श्रुत्युक्तं तदनन्तरदेहधारणं तु कुलानचक्रभ्रमणन्यायेन संस्कारानुवृत्त्या भविष्यतीति पूर्वपक्षः। संस्कारानुवृत्त्याचेत्
क्षीणायुषामष्यवनिदुषामपि तया देहधारणं प्रसज्यते। अत्तो देहधारणापर्थे प्रारब्धे सुकृतदुष्कृते विहायान्येषां पुण्यपापानां निद्यया विनाशः। एवं च प्रारब्धवशादेव विदुषामपि सुखदुःखभोगोपपत्तिः।।
संग्रहकारिके।।
अविशेषण विद्यातस्स्याल्लयः पुण्यपापयोः।
सर्वे पाप्मान इति हि श्रुतिराशक्ष्यते तथाः।।
आरब्धकार्यमपहाय तयोर्लयस्य यत्तादेव चिरमित्यवधिः श्रुतोऽस्ति।
संस्कारतो यदि शरीरभृतिस्समर्थ्या क्षीणायुषामविदुषामपि सा तदा स्यात्।।
इति अनारब्धकार्याधिकरणम्।।
अग्निहोत्रादितु तत्कार्यायैव तद्दर्शनात्।।16।।
अयोऽन्यपिह्येकेषामुभयोः।।17।।
यदेव विद्ययेति हि।।18।।
इतरस्याप्येलमसंश्लेष इत्यधिकरणे विद्याबलात् सुकृतस्याप्यसंश्सेष उक्तः। अतोऽग्निहोत्रादीनां नित्यनैमित्तिकानां स्वाश्रमधर्माणामपि सुकृतत्वाविशेषेण फलाश्लेषादनिच्छतोऽननुष्ठानं प्राप्तम्। न हि निष्फलं कश्चिच्चिर्षति। यदि नित्यनेमित्तिकानां फलवत्त्व स्यात्, तदानीमश्लेषवचनमेव निर्विषयं स्यात्, तदनीमश्लेषवचनमेव निर्विषयं स्यात्। तस्य विषयान्तरकल्पनेऽपि तेषां फलमपि न पशामः। नचाप्रायणमहरहरविच्छेदेन विद्यानुवृत्तिस्तत्फलम्। कमर्ण इव विद्याया अप्यनुतिष्ठासामात्रेणाविच्छिन्नानुवृत्तिसिद्धेः। न च विद्यानुवृत्तिप्रतिबन्धकदुरितनिवृततिस्तत्फलम्। विद्याप्राचीनदुरितानां विद्यया विनाशात् विदुषस्तदनन्तरं बुद्धिपूर्वकपापचरणाप्रसक्तेः प्रामादिकस्य योगनिषेवणेन निवृत्त्येक्तेः। यद्यपि नित्यनैमित्तिककानामाश्रमधर्माणां परित्यागो न युज्यत इति प्रत्यवायपरिहारार्थमाश्रमधर्मत्वेन कथञ्चिदनुष्ठानं समर्थ्येत, तथाऽपि विद्यार्थत्वने तेषामनुष्ठानं न सिध्यतीति।।
सिद्धान्तस्तु -- विदुषाप्याश्रमधर्मत्वेन ते विद्यार्थ्तवेनाफ्यनुष्ठेयाः विद्यारूपकार्यायैव
तदुपदेशात्। नन्वसिद्धस्तदुपदेशः, " यज्ञेने " त्यादिश्रुतेर्विद्यादयात्प्राक् तादर्थ्येन विधानार्थतोपपत्तेः, " स खल्वेदं वर्तय " न्नित्यादिश्रुतेपराश्रमधर्मानुवृत्तिमात्रविषयत्वोपपत्तेरिति चेन्न। उदयहृतश्रुतिद्वयस्याप्यन्तिमप्रत्ययपर्यन्तविद्य- यर्थकर्मानुवृततविषयत्वस्यापि सम्भवे तथा सङ्कोचकल्पनायोगात्। न च नैष्फलम्। यावद्विद्यानुवृत्त्यनुष्ठेयत्वेन सहितस्य विद्यासहकारिकर्मजातस्य मध्ये बुद्धिपूर्वंत्यागे सत्ययथाशास्त्रानुष्ठानतः प्रत्यवायेन चित्तदोषे हि सति कदाचिद्विद्यानुवर्तायिषा वा विच्छिद्येत। अन्तिमप्रत्ययवनिरोधिनिषिद्धानुष्ठानरुचेर्वोत्पद्यते। अतो दर्शनसमानाकारविद्योदयानन्तरमपि यावज्जीवं व्दयार्थकर्माण्यनुष्ठेयानीति। यद्यग्निहोत्रादिसाधुकृत्या
विद्योत्पत्त्यार्था विद्योत्पत्तेः प्राचीनं च विद्योदयकाले स्थितं प्रारब्धफलव्यतिरिक्तं सर्वं सुकृतं विद्यया विनष्टं प्रारब्धफलं च सुकृतं भोगेन नाश्यं, तर्हि " सुहृदस्साधुकृत्या " मित्यस्य कोविषय इति चेत्। उच्यते -- विद्योत्पत्त्यर्थायाः अग्निहोत्रादिसाधुकृत्यायाः विद्योत्पत्तेः प्राचीनायाश्च शाधिकृत्यायाः अन्या अपि विदुषा कृता देहधारणार्था वृष्ट्यन्नाद्यादिफलस्साधुकृत्यास्ततत्र या प्रबलकर्मान्तरप्रतिबन्धात् प्रागभुक्तफलाऽस्ति सा तस्या विषयः। विद्यारहितकर्मणां प्रबलकर्मान्तरप्रितबन्धसम्भवस्य " यदेव विद्यया करोती " ति श्रुत्याऽवगतत्वादिति। अत्रेदं विचार्यते। -- " इतरस्याप्येवमसमसश्लेषः पाते " त्विति सूत्रे वृष्ट्यान्नाद्यादिफलायाः साधुकृत्यायाः भुक्तफलावशिष्टायाशरीरपातसमये विनाश उक्तः कथं तस्यास्सुहृतद्गामित्वनुच्यते। अथ विदुषि फलाजनकत्वेमेव तत्र तन्नाशो विवक्षितः, तर्हि विद्योदयकाले पुण्यान्तरनाशोऽपि तथैव वक्तुं शक्य इति विदूषास्सर्वस्या अपि साधुकृत्यायास्सुहृद्गामित्वे वक्तुं शक्ये किमिति " सुहृदस्साधिकृत्या " मित्यस्य वृष्ट्यन्नाद्यादिफलसाधइकृत्यामात्रविष्यत्वेन सङ्कोचः क्रियते। अपि च " द्विषन्तः पापकृत्या "; मित्यस्य कं विषयं दृष्ट्वा "सुहृदस्साधु " मित्यस्यैव विषयविशेषनिर्धारणं क्रियते। विद्योत्पत्त्यनन्तर भावनी पापकृत्या तस्य विषयः स्यादिति चेत् न। तस्यामप्यश्लेषवचनसत्त्वासाम्यात्। यदि तत्राश्लेषवचनं विदुषि फलाजनकत्वमात्रार्थकमित्यध्यवसायः, तर्हि विदुषि साधुकृत्याया अशअलेषवचनमपि तथैवेत्यध्यवसितुं शक्यत्वात् विशिष्टसाधुकृत्यायाः गत्युक्तिर्नापोक्षिता। गतिरपि प्रबलकर्मातपरप्रतिबद्धफलैव साधुकृत्येति न सङ्कोचनीयम्।
तदप्रतिबद्धफलाया अपि साधुकृत्यायास्सम्भवात्। यस्य विद्याप्रतिबन्धकदुरितान्यल्पानि तद्भूयस्त्वशङ्काया तन्निवत्त्यर्थमनुष्ठितानि कर्माणि भूयांसि तत्र प्रारब्धप्रतिबन्धकविघ्नाधिकसंख्यानि मङ्गळानीच कारीरिवददत्तफलान्यवशिष्यन्ते उपासकस्य वीतरागत्वेऽपि भ्रमात्तदभ्युदयेच्छया पुत्रादिभिरनुष्ठइतानि तटाकरामप्रतिष्ठादीन्यपि हि सम्भाव्यन्ते। अपि च तदधिगमाधिकरणे विनाशाश्लेषशास्त्रयोरभुक्तकर्माक्षयशास्त्रेण विरोधसमाधानार्थे तयोस्तस्य च भिन्नविषयत्वसमर्थनावसरे विनाशशास्त्रं विदुषइ प्राचीनकर्मणां फलजननसामर्थ्यविनाशशकिं्त अश्लेषशास्त्रं विदुषि फलजननसामर्थ्योत्पत्तिप्रितबन्धशकिं्त च प्रतिपादयतीत्युक्तम्। तत्र स्वरूपविनाशः स्वरूपाश्लेषश्चोक्तः। तत एवावगतेऽर्थे पुनः साधुकृत्यायाः विषयप्रश्नस्य कोऽवकाशः। तस्मात्सर्वमिदमनुपपन्नमिति। अत्रेदं -प्राचीनसाधुकृत्याया अपि कश्चिन्मन्येत विनाष्टायास्तस्यास्सुहृत्संक्र- मणशास्त्रविषयत्वं नास्तीति तदाशयमनुरुध्य सुहृस्तंक्रमणवाक्ये विषयप्रश्नः तदाशयमनुरुध्यैव साधइकृत्यान्तराणां वनासेऽप्यन्ततो विद्वद्देहधारणार्थत्वेनानुवृत्ता वृष्ट्यादिफलासाधुकृत्यास्ततीति तद्विषयत्वोक्तिः। एवमेव सुकृतान्तरसद्भावेऽपि तद्विषयतानिक्तिः। एवं सति " द्विषन्तः पापकृत्या " मित्यस्यापि यद्यपि गतिप्रश्नतदुत्तराभ्यां भाव्यं तुल्यन्यायत्वात्, तथाऽपि तस्य विदुषा प्रमादेन कृतं प्रमादेनानवकाशेन वा यदकृतयोगनिषवणरूपप्रायश्चितं दुष्कृतं तद्विषयो भविष्यतीति न्यायसाम्येनोन्नेतुं शक्यत्वात्त्दनुक्तिः। तदधिगमाधिकरणोक्तसुहृद्विशत्संक्रमणशास्त्रविषयसद्भावेऽपि यथाश्रुतविनाशशास्त्रार्थश्रद्धासुतटस्थशङ्कानुरोधादेवं प्रश्नत्तरे इति सर्वमवदातम्।।
संग्रहकारिके।।
न श्लिष्यति चेत्सुकृं न कार्यमेवाग्निहोत्रादि।
विदुषामेवं विद्यावेशद्यार्थे तदहरहः कार्यम्।।
यत्तु विदुषा कृतं स्याद्धृष्ट्यारोग्यादिसिद्धये कर्म।
प्रबलप्रतिबद्धफलं तस्यैवसुहृद्गतेरुक्तिः।।
इति अग्निहोत्राद्यधिकरणम्।।
भोगनत्वितरे क्षपयित्वा सम्पद्यते।।19।।
आरब्धकार्ययोः पुण्यपापयोः भोगनैव विनाशः, न तु विद्ययेत्युक्तम्। ते किं विद्यायोनिशरीरावसान एवेति नियमः, उत शरीरान्तरावसानेऽपीत्यनियम इति संशये विद्यायोनिशरीरावसान एव " धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानी " ति " तस्य तावदेव चिरं यावन्नविमोक्ष्य " इति च शरीरमात्रावाधिश्रवणादिति पूरवपक्षः।
प्रारब्धस्यैकदेहमात्रभोग्यत्वे तथा#ेव, अनेकदेहभाग्यत्वे तु तदवसाने पुण्यपापे इति तदनन्तरब्रह्मसम्पत्तिः। " धूत्वा शरीर " मित्येकवचनं न विवक्षितम्। " विधूय पाप " मिति तत्रैव दर्शनात्। " तस्य तावदेवे " ति श्रुतौ " यावन्नविमोक्ष्य " इति प्रारब्धकर्ममोक्ष एवोक्तः न तु विद्यायोनिशरीरमोक्षः। तदेवं ब्रह्मविद्यायाः प्रागनुष्ठितमभुक्तफलमनारब्धफलञ्च पुण्यपापरूपं सर्वं कर्म विद्यामाहात्म्याद्विदुषिस्वस्वफलाजनकं भवति। विद्यारम्भोत्तरकालमनुष्ठितं च्च विद्यार्थकर्मव्यतिरिक्तं सर्वं तत्र फलजननासमर्थं भवति तदिदं विदुषऋ पुण्यपापं सर्वं कर्म विदुषः सुहृद्द्विषतोस्संक्रामति। प्रारब्धंत्वेकेनानेकेन वा देहेन भुक्तं क्षीयते। तदनन्तरं ब्रह्मसम्पत्तरिति सर्वं निरवद्यम्।।
संग्रहकारिके।।
यस्मिन्देहे विद्याजनि स्तदवसान एव मुक्तिस्स्यात्।
धूत्वा शरीरमिति यद्यावन्नविमोक्ष्य इति च यदधीतम्।।
तस्मिन्नन्यस्मिन्वा यस्मिन्निश्शेषतामेति।
प्रारब्धं फलभोगैस्तद्देहान्ते भवेन्मुक्तिः।।
धूत्वा शरीरमित्येकवचनं न विवक्षितम्।
प्रारब्धस्य विमोक्षश्च विमोक्ष्य इति कीर्तिताः।।
इति इतरक्षपणाधिकरणम्।।
इति श्रीमद्भारद्वाजकुलजलधिकौलस्तुभ श्रीमदद्वैतविद्याचार्य श्रीविश्वजिद्याजि
श्रीरङ्गराजाध्वरिवरसुनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे नयमयुखमालिकाख्ये द्वितीयपरिच्छेदे चतुर्थस्याध्यायस्य प्रथमः पादः।।
।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।
।।श्रीमते हयवदनपरब्रह्मणे नमः।।
।।चतुर्थास्याध्यायस्य द्वितीयः पादः।।
इह पादे विदुषो मूर्धन्यानाड्योत्क्रान्तिरूपमर्चिरादिगत्या ब्रह्मप्राप्ति हेतुत्वेन विद्याफलभूतं चिन्तनीयम्।
तत्र मूर्धन्यनाडीप्रवेशपर्यन्तोत्क्रान्तिर्विद्वविदुषोस्साधारणीति सा प्रथं विचार्यते। उपासनास्वर्चिरादिगतिचिन्तायां
गत्युपक्रमत्वेन तस्या अपि चिन्तनीयत्वात्।
वाङ्मनसि दर्शनाच्छब्दाच्च।।1।।
अतएव सर्वाण्यनु।।2।।
छान्दोग्ये श्रूयते -- " अस्य सोम्येपुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनःप्राणे प्राणस्तेजसि तेजःपरस्यां
देवताया " मिति। अत्र किं वाचो मनसि सम्पत्तिरुत वागवृत्तिरिति संशय " सता सोम्ये तदा सम्पन्नो भवती "सत्यत्र सम्पत्तिशब्दस्य लयार्थात्वावगमात् वाचः स्वाप्रकृतौ मनसि स्वरूपलयासम्भवात् अप्रकृतावपि वृत्तिलयस्य
इति पूर्वपक्षः। वाग्व्यापारोपरमानन्तरमपि मनःप्रवृत्तिदर्शनात् " वाङ्मनसि सम्पद्यत " इति श्रुतेश्च वाचएव मनसि लयः। वाक्छशब्दस्य वृत्तिलक्षणायां कारणाभावात्। लयस्तु वाचऋः व्यापारोपरमपूर्वकमनस्संयोगरूप औपचारिको ग्राह्यः। वृत्तिपक्षेऽपि वाक्प्रकृतिकवृत्तिना मनसि मुख्यलयासम्भवात् वाचि सम्पद्यमानायामन्यान्यपि बाह्येन्द्रियाणि मनसि सम्पद्यते। " इन्द्रियर्मनसि सम्पद्यमानै " रिति श्रुत्यन्तरात्।।
संग्रहकारिके।।
वागिन्द्रियमप्रकृतौ न मनसि सम्पद्यते मुमुक्षूणाम्।
वाङ्मनसीति हि वाक्यं योज्यं वाग्वृत्तिविषयतया।।
वागेव सहान्येन्द्रियमस्मिन्सम्पद्यते दृश्शब्दात्।
सम्पात्तिरिह तु न लयः किं तु वायापाररिहतसंयोगः।।
इति वागधिकरणम्।।
तन्मनः प्राणउत्तरात्।।3।।
मनः प्राण इत्यत्र तु मुख्य एव लयः " अन्नमयं हि सोम्य मनः आपोमयः प्राण " इति श्रुत्या मनोऽन्नशब्दोक्तायाः पृथिव्या विकारः, प्राणस्त्वपां विकार इत्युक्तत्वेन मनसः स्वप्रकृतिभावापन्नस्य प्राणप्रकृतिभावपन्नास्वप्सु मुख्यलयसम्भवादिति पूर्वः पक्षः। मनोऽहङ्कारप्रकृतिकं, प्राणवायूराकाशप्रकृतिक इति तयोर्नास्ति कथमपि प्रकृतिविकृतिभावः। तस्मात् " अन्नमयंही " त्यादिश्रुतौ मनसोदनीयेन प्राणस्याद्भ्यश्चाप्यायनमात्रं विवक्षितमिति सकलबाह्येन्द्रियसंयुक्तं मनः स्वव्यापारोपरमपूर्वकं प्राणेन संसृज्यत इत्येव तदर्थो ग्राह्यः। मनोवृत्त्युपरमानन्तरमपि हि प्रणवृत्तिर्दृश्यत इति सिद्धान्तः।।
संग्रहकारिके।।
मनस्तु प्राणे स्याल्लयएव प्रकृतिविकृतितासत्तावत्।
अन्नमयं हि मनश्श्रुतमम्भोविकृतिस्तथा प्राणाः।।
मैवमहंकृतिगगनप्रकृतिकयोरन्नतोयाभ्याम्।
आप्यायनमेव तयोरातस्तत्रापि संयोगः।।
इति मनोऽधिकरणम्।।
सोऽध्यक्षे तदुपगमादिभ्यः।।4।।
प्राणः किं जीवे सम्पद्यते, उत तेजसीते विशये यथाश्रुति तेजस्येव सम्पद्यते. यथा वाङ्मनसि मनश्च प्राण इति पूर्वपक्षः। वाह्यान्द्रियमनस्संयुक्तः प्राणो जीवे सम्पद्यते। " एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ती" ति तदुपगमश्रवणात् " तमुत्क्रामन्तं प्राणोऽनुत्क्रामती " ति सप्राणजीवोत्क्रमणश्रवणात्। " कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठे प्रतिष्ठास्यामीति स प्राणमसृजते " ति प्राणस्य जीवेन
संयुज्य जीवेन सह तेजसि सम्प्ततिरस्तीति " प्राणस्तेजसी " त्यस्यापि न विरोधः।। यमुनाया गङ्गया संयुज्य सागरप्राप्तावपि हि यमुना सागरं प्राप्नोतीति व्यवहियते।।
संग्रहकारिके।।
प्राणस्तेजसि साक्षात्सम्पद्यत इति यथाश्रुतं युक्तम्।
मैवं तस्य तदानीं जीवोपगमादिकश्रवणात्।।
प्रथमं यदि जीवमितस्तेजसि सम्पद्यते स तत्सहितः।
एवमपि श्रुतिरुचिता यथैव सागरमुपैति यमुनेति।।
इति अध्यक्षाधिकरणम्।।
भूतेषु तच्छ्रतेः।।5।।
नैकसमिन्दर्शयतो हि।।6।।
जीवस्युक्तस्य प्राणस्य तेजसि श्रुता सम्पत्तिः किं तेजोमात्रे, उत सर्वेषु भूतेष्विति संशये यथाश्रुति तेजोमात्र इति पूर्वपक्षः। सर्वेषु भूतेषु सम्पद्यते " पृथिवीमय आपोमयस्तेजोमय " इति जीवस्य सञ्चरतस्सर्वभूतमयत्वश्रुतेः। न च तेजः प्रभृतिषु क्रमिकसञ्चारेण तदुपपत्तिः। " तासां त्रिवृतं त्रिवृतमेकैकामकरोत् " "नानावीर्याः पृथक्भूतास्ततस्ते संहर्तिं विना। नाशक्नुवन्प्रजाः स्त्रःष्टुमसमागम्य कृत्स्नशः।। समेत्यान्योन्यसंयोगं परस्परसमायाः। महदाद्या विशेषान्तह्यण्डमुत्पादयन्ति त " इति श्रुतिस्मृतिभ्यामेकैकस्य कार्याक्षमतद्वप्रदर्शनात्। अतस्तेजश्शब्दो भूतान्तरसंसृष्टं तेजोऽभिधत्त इति सर्वेषु भूतेषु सम्पत्तिरिति सिद्धान्तः।।
संग्रहकारिके।।
सा सम्पत्तिस्तेजोमात्रे प्राणस्य जीवसहितस्य।
अन्येष्वपि सा भूतेष्वपेक्ष्यते चेत्क्रमेण साऽप्यस्तु।।
मेवं भूतगणस्य प्रत्येकसमर्थताभावात्।
नैकस्मिन्सा युकता तस्मात्सर्वेषु भूतेषु।।
इति भूताधिकरणम्।।
समानासृत्युपक्रमादमृतत्वञ्चानुपोष्य।।7।।
तदापीतेस्संसारव्यपदेशात्।।8।।
सूक्ष्मं प्रमाणतश्च तयोपलब्धेः।।9।।
नोपमर्देनातः।।10।।
अस्यैवचोपपत्तेरूष्मा।।11।।
प्रतिषेधादिति चेन्न शारीरात्स्पश्टोह्येकेषाम्।।12।।
एवमुत्क्रान्तिप्रकारो निरूपितः। किमियमुत्क्रान्तिर्विद्वदविदुषोस्समाना, उताविदुष एवेति संशये सत्यविदुष एवेति प्राप्तम्। " यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः। अथ मर्त्योऽमृतोभवत्यत्र ब्रह्म समश्नुत " इति श्रुतेरिति। एवं प्राप्ते उच्यते -- विदुषोऽपि " तयोर्ध्वमायन्नमृतत्वमेती " ति नाडीविशेषरूपप्रवेशरूपग्तयुपक्रमात्प्रागुत्क्रान्तिस्समाना।
उत्क्रमणार्थनाडीप्रवेशदशायामेव विद्वदविदुषोर्विशेषः श्रूयते। " शतञ्टैकाच हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका। तयोर्ध्वमायन्नमृतत्वमेति विषअवङ्ङन्या उत्क्रमणे ङवन्ति " इति। विषअवगिति नाडीविशेषनियमाभाव उच्यते। " एष आत्मा निषअक्रामति चक्षुषो वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेब्य " इति हि श्रुत्यन्तरम्। एवं च अत्रैवामृतत्वोक्तिश्शरीरेन्द्रियसम्बन्धमदग्ध्वैव यदमृतत्वसत्तरपूर्वाघाश्लेषविनाशस्वरूपं तद्विषया " ब्रह्मसमश्रुत " इत्यक्तिरप्युपासनाकालभवब्रह्मानुभवरूपब्रह्मप्राप्तिविषया। अवश्यचैवमेवाभ्युपेयम्। अर्चिरादिमार्गेणब्रह्मप्राप्तिपर्यन्तं देहसम्बन्धलक्षणसंसारस्य व्यपदेशात् सूक्ष्मशरीरानुवृत्तश्चन्द्रसंवादरूपप्राणेनावगमाच्च। श्रूयते हि पथइ चन्द्रसंवादो " येवैकेचासमाल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छती " त्युपक्तम्य " एतद्वैस्वर्गस्य लोकस्य द्वारं
यस्छन्द्रमाः तं यः प्रत्याह तमतिसृजते अथ य एनं न प्रत्याह वा सिहो वा मत्स्यो वा परस्वान्मा पुरुषोवा अन्योवै तेषु स्थानेषु प्रयाजायते यथाकर्म यथाविद्यं तमागतं पृच्छति कोऽस्तीति तं प्रति ब्रूयादित्यादि। अतो " यदा सर्वे प्रमुच्यन्त " इति श्रुतिर्न शरीरन्द्रियरूपबन्धोपरमर्दविषया सूक्ष्मशरीरस्योत्क्रस्य जीवेन गतेश्चन्दरसंवादार्थे तदन्तरप्रतिपत्ताविति सूत्रोक्तन्यायेनावश्यवक्तव्य्तवात्। एवं विदुषोऽपि सूक्ष्मशरीरस्योत्क्रमणसत्त्वादेव तस्योत्क्रमणोन्मुखस्य " सन्तापयति स्वं देहमापातदलमस्तक " मिति श्रुतेस्सर्वदेहव्याप्याग्निशिखायाः क्वचिदेवोपसंह्रियमाणत्#ावत्तदूष्मा क्वचिदेवोपलभ्यते। ननु विदुष उत्क्रान्तिर्नसंभवति। यो कामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रहम्#ैव सन् ब्रह्माप्येती " ति तस्योत्क्रान्तिप्रतिषेधात्। न च " न तस्मात्प्राणा उत्क्रामन्ती " ति मान्धअयान्दिनपाठात् तस्येति काण्वपाठे सम्बन्धसामान्यविहिता षष्ठी " नटस्य श्रृणोती " ति वदपादानार्थेति मुच्यमानान्नविश्लिश्यन्त इति तदर्थ इति वाच्यम्। शाखाद्वयेऽपि तत्पदस्य शरीरपरामर्शितॉत्वात्। बृहदारण्यक एव " यत्रायं पुरुषो म्रियते उदस्मात्प्राणाः क्रामन्त्याहोने " त्यार्तभागप्रश्नेनेतिहोवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स उच्छ्वयत्याध्माथो मृतश्शेत इति प्राणोत्क्रान्त्यपादानस्याध्मानेन वायुपूरणेन दृतिवदुच्छ्वसनस्य शरीरधर्मस्य कीर्तनात् जीवात्प्राणामामुत्कान्तेरप्रसक्तत्वेन तत्प्रतिषेधानुपपत्तेश्च। अतो विदुषश्शरीरदुत्क्रान्त्यभावादर्चिरादिगतिश्चन्धरसंवादस्सरुकगृतदुष्कृतविधूननमित्येतत्सर्वं सत्यलोकप्राप्त्यर्थविद्याविशेषफलं न तु मुक्त्यर्थब्रह्मविद्याफलमिति नेतव्यम्। ब्रह्मविदो मरणकाले क्वाचित्कोष्मदर्शनं तु तेजश्शब्दोक्तस्य सूक्ष्मदेहस्य परदेवतासम्पत्तेः प्राचीनत्वेनोपपद्यत इति चेदुच्यते।
आर्तभागप्रश्ने शरीरादुत्क्रान्तिर्न प्रतिषिध्यते किं तु शरीरादेव तत्रोत्क्रान्तिप्रतिषेधस्याविद्वाद्विषयत्वेन अविदुषः प्राणीनां शरीरादुत्क्रान्तेः प्रतिषेद्धुमशक्यात्वत्। अविद्वद्विषयत्वं कथमवसीयत इति चेत्,उतरस्दर्भात्। उत्तरसंदर्भे
" यत्रास्य पुरुषस्यमृतस्याग्निंवागप्येति वातं प्राणश्चक्षुरीदित्यं मनश्चन्द्रंदिशश्क्षत्रं पृथइवीं शरीरमाकशमात्मैषधीर्लोमानि वनस्पतीन् केशा अप्सुसोहितं च रेतश्च निधीयते क्वायं तदापुरुषो भवती" त्यार्तबागप्रश्ने याज्ञवल्क्येनार्तभागेन च रहलि सम्मन्त्रणेन पुण्यपापरूपं करम तदाश्रयत्वेन निश्चितमिति तदनन्तरसन्दर्भे श्रुत्यैवप्रतिपादनात्। चतत्र हि श्रूयते " तौहोत्क्रम्य मन्त्रयांचक्राते तौहयदूच्यतिः अथ यत्प्रशशंसतुः पुण्योवैपुण्येन कर्मणा भवति पापः पापेनेति " ति। न च " अपपुनर्मृत्युंजयती " ति पूर्ववाक्ये ससारसंतरणरूपं फलमुच्यते तेन प्रकृतिविद्वद्विषयमुत्क्रान्तिप्रकतिषेधस्यावसीयत इति वाच्यम्। " अग्निर्वै मृत्युस्सोपामन्न " मित्यपामग्न्यन्नत्वोपासनामुक्त्वा हि तस्य फलं " अपपुनर्मृत्युञ्जीयती " त्युपच्यते। तस्मादग्निजयएवात्र मृत्युजयो न संसारतरणं जीवात्प्राणानामुक्रान्तिपप्रसक्ता न प्रतिषेध्येति चेत् न। विद्वद्विषये " तस्य तावदेव चिर "; मिति शरीरवियोगकालएव विश्लेष इति शङ्कारूपप्रसक्तिसत्त्वात्। एवं प्रसक्त्या विशिष्य विदुषो जावीत्प्राणानामुत्क्रान्तिप्रतिषेधेनाविदुषस्तर्हि जीवात्प्राणानामुत्क्रान्तिरस्तिमित्यविद्वद्विषयेऽपि शङ्कारूपप्रसक्तिसत्त्वाच्च। तस्मादस्ति विदुषोऽप्युत्क्रान्तिः। स्मर्यते च तस्य मूर्थन्ययाड्योत्करान्तिः " ऊर्ध्वमेकस्स्थितस्तेषां भित्वा सूर्यमण्डसम्। ब्रह्मलोकमतिक्रम्यतेन याति परां गति " मिति नाडीविसेषाणां मध्ये यस्सरूर्यमण्डसं भित्वोर्ध्वं स्थइतः तेन मूर्द्धसम्ब्धइनाडीविशेषाणानां मध्येऽपि सूर्यमण्डलपर्यन्तप्रसृतिनाडीविशेषण ब्रह्मलोकातीतिं परमं पदं प्राप्नोतीत्यर्थः। तस्य याज्ञवल्क्यवचनस्योदाहरणेन
" चक्षुषो वा मूर्ध्नोवे " त्यविद्वद्विषये मूर्धग्रहणं मूर्धसम्बन्धिनाड्यन्तरविषयमित्यपि सूचितम्।।
संग्रहकारिकाः।।
उत्क्रान्तिर्नास्ति विदुषां तत्रैवामृतताश्रुतेः।
नतस्य प्राणा इति च तदुत्क्रान्तेर्निषेधनात्।।
मैवमस्त्येव तेषामप्येषा श्रुतिशु वञ्चिता।
आगत्युपक्रमात्तेषां समानाचेतरैरसा।।
कर्महाणरूपात्र तेषाममृतता श्रुता।
देहबन्धदग्ध्वैव ब्रह्माप्तिरब्रह्माचिंतनम्।।
न तु तदुभयं मुख्यं ब्रह्मर्चिरादिपथेन हि
स्थितिमदुपरि प्राप्तं तत्रैव बन्धविधूननम्।
तदवधिवपूस्सूक्ष्मं येनेन्दुसंवदनादिकं
विपुषि विदुषः क्वाचित्कोष्मा च यस्य विनिष्क्रमे।।
प्राणोत्क्रान्तिनिषेधनं न वपुषः कित्वात्मनः प्रस्तुतात्
ब्रह्माविद्विषयार्तबागविहितप्रश्नोत्तरे तद्यथा।
षष्ठीचात्र वजत्यपेक्षितमपादनत्वमेवात्मनः
किञ्चात्र स्फुटमामनन्ति वचने माध्यन्दिनाः पञ्चमीम्।।
प्राणोत्क्रातिनिषेधो विदुषोऽविदुषश्च वर्ण्यत जीवात्।
देहवियोग तेषामपि शङ्केरन्नतो वियोगमिति।।
इति आसृत्युपक्रमाधिकरण्।।
तानि परे तथाह्याह।।13।।
सकरणग्रामस्सप्राणश्शरीरेन्द्रियाध्यक्षो जीव उत्क्रान्तौ भूतसूक्ष्मेषु सम्पद्यत इत्युक्तम्। सैषा सम्पत्तिर्विदुषओ विद्यत इत्याशङ्क्य परिहृतं च। तानि जीवपरिष्वक्तानि, भूतसूक्ष्माणि किं यथाकर्म यथाविधं च जीवेन सह स्वकार्याय गच्छन्ती, उत परमात्मनि सम्पद्यन्त इति चिन्त्यते। ननु " तेजः परस्यां देवतीया "
मिति चतुर्थवाक्यार्थचिन्तेयम्। सा प्राणस्तेजसीत्यन्तवाक्यत्रयार्थविषयाधिकरणत्रयानन्तरमेव कर्तुमुचिता। चतुर्थावक्यार्थस्याप्युत्क्रान्तिविषयस्य गत्युपक्रमात्प्राचीनत्वात्। एवं सप्रकारोत्क्रान्तिविचारानन्तरमेव सेयुमुत्क्रान्तिर्विदुषोऽपि समानेति " समानाचासृत्युपक्रमा " दित्यधिकरणेन निरूपणीयम्। सत्यम्। उक्तभंग्यां प्राक्स्ङ्गत्या तस्यास्याधिकरणस्यात्राप्यस्तीत्याक्षेपिकी सङ्गतिः। ब्रह्मविदामुत्क्रान्तिपूर्विका गतिरस्तीति पूर्वाधिकरणोक्तमयुक्तम्। " तेज परस्यां देवताया " मिति वागादिमनः प्राणसहितस्य सूक्ष्मदेहस्य सर्वप्रकृतिभूतपरब्रह्मणि स्वरूपेणैव लयप्रतिपादनात् देहेन्द्रियादिरहितस्य चन्द्रसंवादाद्यसम्भवेन तद्युक्ताया अर्चिरादिगतेरन्यविषयस्यावश्यव्यक्तत्वादिति। अत्रैवं पूर्वपक्षः। मध्ये परमात्मासम्पत्तौ सुखदुःखोपभोगरूपकार्यादर्शनात्तदुपभोगरूपकार्यानुगुण्येन यथाकर्म यथाविद्यं गच्छन्ति। तेजः परस्यामिति तु परमात्मनस्सर्ववस्तु साधारणं धारकत्वमनुद्यतइति।।
सिद्धान्तस्तु-- प्रकृतानि भूतसूक्ष्माणि परमात्मनि सम्पद्यन्ते। तेजः परस्यां देवतायामितिह्याह श्रुतिः। श्रुतोपपत्तयं च फलं परमात्मनि सम्पत्त्या सुषुप्तिप्रळययोरिव विश्रमहेतुस्ततत्संर्गविशेषस्त्रैकसधिगम्यः। एवं " तेजः परस्यान्देवताया " मित्यस्यापूर्वार्थपरत्वसम्भवात् न सर्ववस्तुसाधारणधारकतानुवादकत्वं कल्पनीयमिति।।
संग्रहकारिके।।
जीवयुक्तानि भूतानि गच्छन्त्येव यथाफलम्।
सम्पद्यन्ते फलाभावान्नमध्ये परमात्मनि।।
तेजः परस्यामिति तु सर्वसाधारणीं विभोः।
आधारतामनुवदत्येषामन्यत्र गच्छताम्।।
मैवं तेजः परस्यामित्युक्तसाफल्यसिद्धये।
स्वीकार्या तत्र सम्पत्तिस्सुप्तिप्रलययोरिव।।
इति परसम्पत्त्यधिकरणम्।।
अविभागो वचनात्।।14।।
सेयं परमात्मनि सम्पत्तिः प्राकृतप्रलयवत् कारणापत्तिरूपाऽस्तु। परमात्मनः सर्वनप्रकृतित्वेन मनादिदेवैषम्यादिति प्राप्त उच्यते। पृथग्व्यवहारानर्हसंसर्गरूपविभागमात्रमेव। " तेजः परस्या "मित्यत्रापि सम्पद्यत इत्यस्यानुषङ्गात्स्य प्राक्संर्गविश्षाचित्वाक्लृप्तेः। इहानुषक्तस्येहार्थभेदे प्रमाणाभावात्। प्राकृतप्रलयानन्तरं महासर्गादाविव पुनस्सृष्ट्यवचनाच्च।।
संग्रहकारिके।।
सेयं सम्पत्तिस्स्याल्लय एव प्रकृतिगामित्वात्।
पूर्ववदेव तदर्थकसम्पद्यनुषङ्गतो भवेदेषः।।
इति अविभागाधिकरणम्।।
तदोकोग्रज्वलनं तत्प्रकाशितद्वारो
विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतश्शताधइकया।।16।।
एवं विद्वदविदुषोस्समानउत्क्रान्तिप्रकार उक्तः। गत्युपक्रमे विदुषो मूर्धन्यनाड्योत्क्रनान्तिनियमरूपो विशेष उच्यते। अत्र मूर्धन्यया ब्रह्मनाड्यैव विदुषो गतिर्नान्येषां तथा गतिरिति नियन्तुं न शक्यते। नाडीनामुत्क्रमणक्लेशक्षुभितहृदयेन जीवेन विवेक्तुमशक्य्तवात्। न च विद्यानुष्ठानकाले स्वयमीदृक्प्रदेशस्थितयैतादृश्या नाड्या निष्क्रम्य ब्रह्म प्राप्नवानीत्यनुस्न्धानाभ्यासपाडवात् स्वनिष्क्रमनाडीपरिज्ञानं भवेत्, उत्क्रमणक्लेशस्य ब्रह्माणि विश्रमणेन शान्त्या विवेचनकौशलमपि भवेदिति वाच्यम्। तथाऽपिल घनसन्तमसावृतहृदयापवरकगतस्य निरन्तरानेकसूक्ष्मतमनाडीसहस्रेषु स्वनिष्क्रमणनाढ्या विवेक्तुमश्क्यात्वात्
तस्मात् " तयोर्ध्वमाय " न्निति श्रुतिः कदाचिद्यादृच्छिकं विदुषो मूर्धन्यनाड्या निष्क्रमणं तस्याः स्तुत्यर्थमनुवदतीति पूर्वः पक्षः।
सिद्धान्तस्तु -- शताधिकया मूर्धन्यनाड्यैव विद्वानूत्क्रामति नान्य इति नियमस्सम्भवत्येव। "तयोर्ध्वमायन्नि"ति श्रुतेः पाक्षिकानुवादत्वकल्पनाऽयोगात् । न च नाडीनां दुर्दर्शत्वम्। " तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामण काले हृदयस्याग्रप्रकाशश्रवणाद्विदुषो विद्यासामर्थ्यस्य विद्यानुष्ठानकाले तचछेषगतिचिन्तनाभ्यासस्य विद्याराधइतपरमपुरुषप्रसादस्यचाधकस्य सत्त्वाच्च।।
संग्रहकारिके।।
नाड्यो दुर्दर्शाइति विदुषो न ब्रह्मनाडिकानियमः।
यादृच्छिकतद्गमनानुवादियत्तत्तयोर्ध्वमिति मैवम्।।
विद्याराधितभगवदनुग्रहविभावितद्वारः।
निष्क्रामति मूर्धगया नाड्येत्युपपद्यते नियमः।।
इति तदोकोऽधिकरणम्।।
रश्म्य्नुसारी।।17।।
विदोषो ह-यात् ब्रह्मनाड्या निर्गतस्यादित्यरश्मीननुसृत्य तन्मण्डलगतिः श्रूयते। " यत्रैतदस्माच्छरीरदुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्व आक्रमत " इति। अतो रश्मिभिरेवेत्यवधारणमुपपद्यते नवेति संशये नोपपद्यते। निशिमृतस्यादित्यरश्म्यनुरणासम्भावत् निशास्वनुभूयमानस्यष्मण आग्नेयत्वेनाप्युपपत्तेः। ज्योतिषप्रक्रियया चन्द्रमण्डल्परविष्टास्सूर्यरश्म्य एव चन्द्रकिरणा इत्यङ्गीकारेऽपि दर्शादिरीत्रिषु तेषामप्यभावात्। न च निशि मृतस्य विदुषो मूर्धन्यनाड्या निष्क्रान्तस्य यावदुदयं सूर्यरश्मिप्रतीक्षणेन ऊर्ध्वगतिर्वाच्या। रयावत्क्षिप्येन्मनस्तावदादित्यं गच्छेदि " ति शैध्न्यवचनविरोधात्। तस्माद्रश्मिवाक्यं पाक्षिकानुवादकमित्येव वाच्यमिति।।
सिद्धान्तस्तु -- निश्यपि विद्वान्सूर्यरश्म्यनूसारी गच्छित। ग्रीष्मेदिवा सौरातपोष्मप्रकर्षेस्त्येव निशइ सिकतादीषूष्मदर्शनेन तस्य सूर्यरश्मिसम्बन्धित्वावगत्या रात्रावपि तत्सत्त्वावगमात्। एवं च रश्मिवाक्यमप्यर्थवद्भवतीति।।
संग्रहकारिके।।
रश्म्यनुसारि न गमनं नियतं रजनीषू तदभावात्।
श्रुतिरेतैरेवेति तु पाक्षइकमनुवदति तल्लाभम्।।
एवं सत्यवधारणमनर्थकत्वं प्रपद्यते।
तसक्मान्नियतं रजनिष्वपि ते सन्त्युष्मदर्शनाल्लिंगात्।।
इति रश्म्यनुसाराधिकरणम्।।
निशिनेतिचेन्न सम्भन्धस्य यावद्देहभावित्वादर्शयतिच।।
विदुषो निशिमृतस्य ब्रह्मप्राप्तिरस्ति नवेति चिन्त्यते। नास्त्येव। " दिवा च शुक्लपक्षश्च उत्त्रायणमेव च। मुमूर्षतां प्रशस्तानि विपरीतं तु गर्हित " मिति निशामरणस्य निन्दितत्वात्। निन्दितेन च परमपुरुषार्थप्राप्त्ययगादिति प्राप्त उच्यते। विदुषो निशि मृतस्यापि ब्रह्मप्राप्तिर्भवत्येव। न तु निशामरणनिन्दया गर्हितगतिप्राप्तिः। कर्मसम्बन्धस्य विद्यादेहावसानत्वेन बन्धहेत्वाभावात्। अनारब्धकार्याणां प्राचीनकर्मणां विद्यया विनाशादुत्तकर्मणामश्लेषात् प्रारब्धकार्यस्य कर्मणश्चरमदेहावधित्वात् निशामरणं दृश्यते, तेषां तदा प्रबलप्राचीनदुष्कृतकर्मणां फलोन्मुखता फलबलात्कल्पनीया।।
संग्रहकारिके।।
रात्रौ मृतिश्चेन्नास्त्येव ब्रह्माप्तिस्सा हि गर्हिता।
मैवं कर्माभिसम्भन्धे कथं देहावधूनना।।
इति निशाधिकरणम्।।
अतश्चायनेऽपि दक्षिणे।।19।।
योगिनः प्रतिस्मर्यते स्मार्तेचैते।।20।।
निशि मृतस्य विदुषो ब्रह्मप्राप्तिहेतुनैव दक्षिणायनमृतस्यापि तस्य सा सिद्धा। अतिदेशाधिकरणस्यास्येयमधिका शङ्का " य एवंविद्वानुदमयने प्रमीयते देवानामेव महिमानं दत्वाऽऽदित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं सलोकतामाप्नोती " ति तैत्तिरीयाणामुपनिषदि श्रूयते। तेन विदुषोऽपि दक्षिणायनमृतस्य चन्द्रं प्राप्य पित्र्यभोगाननुभूय " यावत्सम्पातनुषित्वे " ति शास्त्रानुसारेण पुनरावृत्तिर्वविक्षिततेत्यवसीयते। तत्र पुरुषविद्यावसाने पूर्वानूवाकविहितब्रह्मविद्यावत एव हि उत्तरदक्षिणायनमरण्योः फलविशेष उक्तः। सत्यम्। तत्र ब्रह्मप्राप्तिरेव प्रितपिपादयिषिता " ब्रह्मणो महिमानमाप्नोती " ति वाक्यशेषात्। तस्मात् तत्रोत्तरायणमृतस्यादित्यलोके दिव्यभोगो दक्षिणायनमृत्सय पित्र्यभोगश्च मार्गे विश्रान्तिहेतुत्वेन विवक्षित इति योजनीयम्। अन्यथा विदुष उत्तरायणमृतस्यापि ब्रह्मप्राप्तिर्नास्तीति ततस्सिद्धिप्रसङ्गात्। ननु विदुषो मुमूर्षून्प्रति पुनकावृत्तिमावृत्तिमा- वृत्तिञ्चैव योगिनः।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ।
अग्निर्ज्योतिरहश्शुक्लस्षण्मासा उत्तरायणम्।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः।।
धूमो रात्रिस्तथा कृष्णष्णण्मासा दक्षिणायनम्।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते।।
शुक्लकृष्णे गतीह्येते जगतश्शाश्वते मते। एकया यात्यनावृत्तिमन्ययाऽऽवर्तते। पुनः " इति। अतो दक्षिणायनमृतस्य न ब्रह्मप्राप्तः। अत एव भीष्मस्योत्तरायणप्रतीक्षणमुक्तं भारत इति चेत्। उच्यते। नात्र मुमूर्षुन्प्रति मरणकालविशेषः स्मर्यते। किं तु योगानिष्ठैः स्मर्तव्यदेवयानपितृयाणाख्ये गती स्मर्यते। तथाह्युपसंहार
" नैते सृती पार्थजानन्योगी मुह्यति कश्चन। तस्मात्सर्वेषु कालेषु योग्ययुक्तो भवार्जुने " ति। " अग्निर्ज्योतिः, धूमो रात्रिरि " ति च श्लोकाभ्यां देवयानपितृयानगती प्रत्यभिज्ञायेते। भीष्मस्य तु योगप्रभावात् स्वपितृप्रसादप्रभावाच्च प्राप्तं स्वच्छन्दमरणं ख्यापयितुमुत्तरायणप्रतीक्षणम्। तस्माद्विदुषो दक्षिणायनमृतस्यापि ब्रह्मप्राप्तिस्तीति सिद्धम्।।
संग्रहकारिके।।
न तथाऽपि दक्षिणायनं मृतस्य सा तस्य चन्द्रसायुज्योक्तेः।
भीष्मस्य ब्रह्मविदोऽप्युदगयनागमनिरीक्षणस्याप्युक्तेः।।
मैवं तस्यापि स्यात्पूर्वोक्ताद्बन्धहेत्वभावादेव।
तस्यैन्दवसायुज्यं कालविशेषात्पथीन्द्रुतः पूजाप्तिः।।
अत एव वाक्यशेषे ब्रह्मप्राप्तिस्तत्र वर्ण्यते तस्य।
भीष्मस्य तत्प्रतीक्षा माहात्म्यख्यापनायैव।।
इति दक्षिणायमनाधिकणम्।।
इति श्रीमद्भारद्वाजकुलजलधिकास्तौस्तुभ श्रीमदद्वैतविद्याचार्य श्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरवरसुनोरप्यदीक्षितस्य कृतौ चतुर्मतसारे
नयनमुखमालिकाख्ये द्वितीयपिरच्छेदे चतुर्थाध्यायस्य द्वितीय पादः।।
।।श्रीः।।
श्रीमते हयवदपरब्रह्मणे नमः।।
।।चतुर्थाध्यायस्य तृतीय पादः।।
अर्चिरादिना तत्प्रथितेः।।1।।
ब्रह्मप्राप्तिफलो विदुषो मार्ग इह पादे चिन्त्यचे। छान्दोग्ये तावदुपक्रमोसलविद्यायां -- " अर्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेतिमासांस्तान्मासेभ्यस्संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसा विद्युतं तत्पुरुषो मानवस्स एनान्ब्रह्यगमयत्येष देवपथो ब्रह्मपथ एतेन
प्रतिपाद्यमना इमं मानवमावर्त नानर्तन्त " इति श्रूयते। बृहदारण्यके पञ्चाग्निविदद्यायां -- " तेर्चिषमभइशम्भवन्त्यर्छिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षण्मासामुदङ्ङादित्य एति मासेभ्यो जेवलोकं देवलोकोकादीत्यमादित्याद्वेद्युतं वैद्युतात्पुरुषोऽमानच स्स एत्य ब्रह्मलोकान्गमयती " ति। तत्रैव पुवरन्यथा मार्गः श्रूयते -- " यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुलोकमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य स्वं तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहिते यथाळंतेन स ऊर्ध्वआक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुंदुभेः खंतेनसऊर्ध्वआक्रमते स लोकमागच्छत्येशोकमहिमं तस्मिन्वसति शाश्वतीस्ममा " इति श्रूयते। कौषीतकिनामुपनिषदि -- " स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोक स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोक " मिति मार्गः श्रूयते। तत्र पुनर्दहरविद्यायां -- " अथैतैरेव रश्मिभिरूर्ध्व आक्रमत " इति श्रूयते। तत्र संशयः। किमर्चिरादिक एकएव मार्ग एताभिः श्रुतिभिः प्रतिपाद्यते उत तस्मादन्योऽपि मार्गः प्रतिपाद्यत इति मार्गानियम इति। अनिययम इति तावत्प्राप्तम्। मार्गपर्वभेदेन च भेदप्रतीतेः। नचोपसंहारेणाबेदोपपादनं युक्तम्। " यत्रैतस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्व आक्रमत " इत्यवदारणविरोधात्। " सयावत्क्षिप्येन्मनस्तावदादित्यं गच्छे " दिति शैध्न्यवचनविरोधात्। भिन्नभिन्नविद्याम्नातानां मार्गपर्वणां ब्रह्मगुणानामिवोपसंहारानपेक्षणाच्चचि प्राप्ते उच्यते। अर्चिरादिनैकेनव मार्गेण विद्वान् गच्छति। तस्यैव सर्वत्र प्रत्यभीज्ञानात्। आवधारणस्यायोगव्यवच्छेदानुवादत्वात्। एकस्य वाक्यस्य रश्मिप्रापणे तदितरव्यवच्छेदे च तात्पर्यायोगात्। शैन्ध्यवचनस्य पितृयाणमार्गापेक्षयोपपत्तेः। " स यावत्क्षिप्येन्मन " इत्यस्य केवलमतिशयोक्तिरूपत्वात्। छान्दोग्यबृहदारण्यकयोः पञ्चाग्निविद्यायां " तद्य इत्थं विदुर्येचेमेऽरण्ये श्रद्धातप उत्युपासत " इति " तद्यइत्थंविदुर्येचामी अरण्ये श्रद्धां सत्यमुपासत " इति च पञ्चाग्निविदामिव विद्यान्तरनिष्ठानामप्यार्चिरादिकस्यैव मार्गस्योपदेशाच्च।।
संग्रहकारिके।।
भिन्ना मार्गा विदुषामाम्नातास्तत्र तत्र विद्यायाम्।
विद्यारूपगुणभेदात्तत्तत्पूर्वक्रमान्यत्वात्।।
सर्वोऽर्चिरादिको मार्गोऽयं प्रत्यभिज्ञानात्।
तत्सत्त्वेऽपि त सर्वाविद्या नैका गुणानन्यात्।।
इति अर्चिराद्यधिकरणम्।।
वायुमब्दादविशेषविशेषाभ्याम्।।2।।
अर्चिरादिनैकेनैव मार्गेण सर्वे विद्वांसो गच्छन्तीत्युक्तम्।। तस्मिन्मार्गे छान्दोगा मासादित्ययोरन्तराळे देवलोकमधीयते। " मासेभ्यस्संवत्सरं संवत्सरादादित्य " मिति। वाजसनेयिनस्तु तयोरन्तराळे देवलोकमधईयते। " मासेभ्यो देवलोकं देवलोकादादित्य " मिति। मार्गैक्यात्तावुभावपि उभयत्रोपसंहार्यौ। तयोः पञ्चम्यभिहितस्य श्रौतक्रमस्य तुल्यत्वेऽपि मासानन्तरं लसंवत्सरो निवेशनीयः। अहरापूर्यमाणपक्षमासानामुत्तरोत्तरमधिककालाना- मुत्तरोत्तरपर्वभावदर्शनेननोदगयनरूपषण्मासानन्तरं निवेशनौचित्यात्। अतस्संवत्लरादूर्ध्वं देवलोक इति
निश्चीयते। अत्र च वाजसनेयिनो " यदा वै परुषोऽस्माल्लोकत्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छती " त्यादित्यात्पूर्वं वायुमधीयते। कौषितकिनस्तु " स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोक " मित्यग्निलोकशब्दनिरिदिशष्टादर्चिषः परं वायुमधीयते। तत्र कौषीतकिनां पाठक्रमेणार्चिषः परत्वेन प्राप्तस्य वायोर्वाजसनेयिनां " तेनोर्ध्व आक्रमते स आदित्यमागच्छती " त्यूर्ध्वशब्दनिर्दिष्टश्रौतक्रमेण पाठक्रमाद्बलीयसाऽऽदित्यात्पूर्वं निवेशः। एवं संवत्सरादूर्ध्वमादित्यात्पूर्वं वायुदेवलोकयोः प्राप्ताविदं चिन्त्यते। किं वायुदेवलोकौ भिन्नाविति तौ यथेष्टक्रमेण विद्वान् गच्छति। उताभिन्नाविति संवत्सरादुर्ध्वं वायुं सन्तं देवलोकं गच्छतीति। किं युक्तम्। भिन्नार्थत्वप्रसिद्धेरूर्ध्वशब्देन पञ्चम्याचोभयोरपि संवत्सरादित्यान्तराळे श्रुतिक्रमेण प्राप्तेव विशेषाभावाच्च यथेष्टं गच्छति। न च " यो।डयं पवते एष देवानां ग्रह " इति श्रवणान्न वायुदेवलोकौ भिन्नाविति वाच्यम्। " संवत्सरः स्रव्गो लोक " इत्यर्थवादान्तरश्रवणात् संवस्तर एव देवलोक इत्यपि कल्पनासम्भवेन मासादित्ययोर्मध्ये संवस्तरदेवलोकौ निवेशनीयौ उत देवलोकवायु इत्यत्र विनिगमाभावप्रसङ्गादिति। एवं प्राप्ते उच्यते। संवस्तरादूर्ध्व विद्वान्वायुं गच्छति। देवलोकशब्देन देवानां लोकि इत्यविशेषणोक्तस्य " स वायुमागच्छती " ति विशइषअय वायुरूपेण विधानात् " वायुरेव हि देवानां लोकः योऽयं पवत " इति श्रवणात्। न च " संवत्सरः स्वर्गो लोक " इतिवत्तदर्थमादमात्रं दिव्यानां विमानानां वायुपाशधृतत्वेन वायोः स्तम्भादिवत् देवगृहान्तर्भावोपपतत्त्या स्वारथपरत्वसम्भवात्।।
संग्रहकारिके।।
श्रुत्यैव संवत्सरदेवलोकयोर्मासेभ्य ऊर्ध्व झटिति प्रसक्तयोः।
संवत्सरो माससमन्वयाद्भवेदादौ तदूर्ध्व निविशेतचेतरः।।
तत्रैव मारुतोऽपि प्राप्नोत्यूर्ध्वपदरूपया श्रुत्या।
कौषीतकिनामर्चिस्समनन्तरपाठतो बलीयस्या।।
तयोर्न पूर्वोत्तरस्तानियामकं ततो यथेष्टं विनिवेशनं भवेत्।
तदेव वोकोह्यविसेषमीरितस्सवायुरेवात्र मितस्तथा श्रुतेः।।
श्रुतमपि देवगृहत्वं वायोरिव तत्पुर्वमब्दस्यापि।
स्तुतदरेव तद्यथार्थं विमाननिवहस्य वायुपाशधृतत्वात्।।
इति वाय्वधिकरणम्।।
तटितोऽधिवरुणस्सम्बन्धात्।।3।।
कौषीतकिनां " स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छती " त्यादिश्रवणे अग्निलोकशब्दस्यार्चिःपर्यायत्वेन प्राथम्यवविगीतम्। तत्र तदनन्तरष्ठितस्य वायोस्संवत्सरादूर्ध्व निवेश उक्तः। आदित्यास्यापि तत्र वरुणानन्तरपठितस्य पाठक्रममबाधेन देवनलोकदादित्यमिति वाजसनेकोक्तश्रुतिक्रमाद्देवलोकशब्दाभिहितात् वायोरुपरि निवेशस्सिद्धः। वरुणेन्द्रप्रजापतिषु चिन्ता-- किं तेषां वायोरूर्ध्वं निवेशः उत विद्युत ऊर्ध्वमिति वायोरुर्ध्वमिति तावत्प्राप्तम्। अन्यत्र क्वाप्यवकाशाभावात्। अर्चिरादिविद्युत्पर्यन्तानां सर्वेषामपि श्रौतक्रमवत्त्वात्तदनन्तरममानवपुरुषस्यैव
ब्रह्मप्रापयितृत्वश्रवणाच्च। ततश्च सर्वत्रावकाशाभावेन तेषां निवेशाप्राप्तौ तदुपदेशावैयर्थ्यायावश्यं क्व न श्रौतक्रमे बाधनीये " स वायुलोकं स वरुणलोक " मिति पाठक्रमेण वायोरनन्तरं वरुणो निवेशनीयः। क्रमिबाधात् क्रमबाधस्य न्याय्यत्वात्। एवं वाय्वादित्ययोश्क्षौतक्रमबाधे सति इन्द्रप्रजापती अपि वरुणानन्तरं निवेशनीयाविति। एवं प्राप्त उच्यते-- वरुणस्तावद्विद्युत ऊर्ध्वं निवेशनीयः। सम्बन्धात् विद्युत उपरि सनीरनीरदर्शनेन नीराधिपतेर्वरूणस्य तत उपरिभावौचित्यात् तदनन्तरभिन्द्रप्रजाप्योर्निवेशः परिशेषात्, " आगन्तुकानामन्ते निवेश " इति न्यायाच्च। अमानवपुरुषस्य ब्रह्मप्रापकत्वं वरुणादिव्यवधानेन तत्साहित्येनवोपपद्यत इति न विरोधः।।
संग्रहकारिके।।
वरुणाद्या निविशेरन्मध्ये वायोश्च भानोश्च।
अन्यत्रापि निवेशे श्रौतः कश्चित्क्रमो बाध्यः।।
इत्युपरि निवेशे भवति स एनानिति श्रुतेर्बाधः।
उपदिष्टानां तेषां क्वचिन्निवेश्च वक्तव्यः।।
तस्माद्वायोरूर्ध्व वरुणस्स्यात्त पठितत्वात्।
तदनन्तरमितरावपि वाय्वादित्यक्रमस्य भग्नत्वात्।।
मैवं विद्युत उपरि श्रौतक्रमबाधितस्य वरुणस्य।
सम्बन्धाद्विनिवेशस्तदुपर्यवशिष्टयोर्यथापाठम्।।
वैद्युतपुरुषस्य न हि व्यवधिवहीनमश्रुतं गमयतितृत्वम्।
तेन स एनामिति श्रुतेर्विहाधस्य शङ्काऽस्ति।।
इति वरुणाधिकरणम्।।
आतिवाहिकास्तल्लिङ्गात्।।4।।
वैद्युतेनैव ततस्तच्छØतेः।।5।।
अर्चिरादीनां क्रमो निरूप्तः। तेषां स्वरूपं चिन्त्यते। किमर्चिरादयो मार्गचिह्नभूताः, उत बोगभूमयः, अथवा विदुषामतिवोढार इति तत्र वननदीपर्वतादिमार्गचिह्नोपदेशकलौकिकवाक्यच्छायापन्नवाक्यबोध्यत्वत्। अथवा भोगभूमयः एत एव लोकः। " यदहोरात्राण्यर्धमासा ऋतवस्संवत्सरा " इत्यहरादीनां लोकत्ववचनात्, कौषीतकिशाखायामग्निलोकमागच्छतीति लोकशब्दश्रवणाच्च। नत्वतिवोढारः। अमानवपुरुषस्यैव विशिष्यातिवोढृत्वश्रवणाच्चेति। विद्युतनन्तरममानवपुरुषस्यातिवोढृत्वेन वरुणादीनामतिवोढृत्वासम्भावाच्चेति। एवं प्राप्ते उच्यते-- विदुषामतिवाहे परमपुरुषेण नियुक्ताः देवताविशेषाः एतेऽर्चिरादयः। " स एनान्ब्रह्म गमयती " त्यमानवपुरुषस्य श्रूयमाणो यः प्राप्यप्रापकभावसम्न्धः स एव पूर्वेष्विर्चिरीदिष्वपि लसम्बन्धइत्यवगमात् सामान्यतो निर्दिष्टस्य सम्बन्धस्य विशे,पर्यवसानापेक्षत्वात्। नचाचेतनानामातिवाहिकत्वानुपपत्तिः, अर्चिरादीनां तदभिमानिदेवतापरत्वात्। यद्येते सर्वेऽप्यानितिवाहिकाः तदा कथं विद्युतनन्तरं श्रुतानामिन्द्रादीनामातिवाहिकत्वोपपत्तिः। तत्रामानवपुरुशस्यैवातिवाहिकत्वश्रवणदितिचेन्मैवम्। तत्र वरुणादीनामपि
तदनुग्राहकत्वेनातिवाहिककोट्यन्तर्भावोपपत्तेः।।
संग्रहकारिके।।
मार्गचिह्नानि विदुषां पठिता येऽर्चिरादयः।
सर्वत्र लोकशब्दाद्वा भवेयुर्भोगभूमयः।।
वर्ण्यते ह्यतिवोढृत्वं वैद्युतस्योपसंहृतौ।
ततस्सएव सम्बन्धः पूर्वेषामपि सिध्यति।।
इति आतिवाहिकाधिकरणम।
कार्यं बादरिरस्य गत्युपपत्तेः।।6।।
विशेषितत्वाच्च।।7।।
सामीप्यात्तु तद्वयपदेशः।।8।।
कार्यात्यये तदध्यक्षणे सहातः परमभेधानात्।।9।।
स्मृतेश्च।।10।।
परं जैमिनिर्मुख्यत्नात्।।11।।
दर्शनाच्च।।12।
न च कार्ये प्रत्यभिसन्धिः।।13।।
अप्रतीकालसम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च।।14।।
विशेषञ्च दर्शयति।।15।।
गमयतृनिरूपणानन्तरं गन्तृरूपणमिति सङ्गतिः। किमययर्चिरादिको गणः कार्यं हिरण्यगर्भमुपासीनान्नयति उतः परंब्रह्मोपासरीनानथ परंब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मतयोपासीनांश्चेति संशये कार्यमुपासीनान्नयति। कार्यं हिरण्यगर्भमूपासीनस्यैव गत्युपपत्तेः। न हि परिपूर्णं परं ब्रह्मोपासीनस्य तत्प्राप्तये देशानन्तरगतिरुपपद्यते। नित्यप्राप्तत्वात्। परब्रह्मविषयाविद्यानिवृत्तिमात्रस्य परविद्याकार्यात्वात्। " पुरुषो मानव एत्य ब्रह्मलोकान्गमयती " ति, " प्रजापतेस्सभां वेश्म प्रपद्य " इति च बहुवचनान्तेन लोकशब्देन लोकविशेषेषु तत्रापि प्रजापतिशब्दवाच्यबबहिरण्यगर्भसभायां वर्तमानं हिरण्यगर्भमूपासीनानेव नयतीति विशेषितत्वाच्च। " स एनान्ब्रह्म गमयती " ति तस्मिन्नपुंसकवलिंगब्रह्मशब्दस्तु तस्य परब्रह्मप्रथमापत्येत्वेन तत्सन्निकृष्टत्वादुपपद्यते। अर्चरादिना हिरण्यगर्भं प्राप्तस्य " तयोर्ध्वमायन्नमृतत्वमेती " इमं मानवमावर्तं नावर्तन्त "
इतिचामृतत्वा पुनरावृत्त्युक्तिः कार्यब्रह्मवोकात्यये तदध्यक्षेण हिरण्यगर्भेणावसिताधिकारेण सह कार्यब्रह्मलोकात्परस्य परब्रह्मलोकस्य प्राप्तिविषयत्वेनोपपद्यते। " वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयश्शुद्धसत्वाः। ते ब्रह्मलोके तु परान्तकाले परमृतात्परिमुच्यन्ति सर्वे " इति श्रुत्या " ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पद " मिति स्मृत्याच्च च तथैव प्रतिपादनात्। अथवा परंब्रह्मोपासीनानेव नयति। " स एनान्ब्रह्म मगयती " ति ब्रह्मशब्दस्य तत्र मुख्यत्वात्, परब्रह्मणस्सर्वगतत्वेऽपि विदुषस्तल्लोकविशेषंप्राप्तस्यैव कर्मतद्वासनादिबन्धनिवृत्तिरिति पर्यङ्कविद्यादिशास्त्रैरवगमात्, " अस्माच्छरीरात्समुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणानिष्पद्यत " इत्यर्चिरादिनाल गतस्य परब्रह्मप्राप्तिश्रवणाच्च। न च " प्रजापतेस्सभां वेश्म प्रपद्य " इति विद्वदभिसन्धिप्रतिपादनात्कार्यब्रह्माप्तिश्शङ्कनीया। तत्रैव " धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानी " ति मन्त्रे " अकृतं ब्रह्मलोक " मिति विशेषितत्वेन तदुनुरोधात् प्रजापतिशब्दस्य योगेन परमपुरुषपरत्वोपपत्तेः। एवं प्रप्ते उच्यते -- कार्यमूसीनानेव नयतीतिवा परमीपासीनानेव नयतीति वा न नियमः। उभयथापि दोषात्। कार्यमूसीनान्नयतीति पक्षे "परं ज्योतिरुपसंपद्ये "त्यादिकाः श्रुतयः प्रकुप्येयुः। परमेवोपासीनान्नयतीति पक्षे "तद्य इत्थं विदु "रिति श्रुतिः प्रकुप्येत्। सा हि श्रुतिः ब्रह्मात्मकत्वेन जीवमूपासीनानामप्यर्चिरादिगतिं प्रतिक्तिभंग्या शरीररूपाचिद्वियुक्तजीवस्वरूपोपासनाविधानस्य ब्रह्माग्निविदां ब्रह्मप्राप्त्ययोगात्। नचैवमपि तदयोगस्तुल्यः, "आत्मेतितुमपगच्छन्ती "त्याधिकरणे ब्रह्मणो जीवं प्रत्यात्मत्वेनानुसन्दधानस्यैव ब्रह्मप्राप्तिसराधनत्वोक्तेरिति वाच्यम्। ब्रह्मात्मकत्वेन जीवानुसन्धानेऽपि ब्रह्मणो जीवं प्रत्यात्मत्वानुसन्धानाक्षतेः लक्ष्मणपूर्वज इत्यतो रामानुज इत्यस्येव विशेषणविशेष्यभावमात्रं हि तत्र भिद्यते। तस्मात् हिरण्यगर्भादिजीवमेव य उपासते केवलमचिद्वस्तु चिद्वस्तु ये वा ब्रह्मदृष्ट्योपासते न तान्प्रतीकालंबनान्नयति अर्चिरादिको गणः। अपि तु परंब्रह्म जीवविशेष्यत्वेन तद्विशेषणत्वेन वा य उपासते तानेव नयति । अत एव " यावन्नाम्नो गतं तत्रास्य यथा कामचारो भवती " त्यादिका श्रुतिर्नामादिप्रतीकमुपासीनानां ब्रह्मप्राप्त्यर्थर्चिरादिगत्यनपेक्षं पिरमितफलविशेषं दर्शयतीति। अनया हि श्रुत्या देवमनुष्यादि नाम यावत्सञ्चरति तावत्पर्यन्तमेव नाम ब्रह्मेति प्रतीकालम्बनानां यथाकामं सञ्चार उच्यते। तेन यत्र " तथा विद्वान्नामरूपाद्विमुक्त " इति श्रुतिसिद्धो देवादिनामरूपविमोक्षः तत्र सञ्चारो नास्तीति ज्ञाप्यते। " वेदान्तविज्ञानसुनिश्चितार्था " इति मन्त्रस्तु हिरण्यगर्भोपासनयाऽर्चिरादिना हिरण्यगर्भं प्राप्तस्य तेन सह ब्रह्मप्राप्ति न प्रतिपादयति। किं तु हिरण्यगर्भोपासनया तल्लोकं प्राप्तस्य तत्रैव कृतब्रह्मोपासनस्य स्वदेहावसाने ब्रह्मप्राप्तिम्। तस्यह्ययमर्थः -
श्रवणमननादिभिर्निश्चितवेदान्तार्थतत्वा जितेन्द्रियाः पुरुषधौरेयाः परब्रह्मण्येव लोके वर्तमानान्तन्निष्ठास्सन्तः परस्य चरमदेहस्यान्तकाले अवसाने परामृतात् परब्रह्मणस्सकाशात् तस्यैव प्रसादात् मुच्यन्त इति। तस्मादप्रतिकालम्बनानेव नयतीति सिद्धम्।।
संग्रहकारिके।।
ब्रह्माणमुपासीनान्गमयत्येषोऽर्चिरादिगणः।
तस्य परिच्छिन्नत्वाद्गत्वा प्राप्यत्वमुपपन्नम्।।
न ब्रह्मोपासीनान्व्यापित्वेनेह तत्प्राप्तेः।
गमनस्य व्यर्थत्वादित्येवं वादरिर्मेन।।
ब्रह्मैवोपासीनान्गमयति तत्र खलु तत्पदं मुख्यम्।
तल्लोकविशेषस्थं गत्वा प्राप्यमिति जैमिनिर्मेन।।
ब्रह्मतदुपासते ये ये च ब्रह्मात्मकं जीवम्।
तानुभयानपि गमयति दोषात्पक्षद्वयेऽपि पूर्वोक्ते।।
बादरिमतेऽर्चिरादिप्राप्यं ब्रह्म श्रुतं विरुध्ये।।
जैमिनिमतेर्चिरादिः पञ्चाग्निविदां श्रुतो न लभ्येत।।
ये वा हिरण्यगर्भं येवा मनआद्युपासते ब्रह्म धिया।
केवलमथवाविधइतस्तस्मात्सर्वान्ननयतिप्रतीकदृशस्ते।।
विशेषणं विशेष्यंवा कृत्वा ब्रह्मनिजात्मनः।
उपासीनान्गमयतीत्येवं सिद्धान्तपद्धतिः।।
इति कार्याधिकरणम्।।
।।इति श्रीमद्भारद्वाजकुलधइकौस्तुभ श्रूमदद्वैतविद्याचार्य श्रीविश्वजिद्याजि
श्रीररङ्गराध्वरिवरसुनोरप्पयदीक्षितस्य कृतौ चतुरमतसारे नयनमुख
मीलिकाख्ये द्वितदीयपरिच्छेदे चतुर्थस्याध्यायस्य तृतीयः पादः।।
।।श्रीमते हयवदनपरब्रह्मणे नमः।।
चतुर्धाध्यायस्य चतुर्थः पादः।।
विदुषां ब्रह्मप्राप्तिफला गतिरुक्ता। ब्रह्मप्राप्तानां तेषामैश्वर्यप्रकारः चिन्त्यते----
संपद्याविर्भावः स्वेन सब्दात्।।1।।
मुक्तःप्रतिज्ञानात्।।2।।
आत्मा प्रकरणात्।।3।।
" परं ज्योतिरपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत " इत्यत्र देवादिरूपवत्साध्यरुपेणाभिनिष्पत्तिर्विवक्षिता उत स्वाभाविकरूपेणाविर्भाव इति अभिनिष्पत्तिस्वेनशब्दाभ्यां रूपस्याभिनिष्पद्यत्वायोगात्। तस्य सुषुप्त्यादिषु पुरुषार्थत्वादर्शनात् स्वेन शब्दास्यार्थसिद्धस्वीयत्वानुवादकतोपपत्तेरिति पूर्वपक्षः। स्वतस्सिद्धस्याप्यनादिकर्मबन्धरूपादिकर्मबन्धरूपाविद्यातिरोहितस्य तन्निवृत्त्याभिव्याक्तिरूपेण साध्यत्वसम्भावत् अबहतिविद्यायामुपपादितत्वात्।
" यथा न क्रियते ज्योत्स्ना मलप्रक्षाळनान्मणेः।
दोषप्रहाणान्नज्ञानमात्मनः क्रियेत तथा।।
यथोदपादखननात्क्रियतेन जलाम्बरम्।
सदेव नीयते व्यक्तिमसतस्सम्भवः कुतः।।
तथा हेयगुणध्वंसादवबोधादयो गुणाः। प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते " इति शौनकस्मरणाच्च। ज्ञानानन्दादिरूपस्य कर्मबन्धक्षयेसति विकासरूपावनिर्भावो न स्वरूपत उत्पत्तिः। तथासति स्वेनविशेषणानर्क्यपत्त्या येन रूपेणाभिनिष्पद्यते तस् स्वीयताया अर्थसिद्धत्वेन स्वेन शब्दस्यासाध्यात्वपरताया
वक्तव्यत्वाच्चेति सिद्धान्तः।।
संग्रहकारिके।।
आगन्तुकं किञ्चिदुपैति रूपं मुक्तोऽभिनिष्पत्तदिवचोऽनुरोधात्।
स्वरूपमात्रे पूरुषार्थतायास्सुषुप्तिदृष्टेमुपलम्भनाच्च।।
त्रिविदगतवन्मुक्तस्यागन्तुकत्ववितर्कणां
न हि विषहते रूपेस्वेनेति तस्य विशेषणम्।
अपि तदभिष्पत्तिर्युक्तैव बन्धविधूनना
द्विकसति हि तज्ञ्ज्ञानानन्दादि संकुचितं तदा।।
इति सम्पद्याविर्भावाधिकरणम्।।
अविभागेन दृष्टत्वात्।।4।।
किमयं ब्रह्मप्राप्तो विद्वान् स्वात्मानां ब्रह्मणः पृथग्भूतमनुभवति, उत तदविभक्तिमिति साम्यसाहितपरमसाम्यक्षुतिभ्यां तत्त्वमस्यादिक्षुतिभिश्च संशये " सोऽश्नुते सर्वान्कामान्सह। ब्रह्मणा विपश्चिते "ति,
" निरञ्जनः साम्युपैती " ति च मुक्तस्य ब्रह्मणा सह साहित्यपरमासाम्यश्रवणात् पृथग्भूतमेवानुभवति। नत्वविभक्तम्। अविभागस्यातिविरोधादिति पूर्वपक्षः।।
सिद्धान्तस्तु-- अविभक्तमनुभवति। परब्रह्मप्राप्तया निवृत्त्वमस्यादिस्वात्मनो यथावस्थितस्य स्वेन दृष्टत्वात्। स्वात्मस्वरूपं हि तत्त्वमस्यादि श्रुतिभिः परमात्मनः तच्छरीरतया तत्प्रकारभूतमिति प्रतिपादितम्। तस्मादविबागेन ततप्रकारतयैवानुभवति। साहित्यश्रुतिस्तु कर्तृसाम्यं कर्मसाम्यं वा प्रतिपादयन्ती न प्रकारप्रकारिभावोऽपि न परमसाम्येन विरुध्यते। ब्रह्मानन्दानुभवादिगुणैः परमसाम्यस्यप्रकारप्रकारिभावेऽपि सत्त्वात्। न च सर्वैरपि गुणैस्सर्वात्मना साम्यं विवक्षितत्। तथा सति व्यावर्तकधर्माभावेनाभेदापत्तेः। एतेन मुक्तौ परमसाम्यश्रवणात् प्रकारप्रकारिभावश्रुतिर्बद्धावस्थाविषयेत्यपीतिपूर्वपक्ष्याशयो निरस्तः। सर्वात्मना साम्यासम्भवात्।
तुलाधृतयोः स्वर्णशिलाशकल्योः परमसाम्योक्ताविवं विवक्षितांशे अत्यन्तसाम्यसत्त्वात्।।
संग्रहकारिके।।
अनुभवति स्वात्मानं मुक्तः परमात्मनः पृथग्भूतम्।
साहित्यसाम्यविषयश्रुत्यनुसारेण तत्क्रतुन्यायात्।।
एवं सति प्रकारप्रकारिभावादिवैधर्म्यम्।
बद्धावस्थामात्रेण तु मुक्तौ परमसाम्यसम्पत्तेः।।
मैवं तत्त्वमसीत्याद्यपरिमितश्रुतिमितार्थतत्वस्य।
दृष्टत्वात्स्वं ब्रह्माविभक्तमनुभवति तत्प्रकारतया।।
प्रकारभुतस्यापि स्योत्साहित्यं भोगक्रर्मणि।
अन्यथैव भवेत्साम्यं तेन तस्य विवक्षितम्।।
इति अविभागाधिकरणम्।।
ब्राह्मेण जामिनिरूपन्यालसादिभ्यः।।5।।
चितित्मात्रेण तदात्मकत्वादित्यौडुलोमिः।।6।।
एवमप्युपन्यासात्पूर्वश्रावादविरोधं बादरायणः।।7।।
ब्रह्मप्राप्तस्य स्वरूपाविर्भाव उक्तः। सकेनस्वरूपेणाविर्भाव इति श्रुतिद्वैध्याद्विचार्यते। तत्र विज्ञानमात्ररूपेणेति तावत्पप्राप्तम्। " स यथा सैन्धवखिल्योनन्तरोबाह्यः कृत्स्नो रसघनएवं वा अरेऽयमात्मानन्तरोबाह्यः कृत्स्नः प्रात्रानधन एवे " ति तस्य विज्ञानमात्रत्वश्रवणादपहतपात्मत्वादिश्रवणं मनश्शरीरदर्मपाप्मत्वाद्यनाश्रयत्वपरम्। सत्यकामत्वसत्यसङ्ल्पत्वश्रवणं संसारदशायां कदाचित्कस्य
सत्यकात्वादिपरमिति। एवं प्राप्तउच्यते-- ब्राह्मेण दहरविद्यायां ब्रह्मणि श्रुतेनापहतपाप्मादिगुणजातेनायमाविर्भावः
प्रजापतिविद्यां जीवेऽपि तदुपन्यासान्मुक्तवेव जक्षणादिश्रुतेश्च। न प्रज्ञानघनएवेत्यवधारणविरोधः। न हन तेन विज्ञानातिरिक्तरूपनिषेधः क्रियते। किं तु बाह्याभ्यन्तरभेदं विना सर्वत्र स्वप्रकाशबोधरूपत्वमुच्यते। तत्र दृष्टान्तानुगुण्यात्। न हि दृष्टान्ते सैन्धवशकले सर्वत्र प्रदेशे लवणरसव्याप्तिं विना रूपस्पर्शादिव्यावर्तनेऽपि तात्पर्यमस्ति। त्वगादिप्रदेशभेदेन चूतफलादेरिव प्रदेशभेदेन नानारसत्वं नास्तीत्येतावदेव हि तत्र विवक्षितम्। अत्र श्रुतिद्वयानुरोधात् कर्मबन्धरूपादिविद्याक्षये सत्यपहतपाप्मत्वनादिगुणजातेन विकसितज्ञानस्वरूपेणचायमाविर्भाव इति युक्तम्।।
संग्रहकारिके।
ब्राह्मेणविर्भावं गुणाषअटेनाह मुक्तस्य।
जैमिनिरथौडुलोमिस्तमाह विज्ञानमात्रतया।।
उभयविधश्रुतिदृष्टेरुभयातमतयेति सिद्धान्तः।
विज्ञानमात्रतात्विह कार्त्स्न्येन स्वप्रकाशत्वम्।।
सा मुक्तस्याम्नाता निवर्तिका नेतरगुणानाम्।
सैन्धवखिल्यस्य यथा रसघनताधवलतादीनाम्।।
इति बाह्याधिकरणम्।।
संकल्पादेव तच्छØतेः।।8।।
अतएवचाननन्याधिपतिः।।9।।
रसघन एवेत्यवधारणं न प्रमाणन्तरसिद्धस्य रूपादेरिव सङ्कल्पादेवेत्यवधारणं न लोकसिद्धस्य व्यापारान्तरस्य निवर्तकमिति शङ्कया सङगतिः। प्रजापतिविद्यायां " जक्षत्क्रीजन्रममाणः स्त्रीभिर्वा यानैर्वे " त्यादिना प्रतिपादिता ब्रह्मसम्पन्नस्य स्त्र्यादिप्राप्तिः किं सङ्कल्पमात्रसाध्या उत व्यापारान्तरसापेक्षेति संशये जीवसङ्कल्पानां सिद्धसङ्कल्पतया प्रसिद्धेषु सार्वभौमीदिष्वभिमतार्थनिष्पादने व्यापारान्तरापेक्षैव तस्य स्त्र्यादिप्राप्तिरिति। एवंप्राप्त उच्यते- सङ्कल्पमात्रसाध्या मुक्तस्य स्त्र्यादिप्राप्तिः। " स यदि पितृलोककामो भवति सङ्कल्पादेवस्य पितरस्समुत्तिष्ठन्ति स यदि स्त्रीलोककामो भवति सङ्कल्पादे स्त्रियस्समुत्तिष्ठन्ती" त्यीदिसावधारणश्रुतेः, " प्रज्ञानघनएवे " ति वदिहावधारणविरोधिश्रुत्यन्तराभावच्च। न च मुक्तस्यापि जीवत्वाविशेषाद्राजादिवत् कदाचिन्मोघसङ्कल्पताप्रसङ्गः स्वरसाद्भवतीति। तस्याकर्मवश्यत्वरूपानन्याधिपतिश्रवणात्।।
संग्रहकारिके।।
कर्माधीनत्वाच्च कदाचितद्सङ्कल्पमोघतायाः।
मुक्तानां ज्ञात्यादिप्राप्तिर्यत्नान्तरापेक्षा।।
सङ्कल्पमात्रसाध्यं राज्ञामपि न क्वचिद्दृष्टम्।
सङकल्पादेवेति ह्यवधारणबाधइकाश्रुतिर्नास्ति।।
तस्मात्सर्वेश्वरवत्तेषां सङ्कल्पामात्रजा सृष्टिः।।
इति सङ्कल्पादिकरणम्।।
अश्रावंबादिराह ह्येवम्।।10।।
श्रावं जैमिनिर्विकल्पामननात्।।11।।
द्वदशाहवदुङयविधं बादरायणोऽतः।।12।।
तन्वभावे सन्ध्यवदुपपत्तेः।।13।।
भावे जाग्रद्वत्।.14।।
प्रदीपवदावेशस्तथा हि दर्शयति।।15।।
स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि।।16।।
किं मुक्तस्य देहेन्द्रियाणि सन्ति उत न सन्ति। अथवा यथासङ्कल्पं सन्ति न सन्ति चेति विशये सति न सन्त्येन। "न हवै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वावसन्तं न प्रियाप्रिये स्पृशत "इति ह्याह श्रुतिः। अत एव तस्य शरीरात्समुत्थानमनन्तरमेव वदति "एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाये " त्यादिना। न च मुक्तस् स्वशरीरसृषअटौ तदर्थपित्रादिसृष्टौवाऽपेक्शा स्यात्। तदा तस्य ब्रह्मानुभवादन्यपरत्वं ब्रह्मणो निरतिशयभोग्यत्वहानिश्च प्रसज्येत। " स एकधा भवति त्रिधा भवती " त्याद्या#्मनानंत्वर्थवादमात्रम्। अणोर्जीवस्य युगपदनेकदेहव्याप्त्ययोगादिति पूर्वपक्षः।
सिद्धान्तस्तु-- मुक्तस्येच्छया शरीरिणि सन्ति न सन्ति च श्रुतिद्वयानुरोधात्। यथा " द्वादशाहमृद्धिकमा उपेयुः, द्वदशाहेन प्रजाकामं यदये " दिति श्रुतिद्वयदर्शनात् द्वदशाहश्चसत्राहीनोभयात्मकः। ननु विदेहावस्थायां कथं कामभोगः तदभावे कथं विदेहावस्थेच्छा। यदि मनोमात्रेण तदा भोगः तदा कदाऽपि देहापेक्षा न स्यादिति चेत् उच्यते। देहाभावे स्वप्नइवासूक्ष्मभोगः। तद्भावे जागररूपस्पष्टस्थूलभोगः। यदा मुक्तस्य शरीराद्युपकरणानि सन्ति तदा तानि तस्य सत्यसंकल्पत्वेऽपि तेनैव सृष्टानीति नास्ति नियमः। कदाचित् स्वप्न इव सर्वेश्वरसृषअटैः पितृलोकादिभिर्लीलारसं भुङ्क्ते कदाचिज्जागरइव स्वसृष्टैस्सर्वेश्रवसृष्टैश्च पित्राद्युपकरणैलीलारसं भुङ्क्ते। सर्वेशअवरो लीलर्थं दशरथवसुदेवादिपितृलोकादिकमात्मनस्सृष्ट्वा तैर्मनुष्यधर्मलीलादिकं यथा भुङ्क्ते, तथा मुक्तानामपि स्वलीलायै स्वपितृलोकादिकं स्वयमेव सृजन्तीति विशेषः। न चैतावता मुक्तस्य ब्रह्मानुभवादन्यपरत्वप्रसङ्गः। न हि ते स्वभोगलांपट्येन पित्राद्युपरकणादि सृजन्ति। किन्तु
सविभूतिकब्रह्मानुभावार्थं ब्रह्मविभूतिविशेषतयैव सृजन्ति। नन्वेवं सतियदाकभूतिकब्रह्मानुभूतावुत्कर्षापकर्षो स्यातामितिचेत्। नैषदोषः। सर्वस्यापि मुक्तस्य स्वसृष्टपरसृष्टातीतिनागतसकल विभूतिविशिष्टब्रह्मानुभूत्यङ्गीकारात्। नचाणोर्जीवस्य युगपदनेकदेहाधिष्ठानासंभवः। संसारदशायं सर्वाङागीणसुखानुभवोपपादकैकैदेहव्याप्तियोग्यस्येव मुक्तिदशायमनेकदेहव्याप्तियोग्यस्य धर्मज्ञानविकासस्य सद्भावात्। "बालाग्रशतभागस्य शतधाकल्पितस्य च। भागो जीवस्सविज्ञेयस्यचानन्त्याय कल्पत" इति मुक्तौ धर्मज्ञानविकासेनापरिच्छेदरूपानन्त्श्रवणात्। ननु "प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेदनान्तर"मिति श्रुत्या मुक्तस्य ज्ञानाभाव उच्यते। कथं तस्य ज्ञानविकासस्सार्वज्ञ्यञ्चोपेयते। नैषदोषः। तस्याः श्रुतेस्सुषुप्तिमरणान्यतरावस्थाविषयस्वात्। तयोरेवहि ज्ञानाभावः प्रसिद्धः। "नाहखल्वयमेव संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवती"ति सुषुप्तौ एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति न प्रेत्यसंज्ञास्ती"ति मरणे। मुक्तौतु सार्वज्ञ्यं स्पष्टमेवोच्यते-- "सर्वं हपश्यः पश्यति सर्वमाप्नोति सर्वश" इति। तस्मानुमुक्ताः स्वेच्छया सदेहा विदेहाश्च भवन्तीति सिद्धम्।
संग्रहकारिकाः।।
अपवर्गं प्राप्तानां न सन्ति देहास्तथाश्रवणात्।
सङ्कल्पात्पित्रादेस्सृष्ट्युक्त्याऽपि च न तत्सिद्धिः।।
देहे पित्रादौ वा भवन्त्यपेक्षाजुषौ यदि ते।
तेषा ब्रह्मनुभवानदन्यपरत्वं प्रसज्यते।।
ब्रह्मणि च भोग्यताय निरतिशयत्वं प्रहीयेत।
सन्ति न सन्ति च देहाः स्वकीयसङ्कल्पभेदतस्तेषाम्।।
पित्राद्युपकरणैस्सह सृजन्ति तान्नस्वभोगरसतस्ते।
भगवल्लीलान्तर्गतिमालोच्य सृजन्ति किं तु यथा।।
यत्तस्य दशरथादिस्रष्टुर्लीलेद्दशी द्दष्टा।
अणवोऽपि जीवदीपाश्चैतन्यैस्स्वप्रभारूपैः।।
युगपत्सृष्टान्देहान्बहूनपि व्याप्नुवन्ति तदा।
चैतन्यानि हि मुक्तौ प्राक्सकुचितानि कर्मगणैः।
संकोचकप्रहाणाव्द्याप्तिं यान्तीति सिद्धान्तः।
इति अभावाधिकरणम्।।5।।
जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च।।17।।
प्रत्यक्षोपदेशान्नितिचेन्नाधिकारिकमण्डलस्थोक्तेः।।18।।
विकारावर्ति च तथा हि स्थितिमाह।।19।।
दर्शयतश्चैवं प्रत्यक्षानुमाने।।20।।
भोगमात्रसाम्यलिंगाच्च।।21।।
अनावत्तिश्शब्दादनावृत्तिश्शब्दात्।।22।।
तदिदं मुक्तस्यैश्वर्यं सर्वेश्वरस्येव जगव्द्यापारसहितं उत तद्वर्जमिति संशये परमसाम्यश्रुतेर्जगव्द्यापारसहि- तमिति प्राप्तम्। न च सृष्चिनियमनादि प्रकरणेषु सर्वेष्वरस्यैव प्रकृतत्वात् मुक्तानामसन्निहितत्वाच्च तस्यैव सृष्ट्यादिव्यापारो न मुक्तानामिति वाच्यम्। श्येनप्रकरणे श्येनवदिषोरसन्निहितत्वेऽपि "समानमितरच्छ्येनेने"ति साम्यवचनात्तदीयवैशेषिकाङ्गानामिषाविव मुक्तानामीश्वरसाम्यवचनात्तदीयसृष्ट्यादिव्यापाराणां तेषु सिध्युपपत्तेः। "इमॉल्लोकान्कामान्नी कामरूप्यनुञ्चर"न्निति मुक्तानां लोकसञ्चारश्रवणात् ताद्दशसञ्चारस्य तत्तल्लोकगतवस्तुनियमनादिलीलार्थत्वाच्च। न च तत्तल्लोकगतफलभोगार्थं तत्स्यादिति वाच्यम्। ब्रह्मानन्दमनुभवतोऽपि विषयान्तरलिप्सया सञ्चारभ्युपगमे तस्य निरतिशयत्वभङ्गापत्तेः। न च मुक्तानां जगत्सृष्ट्यादिसत्त्वे सर्वथा सर्वेश्वरसाम्यापत्ते- "न तत्समश्चाभ्यधिकश्च द्दश्यत" इति श्रुतिविरोधः स्यात्। अतः साम्यं केनचिदेव रूपान्तरेणेति कंकोचनीयमिति वाच्यम्। साम्यश्रुतिविरोधात्तन्निषिधश्रुतिरेव संसारिषु ब्रह्मसाम्यनिषेधविषयेति संकोचोपपत्तेः। अधिकारवाक्यावगतफलविरोधेन "को हि तद्वेद यद्यमुष्मिल्लोकेऽस्ति वा नवेती"यस्येव "परमं साम्यमुपैती"ति फववाक्यविरोधेन साम्यश्रुतेरन्यथा नयनौचित्याच्च। "कारणन्तु ध्येय" इति श्रुतेर्जगत्कारमत्वविशिष्टब्रह्मोपासनस्य तत्क्रतुन्यायेन सृष्ट्यादिवर्जमेव मुक्तैश्वर्यं। जगत्कारणत्वस्य ब्रह्मलक्षणत्वश्रुत्वा जगत्स्रष्टुरेकत्वश्रुत्या च विरोधात्। तस्माद्यथाप्रकरणं सर्वेश्वरसाधारणं निखिलजगव्द्यापारः नत्वसन्निहितमुक्तसाधारणं। सर्वलोकसञ्चारोऽपि न नियमनार्थः। किं तु तत्तल्लोकगतभोगप्राप्त्यर्थः। "कामान्नीकामरूपी"ति विशेषणात्। न च मुक्तस्य जन्मवृध्द्यादिविकारवत् क्षुद्रभोगलिप्सया लोकपरिभ्रमणे तद्भोग्यब्रह्मानन्दस्य निरतिशयत्वहानिः। न हि संसारिवत् मुक्तस्य तत्तल्लोकभोगानुभवो लौकिकसुखतयेष्यते। किं तु मविभूतिकब्रह्मानन्दानुप्रविष्टतया। तत्क्रतुन्यायस्त्वसाधारणोपास्यधर्मातिरिक्तविषयः। जगत्कारणत्वन्तु लक्ष्मीपतित्वादिवदसाधारणं "तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" "अपएव ससर्जादौ तासु वीर्यमपासृज"दित्यादित्यादिश्रुतिस्मृतिभ्यां तथैव प्रतिपादनात्। अतः परमसाम्यश्रवणं सविभूतिकब्रह्मानन्दानुभव- रूपभोगसाम्यमात्रविषयम्। "सोऽश्नुते सर्वान्कामान्सह ब्रह्मण विपश्चिते"ति तन्मात्रश्रवणलिङ्गात्। एवं ब्रह्मासाधारणं जगव्द्यापारं मुक्तास्सत्यसंकल्पा अपि कथमाशसेरन्। ते च तेषां सत्यसंकल्पत्वादिगुणाश्च मुक्तावपि भगवत्परतन्त्रा इति हि "तस्य च नित्यत्वा"दिति द्वितीयाध्यायसूत्रेण प्रतिपादितम्। मुक्तानां सत्यसंकल्पताऽपि भगवत्परिचरणोपयोगिस्वदेहपित्राद्युपकरणसृष्टिमात्रविषयेति सर्वेश्वरस्य भगवतः पुरुषोत्तमस्यैव जगत्सृष्ट्यादिव्यापारः।।
संग्रहकारिकाः।।
ऐश्वर्यं मुक्तिभाजामपिनिखिलजगव्द्यापृतिव्यापकं स्या-
दाम्राता ब्रह्मणा यत्परमसद्दशता सत्यसंकल्पता च।
कामान्नीकारूपी सकलभुनसञ्चारशाली स्वराडि-
त्यादिष्टे यत्ततोपि स्फुटमिह चगतान्तादधीन्यप्रतीतिः।।
मैवं ब्रह्मप्रकरणगतास्सृष्टिसंहारमुख्याः
सम्बध्यन्ते कथमपि न तैस्सन्निधानप्रसङ्गे।
तत्तल्लोकप्रथितविषयाभोगभोगैकभावं
नैवाचष्टे नियमपितृतां लोकसञ्चारसूक्तिः।।
हेयाअपि मुक्तानां विकारलोकस्थिता भृशं भोगाः।
ब्रह्मविभूतितया स्युर्भोग्यास्सविभूतिकं तदनुभवति।।
मुक्तानां या सत्यसंकल्पतोक्ता तत्संकल्पाधीनसत्तैव साऽपि।
तेचान्ये ये तद्गुणास्सर्व एतेऽप्यापद्यन्ते सर्वदा तादधीन्यम्।।
एवं मुक्तावप्यचिद्वस्तु तुल्यं जीवास्सर्वे शेषतैकस्वभावाः।
इति जगव्द्यापारवर्जाधिकरणम्।।6।।
इति श्रीमद्भारद्वजाकुलजलधिकौस्तुभ श्रीमदद्वैतविद्याचार्य श्रीविश्वजिद्याजि-
श्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे नयमयूख-
मालिकाख्ये द्वितीयपरिच्छेदे चतुर्थस्याध्यायस्य चतुर्थः पादः।।
इति हयवदनपरब्रह्मणे नमः।।
।।अध्यायश्च समाप्तः।।
नयमयूखमालिका समाप्ता।।