वैयाकरणभूषणसारः (दर्पणव्याख्यासहितः)
वैयाकरणभूषणसारः (दर्पणव्याख्यासहितः) [[लेखकः :|]] |
वैयाकरणभूषणसारः
दर्पणव्याख्या
(मं-1)
रमाप्रेमाऽऽज्जज्जगदवनदक्षं मधुहृत-श्रुतिस्तोमाहृत्या परिजनितवेदाननमुदम्।
अखण्डानन्दाढयं निखिलजनहृत्कञ्जनिलयं हयग्रीवं वन्दे प्रकृतकृतिवनघ्नक्षतिकृते ।।
सत्येकस्मिन्नपि बाधके समवहितसाधकसहस्त्रादपि कार्योत्पत्तेरदर्शनादपेक्षितप्रारिप्सितप्रत्यूहापोहायानुष्ठितं भगवत्स्तुतिरूपं मङ्गलं ग्रन्थकृच्छिष्यशिक्षार्थमादौ निबध्नाति *श्रीलक्षमीरमणमिति*। अधिकरणव्युत्पन्नल्युडन्तरमणशब्देन कर्तृषठयन्तलक्ष्मीपदस्य समासः। तेन च श्रीसहितशब्दस्य मध्यमपदलोपी समासः, शाकपार्थिंवादेराकृतिगणत्वात्। तदुपादानञ्च सशक्तिकस्यैव भगवतो जगन्निर्माणकारणत्वमिति ध्वयितुम्। *नैमीति* "णु स्तुतौ" इति धातोरस्मच्शब्दाप्रयोगेऽपि गम्यमानतदर्थसामानाधिकरण्यस्य लकारार्थकर्त्तरि सत्त्वाद् वर्त्तमानक्रियाद्योतकलडुत्तमपुरुषः। `अस्मद्युत्तमः' (पाo सूo 1-4-107) इत्यत्र पूर्वसूत्रात् स्थानिनीत्यस्यानुवृत्तेः। स्तुतिश्चोत्कृष्टगुणवत्त्वप्रकारकबोधानुकूलो व्यापारः। स एव च प्रकृतधात्वर्थः। बोधरूपधात्वर्थफलाश्रयत्वाल्लक्ष्मीरमणस्य कर्मता। एवञ्च वैयाकरणमते प्रकते श्रीमहितलक्ष्मीरमणाश्रयकोत्कृष्टगुणवत्त्वप्रकारकबोधानुकूलो मदभिन्नश्रयको वर्त्तमानशब्धप्रयोगरूपो व्यापार इति वाक्यार्थः। नन्वेतच्छास्त्रप्रवर्त्तकत्वेन शिवस्याभ्यर्हिततरत्वात्तत्स्तुत्यात्मकमङ्गलमपि कुतो नाचरितमत आह *गौरीरमणरूपिणमिति*। स्वरूपपररूपपदेन गौरीरमणपदस्य षष्ठीसमासस्ततोऽदन्तत्वनिबन्धनो मत्वर्थोय इतिः। गौरीरमणो रूपं स्वरूपं यस्येति इति सूत्रे "असुब्वतः" इति प्रयोगमुदाहरता भाष्यकृताऽनादृतत्वान्न मत्वर्थोयानुपपत्तिः। दृश्यते चेदृशस्थले प्रयोगद्वैविध्यम्-
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे। इत्यादि।
तथाच तदभिन्नमित्यर्थः। प्रमाणं चात्रोक्तपुराणवाक्यमेव। एवञ्च कार्यवैचित्र्यस्य कारणवैचित्र्यनियम्यत्वाज्जगदवनादिकार्यवैचित्र्योपपत्तये तत्तद्गुणप्रधानमूर्त्तिपरिग्रहो भगवतो न पारमार्थिको भेद इति स्तुतिकर्मता शिवस्य नानुपपन्नेति भावः। उत्कृष्टगुणवत्त्वमेवाविष्करिति *यत इति* वादान्तिमते मायाशबलस्य ब्रह्मणो जगदुपादानत्वात् "जनिकर्त्तुः" (पाo सूo 1-4-30) इत्युपादानहेतावपादानसंज्ञानिबन्धना पञ्चमी। `गुण' इत्युक्तेः "विभाषा" (पाo सूo 2-3-25) इत्यस्य न प्रसक्तिः। तथाच यस्मादुपादानहेतोरित्यर्थः। सर्वं जगत् स्फोटरूपं विवर्त्तत इति योजना। स्फुटत्यभिव्यक्तीभवत्यर्थोऽस्मादिति स्फोटो नामाद्यत्मकः शब्दः। बाहुलकादपादाने धञ्, रूप्यते=निरूप्यते इति रूपमर्थः, तयोः समाहारद्वान्द्वे नपुंसकैकवचनान्तम्। वाच्यवाचकस्वरूपमिति तदर्थः। "नामरूपे व्याकरवाणि" (छान्दोग्ये 6-3-2) इति श्रुतेः *एतत्* अत्यन्तसान्निध्येन विषयीक्रियमाणम् *विवर्त्तते* उत्पद्यत इत्यर्थः, धातोरुपसृष्टत्वात्। ननु नामरूपात्मकस्य "सदेव सोम्येदमग्र आसीत्" (छान्दोग्ये 6-2-1) इति श्रुत्या सनातनत्वबोधनात् कथमुत्पत्तिशालित्वमत आह *जगदिति* वर्तमाने पृषत्" (उणादि सूo पाo 2 सूo 250) इति निपातनात्साधु। तथाच गच्छति=तिरोधत्त इति व्युत्पत्त्या तिरोधान उक्ते यत्तिरोधत्ते तदाविर्भवतीति नियमेनाविर्भावस्य लाभात्स एवात्रोपसृष्टार्थः। एवञ्चज सत्त्वेनैतस्य सनातनत्वेऽपि नामत्वादिनाऽऽविर्भवाद्यभ्युपगमान्नोक्तश्रुतिविरोधो नापि "तस्मादेतस्माद्वा आत्मत आकाशः सम्भूतः" (तैत्तिरीयके 2/1) इत्याद्युत्पत्तिबोधकतद्विरोधः। यत्किञ्चिन्नामरूपात्मकस्यान्यतोऽपि सम्भवादाह *सर्वमिति* यावदर्थकम्। उत्पत्तिरुपलक्षणम्-अवनादेः। तेन जगत्कर्तृत्वादिरूपोत्कृष्टधर्मस्य स्तुत्यताऽवच्छेदकस्य लाभः। अत्र च "यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्ति" (तैत्तिरीयके 3/1) इत्याद्याः श्रुतयः प्रमाणम्।
मतान्तरे यत इति पञ्चमी निमित्तहेतुतायाम्। व्युपसृष्टतुधातोराद्यक्षणसम्बन्धरूपोत्पत्तिरर्थः। ननु सर्वान्तर्गतवियदाद्यात्मकपदार्थस्यानादितया सथमुत्पत्तिमत्त्वमत आह *जगदिति* स्थावर-जङ्गमात्मकमित्यर्थः। तथाच गच्छति=नश्यतीति व्युत्पत्त्या विनाशित्वे बोधिते विनाशिभावस्य जन्यत्वनियमेव तस्योत्पत्तिर्न विरुद्धेति भावः। एतत्कल्पे स्फोटपदं शास्त्रानुमानप्रतीतिपरम्। तादृशं रूपं यस्येति व्युत्पत्त्या स्फोटरूपमिति भगवतो विशेषणं बोध्यम्। शेषं पूर्ववत्। यद्वा स्तुत्यताऽवच्छदेकरूपं प्रदर्शयितुं विशियितुं विशिनष्टि *स्फोटरूपमिति* वक्ष्यमाणव्युल्पत्त्या समस्तार्थप्रकाशकस्वरूपमित्यर्थः। तदुपपादयन्नेव स्तुत्यताऽवच्छेदकान्तरमपि दर्शयति *यत इति* यस्मादुपादानादिति सार्वविभिक्तिकर्तासना यस्मिन्नधिष्ठाने इति वाऽर्थः। विवर्त्तश्चातात्त्विकोऽन्यथाभावः। अपरित्यक्तपूर्वरूपस्य रूपान्तरप्रकारकप्रतीतिविषयत्वमितियावत्। जगच्छब्दश्च रूढया नामरूपपरः। तथाच यस्मिन्नधिष्ठाने एतत्सर्वं जगद् भूतेन्द्रियादि तत्तद्रूपेण प्रतिभातित्यर्थः। "नेह नानाऽस्ति" (काठके 2-4-11) इति श्रुत्या बोधितबाधस्यापि जगतः प्रतिभासे अधिष्ठानसत्ताया एव नियामकत्वात् समस्तार्थप्रकाशकत्वोपपत्तिरप्रच्युतस्वरूपस्यैव व्रह्मणो जगद्रूपेण विवर्त्तनादविकारित्वरूपोत्कृष्टधर्मावगतिश्च। अत्र च "तमेव भान्तमनुभाति सर्वम्" (काठके 2-5-14, मुण्डके 2-2-10) इत्याद्यः कूटस्थस्वरूपप्रतिपादिकाश्च श्रुतयः प्रमाणत्वेनानुसन्धेया इति भावः। अत्र भगवद्विषयकरतिभावस्य हेत्वलङ्कारोऽङ्गम् (मं-1)
(मं-2) जगदुपादानत्वेन स्तुत्वा अपवर्गसाधनज्ञानविषयत्वेनैतच्छास्त्रव्याख्यातृशेषभूषणत्वेन च स्तुवच्छेषोक्तसमास्तसिद्धान्तप्रतिपत्तये प्रार्थयते *अशेषेति* फलं प्रवृत्त्युद्देश्यम् स्वर्गादियत्किञ्चित्फलदातृत्वस्य देवतान्तरसाधारण्यादाह-*अशेषेति* तथाचापवर्गरूपफलस्याप्यशेषपदेन कुक्षीकृतत्वात् तद्दातृत्वस्यानन्यसाधस्ण्यात् प्रार्थ्यताऽवच्छेदकधर्मलाभः। तदेव विशदयति *भवाब्धीति* भव एवब्धिरिति रूपकम्, अब्धीयग्राहादिसदृशकामलोभाद्याक्रान्तत्वाद् दुरवगाहत्वेन भवे तदारोपः। तेन च भवस्य दुस्तरत्वं व्यज्यते। तस्य तरणं पारदेशप्राप्तिस्तस्मिन्नित्यर्थः * तरिम्* साधनम्। यद्यपि तरन्त्यनया इति व्युत्पत्त्या तरणसाधनं तरिपदार्थस्तथाऽपि तदघटकीभूततरणस्य सन्निहितपदेनैव लाभाद् द्विरुक्तिर्मा भूदिति विशेष्यमात्रपरतया व्याख्यातम्। सुक्तिसाधनज्ञानविषयमिति यावत्। मुक्तुश्च वेदान्तिमतेऽज्ञाननिवृत्तिसमकालास्वरूपप्राप्तिः। नन्वज्ञाननिवृत्तेरधिकरणानतिरिक्तायाः स्वरूपस्यापि च सिद्धत्वात्तद्रूपायास्तस्यास्तत्त्वाज्ञानसाध्यत्वानुपपत्तिरिति चेन्न, परेषां प्रागभावस्येव सिद्धाय एवाज्ञाननिवृत्तेर्योगक्षेमसाधारण्याः साध्यतायाः सम्भवात्। अधिकमन्यतोऽवधेयम्।
नैयायिकास्तु-आत्यन्तिकदुःखध्वंसो मोक्षः। ध्वंसे आत्यन्तिकत्वञ्च-स्वसमानाधिकरणदुःखासामानकालिकत्वम्। अत्रैव तत्त्वज्ञानस्योपयोगः। विशेष्यांशस्य स्वासाधारणसामग्रया एव सम्भवान्नित्यसुखाभिव्यक्तिर्वा स इत्याहुः।
*शेषशेषेति* कर्मधारयोत्तरपदः षष्ठीतत्पुरुषः। तस्य च लाभपदेन समासो लाभायेदमिति विग्रहे चतुर्थ्यन्तलाभपदस्यार्थपदेन सः। शेषः=पतञ्जलिः,शेषांशत्वात्तस्य। तथाच शेषोक्तभाष्यप्रतिपादितनिखिलसिद्धान्तज्ञानायेत्यर्थः। *शेषभूषणमिति* शेषोऽनन्तः, स भूषणं यस्येत्यर्थः। यतोऽस्य भूषणं शेषोऽतोऽस्य शेषोक्तसिद्धान्तलब्ध्यै प्रार्थनमिति साभिप्रायविशेष्यस्योपादानात्परिकराङ्कुरालङ्कारोऽत्र भगवद्विषयकरत्यङ्गम् (मं-2)
(मं-3) प्रेक्षावत्प्रवृत्तये इतरग्रन्थेभ्यः स्वग्रन्थस्योत्कर्षं प्रदर्शयन्नेव दर्शनीयविषयप्रयोजनसम्बन्धाधिकारिणां मध्येऽवश्यप्रदर्शनीयविषयं दर्शयति *पाणिन्यादिति* पुम्भाववाग्देवतामिति पितुर्विशेषणम्। पुंसो भावो यस्या इति व्यधिकरणबहुब्रीहिपूर्वपदकः कर्मधारयो वाग्देवतापदेन। अथवा पुम्भावशब्दोऽर्श आद्यजन्तः। तथाचाऽऽविष्कृतपुंविग्रहां सरस्वतीमित्यर्थः। *द्वैतध्वान्तेति* द्वाभ्यां प्रकाराभ्यामितिः=ज्ञातः=विरुद्धोभयधर्मप्रकारकज्ञानविषयो धर्मोति यावत्। यद्वा द्वयोर्भावो द्विता। स्वनिष्ठैकविशेष्यतानिरूपितप्रकारतासम्बन्धेन विरुद्धनानाधर्मांशे धर्मिणोऽपि भावत्वसम्भवाद् द्वितापदार्थोऽपि धर्म्येव, तत्र भवं द्वैतं संशयात्मकज्ञानम्। अथवा द्वयोरनेकस्य भावो द्विता नानात्वं तत्सम्बन्धिज्ञानं द्वैतम्, परमार्थदशायामद्वितीयस्यैव ब्रह्मणोऽङ्गीकारेण श्रुतिबाधितनानात्वोवगाह्यन्तः। करणवृत्तिविशेषरूपमविद्यऽपरपर्यायं मिथ्याज्ञानम्, तदेव ध्वान्तं तमः, तत्त्वाऽऽच्छादकत्वात्तन्निवारणमेकं मुख्यं फलं यस्यास्तामित्यर्थः। अनधिकारिणां स्वाश्रितानामेकतरकोटिकज्ञानोत्पादकत्वेनाधिकारिणां सन्मात्रावलम्बनज्ञानप्रदत्वेन पुम्भाववाग्देवतायास्तन्निवर्तवमिति भावः। *ढुण्ढिम्* गणपतिम्। प्रणम्येत्यनुषज्यते। *सिद्धान्तानिति* भाष्यकारदिनिर्णातार्थाः सिद्धान्तास्तानित्यर्थः। *उपपत्तिभि* साधकप्रमाणोपन्यासपूपाभिर्युक्तिभिरित्यर्थः *दूषये* उपपत्तिभिरेव बाधकप्रमाणोपन्यासरूपाभिरित्यर्थः।
एतेनान्यग्रन्थेभ्य स्वग्रन्थस्योत्कृष्टत्वं ध्वनितम्। तथाच वैयाकरणसिद्धान्तोऽत्र विषयः प्रदर्शितस्तेनैव तज्ज्ञानं प्रयोजनं प्रतिपाद्यप्रतिपादकभावः सम्बन्धः सिद्धान्तजिज्ञासुरधिकारीति त्रयोऽन्येऽपि दर्शितप्राया इति भावः (मं-3)
(1-1) ग्रन्थादावनुष्ठितस्य मङ्गलस्य तन्निबन्धनस्य च प्रयोजनमाह *प्रारिप्सितेत्यादिना* समाप्तये इति विहाय `प्रतिबन्धकोपशमनाय' इत्युक्तया अलोकिकाऽविगीतशिष्टाचारानुमितफलमङ्गलस्य विघ्नध्वंस एव फलम्, जन्मान्तरीयसमाप्तिमुद्दिश्य शिष्टानां मङ्गलाननुष्ठानान्मङ्गलसमाप्त्योः शरीरनिष्ठप्रत्यासत्त्यैव कार्यकारणभावस्य कल्पनीयतया तस्य च नास्तिकसमाप्तौ व्यभिचारेण समाप्तेस्तत्त्वासमभवात्, किन्तु कार्यमात्रं प्रति प्रतिबन्धकाभावस्य हेतुतया दुरीतरूपप्रतिबन्धकनिरासे एव मङ्गलस्योपयोगो न तु समाप्तावपि, विघ्नध्वंसेनान्यथासिद्धत्वात्, समाप्तिस्त्वन्यत्र क्लृप्ततत्कारणकलापादिति सूच्यते। *फणिस्मरणेति* फणी=शेषः। "शेषख्यं धाम मामकम्" इति भगवदुक्तेस्तत्स्मरणस्य विघ्ननिवारकत्वात्। मङ्गलस्य नतिस्तुत्यादिभेदेन नानात्वमिति सूचयितुं स्मरणेत्युक्तम्। *प्रतिजानीत इति* प्रतिज्ञाफलं तु शिष्यावधानं बोध्यम्। उद्धरणकर्त्रकाङ्क्षायामाह *अस्माभिरिति मूले* कथ्यते इति *हर्यादिनिबद्धकारिकाभिरिति शेषः (1-1)
(1-2) तत्र स्फोटस्यार्थबोधजनकत्वात् तेनैवाऽऽकाङ्क्षानिवृत्तेश्च वाक्यस्फोटस्य `वाक्यस्फोटोऽतिनिष्कर्षे' इत्यादिना सिद्धान्तयिष्यमाणत्वेऽपि प्रतिवाक्यं सङ्केतग्रहासम्भवात् तदान्वाख्यानस्य लघूपायेनासुकरत्वाच्च तत्र कल्पनया पदानि विभज्यतेष्वपि प्रकृतिप्रत्ययभागांस्तथैव प्रविभज्य कल्पिताभ्यामन्वयव्यतिरेकाभ्यां तत्तदर्थेष्वपि प्रकृतिप्रत्ययनामनादिसङ्केतबोधनद्वारा साधुत्वान्वाख्यायके महर्षिप्रणोते शास्त्रे प्रक्रियानिर्वाहाय पदवर्णस्फोटावपि सम्मताविति दर्शंयँस्तिङन्तार्थप्रधाने सुप्तिङ्चयादिरूपे वाक्ये धात्वर्थस्य प्राधान्यात्तमेवादौ निरुपयितुमाह मूले *फलव्यापारयोरिति* तत्र धातुरित्यस्य `स्मृताः' इति विशेषणम्; विभिन्नवचनान्तोपस्थापितत्वात्। विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्धसंख्याया अविवक्षायां विशेष्यविशेषणवाचकपदयोः समानवचनकत्वनियमात्। अत एव नीलो घटा इत्यादेर्न साधुत्वम्। तद्विवक्षायां तु `वेदाः प्रमाणम्' `जात्याकृतिव्यक्तयः पदार्थः' (न्यायसूत्रे-2-2-18) इत्यादौ विभिन्नवचनत्वमपि। न च प्रकृते तद्विवक्षायां बीजमस्तीत्यतो वचनविपरिणामेनान्वयं दर्शयति भूषणसारे *धातुरित्यत्रेति*
ननु यदुद्देशेन श्रुतेर्लोकतो वा प्रवृत्तिरवगता तत्त्वं पलत्वम्=अन्येच्छानधीनेच्छाविषयत्वमिति यावत्। यदुक्तं हरिणा-
यस्यार्थस्य प्रसिद्धयर्थमारभ्यन्ते पचादयः।
तत्प्रधानं फलं तेषां न लाभादि प्रयोजनम् ।। इति ।।
`स्वरितञितः' (पाo सूo 1-3-72) इति सूत्रेऽपि फलपदस्य प्रवृत्युद्देश्यमुख्यफले एव प्रसिद्धेः। तथाच तादृशफलस्य धातुवाच्यत्वे विक्लित्त्यनुकूलव्यापारदशायां तण्डुलस्य धात्वर्थतादृशफलाश्रयत्वाभावात् कर्मत्वानुपपत्तिस्तज्जन्यतादृशफलाश्रयस्य तदापत्तिंशचेत्यत आह-*फलम्-विक्लित्त्यादीति* अयमाशयः-फलपदस्य लोके रूढया तादृशार्थोपस्थापकत्वेऽप्यत्र पारिभाषिकार्थपरतैव। अन्यथा सकर्मकत्वादिव्यवहारो दुरुपपादः स्यादिति। तत्त्वञ्च तद्धात्वर्थजन्यत्वे। सति तद्धातुजन्योपस्थितिविषयत्वम्, तद्धात्वर्थत्वं वा। जन्यत्वं च जन्यत्वप्रकारकप्रतीतिवषयत्वम्। तेन सत्तादौ नाप्रसङ्गः। गम्याद्यर्थव्यापारजन्यविभागादावतिप्रसङ्गवारणाय विशेष्यम्, तदर्थव्यापारेऽतिप्रसक्तिनिरासाय च सत्यन्तम्। तच्च विक्लित्त्यादीनामक्षतम्, तस्यापि प्रकृतपच्यादिशक्यता तत्तद्रूपेणैव तथाबोधस्य सर्वानुभवसिद्धत्वात्, धातुत्वादिकमजानतोऽपि तद्वोधाच्चेति भावः।
परे तु कर्तृप्रत्ययसमभिव्याहारे तद्धात्वर्थजन्यत्वे सति तद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतावत्त्वम्। जन्यता चाऽऽरोपिताऽनारोपिता वेत्यन्यदेतत्। विभागजन्यसंयोगादिरूपे पतत्यर्थे विभागसंयोगयोः फलत्ववारणायोभयम्। कर्माख्याते फलस्य विशेष्यतयैव भानात्तत्रातिप्रसङ्गवारणाय कर्तृप्रत्ययसमभिव्याहार इति वदन्ति, तच्चिन्त्यम्, अनुगतफलत्वानिरुक्तेः। विभागजन्यसंयोगो (निरवयवत्वात्प्रत्यक्षत्वात्) पतत्यर्थत्वाभावस्य वक्ष्यमाणतया व्यावर्त्त्याऽप्रसिद्धेश्चेत्यधिकमग्रे वक्ष्यते।
ननु व्यापारत्वं न फलप्रयोजकक्रियात्वम्, आत्माश्रयात्, क्रियात्वस्यैव हि तत्त्वाद्, दण्डादिव्यापारस्यापि धात्वर्थत्वापत्तेश्च। नचेष्टापत्तिः, धात्वर्थव्याणराश्रयस्यैव कर्तृताया वक्ष्यमाणतया तदाश्रयस्य दण्डादेः कर्त्तुराख्यातेनाभिधानाद् `दण्डेन देवदत्तः पचति' इत्यादौ दण्डादिपदोत्तरं तृतीयाऽनापत्तेः, प्रथमापत्तेश्च। कर्तृकरणसंज्ञयोराकडारीयतया संज्ञाद्वयसमावेशासम्भवेनाभिमतकरणसंज्ञायाः परया कर्तृसंज्ञाया बाधात्। किञ्च, प्रयोजकत्वं यदि साक्षाज्जनकत्वं, तदा `पचति' इत्यादौ कर्तृव्यापारस्य धात्वर्थत्वानापत्तिः, तस्य करणव्यपारद्वारैव फलजनकत्वात्। यदि जनकाजनकसाधारणं तदा तण्डुलक्रयाणस्यापि फलप्रयोजकक्रियात्वात् तद्दशायामपि देवदत्तादौ `पचति' इति प्रयोगापत्तिः, तण्डुलादिक्रयणादिव्यावृत्तस्य तादृशप्रयोजकत्वस्य निर्वक्तुमशक्यत्वाच्च। अत एव न तज्जन्यत्वे सति तज्जन्यजनकत्वरूपं तन्त्रान्तरप्रसिद्धंतत्। तदवच्छिन्नस्य धातुवाच्यत्वे साक्षाद्विक्लित्तिजनकान्तिमाग्निसंयोगदशायामेव 'पचति' इति प्रयोगः स्यान्नत्वधिश्रयणादिदशायामपि, तेषमन्तिमाग्निसंयोगेनान्यधासिद्धतया विक्लित्त्यजनकत्वादित्यत आह *व्यापारस्त्विति*।
साध्यत्वेनेति विशेषणे तृतीया। तथाच पदान्तरसमभिव्याहाराप्रयोज्यसाध्यत्वप्रकारकाऽभिधानविषयत्वं व्यापारत्वमित्यर्थः। अभिधानस्य प्रकारतावत्त्वं विषयतानिरूपकत्वं चौपचारिकम्। तादृशसाध्यत्वप्रकारकप्रतीतिविषयत्वमिति यावत्। 'घटं करोति' इत्यादौ कृञ्समभिवयाहारे घटादीनामपि साध्यत्वेन प्रतीतेरतिप्रसङ्गभङ्गाय पदान्तरसमभिव्याहाराप्रयोज्येति। प्रतीतिविशेषणम्, तदसमभिव्याहारे तेषां तत्त्वेनाप्रतीतेः। अधिश्रयणाद्यधःश्रयणपर्यन्तक्रियाकलापस्य पदान्तरसमभिव्याहारमन्तरेणापि साध्यत्वेन प्रतीयमानत्वादुक्तव्यापारत्वमविकलमिति तदवच्छिन्ने पच्यादिधातुवाच्यता नानुपपन्नेति भावः।।
उक्तर्थस्य स्वोत्प्रेक्षितत्वं निरस्यति *उक्तञ्चेति* यावदिति*। सर्वमित्यर्थः। सर्वपदार्थमेव विवृणोतिसिद्धमित्यादि। सिद्धम्=विद्यमानध्वंसप्रतियोगि, `अपाक्षीत्' इत्यादौ। असिद्धम्=भूतभिन्नं वर्त्तमानम्, तादृशप्रागभावप्रतियोगि च, `पचति'`पक्ष्यति' इत्यादौ। *साध्यत्वेन* वक्ष्माणस्वरूपेण। *अभिधीयते* तत्प्रकारकप्रतीतिविषय इत्यर्थः। क्वचिद्विवक्ष्यते इति पाठः।
एतेन क्रियाशब्दस्य रूढिः प्रदर्शिता। यौगिकत्वमप्याह *आश्रितेति* आश्रितं क्रमरूपं यस्यास्तत्त्वात् पूर्वापरीभूतावयवकत्वादित्यर्थः। तदीयाऽवयवानामधिश्रयणाद्यधः श्रयणपर्यन्तानां क्रमेणोत्पत्तेः क्रियापदेन सा उच्यते। यत्र च न क्रमिकावयवको व्यापारस्तत्र रूढिरेवादरणीया, पौर्वापर्यारोपो वा। फलस्यापि स्वजनकव्यापारगतपौर्वापर्यारोपेण तथैव भानम्। अत एव तन्मात्रवाचकस्य धातुत्वसिद्धिरिति भावः। *पाक इति* यद्यपि साध्यत्वेनोपस्थितिरप्यत्र कथमन्यथा `स्तोकं पाकः' इत्यादौ स्तोकादीनां कर्मता, तथाऽपि तत्र धातूपस्थाप्यभावस्य गुणतया प्रधानीभूतघञुपस्थाप्यस्य तस्य सिद्धतैवेत्याशयः। पर्यवसितार्थमाह *तथा चेति* क्रियान्तरेति* अयमाशयः-यद्धर्मवत्ताज्ञानात् क्रियान्तराकाङ्क्षोदयस्तादृशज्ञाने प्रकारतयाऽवच्छेदकं यत्तसिद्धत्वम्, तद्भिन्नत्वं ज्ञाननिष्टतादृशाऽऽकाङ्क्षोत्थापकत्वाभावावच्छेदकं वा साध्यत्वम्। साध्यत्वज्ञानस्य तु नाकाङ्क्षाप्रतिबन्धकत्वम्, क्लृप्तकारणाभावादेव तदनुत्पादात्। न च क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकधर्मरूपसाध्यत्वेन धात्वर्थोपस्थितौ `कृष्णं नमेच्चेत् सुखं यायात्' इत्यादावाकाङ्क्षाभावेन क्रियान्तरान्वयो न स्यादिति वाच्यम्, तत्रापि चेत्पदसमवधानेनाकाङ्क्षोत्थापनात्। हिरुगादीनां क्रियार्थकत्वव्यवहारस्तु क्रियामात्रविशेषणत्वात्, अत एव न हिरुगाद्यर्थे कारकाणामन्वयः, तेषां तदर्थस्य क्रियान्तरसाकाङ्क्षत्वादिति।
वस्तुतस्तु, सिद्धत्वज्ञाने साध्याकाङ्क्षावत् पच्याद्यर्थे साध्यतयाऽवगते `किमस्य साधनम्' इत्याकाङ्क्षोदयेन साधनाकाङ्क्षोत्त्थापकतावच्छेदकरूपत्त्वमेव साध्यत्वम्। अत एव `एतदेवादाय' इत्यग्रिमग्रन्थसङ्गतिः, अन्यथा पचति भवतीत्यादौ पूर्वोक्तरूपाभावेन तदसङ्गतिः स्पष्टैव।
उक्तञ्च हरिणा-
प्रयोगार्हेषु सिद्धः सन् मन्तव्योऽर्थो विशेषणैः।
प्राक् च साधनसम्बन्धात् क्रिया नैवोपजायते ।। इति ।
साधनं हि क्रियां निर्वर्तयति `सुट् कात्' (पाo सूo 6-1-125) इति सूत्रस्थभाष्यमप्येतकल्पेऽनुगुणमित्यवधेयम्।
केचित्तु, पचतीत्यनुगतव्यवहारादस्ति पचित्वादिकं जातिः। तथा च क्रमिकानेकव्यक्तिवृत्तिजातिरेव क्रिया। साध्यत्वञ्च तस्या व्यक्तिद्वारकमेव। स्फोटवदस्याः क्रमवद्भिः क्षणैवभिव्यक्तिः।
जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्तिनीम।
असाध्या व्यक्तिरूपेण सा साध्येवोपलक्ष्यते।।
इति वाक्यपदीयं चाऽत्र कल्पे मानमित्याहुः।
साध्यत्वासत्त्वभूतपदयोः पर्यायतामाह *तद्रूपवत्त्वमिति*। *एतदेवेति* निरुक्तरूपसत्त्वभूतत्वमेवेत्यर्थः *असत्त्वभूत इति* `भावप्रधानमाख्यातम्' (निरुक्ते 1 अo 1 खo) इति निरुक्तार्थप्रतिपादकमेतत्। सत्त्वस्वभावमापन्ना व्यक्तिर्नामभिरुच्यते।
इति अस्य पूर्वार्द्धम्। *भावश्चेति*। चोऽवधारणे। उक्तभाव एवेत्यर्थः तेन सत्त्वभूतस्य तस्य व्यवच्छेदः। तिङ्पदैरिति बहुवचनस्वारस्वेन तिङन्तपदैरित्यर्थः *अभिधीयते* बोध्यते इत्यर्थः। अभिधियते इत्यस्य प्राधान्येनैवेति शेषः। तेन कृदन्तपदैरसत्त्वावस्थभावाऽभिधानेऽपि न क्षतिः। तिङ्पदैरिति भावाऽऽख्याताभिप्रायेणेति कश्चित्।
*अयं चेति* साध्यत्वेन प्रतीयमानो व्यापारश्चेत्यर्थः। *वाच्य इति* पचत्यादशक्य इत्यर्थः। *अनुभवसिद्धत्वादिति*। अत एव व्यजनादिना वह्निप्रज्वलनदशायां फूत्कार एव गृहीतशक्तिकस्य न पचतीति प्रयोगः। यागः, इच्छा, ज्ञानं वेति विप्रतिपत्तिस्तु स्वीयबोधानुसारादेवेति भावः। *न च नानेति* नानाधर्मवच्छिन्नशक्तिनिरूपकतावच्छेदकैकधर्मवत्त्वं नानार्थत्वम्। तच्छ पच्यादावक्षतमिति भावः। फलांशमादाय तत्त्वं त्वाशङ्कितुरपीष्टमेवेति बोध्यम्। *बुद्धिविशेषादेरिति* स्वनिरूपितविषयतावच्छेदकत्वसम्बन्धेनेति शेषः। बुद्धिविशेषविषयतावच्छेदकत्वस्येति यावत्। अयं भावः-तदादिभ्यश्चैत्रत्वादितत्तद्रूपेण बोधः सर्वानुभवसिद्धः। स च चैत्रत्वाद्यनुगमकधर्मं विनाऽनुपपन्न इति बुद्धिविशेषविषयतावच्छेदकत्वं तदनुगमकधर्ममङ्गीकृत्य तदनुगतीकृततत्तदवच्छिन्नेषु चैत्रादिषु तदादीनां शक्तिः। बुद्धिविशेषविषयतावच्छेदक्वस्योपलक्षणत्वोपामाच्च न चैत्रत्वादीनां तेन रूपेण शाब्दबोधे भानापत्तिः। अननुगतनानाधर्माऽवच्छिन्नशक्तिनिरूपकताऽवच्छेदकैकधर्मवत एव नानार्थत्वम्, न तेषां तदिपीति तदादिशक्तिनिरूपणे निर्णितमन्यत्र, तद्वदिहाप्यवसेयमिति।
ननु पूर्वापरीभूतक्षणनश्वरक्रमिकव्यापाराणां मेलनाऽसम्भवात्तदात्मकक्रियाया अनैक्याद् `एका च क्रिया' इति "प्रशंसायाम्" (पाo सूo 4-2-66) इति सूत्रस्थभाष्यासङ्गतिरत आह *आख्यातेति*। निर्विभक्तिकः पाठः साधुः। आख्यातप्रतिपाद्यक्रियैकत्वव्यवस्थापीत्यर्थः। सविभक्तिकपाठे सप्तमी वैषयिकाधारे अध्याहृतज्ञानक्रियामादायबोध्या। *बुद्धिविशेषैक्यमिति* संकलनरूपबुद्धिविशेषात्मकविच्छेदकैक्यमादायेत्यर्थः। तथा चावयवाऽऽश्रयं पौर्वापर्य्यम्, समुदायाश्रयमेकत्वमादाय तत्सङ्गतिरिति भावः। तत्र मानमुपन्यस्यति *उक्तञ्चेति*। *गुणेति* क्रमिकैतद्व्यपारसमूहं प्रति गुणभूतस्तत्तद्रूपेण भासमानैरवयवैरुपलक्षितः सङ्कलनात्मकैकत्वबुद्धया प्रकल्पितोऽभेदो यस्य तद्रूपः समूहः क्रियेति व्यवह्रियते इति कारिकार्थः। तत्र क्षणनश्वराणां व्यापाराणां वस्तुभूतसमुदायाऽभावाद् बुद्धयेत्युक्तम्। निरूप्थेत्यस्य सङ्क्षेपेणेत्यादिः। प्रधानीभूतप्रकृत्यर्थनिरूपणानन्तरं विशेषणप्रत्ययार्थस्याऽवश्यवक्तव्यतयाऽवसरसङ्गत्या तन्निरूपणमित्यभिप्रेत्याह *तिङर्थमिति। अन्यलभ्यत्वादिति* `अनन्यलभ्यो हि शब्दार्थः' इति न्यायादिति भावः। एतेन कृतिमतो व्यापारवतो वा कर्तुः शक्यत्वेऽनेककृतिव्यापाराणां शक्यताऽवच्छेदकत्वकल्पने गौरवमिति नैयायिकाद्युक्तं दूषणमस्मन्मताऽज्ञानविजृम्भितमिति सूचितम्।
नन्वाश्रयस्य तिङ्र्थत्वे आश्रयत्वं शक्यतावच्छेदकं वाच्यम्। तस्य च स्वरूपाऽभिन्नतया नानासम्बन्धाऽवच्छिन्नतया च नानात्वादननुगमोऽत आह *शक्यतावच्छेदकं चेति। *वक्षयते इति* अस्य द्वितीयार्थनिरूपणाऽवसर इति शेषः। तथा च तत्राऽखण्डोपाधिरूपस्यानुगतस्य वक्ष्यमाणत्वान्न तत्र नानात्वप्रयुक्तो दोष इति भावः।
मीमांसकादिमतं प्रबलप्रमाणेन निराकरिष्यन् कर्तृकर्मणोरुक्तं तिङर्थत्वं व्यवस्थापयितुं शङ्कते *नन्विति* ननु `यद् यद्वोधकं तत्तदर्थकम्' इति नियमादाख्यातजन्यकर्त्तृ कर्मप्रतीतिरेव मानमत आह *प्रतीतेरिति*। सम्भवादित्यनेनान्वितम्। सम्भवहेतुमाह *लक्षणयेति*। नन्वाख्यातस्याऽऽश्रयलक्षकत्वे भावनाभानानुपपत्तिस्तदुपपत्तये तत्र तस्य शक्तिकल्पने तु नाऽश्रये लक्षणासम्भवः, युगपद्वृत्तिद्वयविरोधात्। भावनाश्रयत्वेन भावनाश्रये लक्षणायां तु भावनायाः प्राधान्यानुपत्तिरत आह *आक्षेपादिति*। आक्षेपोऽनुपपत्तिस्तत इत्यर्थः। तथा हि-अन्विताभिधानवादिमते पदानां विशेषणत्वेनैवार्थोपस्थापकतयाऽऽख्यातार्थभावनाया विशेषणत्वाऽनुपपत्त्या भवति तस्य आश्रयाऽऽक्षेपकत्वम्। यद्वा, अनुमानं सः। तत्प्रयोगश्च-`आख्यातपदबोध्या भावना, किञ्चिदाश्रिता, विशेषणत्वेन गृहीतशक्तिकत्वात्। घटपदबोध्यघटत्ववत्' इति। समानसंवित्संवेद्यत्वं तु नाऽऽक्षेपः, प्रमेयमित्याश्रयभाने भावनाया अभानात्, भावनापदजन्य भावनाबोधे अश्रयाऽभानाच्चेति।
ननु व्याप्त्यादिप्रतिसन्धानं विनाऽप्याश्रयबोधस्यानुभवसिद्धत्वान्नाक्षेपादाश्रयभानोपपत्तिः, क्वाचित्कत्वात् तथाभानस्य। किञ्चोक्तरीत्या तद्भानसमर्थने आख्यानजन्यबोधे भावनायाः प्राधन्यानुपपत्तिः, शक्तिग्रहे तस्या विशेषणत्वेनैवोपस्थितत्वाद् घटत्ववत्, एतत्तत्त्वस्य विचाराऽसहत्वाच्चेत्यत आह *प्रथमान्तपदाद्वेति* समभिव्याहृतप्रथमान्तचैत्रादिपदादेवाश्रययप्रतीत्युपपत्तेरित्यर्थः। एवञ्च नाश्रयप्रतीत्यनुपपत्तिराश्रये आख्यातशक्तिसाधिकेति भावः।
*मानमिति* यद्यप्याश्रयत्वेनाश्रयभानार्थं तत्राख्यातस्य शक्तिरावश्यकीत्येवोत्तरं वक्तुमुचितं तथाऽपि धातोः फलव्यापारयोः शक्तिराख्यातस्याश्रयत्वे शक्तिरिति मते आश्रयस्य आश्रयत्वेनापि लाभान्न सामान्यत आश्रये स्वाभिमताख्यातशक्तिः सिद्ध्यतीति तन्मनिरासार्थमपि सूत्रं प्रमाणत्वेनोपन्यस्तमिति बोध्यम्। ननु कर्तृपदाघटितमिदं सूत्रं कथमाख्यातस्य कर्तृवाचकत्वे मानमित्याशङ्कां निरस्यति *अत्र हीति* नन्वेतत्सूत्रं लकाराणामेव कर्त्रादिशक्तिबोधकं नाख्यातस्येत्यत आह *बोधकतारूपामिति* बोधजनकत्वरूपामित्यर्थः। इदं चादेशिष्वेव शक्तिरादेशानामादेशिस्मृतिद्वाराऽर्थोपस्थापकत्वमिति मतनिरासायोक्तम्। यथा चैतत् तथा वक्ष्यते। *विधियन्ते इति* तथाच वर्णस्फोटपक्षे श्रूयमाणवर्णानामेव वाचकताया व्यावस्थापयिष्यमाणतया `ल कर्मणि' इत्यादिसूत्राणां तिबादिशक्तिग्रहे एव तात्पर्यावधारणेन सम्भवति तस्याऽख्यातशक्तिसाधकप्रमाणत्वमिति भावः। *नकारविसर्गादीति* `रामान्' `रामैः' इत्यादावित्यर्थः। *कर्तृर्मपदे इति* अस्यानुवृत्तोपात्ते इत्यादिः। *कर्तृत्वकर्मत्वपरे इति* आकृतिशक्तिवादनभिप्रेत्य भावप्रधाननिर्द्देशाद्वेति भावः। *कर्तृत्वम्-कृतिरिति* कृञो यत्नवाचकत्वेन तत्प्रकृतिककर्त्रर्थकतृजन्तकर्तृशब्दस्य कृत्याश्रयवाचकतया तदुत्तरभावप्रत्ययेन प्रकृत्यर्थप्रकारीभूतकृतिरूपपधर्मबोधनादिति भावः। *कर्मत्वञ्च फलमिति* कर्मशब्दस्य धात्वर्थफलाश्रये पारिभाषिकत्वादिति भावः। *शङ्कयमिति* तथाच तत्सूत्रबलान्न कर्तृकर्मणोराख्यातशक्तिः सिद्धयतीति भावः।
*दर्शनान्तरीयेति* दर्शनं शास्त्रं न्यायादिः, अन्यद्दर्शनं दर्शनाऽन्तरं तत्र भवा दर्शनान्तरीया, गहादित्वाच्छः। `पचति' इत्यस्य पाकं करोतीति विवरणात् फलं पच्याद्यर्थस्तिङ्तु व्यापारवचन इति मीमांसका मन्यन्ते। तन्मते व्यापारस्यान्यलभ्यत्वाभावात्तत्र लकारविधौ न किञ्चिद् बाधकम्। यद्यप्युक्तरीत्या व्यापारे शक्तिसिद्धावपि फलशक्तिबोधकं कर्मणीत्यनुपपन्नमेव, तथाप्यभिधानाऽभिधानव्यवस्थार्थं तदप्यावश्यकमेव, द्वेधां भानं तु कथञ्चित् परिहरणीयमिति भावः। *कृतामिति* कृत्संज्ञकानां ण्वृल्तृजादीनामित्यर्थः। ननु `कर्त्तरि कृत्' इत्येव तत्र शक्तिसाधकमत आह *कर्तरि कृदिति चेति * तत्सूत्रादेव च कर्तरीति अत्रानुवर्त्तते। तथाच पूर्वसूत्रस्थकर्तृपदस्य धर्मिपरत्वमेव, अत्र धर्मपरतायां तु तत्रापि धर्मपरतैव स्यात्। तदेवाह *तुल्ययोगक्षेममिति* अलब्धलाभो योगः, लब्धरक्षणं क्षेमम्। एवञ्च `लः कर्मणि' इत्यस्यानन्यलब्धभावनाया आख्यातार्थत्वप्रतिपादकत्वोपगमे न्यायसाम्यात्, कर्तरि कृत्' इत्यस्यापि कृतां भावनार्थत्वप्रतिपादकत्वम्। तस्या आक्षेपादेव लाभान्न कृतां तच्छक्तिप्रतिपादकं तदिति यदि, तर्हि `लः कर्मणि' इत्यपि नाऽऽख्यातस्य भावनासक्तिप्रतिपादकमिति समानमित्यर्थः।
ननु पूर्वसूत्रस्थकर्त्तृपदस्य धर्मिपरत्वेऽप्यनुवृत्तस्य तस्य शब्दाधिकाराऽऽश्रयणेन धर्मपरत्वसम्भवान्नोक्तदोषः। यदि च शब्दाधिकाराऽऽश्रयणं सत्येव गमके, प्रकृते च तदाश्रयणे प्रमणाभाव इति विभाव्यते, तदाऽपि `शक्तिः कारकम्' `शक्तिमत्कारकम्' इति पक्षद्वयस्याप्याकरसिद्धतया तद्विकल्पस्य तिङ्कृतोर्व्यवस्थितत्वाश्रयणादर्थाधिकाराश्रयणेऽप्यभिमतार्थलाभोऽक्षत एवेत्यत आह *अपि चेति* तथाच विकल्पव्यवस्थाया एवाप्रामाणिकत्वेनैकार्थपरतैव न्याय्येति भावः। नन्वाख्यातस्य व्यापारावाचकत्वे कथं ततस्तद्बोधोऽत आह *भावनाया इति*। *कृदादिवदिति* `तत्र तस्येव' इति वतिः, कृदादिस्थले इवेत्यर्थः। आदिपदात् कर्त्तविहिततद्धित इत्यादेः परिग्रहः। तथाच भवन्मते धातोर्व्यापारावाचकत्वेन कृदर्थकर्त्राक्षिप्तभावनाया बोधविषयत्वं तथाऽऽख्यातेऽपीति भावः। *तथा सतीति* भावनाया आख्यातावाच्यत्वे सतीत्यर्थः। *तस्या* भावनायाः। *प्राधन्यम्* *मुख्यविशेष्यत्वम्। *घटमानयेति* `जातिः पदार्थः' इति मते जात्याक्षिप्तव्यक्तेर्यथा प्राधान्यं तथा कर्त्राक्षिप्तभावनाया अपि प्राधान्यमुपपत्स्यत इत्यर्थः। शक्तिग्राहकेषु परिगणिताद्विवरणाद्भावनावाचकत्वमाख्यातस्याऽऽप्यास्यतीत्याशङ्कते *भावनाया इति* *विवरणेति* तत्समानाऽर्थकपदाऽन्तरेण तदर्थकथनस्य विवरणतया प्रकृते पचतीत्यस्य पाकभावनेत्याख्यातस्य भावनापदेन विवरणात्तस्य भावनावाचकत्वमित्यर्थः। विवरणस्य स्वस्वबोधानुसारितया न तेनाऽर्थनिर्णय इत्याह *पाकाऽनुकूलेति* पचतीत्यस्यैककर्त्तृका पचिक्रियेति कर्त्तुर्विवरणस्याऽपि दर्शनेनाऽख्यातस्य भावनायां शक्तिरुत कर्त्तरीत्यत्र विनिगमकाऽभावादिति भावः। *इतरेतरयोगद्वन्द्व इति *समाहारद्वन्द्वे उत्तरपदलक्ष्याऽर्थसमाहारस्य चशब्देन विवरणादुक्तमितरेतरेति। धवखदिरावित्यादिद्वन्द्वघटकपदाऽशक्यसाहित्यस्य विग्रहवाक्यस्थचशब्देन विवरणवदित्यर्थः। इदं चाऽन्वयप्रयोजकरूपवत्त्वं योग्यता। एवञ्च, घटेन जलमाहरेत्यत्र जलाऽहरणप्रयोजकतया छिद्रेतरत्ववत् प्रकृते द्वित्वाऽन्वयप्रयोजकतयाऽपदार्थसाहित्यस्याऽपि भानमित्यभ्युपेत्योक्तम्। तत्र साहित्यस्य द्वित्वाऽऽद्यतिरिक्तस्याऽननुभवात्तस्य द्विवचनादिनैवोपस्थितेर्न तत्र समासघटकप्रत्येकपदवृत्तिः। तस्यैव चेन विवरणमिति मताऽन्तरन्तु वक्ष्यते। *तुल्यत्वादिति* भावनापदेनाऽऽख्यातस्य विवरणमप्यपदार्थविवरणमित्यस्यापि वक्तुं शक्यत्वादित्यर्थः। स्वस्वबोधाऽनुसारिविवरणस्य नाऽर्थनिर्णायकत्वमित्यप्युभयोः। समानमिति भावः।
नन्वाख्यातस्य कर्त्तृवाचित्वे तदाक्षिप्तभावनायाः प्राधान्याऽनुपपत्तिः। न चाकृतिवादे जात्याक्षिप्तव्यक्तिवत् प्राधान्यमुपपादितमेवेति वाच्यम्,दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यात्, तथाहि-कर्त्रा स्वस्वरूपनिरूपकतया भावनाऽऽक्षेप्तव्या,भावनाविरहिणः कर्त्तृत्वासम्भवात्। ततश्च धर्मिग्राहकमानसिद्धगुणत्वेन प्राधान्याऽसम्भवः कृतीव। जात्या तु परिच्छेद्यतयाऽवगतस्य द्रव्यस्य तथैवाऽऽक्षेपाद् भवति तस्य प्राधान्येन भानमिति प्राधान्याऽनुरोधाद्भावनाया वाच्यत्वमावश्यकमित्यो दूषणाऽन्तरमाह *किञ्चेति*। अभेदाऽन्वयदर्शनादिति* देवदत्तऽभिन्नैककर्त्तृको वर्त्तमानो व्यापारः इत्याकारकबोधस्याऽऽकरसम्मतत्वादित्यर्थः। *तदनुरोधेनेति* अभेदाऽन्वयाऽनुरोधेनेत्यर्थः। *आवश्यकमिति* अन्यथाऽनुभूयमानतादृशबोधाऽपलापाऽऽपत्तिरिति भावः।
*नियामकमिति* तद्विभक्त्यन्तनामार्थनिष्ठाऽभेदसंर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति तद्विभक्त्यन्तपदजन्योपस्थितेर्हेतुत्वस्य `नीलो घचः' इत्यादौ क्लुप्तत्वादित्यर्थः। *तच्चेति* अभेदान्वयबोधप्रयोजकसमानविभक्तिकत्वं चेत्यर्थः। *अत्र* देवदत्तः पचतीत्यादौ। तादृशनियमव्यतिरेकव्यभिचारस्थलानि दर्शयति-
- सोमेन* इत्यादिनाः-
नन्वत्र यागे सोमस्य करणत्वेनैवान्वयात् कथमुक्तनियमस्य व्यभिचार इति चेन्न, सोमस्य यागभावनायां करणत्वेनाऽन्वये यागस्याऽपि करणत्वेनैवाऽन्वयात् `सोमेन यागेनेष्टं भावयेत्' इत्युभयविधाने वाक्यभेदप्रसङ्गः। सोमस्य यागवत् फलभावनाकरणत्वेन प्राधान्यापत्तिर्यागार्थत्वानुपपत्तिः, प्रत्ययवाच्यफलभावनायाः समानपदोपात्तयागस्य करणत्वेनैवान्वयादाकाङ्क्षानिवृत्तेर्विभिन्नपदोपात्तस्य सोमस्य करणत्वेनाऽन्वयानुपपत्तिश्च। `सोमेन यागम्' इत्यन्वयाभ्युपगमे यद्यपि सोमस्य न यागार्थत्वानुपपत्तिः, करणत्वेनैवान्वयात्, तथाऽपि प्रत्ययार्थभावनाकरणत्वेन उपस्थितस्य साध्यत्वेनाऽन्वयानुपपत्तिर्दुष्परिहरैवेति सोमपदस्य सत्वर्थलक्षणया `सोमवता यागेनेष्टं भावयेत्' इति विशिष्टार्थविधानाद्वाक्यभेदप्रसङ्गो नेति मीमांसकसिद्धान्तः। तत्र चोक्तनियमे व्यभिचारो दुर्वार इति भावः।
*स्तोकं पचतीति* अत्रापि धात्वर्थव्यापारजन्यफले विभिन्नविभक्तिकस्तोकपदार्थस्याभेदान्वयादित्यर्थः। ननु समानविभक्तिकत्वं नामाऽर्थयोरेवाऽभेदाऽन्वयबोधे प्रयोजकम्। अत एव व्युत्पत्तौ द्विवचनस्यैवोल्लेखः। नामत्वञ्च वक्ष्यते। प्रकृते चाऽनुयोगिप्रतियोगिनोर्नामार्थत्वाभावान्नोक्तदोषोऽत आह *राजपुरुष इति*।
यद्यपि `सोमेन यजेत' इत्यत्रेव `देवदत्तः पचति' इत्यत्रापि समानविभक्तिकत्वस्याऽतन्त्रतयाऽभिमतबोधान्वयानुरोधात् कर्त्तृवाचित्वं सिद्धमेव, तथाऽपि व्युत्पत्तेर्नामाऽर्थद्वयविषयकत्वेऽपि व्यभिचारो दुरुद्धर एवेत्याशयेन नामार्थद्वयस्थलमुपात्तम्। नैयायिकमतेन चेदम्, तैः कर्मधारये, षष्ठीतत्पुरुषे च पूर्वपदशक्यलक्ष्यान्यतरस्योत्तरपदार्थेऽभेदान्वयोपगमात्। स्वमते तु जहत्स्वार्थवृत्त्यभ्युपगमेन पूर्वोत्तरपदार्थयोरन्वयस्यैवाऽभावेनोक्तव्युत्पत्तेरप्रसरादिति बोध्यम्। इदमुपलक्षणम्-षष्ठयर्थबहुव्रीहेरपि।
अपरे तु-उक्तव्युत्पत्तौ नामांशेऽसमस्तत्वस्यापि विशेषणान्नोक्तस्थले व्यभिचार इत्याहुः। अधिकमग्रे वक्ष्यते। *सामानाधिकरण्यमिति* पदयोरेकार्थाऽभिधायित्वमित्यर्थः। *यौगिकानामिति* योगोऽवयववृत्तिस्तन्मात्रपुरस्कारेण प्रवृत्तानामित्यर्थः। *द्रव्यवाचित्वाऽनापत्तेरिति*। धर्मिशक्तत्वाऽनापत्तेरित्यर्थः। *एवमिति* लक्षणयैव सामानाधिकरण्योपपादने इत्यर्थः, इत्थमेवेति वाऽर्थः। *वैश्वदेवीत्यादीति* द्रव्यवाचित्त्वाऽनापत्तेरित्यनुषज्यते। तथाच बालबालऽधिकरणेच्छेदाऽऽपत्तिरिति भावः।
तथाहि-`तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो' इति श्रूयते। अत्रायं संशयः-किमनया श्रूत्याऽऽमिक्षावाजिनोभयगुणकमेकं कर्म विधीयते? अथवा तत्तद्गुणदेवतभिन्नं कर्मद्वयमिति। वाजेनान्नेनाऽऽमिक्षारूपेण सम्बन्धाद्वाजिनो विश्वेदेवाः, ताननुद्य वाजिनगुणो विधीयते। तेनोभयगुणकं वैश्वदेवमेकं कर्मेति पूर्वपक्षे, `वैश्वदेव्यामिक्षा' इत्यत्र तद्धितस्य देवतासम्बन्ध्यर्थकता श्रौतः सम्बन्धः, `वाजिभ्यो वाजिनम्' इत्यत्र तु वाक्येन सः। सत्यामपि पदान्तरापेक्षायां स्वाभिन्नाऽर्थकपदस्यैवापेक्षणान्न श्रौतत्वबाधः सम्बन्धस्य। यत्र तु भिन्नाऽर्थकपदाऽपेक्षा, तत्रैव वाक्यस्यविनियोजकत्वात्। एवञ्च, `वैश्वदेव्याऽऽमिक्षा' इत्येतद्विहितवैश्वदेवयागानुवादेन न वाजिनगुणविधानम्, श्रौतद्रव्येण निराकाङ्क्षत्वात्। किन्तु कर्मान्तरविधिः। `वाजिभ्यः' इति चापूर्वदेवताविधानमिति राद्धान्तः। यदि च तद्धितस्य देवतासम्बन्धे एव शक्तिस्तदा वाजिनाऽऽमिक्षयोर्वाक्यविनियोज्यत्वस्य साम्यादामिक्षाद्रव्येण देवतासम्बन्धस्य श्रौतत्वमिति सिद्धान्तव्याकोपः। लक्षिताऽऽमिक्षाद्रव्यमादाय देवतासम्बन्धे श्रौतत्वसम्बन्धात्तदनुपपत्त्यभावेन तद्धितस्य द्रव्यार्थकत्वकल्पनमत्ययुक्तं स्यादिति।
*अनुशासनलाभादिति* उपलक्षणमिदम्, युक्तेरपि। तथाहि-घटपदाद् घटत्वप्रकारकबोधवद् दण्डयादिपदाद्दण्डसम्बन्धवानिति प्रतीतिः सर्वसिद्धा। तत्राऽऽकृत्यधिकरणन्यायेन सम्बन्धमात्रं मतुबादिवाच्यं स्यात्। अत एव `देवदत्तस्य गोमत्त्वम्' इत्यत्र त्वप्रत्ययस्य सम्बन्धबोधकत्वं सङ्गच्छते। घटत्वमित्यादौ प्रकृत्यर्थघटत्ववत् प्रकृतिजन्यबोधप्रकारस्य भावप्रत्ययार्थत्वाद्, विशेषस्य संसर्गस्य कथं ततो बोध इति तु नाऽऽशङ्कनीयम्, यतस्तस्य स्वक्षिप्तव्यक्त्यंशे प्रकारतयैव भानात्। एवं षष्ठ्यर्थविहितबहुव्रीहेरप्येकं हायनमस्या इति विग्रहे, दैवतार्थकतद्धितस्यापि विश्वे देवा देवता अस्या इति विग्रहे च प्रत्ययार्थसम्बन्धस्यैव प्राधान्यदर्शनात् तस्यैव वृत्तिवाच्यत्वनिर्णयः। उक्तञ्च--
यस्मिन्नन्यपदार्थे च बहुव्रीहिर्विधीयते।
तस्याऽपि प्रत्ययार्थत्वात् सम्बन्धस्य प्रधानता ।। इति ।।
न च गोमानित्यादौ सम्बन्धिप्रतीत्यनुपपत्तिः, उभयाऽऽश्रितेन सम्बन्धेनाऽऽक्षेपात्तदुपपत्तेः। तव कर्तृवत् सम्बन्धवच्च। नचाऽसत्त्वभूतसम्बन्धस्यैव विभक्त्यर्थतया तद्विहितमतुबादेस्तादृशसम्बन्धबोधकत्वेन तत्र लिङ्गसङ्खयाऽनन्वयाऽऽपत्त्या सत्त्वभूतसम्बन्धे एवानुशासनाऽऽदरेण शक्तिरभ्युपेया। एवञ्च द्रव्यमेवार्थो मत्वर्थीयस्याऽस्तु, सम्बन्ध आक्षेपलभ्य एव किं न स्यात्। किञ्च, मतुबादेः सम्बन्धसामान्यार्थकत्वे तस्य सम्बन्धादिपदपर्य्यायताऽऽपत्त्या सम्बन्धविशेषार्थकत्वमेवोररीकरणीयम्। तत्त्वञ्चाऽनुयोगिप्रतियोगिविशेष्यनिरूप्यत्वम्। तथाचैकस्य निरूपकस्य प्रकृत्या लाभेऽप्य नुयोगिरूपनिरूपकभानार्थ तत्र शक्तिकल्पने त्वतीव गौरवमिति वाच्यम्, मतुबादेर्ह्यसत्त्वभूतसम्बन्ध एव वाच्यः। अत एव सम्बन्धानामनेकत्वेऽलिङ्गकत्वेऽपि च दण्डयादिशब्दानामेकवचनान्तत्वं नानालिङ्गकत्वञ्च, सम्बन्धिनां तथात्व एव तादृशप्रयोगदर्शनात्। तथाच, मतुबर्थसम्बन्धो लिङ्गाद्यन्वयासम्भवात्तैरेवाऽऽक्षेपः सम्बन्धिनः, आख्यातार्थसंख्ययेव कर्त्रादेः।
वस्तुतस्तु लिङ्गसंख्याऽनन्वयित्वरूपासत्त्वभूतत्वमपि षष्ठयर्थादावर्थसिद्धम्, प्रत्ययार्थलिङ्गसंख्यादेः प्रत्ययार्थ एवऽन्वयायोगात्, `प्रत्ययानाम्' इति व्युत्पत्तेश्च। तस्मान्नासत्त्वभूतसम्बन्धः षष्ठीवाच्यः।
यत्तु, अनुयोगिरूपनिरूपकभानार्थं द्रव्ये शक्तिकल्पने गौरवमिति, तदपि न सम्बन्धप्रत्यक्षे हि यावदाश्रयभानापेक्षा, न शाब्दे, येन तच्छक्तिकल्पनागौरवं सम्भाव्येत। तस्मात् तत्र मतुबादेः शक्तौ न किञ्चिद्, बाधकमिति। प्रपञ्चितं चैतदधिकमन्यत्र।
एवञ्चैकहायन्यादिपानां सम्बन्धवाचकतायामनुशासनस्य तदुपष्टब्धानेकयुक्तीनां च सत्त्वात् तत्रैव शक्तिः सिह्येन्न सम्बन्धिनीत्यखण्डार्थः।
*तथाचेति* सामानाधिकरण्यस्य लक्षणयैवोपपादन इत्यर्थः। *अरुणाधिकरणेति* तथाहि-`अरुणयापिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति' इति श्रूयते। तत्र किमरुणिम् वाक्यं भङ्क्यं प्रकरणे निवेशनीयः?, किम्वा क्रीणातिना सम्बन्ध्यते? इति संशये, क्रीणातिना सम्बध्यमानस्तद्योगात् क्रयणकरणं स्यात्, नचाऽमूर्त्तस्य तद्युक्तमिति नास्य क्रयणसम्बन्ध इति पृथगेव प्रकरणे निवेशनीय इति पूर्वपक्षः।
सिद्धान्तस्तु, सम्भवति सन्निहितपदार्थान्वये प्रकरणनिवेशानौचित्यात् पिङ्गाक्ष्यादिपदानां द्रव्यवचनतया तस्मिन्नन्वयसौलभ्येन तद्द्वारा क्रीणात्यर्थेनाऽपि समन्वयलाभाद् वाक्यघटकत्वमेव तस्येति। स चाऽनुपपन्नः, पिङ्गाक्ष्यादियौगिकानां पदानामुक्तयुक्त्या सम्बन्धार्थकतया द्रव्यस्य तैरनुपादानात्।
किञ्च, पूर्पक्षोऽप्यनुपपन्नः, पिङ्गाक्ष्यैकहायनीशब्दार्थसम्बन्धस्याप्यमूर्तत्वात्, क्रीणातिकरणत्वाऽसम्भवेन क्रीणातिकरणत्वस्यैतद्वाक्यादलाभादारुण्यस्यैव वाक्यभेदशङ्कायां मूलशैथिल्याच्च। बहुव्रीह्योररुणपदस्य च लाक्षणिकद्र
व्यविधायकताया अविशिष्टत्वेन बहुव्रीह्यादेरेव द्रव्यविधायकत्वम्, नारुणपदस्येत्यत्र विनिगमकाभावात्। अधिकमग्रे वक्ष्यते।
*उक्तरीत्येति* सम्बन्धिलक्षणाकल्पनेनेत्यर्थः। *प्रपञ्चितमिति* प्रपञ्चस्तूक्तप्रायः। *भूषणे इति* प्रकृतस्थले, समासशक्तिनिरूपणाऽवसरे चेत्यर्थः। `पदाऽर्थं निरूप्य' इत्यनेन पदार्थनिरूपणानन्तरं वाक्यार्थनिरूपणे तयोः सङ्गतिः सूच्यते। तत्फलं तु पूर्वापरग्रन्थैकवाक्यप्रतिपत्तिरेकप्रयोजनवती ज्ञानफलिका।
केचित्तु, उन्मत्तप्रलपितत्वशङ्कानिदानासङ्गतत्वज्ञाननिरासः प्रयोजनमित्याहुः।
सा चाऽनन्तर्त्याऽभिधानप्रयोजकजिज्ञासाजनकतावच्छेदकधर्मरूपा षङ्विधा। तदुक्तम्-
`सप्रसङ्ग उपोद्धातो हेतुताऽवसरस्तथा।
निर्वाहकैककार्यत्वे षोढा सङ्गतिरिष्यते ।।' इति ।।
तत्र प्रकृतसिद्धयऽनुकूलचिन्ताकालावच्छिन्नप्रकृतानुकूलत्वमुपोद्घातः। अनुकूलत्वञ्चात्र घटकत्वज्ञापकत्वादिरूपं यथायथं ग्राह्यम्। तत्रावच्छेदकांशः स्वरूपसन्, इतरांशश्च ज्ञात उपयोगि। एवमग्रेऽपि। स्मृतिकालावच्छिन्नोपेक्षानर्हतावच्छेदकधर्मवत्त्वं प्रसङ्गः। हेतुता प्रसिद्धा। प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्तिकालावच्छिन्नावश्यकक्तव्यत्वमवसरः। निर्वाहकत्वम्-एककार्य्यजनकत्वं कारणतदवच्छेदकसाधारणप्रयोजकत्वरूपम्। एककार्य्यत्वम्- एकस्य कार्यता सा च जन्यता, जन्यज्ञानविषयत्वरूपा चेति। उदाहरणानि कानिचित्त्वत्रैव वक्ष्यन्ते। अन्यानि तु स्वयमूह्यानि। आक्षेपोदाहरणादीनां तु तन्त्रान्तरे सङ्गतित्वेन प्रसिद्धानामेष्वेवान्तर्भाव इति न तेषामाधिक्यसम्भावना। प्रकृते च पदार्थतत्संसर्गविशेषरूपवाक्यार्थयोः प्रसङ्गसङ्गतिः। तथाहि-निरूपितेषु पदार्थेषु प्रायशोऽसंसृष्टपदार्थाऽभावेन तत्संसर्गस्य सामान्यरूपेण स्मरणम्। ततः सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकजिज्ञासाजनकत्वाच्छिष्यस्य `क एषां संसर्गः' इत्याकारा विशेषधर्मजिज्ञासा, ततस्तद्बोधनाय शिष्यस्य शब्दप्रयोगः। ततः शिष्यजिज्ञासज्ञानं गुरोः। ततो जिज्ञासाविषयज्ञाने इष्टसाधनताज्ञानात् कण्ठताल्वाद्यभिघातादिसम्पादनेन गुरोः शिष्यजिज्ञासानिवृत्तिफलकं विशेषसंसर्गरूपवाक्यार्थाभिधानमिति। संसर्गगतसामान्यस्योपेक्षाऽनर्हतावच्छेदकत्वात्तद्वत्यस्य तत्र सत्त्वाल्लक्षणसङ्गतिः। इत्थमन्यत्राऽपि लक्षणानि योज्यानि।
*विशेषणे इति* आधाराऽऽधेयभावसम्बन्धेन प्रकारावित्यर्थः। सङ्खयया आख्याताऽर्थकर्तृकर्माऽन्वयित्वे प्रयोजकमाह *समानप्रत्ययोपात्तत्वादिति*। एतेन समानाऽभिधानश्रुतेर्वाक्याऽपेक्षया बलवत्त्वात् समानपदोपात्तान्वयित्वं विहाय पथमाऽन्तार्थेऽन्वयोऽनुचित इति व्यज्यते, एकप्रत्ययजन्योपस्थितिविषयत्वादिति तदर्थः। लडादीनां वाचकत्वकल्पे आख्यातजन्योपस्थितिविषयत्वस्य कालेऽपि सत्त्वात्तब्र व्यभिचारवारणाय कर्तृकर्मविषयत्वेन तां विशिनष्टि।
*तथाचेति*। घट इत्यादावेकत्वादिसङ्खयाप्रकारकबोधे व्यभिचारो मा भूदिति कार्य्यतावच्छेदककोटौ *आख्याताऽर्थेति* तदर्थकालप्रकारकबोधे तन्निरासाय *सङ्खयेति* स्वोक्तमाख्यातस्य कर्त्तृकर्मार्थकत्वं दर्शयितुं प्रसङ्गान्न्यायमतं निराकरोति *नैयायिकानामित्यादिना*। *अन्वयादिति*। एकपदोपात्तयोरेकार्थान्वयित्वस्य न्याय्यत्वादितिभावः। आख्यातार्थकालप्रकारकबोध प्रथमान्तपदजन्योपस्थितेरनपेक्षणादाह-*सङ्खयेति।
*इतराविशेषणत्वेति*। प्रथमान्तार्थेतरविशेषणत्वाघटित इत्यर्थः। तथाचेतरविशेषणताऽनापन्नार्थविषयकोपस्थितिः कारणमित्यर्थः। एवञ्च, चन्द्र-भोजनादीनां प्रथमान्तार्थत्वेऽपि इवार्थसादृश्यव्रजनादिविशेषणत्वान्न व्यभिचार इति भावः। *घटित इति*। तदविषयकप्रतीत्यविषयः स इत्यविषय इत्यर्थः। तदविच्छन्नावच्छेदकताककारणताग्रहविषय इति यावत्। इतराविशेषणत्वञ्च=इतरविशेषणत्वतात्पर्य्याविषयत्वम्। नातश्चैत्र इव पचतीत्यादौ, खले कपोतन्यायेन बोधे चैत्रीयं सादृश्यमित्यवान्तरबोधाऽभावेन चैत्रस्येतरनिरूपितप्रकारताशून्यत्वरूपेतराऽविशेषण्तवसत्त्वेऽपि क्षतिः अविशेषणत्वेऽपि विशेषणत्वतात्पर्य्यविषयत्वसत्त्वात्। तथाऽऽख्यातार्थसङ्खयाप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति इतरविशेषणत्वतात्पर्याविषयार्थवृत्तिविशेष्यतासम्बन्धेन प्रथमान्तपदजन्योपस्थितिर्हेतुरिति पर्यवसितोऽर्थः।
`चैत्रेण सुप्यते' इत्यादिभावाऽऽख्यातस्थले, `चैत्रकर्त्तृकः स्वापः' इत्यादिबोधाद्य थोक्तविशेषणकधात्वर्थस्वापे तदनन्वयाद् व्यभिचारपरिहाराय प्रथमान्तेति पदविशेषणम्। यद्येवमपि, `चेत्र एव पचति न मैत्रः' इत्यादावन्ययोगव्यवच्छेदरूपैवकारपदार्थैकदेशेऽन्यत्वे चैत्रस्य विशेषणत्वात् तत्र संख्याऽन्वयाऽनुपपत्तिरिति विभाव्यते, तदा प्रथमान्तार्थो विशेषणत्वमात्रतात्पर्याविषयत्वेन विशेषणीयः। अवशिष्टांशस्यापि निवेशे प्रयोजनाऽभावादुक्तस्थले चं चैत्रस्य मुख्यविशेष्यत्वविशेषणत्वाभ्यां तात्पर्यविषयत्वान्न सङ्खयाऽन्वयाऽनुपपत्तिरिति तन्मतनिष्कर्षः।
*अतिगौरवमिति*। अन्यलभ्यकृतौ शक्तिकल्पने सङ्ख्यान्वयबोधहेतूपस्थितौ विभिन्नपदजन्यत्वनिवेश एव गौरवम्। प्रथमान्तपदार्थस्य विशेषणत्वमात्रतात्पर्याऽविषयत्वेन निवेशे त्वतिगौरवमित्यर्थः। *इदमपीति* उपदर्शितकार्य्यकारणभाबे दर्शितलाघवमपीत्यर्थः।
यद्यपि तन्मते भावनान्वयिनि सङ्खयान्वयनियमादाख्यातेन भावनाऽविषयकसङ्खयान्वयबोधस्य क्वाप्यजननाद्भावनान्वयबुद्धित्वस्य सङ्खयान्वयबुद्धित्वव्यापकतया व्याप्यधर्मावच्छिन्नासामग्र्या फले जननीये व्यापकधर्मावच्छिन्नसामग्स्या अपेक्षणाद् विशेषणत्वमात्रतात्पर्याऽविषयत्वविशेषणविशिष्टप्रथमान्तार्थोपस्थितिरूपायास्तस्यास्तत्राऽभावादेवोक्तस्थले व्यभिचाराप्रसक्तेन तद्व्यावृत्तये सङ्खयान्वयकारणतावच्छेदककोटावुक्तविशेषणप्रवेशाऽवसरः, तथाऽपि कृतिशक्तिवादिमते उक्तस्थले तदापत्तिवारणाय भावनान्वयबोधकारणतावच्छेदककोटाववोक्तविशेषणवितरणप्रयुक्तगौरवम्। अस्मन्मते तु प्रथमान्तपदार्थस्याख्यातार्थे विशेषणतयैवान्वयेन चन्द्रादेरेकत्र विशेषणतयाऽन्वितस्य नैराकाङ्क्ष्येणाऽपरत्र विशेषणतयान्वयाऽयोगादुक्तव्यभिचाराऽभावेन तन्निवारकविशेषणोपादानप्रयुक्तगौरवमित्यभिप्रेत्योक्तम् *इदमपीति*। अधिकमन्यत्रानुसन्धेयम्।
अत्राऽऽहुर्नव्याः। लाघवोपबृंहितोक्तयुक्तिकदम्बेनाऽऽख्यातस्य धर्मवाचकत्वसिद्धानुत्तरकालकल्प्यतादृशकार्य्यकारणभावप्रयुक्तगौरवम्, निषादस्थपत्यधिकरणन्ययेनाकिञ्चित्करम्, फलमुखत्वात्। किञ्च, चन्द्राद्युपमाने आख्यातार्थसंख्याद्यन्वयोपगम् आवश्यकः। तत्र तदन्वयाऽनुपगमे सादृश्यप्रयोजकधर्मऽलाभेन वाक्यस्याऽपरिपुष्टार्थतापत्ते-। क्त्वान्तार्थभोजनादौ तु सङ्खयादीनामयोग्यत्वादेवानन्वयेनाऽनतिप्रसङ्गात्। एवञ्च, नास्मन्मते दोषलेशोऽपीति। कर्त्तृकर्मणोः सङ्ख्यायाश्च विशेषणतां व्यवस्थाप्य कालस्यापि तां प्रतिपादयति *कालस्त्वित्यादिना*। *व्यापारे इति* धात्वर्थव्यापारे इत्यर्थः।
नन्वाख्यातस्य कालशक्तिपरिच्छेदकेषु "वर्तमाने लट्" (पाo सूo 3-2-123) इत्यादिषु व्यापारवाचकपदानुपादानात् कथं कालस्य धात्वर्थव्यापारविशेषणतेत्यतस्तत्सूत्रप्रामण्येनैव तां साधयति *तथाहीति*। *तच्च* धातुपदं चेत्यर्थः। *धात्वर्थमिति* फलव्यापारोभयात्मकमित्यर्थः। `सत्तायाम्' इत्याद्यर्थनिर्देशात्, भूवादिसूत्रप्रामाण्याच्चेति भावः। *वदत्* बोधयत्। `सन् ब्राह्मणः' इतिवच्छता। *प्राधान्यात्* धातुजन्यबोधे विशेष्यतया भासमानत्वादित्यर्थः। व्यापारमेवेत्येवकारेण फलव्यवच्छेदः। प्राधान्यादित्युक्तया यन्मते कर्माऽऽख्याते फलस्य प्राधान्यं तन्मते फल एवान्वय इति ध्वनितम्। *ग्राहयतीति* अख्यातार्थकालविशेष्यतया बोधयतीत्यर्थः। "गुणानाञ्च परार्थत्वात्" इति न्यायात्, प्रत्ययार्थस्य साक्षात्प्रकृतिजन्यबोधविशेष्याऽन्वयित्वनियमाच्चेति भावः। *कर्त्तृकर्मणोरिति* समानप्रत्ययोपात्तत्वप्रत्त्यासत्तेरिति भावः। *पचतीत्यापत्तेरिति*। कर्त्तृर्विद्यमानत्वादिति भावः। एवमग्रेऽपि। *नापि फल इति*
केचित्तु-फलव्यापारयोर्धातोः पृथक्शक्तौ तयोरुद्देश्यविधेयभावेनाऽन्वयाऽऽपत्तिः। पृथगुपस्थितयोस्तथाऽन्वयस्यौत्त्सर्गिकत्वात्। तत्तद्धातुजन्यतादृशबोधस्य तथाऽन्वयबोधे प्रतिबन्धकताकल्पने तु गौरवम्। तस्मात् फलाऽवच्छिन्नव्यापारे, व्यापारावच्छिन्नफले च धातूनां शक्तिः। कर्त्तृकर्मार्थकतत्तत्प्रत्ययसमभिव्याहारश्च तत्तद्बोधे नियामकः। गौरवञ्च प्रामाणिकत्वान्न दोषाय। इत्त्थञ्च कर्त्राऽऽख्याते व्यापारस्य प्राधान्यम्, कर्माख्याते तु फलस्य। यदा यस्य प्राधान्यं तदा तस्मिन् कालाऽन्वयः। सूत्रस्थधातुपदादुभयोरपि प्राधान्येनोपस्थितत्त्वान्नोक्तनियमावकाशः। फलानुत्पत्तिदशायामारब्धे पाके फले वर्त्तमानत्वारोपाद्वा, पच्यते इत्यस्योपपत्तिः, एकाऽवयवेऽपि समूहाऽऽरोपादधिश्रयणकाले पचतीति प्रयोगवत्। आरोपे च प्रतीतिरेव मानम्। व्यापारविगमे फलसत्त्वे `अपाचि देवदत्तेन' इत्यादिप्रयोगास्तु भूतत्वस्योत्पत्तिघटितत्वादित्याहुः।
तदपरे न क्षमन्ते, पृथगुपस्थितयोस्तथान्वयबोधाभ्युपगमे नानार्थहर्य्यादिपदोपस्थितानामश्वसूर्यादीनामप्युद्देश्यविधेयभावापत्तिरतो विभिन्नपदजन्योपस्थितेरेव तन्त्रता तत्राऽनुसर्त्तव्या। तद्भावाच्च प्रकृते कथं तदन्वयबोधाऽऽपादनम् ताद्दशफलव्यापारयोर्धातुशक्तौ मानाभावो गौरवञ्च। विशिष्टधर्मस्य शक्यतावच्छेदकत्वे उक्तप्रयोगाणाम् आरोपेणोपपादनं त्वगतिकगतिरिति स्पष्टमेव विवेकिनाम्। एतदनुरोधेन भूतत्वस्योत्पत्तिघटितत्वाऽभ्युपगमे परमताऽनुसृतिरपिति।
व्यापारे आख्यातार्थकालाऽन्वये दूषणमाशङ्कय निराचष्टे *नचेति*। *यत्नसत्त्वादिति* यत्ररूपव्यापारस्य वर्त्तमानत्वेन विषयाबाधात्। मम तु तदानीं फलाऽनुत्पत्त्या न ताद्दशप्रयोगाऽऽपत्तिरित्यर्थः। *अप्रयोगादिति* ननु परयत्नस्य विजातीयमनःसंयोगाश्रयसमावायरूपहेत्वभावादप्रत्यक्षत्वेऽपि चेष्टादिपक्षकेण तल्लिङ्गकेन वाऽनुमानेन तदवगतावुत्तिष्ठतीति प्रयोगाऽऽपत्तिर्दुःसमाधेयैवेत्याशङ्क्येष्टापत्त्या परिहरति *किञ्चिच्चेष्टादिनेति* यत्किञ्चिच्छरीरावयवक्रिययेत्यर्थः। *तदवगतौ* यत्नानुमितौ। अनुमानप्रयोगश्चैवम्-देवदत्तीयचेष्टा प्रयत्नजन्या, चेष्टात्वात्, मच्चेष्टावत्। अथवा, अयमुत्थानाऽनुकूलयत्नवान्, विजातीयचेष्टावत्त्वात्, अहमिवेति। चेष्टाप्रयत्नयोः कार्यकारणभावश्च प्रकृतेऽनुकूलस्तर्कः। स्वाश्रयावच्छेद्यत्वस्य हेतुतावच्छेदकसम्बन्धत्वान्न स्वरूपासिद्धिरिति।
परे तूक्तापत्तिमन्यथैव परिहरन्ति-तथाहि-आमवातजडीकृतलेवरप्रयत्नस्योत्थानोद्देश्यकत्वेऽपि तदजनकत्वान्नोक्तप्रयोगापत्तिः। अत एव `उत्थानाय यतते' इत्येव तत्र प्रयोगः। यागपाकाद्युद्देश्यककुण्डनिर्माणतण्हुलक्रयणादिदशायां `यजति पचति' इत्यादिप्रयोगवारणाय स्वरूपसम्बन्धरूपप्रयोजकताविशेषस्यैव सम्बन्धताया अभ्युपेयत्वादिति।
तच्चिन्त्यम्, तदुद्देश्यकत्वं हि तदिच्छाऽधीनेच्छाविषयत्वम्, उपायेच्छायाः फलेच्छाधीनत्वात्। उपायत्वञ्च प्रयोजकत्वमेव। कथमन्यथा तत्रेच्छेति, प्रकृते यजतीत्यादिप्रयोगो दुर्वार एव। तस्मात् साक्षाज्जन्यजनकभाव एव फलव्यापारयोः सम्बन्ध इत्येवाभ्युपेयम्, तावतैवोक्तप्रयोगवारणात्। प्रकृते शक्तिरूपसहकारिकारणाभावेन तदनुत्पत्तावपि दीययत्ने साक्षाज्जनकत्वस्य निराबाधत्वेनोत्तिष्ठतीति प्रयोगस्यैवेष्टत्वात् प्रकृतधात्वर्थतयाऽवगते तस्मिन् साध्यत्वस्यैव सत्त्वेनोद्देश्यत्वस्य तदानीमसम्भवाच्च। एतदभिप्रेत्यैव सारकृता, `उत्थानानुकूलयत्नसत्त्वे' इत्युक्तम्। अत एव पाकानुकूलप्रकृतधात्वर्थयत्नसत्त्वे पचतीत्येव प्रयोगोऽन्यदा तु `पाकाय यतते' इति।
वस्तुतस्तु कृतिरूपव्यापारमात्रस्य धात्वर्थत्वविवक्षायामुत्तिष्ठतीति प्रयोगः। प्रयत्नसामर्थ्यचेष्टादिघटितस्य तस्य समुदायस्य तद्विवक्षायान्तु नेति सारकाराशयः, अत एव तदोत्थानाय यतते इति प्रयोगोऽपि सूपपाद इति बोध्यम्।
उपसंहरति *एवञ्चेति* विशेषणमेवेत्येवकारेण तिङर्थस्य विशेष्यत्वव्यवच्छेदः *भावनैवेति* धात्वर्थभावनैवेत्यर्थः। अत्राप्येवशब्देन फलस्य तिङर्थकर्त्रादेस्च व्यवच्छेदः। प्रकृतिप्रत्ययार्थयोरिति व्युत्पत्तिविरोधमाशङ्कते *यद्यपीति*। *अन्यत्र* पक्तोत्यादौ। *दृष्टमिति* तथाच प्रकृत्यर्थभावनायाः प्राधान्योपगमे तद्विरोध इति भावः। *भावप्रधानमिति* नामाऽऽख्यातोपसर्गनिपातभेदेनोद्दिष्टं चतुर्विधं पदं प्रकल्प्य नामाऽऽख्यातलक्षणप्रतिपादके इमे वाक्ये। अत्राऽऽख्यातं भावप्रधानमिति योजना। यथाश्रुते यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम्।
इत्यभियुक्तोक्तेः, शाब्दबोधे प्रङ्निर्दिष्टस्यैवोद्देश्यतया विवक्षितार्थाऽलाभात्। अत एव `वृद्धिशब्दस्य प्राङ्निर्द्देशो मङ्गलार्थः' इत्याऽऽकरोक्तं सङ्गच्छते। एवमग्रेऽपि। आख्यातत्वाऽवच्छिन्ने प्रधानभावार्थप्रतिपादकत्वरूपलक्षणतात्पर्यावधारणाच्च लक्षणवाक्याच्छब्दमर्यादया प्रकृतपदद्वयार्थाभेदस्याऽधिकस्य भानेऽपि न क्षतिः। लक्ष्यताऽवच्छेदकञ्चतिङन्तत्वरूपाऽऽख्यातत्वम्। `आख्यातमाख्यातेन' इत्यादौ तत्रैवाऽऽख्यातपदस्य शक्त्यवधारणात्। `भावकालकारकसङ्ख्याश्चत्वारोऽर्था आख्यातस्य, तत्र भावः प्रधानम्' इति प्रकृतनिरुक्तभाष्याच्च। एतेन तिङः प्रधानभावार्थकत्वस्य प्रतिपादकमेव तदिति वदन्तः प्रत्युक्ताः।
तच्छब्दपरामृश्य भावादिचतुष्टयस्यैकदा तिङा प्रतिपादना।स़म्भवाच्च। भावत्वं निष्पाद्यत्वम्। नातः कर्माऽऽख्यातस्य फलविशेषयकबोधकतावादिमते तत्राऽप्रसक्तिः। प्रधानप्रतिपादकत्वस्य नामामात्रे, भावप्रतिपदकत्वस्य भुक्त्वेत्यादिनाम्न्यतिप्रसक्तत्वात्तद्वारणांय विशिष्टमुपात्तम्।
प्राधान्यञ्चोपस्थितत्वात् स्ववाचक्रप्रकृतिकप्रत्ययार्थनिरूपितमेव। नातः `काष्ठैः पाकः' इत्यादौ प्रत्ययार्थकरणनिष्ठप्रकारतानिरूपितविशेष्यताशालिबोधजनके पाकादिनाम्न्यतिप्रसङ्गः। नवौत्सर्गिकैकवचनान्तभावविहिततव्याद्यन्तनाम्नि सः, तथाच तिङ्बोध्यार्थनिष्ठप्रकारतानिरूपितविशेष्यतातात्पर्यप्रतिपादकत्वं तत् पर्य्यवस्यति।
इतराविशेषणत्वरूपं तु न तत्, पचति भवतीत्यादिवाक्यघटकपच्याद्यर्थक्रियायां तदसत्त्वेन पचतीत्याख्यातेऽव्याप्तेः। क्त्वः पूर्वकालार्थकत्वस्य निराकरिष्यमाणममत्वान्नोक्तलक्षणस्यालक्ष्येऽतिप्रसङ्गः। "कृदभिहितो भावो द्रव्यवत् प्रकाशते" इति भाष्येण, पाक इत्यादाविव तस्य सत्त्वाऽतिदेशेन साध्यत्वरूपभावत्वाऽभावादेव नाऽतिप्रसङ्ग इति तु न सत्। यतः साधुत्वान्वाख्यायकव्याकरणस्मृत्या यत्कृदर्थभावे लिङ्गाद्यन्वयेऽनुभवसिद्धस्तस्मिन्नेव तदतिदिश्येत। यथा पाक इत्यादौ घञर्थभावे। क्त्वार्थे तु लिङ्गाद्यननुभवेन तत्र तदतिदेशविषयस्यान्याय्यत्वात्, अव्ययकृत्त्वेन तस्य धात्वर्थनुवादकत्वस्य वक्ष्यमाणत्वाच्च।
तथाच भावप्रधानकत्वं तिङर्थनिष्ठप्रकारतानिरुपितविशेष्यताशालिभावप्रतिपादकत्वं पर्यवस्यति। एतेन, पचति भवतीत्यादिवाक्यघटकाऽऽख्यातसंग्रहाय क्वचित्, क्रियान्तरनिष्ठविशेष्यतानिरूपितविशेषणत्वाभाववत्त्वं तत्। पच्याद्यर्थक्रियाया भवत्यर्थविशेषणत्वेऽपि क्वचित्तदसमभिव्याहारे विशेष्यतयैव भानान्न तत्रातिप्रसङ्ग इत्युक्तं निरस्तम्। उक्तापेक्षया अभावघटितत्वेनास्य गुरुत्वात्। अग्रिमलक्षणे प्राधान्यस्य विशेष्यत्वरूपस्यैव वक्ष्यमाणतयाऽत्रापि तस्यैव न्याय्यत्वात्। तत्र `भावप्रधानम्' इति भाष्येण मदुक्तार्थस्यैव लाभाच्च।
*सत्त्वप्रधानानीति* अत्रापि पूर्ववदुद्देश्यविधेयभावकल्पना। लक्ष्यतावच्छेदकं च कृदाद्यन्तप्रकृतिकविभक्त्यन्तत्वरूपं नामत्वम्। प्रकृतिः, प्रत्ययः, विभक्तिरित्येतन्नाम्, सत्ता, द्रव्यम्, लिङ्गम्, संख्या, च नामार्थ इति तद्भाष्यात्। `क्रियाप्रधानमाख्यातं सत्त्वप्रधानं नाम। यतः क्रियां पृष्टस्तिङाचष्टे-किं करोति? पचतीति। द्रव्यं पृष्टः कृताऽऽचेष्टे-कतरो देवदत्तः, यः पाचक' इति `प्रशंसायाम्' इति सूत्रस्थमहाभाष्याच्च। तत्र कृतेत्यस्य तत्प्रकृतिकसुबन्तेनेत्यर्थः। कृता द्रव्याऽभिधानेऽपि, `न केवलाः' इति न्यायेन केवलस्य प्रयोगाऽनर्हत्वात्, निरुक्तभाष्यस्थविभक्तिपदस्वारस्याच्च। व्युत्पत्तिपक्षमवलम्ब्य चेदम्। नातोऽव्युत्पत्तिपक्षे नामाऽऽदिष्वतिप्रसङ्गः।
लक्षणमाह *सत्त्वप्रधानानीति* सत्त्वम्=द्रव्यं वक्ष्यमाणलक्षणं तत्प्रधानंयत्रेति विग्रहाल्लिङ्गादिनिष्ठप्रकारतानिरूपितविशेष्यताशाल्यर्थप्रतिपादकत्वं नामलक्षणमित्यर्थः। विशेष्याऽर्थकत्वस्य निपाताऽऽख्यातादावतिप्रसक्तत्वात् तद्वारणाय प्रकारतानिरूपितत्वान्तं विशेषणम्। व्यक्तिबोधस्य धर्मविष्यकत्वनियमेन जातिप्रकारतानिरूपितत्वस्यातिप्रसङ्गाऽवारकत्वात्तदनुपादानम्। लक्ष्यतावच्छेदकाऽनाक्रान्तेषु यादृच्छिकेष्वतिप्रसङ्गस्तु लक्षणे तद्व्यतिरिक्तत्वविशेषणेनैव परिहरणीयः। एवं धात्वर्थाऽनुंवादकप्रत्ययान्तेष्वप्रसङ्गोऽपि लक्ष्यतावच्छेदकसंकोचेनैव परिहार्यः। तत्र नामत्वव्यवहारोऽपि स्वाद्यन्तत्वनिबन्धनो भाक्त इति तद्भावः। उपसर्गादिलक्षणं तु वक्ष्यते। *भूवादीति*।
इत्थं हि तत्र भाष्यम्-`का तर्हीयं वाचोयुक्तिः `पचति भवति' `त्वं पचसि भवसि' पक्ष्यति भवतीति। सैषा वाचोयुक्तिः, पचादिक्रिया भवतिक्रियायः कर्त्र्यो भवन्ति" इति। तेन चाऽऽहत्यैव पचाद्यर्थक्रियाकर्त्तृकभवनक्रियायाः प्राधान्यं प्रतिपाद्यते। धात्वर्थक्रियाया आख्यातार्थविशेषणत्वाभ्युपगमे तु स्वस्वार्थविरुद्धत्वेन पदार्थान्तरे विशेषणतयाऽन्वये नैराकाङ्क्ष्येण भवत्यर्थक्रियायामाख्यतार्थविशेषणपचादिक्रियाणामन्वयाऽसम्भवेन तद्विरोधोऽप्रतिरोध एव स्यादिति भावः। सुत्रादीत्यादिना "प्रशंसायाम्" इति सूत्रपरिग्रहः।
ननु " भावप्रधानमाख्यातम्" इति निरुक्तेन लिङन्ते भावानाऽपरपर्य्यायभावप्राधान्यं प्रतिपाद्यते। सा च नैयायिकमते कर्त्राख्याते कर्त्तृत्वं कृतिः, कर्माख्याते कर्मत्वं फलम्, तन्निरूपिताऽऽश्रयत्वं वा। तैः सङ्खयाकालातिरिक्ताऽऽख्यातार्थस्य भावनापदव्यपदेश्यत्वोपगमात्। भावाऽऽख्याते तु धात्वर्थव्यापार एवाऽनुवादकत्वात् तदाख्यातस्य। प्राधान्यं च तस्याः प्रकृत्यर्थापेक्षम्।
समानप्रत्ययोपात्तत्वप्रत्यासत्त्या फलमात्रं धात्वर्थ इति वदतां मीमांसकानामेतदपि भाष्यं मूलम्। तत्र लडाद्यर्थकालान्वयोपगमे तु तदपेक्षमपि। उक्तभाष्येऽपि क्रियापदार्थस्तत्सम्मतभावनैव। अत एव "क्रियां पृष्टस्तिङाऽऽचष्टे" इत्येवोक्तम्, न तु तिङन्तेनेति।
कृत्त्यादिरूपभावनाया आख्यातार्थत्वे मानं तु भूवादिसूत्रस्थम् "कथं ज्ञायतेऽयं प्रकृत्यर्थ अयं प्रत्ययार्थः" इति प्रघट्टकेऽन्वयव्यतिरेकाभ्यां शक्तिग्राहकम्-"इह पचतीत्युक्ते कश्चिच्छब्दः श्रूयते, पच्शब्दश्चकारान्त अतिश्चप्रत्ययः। श्रूयते प्रत्ययार्थोऽपि कश्चिद् गम्यते, विक्लित्तिः, कर्त्तृत्वम्, एकत्वम्। `पठति' इत्युक्ते कश्चिच्छब्दो हीयते, कश्चिदुपजायते, कश्चिदन्वयी पच्छब्दो हीयते, पठ्शब्द उपजायते, अतिशब्दश्चान्वयी। अर्थोऽपि कश्चिद्धीयते, कश्चिदुपजायते, कश्चिदन्वयी। विक्लित्तिर्हीयते, पठिक्रियोपजायते, कर्त्तृत्वमेकत्वं चान्वयि। तेन मन्यामहे यः शब्दो हीयते यस्याऽसावर्थो योऽर्थो हीयते,यः शब्द उपजायते तस्याऽसावर्थो योऽर्थ उपजायते, यः शब्दोऽन्वयी तस्याऽसावर्थो योऽर्थोन्वयी" इति भाष्यम्। तत्राऽतेः प्रत्ययस्य कैश्चित्पूर्वाचार्यैः कल्पनाद्, अतिश्च प्रत्यय इत्युक्तमिति कैयटः। `पच्यते' `पठयते' इत्यादावप्युक्ताऽन्वयव्यतिरेकोद्देशेन कर्मत्वस्याप्याख्यातार्थत्वं न्यायसाम्यात् तत एवाऽवधार्य्यते। किञ्चि, भावप्रधानम्" इति निरुक्तं तद्भाष्यस्वरसात् सकलकारकसङ्खयाविशिष्टभावनाया धात्वर्थत्वमाश्रित्य प्रवृत्तम्। अत एव; नामलक्षणनिर्वचनेन कारकस्य तत्र नामार्थत्वेनोल्लेखः, तस्य धातुलभ्यत्वेन नामार्थत्वाभावादिति तदाशयात्।
नच रूपप्सूत्रस्थभाष्यप्रामाण्यात् क्रियाया एकत्वसत्त्वेऽपि द्वित्वाऽऽदिसत्त्वे मानाऽभावात् कथं तथोक्तसङ्गतिरिति वाच्यम्, परे त्वित्यादिना वक्ष्यमाणरीत्या कारकगतायास्तस्यास्तत्राऽऽरोपसम्भवात्। कालसङ्कययोर्द्योत्यत्ववत् कारकस्याऽपि द्योत्यत्वम्, न्यायसाम्यात्। तस्य प्रत्ययार्थत्वोपगमे `पाचकः' `पक्वः' इत्यादाविव प्राधान्यापत्तेः। जात्यतिरिक्तपदार्थस्य विशेषणताया द्योत्यत्वस्यैव तन्त्रत्वात्। अत एव "स्त्रियाम्" इति सूत्रे भाष्ये प्राधान्याऽऽपत्तिभिया लिङ्गस्य वाच्यतापक्षउपेक्षितः। वाच्यस्यऽपि प्रकृत्यर्थाविशेषणत्वे तदसङ्गतिः स्पष्टैव।
नचोक्तकल्पे `ग्रामं गच्छति' इत्यत्र कर्मबोधवद्धातोरपादानादिकारकविशिष्टक्रियाबोधाऽऽपत्तिः। पञ्चम्यादिरूपसमभिव्याहृतद्वितीयादिविभक्तिश्च द्योतिका, अन्येषां त्वन्याः। नहि स्वप्रकृतिकप्रत्ययत्वमेव स्वार्थद्योतकतायां तन्त्रम्, उपसर्गाणां तदनापत्तेः। किन्तु, स्वसमभिव्याहृतप्रत्त्ययनिपातान्यतरत्वम्। तच्च तण्डुलादिपदोत्तरविभक्तेरप्यक्षतम्। द्रव्यस्य संख्याऽविशेषितस्य तत्त्वे नाम्नः सङ्ख्याभानाऽऽपत्त्या तदर्थकत्वमावश्यकमिति तद्भावः। अत एव " भावकालकारकसङ्कयाश्चत्वरोऽर्थो आख्यातस्य" इति भाष्यस्थकारकपदस्याऽसङ्कुचितवृत्तिताऽपि सङ्गच्छते।
यदि चान्यप्रकृतिकविभक्तेरन्यप्रकृत्यर्थद्योतकतायाः क्वाप्यदृष्टचरत्वान्नोक्ताऽऽशयवर्णनं साधीय इति विभाव्यते, तदापि सङ्ख्याकालकर्त्तृ कर्मकारविशिष्टक्रियाया धात्वर्थत्वमादाय तत्प्रवृत्तिः, आख्यातस्यैव सादृशक्रियाद्योतकतासम्भवात्।
नचास्त्वेवमेवाऽऽशयः, वाच्यताकल्पोक्तकार्यकारणभावकल्पनप्रयुक्तलाघवस्योपोद्वलकत्वादिति वाच्यम्, यत् तादृशमतं प्रक्रियादशायां चक्षुःश्रुत्युक्तिविश्वस्तैरत्याश्रयितुमशक्यम्, प्रागेव तु प्रकृतिप्रत्ययाऽर्थविवेचनचतुरैराक्षपादैः। तथाहि-कारकविशिष्टक्रियाया धात्वर्थत्वे `लः कर्मणि' इति विधिवैयर्थ्यापत्तिः। नच तस्या द्योतकत्वप्रतिपादकता, शानजादेरपि तथात्वाऽऽपत्त्या तत्राऽपि कर्त्रादीनां क्रियाविशेषणतया भानापत्तेः।
किञ्च, `चैत्रौ पचन-' इत्यादौ चैत्रादिगतसङ्ख्यायास्तत्रारोपे मानाभावः, वाचकतामते कर्त्राद्यंशे तद्भानोपगमेन प्रयोगप्रामाण्योपपत्तावाप्रामाण्याऽभ्युपगमस्याऽन्याय्यत्वात्, स्वाश्रयाऽऽधेयत्वसम्बन्धेन द्वित्वादेस्तत्र सत्त्वेऽप्यव्यावर्त्तकतया विशेषणत्वाऽभावेन तद्वैशिष्ठयस्य तत्राऽसम्भवाच्च। नहि द्वित्वाश्रयश्रितं घटाऽऽदिरूपं क्रिया वा, द्वे इति व्यावह्रियते। अधिकमग्रे वक्ष्यते।
किञ्च, कर्त्तृकर्मणोः पदार्थैकदेशतया तत्र देवदत्तादीनामन्वयाऽसम्भवः, "पदार्थः पदार्थेनाऽन्वेति" इति वयुत्पत्तेः। तदन्वयाऽभ्युपगमेऽपि धात्वर्थेऽभेदेन विशेषणतया स्तोकादिपदवन्नपुंसकत्वाऽऽपत्तिश्च। अपिच, क्रियाविशेषणत्वेनोपस्थितस्य कर्त्तुर्विशेषेणाऽऽकाङ्क्षाविरहात् पचतीत्युक्ते, कः कीदृगिति प्रश्नाऽनुपपत्तिः। वक्ष्यति हि ग्रन्थकृत्त-'नहि गुणभूतः कर्त्ता निषेधं स्वाङ्गत्वेन ग्रहीतुमलम्' इति। अत एवैतत्प्रामाण्यात् प्रत्ययवाच्यत्वम्, कर्त्तुर्धात्वर्थविशेषणत्वं चेति गर्ज्जयन्तः परास्ताः, प्रत्ययस्य द्योतकतायामेव तन्नियमस्य दर्शितत्वात्, प्रत्ययार्थप्राधान्यस्यैव ततो लाभाच्च।
नच भावनायाः प्रत्ययवाच्यतापक्षेप्युक्तप्रश्नाऽनुपपत्तिर्दुःसमाधेयैवेति वाच्यम्, शक्तिभ्रमाल्लक्षणया वोपस्थितस्य कर्त्तुः साकाङ्क्षत्वसम्भवात्।
किञ्च, `प्रत्ययानां प्रकृत्यर्थाऽन्वितस्वार्थबोधकत्वम्' इति व्युत्पत्तिसिद्धविभत्तयर्थसङ्ख्याप्रकारकबोधं प्रति विशेष्यतया प्रकृतिजन्योपस्थितेर्हेतुत्वस्य कर्त्रादावभावेन सङ्खयाऽन्वयाऽसम्भवः। आख्यातार्थसङ्खयाप्रकारकबोधे आख्यातार्थकर्त्तृकर्मोपस्थितेर्हेतुत्वकल्पनमप्याग्रहमूलकमेव, पदार्थयोराधाराधेयभावेनाऽन्वये विभिन्नपदजन्योपस्थितेस्तन्त्रत्वात्। विभत्तयर्थकर्त्तुर्लिङ्गानन्वयिनोऽद्रव्यतया तत्र सङ्खयान्वयासम्भवात्, "गुणानाञ्च परार्थत्वात्" इति न्यायाच्च। मन्मते अयोग्यतया तस्याः स्वप्रकृत्यर्थानन्वयेऽपि प्रकृत्यरथान्वयनियमोऽक्षत एव, "अणुरपि विशेषोऽध्यवसायकरः" इति न्यायात्।
किञ्चाऽऽख्यातस्य कर्त्रर्थकत्वे राजसम्बन्धिपुरुषाऽभिन्नकर्त्तृकं गमनमित्यभिप्रायेण, `राज्ञः पुरुषो गच्छति' इतिवत् स्वस्वामिभावादिसम्बन्धेन राज्ञः कर्त्तृत्वेन विवक्षया `राजा पुरुषो गच्छति' इति प्रयोगाऽऽपत्तिः। नच तत्र षष्ठीप्रसक्तिः, तदर्थस्य प्रातिपदिकार्थविशेष्यतया विवक्षायामेव तत्प्रसरात्,। व्यक्तीभविष्यति चैतदुपरिष्टात्। आख्यातार्थकर्तुरनामधात्वर्थत्वेन "नामार्थधात्वर्थत्वयोः इति व्युत्पत्तिविषयताया अप्यभावात्।
नच तवापि चैत्रस्य पाकानुकूला कृतिरिति `चैत्रस्य पचति' इति प्रयोगापत्तिरिति वाच्यम्, षष्ठयर्थस्य नामार्थसाकङ्क्षतयाऽऽख्यातार्थकृतेश्च प्रथमान्तार्थसाकाङ्क्षतया परस्पराकाङक्षाविरहात्, "गुरुविप्रतपस्विदुर्गतानाम्" इत्यादाविव पाकादिसम्बन्धितया चैत्रादिविक्षायां षठयन्तप्रयोगस्य सर्वैरेवोपगमाच्च। तस्माद्धात्वर्थक्रियाया आख्यातार्थं प्रति प्राधान्ये निरुक्तमानोपन्यसनं मुधैवेति कोविदो विदांकुर्वन्तु।
पचतिभवतीत्यादौ पाकानकूलाऽऽख्यातार्थकृतौ भावनाश्रयत्वरूपभवतीति तिङन्ताऽर्थभावनाऽन्वयोपगमेन पाकविशिष्टकृतौ भवनकर्त्तृत्वेऽवगते तद्विशेषणपच्यर्थक्रियायामपि तल्लाभात् `पचादयः क्रियाः भवतिक्रियायाः कर्त्र्यो भवन्ति' भाष्यस्थादिपदस्य हेतुपरतया तेन व्यापाराऽर्थकपचादिशब्दस्य समासे पच्याद्यर्थहेतवः क्रियाः कृत्यात्मकव्यापार भवनक्रियानिरूपितकर्त्तृत्ववत्यो भवन्तीत्यर्थस्य तस्माल्लाभाद् वा तादृशैकवाक्यत्वस्याऽस्माभिरभ्युपगमान्न भूवादिसूत्रस्थभाष्यविरोधोऽपि। तादृशभाष्यप्रमाण्यादेव च भवन्मते धात्वर्थप्रकारकबोधे धातुजन्योपस्थितेर्हेतुत्ववन्मन्मतेऽप्याऽऽख्यातार्थभावनाप्रकारकबोधे तिङ्जन्यभावनोपस्थितेरपि विशेष्यतासम्बन्धेन हेतुत्वस्य कल्प्यतयोक्तैकवाक्यत्वस्य सूपपादत्वात्।
नचोक्तबोधाभ्युपगमे अख्यातेन कर्त्तुरबोधनाच्चैत्रादिपदोत्तरं तृतीयाऽऽपत्तिरिति वाच्यम्, तादृशप्रथमान्तार्थप्रकारकबोधे विशेष्यतया तिङ्जन्योपस्थितेर्हेतुतया तस्यां चैत्रास्याऽऽधेयतासम्बन्धेनाऽन्वयाभ्युपगमेन मुख्यविशेष्यतयैव तद्भानेन आश्रयातिरिक्तांशे विशेष्णतया कृत्याक्षयबोधनरूपस्याभिधानस्य तत्र सत्त्वात् तृतीयाऽऽपत्त्यसम्भवात्।
नच चैत्रः पचतीत्येतावन्मात्रप्रयोगेऽपि चैत्रस्याऽऽधेयतासम्बन्धेनान्वयाऽऽपत्तिरिति वाच्यम्, प्रथमान्ताऽर्थप्रकारकबोधे तिङर्थविशेष्यतापन्नभावनोपस्थितेर्हेतुत्वस्यापि कल्पनेनोक्तदोषाऽप्रसक्तेः।
नच चैत्रे पाकानुकूला कृतिरित्यत्रेव चैत्रः पचति भवतीत्यादौ सप्तम्याऽऽपत्तिर्दुर्वारैवेति वाच्यम्, धात्वर्थविशेषणभूताधेयत्वस्य प्रातिपदिकार्थविशेष्यतया विवक्षायामेव सप्तमीविधानात्, एवमाधेयत्वस्य प्रकारतयाऽविवक्षणाच्च। इदं चाख्यातार्थकृतिमुख्यविशेष्यकबोधमभिप्रेत्योक्तम्। वस्तुतस्तु, चैत्रः पचति भवतीत्यादौ प्रथमान्तार्थविशेष्यकबोधाभ्युपगमेऽपि नैकवाक्यताक्षतिः, भवनकर्तृत्वाऽन्विताया एव पाकविषयकभावनायाश्चैत्रांशे प्रकारतया भानसम्भवात्।
एतेन कृतिविशेष्यकबोदाभ्युपगमे प्रथमान्तार्थप्रकारकबोधे तिङर्थभावनोपस्थितेर्हेतुत्वकल्पने गौरवमिति दूषणमलग्नकम्, विशेणतयैव तदन्वयाभ्युपगमादित्यरुचेराह *अपिचेति*। *अभेदान्वयादिति* इदं च तन्मतेऽपि कर्त्राख्यातार्थ इति स्वीयवासनाऽनुसारेण। नैयायिकमते तु कृतेराख्यातार्थतया तस्या आश्रयत्वेनैव प्रथमान्तपदाऽर्थेऽन्वयादित्यवधेयम्।
*भाष्यसिद्धेति* "क्रियाऽपि कृत्रिमं कर्म, क्रियाऽपि हि क्रिययेप्सिता भवति, कया, सन्दर्शनप्रार्थनादिक्रियया" इति "कर्मणायम्" इत्सूत्रस्थभाष्यसिद्धेत्यर्थः। त्वन्मते धावनाऽनुकूलकृतिमान् मृग इत्यावान्तरवाक्यार्थबोधस्य तत्र जायमानत्वेन धावनस्य कर्त्रवरुद्धतया विशेष्णतयाऽन्यत्राऽन्वये नैराकाङ्क्षयेण दर्शने कर्मतयाऽन्वयाऽयोगात्। किन्तु धावनाऽनुकूलकृतिमान् मृगो दर्शनाश्रयस्त्वमित्येव बोध एष्टव्यः। एवञ्चैकमुख्यविशेष्यकबोधजनकत्वरूपैकवाक्यत्वाऽभावात् तद्विरोधो दुर्वार इति भावः।
ननु धावनाऽनुकूलकृतिमन्मृगस्यैव कर्मतया दृश्यर्थेऽन्वयान्नोक्तदोषोऽत आह-*प्रथमान्तेति* कर्मत्वा पत्ताविति*कर्मत्वेन प्रकारतापत्तवित्यर्थः। कर्मतासम्बन्धेन मृगस्य दर्शनक्रियायामन्वयस्त्वभम्भवी, "नामार्थधात्वर्थयोः" इति व्युत्पत्तिविरोधात्, वक्ष्यमाणद्वितीयाऽऽपादनविरोधाच्चेति भावः। *द्वितीयापत्तेरिति* कर्मणोऽत्र तिङाऽनभिधानेन अनभिहिताधिकारीय "कर्मणि द्वितीया" इत्यस्य जागरूकत्वीदिति भावः।
*एवमिति* मृगपदोत्तरं द्वितीयाप्रसङ्गे इत्यर्थः। शतृशानज्विधौ लडर्थकर्तुः प्रथमान्ताऽर्थसामानाधिकरण्येन विशेषितत्वान्मृगपदस्य द्वितीयान्तत्वे तदापत्त्या द्वितीया न भविष्यतीति शङ्कितुराशयः। नहि शत्रापत्तिर्द्वितीयाप्रतिबन्धिका, किन्तु कर्मणोऽभिधान्म्, तदभावसत्त्वाच्च द्वितीया दुर्वरेत्यशयेन समाधत्ते-*एवमपीति*। *असम्भवापत्तेरिति*। मृगस्य कर्मतया दृश्यर्थेन्वयोपगमे 'धावन्तं मगं पश्य' इति वाक्यस्यैवोचितत्वादित्यर्थः।
ननु " अर्थोक्यादेकं वाक्यं साकाङ्क्षञ्चेद्विभागेस्यात्" इति जैमिनिसूत्राद् विच्छिद्य पाठे साकाङ्क्षत्वे सत्येकार्थप्रतिपत्तिजनकत्ववमेकवाक्यत्वमित्यर्थो लभ्यते। प्रकृते तमित्युक्ते कमित्याकाङ्क्षासत्त्वाद्यथाकथञ्चिद्वाक्यद्वयस्य धावनाऽनुकूलकृतीमन्मृगकर्मकदर्शनरूपैकार्थप्रतिपादकत्वाच्च न वाक्यभेदेप्रसङ्गोऽत आह *उक्टेति*। *अध्याहार इति* पूर्वाऽनुपात्ताकाङिक्षतपदस्याऽनुसन्धाने इत्यर्थः। *अनन्वयापत्तेश्चेति* तत्पदेन मृगस्य धावनाऽनुकूलकृतीमन्मृगस्य वा परामर्शेऽपीप्सितस्य तादृशधावनक्रियाया दृश्यर्थकर्मत्वान्वस्य तद्वाक्याद् भानाऽनुपपत्तेरित्यर्थः। उपसंहरति-*एनञ्चेति* आख्यातार्थविशेष्यकबोधाऽङ्गीकर्तृनये एकवाक्यताऽनुपपत्तिरूपदूषणदाढर्ये चेत्यर्थः। * नादरणीयमिति* उक्तदोषग्रस्तत्वादिति भावः। स्वमतनिष्कर्षमाह-*किन्त्विति* फले व्यभिचारनिरासायोपस्थितिविशेष्यतां विशिनाष्टि-*भावनात्वावच्छिन्तेति*।
ननु त्वन्मतेऽप्याख्यातस्य धात्वर्थमुख्यविशेष्यकबोधजनकत्वनियमभङ्गप्रसङ्गोऽत आह *पश्येति* तथाचोक्तनियम एतदतिरिक्तविष्यक इति भावः।
ननु धावनकर्तृत्वविशिष्टमृगरूपवाक्याऽर्थस्य कर्मतया दर्शनेऽन्वयः। तथाच न "नामार्थयोः" इति व्युत्पत्तिविरोधः, वाक्यस्यानामत्वात्। अत एव न ततो द्वितीयापत्तिरपि। धावनविशिष्टस्य दर्शनकर्मत्वाऽवगतौ विशेषणीभूतधावनस्यापि कर्मतालाभाच्च न प्रतिपिपादयिषितान्वयालाभोऽपि। 'चैत्रः पचति भवति' इत्यादौ तूक्तदिशैकवाक्यत्वमुपुपादितमेव। तथाचोक्तकार्य्यकारणभावकल्पे कथं तदनुरोधो बीजमत आह *दिगिति* तदर्थस्त्वेवंरीत्या वाक्यैकवाक्यताप्रतिपादने भाष्यकृत्सम्मतपदैकवाक्यतया प्रतिपिपादयिषितान्वयालाभ एव। किञ्चाभेदेन नीलिशिष्टघटस्य कर्मत्वे प्रतिपिपादयिषिते, 'नीलं घटं जानाति' इत्यादौ द्वितीयानुपपत्तिरिति।
अत्र नैयायिकाः-धावनक्रियाकर्त्तृत्वावरुद्धमृगस्य कर्मतासम्बन्धेन दृश्यर्थेऽन्वयोपगमान्न पदैकवाक्यताभङ्गः। तदवरुद्धत्वञ्च तदन्वयितया तात्पर्य्यविष्यत्वम्। नचैवं कर्मतासंसर्गेण तण्डुलस्याऽप्यन्वयसम्भवात् `तण्डुलः पचति' इति प्रयोगापत्तिरिति वाच्यम्, यतो न वयं सामान्यतः कर्मत्वादिभेदसम्बन्धेन नामार्थस्य धात्वर्थेऽन्वयमभ्युपेमः, किन्तु क्रियान्तरकर्त्तृत्वाऽवरुद्धस्य। नच तण्डुलस्यथा, येन पच्याद्यर्थे तस्य कर्मतासंसर्गः स्यात्। अत एव `काष्ठं भस्मराशिः करोति' इति न प्रयोगः, भस्मराशेः कर्तृत्वानवरुद्धत्वात्। `काष्ठं भस्मराशिः क्रियते' इत्यादौ कर्मत्वान्तरावरुद्धक्रियायां तु तदनवरुद्धस्यापि व्युत्पत्तिवैचित्र्यात्। तस्य तत्र तत्संसर्गत्वाऽनभ्युपगमे वाक्येभेदाऽऽपत्त्या तद्वाक्यजबोधस्य, `काष्ठं नाश्यते' `भस्म क्रियते' इति वाक्यद्वयजबोधस्येव `भस्मकाष्ठविकृतिरन्यविकृतिर्वा' इति संशयनिवर्त्तकत्वानापत्तेरित्याद्यन्यत्र प्रपञ्चितम्।
एवञ्चाऽत्र पदैकवाक्यताया अनायासेनैवोपपत्तौ भावनाप्रकारकबोधे धात्वर्थभावनोपस्थिर्हेतुत्वं निष्प्रमाणाकमेव। नाऽपि मृगपदोत्तरं द्वितीयाऽऽपत्तिः, प्रातिपदिकार्थविशेष्यतया कर्मत्वस्याऽविवक्षणात्। अत एव न तत्र षष्ठीप्रसक्तिरपि, संसर्गस्य प्रातिपदिकार्थविशेष्यतया विवक्षायामेव, "षष्ठी शेषे" इत्यनेन तद्विधानात्। एवम्, `घटो नास्ति' इत्यादावपि बोध्यम्। किन्तु प्रातिपदिकार्थे तत्र प्रथमैव। नाऽपि `नीलं घटं जानाति' इति प्रयोगाऽनुपपत्तिः, घटस्य क्रियान्तरकर्त्तृकत्वाऽनवरुद्धत्वेन कर्मत्वान्तरविशेषणतानापन्नायां जानात्यर्थक्रियायां कर्मतायाः संसर्गत्वासम्भवात्।
`पश्य लक्षमण पम्पायां बकः परमधार्मिकः'।
इत्यादावस्तीत्यध्याहार्य्यम्। वस्तुतस्त्वेतत् दृष्टान्तेन `तण्डुलं पचति' इत्यादौ बोधाऽऽपादनं न विचारसहम्, कर्मताऽन्वयसंसर्गकपच्यर्थविशेष्यकबोधस्याप्रसिद्धौ तथाऽऽपादनासम्भवात्। `तण्डुलं पचति' इत्यादौ विभक्त्यर्थकर्मत्वसम्बन्धेन तादृशबोधः प्रसिद्ध इति चेत्तर्हि तादृशबोधे द्वितीयान्ततण्डुलपदसमभिव्याहृतपचतीत्यानुपूर्व्वोज्ञानस्य हेतुतया तदभावादेवाऽऽपाद्यस्याप्यऽसम्भवात्। तदुक्तम्-'यादृशं फलं क्वचित् प्रसिद्धं तादृशस्यैवाऽऽपत्तिः सम्भवति' इति।
एतेन `पश्य लक्ष्मण' इत्यत्र " आस्तिर्भवन्तीपरोऽनुप्रयुज्यमानोऽप्यसिति" इति भाष्यस्थाऽपिशब्दस्वारस्येन वाक्यपरिपोषकक्रियान्तराऽभावेऽस्तेरध्याहार इत्यर्थलाभेन प्रकृते वाक्यपरिपोषिकाया दर्शनक्रियायाः सत्त्वेन तदध्याहारे मानाभावात् कर्मतासंसर्गेणाऽन्वयोऽनुपपन्न इति दुषणमलग्नकम्। एवञ्चाऽऽख्याते प्रथमान्तपदसमभिव्याहारे प्रायः प्रथमान्तार्थविशेष्यकबोधो निराबाधः। अत एव, `यो यः शूद्रस्य पचति द्विजोऽन्नं सोऽतिनिन्दितः' इत्यत्र प्रधानपरामर्शितदो द्विजपरामर्शकत्वमनायासेन संगच्छते।
ननु प्रथमान्तार्थविशेष्यकबोधवादिमते, `पचतःकल्पं चैत्रौ" इत्यादौ कल्पबाद्यन्तस्य नामतया, तद्विशेषणवाचकतया च प्रथमान्तचैत्रादिपदसमानलिङ्गवचनत्वाऽऽपत्तिराख्यातार्थकृतेः प्रथमान्तार्थचैत्रादावभेदान्वयापत्तिश्चेति चेन्न, स्वार्थिकानां प्रायशः प्रकृत्यर्थताऽवच्छेदकगतकुत्सादिद्योतकतया प्रकृते प्रकृत्यर्थताऽवच्छेदकक्रियागतेषदसमाप्तत्वस्य कल्पपा द्योतनात्, सत्त्वासत्त्वाभ्यां प्रकृत्यर्थतावच्छेदकसमानस्य भावेषदसमाप्तत्वप्रतिपादककल्पबाद्यन्ते नपुंसकैकवचनान्तत्वयोरौचित्यात्। कल्पबाद्यन्तस्य नामत्वेन समानविभक्तिकत्वेन च तदर्थस्य चैत्रेऽभेदाऽन्वयाऽऽपत्तिरिति तु मूर्खप्रलपितत्वादनादेयम्, लक्ष्यार्थकर्तृरेभेदान्वयस्येष्टत्वात्। शक्यार्थस्य त्वयोग्यत्वादेवानन्वयात्, `घटः' `पटः' इत्यादौ व्यभिचारवारणाय व्युत्पत्तावसति बाधके इति विशेषणाच्चेत्याहुः।
अत्रेदमाभाति-प्रथमान्तकर्त्तृवाचकपदसमभिव्याहारे प्रायः प्रथमान्तर्थविशष्यकबोध एव नैयायिकानाम्। क्वचित्तु, पश्य मृगो धावतीत्याद्येकवाक्यताऽनुरोधात् तिङर्थभावनाविश्ष्यकोऽपि सः। तथाहि-वैयाकरणैरुक्तस्थलीयैकवाक्यतानुरोधाद्धात्वर्थभावनाप्रकारकबोधे धातुजन्यभावनोपस्थितेर्हेतुता कल्प्यते।
नैयायिकैस्तु कर्मतासम्बन्धेन तिङर्थभावनाप्रकारकबोधे धातुजन्यभावनोपस्थितेस्तदिति सममेव। `देवदत्तः पचति भवति' इत्येकवाक्यतानुरोधात्प्रथमान्तार्थकर्तृप्रकारकबोधे तिङर्थभावनोपस्थितेरपि तत्कल्प्यते। तथाचोक्तस्थल आधेयतासम्बन्धेन मृगविशिष्टधावनाऽनुकूलकृतेः कर्मतया दृश्यर्थेऽन्वये मृगनिष्ठा या धावनाऽनुकूला कृतीस्तत्कर्मदर्शनाऽऽश्रयस्त्वमिति वाक्यार्थबोधः। धावनविशिष्टकृतौ च बोधितकर्मत्वस्य, "सविशेषणे हि" इति न्यायाद्धावने पर्यवसानाच्च प्रतिपिपादयिषितार्थस्याऽपि लाभः। नाऽपि मृगपदोत्तरं द्वितीयाऽऽपत्तिः, मृगकर्मताया एतद्वाक्यादलाभात्। एवञ्च, `पचति भवती' इत्यत्राऽपि `प्रथमान्तार्थकर्तृविशिष्टा पाककृतिर्वर्त्तमानाभावनाऽऽश्रयिका' इति बोधात् तत्राऽप्येकवाक्यत्वाऽक्षतिः। एवञ्च `प्रकृतिप्रत्ययार्थयोः' इति न्यायाऽविरोधेनैव भाष्यकारोक्तपदैकवाक्यता न्यायनयेऽपि सूपपादेत्यलं परमताऽनुवर्णनेन।
फलितमाह *इत्यव्चेति* आख्याताऽर्थकर्त्तृप्रकारकबोधं प्रति धात्वर्थभावनोपस्थितेस्तादृशकर्मप्रकारकबोधे तादृशफलोपस्थितेर्हेतुत्वे चेत्यर्थः। भावनेत्यस्य वर्त्तमानेत्यादिः। कर्माऽऽख्याते भावनाविशेष्यकबोधोपवर्णनन्तु प्राचामनुरोधेन।
नव्यास्तु-कर्मकृतिफलविशेष्यबोधस्य दृष्टत्वेन कर्माख्यातेऽपि तद्विशेष्यकबोध एव न्याय्यः। एवञ्च प्रत्ययार्थे साक्षात्प्रकृत्यर्थविशेष्यान्वयित्वमिति व्युत्पत्तिरपि न विरुव्द्यते। अत एव `इष्यते पुत्रः' इत्यर्थे पुत्रीयतीति न, भिन्नार्थकत्वात्। किन्तु, पुत्रामिच्छतीत्यर्थ एवेति, "सुप आत्मनः" (पाo सूo 3-1-8) इति सूत्रे भाष्ये उक्तम्। अन्यथोभयत्राऽपि व्यापारविशेष्यकबोधेन विभिन्नार्थकत्वकथनाऽसङ्गतिः, अस्मन्मते त्वेकत्र व्यापारो विशेष्योऽन्यत्रेच्छारूपं फलमिति भिन्नाऽर्थकत्वं स्पष्टमेव, क्यजन्तात्तु कर्मणि प्रत्ययो दुर्लभः, अकर्मकत्वात्। उक्तञ्च कैयटेन-`यदा क्रियाफलस्य प्राधान्यं तदा वाक्यमेव-इष्यते पुत्रः, नतु क्यजन्तः, तस्याऽकर्मकत्वात् कर्मणि प्रत्ययाऽनुत्पादात्' इति । इत्थञ्च `भावनाजन्यैकाश्रयिका वर्त्तमाना विक्लित्तिः' इति बाध इत्याहुः।
भावाऽऽख्याते तु भावनैव विशेष्या, तथैवाऽनुभवात्। तिङ्वनुवादक एव, किन्तु लट्त्वादिना कालार्थकः। संख्या तु न तदर्थः, कर्त्रादिरूपाऽर्थोपस्थित्याऽत्मकहेत्वभावेन तदर्थंसंख्याया अन्वयाऽम्भवात्। किन्तु, `न केवलाः' इत्यादिन्यायेन साधुत्वार्थमेकवचनमेव। "एकवचनमुत्सर्गतः करिष्यते" इति सिद्धान्तात्।
"काले युक्तभिसरणे मुह्यन्ते मृगमोहिकाः।
उष्ट्रासिकाः समास्यन्ते शय्यन्ते हतशायिकाः।।"
इत्यत्र वहुवचनन्तु भाष्यकारप्रयोगादेवेति प्राञ्चः।
नव्यास्तु, एकवचनस्यैत्सर्गिकत्वं सत्येव गमके, यथाऽव्ययात् तदुत्पत्तौ "अव्ययादाप्सुपः" इति। अत एव "ङ्याप्" इति सूत्राऽभावे तिङन्तेभ्यस्तदुत्पत्तिमाशङ्कय तिङा संख्याया उक्तत्वान्नेति परिहृतं भाष्ये। त्वदुक्तरीत्या तिङा कारकगतायास्तस्या उक्तत्वेऽपि प्रकृत्यर्थगतायास्तस्या अनुक्ततयौत्सर्गिकतया वैकवचनस्याशक्यवारणत्वेन तदसङ्गतिः स्पष्टैव।
"द्व्योकयोः" इत्यादेर्लः कर्मणि इत्यनेनैकवाक्यताऽपि-लकाराः कर्मादौ भवन्ति तेषां स्थाने चैकत्वादौ तिबादयो भवन्तीत्याकारैव। नहि तत्र द्वितीया कर्मणात्याद्यस्ति, येन संख्यायाः कारकविशेषणता प्रतीयेत। आवृत्तौ च न मानम्। तस्मात् सर्वत्र संख्यायाः प्रकृत्यर्थ एवाऽन्वयः।
"कस्यैकत्वादौ" इत्याकाङ्क्षायामुपस्थितत्वात् प्रकृत्यर्थाऽन्वयस्यैवोचितत्वात्। कर्मणीत्यादेरपि विधेयं प्रति विशेषणत्वेन, `गुणानाञ्च परार्थत्वात्' इति न्यायेन संख्यायामसम्बन्धात्। कर्मणीत्यादेः कस्य कर्मणीत्याऽकाङ्क्षासत्त्वेन तत्र धात्वर्थान्वयस्य क्लृप्तत्वात्। क्रियायामप्येकत्वमस्त्येव "एका क्रिया" इति रूपप्सूत्रभाण्यात्। एवञ्च तस्य प्रकृत्यर्थेऽन्वयादेकवचनम्। द्वित्वादिकन्तु स्वोत्तरतिङ्वाच्यकारकगतं तत्रारोप्य कर्त्तृकर्मकेषु तिङ्षु द्विवचनादिसद्धिः। अत एव न साधने द्वित्वादिसंशयः। क्रियागतसंख्यारोपस्य साधनज्ञाननिमित्तत्वात्। अनेकः पचतीत्याद्यनुरोधेन साधनेऽपि संख्यारोपस्य तवाऽपि वाच्यत्वात्, तस्याऽप्यऽन्वयः प्रकृत्यर्थ एव। प्रकृते, हतशायिकाः शय्यन्ते इत्यादौ हतशयनसदृशागताया एवारोपो नाऽन्यगताया इत्यत्र धात्वर्थशक्तिस्वभाव एव बीजम्। अत एव भावे द्विवचनादिः। तदुक्तम्-
"एकत्वेऽपि क्रियाऽऽ क्रियाऽऽख्याते साधनाश्रयसंख्यया।
भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रयः।।" इति ।
एवञ्चाख्यातार्थप्रकारकबोधे धातुजन्योपस्थितिः। कारणमित्येक एव कार्यकारणभाव इति लाघवम्, " प्रत्ययानाम्" इति व्युत्पत्तिपरिपालनञ्चेत्याहुः।
तदपरे न क्षमन्ते, औत्सर्गिकैकवचनस्य समयपरिपालनार्थकतया तत्र गमकाऽऽकाङ्क्षाया अभावेन `सत्येव गमके' इत्युक्तिर्व्यर्था। यदपि गमकतया ङ्याप्सूत्रभाष्योपन्यसनम्, तत् तथैव, यतस्तदेव भाष्यं क्रियायां संख्यासामान्याभावबोधकम्। तथाहि-ङ्याप्सूत्राऽभावे तिङन्तात् सुबुत्पत्तिशङ्का प्रत्ययार्थकारकसंख्यामादाय, प्रकृत्यर्थगतसंख्यामादाय वा वक्तव्या। तत्र प्रकृत्यर्थस्याऽसत्त्वरूपतया संख्यान्वयाऽयोगात्। कारकगतसंख्यामादायैव प्रसक्ता, सा तिङोक्तत्वादित्यनेन निराक्रियते। समयपरिपालनस्य तिङैव कृतत्वात्, तदप्राप्त्यैव तन्निराकरणस्याऽप्रसक्तेः। `सुप्तिङन्तं पदम्' `तिङ्ङतिङः' इत्यादिसूत्रस्वारस्यादुक्तार्थज्ञापनापेक्षया तिङ्ङन्तादौत्सर्गिकैकवचनाभावस्यैव तेन ज्ञापयितुमुचितत्वाच्च।
`एका च क्रिया' इति भाष्यमपि न क्रियायामेकत्वं बोधयति, किन्तु संख्यासामान्याऽभावमेव। कथमन्यथा साधारणैकवचनेनैवोपपत्तौ वचनारम्भसार्थक्यम्। किञ्चोपमाने बहुत्वोपपादनसामर्थ्येनेति वदता कारके द्वित्वाद्युपपादनसामर्थ्येनेत्यऽप्युक्तप्रायम्। एवञ्च, हतशायिका इत्यत्रोपमाने बहुत्वोपपादकबहुवचनवत् प्रकृते कारके कस्यचिद् द्वित्वाद्युपपादन स्याभावात् तदारोपासम्भवः।
नच चैत्रमैत्राविति द्विवचनादितस्तदवगतिः, चैत्रो मैत्रश्च पचत इत्यादौ तदभावात्,कारकान्वयात्प्रागेव चैत्राद्यन्वितायास्तस्याः कारकान्वितत्वाच्च। भावाऽऽख्याते स्वोत्तरतिङ्वाच्यकारकाऽप्रसिद्धया द्विवचनासम्भवाच्च। `कस्यैकत्वे' इत्याकाङ्क्षाया योग्यजिज्ञास्यसम्बन्धिन्या एवौचित्यात्, क्रियाया असत्त्वेन परिच्छेदकाकाङ्क्षाया एवासम्भवेन तत्र तदन्वयोक्तेः पराहतत्वाच्च। पचतीत्यादिजन्यबोधानन्तरं जायमानस्य सर्वसिद्धैकत्वादिवैशिष्ट्येन जिज्ञास्यकारकबोधक `कः कौ' इत्यादिप्रश्नस्याऽनुपपनत्त्या सिद्धायाः कारके संख्यान्वयप्रतीतेरनुपपत्तेरेव कर्मणीत्यादिपदानुवृत्तौ मानत्वात्। उक्तवाक्यवदीयस्याप्याख्यातार्थक्रियाया एकत्वेऽपि संख्यासामान्याभाववत्त्वेऽपि क्वचित् कर्त्तृकर्मादिबाहुल्येन सा नानेव प्रतीयते इत्यर्थान्न तद्विरोधोऽपि। ततः शब्दमर्य्यादया धात्वर्थे तिङर्थसङ्ख्याऽन्वय इत्यर्थस्यालाभाच्च। "गुणानाञ्चपरार्थत्त्वात्" इति तु प्रधानस्यान्वययोग्यत्वे सत्येव। अत एव कैयटादिभिस्तिङर्थसंख्यायाः कारक एवाऽन्वयः स्वीकृतः। एवञ्च भाष्यकारप्रयोगादन्यत्र भावाख्याते द्विवाचनाद्यसाध्वेवेत्यधिकं स्वयमूह्यम्।
*आख्यातार्थकर्त्रादिभिरिति* `समानविभक्तिकयोरेवाऽभेदान्वयः' इति नियमस्य प्रागेव दूषितत्वादिति भावः। अकर्मकस्थलेऽपि फलव्यापारोभयार्थकत्वं धातोरन्यैरपि स्वीकार्य्यमिति सूचयञ्च्छाब्दबोधप्रकारमाह* घटो नश्यतीति*। तद्व्यापाराऽऽकाङ्क्षायामाह* स चेति। *प्रतियोगित्वेति* प्रतियोगित्ववैशिष्ट्यन्तु निरूपकता सम्बन्धेन बोध्यम्। तत्समवधानिमेव तदनुकूलो व्यापार इत्यर्थः।
*अत एवेति* यतो नाशमात्रं नार्थः, प्रतियोगित्वविशिष्टनाशफलकतत्तत्सामग्रीरूपो व्यापारोऽप्यत एवेत्यर्थः। फल-व्यापारयोरैकाधिकरण्याच्च न सकर्मकत्वम्। एतदर्थमेव प्रतियोगित्वविशिष्टेत्युपात्तम्। यन्मते नाशमात्रं न धातोरर्थस्तन्मते नाशोत्पत्त्यनन्तरं नाशस्य सदैव सत्त्वान्नश्यतीति प्रयोगापत्तिस्तस्य ध्वंसाऽप्रतियोगित्वाच्च नष्ट इति प्रयोगाऽनुपपत्तिरिति सूचनाय, तस्यां सत्यासित्यादिना त्रैकालिकप्रयोगप्रदर्शनम्। नैयायिकमतं तु लुङर्थनिरूपणे वक्ष्यत्।
जानात्यादिसविषयार्थकानां ज्ञानाद्यतिरिक्तव्यापाराद्यर्थकत्वानभ्युपगमे सकर्मकत्वाऽनुपपत्तिं सूंचयन् स्वमते शाब्दबोधं दर्शयति *देवदत्तो जानातीत्यादि*। आदिपदग्राह्याऽर्थमाह * इच्छादीति*। क्वचिज्जानातीत्यादावित्येव पाठः।
*स चेति*। ज्ञानानुकूलो व्यापारश्चेत्यर्थः। तदन्वेषणायात्ममनः। संयोगस्यैव सुलभत्वादाह *अन्तत इति* तदनुपस्थितावित्यर्थः *आश्रयतैवेति* तस्या अनवयवत्वेऽपि साऽवयवत्वारोपाद् व्यापारत्वं निर्वाह्यमिति भावः। (1-2)
(1-3) उपोद्धातसङ्गत्या शबादीनां द्योतकतां निरूपयितुमाह *नन्विति* ननु `सकृदुच्चरितः शब्दः सकृदर्थं गमयति' इति व्युत्त्पत्तेर्नैकदाऽर्थद्वयबोधोऽत आह *कर्त्तृमात्रबोधवदिति* मात्रशब्दोऽवधारणे *तात्पर्य्येति* तत्तदर्थप्रतीतिच्छयोच्चरित्वरूपतात्पर्यग्रहजनकमित्यर्थः। अत एव कर्त्तरि शबित्यादौ कर्त्रादिग्रहणं सार्थकम्। अन्यथा `लः कर्मणि' इत्येतद्विहितलादेशैरेव कर्त्रादिबोधेनान्यलभ्यत्वात्तद्वैयर्थ्यं स्पष्टमेवेति भावः।
मूले *फलव्यापारयोस्तत्रेति*। तत्रेति धातूपस्थाप्ययोरित्यर्थः। `फलव्यापारयोः' इति निर्द्धारणे सप्तमीत्याशयेन व्याचष्टे सारे *फल इति*। (1-3)
(1-4) *व्यभिचार इति*। यगादीनामन्वये, शबादीनां व्यतिरेके चेत्यर्थः। यगादिसत्त्वेऽपि फले आश्रयाऽन्वयाऽबोधाच्छबाद्यभावेऽपि व्यापारे तिङर्थ आश्रयान्वयात् तदेवोपपादयति *कर्मणः कर्त्तृत्वविवक्षायामित्यादि*। सौकर्य्यातिशयद्योतनार्था च तद्विवक्षा तण्डुलादिगताग्निसंयोगादिरूपव्यापारस्यैव फलजनकतया धात्वर्थत्वविवक्षायामिस्यर्थः।
वस्तुतस्तु फलस्यापि जनकव्यापारगतपौर्वापर्य्यारोपेण व्यापारत्वेन भानात् इति पूर्वमुक्तत्वात्तण्डुलगतफलस्यैव व्यापारत्वेन विवक्षायामित्यर्थः। *साधनादिति*। तथाच व्याभिचारान्न तङादीनां द्योतकतेति भावः।
*क्रमादित्यादिति*। कर्मकर्त्तृविषयादाविति मूलस्थादिपदेनेत्यर्थः सामान्येत्यादिक्रमादित्यस्य विवरणम्, सविषयधात्वर्थनिरूपितकर्मत्वस्य विषयत्वे पर्य्यवसानमित्यभिप्रेत्याह *विषयकेति*। सकर्मकधातुसमभिव्याहृतयगादीनां कर्मद्योतकत्वादाह *सकर्मकेति* पच्यते तण्डुलः स्वयमेवेत्यादौ यगादि तु न तथा, किन्त्वातिदेशिकम्। `कर्मवत्कर्मणा' इति विहितातिदेशत्वस्याऽऽकरे सिद्धान्तितत्वान्न तत्र व्यभिचार इति भावः। *भावसाधारणेति*। भावकर्मणोः सार्वधातुके यगित्यादिविहितेत्यर्थः। तेन, `दीपजन' इत्यादिविहित्व्यावृत्तिः।। (1-4)
(1-5) *एवमिति* उक्तप्रकारेणेत्यर्थः। ननु फलव्यापारयोरित्यनेन सामान्यतो धातोः फलव्यापारवाचकत्व प्रतीज्ञातस्योत्तरक्षणे एवोपपत्तिभिस्तद्व्यवस्थापनं कर्त्तुमुचितम्, नतु वाक्यार्थनिरूपणानन्तरम्, तेन जिज्ञासाविच्छेदादित्याशङ्कायामाह *सूचीकटाहन्यायेनेति*। तथाच सामान्यतः फलव्यापारयोर्धात्वर्थत्वे, आश्रयस्य तिङर्थत्वे च ज्ञाते, निदृसनीयवादविप्रतिपत्तिकत्वेन सुप्रतिपाद्यतया च प्रथमं वाक्यार्थे एव शिष्यजीज्ञासितत्वादिति भावः।
`लडाद्यन्ते' इत्यतद्गुणसंविज्ञानबहुव्रीहिणा धातुपरम्। तथाच, यजेत, पचेतेत्यादौ यज्यादिधातावित्यर्थः। *अवाच्यत्वम्* वाच्यतानिरूपकत्वाऽवाऽभावम्। `प्रभाकरदीन्' इत्यादिना नैयायिकसंग्रहः।
यद्यपि व्यापारो धात्वर्थत्वेन नैयायिकसम्मतस्तथापि नाऽसौ तन्मते भावनापदव्यपदेश्य इति भावः। `व्यापरो भावना सैव' इत्यादिपूर्वार्द्धस्य यो `गुणभूतैरवयवैः' इत्याद्युक्तलक्षणलक्षितोऽर्थस्तद्वाचकव्यापारपदं भावनादिपदैविव्रियते। विव्रियमाणस्य विवरमसमानार्थकत्वेन धातोर्भावनावाचकत्वसिद्धिरित्यर्थः। तत्रोद्देश्यविधेययोरैक्यमापादयतः सर्वनाम्नः पर्ययोणान्यतरल्लिङ्गकत्वस्य, `शैत्यं हि यत् सा प्रकृतिर्जलस्य `इत्यादिबहुषु स्थलेषु दर्शनान्न `सा' इति स्त्रीलिङ्गनिर्द्देशानुपपत्तिः। पुँल्लिङ्गत्वेऽपि,`सोऽचि लोपे चेत्' इति लोपेन साधुत्वाच्च। भावनैव वाऽस्तु तत्पदपरामृष्या।
ननु सम्भवेदेवं धातोर्व्यापारार्थकत्वे, तत्र च किं मानमित्याशङ्कक्ष कृञा धातुविवरणे मानं दर्शयति सारे *पचति पाकमुत्पादयतीति* ननु `या क्रिया भावना सैवोत्पादनाऽपि च सा स्मृता' इत्युक्तेऽपि क्रियाया भावनात्वलाभे किमिति व्यापारपदोपादानमत आह-*व्यापारपदञ्चेति* तथाच व्याप्रियतेऽनेनेति करणव्युत्पन्नेन, भावव्युत्पन्नेन वा व्यापारपदेन फलानुकूलयावतामधिश्रयणादीनां भावनात्वलाभाय तदुपादानम्। क्रियापदेन तु कृतिपदवद्यत्नमात्रार्थकत्वस्यापि सम्भवेन तन्मात्रस्यैव तद्विवरणेन भावनात्वलाभः स्यादिति भावः।
*अत एवेति* तत्तद्रूपेण फूत्कारवादीनां धातुवाच्यत्वादेवेत्यर्थः। *सर्वसिद्ध इति*। अत एव पचतीत्युक्ते फूत्कारादिमान्न वेति सन्देहानुदयादिति भावः। यद्रित्यां नैयायिकैर्व्यापारत्वस्याख्यातवाच्यतावच्छेदकत्वं निरस्य कृतित्वस्य तद्व्यवस्थापितं तद्रीत्यैव धातोः कृतित्वमात्रं शक्यताऽवच्छेदकं भविव्यतीति तटस्थाऽऽशङ्कां निराकरोति *नचैव मेषामित्यादि* `नच' इति साध्वीत्यनेनान्वितम्।
*एषाम्* अधिश्रयणत्वादीनाम्। *गौरवेति* धातुवाच्यत्वावच्छेदकत्वे गौरवापत्त्येत्यर्थः। तेषां कृतित्वापेक्षया गुरुत्वान्नानात्वाच्चेति भावः।
*तदवच्छेदकमिति* धातुवाच्यताऽवच्छेदकमित्यर्थः। ननु कृतेरेव धात्वर्थत्वे रथादावचेनते तद्बाधात्तादृशप्रयोगानुपपत्तिरत आह *रथो गच्छतीत्यादि* व्यापारादित्यादिनाऽऽश्रयत्व-प्रतियोगित्वपरिग्रहः। जानातीत्यादावित्यादिपदग्राह्ये घटो नश्यतीत्यादौ नाशाश्रयत्वस्य बाधात्प्रतियोगित्वे एव लक्षणाया द्रष्टव्यत्वात्।
*नैयायिकरीतिरिति* आख्यातार्थविचारे हि तैर्व्यापारे लक्षणाम्, कृतौ च शक्तिं स्वीकृत्याऽयं प्रयोंगः समर्थिरस्तद्वन्मयाऽपि समर्थनीय इति सादृश्यात् रीतिपदोपादानम्, न त्वन्यांऽशे तन्मतादर इति भावः। लाघवोपष्ठब्धमानादेवाऽर्थसिद्ध र्न केवलाल्लाघवादित्याशयेन मीमांसकरीत्या तद्रीतेरेवाऽसाधुत्वमाविष्करोति *शक्यताऽवच्छेदकत्वस्येति* तथाच असति बाधके शक्तिर्गुरुणाऽपि धर्मेणावच्छिद्यते, कृतित्वाल्लक्षणावदित्यनुमानात्तेषु शक्तिः सेत्स्यतीति भावः।
ननु तेषां कृतीत्वाऽपेक्षया गुरुत्वमेव बाधकमत आह *तयोरिति* शक्यतावच्छेदकत्व लक्ष्यतावच्छेदकत्वयोरित्यर्थः। *बीजाभावादिति* सम्भवति समनियते लघौ धर्मे गुरौ तदभावादित्यस्य प्रकृतेऽनवतारेण यद्यवच्छेदकत्वं स्वरूपसम्बन्धविशेषस्तदा तत्स्वरूपत्वस्य गुरूणामपि सत्त्वात्किमनुपपन्नम्। अथातिरिक्तं तदा गुरुधर्मेऽपि तत्स्वीकार आवश्यकः। गङ्गातीरत्वं लक्ष्यताऽवच्छेदकमिति व्यवहारात्, वृत्त्यवच्छेदककोटिप्रविष्टत्वस्योभयत्र सम्याच्च। तत्र न्यूनाऽतिरिक्तवृत्तित्वरूपाऽवच्छेदकत्वमादाय तादृशव्यवहारो यदि, तदा सर्वत्रैव तथास्त्विति भावः।
ननु लाघवादेव न तस्याऽवच्छेदकत्वं वदामः, किन्तु मानादपीत्याशङ्कते *नचेति* यत्नार्थककरोतिनेत्युक्तया व्यापारजन्यत्वप्रतिसन्धानाऽविशेषेऽपि घटाङ्कुरयोः कृताऽकृतव्यवहारात्कृञो यत्नार्थकत्वं सिद्धमेवेति ध्वनयति *विवरणादिति* तदर्थप्रतिपादकपदकथनरूपादित्यर्थः। धातुमात्रं यत्नत्वविशिष्टे शक्तम्, बाधकं विना यत्नत्वविशिष्टाऽर्थककरोतिप्रतिपादिताऽर्थकत्वात्, यद्यद्विशिष्टबोधकपदप्रतिपादितार्थकं भवति तत्तत्र शक्तम्। घटत्वविशिष्टशक्तघटपदप्रतिपादतार्थककलशादिपदवदिति सामान्यतो दृष्टाऽनुमानविधया शक्तिग्राहकत्वाद्विवरणस्येति भावः। यत्न एवार्थ इति पाठः। यत्न एव आख्यातार्थ इति पाठस्तु प्रकृतसन्दर्भविरुद्धः। *अर्थः* धात्वर्थः। एवकारेण व्यापारस्य वाच्यत्वव्यवच्छेदः।
कृञो यत्नार्थकत्वे एव धातुमात्रस्य तदर्थकत्वसम्भावना। तदेव गगनकुसुमोपमानमित्याह *रथो गमनं करोतीत्यादि* रथादावचेतने यत्नस्य बाधेन तादृशप्रयोगाऽनुपपत्त्या न कृञो यत्नार्थकत्वम् अपिनु व्यापारार्थकत्वमेवेति, तेन विवरणाद्धातोर्व्यापारार्थकत्वमेव सिव्द्यतीति भावः।
ननु रथो गच्छतीति प्रयोगस्थधात्वर्थप्रतिपादककृञो व्यापारे लाक्षणिकत्वान्न तेनं यत्नार्थकत्वक्षतिरत आह *बीजादिनेति* तथाच कृञो व्यापारे प्रयोगप्राचुर्य्येण तत्रैव शक्तिर्न्याय्येति तेन विवरणाद्धातोर्व्यापारार्थकत्वमवश्यमङ्गीकरणीयमिति भावः।
अत्रेदमवधेयम्-वैयाकरणमतेऽपि पचत्यादेः फूत्कारादिव्यापारे व्यापारत्वेनैव शक्तिः, व्यापारसामान्यार्थककृञा विवरणात्। एवञ्च व्यापारत्वेन कृतेरपि संग्रहान्मत्तो भूतं नतु `मया कृतम्' इति तत्र तत्रोक्तं सङ्गच्छते। तत्तद्रूपेण क्वचिद् बोधस्तु पचत्यादीनां तत्तद्रूपावच्छिन्ने लक्षणयोपपाद्यः।
शक्यादन्येन रूपेण ज्ञाने भवति लक्षणा। इत्यभियुक्तोक्तोः।
अत एव वाक्यार्थप्रदर्शनाऽवसरे विक्लित्त्यनुकूलो व्यापारः, ज्ञानाऽनुकूलो व्यापार इति व्यापारसामान्यार्थकव्यापारपदेन सोत्कीर्त्तितस्य सङ्गतिरिति। `कृञोऽकर्मकतापत्तेः' इति मूलमवतारयति *किञ्चेति*। *अवाच्यत्वे* धात्वशक्यत्वे। *द्वितीया स्यादिति* धात्वर्थोत्पत्तिरूपफलाऽऽश्रयत्वात्।
ननु घटो भवतीत्यत्र कृत्याश्रयत्वरूपकर्त्तृत्वबोधेऽपि धात्वर्थफलाऽन्विताऽऽख्यातार्थव्यापाराश्रयत्वरूपकर्तृत्वसत्त्वात्तेन कर्मत्वस्याऽवश्यं बाधेन नोक्तस्थले द्वितीयाप्रसक्तिः, अन्यथा कर्त्तरि लकारोऽप्यनाकरतामापद्येतेत्याशङ्कय निराकुरुते *नचेति*। घटस्येति* घटं भावयतीत्यत्रेव, घटो भवतीत्यत्राऽपि द्वितीयाऽऽपत्तिः। मन्मते तु धातूपात्तव्यापाराऽऽश्रयत्वेन परया कर्त्तृसंज्ञाया बाधान्न तदापत्तिरिति भावः।
निराकरणप्रकारतामाह *अनुगतेति* चेतनाऽचेतनसाधारणेत्यर्थः। *त्वन्मते* भवदीयमते। *दुर्वचत्वेनेति* वक्तुमशक्यत्वेनेत्यर्थः। तदेवाऽऽह *कृत्याश्रयत्वस्येति* तस्याऽचेतनेऽव्याप्तत्वादिति भावः। *कारचक्रप्रयोक्तृत्वस्य वेति* तद्धात्वर्थोयनिखिलकारकप्रवर्त्तकत्वरूपस्य चेत्यर्थः। नैयायिकमत निरस्य मीमांसकं प्रत्याह *धात्वर्थेति*। *कारकमात्रेति* मात्रपदं कृत्स्नाऽर्थकम्। सर्वस्याऽपि कारकस्य धात्वर्थाऽनुकूलयत्किञ्चित्क्रियाश्रयत्वात्। क्रियाजनकत्वस्यैव कारकत्वादिति भावः।
नन्वचेतने कृत्याश्रयत्वरूपकर्तृत्वस्य बाधेऽपीतरव्यापाराऽनधीनत्वप्रकारकविवक्षाविषयव्यापाराश्रयत्वरूपकारकचक्रप्रयोक्तृत्वरूपमेव कर्त्तृसंज्ञानियामकम्। व्यापारश्च क्वचित् कृतिः, क्वचित्, संयोगादिरेव। तादृशव्यापाराश्रय एव `स्वतन्त्रः कर्त्ता' इति सूत्रे स्वतन्त्रपदार्थः, तत्सूत्रप्रणयनसामर्थ्यात्। तदुक्तम्-`कारके' इति सूत्रे भाष्ये-प्रधानेन समवाये स्थाली परतन्त्रा व्यावाये स्वतन्त्रा। किं पुनः प्रधानम्? कर्त्ता। कथं ज्ञायते कर्त्ता प्रधानमिति? यत्सर्वेषु कारकेषु सन्निहितेषु कर्त्ता प्रपर्त्तयिति भवति' इति। स्थाली काष्ठौः पचतीत्यादौ स्थाल्येव तत्त्वेन विवक्षिता इति तद्भावः। वक्ष्यते चाऽधिकमुपरिष्टात्।
मीमांसकमते प्रसक्तदूषणोद्धृतिरपि वक्ष्यमाणैव। एवञ्च घटगततादृशव्यापारस्यैव स्वातन्त्र्यविवक्षया कर्तृत्वस्य निराबाधेन न द्वितीयाप्रसङ्गोऽत आह
- अपिचेति*
स्वर्थफलोति *शक्यतावच्छेदककोठ्यप्रविष्टाऽऽश्रयकत्वेन फलस्य विशेषणान्न जीवत्यादावतिप्रसङ्गः। एवमविवक्षितकर्मकत्वाऽभाववत्त्वेनाऽपि स्वार्थो विशेषणीयः, नाऽतोऽविवक्षितकर्मतयाऽभ्युपगतभावलकारप्रकृतिस्मृधातौ सः वैयधिकरण्यं त्वग्रे विवेचयिष्यते।
*असम्भवीति* तथाय व्यापारवाचकत्वं धातोरावश्यकमिति भावः।
*अन्यतमत्वमिति* पच्यादिधातून् श्रृङ्गग्राहिकयोपादाय तावद्भिन्नभिन्नत्वमित्यर्थ *तत्त्वमिति* अनुगतं सकर्मकत्वमित्यर्थः। *दर्शनादिति* यथा जिधातोरभिभवार्थेऽकर्मकत्वस्य, न्यूनीकरणार्थ सकर्मकत्वस्याभ्युपगमात्सकर्मकधातुलक्षणे तत्प्रवेशेऽकर्मके तस्मिन्नतिव्याप्तिरप्रवेशे च न्यूनीकरणेऽर्थे तत्रैवाऽव्याप्तिरित्यर्थः।
यद्यपि तत्तदर्थविशिष्टानेवोक्तरीत्योपादाय सकर्मकत्वनिर्वचने दोषाभावस्तथापि `बहुलमेतन्निदर्शनम्' इति स्मरणात्तत्र तत्रावृत्तिकरणाच्च तावद्धातूनां युगपद् ग्रहणाऽसम्भवे तात्त्पर्यमिति बोध्यम्। *तदेतदिति* पूर्वोक्तदूषणगणमित्यर्थः।
ननु कृञोऽकर्मकतापत्तेरित्यस्य कृञो यत्नार्थकत्वनिरासप्रतिपादकस्य कथमुक्तार्थाऽभिसन्धायकत्वमित्याशङ्कयाऽभिसन्धानप्रकारं विशदयति *अयम्भाव इति*। *फलमात्रामिति* मात्रपदेन व्यापारव्यावच्छेदः, करोतीत्यादौ इत्यादिना सविषयार्थधातुसंग्रहः।
*तन्मात्रमिति* यत्नादिरूपविषयिमात्रमित्यर्थः *अकर्मकतापत्तिरिति* व्यापारस्य धात्ववाच्यत्वे उक्तलक्षणाऽऽक्रान्तस्येति भावः। केचित्तु, अकर्मकत्वापत्तिरिति विषय्यर्थककृञाद्यभिप्रायेणैव तेषामेव प्रकान्तत्वात्, एवं च न तदप्रसिद्धिरित्याहुः। *उक्तरीत्येति*। उक्तप्रायरीत्या=सकर्मकधातुभिन्नधातुत्वमित्याकारिकयेत्यर्थः, यथाश्रुते धातोर्व्यापाराऽवाचकत्वे स्वार्थफलसमानाधिकरणव्यापारवाचकत्वरूपाऽकर्मकत्वापादनस्यऽसम्भवदुक्तिकत्वापत्तेः।
नन्विदानीं धातुमात्रस्यैव व्यापारवाचकत्वस्याऽसिद्धित्वात् सकर्मकरूपप्रतियोग्यऽप्रसिद्ध्या भवदुक्तार्थापादनस्याऽप्यसम्भवदुक्तिकत्वं समानम्। अन्यतमत्वरूपस्य तु स्वयमेव निराकृतत्वादुक्तपदेन तद्ग्रहणाऽसम्भवादिति चेन्न, नयत्यादिद्विकर्म्मकाणां संयोगाऽद्यनुकूलाऽजादिनिष्ठक्रियात्मकफलार्थकत्वस्य धातोः फलमत्रार्थकत्ववादिनाऽप्यभ्युपगमादजादिनिष्ठक्रियायाः संयोगरूपफलजनकत्वाल्लोकप्रसिद्धेश्च व्यापारत्वात्तदर्थकधातून् ण्यन्तादिधातून् वोपादायैव कथञ्चित्प्रसिद्धिसम्भवादिति नोक्तव्याख्याने दोषः।
नन्वेतावता ज्ञाकृञादीनां व्यापार्थकत्वं सिद्धम्, न धातुमात्रस्येत्यतः कृञ्पदं धातुमात्रपरतया व्याचष्टे-*कृञइति*। *धातुमात्रोपलक्षणमिति* कृञ्पदं शक्यलक्ष्यसाधारणधातुत्वेनाऽजहत्स्वार्थलक्षणया धातुमात्रबोधकम्। तथाच धातुमात्रस्याऽकर्मकतापत्त्या न फलमात्रार्थकता, किन्तु व्यापाराऽर्थकताऽपीत्यर्थः। *अकर्मकतेति* पूर्वोक्तभिन्नसर्वधातूनां सेत्यर्थः. यदि फलवाचकत्वमेव सकर्मकत्वं, तदा सर्वेषामविशेष्ण सकर्मकतैव स्यादित्याह *सकर्मकतेति*
वस्तुतस्तु, उक्तयुक्तया धातोर्व्यापारार्थकत्वसिद्धिस्तदैव स्याद् यदि स्वारथफलेत्यादिसकर्मकलक्षणं सकर्मकधानुमात्रसाधारणं स्यात्, तदेव न, अध्याद्युपसृष्टशीङादिष्वऽव्याप्तेः। तस्माद् भ्वादीनां धातुत्वाऽनापत्तिः। मैत्रेण पाचयतीत्यादौ मैत्रादीनां कर्त्तृत्वाऽनुपपत्तिश्च तथा। अत एव `निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते' इत्याद्युपपत्तिरिति दिक्।
ननु, `कृञोऽकर्मकतापत्तेः' इति ग्रन्थो न मीमांसकमतनिराकरणपरः। तस्य, तस्मात् करोतिरित्यादिना निराकरिष्यमाणत्वात्, तैः कृञा यत्नार्थकत्वाऽनभ्युपगमाच्च। नापि नैयायिकमतनिरासपरः, नैयायिकैः फलव्यापारयोरुभयोरपि धातुवाच्यत्वाऽभ्युपगमात्। तदुक्तमाख्यातवाददीधितौ `स्तां वा फलव्यापारौ पृथगेव धात्वथौ' इति। धातोः फलाऽबच्छिन्न व्यापारार्थकत्वे कर्माख्याते फलस्य द्वेधा भानापत्त्या तयोर्विशकलितयोरेव शक्तिर्ज्यायसीति तद्भावः। फलस्य धातुवाच्चत्त्वे परं केषाञ्चिन्न्यायविदां विप्रतिपत्तिः, कर्माख्यातेन द्वितीयया च तद्भानसम्भवात्। किञ्चैतद्ग्रन्थस्य धातुमात्रस्य व्यापाराऽर्थकत्वसाधकत्वे धातोरकर्मतापत्तेः, `फलमात्राऽर्थता न हि ' इत्येव ब्रूयान्न तु कृञ इत्यपरितोषादन्यार्थपरतया मूलमवतारयति *अथवेति*।
*प्रसाध्येति* पूर्वाऽर्द्धस्य विवरणपरतया व्याख्यानदिति भावः। *तदिति* धातुवाच्यत्वमित्यर्थः। *जानातिकरोत्यादेरिति* निर्दिष्टयत्नार्थकभिन्नसविषयार्थकधातुमात्रोपलक्षणम्। *क्रियामात्रेति* मात्रपदेन फलव्यावच्छेदः। सकर्मकाणां प्रायशः फलावच्छिन्नव्यापारवाचकत्वम्, विशकलितफलव्यापारोभयाऽर्थकत्वं वा, जानात्यादीनां तु ज्ञानादिव्यापारार्थकत्वमेव। अकर्मकाणां तु सर्वेषां न फलार्थकत्वम्, तस्य ततोऽननुभवात्, किन्तु व्यापाराऽर्थकत्वमेवेति प्राचीननैयायिकाभ्युपगमात्। वक्ष्यमाणरीत्या कृञः फलार्थकत्वे तु तुल्यन्यायात् सर्वेषामेव तत्सिद्धिरिति भावः।
ननु कृञः फलावाचकत्वे कथमकर्मकत्वमत आह *अयं भाव इति*। वाचकत्वादीत्यादिना स्वार्थव्यापारव्याधिकरणफलवाचकत्वस्य नैयायिकनये फलाऽवच्छिन्नव्यापाराऽर्थकत्वस्याऽपि सकर्मकत्वात्तस्य च सङ्गहः। जानात्यादीनामेव फलार्थकत्वानभ्युपगम उच्छेदपदार्थोऽव्याप्तिः, सर्वेषामेव तदनभ्युपगमे त्वसम्भवः। तथाच कृञधातुः फलवाचकः, सकर्मकत्वात्, पच्यादिवदित्यनुमाने विपक्षबाधकतर्कप्रदर्शकं कृञोऽकर्मकेत्यादीति बोध्यम्।
वस्तुतस्तु, व्यापारो भावना सैवेति पूर्वाऽर्द्धमेव विवरणप्रदर्शनेन धातोः फलव्यापारोभयार्थत्वसाधकम्। तथाहिधातोर्व्यापारार्थकत्वेऽसिद्धे भावनादिपदैर्व्यापारपदविवरणमात्रान्न तस्य तावत्सिद्धिरिति स्फुटमेव। अतः पचति करोति, पाकभावना, तादृश्युत्पादना, इत्यादिविवरणपरतैव तस्य वाच्या। व्याख्यातं च तथैव सारकृता। तथाच व्यापारार्थककृञेव विक्लित्त्याद्यर्थकपाकादिपदेनाऽपि विवरणादुभयोरपि धात्वर्थत्वसिद्धिः तत्र जानात्यादौ फलांशे विप्रतिपन्नं नैयायिकं प्रत्युक्तार्थापष्टम्भकतया कृञोऽकर्मकतेत्याद्युक्तम्। धातुमात्रे व्यापाराऽवाचकत्वं वदन्तं मीमांसकं प्रति तु तदुपपादकतयैवतस्मात्करोतिरित्यादि।
यद्यपि व्यापारांशे विप्रतिपन्नं प्रत्यपि कृञ इत्याद्युपष्टम्भकम्, तथापि विवरणस्यैवाऽऽख्यातपरतया सकर्मकत्वस्य व्यापार्थकत्वं विनाऽऽप्यन्यथासिद्धावुद्भावितायां तद्ग्रन्थस्याऽऽवश्यकत्वादिति।
नव्यनैयायिकास्तु-सकर्मकधातूनां फले तज्जनकत्वेन विवक्षितव्यापारेषु चोपलक्षणीभूतसाधनाऽऽकाङ्क्षोत्त्थापाकताऽवच्छेदकधर्मसमानाऽधिकरणधर्मत्वाऽनुगतीकृततत्तद्धर्माऽवच्छिन्नेषु शक्तिः, सम्भवति फलजनकतया विवक्षितानां तेषां विभिन्नधर्मवत्त्वम्। यत्र त्वेकधर्माऽवच्छिन्नस्यैव फलाऽनुकूलत्वं विवक्षाविषयस्तत्र तदवच्छिन्न एव धातोः सा। नहि सर्वत्र समुदाय एव शक्तिरिति राजाऽऽज्ञाऽस्ति।
`क्रिया नामेयम्' इत्यादि भाष्यं तु बाहुकालसाध्योक्तधात्वर्थविषयमिति न तद्व्याकोपः। अन्यथा सर्वत्राऽगतिकगत्यारोपाश्रयणापत्तेः। तेषामेव च व्यापारपदव्यापदेश्यत्वम्। कृतित्वस्य तादृशधर्मसमानाधिकरणधर्मत्वेऽपि न तस्य ३ पच्याद्यर्थताऽवच्छेदकत्वम्, तदंशे तस्योपलक्षणत्वाऽनङ्गीकारात्। अत एव व्युत्पन्नानां न कदाचिदपि तत्तात्पर्येण यागपाकादिपदप्रयोगस्तथा प्रयुक्तादपि तस्मात्पाकादिकृतिबोधश्च। एतेन तस्या अपि व्यापारतया धातोरेव लाभान्न तिङ्स्तत्र शक्तिरिति निराकृतम्।
जानात्यादीनां तु विषयत्वं फलं तन्निर्वाहकज्ञानादिव्यापारश्च शक्यम्। कृञस्तु साध्यत्वम्, यत्नश्चाऽर्थः। तेन तद्धात्वर्थफलसम्बन्धित्वरूपं मुख्यकर्मत्वं घटादीनां निराबाधम्। एवं स्वार्थफलव्यधिकरणत्वरूपं सकर्मकत्वमपि। यत्नाद्यकर्मकाणां तु तत्तद्धर्मावच्छिन्नयत्नादिरूपव्यापार एव सा। भोजनं यतते' इत्यप्रयोगेण तद्विषयत्वस्य धातुशक्यत्वाऽनुपगमात्। `यतते' इत्युक्ते कर्माऽकाङ्क्षाया अभावाच्च।
अध्याद्युपसृष्टशीङादीनां तु फले निरूढलक्षणैव, शीङादितः सर्वत्र फलाबोधात्। तदर्थेऽनादितात्पर्य्यग्राहकतयैव च "अदिशीङ्स्थासाम्" (पाo सूo 7-4-46) इत्यादिसूत्रोपयोगः। कर्त्तेत्यत्र तु कृञो यत्नबोधकत्वादेव नाऽचेतने स्वारसतः कर्त्तृपदप्रयोगः।
एवञ्च कर्त्तृबोधनिर्वाहाऽर्थं पचतीत्यादावाख्यातस्य कृतौ शक्तिरावश्यकी। तदर्थप्रयत्नस्याऽऽश्रययिभावेन प्रथमान्तार्थेऽन्वयात् तद्वोधोपपत्तेः। यत्र तु न तद्वोधसिद्धि रथो गच्छतीत्यादौ तत्र व्यापारे, आश्रयत्वादौ वा यथायथं लक्षणा। `स्वतन्त्रः कर्त्ता' (पाo सूo 7-4-54) इतिसूत्रसामर्थ्येन, धात्वर्थव्यापाराऽश्रयतत्प्रतियोगिनामपि कर्त्तृत्वस्य परिभाषणान्न कर्त्तृबोधाऽनुपपत्तिः। यत्र प्रथमान्तसमभिव्याहारः, यत्र तु कृत्यादिविशेष्यक एव तात्पर्यं तत्र तद्विशेष्यकोऽपि बोधः। अनभिहित इत्यस्याप्यबोधित इत्येवाऽर्थः। अबोधनं त्वाश्रयाऽतिरिक्तर्थे विशेषणतया कृत्याद्यर्थंप्रबोधनमेवेति नाऽभिधानाऽनभिधानव्यावस्थाऽनुपपत्तिः। चैत्रः पचतीत्यादौ कर्त्तृबोधस्य कृतिशक्तयैव निर्वाहे तत्राऽख्यातशक्तिकल्पनाऽनौचित्याच्च। व्यापारव्यापदेशाभावेन विक्लित्त्यादीनामुक्तधर्मत्वस्योपलक्षणत्वाऽनुपगमात्, पृथक्शक्तिरदृष्टैव। फलत्वं तु पूर्वं निरुपितमेव। एवं सति क्वचिद् दूषणं प्रसक्तमवगणयिष्यते इत्याहुः। एवं सकर्मकत्वादिनिर्वचनाऽनुपपत्त्या धातोरुभयार्थकत्वमवश्यकमिति पर्यवसितम्।
व्यापारमात्रशक्तिवादिनस्तु-द्वितीयाद्यर्थान्वय्यर्थकत्वं सकर्मकत्वम्। पच्यादिसमभिव्याहारे द्वितीयाया विक्लित्याद्यर्थकत्वात्। जानात्यादिसमभिव्याहारे च विषयत्वाऽद्यर्थकत्वात्, तदन्वयित्वं तदर्थेऽक्षतमित्याहुः। जानात्यादियोगे घटादीनां गौणकर्मत्वमिति वदतां मतमाशङ्कय निराचष्टे *नचेति*। *भाक्त इति* भज्यते=आमृद्यते सेव्यते वा शक्यार्थोऽनयेति भक्तिर्लक्षणा, तया, शक्याऽर्थस्य तिरोधानात्, स्वज्ञाने घटकतया शक्यार्थस्याऽपेक्षणच्च। तत आगतो भाक्त इत्यर्थः।
*भाक्तत्वेऽपि*। लक्षणानिबन्धनत्वेऽपि। *कर्मणीति*। मुख्यसकर्मत्वमादाय शास्त्रस्य चारितार्थ्ये गौणे तद्व्यापारे मानाऽभावादिति भावः।
तत्र लौकिकं दृष्टान्तमाह-*नहीत्यादि* भाक्तराजपदव्यवहार्य्येण पुरोहितादिना तदीयकार्यप्रवर्त्तनान्महद्भूतश्चन्द्रमा इत्यादावात्ववारणायाऽऽश्रितगौणमुख्यन्यायस्य विशिष्यार्थोपस्थापकविशिष्टरूपोपादानपुरस्सरपदकार्थविषयकत्वस्याऽन्यत्र व्यावस्थापनाच्च नाऽत्र तद्विषयतेत्यन्ये।
परेत्वेतच्छास्त्रीयकर्मसंज्ञाकार्थान्वय्यर्थकत्वमेव सकर्मकत्वम्, सकर्मकपदात् कर्मणा सहेत्यर्थकाच्छब्दमर्यादया पूर्वोक्तार्थालाभाच्च `लः कर्मणि' इत्यादौ सकर्मकपदाद् बोधाऽनापत्तेः। तदनन्वय्यर्थकत्वमकर्मकत्वम्। अत एवऽऽध्यासिता भूमय इत्यादौ कर्मणि क्तोपपत्तिः। अन्वयस्य पृथगुपस्थितसंसर्गरूपतया न जीवत्यादिषु दोष इत्याहुः।
अयमेव पक्षः फलावच्छिन्नव्यापारबोधकत्वं सकर्मकत्वमिति वदद्भिराश्रितः, फलस्य कर्मतायाः सर्वैरेवोपगमात्, फलाऽन्वय्यर्थकत्वस्य सकर्मकेषु सत्त्वात्। यदि चैकोपस्थितिविषयत्वान्नोक्तः प्रकारः सन्भवतीति विभाव्यते तदा पृथक्शक्तिवादिमते निर्दुष्टत्वमेव, अवच्छिन्नपदस्य सम्बन्धपरत्वेन कर्मोभूतफलसम्बन्धिव्यापाराऽर्थकत्वस्य सुस्थत्वात्। अकर्मकाणां फलार्थत्वाऽनङ्गीकारेणाऽतिव्याप्त्यव्याप्त्योरनवकोशादित्यवधेयम्। `अध्यासिता भूमयः' इत्यादौ यथोक्तोपपत्तिस्तथोपपादितं प्राक् (1-5)
(1-6) ननु `कर्मवत् स्याद् यगद्यपि' इति मूलस्य कर्मवद् यगाद्यपि भवेदित्यर्थो लभ्यते। स च बाधितोऽविवक्षितश्चेत्यत आह-*कर्मवत्स्यादिति पदेनेति*। सूत्रं लक्ष्यते इति*। सूत्रविहितं लक्ष्यते इत्यर्थः। यथाश्रुते कर्मपदात् स्वघटितत्वेन लक्षणया सूत्रोपस्थितावपि तस्य यगादिकमित्यनेनाऽनन्वयापत्तेः। एतद्बोधनायैव स्यादिति लक्ष्यकोटावुपात्त *घटावृत्तित्वादिति* घटमात्रवृत्तित्वाऽभावेन कर्मस्थक्रियकत्वाभावादिति तु परमार्थः (1-6)
(1-7) *एवमिति* कर्मवद्भावानुरोधेन करणाऽर्थकरोतेरुत्पत्तिसहितयत्नाऽर्थकत्वाऽभ्युपगमे इत्यर्थः। जानात्यादेरपीत्यादिपदाद् गम्यादिपरिग्रहः।। आवरणभङ्गादीत्यादिपदेन तु संयोगादेः सः। आवश्यकमित्यनेन तत्र ज्ञानस्यैव फलत्वाङ्गीकारे तदनाश्रयत्वाद् घटादेः कर्मत्वानुपपत्तिरपि सूच्यते। आवरणभङ्गस्याऽप्यतीतादौ यथा फलत्वं तथा सारे एव सुबर्थनिर्णये वक्ष्यते। *सकर्मकताऽनापत्तेरिति* स्वार्थफलव्यधिकरणेत्याद्युक्तरूपस्य तत्राऽसम्भवादिति भावः।
वस्तुतस्तु जानातेर्ज्ञानरूपफलाऽर्थकत्वमेव युक्तम्। `नच कर्तृस्थभावकानां कर्मणि क्रियायाः प्रवृत्तिरस्ति' इति भाष्येण कर्तृस्थभावकानां क्रियाफलस्य कर्ममात्रे वृत्तिर्नास्तीत्यर्थकेन कर्त्तृकर्मोभयसाधारणफलार्थकत्वं कर्त्तृस्थकियकत्वं वदतां कर्ममात्रवृत्तिफलार्थकत्वरूपकर्मस्थक्रियकत्वस्यैवाऽभ्युपगमेन तत्राऽऽवरणभङ्गस्य फलत्वे तत्पक्षे कर्मवद्भावस्य दुर्निवार्यतापत्तेः। आदृतश्चायमेव पक्षो जानातीत्यादौ ज्ञानेच्छाद्यनुकूलो व्यापार इति शाब्दबोधप्रकारं दर्शयता ग्रन्थकृताऽपि। प्रकृते आशङ्कासमाधाने तु भाष्यहर्य्यद्युक्तप्रथमकल्पाऽभिप्रायेणेति सारे एव स्फुटम्।
नचोक्तकल्पे ज्ञानस्य समवायेव घटादावसत्त्वातेषां जानातिकर्मत्वानुपपत्तिः, ज्ञानस्य तदनुकूलव्यापारस्यश्रयतादेश्च सामानाधिकरण्यादकर्मकत्वात्तिः, कर्तृस्थभावकत्वनुपपत्तिश्चेति वाच्यम्, शास्त्रे ज्ञानम् घटे ज्ञानमिति प्रतीत्या विषयतया तस्य ज्ञानाश्रयताभ्युपगमेनाद्यदोषस्य फलताऽऽवच्छेदकसम्बन्धघटितसामानाधिकरण्यघटिताऽकर्मत्वस्य तत्राऽभावेन द्वितीयस्य विषयता-समवायाभ्यां कर्मकर्त्रुभयवृत्तित्वेनाऽत्यदोषस्य वाभावात्। अधिकमग्रे वक्ष्यते।
प्रकृतमनुसरामः। *किन्न स्यादिति* क्रियते घटः स्वयमेवेत्यत्र घटस्योत्पत्तिरूपफलाश्रयत्ववदावरणभङ्गरूपफलाश्रयत्वस्यापि सत्त्वादिति भावः। ननु निर्वर्त्त्य-विकार्यकर्मणोः कर्मवद्भावो न प्राप्यकर्मणीत्यत्र किं मानमत आह मूले-*सिद्धान्तोऽत्रेति* अत्र "कर्मवत् कर्मणा तुल्यक्रियाः" (पाo सूo 3-1-87)। इति सूत्रभाष्ये। तत्र हि धातोरेकाच इति सूत्रादनुवर्त्तमानधातुग्रहणेन धातुवाच्यक्रियया इत्यर्थलाभेन `साध्वसि श्छिनत्ति' `स्थाली पचति' इत्यादौ करणाधिकरणाभ्यां तुल्यक्रिये कर्त्तरि वस्तुतः सतोऽपि व्यापारस्य धातुव्च्यत्वाऽभावादेवाऽनतिप्रसङ्गे कर्मग्रहणमतिरिच्यमानं कर्मस्थक्रियां लक्षयतीति सिद्धान्तो व्यावस्थित इत्यर्थः। कर्मस्थकियकत्वं च प्राप्यभिन्नकर्मण्येव सम्भवतीति दर्शयितुमादौ वक्ष्यमाणमपि विभागं सूखबोधायाऽऽह-* ईप्सितङ्कर्मेति* यद्यपि द्वेष्याऽऽद्यनीप्सितस्याऽप्येष्वेवान्तर्भावात् कर्म्म त्रिविधमित्येवं वक्तुं युक्तम्। तथापि हरिणा-
"तयोरेभ्यस्त्रिधा मतम्। तच्चेप्सिततमम्"-
इत्यादिना पार्थक्येन विभजनात् तदनुसृत्याऽत्रापि तथैवोक्तमिति ध्येयम्। *प्राप्यत्वञ्चेति* आद्ययोर्लक्षणे तु सुबर्थनिर्णते वक्ष्येते। *वक्ष्यत इति* क्रियाकृतविशेषाणामिति कारिकयेत्यर्थः। कर्मगतविशेषाधायकक्रियार्थकतावं कर्मस्थक्रिययकत्वं कर्मवद्भावप्रयोजकमिति दर्शयितुं तदन्वयव्यतिरेकौ दर्शयति-नहीत्यादि
*सोमं सुनोतीति विकार्य्य इति*। नन्वाद्ययोः कर्मस्थक्रियकत्वेन कर्मवद्भावविषयत्वेऽपि तत्र कथं सोमं सुनोतीत्यस्य विकार्य्यलक्षणाक्रान्तत्वम्, प्रकृतेः सोमस्य परिणामित्वाऽनवगमात्। तदुक्तम्, `प्रकृतेस्तु विवक्षायां विकार्य्यम्' इतिविवक्षायामित्यस्य परिणामित्वेनेत्यादिरिति चेदित्थं चूर्णिकरणरूपाऽभिषवैकदेशचूर्णं प्रति प्रकृतिसोमस्य परिणामित्व विवक्षया तदुपपत्तिः।
अन्ये तु-क्रिया यद्धर्मनाशकं फलं जनयति तद्विकार्य्यमिति लक्षणाऽभिप्रायेण सोमे विकार्य्यनिर्द्देशः। तथाहि-आरम्भकसंयोगनाशकविभागानुकूला क्रिया सुनोतेरर्थः।सोमपदं च प्रकृते तदवयवे लाक्षणिकम्। तथाच सोमावयवरूपसोमपदाऽर्थवृत्त्यारम्भकसंयोगस्य धात्वर्थक्रियाजन्यविभागेन नाशाद्विकार्य्यत्वोपपत्तिरित्याहुः।
*ज्ञातुं शक्यमिति* एतेन क्रियाकृतविशेषधर्मप्रकारकप्रतीतियोग्यत्वं कर्मवद्भावप्रयोजकमित्युक्तं भवति। प्राचीननैयायिकमते तु प्रकृते कृञ उत्पत्तिरूपफलावच्छिन्ने यत्ने लक्षणया कर्मवद्भावोपपत्तिः। *नोक्तातिप्रसङ्ग इति* न कर्मवद्भावापत्तिरित्यर्थः।
प्राचीनैयायिकमते तु ज्ञानं करोतीत्याद्यप्रयोगात् साध्यत्वे फले यत्ने च कृञः शक्तिरेव। तथाच घटादौ साध्यत्वरूपविशेषधर्मप्रकारकप्रतीतेः सार्वजनीनत्वात्, तादृशप्रतीतियोग्यतायास्तत्राऽनपायादनायासेनैव कर्मवद्भावोपपत्तिः। यदि च कर्तृगतविशेषाऽऽधायकक्रियार्थकत्वं तत्स्थक्रियकत्वमिति लक्षणे पच्यादिकर्त्तरि श्रमरूपविशेषदर्शनाज्जानात्यादिकर्त्तरि तददर्शनाच्चाऽतिव्याप्त्यादिदोषादुक्तभाष्येण,
विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता।
क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकल्पिता।।
इति हरिकारिकोत्तरार्द्धेन च पूर्वोक्तलक्षणयोरेव निर्भरः प्रतीयते इत्युच्यते, तदाऽपि न क्षतिः। कर्मस्थक्रियकलक्षणे जानात्यादिभिन्नत्वस्य षोपदेशलक्षणे ष्वष्काद्यन्यतमत्वस्येव कर्तृस्थक्रियकलक्षणे जानात्याद्यन्यतमत्वस्यापि निवेशेन करोतौ कर्मस्थक्रियकत्वस्य जानात्यादौ कर्तृस्थक्रियकत्वस्य चोपपतेतेः। अत एव हरिणाऽपि, `शब्दैरेव प्रकल्पिता' इत्यत्र शब्दपदमुपात्तम्। शब्दप्रतिपाद्यऽर्थगतविशेषैः शब्दैश्चेति तदर्थादिति। दर्शनान्तरीयां युक्तिमुपन्यस्यति-*धातूनामिति* त्यजिगम्योरित्युपलक्षणं तादृशधातुमात्रस्य। *पर्यायतापत्तिरिति* तच्छक्यताऽवच्छेदकाऽवच्छिन्नशक्तत्वस्यैव पर्य्यायतापदार्थत्वादिति भावः।
ननु त्यजिगम्योः क्रमेण विभागसंयोगोपलक्षितव्यापाराऽर्थकत्वमेवञ्च पर्य्यायलक्षणे तदुपलक्षणेतरानुपलक्षितत्वस्याऽपि विशेषणान्नोक्ताऽऽपत्तिरत आह-*उपलक्षणत्वेऽपीति* उपलक्षणत्वं च तत्पदजन्यबोधविषयत्वेन शक्तयविषयत्वे सति शक्तिविषयत्वम्ा। *जनकत्वादिति*। तथाच संयोगविभागयोः स्वार्थव्यापारजन्यत्वाऽविशेषाद् गम्यर्थव्यापारे संयोग एवोपलक्षणं, नो विभाग इत्यत्र विनिगमकाऽभावादुभयस्यैवोपलक्षणत्वे उक्तापत्तिर्दुर्वारेति फलेऽपि शक्तिरावश्यकीति भावः। अत्र ग्रामं गच्छतीत्यादौ द्वितीयाऽर्थसंयोगादिरूपफलाऽन्वयित्वस्यैव विनिगमकत्वाद् गमनक्रियायां संयोगस्यैवोपलक्षणत्वमित्यस्य सुवचतयाऽन्यत्र लक्षणयोपपत्तेश्च नोक्तरीतिः साध्वीत्यस्वरसोऽपि वदन्तिभ्यां सूचितः। उपसंहरति-*तस्मादिति* उक्तयुक्तिसङ्गतेरित्यर्थः।
*निर्विवादमेवेति* स्वार्थफलसमानाऽधिकरणव्यापारवाचकत्वरूपाऽकर्मकत्वस्य धातोः फलवाचकत्वं विनाऽनुपपन्नत्वादिति भावः। ननु सकर्मकत्वं पूर्वोक्तमेव, तद्भिन्नधातुत्वं चाऽकर्मकत्वमिति नोक्ताऽनुपपत्तिरत आह-* भू सत्तायामिति* गणेषु फलस्यैव निर्द्देशादिति भावः। *अत एवेति* धातुमात्रस्य पलवाचकत्वादेवेत्यर्थः। *द्व्यर्थ इति* द्व्यर्थपदं फलव्यापारोभयार्थकमित्याशयः। ननु `द्व्यर्थः पचिः' इति भाष्यं पचेरुपादानात्सकर्मकाणां फलार्थकत्वे साधकमस्तु, न त्वकर्मकाणामत आह-*दिगिति* तथा सति सत्ताद्यर्थनिर्द्देशवैयर्थ्याऽऽपत्तेः। धातुसामान्यशक्त्या पच्यादेरिव भवत्यादेरपि व्यापारबोधसम्भवादिति दिगर्थोऽवसेयः (1-7)
(1-8) ननु `व्यापारो भावना सैव' इत्युक्तविवरणेन न व्यापारस्य धात्वर्थतानिर्णयः, पचति=पाकं करोतीति विवरणेन आख्यातार्थताया अपि वक्तुं शक्यत्वादिति मीमांसकाशङ्कासमाधानपरतया मूलमवतारयति-*एवमित्यादिना*। *वाच्यत्वमिति* तिङन्तजन्यबोधविषयत्वमित्यर्थः। तथाच पाकाऽनुकूला भावनेत्यादिविवरणेनाऽपि पचतीत्यस्य पाकाऽनुकूलभावनाबोधकत्वमस्त्वित्यर्थः। यथाश्रुते विवरणेन धातोर्भावनावाचकत्वनिर्णये `किन्त्वाख्यातवाच्यैव सा' इत्युत्तरग्रन्थासङ्गतेः। `प्रकृतिप्रत्ययौ' इति न्यायस्य संख्यादौ व्यभिचारमाशङ्क्याह-*तदागमे हीति*
इदं च यः प्रधानं स प्रत्ययार्थ इति न्यायाऽकार इत्यभिप्रेत्य तन्मूलसूत्रालोचने तु यः प्रत्ययार्थः स प्रधानमिति न्यायाकारो लभ्यते। तथाहि-`पशुना यजेत' इति श्रूयते, तत्रैकवचनोपात्तमेकत्वं यागे विशेषणमुत प्रकृत्यर्थे इति संशये पशुपदार्थस्य यागं प्रति गुणत्वात् सम्भावितयावत्पशुकरणेन प्रधानावृत्तौ प्रधानभङ्गापत्त्या यावद्गुणप्रधानाऽऽवृत्तेरयोगादेकत्वविशिष्टपशोर्विधाने त्वेकत्वस्य पशुविशेषणतया यागाङ्गत्वाऽभावात्तदविवक्षितमेव स्यादित्यर्थकेन "तत्रैकत्वमयागाङ्गमर्थस्य गुणभूतत्वात्" इति सूत्रेण पूर्वपक्षिते, "शब्दवत्तूपलभ्यते तदागमे हि दृश्यते तस्य ज्ञानं यथाऽन्येषाम्" (जैo अo 4 पाo 1 सूo 15) इति सिद्धान्तसूत्रम्। शब्दवत्=शब्दवाच्यम्, यथा भवति तथोपलभ्यते। एकत्वं हि यतस्तदागमे=एकवचनसमवधाने दृश्यते। अतस्तस्य प्राधान्येन प्रतीतिर्यथान्येषामरुणादीनामित्यर्थः। यद्वा `तदागमे' तत्=एकत्वम्, आगमे=एकवचनविधायकागमे `ध्द्येकयोः'इत्यत्र दृश्यते एकवचनरूपप्रत्ययार्थत्वेन प्रतीयते, अन्येषाम्=करणादीनामिवेत्यर्थः।
एवञ्च समानप्रत्ययोपात्तत्वप्रत्यासत्त्या विभक्त्यर्थकरणाऽन्वितस्याऽरुणाऽधिकरणन्यायेन प्रथमं क्रियायामन्वयः, पश्चात् प्रकृत्यर्थे। तथाच पश्वेकत्वोभयकरणको याग इति बोधेनैकत्वस्य यागाङ्गत्वाऽवगमान्नानेकपशुभिर्याग इति तद्भावः। प्राधान्यं च प्रकृत्यर्थाऽविशेषणत्वमेव, प्रत्ययार्थमादाय न्यायावताराद्यः प्रत्ययार्थ इति भागस्य न्यायघटकत्वम्। प्रकृते आख्याताऽसमवधाने भावनाऽबोधात् तस्याप्राधान्येन भानमिति तत्सङ्गतिरिति बोध्यम्।
ननु सकर्मकत्वाऽनुगतकर्तृत्वयोर्दुर्वचत्वमेवैतन्मते दूषणमत आह *एवञ्चेति* भावनाया आख्यातवाच्यत्वे चेत्यर्थः। तथाचाऽऽरब्धे पाके फलाऽनुत्पत्तिदशायां पाको जातो नवेति प्रश्ने, भविष्यतीत्युत्तराऽनुरोधात् फलमात्रं धातुवाच्यमिति मीमांसकाशयः।
*प्रयोगापत्तिरिति* भावल्युडन्तगमनपदार्थसंयोगात्मकफलस्य ग्रामे सत्त्वाद् ग्रामः संयोगवानितिवद् ग्रामो गमनवानिति प्रयोगस्य प्रामाण्यापत्तिरित्यर्थः। एवमग्रेऽप्यूह्यम्। *फलाऽनुत्पादेति* फलानुत्पादे तादृशप्रयोगस्य सर्वाननुमतत्त्वादुक्तम् *व्यापारसत्त्व इति*। *भवतीत्यनापत्तिरिति* पाकपदार्थस्य विक्लित्तेरवर्त्तमानत्वादित्यर्थः। फलोत्पाददशायामर्थाऽबाधात्तादृशप्रयोगस्येष्टत्वादाह * विद्यत इत्यापत्तिश्चेति* व्यापारंशपरित्यागेन फलमात्रस्य धात्वर्थत्वाऽभिप्रायेण तु भविष्यतीत्युत्तरं पाकमुत्पादयतीति विवरणञ्चेति भावः।
*अनुकूलेति* अनुकूलत्वोत्कीर्त्तनं त्वन्विताऽभधानवादिनां मतमेतदिति सूचयितुम्। *नानुपपत्तिरिति* भावविहितल्युङ्घञाद्यर्थव्यापारस्य ग्रामादौ बाधान्न पूर्वोक्तप्रयोगापत्तिरित्यर्थः। विक्लित्यनुकूलघञाद्यर्थव्यापारस्य कर्त्तृतया भावनादावन्वयान्न पूर्वोक्तप्रयोगाऽनुपपत्त्यापत्तिरिति भावः।
ननु कर्त्तरि कृदीति विहितस्य कृतः पक्ता पाचक इत्यादौ कर्त्रर्थत्वदर्शनात्तद्विहितघञादीनां व्यापाराऽर्थत्वदौर्लभ्यात्तदर्थत्वबोधनाय `भावे' इत्यनुशासनं चारितार्थ्यमित्याशङ्कामपाकरिष्यँस्तदनुगुणं दृष्टान्तमाह *कर्त्राख्यातवदिति*। तथाच लः कर्मणीति विहितकर्त्राख्यातस्य त्वन्मते व्यापाराऽर्थकत्ववत्, कर्त्तरि कृदीति विहितघञादीनामपि व्यापाराऽर्थकत्वसम्भवादित्यर्थः।
*विरोधाऽऽपत्तेश्चेति* चो हेतो, यतो वैयर्थ्यमतस्तद्विरोधापत्तिरित्यर्थः। उक्तिवैचित्र्यमेतत्। यद्वा भाव विहितप्रत्ययानां धात्वर्थानुवादकत्वात् प्रयोगसाधुतामात्रार्थकत्वमिति त्वदीयसिद्धान्तविरोधापत्तेरित्यर्थः। व्याख्यानमित्यस्य विवरणम्-*विवरणमिति*।
*अतस्तदपीति* पचतीत्यस्य पाकं करोतोति विवरणमपीत्यर्थः। अपिना दुषयिष्यमाणप्रकृतिप्रत्ययाविति न्यायसमुच्चयः। धातोः पृथग्विवरणं तु तवाऽऽख्यातार्थसंख्याकालव्यापाराणां मध्ये व्यापारस्य कृञा संख्यादेस्तदुत्तरतिङा विवरणवद्धात्वर्थव्यापारस्याऽप्युपपन्नमिति न तदाख्यातार्थत्वसाधकम्। अत एव "कथं ज्ञायते क्रियावचनाः पच्यादयः यदेषां करोतिना सामानाधिकरण्यम्, किं करोति? पचति" इति भूवादिसूत्रभाष्ये उक्तम। तेन विवरणमपि धातोरेवेति स्पष्टमेव बोध्यते इति भावः। पक्ववानिति मूलमपि करोतेराख्यातविवरणंत्वाऽभावसाध्यतया व्याचष्चे *पक्ववानित्यादाविती*। अनन्वयमेव विशदयति *अयम्भाव इत्यादि*।
*सहार्थमिति* सम्बद्धार्थमित्यर्थः। *ब्रूतः* बोधयतः, *तयोः* प्रकृतिप्रत्ययाऽर्थयोर्मध्ये, *प्रत्ययाऽर्थः* प्रत्ययवृत्तिग्रहविशेष्यः, *प्रधानमिति* प्रकृत्यर्थप्रकारतानिरूपितविशेष्यताशालीत्यर्थ-. तादृशव्युत्पत्तिसिद्धकार्य्यकारणभावमभिनयेन दर्शयति *विशेष्यतयेति* प्रत्ययस्य प्रकृत्यर्थप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधं प्रतीत्यर्थः। हेतुरित्यस्य विशेष्यतासम्बन्धेनेति शेषः।
*अरुणाधिकरणोक्तरीत्येति* अरुणयेति पदोपात्ताऽऽरुण्यस्य प्रथमं करणत्वेनेतरक्रियायामन्वयः, नामार्थाऽन्वयस्तु पार्ष्ठिक इति तत्रोक्तम्। *वक्ष्यमाणेति* कारकत्वस्य क्रियाजनकत्वरूपत्वेन क्रियाजनकमिति ज्ञाते, का हा कारकाऽन्वयिताऽवच्छेदकमिति सुबर्थनिर्णये वक्ष्यमाणरित्येत्यर्थः।
*सम्बन्धमात्रमिति* "ज्योतिष्टोमेन यजेन" इत्यत्र यजेतेति श्रुत्या धात्वाख्यातार्थयागभावनयोः सम्बन्धसामान्यं प्रतिपाद्यते। तयोः क्रियाकारकभावरूपसम्बन्धिविशेषबोधने तु नाऽस्याः श्रुतेः कश्चिदभिधादिरूपो व्यापारः, तद्वाचकपदाऽभावादिति तदर्थः। तथाच यजेतेत्यत्र यासम्बन्धिभावनेति बोधः, न यागकरणकभावनेति, तद्वत्प्रकृते पाकसम्बन्धी कर्त्तेति बोधः। कर्मत्वादिना तत्समसर्गकबोधे एव क्रियाया अपेक्षणादित्याशङ्कितुराश्यः. फलस्य कारकत्वेनाऽयोग्यत्वात्तादृशाऽन्वयबोधोऽप्यसम्भवदुक्तिक इत्याह *योग्यताविरहादिति*।
ननु तत्पादार्थे तत्पादार्थवत्त्वं योग्यता, च सा प्रकृते, पाकप्रयोजकत्ववत्पाकसम्बन्धित्वरूपाऽकर्तुरत आह *अन्वयप्रयोजकरूपवत्त्वस्येति* तथाच तत्पादर्थे तत्पादार्थताऽवच्छेदकावच्छिन्नत्वस्यैव योग्यत्वे जलाहरणे घटकरणत्वस्य सत्त्वात्तस्मिन् सुषिरघटस्यापि करण्तेवन्ऽन्वयापत्तिः। अस्मन्मते तु सच्छिद्रेतरघटत्वस्य जलाऽऽहरणान्वयप्रयोजकत्वेन तादृशघटे तादृशाऽहरणान्वयप्रयोजकत्वमिति न तदन्वयापत्तिरिति भावः।
ननु `घटेन जलमाहर' इत्यत्र घटे छिद्रेतरघटत्ववात् प्रकृते किं कारकान्वयितावच्छेदकं यदभावादनन्वयापत्तिरुद्भाव्यतेऽत आह *क्रियात्वमेव हीति*।
ननु कृदर्थकर्त्राक्षिप्तभावनायां पाकादीना कर्मत्वेनान्वयसौलभ्यान्नोदूषणमत आह *वस्तुतस्त्विति* प्रधानप्रत्ययार्थवचनमिति सूत्रस्वरसो यः प्राधानं स प्रत्ययार्थः। तदागमे दीति न्यायश्च, यः प्रत्ययाऽर्थ इत्यर्थे मूलमिति ध्येयम्। अजेत्यादौ विशेष्याजादिपदार्थस्य प्रत्ययार्थत्वाऽभावेन व्याभिचारस्य स्फुटत्वात् तदुपेक्ष्य, द्वितीयकल्प एव व्यभिचारं दर्शयति-*अजेति*
इष्टापत्तावाह-*छग्यादेरिति* स्त्रीत्वविशेषणछग्यादेश्छागनिष्स्त्रीत्वादेरिति वाऽर्थः। एकत्र विशेषणतयाऽन्वितस्यापरत्र विशेषणतयाऽन्वये नैराकाङ्क्ष्येण छागीमानयेत्यादौ कर्मत्वादिकारके छागी गच्छतीत्यादौ छागनिष्ठस्त्रीत्वस्य छागीपदार्थस्यायोग्यतयाऽऽख्यातार्थकर्त्तरि वाऽनन्वयापत्तेश्चेति भावः। छाग्यादेरनापत्तेरचेति पाठेच प्राधान्यानापत्तेरित्यर्थः।
ननु सा व्युत्पत्तिरपार्थैव स्यादत आह *किन्त्विति* तथाच तादृशव्युत्पत्तेः कृत्तद्धितमात्रविषयकत्वं न प्रत्ययमात्रविषयकत्वमिति न तद्बलाद् व्यापारस्याख्यातार्थत्वमिति भावः। ननु कथं तर्हि व्यापारविशेष्यको बोधेऽत आह *विशेष्यत्वादिनेति * तथाच व्युत्पत्त्यनुसारी बोधः, नतु बोधानुसारिणी व्युत्पत्तिः। एवञ्च तादृशव्युत्पत्त्यङ्गीकर्तॄणां तथैव बोधः, अन्यादृग्व्युत्पत्तिमतां त्वन्यथापीति भावः। तदेव विशदयति *अत एवेति*।
शक्यताऽवच्छेदकप्रकारक इति *`लक्ष्णाऽऽरोपिता क्रिया' इति काव्यप्रकाशीयसूत्रपर्य्यालोचनया शक्यतावच्छेदकारोपविषयनिष्ठसंसर्गस्यैव लक्षणात्वलाभात्, `गङ्गायां घोषः' इत्यत्र गङ्गात्वेनैव लक्ष्यार्थप्रतीतिरत एव ततो वैयञ्जनिकी शैत्यपावनत्वादिप्रतीतिः. `जाता लता हि शेले' इत्यादौ च कनकलतात्वेनैव रूपेण बोधस्य चमत्काराऽऽदायकत्वादिति तदाशयः।
*नैयायिकादिनामिति* सम्बन्धिताऽवच्छेदकरूपेणैव लक्ष्यार्थस्य भानम्। अत एव `कचतस्त्रस्यति वदनम्' इत्यादौ सम्बनधिताऽबच्छेदकराहुत्वादिनैव बोधस्य त्रासाऽऽधायकस्योपपत्तिः। कचत्वादिशक्यताऽवच्छेदकरूपेण लक्ष्याऽऽर्थबोधाङ्कीकारे तदनुपपत्तिः स्पष्टैव। किञ्च, शक्यताऽवच्छेदकम्, न लक्ष्यतावच्छेदकम्। शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा।
इत्यभियुक्तोक्तिरोधादिति तद्भावः।
*घटः कर्मत्वमिति* नव्यमते एकपदेऽपरपदव्यतिरेकप्रयुक्तान्वयाननुभावकत्वस्याकाङ्क्षात्वोपगमेन घटपदे कर्मत्वपदव्यतिरेकप्रयुक्तांन्वयाननुभावत्वज्ञानदशायां तादृशवाक्यात्तैः शाब्दबोदाऽभ्युपगमादित्यभिप्रेत्य `नव्यानाम्' इत्युक्तम्। निराकाङ्क्षमित्यस्याऽऽधेयतासंसर्गेण बोधे इति शेषः। *अत एवेति* बोधस्य व्युत्पत्त्यनुसारित्वादेवेत्यर्थः।
*व्युत्पत्त्यनुसारित्वादिति* कार्यकारणभावग्रहाधीनत्वादित्यर्थः। बोधानुसारिणी हि व्युत्पत्तिः, नहि बोधो व्युत्पत्त्यनुसारी। अत एवारोपे सति निमित्तानुसरणम्, नतु निमित्तमस्तीत्यारोप इति प्रामाणिकाः।
*अर्थस्य* विशेष्यत्वादिना प्रतीयमानस्य। *अन्यप्रमामत्वात्* स्वविशेषणीभूतप्रतीत्यनुरोधकव्युत्पत्तिकत्वादित्यर्थः। `प्रधानं प्रत्ययार्थः' इति नियमस्य पाणिनिनाऽनादृतत्वेऽपि, `यो यः प्रत्ययार्थः स प्रधानम्' इत्यर्थस्य `तदागमे हि' इति सूत्रायता जैमिनिनाऽऽदृतस्याऽदुष्टत्वस्य विशेषणच्चोक्तकार्यकारणभावस्य निर्दुष्टत्वादित्यन्ये। प्रतीयमानार्थस्य प्राधान्यमिति `तदागमे हि' इति न्यायाकार इत्याशयेनाह-*तदागमे हीति*। *अतिव्याप्तमिति* `नपुंसकमनपुंसकेन' इति क्लिबशेषतैकवचनान्ततायां च व्यभिचरितमित्यर्थः। तदेव विशदयति *कृञोति* `पक्वम्' इत्यत्राऽपिनाऽनुपदोक्त `पक्ववान्' इत्यस्याऽपि संग्रहः, तत्र भावनाया आक्षोपात् प्रतीयमानत्वेऽपि प्रत्ययार्थत्वाऽभावेन व्यभिचारसम्भवात्। किं कृतमित्यतो व्यापारविषयस्य जिज्ञास्यत्वाऽवगमात् `पक्वम्' इत्यतस्तदनवबोधेनाऽस्योत्तरत्वाऽनुपपत्त्या व्यापारबोधकत्वध्रौव्ये तस्य प्रत्ययार्थत्वाऽभावादव्यभिचार इत्यर्थः।
*विवरणमिति* विवरणञ्चाऽत्र प्रश्रोत्तररूपमेव। तद्बोधनार्थमेव किमनुल्लेखः, अन्यथा केवलकृतशब्दस्य पक्वपदविवरणतया लोकाऽप्रसिद्धेर्विवरणं चाऽतिव्याप्तमित्यस्याऽसङ्गतेः। *वाच्या स्यादिति* प्रत्ययवाच्या स्यादित्यर्थः। `अपि'शब्दः पूर्वोक्ताऽर्थस्यैव न समुच्चायकः, किन्त्वर्थान्तरस्यापीति वक्तुमाशङ्कते-*नन्विति* तथाचोक्तापत्तिरिष्टैवेति भावः।
अपिसमुच्चितार्थं प्रकटयति-*तथाचेति*। *उभयेति* आख्यातकृदन्तोभयेत्यर्थः। *साधारण्येनेति* साधारण्यमत्र समभिव्याहारविशेषः। *प्रतीतेरिति* भावनाप्रतीतेरित्यर्थः। *उभयसाधारण इति* घटकतया प्रयोगद्वयाऽनुस्यूत इत्यर्थः। तथाच प्रयोगद्वये नियतवृत्तित्वेन धातोरेव भावनावाचकत्वसिद्धिः, धातुत्वस्य शक्तताऽवच्छेदकत्वेन लाघवात्, नतु तिङ्कृतोः, तिङ्त्वस्य चाननुगतस्य शक्तताऽवच्छेदकत्वे गौरवात्, परस्परव्यभिचाराच्चेत्युक्तापत्तेनेर्नेष्टत्वसम्भावनेति भावः।
ननु धातुत्वस्य शक्ततावच्छेदकतायाः प्रागेव निराकृतत्वान्नोक्तदूषणस्य `अपि'शब्दसमुच्चयत्वमत आह-*भवद्रीत्येति* स्वमते भावनायाः प्रकृत्यर्थत्वादुक्तम्-भवदिति। प्रत्ययार्थत्वादित्यनेन पूर्वोक्तमतद्वयमध्ये त्वस्यैव मीमांसकसम्मतत्वमिति सूच्यते। व्याख्यातञ्च तथैव। अवतरणे तन्न्यायविरोधोपदर्शनं तु प्रत्ययाऽर्थत्वप्राधान्ययोः प्रायशः समनैयत्येन, प्रधानस्य प्रत्ययार्थत्वसाधकत्वस्याऽपि ततो लाभेन प्रकृतिवाच्यत्वे तदनुपपन्नमित्याशयेनेति बोध्यम् (1-8)
(1-9) साधकान्तरमित्यस्य धातोर्व्यापारवाचकत्वे इत्यादिः। किं कार्यमित्यत्र प्रश्रोत्तरभावरूपविवरणेनैव व्यापारस्य धात्वर्थत्वसिद्धिरित्यत्र न तात्पर्यम्, किन्तु प्रश्रोत्तरभावरूपविवरणस्य प्राकान्तत्वात् किम उल्लेख्र इति सूचयन्नाह *कार्यमित्यत्रेति*। *णिनिरिति* "भूते" इत्याधिकृत्य "करणे यजः" (पाo सूo 3-2-5) इति सूत्रेणेति शेषः। *एते* ण्यदादय इत्यर्थः।
*क्रियायोगमन्तरेणेति* क्रियान्वयिनामेव कारकतया धातोर्व्यापारावाचकत्वे `कार्य्यो घटः' इत्यादौ कर्मादिसंज्ञानां, `कारके' इत्यधिकृत्य विहितानां घटादावसम्भवेन तत्र विधीयमानण्यदाद्यनुपपत्तिर्धातोस्तदाक्षिपति, देवदत्तस्य पीनत्वानुपपत्तिरिव रात्रिभोजमिति भावः। तदेवाह-*विना क्रियामिति*। गम्यमानेति* अस्य तदुपस्थापकपदाभावेऽपित्यादिः। *तथात्वापत्ताविति* गम्यमानक्रियामादायैव कर्त्तृकर्माऽर्थकप्रत्ययोपपत्तावित्यर्थः। *तत्राऽपि* तिङ्संज्ञकाऽऽख्याते।
*लिङ्गसङ्ख्यान्वयाऽनुरोधादिति* अस्य पाचक इत्यादावित्यादिः। *आवश्यकम्* इत्यस्य कृतीति शेषः। कृन्निरूपितवाच्यत्वं कर्त्तुरवश्यमङ्गीकरमीयमित्यर्थः। *तेन*कर्त्रा। *आक्षेपात्* इत्यस्य स्वरूपनिरूपकतयेत्यादिः। *प्रत्यय इति* बोध इर्यर्थः। *तस्य* वाच्यत्वस्येत्यर्थः।
*असामर्थ्यादिति* विशिष्टर्थोपस्थित्यजनकत्वादित्यर्थः, निराकाङ्क्षत्वादिति यावत्। त्रात-भिन्नपदान्तर्गतधात्वर्थक्रिययोः कर्त्तृकरमकारकसाकाङ्क्षत्वेन, हरिणेत्यादिपदोपस्तितकर्त्तृकरमयोश्च कारकत्वेन क्रियासाकाङ्क्षत्वेन परस्परसाकाङ्क्षत्वरूपसामर्थ्यं सुघटम्, व्यापारस्य धात्वर्थतावादिमते। भवन्मते तु `पुरुषो राज्ञो भार्या देवदत्तस्यं'इत्यादिवन्निराकाङ्क्षत्वात् समासाऽनुपपत्तिरिति भावः। इदमुपलक्षणम्-कारकविभक्तेरपि।
*अध्याहृतक्रियामादायेति* करोत्यर्थव्यापारमादायेत्यर्थः। *सामर्थ्यमिति* तथाच `तखैः कृत्वा भिन्नः' इति बोधाभ्युपगमेनाध्यादृतार्थमादाय सामर्थ्योपपत्तिरित्यर्थः। अध्याहृतक्रियामादाय सामर्थ्याऽभ्युपगमे दृष्टान्तमाह-*दध्योदन इत्यादि*। *विध्यानर्थक्यादिति* अन्नेन व्यञ्जनम्' इत्यादेरपि पदविधित्वेन समर्थपरिभाषाविषयतया स्वतेऽसमर्थदध्यादिपदानां समासविधानवैयर्थ्यापत्त्योपसेचनादिक्रियाध्याहाराऽभ्युपगमेऽपीत्यर्थः।
*हरिकृतमिति* कृधातोर्व्यापारार्थकत्वस्वीकारात्तन्निरूपितकर्त्तृत्वस्य हरौ साक्षात्सत्त्वादध्याहारं विनैव शास्त्रचारितार्थ्ये `हरित्रातः' इत्यादावध्याहृतक्रियाद्वारकसामर्थ्यमादाय तत्प्रवृत्तौ मानाभावादित्यर्थः। कृञो व्यापारार्थकत्वानभ्युपगमेत्वध्याहृतार्थस्यापि सामर्थ्यानुपपादकत्वाच्छास्त्रवै3यर्थ्यमेव स्यादिति सूचनाय `कृतम्' इत्युक्तम्। आदिना `शरकृतम्' इत्यादिकरणतृतीयातत्पुरुषपरिग्रहः।
केचित्तु, कृदर्थकर्त्रैव तृतीयार्थकर्त्राक्षिप्तबावनामादाय `हरित्रातः' इत्यादौ, `नखैर्भिन्न' इत्यादौ तु करणसामर्थ्येनाध्याहृतां तामादाय सामर्थ्योपपत्तौ न तदनुपपत्तिर्धारोर्भावनावाचकत्वसाधिकाः। एवञ्च कृञः फलार्थकत्वेऽपि न समासानुपपत्तिरित्याहुः, तच्चिन्त्यम्।
*एकक्रियान्वयित्वमेवेति* `धवखदिरौ'इत्यादौ तस्य दृष्टवेनान्यत्रापि साक्षात्परम्परया वा तस्यैव समासप्रयोजकत्वमिति भावः। *असूर्य्यम्पश्या इति* नञर्थप्रसज्यप्रतिषेधस्य क्रियान्वयित्वस्य वक्ष्यमाणतया सूर्य्यस्यापि कर्मकारकतया तदन्वयित्वेन भवदुक्तसामर्थ्यस्य तत्र सत्त्वादिति भावः। *कृतसर्वमृत्तिक इति* मृत्तिकायाः करणतया, सर्वपदार्थस्य कर्मतया कृधात्वर्थाऽन्वयित्वादिति भावः। योगविभागस्यानिष्टानापादकत्वादाह-*किञ्चेति।
*अकर्त्तृतापत्ताविति* आख्यातार्थव्यापारानाश्रयत्वादिति शेषः। अस्मन्मते तु णिच्प्रकृत्यर्थव्यापाराश्रयत्वेन कर्त्तृत्वान्न तदनुपपत्तिरिति भावः। ननु विष्णुमित्रस्याऽकर्तृत्वेऽपि करणत्वविवक्षयैव तत्र तृतीया सुलभेत्यत आह-*ग्रामं गमयतीति* `कर्तृरीप्सिततमम्' इत्यनेन प्रकृतिकर्त्तृनिष्ठव्यापारजन्यफलसम्बन्धिन एव कर्मसंज्ञाविधानेन त्वन्मते विष्णुमित्रस्याकर्त्तृतया तद्व्यापारजन्यफलाकश्रयस्यापि ग्रामस्याकर्मत्वेन तद्वाचकपदोत्तरं द्वितीयानापत्तिः, विष्णुमित्रस्य करणत्वे णिचोऽसम्भवश्च। धात्वर्थव्यापारजन्यफलाश्रयस्यैव कर्मत्वाङ्गीकारे तु णिजन्तकर्मतैव स्यान्न गमिकर्मतेति भावः। इष्टपत्तावाह-*तथाचेति*।
*एतेनेति* आख्यातार्थव्यापाराश्रयस्य कर्तृत्वनिरासेनेत्यर्थः। *णिजन्ते* पाचयतीत्यादौ। *उभयमिति* प्रयोज्य-प्रयोजकत्वापारद्वयमित्यर्थः।* तदाश्रयत्वादिति* आख्यातार्थव्यापारद्वयाश्रत्वादित्यर्थः।
*अपास्तमिति* अयं भावः-आख्यातस्य व्यापारद्वयाऽभिधायकत्वेन विष्णुमित्रस्य कर्त्तृत्वोपपादनेऽपि तत्कर्त्त़त्वस्याख्याताभिधानाद्देवदत्तपदोत्तरमिव विष्णुमित्रपदोत्तरं तृतीयादौर्लभ्यम्, एवमाख्यातार्थव्यापाराश्रत्यत्वस्योभ्योरप्यविशिष्टत्वात् प्रधानव्यावहारोच्छेदापत्त्या "हेतुमति च" (पाo सूo 3-1-26) इत्यनुशासनविरोधश्चेति।
ननु णिजाख्यातार्थान्यतरार्थव्यापाराश्रयत्वं कर्त्तृत्वम्। अस्मन्मते फलमात्रस्य गणपठितधात्वर्थत्वेन तदनुकूलणिजर्थव्यापाराश्रयत्वेन विष्णुमित्रस्याऽपि कर्त्तृत्वद्दौर्लभ्येन नोक्ताऽनुपपत्तिरत आह *किञ्चेति* आख्यातार्थव्यापाराश्रयत्वस्य केवलान्वयितया अव्यावर्त्तकत्त्वेनाऽऽख्यातं तद्वाक्यस्थत्वेनाऽवश्यं विशेष्णीयम्। एवञ्च `चेत्रः पक्ता' इत्यादावाख्यातशून्ये वाक्ये कृदर्थकर्त्तर्यव्याप्तिर्दुर्वारेत्यर्थः।
ननु 'अस्तिर्भवन्तीपरः' इति भाष्येणाख्यातप्रयोगस्य तत्राऽवश्यम्भावान्नोक्तापत्तिः। किञ्च' `धातुविहितप्रत्ययवाच्यतदाक्षिप्ताऽन्यतरव्यापाराश्रयत्वं कर्त्तृत्वम्'। धातुविहितेति प्रत्ययविशेषणाच्च न करणतृतीयार्थव्यापाराश्र्येऽतिव्याप्तिः, उक्तस्थले कृद्वाच्यकर्त्राक्षिप्तव्यापाराश्रयत्वान्नोक्तदोषोऽत आह-*दिगिति* तदर्थस्त्वितरनिवृत्तितात्पर्यकतादृशवाक्येऽस्त्यध्याहारस्यानावश्यकत्वादुक्तप्रकारस्य य साधीयस्त्वम्। किञ्चैवंरीत्या कर्त्तृत्वनिर्वचनाऽपेक्षया धातोर्व्यापारार्थंकत्वमभ्युपगम्य तदाश्रयत्मेव कर्त्तृत्वं निर्वक्तुमुचितम्, लाघवादित्यादिः।
*स्वोत्प्रेक्षितत्वमिति* निर्मूलस्वकल्पनाविषयत्वमित्यर्थः।
*हिरुगिति* यथाश्रुतमनुरुध्य चेदम्, तदर्थस्य कालानन्वितत्वेन क्रियात्वासम्भवात्। किन्तु तावन्मात्रोक्तौ `आणवयति' इत्यादावतिव्याप्तिर्बोध्या, तेषां धातुत्वे च शास्त्रविषयतया साधुत्वापत्तेरिति बोध्यम् (1-9)
(1-10) तावन्मात्रोक्तावित्यत्र मात्रपदेन क्रियावाचकत्वदलव्यवच्छेदः। इष्टापत्तिमाशङ्कयाह *तथाचेति* `याः' इत्यस्य द्वितीयान्तत्वं सूचयितुमाह *पश्यसीति*।
*लक्षणप्रतीति* लक्ष्यते=अन्वाख्यायते साधुशब्दोऽनेनेति लक्षणम्=सूत्रम्। तदनुसन्धानसापेक्षत्वोपचारेण लाक्षणिकमपि लक्षणशब्देनोच्यते। यथा `पै' इत्यस्य `पा' इति रूपं विलम्बोपस्थितिकम्, लक्षणाऽनुसन्धानसापेक्षत्वात्। प्रतिपदोक्तं तु तद्विभक्तिविशेषानुपादेन पठितं शीघ्रोपस्थितिकम्, लक्षणानुसन्धानानपेक्षणादिति। यथा पिबतेः `पा' इति रूपम्। तथाच शीघ्रोपस्थितिकत्वं प्रतिपदोक्तग्रहणे बीजम्, तच्च `या' इति गणपठिते एव, सर्वनाम्नि लक्षणानुसंधानसापेक्षेति भावः। अव्यये=वेत्यादावित्यादिना, सु-इत्युपसर्गस्य, मा माङिति स्वराद्योश्च संग्रहः। षत्वप्रकरमपाठादुपसर्गव्यावृत्तिर्न शङ्कया, षिध्वादिसंग्रहाय पारिभाषितषोपदेशत्वस्य तत्राऽपि सत्त्वात्।
*प्रयोगः स्यादिति* उपलक्षणञ्चैतत्-सुवति, माति, मिमीते, इत्यादिप्रयोगाणाम्। षूङ् प्राणिप्रसवे, मा माङ् माने इत्यादिधातूनां सत्त्वेन तन्निर्णयासम्भवात। सत्यन्तोक्तौ तु न दोषः, वाद्यर्थस्य विकल्पादेर्भूतादिकालासम्बन्धेन क्रियात्वाभावादिति भावः। *नियामक इति*। गणे पठितानामेव धातुत्वस्याभिप्रेतत्वेऽर्थनिर्द्देशवैयर्थ्यापत्त्या निर्दिष्टार्थानामेव धातुत्वं ज्ञाप्यते इत्यर्थः। *तस्य* अर्थनिर्देशस्य । *अर्थानादेशनादिति* अर्थस्य सत्तादेः, अनादेशनादनाम्नानादित्यर्थः।
*आधुनिकत्वलाभादिति* भीमसेनादिप्रणीतत्वावगतेरित्यर्थः। तथाच भूवादिसूत्रे `परिमाणग्रहणं कर्त्तव्यम्, कुतो ह्येतत्, भूशब्दो धातुसंज्ञको भवति, न पुनर्भ्वेधशब्द इति', यद्यप्यर्थनिर्देशस्य सूत्रकृत्प्रणीतत्वमपि। तथाच "चुटू" (पाo सूo 1-3-7) इति सूत्रे-यदयमिरितः काँश्चिन्नुमनुषक्तान् पठति, उबुन्दिर् निशामने, स्कन्दिर्गतिशोषणयोः, इति। तेन नेरितामिदिद्विधिरिति भाष्ये उक्तम्। तथापि भाष्यद्वयप्रामाण्यात्सर्वधात्वर्थनिर्देशस्यापाणिनीयत्वेन न तन्निर्द्देशस्य नियामकतेति भावः। चुलुम्पदीनां स्तम्भ्वादीनां च `कास्यनेकाच आम्' इतिवाचनादुदित्करणाच्च धातुतेति दिक् (1-10)
(1-11) *धात्वर्थत्वमेवेति* फलमेवेत्य्रथः. तथाच नैतत्सूत्रानुपपत्तिर्धातोर्व्यापारार्थत्वासाधिकेति भावः। *उत्पत्ताविति* यथाबीजाऽङ्कुराद्युत्पत्तौ अनादित्वेन तत्परिहार इत्यन्यत्। यथा वा चैत्रपुत्रश्चैत्र इत्यादौ, तत्राप्येकोत्पत्तिं विनाऽपरानुपपत्तेः। *ज्ञप्ताविति*। हलन्त्यमित्यादौ प्रसिद्धः। * असङ्गत्यापत्तेरिति*। यथा पृथिवि-जलयोराधाराधेयभाव इत्यादावुभयोः परस्पराधाराधेयभावेन स्थितेः सर्वैरेवाभ्युपगमात्। प्रकृते वस्तुतो धात्वर्थस्य क्रियात्वे क्रियात्वस्य धात्वर्थत्वे बाधकाभावेन तत्र दूषणदानस्यानुचितत्वापत्तेरित्यर्थः।
*अन्यतमत्वमिति*। भ्वादिभिन्नभिन्नत्वमित्यर्थः।।
नन्वस्मन्मते पुर्वापरीभूतावयवसमुदायरूपक्रियाया धात्वर्थत्वेन तद्गृहीतपौर्वापर्य्यारोपेण फलस्य क्रियात्वोपपत्तिः। भवन्मते तु क्रियाया धात्वर्थत्वानुपगमेन कथं तत्र तद्व्यवहारोऽत आह * धात्वर्थत्वादिति* तथाच तत्र फलत्वव्यवहार इव क्रियात्वव्यवहारोऽपि धात्वर्थत्वप्रयोजकत्वाऽभ्युपगमेन तदुत्पत्तेरिति भावः। *भाष्यादौ कृत इति* "कर्मवत्कर्मणा" इति सूत्रे 'भूवादि' च भाष्यादावित्यर्थः। आदिपदात् वृत्त्यादिपरिग्रहः (1-11)
(1-12) *अस्यैवेति* क्रियावाचकस्यैवेत्यर्थः। एवकारेण फलमात्रवाचकत्वव्यवच्छेदः। एतदवाचकत्वे हेतुः *क्रियाप्रतीत्यभावादिति* तदवाचकानाम्=व्यापारावाचकानामित्यर्थः। *अधातुत्वप्रसङ्ग इति*। आपत्तेरिष्टत्वं तु न, ततो लकाराद्यनुत्पत्तिप्रसङ्गादिति भावः।
*धर्म्यंशे* फलरूपे इत्यर्थः। अंशपदोपादानात् धर्मिणो धर्मघटितमूर्त्तिकत्वादकर्मकस्थले कर्त्तृवृत्तित्वाच्च फलस्यापि तदंसत्वात् तस्य भाव्यतायामेव विवादादाह *भाव्यत्वेनेति* भावनानिष्पाद्यत्वेनेत्यर्थः। फलसाध्यव्यापारस्य जिज्ञासितत्वे इति यावत्। अत एव वक्ष्यति `आसन्नविनाशम्' इति। विवक्षास्थसमेव प्रश्नोत्तरभावेन दर्शयति *स ततो गतो न वेति* गत्यर्थाऽकर्मकेति कर्त्तरि क्तः। प्रश्न इत्यनेन भाव्यत्वस्य जिज्ञास्यत्वं ध्वन्यते। तथाच गतो न वा किमिति प्रश्नाऽऽकारः।
*प्रयोग इति* प्रश्ननिवर्त्तके वाक्य इत्यर्थः। *प्रतीयते एव* इत्यस्यास्धातुनेति शेषः। ननु स ततो गतो न वेति वाक्याद् गेहाद्यवधिकविभागानुकूलव्यापाराश्रयत्वतदभावान्यतरस्य जिज्ञास्यत्वमवगम्यते। महता यत्नेनाऽस्तीति वाक्यात्त्स्तेर्व्यापारार्थकत्वाभ्युपगमेऽपि चैत्रादिकर्त्तृकसत्ताऽनुकूलव्यापार एवेति कथमेतयोः प्रश्नोत्तरत्वम्? तथाहि-यद्धर्मावच्छिन्ने जिज्ञासित्यद्धर्माऽवच्छिन्नस्य सम्बन्धो यत्प्रश्नवाक्यात् प्रतीयते तद्धर्मावच्छिन्ने जिज्ञांसिततद्धर्मावच्छिन्नसम्बन्धबोधकवाक्यस्योत्तरता। यदाहुः-
जिज्ञासितपदर्थस्य संसर्गो येन गम्यते।
तदुत्तरमिति प्रोक्तमन्यदाऽऽभासशब्दितम्।। इति।
यथा घटत्वावच्छिन्नं जिज्ञासितधर्मावच्छिन्नसम्बन्धबोधकस्य, कस्माद् घट इति प्रश्नवाक्यस्य घटत्वावच्छिन्ने जिज्ञासितदण्डत्वाऽवच्छिन्नस्य हेतुहेतुसद्भावबोधकम् `दण्डाद् घटः' इति वाक्यमुत्तरम्। प्रकृते तु, गत इति, नेति वेत्युत्तरं युज्यत्।
किञ्चोक्तप्रश्नेन सत्तासाधकव्यापारस्य जिज्ञास्यत्वानवगमात् कथमेतस्योत्तरत्वम्। तथात्वेऽपि पूर्वोत्तरवाक्ये यत्नेनेत्युपादानाद्यत्नपदोपस्थाप्ययत्ननिष्पाद्यत्वबोधेनैवोत्तरत्वसिद्ध्या, न ततो धातोर्व्यापारार्थकत्वसिद्धिरत आह *उत्पत्त्यादीति* सुतरामित्यस्य व्यापारार्थकत्वमिति शेषः। अत्राश्रयताबोधस्योभयमतसिद्धत्वेन सैव साध्यत्वेनाभिधियमानत्वाद् व्यापारः। पौर्वापर्य्यं च परमते सत्तायामिव कालगतं तत्रारोपितमेवेति भावः।
ननु तत्राप्याश्रयताया धात्वर्थत्वतल्पनमप्याग्रहमूलकमेव। तत्रत्पत्तिमात्रार्थकत्वेऽपि रोहिताश्रयिका भूतानद्यतनोत्पत्तिरित्यभिमतार्थबोधलाभादत आह *किञ्चेति*। *तस्या एवेति*। भावनाया एवेत्यर्थः। एवकारेण फलव्यावच्छेदः। यथा चैतत्तथोक्तं सार एव। *तद्विधानात्* लडादिविधानात्। तत्र हरिसम्मतिमप्याह *क्रियाभेदायेति*। तुमर्थादिति चतुर्थि, वार्त्तिकेन तादर्थ्ये वा। क्रियां भेत्तुम्=विशेषयितुमित्यर्थः। कालः लडादिबोध्यः, अस्तीति शेषः। लडाद्यर्थकालः क्रियांमात्रभेदक इति यावत्। विबक्तयर्थरूपा सङ्ख्या तु सर्वस्याख्यातप्रातिपदिकार्थस्य भेदिकेति तदर्थः। मतान्तरे तु धातुप्रातिपदिकार्थस्येति बोध्यम्। एवम्=धातोर्व्यापारवाचकत्वे।
मूले-*अशेषभावादिति* शेषः=फलव्याप्त्यतिरिक्तः, भवत्यस्मिन्निति भावः=अधिकरणं यस्येति बहुव्रीहिणा शेषभावशब्दः फलव्यधिकरणार्थकः भावप्रधाननिर्द्देशस्तस्मान्नञ्समस्तात् पञ्चम्येकवयने फलव्यधिकरणत्वाभावादित्यर्थावगतिः (1-12)
(1-13) फलितमाह सारे *भावनायाः फलेति* एकमात्राधिकरमकफलसामानाधिकरण्यस्य स्वरूपतो भावनास्पष्टभानप्रतिबन्धकत्वाऽभ्युपगमान्न स्पष्टं तत्प्रतीतिः। स्पष्टवञ्च-फलप्रतीत्यनभिभूतत्वमिति भावः। *एवम्* अस्त्याद्यकर्मकाणां व्यापाराऽर्थकत्वे। *फलनियतत्वादिति* फलव्याप्यत्वादित्यर्थः। भावनावाचकत्वस्य फलवाचकत्वव्याप्यत्वादिति यावत् *सकर्मकतापत्तरिति* फलव्यापारोभयवाचकस्य चपच्यादेः सकर्मकत्वदर्शनादिति भावः।
ननु फलव्यापारयोरेकनिष्ठत्वस्याकर्मकतायां तन्त्रत्वे गम्यादिनामप्यकर्मकतापत्तिः, तदर्थफलव्यापारयोरेककर्त्तृवृत्तित्वादतो व्याचष्टे *एकमात्रनिष्ठतायामिति* एकमात्रनिष्ठत्वम्=एकेतरावृत्तित्वे सत्येकवृत्तित्वम्। तत्र प्रयोजनाभावाद्विसेष्यांशममपहाय पलितार्थमाह *भिन्नाधिकरणेति* भिन्नत्वञ्टच व्यापाराधिकरणापेक्षया बोध्यम्।
तथाच स्वार्थव्यापारानधिकरणावृत्तिफलवाचकत्वं पर्प्यवसितं लक्षणं लक्ष्ये ग्राहयति, तत्र सत्ताऽऽत्मकव्यापारस्यैकमात्रनिष्ठत्वस्याऽविकलत्वादिति भावः।
ननु मूले `तयोर्धर्मिभेदे' इत्यनेन स्वार्थफलव्याधिकरणव्यापारवाचकत्वम्, स्वार्थव्यापारव्यधिकरणफलवाचकत्वं वा सर्कमकत्वमुक्तम्। तत्र वैयाधिकरण्यं तदधिकरणाऽवृत्तित्वम्। तथाच ग्रामदावव्याप्तिः, तदर्थफलव्यापारयोः परस्पराऽधिकरणवृत्तिभिन्नत्वाभावादतो व्याचष्टे भूषणसारे-*आश्र्यभेद* इति। तथाच प्रथमलक्षणे कर्त्तृभिन्नतदधिकरणाऽवृत्तित्वरूपस्य द्वितीये तदनधिकरणावृत्तित्वरूपस्य निवेशान्नानुपपत्तिरिति भावः।
अस्तेः फलव्यापारोभयार्थकत्वे हरिसम्मतिमप्याह-*उक्तञ्चेति*। *व्यपदिश्यते*=व्यवह्रियते। *अन्तर्भावादिति* धात्वर्थतावच्छेदककोटिप्रविष्टत्वादित्यर्थः।
पृथगुपस्थितयोरेवान्वयनियमात् कर्मसंज्ञकार्थान्वय्यर्थकरूपसकर्मकत्वस्य तत्रानवकाशादिति भावः। स्वोक्तलक्षणानुसारेण सारकृद् व्याचष्टे-*फलांशेनेति* स्वकर्मकधारणरूपफलेन सह तदनुकूलव्यापारस्यैकाधिकरण्यादित्यर्थः। आत्मरूपकर्मणा सकर्मकत्वं कुतो नेत्याकाङ्क्षायामेतत्समाधानस्योदक्षरत्वदोषदुष्टस्य योग्यत्वं सुधीभिर्विभावनीयम्।
ननु `आत्मानं जानाति' इत्यादावनुपदोक्तसकर्मकलक्षणस्याव्याप्तिः, तत्र ज्ञानरूपफले तदर्थव्यापारस्य वैयाधिकरण्याभावादतिव्याप्तिश्च फलसमानाधिकरणेत्याद्यकर्मकलक्षमस्येत्याशङ्कय समाधत्ते-*आत्मानं जानातीत्यादिना*। *अन्तरात्मेति* अन्तःकरणावच्छिन्नात्मा शरीरात्मा तदवच्छिन्नः सः। तथाचाऽऽत्मन एकत्वेऽपि ततःच शरीररूपोपाधिभेदपरिकल्पितं भेदमादाय वैयधिकरण्यस्य सूपपादत्वादुक्तलक्षणयोर्नाप्त्यतिव्याप्ती इत्याह-*भिन्नाधिकरणेति*(1-13)
(1-14) *असत्त्वभूताया इति* क्रियान्तराकाङ्क्षानुत्थापकतापच्छेदकधर्माक्रान्ताया इत्यर्थः। *तदिति* तेन रुपेण प्रतीत्यापत्तिरित्यर्थः। *कृदभिहित इति* कृदर्थ इत्यर्थः। *द्रव्यवदिति* द्रव्येण=नामार्थेन तुल्यं प्रकाशते=भासते इत्यर्थः। द्रव्यधर्माणि-लिङ्गसङ्खयाकारकत्वानि गृह्णातीति यावत्। यद्वा द्रव्यम्=क्रियाकाङ्क्षोत्थापकतावच्छेदकरूपसिद्धत्ववत्, तेन तुल्यं प्रकाशते इत्यर्थः, सिद्धत्वेन भासत इति यावत्। तथाच तादृशभाष्येणापाद्यव्ययतिरेकनिर्णये तद्धेतुभूते प्रामण्योपगमादिष्टापत्तेरसुकरत्वादिति भावः।
आख्याते शबादौ यस्मिन्निति बहुव्रीहिणा वाक्यमन्यपदार्थ इत्याशयेनाह-*पश्येत्यादि*। *तिङन्ताभ्याम्* पश्य-धावतिभ्याम्। धावतेः साधनत्वेन, पश्यतेः क्रियाबोधकत्वाद् दृष्टान्ततोपपत्तिरत एव वक्ष्यति `इयान् परंविशेषः' इति। *प्रकृत्यादीति* *व्याख्यानम्* विवरमस्थम्। आख्यातशब्द इति कर्मधारय इति तद्भावः.। अपव्याख्याने हेतुमाह *पचतीत्यत्रेति* तथाच तिङन्तरूढेन केवलाख्यातपदेनैव पचत्यादितिङन्तरूपार्थलाभे शब्दपदवैयर्थ्यम्। मन्मते तु तस्य बहुव्रीहिलाभसम्पादकतयाऽऽख्यातशब्दपदस्य तिङन्तद्वयघटितवाक्यपरतोपपत्तिः, पचत्यादैर्भागद्वयस्य साध्यमाधनवर्त्तित्वेऽपि क्रियायास्ततः साधनत्वेनाऽबोधाद् दृष्टान्तत्वासम्भवश्चेति भावः। तदेव विशदयति-*साधनरूपतेति*। *प्रकृत्या*-`पाकः'इत्यादाविति शेषः।
नन्वनयोर्लिङ्गसङ्खयान्वयित्वान्वयित्वेन वैषम्यात् कथं दृष्टान्तदार्ष्टान्तिकभावोऽत आह *इयान् परमिति* तथाच यत्किञ्चिद्धर्मवत्त्वेन सादृश्यविवक्षणान्नोक्तदोष इति भावः।
ननु धावत्यर्थस्य कारकत्वेनाऽनन्वयित्वे कारकानन्वयित्वरूपमसत्त्वं तस्या भज्येतेति चेत् तत्र क्रियानाधारत्वविशेषणेन कर्तर्व्यापाराऽऽधारत्वेन कर्मणः फलाधारत्वेन कर्त्तृत्वेन कर्मत्वेनान्वयेऽप्युक्तरूपस्यासत्त्वस्याक्षतत्वात्। उक्तञ्च--
`क्रिया न युज्यते लिङ्गं क्रिया नाऽऽधारकारकैः।
असत्त्वरूपता तस्या इयमेवाऽवधार्यताम्'।। इति।
क्रियान्तराकाङ्क्षानुत्त्थापकतावच्छेदकधर्मवत्त्वम्=असत्त्वभूतत्वमिति मते त्वत्र दोषः प्रागुक्त एव। साधनाकाङ्क्षोत्थापकतावच्छेदकधर्मवत्त्वरूपतया परिष्कृते तु न क्वापि दोष इति। *तथाभिधाने इति* उक्तसाध्यत्वेन रूपेण प्रतीतावित्यर्थः।
*ओदनस्येति* अत्रौदवपदं तण्डुलादिपरम्, अन्यथा विक्लिन्नस्यैवौदनपदार्थतया तस्य पाकासम्भवेन बाधितार्थकताऽऽपत्तेः। *कर्मषष्ठया इति* कर्मत्वेन कर्मशक्तायाः ,षष्ठया एवेत्यर्थः. *मानत्वादिति* अनुपपत्तिरूपप्रमाणत्वादित्यर्थः। घञन्तेन सिद्धभावस्यैवाऽभिधाने कारकाणां साध्यस्वभावक्रियाऽन्वयित्वनियमेनौदनस्याकारकतयाऽकर्मत्वेन तत्र षष्ठयनुपपत्तेरेव तस्य साध्यस्वभावक्रियार्थकत्वे मानत्वादिति भावः। *क्रियान्वयादिति* साध्यस्वभावाऽध्याहृतभवत्यर्थस्य परम्परान्वयादित्यर्थः।
नन्वोदनस्य कृदन्तार्थफलाश्रयत्वरूपकृदन्तयोग्यस्यापि सत्त्वेन कथं तदनुपपत्तिरत आह-*न लोकेति* इदञ्च समाधिसौकर्यादुक्तम्। प्रत्यसत्त्या यद्धात्वर्थफलाश्रयत्वं तद्धात्वर्थकारकस्यैव कर्मतालाभेन पाकपदार्थस्य क्रियात्वेन भवत्यर्थस्य क्रियात्वेऽपि तदर्थफलाश्रयत्वाभावेनौदने कर्मत्वस्यैव दुरूपपादत्वात्। ननु तत्र मा भूत्कृद्योगषष्ठी, शेषष्ठयैव तथा प्रेयोगोपपत्तेरिति चेन्न, सर्वत्र सम्बन्धषष्ठयैव प्रयोगोपपत्त्या कर्तृकर्मणोरित्यादिविधिवैयर्थ्यापत्तेः। यदि च `जगतः कर्त्ता' इत्यादौ कर्म्मत्वेन कर्मत्वप्रकारकसर्वसिद्धबोधोपपत्त्यर्थं समासस्थले "गतिकारकोपपदात्कृत्" (पाo सूo 6-2-39) इत्यादिविहितस्वनिर्वाहार्थञ्च तस्यावश्यकतेति विभव्यते, तदा प्रकृते किं तत्प्रयोजनं पाणिपिहितमिति भावः। नन्वसत्त्वभूतक्रियाया भावप्रत्ययप्रकृत्यर्थत्वे काष्ठानां तन्निरूपितकरणत्वस्यापि सम्भवाद्भवत्यर्थाऽनध्याहारेऽपि `काष्ठैः पाकः' इत्याद्यपि प्रसज्ज्येते त्याशङ्कयेष्टापत्त्या परिहरति-*एवंरीत्येति*।
अन्ये तु भावप्रत्ययस्थले सम्बन्धिभेदेनैकस्यैव पितृत्व-भ्रातृत्ववद्धावत्यर्थस्य मृगदर्शनसम्बन्धेभेदात् साधनवच्छेकस्या एव क्रियाया वाचकप्रत्ययरूपसम्बन्धिभेदात् साध्यत्व-साधनत्वाभ्यामुपस्थितिर्न ताभ्यां भिन्नभिन्नक्रियोपसथितिरित्याहुः। *एवमिति* यथा `ओदंनस्य पाकः' इत्यादावोदनस्य कर्मत्वाऽनुपपत्त्याऽसत्त्याऽसत्त्वभोूतव्यापारो धातुवाच्यस्तथेत्यर्थः। तादृशफलस्यावच्यत्वेऽनुपपत्तिं दर्शयति-
*अत एवेति* अन्यथा तादृशप्रयोगानुपपत्तिस्तादृशफलस्य वाच्यत्वे तु तस्य व्यापदेशिवद्भावेन स्वसम्बन्धितया कर्मत्वात् तत्समानाधिकरमस्तोकादिशब्देभ्यो द्वितीयोपपत्तिः। तत्र स्तोकादिभ्यः कर्त्तृकर्मणोरिति षष्ठी तु न, कर्तृसाहचर्य्येण भेदान्वयिन एव कर्मणस्तत्र ग्रहणात्। अत एव "पूजानात्पूजितम्" इति सूत्रे भाष्ये `दारुणं यथा भवति तथाऽऽध्यापक इत्यर्थे दारुणाध्यापकसिध्द्यर्थं मलोपवचनमारब्धं भाष्ते'। अन्यथा, कर्त्तृकर्मणोरिति विहितषष्ठयन्तेन समासे तद्वैयर्य्यं स्फुटमेवेत्यन्यत्र विस्तरः।
अन्ये तु ओजःसहोऽम्भसा वर्त्तते, इत्यधिकारे `तत्प्रत्यनुपूर्वमीपलोमकूलम्' (पाo सूo 4-428) इति सूत्रे द्वितीयान्ततच्छब्दग्रहणं ज्ञापकम्-`क्रियाविशेषणाद् द्वितीया' इत्यस्यार्थस्य नतु स्तोकाद्यर्थस्य कर्मत्वमपि, फलस्य फलाश्रयत्वाऽभावात्। एवञ्च न तद्वाचकेभ्यः षष्ठीप्रसक्तिरित्याहुः (1-14)
(1-15) *उक्तत्वादिति* क्रियान्तराकाङ्क्षाऽनुत्थापकतावच्छेदकरूपवत्त्वं साध्यत्वमित्यादिनेत्यर्थः, क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपेणोपस्थितेः क्रियान्वयासभ्भवादिति भावऋ। तेन रूपेणोपस्थितेः `पश्य मृगो धावति' इत्यादौ व्यभिचारितत्वादाह-*स्तोकः पाक इति* घञा सिद्धावस्थक्रियाया अबोधने धात्वर्थविशेषणवाचकस्तोकादिशब्दस्य लिङ्सर्वनामनपुंसकत्वापत्तिरिति भावः। तदेव विशदयति-*तस्मादिति*। *एतेनेति* घञादीनां सिद्धवस्थाऽऽपन्नक्रियावाचकत्वव्यवस्थापनेनेत्यर्थः। *प्रयोगसाधुतामात्रमिति* मात्रपदेन वाचकत्वव्यवच्छेदः।
*नैयायिकनव्योक्तमिति* धातूनां सुब्विभक्तयप्रकृतित्वात्तदर्थे सुबर्थसङ्खाकर्मत्वादीनामन्वयानुपपत्त्या धातोरिव घञन्तस्यापि क्रियावाचक्तवमभ्युपेयम्, प्रकृत्त्येकदेशार्थे तदन्वयाऽभ्युपगमे तु यत्र पाककर्त्रादेर्द्वित्वादिकं बाधितम्, पाकादेश्च तदबाधितम्, तत्र `पचन्तौ पश्यति' इत्यादिप्रयोगापत्तेः। धातूपस्थाप्यार्थे सुबर्थान्वयबोधं प्रति तद्धातूत्तरधर्मिककिञ्चिदर्थपरत्वज्ञानस्य प्रतिबन्धकत्वावगमे तु गौरवम्। एवञ्च यत्र धातूपस्थाप्यार्थे सुबर्थान्वयबोधं प्रति तद्धातूत्तरधर्मिककिञ्चिदरथपरत्वज्ञानस्य प्रतिबन्धकत्वावगमे तु गौरवम्। एवञ्च यत्र धातुमात्रस्य पाकादौ तात्पर्य्यं तत्र तद्विशेषतावाचकस्तोकपदाद् द्वितीयैव। यत्र तु कृदन्तसमुदायस्य तत्र तद्विशेषणवाचकपदं तत्समानविभक्तिकमेवेति कातन्त्रपरिशिष्टडकृन्मतं नव्यनैयायिकमतत्वेनानुद्य दूषयति-*नचेति*। *गौरवादिति*।
ननु भावाख्यातवद्भावविहितघञादीनां धात्वर्थनुवादकत्वे स्थिते प्रागुक्तप्रयोगोपपत्तयेऽनायत्त्या घञन्तानुपूर्व्याः शक्ततावच्छेदकत्वस्वीकार आवश्यक इत्यत आहन्त *अनुशासनादिति* तथाच गुरुभूतानुपूर्व्याः शत्ततावच्छेदकत्वापेक्षयाऽनुसासनानुगुण्यादुक्तप्रयोगोपपत्तये घञत्वस्यैव तत्त्वमुचितमिति भावः।
ननु घञादीनांव्यापारावाचक्तवेऽपि `क्रियाविशेषणाद् द्वितीया'इत्यत्र क्रियापदस्य पाकार्थकतया तथानुपस्थाप्यपरत्वात् `स्तोकः पाकः' इत्यादौ धातूपस्थाप्यपाकस्योक्तविशेषणवैकल्यान्न तद्विशेशणवाचकपदाद् द्वितीयाऽऽपत्तिरत आह *दिगिति* तदर्थस्तु-स्यादेवं यदि क्रिया विशेषणाद् द्वितीयेति स्वतन्त्रमनुशासनं स्यात्, किन्त्वस्मदुक्तफलितार्थकथनमेव तत्। तथात्वे वा त्वनमते `स्तोकम्'इत्यनापत्तेश्चेति (1-15)
(1-16) *क्रियायामिति* प्रवर्त्तनाविषयक्रियायामित्यर्थः। तत्र तदनन्वये निघाताऽनुपपत्तिं प्रमाणयति-*निघाताऽनुरोधादिति*। *समानवाक्य इति*। `आख्यातं सविशेशणं वाक्यम्' इति समर्थसूत्रभाष्यत्साक्षात्परम्परया वा पदार्थान्तराऽन्वितक्रियाबोधकाख्यातस्यैतालभेन सम्बोधनान्तार्थस्य क्रियायामनन्वये `त्वं ब्रूहि देवदत्त' इत्यादौ तदभावात् `समानवाक्ये' इति, प्रकृत्यामन्त्रित्सयेति निघातस्यानुपपत्तेरित्याखण्डलार्थः। तत्र `शालीनां-ते ओदनं दास्यामि' इत्यादौ `सालीनाम्' इत्यादेः समानवाक्यस्थत्वसिद्धये `परम्परया' इति। `पचति भवति' इत्यादिसाधारणं चैतत्। प्रकृते व सम्बोधनस्यानुवाद्यविषयतयाऽनुवाद्यस्य विधेयकाकाङ्क्षतया, विधेयतायाश्च क्रियानिष्टत्वेन तत्रैव सम्बोधनान्तार्थान्वयौचित्यात् समानवाक्यस्थत्वमक्षतमिति भावः। बोधस्त्वत्राभिमुखीभवनानुकूलव्यापारविषयदेवदत्तोद्देश्यकप्रवर्त्तनाविषयत्वदभिन्नकर्तृकं भाषणमिति। तत्र हरिसम्मतिमाह-*उक्तञचेति*।
*सम्बोधनपदमिति* तद्वोध्यमित्यर्थः। *विशेषणमिति* स्वोद्देश्यकप्रवर्त्तनाविषयत्वरूपपरम्परासम्बन्धेनेत्यर्थः। व्रजानीत्यस्य हि `जानीहि' इति शेषः,
सिद्धस्याभिमुखीभावमात्रं सम्बोधनं विदुः।
प्राप्ताऽऽभिमुखीख्यो हि जनः क्रियासु विनियुज्यते।।
इति कारिकान्तरे `विनियुज्यते' इति वदता प्रवर्त्तनाविषयक्रियायामेव तदन्वयबोधनात्। प्रवर्त्तनोद्देश्यस्यैव तद्विषयक्रियोद्देश्यत्वादुद्देश्यविधेयभावस्य तयोः संसर्गमर्य्यादया लाभादेकवाक्यतया निघात इति तदर्थः। शाब्दबोधस्त्वत्र सम्बोधनविषयदेवदत्तोद्देश्यकप्रवर्त्तनाविषयो मत्कर्तृकव्रजनकर्मकं ज्ञानमिति। *सूत्रभाष्यादिरीत्येति* भूवादिसमर्थसूत्रस्थभाष्योक्तरीत्येत्यर्थः।
*स्यादेवेति* आमन्त्रितदेवदत्तपदस्येत्यर्थः। अत्र `जानीहि' इति पादध्याहारेणोक्तरीत्या देवदत्तपदस्यैकवाक्यस्थत्वाऽक्षतेरिति भावः। तत्र सूत्रकारसम्मतिमाह *सूत्रभाष्यादिरित्येति* भूवादिसमर्थसूत्रस्थभाष्योक्तरीत्येत्यर्थः।
सम्मतिरियं सूत्रकृत एकवाक्यतांशे निघातांशे च। भाष्यसम्मतिस्तु न, तेनातिङ्गहणस्य प्रत्याख्यानात्।
नन्वेवं खतमतिङ्ग्रहणप्रत्याख्यानसङ्गतिः, पचति भवतीत्यत्र निघातवारकतया तस्याऽवश्यकत्वादिति चेन्न, तत्र कारकान्वितक्रियाबोधकत्वरूपैकवाक्यत्वस्य सुप्चयमुप्तिङन्तचसाधारणस्य सत्त्वेऽपि वार्त्तिककारपरिभांषितश्रूयमाणैकतिङ्त्वरूपैकवाक्यत्वस्य तत्रासत्त्वादित्याशयात्। तथाचोक्तसथले तादृशैकवाक्यत्वाभावन्नियताप्रसक्तिरेवैतत्सूचनायैव * स्यादेव निघात इति *साम्भावनाद्योतकतिङ उपादानम्। तदेतदावष्करोति-*वार्त्तिककाराणामिति* *परम्* केवलम्। यथाश्रुतसूत्ररुध्द्याह *वस्तुतस्त्वति*। *हेलाराजीय इति*
बहुष्वपि तिङन्तेषु साकाङ्क्षेष्वेकवाक्यता।
तिङ्न्तेभ्यो निघातस्य प्रतिषेधस्तथाऽर्थवान्।।
इति वाक्यपदीयव्याख्याऽवसर इति शेषः। *तन्मतेऽपि भवत्येवेति* इदञ्च निरुक्तलौकिकवाक्यत्वस्यैव निघातप्रयोजकस्वमित्याशयमूलकमित्यवधेयम्।
*पुनः पुनर्जन्मेति*।। अत एव सकृत्प्रवृत्तौ, द्विः पचतीति न। `पञ्चकृत्वो भुङ्क्ते' इत्यादौ फञ्चादिशब्दाः संख्योत्पत्तिपराः। तस्या एव कृत्वसूजादिर्द्योतकः। तद्द्योत्यार्थस्य क्रियायामन्वय इति भावः। क्रियाऽन्वयिनामेव संज्ञेत्यपपादानादिमध्यम्। क्वचित्तथैव पाठः। *स्पष्टमिति*
अन्ये तु-उत्तरभाष्ये करोति=क्रियां निर्वर्त्तयतिति व्युत्पत्तिप्रदर्शनात्कारकत्वम्। अत एव ब्राह्मणस्य पुत्रं पन्थानं पृचछतीत्यादौ ब्राह्मणस्य न कारकत्वम्, पुत्रेणाऽन्यथासिद्धत्वात्। अत एव तेषां क्रियायामन्वयः। क्रियाजनकमिति ज्ञाते का सा क्रियेत्याकाङ्क्षोदयेतन, क्रियाया अपि जनकाकाङ्क्षया च तत्रैवान्वयस्यौचित्यात्। अत एव "गतिकारकोपपदात्कृत्" (पाo सूo 5-2-391) इत्यादौ कारकशब्दस्यापादानादिपरता सङ्च्छेते। `कारके' इति तु प्रथमार्थे सप्तमीत्याहुः।
*इत्युक्तत्वादिति* तथाच ब्राह्मणवदिति वृत्तौ ब्राह्मणशब्दस्य ब्राह्मणकर्त्तृकाध्ययनतुल्यमेककर्तृकमध्ययनमिति `ब्राह्मणवदधीते' इत्यतो बोधः। तत्र तस्येवेति विहितवतेर्द्रव्यगुणान्वयित्वान्मूले प्रथम इत्युक्तम्। *विधानादिति* तत्र धातुशब्दस्य धात्वर्थपरतायाः `वसन् ददर्श इत्यत्र अतीतवासकर्तृकर्त्तृकं दर्शनमित्यादिरित्य बोधादिति भावः।।
*प्रसज्जयेति* प्रतिषेधशब्दः कर्मघञन्तः, बाहुलकात्। प्रसज्जय=आपाद्य प्रतिषेधः=प्रतियोगियस्य तादृशाऽभावोऽर्थो यस्येति व्युत्पत्त्याऽभावार्थक इत्यर्थः। *यथाश्रुतेति* `न ब्राह्मणमानय' इत्यादौ नञर्थारोपस्य ब्राह्मणादावन्वयेन व्याभिचारापत्तेरिति भाव-। *निषेधप्रतीतेरिति* अत्यन्ताभावप्रतीतेरित्यर्थः। तथाच तादृशप्रतीतिरेवोक्तनञर्थस्य क्रियाऽन्वयित्वे मानमिति भावः।
तस्य प्रतियोगितया युष्मदाद्यर्थाऽन्वयित्वे तु युष्मदादौ लकारवाच्यकर्तृवाचकत्वरूपसामानाधिकरण्याभावान्मध्यमपुरुषाद्यनुपपत्तिर्युष्मदर्थप्रतियोगिकाभावस्यैकत्वेन द्विवचनाद्यनुपपत्तिश्चेति सूचयितुम्-*न त्वं पचसि* न युवां पचथः* इत्युक्तम्। एवं चैत्रप्रतियोगिकाभावकर्तृत्वोपगमे पाके तत्कर्तृकत्वबाधः। पाकानुकूलकृत्यभावार्थकत्वे त्वन्मने पूरुषव्यवस्थापकाभावेन कदाचिन्मध्यमोत्तमयोरापत्तिश्चेति बोधयितुम्-*चौत्रो न पचति* इत्युक्तम्। *अत एवेति* नञः क्रियाप्रतियोगिकाभावबोधकत्वादेवेत्यर्थः।।
*तादृशप्रयोग इति* `घटो न जायते, इत्याकारक इत्यर्थः। घटस्य विद्यमानतादशायां घटकर्तृकोत्पत्त्यनुकूलव्यापाराभावाऽहाधात्त्वन्मते तु घटाऽभावे उत्पत्त्यनुकूलव्यापारकर्तृत्वाऽभावादुक्तप्रयोगानुपपत्तिरिति भावः। उक्तरीत्या नञः क्रियाप्रतियोगिकाऽभावबोधकत्वध्रौव्ये घटो नास्तीत्यत्र घटाऽभावकर्तृकत्वस्य धात्वर्थे अबोधेऽपि तद्बोधमनादृत्य घटास्तित्वाभावबोधाभ्युपगम उचितः, वक्ष्यमाणकार्य्यकारणभावबलादित्याह *तथाच इति*। तदेवोपपादयति *नहीत्यादिना*।
ननु यत्र न क्रियावाचकसमभिवय्याहारो भूतले न घट इत्यादौ तत्र नञा कथं क्रियाप्रतियोगिकाभावो बोधनीयोऽत आह-*तथाचेति*। *अध्याहार्य्यमिति*। `अस्तिर्भवन्तीपरः' इत्यादिभाष्ये क्रियान्तराभावेऽप्यस्तिक्रियामादाय वाक्यपरिपूर्त्तिबोधनादिति भावः। *प्रकारतासम्बन्धेतेति* नञर्थाभावनिष्ठविशेष्यतानिरूपितप्रकारतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति विशेष्यतासम्बन्धेन धातुजन्योपस्थितेर्हेतुत्वस्य ` न त्वं पचसि' इत्याद्यनुरोधेन क्लृप्तवादत्राऽपि तद्बोधोपपत्तयेऽस्त्यध्याहार आवश्यक इति भावः।
ननु नञर्थाभावस्य साबदबोधे प्राधान्योपगमे तददर्थभेदात्मकाभावस्यापि प्राधन्यमेवाभ्युपेयम्, अभावत्वाविशेषात्, तथाच `असर्वस्मै' इत्यादौ सर्वनामताप्रयुक्तस्मायादिकार्यानुपपत्तिः, `अतिसर्वाय' इतिवात्। असर्वशब्दात् `सर्वभिन्न' इति बोधेन भेदांशे सर्वपदार्थस्योपसर्जनत्वात् महासंज्ञाकरणेन संज्ञोपसर्जनार्थानां सर्वाऽदिबहिर्भावात्। किञ्चानेकमन्यपदार्थे इत्यादावनेकशब्दादेकवचनानुपपत्तिरत आह-शेषमिति-
नन्वत्वं पचसीत्यादाविवात्राऽपि नञः पर्य्युदासद्योतकत्वाऽभ्युपगमाद् युष्मल्लक्ष्यार्थत्वद्भिन्ने सामानाधिकरण्याबाधान्न पुरुषव्यवस्थाऽनुपपत्तिः। सङ्ख्यायास्तत्राबाधान्न द्विवचनाऽनुपपत्तिरपीति। तादृशकार्य्यकारणभावस्यैवाप्रामाणिकतया कथं तदनुरोधोऽस्त्याध्याहारनियामकः। `घटो न जायते' इत्यादौ प्रसज्ज्यप्रतिषेधार्थकनञ्स्थले तु यथा नानुपपत्तस्तथा वक्ष्यते। तथाच भूतले घटो नेत्यादौ भूतलवृत्तिघटाभाव इति बोधे बाधकाभावोऽत आह-*शेषमिति*। तथाच यदा युष्मदर्थभिन्नकर्तृको न पाकस्तदा न त्वं पचसीति प्रयोगाऽनापत्तिः। पर्युदासद्योतकतावादिमतेऽतस्तत्र प्रसज्ज्यप्रतिषेधार्थकत्वमेवाऽङ्गीकरमीयमित्युक्तयुक्तया कार्य्यकारणभावस्यावश्यकतेत्यादिशेषपदार्थः। नैयायिकमतमपि तत्रैव व्यक्तीभविष्यति। `नञर्थनिरूपणे' इत्यस्य `विशेषणं विशेष्यो वा न्यायतस्त्ववधार्यताम्' इति कारिकाव्याख्यानावसरे इति सेषः. वक्ष्यते इति-`एतत्तदोः इति सूत्रे `अनञ्'समासग्रहणेन नञ्सामासान्तर्गतोपसर्जनीभूतार्थप्रतिपादकानामपिगणपठितानां सर्वादित्वज्ञापनान्नोक्तानुपपत्तिः। तथा अनेकमन्य' इत्यत्र विशेष्यवाचकैकवचन्नान्त `सुप्' शब्दानुरोधात्, `सेव्यतेऽनेकया' इत्यादौ प्रत्येकं योषासु सेवनान्वयबोधानुरोधादेकवचनमिति न तदननुपपत्तिरपीति वक्ष्यते इत्यर्थः। तद्योग इति-क्रियान्वय इत्यर्थः (1-16)
(1-17) *साधुत्वाऽऽख्यानलाभादिति* अयम्भावः-"यस्य च भावेन भावलक्षणम्" (पाo सूo 2-3-37) इति सूत्रेण क्रियाज्ञापकक्रियाश्रयवाचकपदात् सप्तमी विधीयते। `भावलक्षणम्' इत्युपादानाज्ज्ञापकत्वरूपसप्तम्यर्थस्य क्रियायामेवान्वयः। अत एव `गोषु दुह्यमानासु गतः' इत्यादौ दोहनक्रियाऽऽधारकालेन गमनपरिच्छेदकत्वं बुध्यते इति।
*आयातीति*। समस्तसूत्रमेव तत्रानुवर्त्तते इत्यर्थः। तथाचाऽनादरे गम्यमाने यन्निष्ठक्रियायाः क्रियान्तरज्ञापकत्वं तद्वाचकतेति तदर्थात् तद्विहितयोरपि तयोः षष्ठीसप्तम्योः क्रियायोगे एव साधुत्वं लभ्यत इत्यर्थः। ननूक्तानां क्रियान्वयाभावेऽपि शक्तत्वरूपसाधुत्वं सूलभमत आह-*तत्स्वरूपमिति* साधुत्वस्वरूपमित्यर्थः। *वक्ष्यत इति* साधुत्वनिर्वचनवसर इति शेषः।
साधुत्वं न शक्तत्वम्, अपशब्दादपि बोधोदयात्, किन्तु व्याकरणैकव्यञ्जिका पुण्यजनकतावच्छेदकजातिरिति वक्ष्यत इत्यर्थः। प्रकृते च व्याकरणेन क्रियान्वितेष्वेव तद् व्यज्यत इति तदन्यस्यासाधुतैवेति भावः।
ननु `क्रिययैववधार्य्यताम्' इति मूलेन क्रियाऽन्वये एवक्तानां साधुत्वं लभ्यते इति सत्यमेव, तथापि भाष्ये क्रियापदस्य फलेऽपि प्रयोगात्साक्षात्परम्परया वा क्रियापदार्थफलान्वयेनापि तेषां साधुत्वोपपत्तौ नोक्तरीतिर्धातोर्व्यापारवाचकत्वसाधिकेत्याशङ्कयाऽऽशयं प्रकाशयति-*अयम्भाव इति*। *प्रायशः क्रियाशब्देनेति* तथाच प्रयोगबाहुल्यं रूढिसद्भावे प्रयोजकमिति भावः।
*साङ्केतिकीति* सङ्केताभिव्यङ्गया रूढिरित्यर्थः। तत्र हेतुः-*क्वाचित्क इति*। तत्र नियामकमाह-*यौगिक इति* क्रियते=व्यापारेण निष्पद्यते इति व्युत्पत्तेरिति भावः। *अनपेक्ष्येति* प्रकृतिप्रत्ययशक्तिमननुसन्धायेत्यर्थः। *अत एवेति* संज्ञाशब्दस्यानपेक्ष्य प्रवृत्तिकत्वेन बलवत्त्वादेवेत्यर्थः।
*नवमे इति* मीमांसानवमाध्याये इत्यर्थः। तथाह-रथन्तरं हि "यद्योन्यां तदुत्तरयोर्गायति" इति श्रूयते। तत्र रथन्तरयोनेः परतो बृहद्योनेः पठितत्वाद्रथन्तरं तस्यां गेयम्? उतोत्तरग्रन्थे, "न त्वा वा मन्यते" इत्यस्य पठितत्वात् तत्र गेयमिति संशयेऽविशेषादुभयत्रैव गेयमिति पूर्वपक्षे उत्तरग्रन्थे उत्तराशब्दस्य संज्ञारूपेण प्रसिद्धः' बृहद्योनौ तु तस्याः पूर्वग्रन्थापेक्षिकोत्तरत्वबलाद्यौगिकी सेतिसंज्ञाशब्दस्यानपेक्ष्य प्रवृत्तिकत्वेन बलवत्त्वादुत्तराशब्दसङ्केतित-"न त्वा वा मन्यते" इत्याद्युक्ष्वेव तद्भयमिति नवमे निर्णितम्, तद्वत्तत्रापीति भावः। ननु भावनायां क्रियापदस्य साङ्केतिकी शाक्तिः, फले तु यौगिकः प्रयोग इत्यत्रैव न दृढतरं मानम्, येनोक्ताधिकरणावतारः सम्भाव्येत, प्रायेण तस्य तु यौगिकत्बेनाऽप्युपपत्तरत आह-*किञ्चेति*।
*तथाभूतानीति* विशेषणानीत्यर्थः। कर्त्राऽऽख्यातस्थले दृष्टत्वादिति भावः। *गुणानामिति* विशेषणानां परार्थत्वात्=अन्योपकारकत्वादत एव समत्वात्=समानधर्मत्वात्तेषां परस्परं सम्बन्धो न भवेदिति न्यायार्थः। तथाच यथा फलस्योपकारकत्तवाद् विशेष्यभावनायामन्वयस्यथा कारकाणामपि साक्षात्परम्परया वा तत्रैवान्वयः, अन्यथा कारकत्वस्यैवाऽनुपपत्तेः। नतु फले, निराकाङ्क्षत्वादिति भावः। तदनुसारिलौकिकन्यायमप्युपन्यस्यति `नहि भिक्षुक' इत्यादि।
अन्वियन्तीति-वीगतीत्यत्र प्रशिलष्टस्य रूपम्। *मीमांसका अपीति* उक्तन्यायेन कारकप्रकारकबोधं प्रत्याख्यातजन्यभावनोपस्थितेर्हेतुतायास्तैः क्लृप्तत्वादिति भावः।। कारकादीत्यादिना लडाद्यर्थकालपरिग्रहः। *गुणभूतेति* तृजाद्यर्थकर्त्तरि विशेषणीभूतेत्यर्थः। एतेन पूर्वोक्तन्यायस्य तत्रासम्भवो दर्शितः। *तस्यामेवेति* धात्वर्थभावनायामेवेत्यर्थः। *प्रपञ्चितमिति* फलांशे तु न कारकाणामन्वयः, मीमांसकमतेऽपि तस्याव्युत्पन्नत्वात्, कारकान्वितस्य कारकत्वासम्भवेन यागरूपफलस्य करमतया क्रियायामनन्वयाऽषऽऽपत्तेरिति हि तत्रोक्तम्।
*अदर्शनादिति* `सर्वं हि वाक्यं क्रिययापरिसम्प्यते' इति न्यायेन तत्रस्तिजानात्यादिक्रियामन्तरेणान्वयबोध-निराकाङ्क्षत्वयोरदर्शनादित्यर्थः। तत्र `चैत्रः सुन्दरः' इति क्रियासाकाङ्क्षवाक्यस्यासाधुतापत्तिः। फलांशान्वयलाभेनैवोपपत्तौ भावनावाचकत्वालाभश्चेत्यस्वरसः `आहुः' इत्यनेन सूच्यते (1-17)
(1-18) *उपपत्तिमिति* उक्ताष्टकस्य भावनायामन्वये साधकोपन्यासरूपां तामुक्त्वानन्वये बाधकोपन्यासरूपां तामाहेत्यर्थः। `स्वयमुपपत्तिम्' इति पाठे `स्वयम्' इत्यनेन वक्ष्यमाणयुक्तेरनाकरत्वं सूच्यते। ननु सम्बोधनान्तादीनां क्रियान्वय एव साधुत्वे, पर्वतो वह्निमान् महानसवदित्यादौ वत्यर्थसादृश्यस्य कथं पर्वतेऽन्वयः? कथं वा भूतले न घट इत्यत्र सप्तम्यर्थभूतलाधेयत्वस्य नञर्थाऽभावे इत्यत आह मूले *यदि पक्षेऽपीति* पक्षे=प्रतिज्ञावाक्यजन्यबोधविशेष्ये सन्दिग्धसाध्यके धर्मिणि पर्वतादाविति यावद् *कारकम्* अधिकरणादि। *नञादिषु* नञर्थाभावे, इतरनामार्थे चेत्यर्थः। तमेव विशदयति सारे-*पर्वतो वह्निमानित्यादिना* *आदिपदादिति* नञादिष्वित्यादिपदादित्यर्थः। तदेव विवृणोति *एवमादिष्विति* भूतले घट इत्यादावित्यर्थः।
*अन्वयश्चेति* महानससदृशः पर्वतः, भूतलवृत्तित्वाभावान् घटः, भूतलवृत्तिर्घटाभाव इति वा बोधशेचत्यर्थः। तेन तुल्यमित्यनुशासनेन क्रियागतसादृश्यबोधेन एव वतेः, `कारके' इत्यधिकृत्य सप्तम्यधिकरणे चेत्यनुशासनेन क्रियान्वय एव सप्तम्याश्च साधुत्वबोधनादुक्तम् *यदीति*। *चतुर्थ्या इति* पुष्पेभ्य इत्यत्र "स्पृहेरीप्सितः" (पाo सूo 1-4-36) इति विहितचतुर्थ्याः स्पृहयत्युपात्तर्थे एव स्वार्थान्वयबोधकत्वम्, न पदान्तरोपात्ते, अध्याहृते वा, तदर्थेऽनुशासनविरोधादिति स्वसिद्धान्तक्त्यज्यतामित्यर्थः।
*अर्द्धजरतीयमिति* इदमर्थे गहादित्वाच्छः। क्वचिदनुशासनानुरोधः क्वचिन्नेत्यर्द्धजरतासदृशमित्यर्थः। तथाच स्वीयसिद्धान्तप्रच्युतिरूपवाधकभियाऽत्रापि पर्वतो वह्निमान् भवितुमर्हतीत्येव प्रतिज्ञाऽङ्गीकरणीया, नतु क्रियावाचकपदशून्या सेति नोक्तनियमे व्यभिचारः। `भूतले न घटः' इत्यादौ यद् वक्तव्यं तत्तूक्तम्। वक्ष्यते चा।टधिकमिति भावः (1-18)
(1-19) कृतपूर्वोत्यत्र भावविहितक्तेन सिद्धाऽवसथापन्नो भाव उच्यते। तद्विशेषणं च प्रकृत्यर्थक्रियेत्याशयेन मूलमवतारयति-*एवमित्यादिना* कर्त्रादावित्यादिना भावपरिग्रहः, इन्यादिनामित्यादिना क्त्वा-तुमुन्नादीनाम्।
*सम्बध्यते इति* कारकप3कारकबोधं प्रति विशेष्यतया धातुजन्यभावनोपस्थितेर्हेतुतायाः पूर्वमुक्तत्वादिति भावः।
*कृतपूर्व्वो कटमिति* नन्वत्र कर्मणि क्ते कटशब्दादनभिहिताधिकारीयद्वितीयाऽनुपपत्तिः, भावे क्तस्तु सकर्मकाद्नगनकुसुमायमान एव, तयोरेवेति नियमात्। अत एव नपुंसके भावेऽपि न सः। तथाच कथमुक्तदार्ष्टान्तिकवाक्योपपत्तिरिति चेदत्राहुः-कर्मणो विशेषरूपेण प्रागविवक्षया अकर्मकत्वाद्भावे प्रत्ये तदन्तस्य पूर्वशब्देन समासे `सपूर्वाच्च' इतीनिः, ईदृशविवक्षाऽविवक्षे च तद्भाष्यप्रामाण्यात् कृतपूर्वोत्यादिविषेये एव, नान्यविषये इति बोध्यम्।
*इन्यादिभिरिति* तदर्थकर्त्रादिभिरित्यर्थः। वस्तुतस्तु दार्ष्टन्तिके स्ववाचकप्रकृतिकप्रत्ययार्थेऽन्यस्मिन् वा गुणीभूता क्रिया कटादिकर्मादिभिरिति व्याख्येयम्। नातः कृतपूर्व्वोति प्रयोगघटकेन्यर्थकर्तुर्विशेष्यत्वेन प्रकृतार्थासङ्गतिः, पूर्वकालिकाक्रियाकर्त्तेति ततो बोधेन तादृशक्रियाया इन्यर्थकर्त्तरि गुणत्वात्। नाप्ययं भावाधिकारीयः, स्वातन्त्र्येणाप्रयोगात्। नच `पूर्वं कृतमनेन' इति विग्रहात् धात्वर्थक्रियाविशेष्यक एव ततो बोधः, तथा सति तस्य अविग्रहत्वाभावेन मूलविरोधप्रसङ्गत्। धात्वर्थानुवादकप्रत्ययान्ते प्रत्ययार्थाविशेषणीभूतधात्वर्थक्रियाया एव प्रतीत्या तद्विहितप्रत्ययार्थकर्तुर्विशेष्यताया एवौचित्यात्, अन्यथा `पचतिकल्पम्' इतिवत् नुपंशकत्वापत्तेश्च। अत एव भोक्तुं गतमेतेनेत्यादिप्रयोगोपपत्तिः, भावानधिकारीयभावविहितप्रत्ययस्य धात्वर्थानुवादकत्वेन तत् प्रकृत्यर्थक्रियायाः साध्यमात्रस्वभावत्वात्, अगुणत्वाच्च। एवम् `अव्ययकृतो भावे' इत्युक्ते `पाकः' इत्यादिप्रयोगस्थघञर्थात्तुमुन्नाद्यर्थे वैलक्षण्यानुभवात् तुमुनादीनामपि साध्यमात्रस्वभावभावार्थकत्वमित्यन्यत्र विस्तरः।
*वृत्तिमात्रे इति* मात्रपदं कृत्स्नार्थकम्। *वक्ष्यमाणत्वादिति* `समासे खलु भिन्नैव' इत्यनेन इत्यादिः, तत्र समासपदस्य वृत्तिसामान्यपरत्वेन व्याख्यास्यमानत्वादिति भावः। *कथमिति* गत इत्यादौ कृद्वृत्तिसत्त्वेन गमनकर्तृरूपगतपदार्थैकदेशभावनायां कर्म्मान्वयासमभवाद् दृष्टान्तासिद्धिरिति भावः। नित्यसापेक्षस्थले हि पक्षद्वयम्-चैत्रस्य गुरुकुलमित्यत्र विशेषणस्य चैत्रादेर्गुर्वादिद्वारकसम्बन्धेन कुलादिरूपविशेष्य एवान्वय इति तत्रैकः पक्षः। स चोक्तो हरिणा-
समुदायेन सम्बन्धो येषां गुरुकुलादिना।
संस्पृश्यावयवाँस्ते तु युज्यन्ते तद्वता सह।। इति।
उक्तस्थले समुदायनिरूपितसम्बन्धे षष्ठी अवयवद्वारकश्च समुदायेन सम्बन्ध इति सामर्थाद अवयवमपीति विशेषणं स्पृशतीति तदर्थः। अपरस्तु गुर्वादिनिरूपितसम्बन्धे एव देवदत्तस्येति षष्ठी तत्रैव तदन्वयः। उक्तञच-
सग्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते।
वाक्यवत् सा व्यपेक्षा हि वृत्तावपि न हीयते।। इति।।
नित्यमिति-साऽपेक्षपदाऽर्थान्वयि, हि=यतो देवदत्तस्य गुरोः कुलमित्यादिव्यस्ते या व्यपेक्षा सा समासेऽपि न हीयत इति कारिकार्थः। पदार्थः पदार्थेनाऽन्वेतीति व्युत्पत्तिस्तु नित्यसापेक्षातिरिक्तविषेयेति तद्भावः। तत्रान्तिमं पक्षमभिप्रेत्य समाधत्ते-*नित्यसापेक्षेष्विति*
तथाच गुरूत्वादेर्नियतान्यनिरूप्यत्वेन तदुपस्थितौ नियमेन जायमानाया निरूपकाकाङ्क्षाया निवृत्तये देवदत्तादिपदार्थान्वयवत् प्रकृतेऽपि किं साधकं गमनरूपसाध्यमिति साधनाकाङ्क्षानिवृत्तये ग्रामादिरूपकर्मकारकान्वयस्याऽऽश्यकत्वान्नदृष्टान्तासङ्गतिरिति भावः। आदिना `शरैः शातितपत्रः' इत्यादेः सङ्ग्रहः। अवतरणिकास्थादिपदग्राह्यं स्पष्टयति-*एवं भोक्तुं पाक इत्यादाविति* अत्राऽप्यदिपदग्राह्यम्-*भुक्त्वा पाक इति* घञर्थभावगुणभूतायां पच्यर्थक्रियायां तुमुन्नाद्यन्तार्थभोजनादिक्रियान्वय िति बोध्यमित्यर्थः। घञाद्योन्तप्रयोगस्थले प्रकृतिप्रत्ययाभ्यामसत्त्वासत्त्वभावा विशेष्यविशेषणभावापन्ना क्रियाऽभिधीयते। तत्र प्रत्ययार्थत्वेन घञाद्यर्थक्रियायाः प्राधान्यम्। अत एव प्रकृत्यर्थसाध्यमात्रस्वभावां तामादाय कारकान्वयोपपत्तिः, उक्तधर्माक्रान्तक्रियोपपदत्वेन ण्वुलः सम्भवेऽपि `कारको गतः' इत्यादीनामनभिधानमेवेति भावः।
नव्यास्तु-तुमुन्विधायके क्रियार्थायां क्रियायामित्युक्त्या प्रत्त्यासत्त्या क्रिययोरेकजातीयत्वलाभेन स्वावाचकप्रकृतिकप्रत्ययार्थं प्रत्यगुणीभूतायाः साध्यमात्रस्वभावत्वाभावात्, प्रकृतिप्रत्ययार्थयोस्तयोर्विशेष्यविशेषणभावाच्च। ध्वनितं चेदमुपपदमतिङ्ति सूत्रभाष्ये। यत्र तु क्रियामात्रार्थकस्य ग्रहणं तत्र क्रियामात्रविषणादपीति गतपाकादियोगेऽपि सुक्त्वादीत्याहुः।
तेषामयमाशयः-घञाद्यन्तस्थले प्रकृतिप्रत्ययाभ्यां विषेष्यविशेषणभावापन्नसत्त्वासत्त्वस्वभावक्रियाद्वयमुपस्थाप्यते। तत्र प्रत्ययार्थक्रियायाः प्राधान्यम्। एवञ्च धातुपस्थाप्यक्रियायाः साध्यमात्रस्वभावत्वेऽपि तस्या घञर्थ प्रति गुणत्वान्न तत्र तुमुन्नादीति।
तत्रेदं चिन्त्यम्, भावानधिकारीयधात्वर्थानुपादकप्रत्ययान्तयोगे तुमुनो दुर्वारत्वात्। किञ्च सुज्विधायकेऽप्युक्तविशेषणविशिष्टायास्तस्या ग्रहणमावश्यकम्। तत्तद्विशेषणीभूतक्रियायाः साध्यमात्रस्वभावत्वेन तज्जन्मणने द्वौ पाकावित्यन्न सुजापत्तेरशक्यवारणत्वात्। नच तत्रष्टापत्तिः, क्रियापदोपादानवैयर्थ्यादभ्यावृत्तिपदसामर्थ्यैनैव क्रियाया लाभादिवक्ष्यमाणत्वात्।
किञ्च `साध्यत्वेन क्रिया तत्र' इति हरिपद्यव्याख्याऽवसरे, एकस्यैव सम्बन्धिभेदादाचार्यत्वमातुलत्वादिवदेकस्या एव क्रियायाः प्रकृतिप्रत्ययरूपवाचकसम्बन्धिभेदादुपस्थितिरिति स्वोक्तिविरोधः क्रियाद्वयाबोधाङ्गीकार इति।
*अतिप्रसङ्गमिति* स्वमते गुणीभूतक्रियामादाय कृत्वोऽर्थप्रत्ययापत्तिरूपं तमित्यर्थः-*क्रिययोः पूर्वकाल इति* क्रिययोर्मध्ये पूर्वकालवृत्तिक्रियार्थकाद् धातोरित्यर्थः। *तुमन्नादयः* इत्यादिपदात् क्त्वादिपरिग्रहः। *विधियमाना इति* `अव्यायकृतो भावे' इत्युक्वेर्भाव इति शेषः। पूर्वकालोद्देश्यत्वादीनां संसर्गविधया भानस्य वक्ष्यमाणत्वात्। *द्विर्वचनम्* इत्यादिपदात् द्विःप्रयोगद्विरागमनादिपरिग्रहः, तत्र ल्युड्घञर्थगुणीभूतक्रियामादाय सुचोदर्शनादिति भावः।
*अतिप्रसङ्गस्त्विति* `सकृत्पाकः' इत्यादिप्रयोगापत्तिरूपस्त्वित्यर्थः। *अनभिधानादिति* शिष्टाप्रयुक्तत्वादित्यर्थः। *तस्या एवेति* पूर्वापरिभूतावयवकसमुदायरूपक्रियाया एवत्यर्थः। एवकारेण द्रव्यगुमव्यवच्छदेः, तयोः सकृदेवोत्पत्तेः। क्रियायास्तु नैकस्या अपि निवृत्तिभेदाया धातुवाच्यत्वोपगमेन तज्जन्मनि पौनःपुन्यसम्भवादिति भावः।
*सामर्थ्यादिति* अभ्यावृत्तिपदोपादानसामर्थ्यादित्यर्थः। सामर्थ्यञ्च-तदाक्षेपार्थकत्वम्।
*साध्यमात्रेति* यद्यपि धातूपस्थाप्यायां तस्यां तत्त्वमक्षतम्, प्रागुक्तयुक्तेस्तथापि साध्यमात्रस्वभावपदस्योक्तप्रत्ययार्थगुणीभूतसाध्यस्वभावामात्रपरत्वान्न दोषः। *तादृशीति* *घञुपस्थाप्योक्तरूपेत्यर्थः। * व्युत्पत्त्येति * विवरणपरभाष्यकारप्रयोगादित्यर्थः *ज्ञापकमिति* तादृशसूत्रकृत्प्रयोगरूपमित्यर्थः। `हतशायिकाः शय्यन्ते' इतिवदिति भावः। *आहुरिति* सारग्राहिण इति शेषः, आहुरिति-आहुरित्यस्वरसः सूचितः। तद्वीजन्तु क्रयापदस्योक्तार्थपरत्वेऽपि उक्तातिप्रसङ्गस्यापरिहारेण तस्य स्पष्टप्रतिपत्त्यर्थतैवोचिता। अनभिधानाश्रयणेनैवोकातपत्तिवारणे द्विर्वचनमित्यादिप्रयोगाणां लोकसिद्धानां ज्ञापकानुसरणेनोपपत्तिश्चानुचितेति (1-20)
(1-21) *सिद्धान्त इति* वैयाकरणसिद्धान्ते। `इन्द्रियाणां स्वविषयेषु' इत्यादिना प्रतिपादिता बोधकतारूपा शक्तिराख्यातेऽफ्यवाधितैव, ततो भावनाबोधस्य जायमानत्वादित्यर्थः। *साधुत्वपरेति*। तथाच हरिः-
साधुत्वज्ञानविष्या सैषा व्याकरणस्मृतिः। इति।
*तत्र* साधुशब्दज्ञाने। *अवच्छेदकतया* साधुशब्दज्ञाननिष्ठबोधजनकताऽवच्छेदकतयेत्यर्थः। *अतिरिक्तशिक्तिवादेऽपीति* साधुत्वं न शक्तत्वम्, आसाधोरपि बोधात्। किन्तु बोदकत्वमिति वक्ष्यमाणासिद्धिन्तिमतेऽपीत्यर्थः।
*आसाधुता भावनायां स्यादेवेति* आख्याताच्छक्तिभ्रमेण भावनाबोधेऽपि तत्र तस्यासाधुता स्यादेवेत्यर्थः। तथाच भाष्यकृता-"सिद्धे शब्दार्थसम्बन्धे" (माo भाo आo 1) इत्यत्र "समानायामर्थवगतौ साधुभिर्भाषितव्यं नासाधुभिरिति गम्या गम्येतिवन्नियम्ः क्रियते इति पस्पशायामुक्तम्। एवञ्च यादृशविशेषणान्वितयादृशविशेष्यबोधे यादृशानुपूर्व्वयाः सूत्रकृदाद्यन्यतमसम्मतत्वं तादृशबोधे तादृशानुपूर्व्वोकः शब्दः साधुर्नान्यत्र। अत एवास्वशब्दोऽश्वे न साधुः किन्तु निःस्वे। अश्वशब्दो निस्वे न साधुः, किन्तु तुरग इति सङ्गच्छते। नन्वस्तु असाधुतेत्यत आह*एवञ्चेति* याज्ञे कर्मणीत्यनेन "नानृतं वदेनानापभ्रंशितं वा" इत्यादिश्रुतेः क्रतुप्रकरणे पाठादितरत्र तत्प्रयोगे प्रत्यवायाभावं सूचयति। *स्यादेवेति* भावनाबोधकत्वेनाख्यातस्य सूत्रकारादिभिरननुशिष्टत्वात् कर्त्तृबोधकत्वेनैव तदनुशासनादिति भावः।
मीमांसकः शङ्कते-*नन्विति*। *त्वन्मते* वैयाकरणमते। *नानृतमिति* दर्शपूर्णमासप्रकरणे हि `नानृतं वदेत्' इति श्रूयते। तत्र किमयं प्रतिषेधः पूरुषार्थः। आहोस्वित् क्रत्वर्थ इति संश्रये, वदेदित्याख्यातात् कर्त्तृप्रतीत्या कर्त्तृवाचकत्वनिर्णयः, लः कर्मणीत्यनुशासनात्तस्य कर्त्तृपरत्वलाभाच्च। प्रत्ययार्थत्वेन वदनं प्रति प्राधान्याद् वदनं तावत् पूरुषार्थोऽतः प्रतिषेधोऽपि पुरुषार्थ-। निषेधप्रतियोगित्वेन वदनक्रियामनुवदता वदेदिति शब्देन पूरुषार्थतयैव बोधनात् तादृशस्यैवानृतवदनस्यानिष्टसाधनताया विपरीतस्वभावबोधकनञा बोधनादन्यादृशानृतवदनस्य चानुपस्थितत्वात्। अत एवानारभ्याधीतस्मार्त्तवदननिषेधस्याप्येतदेव मूलं भवतीति लाघवाम्। अन्यथा तन्मूलभूतः पूरुषार्थोऽन्यो निषेधः कलप्य इति गौरवं प्रसज्येतेति पूर्वपक्षे, `अनन्यलभ्य एव शब्दार्थः' इति न्यायाद्भावनैवाख्यप्तवाच्या, कर्त्ता त्वाख्यातवाच्यभावनाया अविनाभावादाक्षेपलभ्य एवेति न तत्र तस्य शक्तिः। लःकर्म्मणीत्यादिस्मृतिरपि द्वयेकयोरित्यनेनैकवाक्यतया तत्सङ्ख्यावाचित्वपरैव। `पचति देवदत्तः' इत्यादौ च `गौः शुक्लः' इतिवत् सामानाधिकरण्यं लक्षणयैवेति नाख्यातस्य कर्त्तृवाचित्वमिति कर्त्तुः श्रुतेरनुपस्तितत्वान्न पूरुषार्थता तस्य, किन्तु प्रकरणात् क्रत्वर्थतैवेति निर्णितं कर्त्रधिकरणे। तत्स्थितं पूर्वपक्षमनुवदति-*आख्यातेनेति* तिङेत्यर्थः। *तच्चेति* प्रकरमञ्चेर्यर्थः। *श्रुतिविरोध इति* निरपेक्षस्वरूपश्रुतिप्रातिकूल्य इत्यर्थः।
तथाहि-श्रुत्यादयः षडिह विनियोजकाः। त6 विरुद्धयोरेकत्रोपनिपाते समुच्चयदौर्लभ्यादेकेनापरस्य बोधो वक्तव्यः। स च बलवता दुर्वलस्येति कस्य दौर्बल्यमित्याकाङ्क्षायां पारदौर्बल्यप्रतिपादकम्-`श्रुतिलिङ्गवाक्यप्रकरमस्थानसमाख्यानां समवाये पारदौर्बल्यम्, अर्थविप्रकर्षात्' इति सूत्रं प्रणिनाय महर्षिर्जौमिनिः। श्रुत्यादीनां पठितानां समावाये एकत्रोपनिपाते पारदौर्बल्यमिति। परमेव पारम्=उत्तरपठितम्। तथाचैषां मध्ये यदपेक्षया यत्परं तद्दुर्बलमित्य्रथः। तत्र हेतुमाह-अर्थविप्रकर्षादिति-अर्तस्य=विनियोजकस्य लिङगादितो विप्रकर्षात्=उत्तरवर्त्तित्वात्, लिङ्गादेर्विलम्बेन पूर्वापेक्षया विनियोजकत्वावगतेरिति यावत् (1-21)
(1-22)
(1) तत्र श्रुत्यादीनामुदाहरणानि-निरपेक्षो रवः श्रुतिः। इतरप्रामाण्यानधीनप्रामण्यकत्वञ्च निरपेक्षत्वम्-यथा `व्रीहीनवहन्ति' इति। अत्र क्रियाजन्यफलभागित्वं कर्मत्वं बोधयन्ती द्वीतीया श्रुतिरितरनिरपेक्षैव व्रीहीणामवघातशेषित्वं प्रतिपादयति (1)
(2) अर्थविशेषप्रकाशनसामर्थ्यं लिङ्गम्। यथा `बर्हिर्देवसदनं दामि' इति। अत्र लवनार्थप्रकाशकतया लवने अस्य विनियोगः (2)
(3) परस्पराकाङ्क्षावशादेकस्मिन्नर्थे पर्य्यवसन्नानि पदानि वाक्यम्। यथा `देवस्य त्वा सवितुः प्रसवेऽशिवनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् `अग्नये त्वा जुष्टं निर्वपामि' इति। अत्र मन्त्रलिङ्गेन निर्वापे प्रयुज्यमानस्य समवेतार्थभागस्यैकवाक्यताबलेन देवस्य त्वेत्यादिभागस्यापि तत्रैव विनियोगः (3)
(4) लब्धवाक्यभावानां पदानां कार्य्यान्तरपेक्षावशाद्वाक्यान्तरेण सम्बन्ध आकाङ्क्षापर्यवसन्नं प्रकरणम्। यथा-`समिधो यजति' इति। अस्य हि दर्शपूर्णमासे कथम्भावाकाङ्क्षायाः प्रकरणपाठवशाच्छेषत्वम् (4)
(5) स्थानाम्=क्रमः। स चानेकस्याम्नातस्य सन्निधिविशेशाम्नानम्। यथा-दधिरसीत्यत्राग्नेयो पांशवग्नीषोमीययागाः क्रमेण पठितम्। तत्राग्नेयाग्नीषोमयोर्द्वयोर्लिङ्गेनैव विनियोगसिद्धिः। दधिरसित्यत्र तु न लिङ्गादिविनियोजकम् किन्तु यस्मिन् प्रदेशे ब्राह्मण उपाशुयागविधानं तस्मिन् प्रदेशे मन्त्रेऽप्यस्य पाठ इति क्रमादुपांशुयागानुमन्त्रेण तस्य विनियोगः (5)
(6) समाख्या=योगबलम्। यता `हौत्रमौद्गात्रम्' इत्यादि। तत्र हि-होतुरिदं हौत्रमित्यादियोगबलेन हौत्रादिसमाख्यातानि कर्माणि होत्रादिभिरनुष्ठेयानीति (6)
विरोधोदाहरणादि यथा-श्रुतिलङ्गयोर्विरोधे श्रुतिर्बलीयसी, लिङ्गं तु दर्बलम्, अर्थविप्रकर्षात्। यथा, कदाचनस्तरीरसीत्यादिकाया ॠचो विनियोजिका श्रुतीः `ऐन्द्रया गार्हपत्यमुपतिष्ठते' इति इन्द्रप्रकाशनसामर्थ्याल्लिङ्गादिन्द्रोपस्थापने विनियोगोऽस्याः प्रतिभाति, अन्प्रकाशकस्यान्यत्र विनियोगायोगात्। श्रुत्या गार्हपत्योपस्थापने स प्रतीयते। गार्हपत्यमिति द्वितीया हि कर्मविभक्तितया कामपि क्रियामपेक्ष्य प्रकृत्यर्थस्य शेषित्वं बोधयति, क्रियाजन्येष्टफलभागित्वस्य तदर्थत्वात्। एवमैन्द्रयेति तृतीयाप्रकृत्यर्थस्य शेषत्वम्, क्रियां प्रति साधकतमत्वरूपकरणत्वस्य तदर्थत्वात्, तदनयोर्विरोधः।
तत्रायं पूर्वपक्षः-सामार्थ्यज्ञानमपेक्ष्य श्रुतिर्विनियोजिका। नह्यसमर्थं श्रुतिसहस्त्रमपि विनोयोक्तुमलम्, अतो लिङ्गस्य बलवत्त्वादिन्द्रोपस्थापनेऽस्या विनियोगः। तदनुरोधितया द्वितीया सप्तम्यर्थतया व्याख्येया। गार्हपत्यसमीपे `इन्द्रोऽनया उपस्थातव्यः' पर्यवस्यतीति।
सिद्धान्तस्तु-श्रुतिः स्वरूपसत्सामर्थ्यमपेक्षते, नतु तज्ज्ञानमपि, येन लिङ्गं बलवद्भवेत्। तस्य च पूर्वं सत एव विनियोगोऽन्यथानुपपत्त्या ज्ञानं पश्चादुपजायते। लिङ्गन्तु विनियोजने श्रुतिमपेक्षते। नह्यनयेन्द्र उपस्थातव्य इति लिङ्गात् स्वारसतः प्रोतीयते, किन्त्विन्द्र एतादृ-गित्येतावन्मात्रम्। तथाच प्रकरणाम्नसामर्थ्रयादिन्द्रप्रकाशनसमर्थाया ॠचोऽन्यथा नुपपत्त्या लिङ्गोनानयेन्द्र उपस्थातव्य इति श्रुतिः कल्पनीया, यया विनियोगो भवेत्। ततो यावल्लिङ्गंश्रुतिकल्पनायऐ प्रकान्तव्यापारं तावत् प्रत्यक्षश्रुत्या विनियोगः सिद्ध यइति प्रकरणे निराकाङ्क्षे कयाऽनुपपत्त्या श्रतिःकल्पनीया। तस्माच्छ्रुतेर्बलवत्त्वात्तदनुगुणतया सामर्थ्ये नीयमाने इन्द्रपदं परमैस्वर्याश्रयवाचकतया गार्हपत्यतात्पर्य्यकमित्यवधार्य्यत इति। श्रुतिप्रकरणयोर्विरोधोदाहरणन्तु यथा प्रतिष्ठाकामदर्शपूर्णमासयागो एकविंशतिमनुब्रूयात् प्रतिष्ठाकामस्येति श्रुत्या एकविंशति सामधेन्यनुवचनानां तदङ्गत्वावगतौ नैराकाङ्क्षान्पञ्चदशसामधेन्यनुपचनाङ्गे त्वावगमकप्रकरमस्य बाधः।
विरोधोदाहरणान्तराणि त्वन्यतोऽवधार्य्याणि, गौरवभान्नेह प्रपञ्चितानि। तदयं निर्गलितोऽर्थः-श्रुतिर्निरपेक्षत्वात् सर्वतो बलवती, लिङ्गं तु विनियोगे एकान्तरितत्वाद् द्वयन्तरितवाक्याद् बलवत्। एवं वाक्यादवप्यूह्यम्। समाख्या तु पञ्चान्तरितत्वात्सर्वतो दुर्बलेति प्रकृते आकङ्क्षापर्यवसन्नप्रकरणेन वाक्यं कल्पनीयम्। तेन च लिङ्गम्, लिङ्गेन श्रुतिस्तयाऽनृतवदननिषेधस्य क्रतौ विनियोगः। यावच्च प्रकरणं वाक्यकल्पनायै प्रकान्तव्यापारं तावत्प्रत्यक्षया कर्त्रर्थैकाख्यातश्रुत्या तस्य पूरुषार्थत्वेन विनियोगे सिद्धे क्लृप्तमपि वाक्याद्यत्किञ्चित्करमिति श्रुतिविरोधे बाध्यत इत्यस्यार्थः, लिङ्गादीनामुक्तप्रकारेण श्रुत्यपेक्षया दुर्बलत्वादिति भावः।
समाधत्ते-*तिङर्थस्तु विशेषणमिति* तथाचाख्यातश्रुत्या कर्त्तृरुपस्थापनेऽपि न भावनावत् तस्य प्राधान्येन भानम्, येन निषेधस्य पुरुषार्थता शङ्कयेत, किन्तु विशेषणतयैव, तथोपस्थितस्य च विशेशणान्तरनैराकाङ्क्षयेण कर्त्तुः श्रौतनञर्थसम्बन्धाभावान्नात्र श्रुत्या प्रकरणबाध इत्याशायं विशदयति-*स्वाङ्गत्वेनेति* स्वविशेषणतयेत्यर्थः।
नन्वेवं निषेधस्य क्वापि श्रौतपुरुषार्थता न स्यात्, `न कलञ्जं भक्षयेत्' इत्यत्राप्युक्तरीत्या कर्त्तरि नञर्थासम्बन्धेन श्रौतत्वात्। यदि च कर्त्तुरप्राधान्येऽपि कर्त्तृवृत्तिभावनाया प्राधान्यात्तस्या नञर्थान्वये तद्द्वाराऽऽख्यातार्थकर्त्तृरप्यन्वयान्न तस्य श्रौतपुरुषार्थत्वानुपपत्तिरिति विभाव्यते, तदा प्रकृते।ृपि तुल्यमत आह-*अस्तु वेति*।
*अनुष्ठान इति* नच नानृतं वदेदिति निषेधस्य क्रतुयुक्तपूरुषधर्मत्वे यजमानस्य प्राधान्यात्प्रधानीभूतकर्त्रेवानृतवदनं वर्ज्यं स्यात् क्रत्वर्थत्वे च कर्त्रनपेक्षत्वेन यज्ञप्रवृत्तेन यजमानेनर्त्विग्भिश्च वर्जनं सिध्यतीति विशेषात् कथमेतदिति वाच्यम्, श्रुतिप्रकरणाभ्यां क्रतुसम्बन्धपूरुषकर्तृकानृतवदनाभाव इति बोधेन क्रतुकर्त्तृकेतिबोधे मानाभाव इति क्रतुयुक्तेति वदतोऽभिप्रेतत्वादिति।
तत्र दृष्टान्तमाह-*जञ्जभ्यमान इत्यादि* दर्शपूर्णमासप्रकरण एवैतन्मन्त्रवजनं श्रूयते-'जञ्जभ्यमानोऽनुब्रूयान्मयि दक्षक्रतू" इति। तत्र किमेतम्न्त्रवचनं शुद्धपुरुषधर्मः, उत क्रतुयुक्तपुरुषसंस्कारकतया क्रत्वङ्गमिति सन्देहे, वाक्येन तावज्जञ्जभ्यमानपुरुषधर्मतयैवायं प्रतीयते, कृत्प्रत्ययस्य शानचः कर्तृवाचकत्वात्। प्रकरणेन तु क्रत्वङ्गतया, प्रकरणं च वाक्यापेक्षया दुर्बलमिति पुरुषधर्मतैव युक्ता। सत्यां च फलाकाङ्क्षायाम् "प्राणापानवेवात्मानं धत्ते" इति वाक्यशेषे श्रुतस्य फलस्य रात्रिसत्रन्यानेन कल्पनादिति पूर्वपक्षे सिद्धान्तः-वाक्य-प्रकरमयोर्विरोधे बाध्यबाधकभावो नत्वत्रास्ति विरोधः। जञ्जभ्यमानपदस्य कर्त्तृवाचकतया तादृशपूरुषस्य क्रतावपि सत्त्वात तत्सँस्कारमुखेन क्रत्वङ्गतासम्भवात्। एवञ्चार्थवादोपस्थितफलकल्पनागौरवमपि नेति। तथाच बलाबलचिन्तायामेव विरोध एवौचित्येन जञ्जभ्यमानवाक्यनुवचनस्य वाक्यप्रकरणाभ्यां क्रतुयुक्तपुरुषधर्मतावत् प्रकृतेऽप्यनृतवदननिषेधस्य श्रुतिप्रकरणाभ्यां क्रतुसम्बन्धपुरुधर्मतैवोचिता। उक्तञ्च भट्टपादैः-
स्त्र्युपायमासभक्षादिपुरुषार्थमपि श्रितः।
प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयात् ।। इति भावः।
- प्रपञ्चितमिति* प्रपञ्चस्तु उक्तः।
ननु साधुत्वज्ञानं विनाऽपि शाब्दबोधोदयेन व्यभिचारात् कथमेतत्, साधुत्वस्य शक्तत्वरूपताया निराकरिष्यमाणत्वाच्चात आह-*वस्तुत इति* तद्व्यतिरेकनिर्णय इति* आसाधुत्वनिश्चय इत्यर्थः। तन्निश्चयेऽप्यपभ्रंशाद् बोधदर्शनात्। तथाचाऽऽख्याताद्भावनाबोधे बाधकाभाव इति भावःल (1-21)
इति वैयाकरणभूषणसारदर्पणे धात्वाख्यातार्थनिरूपणम् ।। 1 ।।
*****
।। अथ लकारार्थनिर्णयः ।।
(1-22) लकारसामान्यार्थे निरूपिते तद्विषयकजिज्ञासानिवृत्ताववश्यकक्तव्यत्वज्ञानाद्विशेषर्थनिरूपणेऽवसरस्य सङ्गतित्वं सूचयन्नाह-*प्रत्येकमिति*। दशलकाराणामिति* लट्ृलिट् इत्यादिक्रमेण पठितानामित्यर्थः। आदेशानां वाचकत्वमिति पक्षेऽपि तिङाद्यादेशनिष्ठां बोधकतारूपां लादिष्वारोप्य तद्विधानात् तदर्थकत्वं तेषामक्षतमिति भावः।
*प्रारव्धापरिसमाप्तत्वमिति* विनष्टाद्यवयवप्रागभावकत्वे सत्यनुत्पन्नध्वंसान्त्यावयवकत्वमित्यर्थः। भाविभूतक्रिययोरतिप्रसङ्गवारणाय क्रमेण पद(दल)दूयम्। लक्ष्ये लक्षणं ग्राहयति-*पचतीति*। *अधिश्रयणादीति* साध्यत्वप्रकारकप्रतीतिविषयपूर्वापरीभूतावयवसमुदायस्यैव क्रियात्वादिति भावः।
*तदीति* उक्तवर्त्तमानत्वमित्यर्थः। यद्यपि भाव-काल-कारक-संख्याश्चत्वारोऽर्था आख्यातस्येति निरुक्तभाष्यात् क्रियातिरिक्तकालस्यैव वर्त्तमानत्वादिकं प्रतीयते, तथापि निरुपाधिकस्य तसय वर्त्तमानत्वादिना प्रत्येतुमशक्यत्वादुपाधिभूतक्रियामादायैव तत्र तत्त्वस्य वक्कव्यतयाऽऽवश्यकत्वात् क्रियायामेव तत्त्वमुक्तमित्यवधेयम्।
वस्तुतस्यु दण्डमुहूर्त्तद्यात्मकः खण्डकाल एव वर्त्तमानत्वादिना लडादिवाच्यः। तद्गतं वर्त्तमानत्वं च तत्तच्छब्दप्रबोगाधिकरण्त्वमेव। `तदादि'न्यायेन शब्दप्रयोगाधिकरमत्वेनानुगमाच्च न शक्त्यानन्त्यम्।
यद्येवमपि तत्तत्कालत्वेन तत्तत्कबोधस्यानुभवसिद्धानुपपत्तिरिति विभाव्यते तदास्तु शब्दप्रयोगाधिकरमवृत्तिकालत्वव्याप्यधर्मत्वेनोपक्षिततत्तत्कालत्वावच्छिन्न एव लटः शक्तिः। क्रियारम्भात् पूर्व्वं समाप्त्युत्तरं चाधीते पचतीत्यादिप्रयोगापत्तिस्तु स्ववृत्तिप्रागभावाप्रतियोगिवृत्तित्व-स्ववृत्तिध्वंसाप्रतियोगिप्रकृतक्रियानुयोगिकत्वाभ्यां विशेषितेन आधेयतासम्बन्धेनात्वयनियमोपगमेन वारणीया।
यत्र तु अखण्डक्रियैव धात्वर्थस्तत्र सुद्धाधेयतासम्बन्धेनैव तदन्वयान्नाऽऽस्तीत्याद दोष इति। *भूतभविष्यद्भिन्नत्वं वा *इत्यत्र वाकारोऽनास्थायाम्, पूर्वलक्षणापेक्षयाऽस्य गुरुत्वाद्भविष्यत्त्वस्यापि वर्त्तमानत्वघटितत्वेन तद्गहे, भविष्यत्वग्रहः, भविष्यत्वग्रहे च तदवच्चिन्नभिन्नत्वरूपवर्त्त्मानत्वग्रह इत्यन्योऽन्याश्रयाच्च। एवं भूतत्वमादायाप्यन्योन्याश्रयो द्रष्टव्यः।
ननु यत्र सत्ताश्रयत्वादीनां धात्वर्थत्वं तत्रागतिः, तेषामखण्डत्वेनावयवघटितोक्तलक्षणवर्त्तमानत्वासम्भवादत आह-*आत्माऽस्तीति*। *अनित्यत्वादिति* सावयवत्वेन प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वादित्यर्थः। *तद्विशिष्टस्य* अनित्यराजक्रियादिविशिष्टसत्तादिरूपार्थस्येत्यरथः। तथाच केवलसत्तादिरूपार्थे तदसत्त्वेऽप्युक्तविशेषणविशिष्टे तस्मिन् विशेषणांशमादाय तत्सत्त्वं नानुपन्नमिति भावः।
यद्वा तद्विशिष्टेत्यत्र तदा अव्यवहितत्वानित्यत्वस्यैव परमर्शात् तादृशक्रियागतं वर्त्तमानत्वमारोप्य सत्ताद्यर्थको लडित्यर्थः। तत्र स्वोत्प्रेक्षितत्वं निरस्यति--*उक्तं हीति*। तिष्ठतेरधिकरणमिति* आधेयतासम्बन्धेन तादृशक्रियात्मककालविशिष्टत्वात्(तस्य)तासामिति भावः। अनेन भाष्येण, वस्तुतस्त्वित्यादिना उक्तकल्पस्यैव साधुत्वं लभ्यते। तस्मिन्नुक्तलक्षणलक्षितकालस्यैव सर्वत्र क्रियायामाधेयतयान्वयलाभत्।
? *परतो भिद्यते इति*। *सर्वम्* पच्यादिधात्वर्थसामान्यं परतः=स्वापेक्षया अन्येन वर्त्तमान वादिना। भिद्यते=व्यावर्त्यते। आत्मा तु इत्यत्रात्मादिपदमात्मसत्ताद्यर्थकम्, *न विकम्पते* सनातनत्वेन निरवयवत्वादुक्तविशेषणसम्बन्धाभावेन भेदानुमितिविष्यो न भवतीत्यर्थः। तथाचाऽऽमाऽस्तीति प्रयोगानुपपत्तिरिति पूर्वार्द्धर्थः। समाधत्ते-*तस्मादिति* विशेषातिरिक्तपदार्थस्य स्वतो व्यावृत्तत्वासम्भवादित्यर्थः। पर्वतादीत्यादिनाऽऽत्मादिपरिग्रहः।
*पररूपेणेति* परस्य=राजक्रियादिरूपार्थस्य, रूपेण=धर्मेण वर्त्तमानत्वादिना भिद्यते इत्युक्त एवार्थः। *तम इत्यादि* तम आसीदित्यादयो भूतक्रियागतभूतत्वारोपात्। *भविष्यामि चेति* भाविक्रियागतभविष्यत्वारोपाच्च योज्या इत्यर्थः। पक्षद्वयस्यैवाऽऽकरारूढतां प्रदर्सयन् पाथमद्योतकत्वपक्षे उपपत्तिमाह-*तच्चेति*। *क्रियासामान्येति* कालसामान्यवृत्तिक्रियावाचकस्येत्यर्थः।
*तद्विशिष्टे* वर्त्तमानकालदिविशिष्टे, वर्त्तमानत्वादिविशिष्टे वा व्यापारे इत्यर्थः। लडादेरित्यादिना लिडादिपरिग्रहः।
*उपयोगादिति* स च प्राक् प्रतिपादितः। तथाच लडाद्यदेशत्वेन तिबादीनां वर्त्तमानत्वादिद्योतकत्वान्न `अपाक्षीत्' इत्यादौ वर्त्तमानक्रियाप्रतीतिः, क्रियासामान्यशक्तधातोस्तत्तद्विशिष्टे लक्षणयैव तत्तद्विशिष्टक्रियाबोधोपपत्तौ पृथग्वर्त्तमानत्वादौ तेषां शक्तिकल्पने गौरवादिति भावः। वाचकत्वपक्षमवलम्ब्याऽऽह *अन्वयव्यतिरेकाभ्यामित्यादि*।
नच `तक्रकौण्डिन्य'न्यायात् कर्त्राद्यर्थबाधः, शक्तताऽवच्छेदकभेदात्। किञ्चैवं "लः कर्मणि" इति सूत्रं निरवकाशं स्यात्, स्थलान्तरेऽपि विध्याद्यर्थैर्बाधसम्भवादिति भावः। *अन्यथा* अन्वयव्यतिरेकयोः शक्तयग्राहकत्वे। *विलोपापत्तिरिति* सर्वत्र प्रकृत्यैव तत्तत्प्रत्ययार्थत्वाभिमतबोधसम्भवादिति भावः। अधिकं सुबर्थनिर्णये वक्ष्यते।
*अनद्यतने भूते इति* "भूते" (पाo सूo 3-2-84)इति, "अनद्यतेन लङ्" (पाo सूo 3-2-111) इति सूत्राभ्यां तत्तत्पदानुवृत्तेरिति भावः। *न लिट्प्रयोग इति* उक्तार्थस्य बाधात् पपाचेत्यादिजबोधानन्तरमनद्यतनात्वादिसन्देहानुदयाद् भूतत्वादिवत्तयोरपि तद्वाक्यजबोधे क्रियांशे विशेषणतया भानमभ्युपेयम्। तच्च वाचकतां द्योतकतां वा विनाऽनुपपन्नमिति लिटस्तदभ्युपगम आवश्यक इति भावः।
ननु परोक्षत्वं प्रत्यक्षान्यज्ञानविषयत्वम्। तथाच प्रत्यक्षक्रियायामपि श्रुतानुमितत्वयोः सत्त्वात् पपाचेत्यादिप्रयोगापत्तिरत आह-*परोक्षत्वञ्चेति* यथाश्रुतप्रत्यक्षाविषयत्वस्योपनीतक्रियायामभावेन तत्र पपाचेत्यादिप्रयोगानुपपत्तिरत आह-*साक्षात्करोमीति* साक्षात्करोमीत्येतत्प्रतीतिसाक्षिकलौकिकविषयत्वाभाववत्वमित्यर्थः।
उक्तस्थले प्रत्यक्षविषयतासत्त्वेऽपि तादृशविलक्षणविषयत्वाभाववत्त्वमक्षुण्णमिति न तदनुपपत्तिः। प्रत्यक्षं तादृशशब्दप्रयोक्तुर्ग्राह्यम्। ननु `दशमस्त्वमसि' इत्यादौ शब्दादप्यपरोक्षज्ञानस्य दृष्टत्वेन शब्दजन्यतादृशज्ञानविषयेन्द्रियासम्बन्धक्रियायां लिडनुपपत्तिरिति चेन्न, तत्रापि शाब्दज्ञानसहकृतमनसैव दशमसाक्षात्कारः, नतु शब्दात्, लौकिकविषयतानियामकेन्द्रियसंयोगादेरभावेन शाब्दे तद्वत्त्वासम्भवात्। अत एव `तत्त्वमसि' इत्याद्यचार्य्योपदेशशमदमादिसंस्कृतं मन आत्मदर्सने कारणमिति गीताभाष्ये उक्तमिति सर्वं समञ्जसम्।
"क्रिया नामेयम्" इति भाष्ये साऽसावनुमानगम्येति शेषः। *क्रिया* साध्यत्वेन प्रतीयमाना। *इयम्* पचतीत्यादिव्यवहारिविषयीभूता, यतः पूर्वापरीभूता=क्रमिकानेकव्यापारममूहात्मिका, अतोऽत्यन्तापरदृष्टा=परेण=प्रत्यक्षप्रमाणेनात्यन्तमदृष्टा=तज्जन्यज्ञानाविषया इति यावत्। *पिण्डीभूतेति* अवयवानामाशुविनाशित्वेन पिण्डस्यैवाभावादिति भावः। ननु तर्हि तस्यां किं प्रमाणमत आह-*साक्षादिति* विक्लित्त्यादिरूपकार्यानुमेयेति। *अन्यथेति* क्रियाया अवयवशोऽपि साक्षात्कारानभ्युपगम इत्यर्थः। *प्रतिभातीति* उक्तार्थ एवास्मद्बुद्धिविषयो भवतीत्यर्थः।
ननु क्रियाऽवयवा आपि क्रियावदतीन्द्रिया एव। यथा पचेरुदकसेचनादयोऽवयवास्तथा तेषामप्यवयवास्तेऽपि समूहरुपेणैव धातुवाच्याः। यस्तु क्षणावच्छिन्नस्तद्रूपोऽवयवः स तु न धातुवाच्यः, किन्त्ववयवसमूहाऽऽत्मनैव। आश्रितक्रमरूपत्वात्तद्वाच्यस्य। ेवञ्च सदसद्रूपा क्रिया न सद्विषयेन्द्रियग्राह्या। तदुक्तम्-
क्रमात् सदसतां तेषामात्मना न समूहिनः।
सद्वस्तुविषयैर्यान्ति सम्बन्धं चक्षुरादिभिः। इति।
अत्यन्तापदृष्टेति भाष्यस्याप्यवयवरूपेण समूहात्मना चादृश्टेत्येवार्थः। अत एव "वर्त्तमाने लट्" इति सूत्रे भाष्ये, अस्ति वर्त्तमानो कालः, परन्त्वाऽऽदित्यगतिवन्नोपलभ्यते" इत्युक्तम्, तस्य प्रत्यक्षेणेति शेषः।
एवञ्च वर्त्तमानत्वाक्रान्तक्रियाणां स्पष्टमेवाप्रत्यक्षत्वं तत उपलभ्यते। पश्य मृगो धावतीत्यादौ तु दृशिर्ज्ञानार्थकः, धावतिर्वा फलपर इति न कश्चिद्दोषः। किञ्च अवयवस्य प्रत्यक्षत्वे प्रकृतः कटमित्यादाववयवातीतत्वेन समुदायातीतत्वमादाय क्ताद्युपपादनवदवयवप्रत्यक्षत्वेन समुदायप्रत्यक्षत्वमादाय `परोक्षे' इत्यस्य चारितार्थ्ये भाष्यस्थपूर्वपक्षस्य निर्द्दलत्वापत्तिरित्यपरितोषान्मतान्तरमाह-*व्यापाराविष्टनामिति* एवञ्चातीतानद्यतनव्यापाराविष्टपरोक्षकर्तृकक्रियावृत्ताद्धातोर्लिडिति "परोक्षे लिट्" (पाo सूo 3-2-115) इति सूत्रार्थः।
*अयं पपाचेति* तदार्नि कर्तुरपारोक्ष्येऽपि व्यापारदशायां पारोक्ष्यसत्त्वादुक्तप्रयोगोपपत्तिरिति भावः। *इत्यपि वदन्तीति* मतान्तरानादरे अत्रापिः, पूर्वोक्तर्थस्याऽऽपातरमणीयत्वं मन्वाना भाष्याऽनुसारिण इति शेषः।
अत्राहुर्नैयायिकाः-पूर्वाऽपरीभूताऽवयवसमुदायात्मकपारिभाषिकक्रियाया अप्रत्यक्षत्वं युक्तमेव, समूहस्यैवाभावात्, पिण्डीभूतेति बाष्यस्वारस्येन समूहस्यैव तत्त्वावगतेश्च। तदवयवानामपि पारोक्ष्यं तु सर्वानुभवविरुद्धम्, तत्र प्रत्यक्षकारणचक्षुःसंयुक्तसमवायादेः सत्त्वात्। अन्यथा घटपुस्तकादेरप्यप्रत्यक्षत्वाऽपत्तिरिति बहुव्यकोपः. अधिश्रयणं साक्षात्करोमीति सार्वजनीनप्रतीतेश्च। प्रतीतेः पदार्थासाधकत्वे व्यावहारमात्रोच्छदाऽऽपत्तिश्च। "क्रिया नामेयम्" इति भाष्यस्यापि इयम्=सावयवपच्याद्यर्थरूपेत्यर्थान्न तद्विरोधः। सदसतां तेषामित्यस्य विद्यमानाविद्यमानावयवरूपाणामित्यर्थात् समूहात्मकक्रियायाः पारोक्ष्यप्रतिपादनपरत्वान्न हरिवाक्यविरोधोऽपि। अन्यथा `क्रिया सदसद्रूपा' इति वदतो व्याघातः स्पष्ट एव।
कालस्य प्रत्यक्षत्वाभावेन तदनुवादकभाष्योपष्टम्भन्यासोऽपि मानाभावेन नावयवानां पारोक्ष्योपपादकः। प्रकृतः कटमित्यत्राप्यवयवातीतत्वमादायैव प्रयोगोपपत्तौ समुदायातीतत्वारोपे मानाभावेन तद्दृष्टान्तासङ्गतिश्च। दार्ष्टान्तिकेऽवयवप्रत्यक्षत्वेन समुदायप्रत्यक्षत्वमारोप्य पूर्वपक्षस्य निर्दलत्वापादानमपि स्वाग्रहमूलकमेव। अत एव भाष्ये पश्य मृगो धावतीत्यनेन लौकिकविषयताशाल्यर्थकदृशिकर्मत्वं धावतेः प्रतिपादितम्। कथमन्यथा आगारान्तरस्थितस्य न तादृशप्रयोगः। मृगकर्त्तृकधावने ज्ञानविषयत्वरूपज्ञानकर्मत्वऽबाधात्। धावतेः संयोगरूपफलार्थकत्वे व्यापारावाचकत्वाभावादधातुत्वप्रसङ्गश्च। स्वजनकव्यापारगतपौर्वापर्यारोपेण क्रियात्वोपपादने चाप्रत्यक्षत्वपत्तितदवस्थैवेति न किञ्चिदेतत्। तस्मात् पूर्वोक्तमतमेव निराबाधम्। अत एव ग्रन्थकृताऽपि अपि-वदन्तिभ्यां तत्रास्वरस एव सूचित इति। *व्यासङ्गादिनेति* यथा " मत्तोऽहं किल विललाप" इत्यत्र मदादिना मनोऽसन्निधानात् क्रियापारोक्ष्यं तद्वदित्यर्थः।
*लिडसम्भवादिति*। अत्रेदं चिन्त्यम्-न वास्तवं पारोक्ष्यादि लिडादिनियामकम्, `अध्यास्त सर्वर्त्तुसुखामयोध्याम्' इत्यत्र लङोऽसाधुतापत्तेः। किन्तु वैवक्षिकं तत्, तथा वक्ष्यति च स्वयमेव सारकृत्-`अनद्यतनभूतत्वेन विवक्षिते लङ्, तत्रैव पारोक्ष्यविवक्षायां लिट्' इति। प्रकृते चाऽनायासनिष्पन्नत्व-शीघ्रनिष्पन्नत्व-प्रतीतिफलकभूतानद्यतनत्वविवक्षायाः, एवं सूक्ष्णकालेन करिष्यामि यत्र काले मयाऽपि साक्षात्कर्त्तुमशक्यमिति प्रतीतिफलकपारोक्ष्यविवक्षायाश्च सत्त्वाल्लिजुपपत्तिसम्भवनादिति।
*अनद्यतम् इति* ्तीताव्यवहितरात्रिपश्चार्द्धविशिष्चाऽऽगामिरात्रिपूर्वार्द्धोपेतं दिनमद्यतनम्, एतद्भिन्नकालत्वमनद्यतनत्वमिति वृत्तिकारादयः। कैयटस्तु-लुङसूत्रेऽतीतरात्रेरन्त्ययामेनाऽऽगामिरात्रेराद्ययामेन सहितो दिवसोऽद्यतन इत्यूचे।
अत्रेदमवधेयम्-अनद्यतनभूते यदा भूतत्वमात्रविवक्षा तदा लुङेव। तेन ह्योऽपाक्षीदित्यादौ भूतत्वमात्रविवक्षायां लुङि, पश्चाद् ह्यःपदेन सम्बन्धे नाद्यतनत्वप्रतीतिरिति न लुङोऽसाधुता। एवमनद्यतनभविष्यति भविष्यत्त्वमात्रविवक्षया लृट्। श्वो यक्ष्यमाणे-`देवता यक्ष्यति' इत्यत्र पश्चाद्धयनद्यतनत्वप्रतीरिरिति।
परे तु साङ्गयागस्य द्वयहात्मककालसाध्यत्वात्तदधिकरणद्वयहात्मककालस्यानद्यतनत्वाभावेन लुटोऽनवसराल्लडुपपत्तिः। `अद्य प्रभृति मे दाश! ब्रह्मचर्य्यं भविष्यति' इतिवदित्याहुः।
ननु `अहमेकः प्रथममासं वर्त्तामि बविष्यामि च' इत्यत्र धात्वर्थसत्तायां वर्त्तमानप्रागभावप्रतियोगित्वस्य भविष्यत्त्वस्य बाधात्, तदर्थकाद्भविष्यदर्थकप्रत्ययाप्रसक्तिरत आह *तत्त्वञ्चेति* वर्त्तमानप्रागभावप्रतियोग्युत्पत्तिकसमयवत्त्वमिति पाठः। तथाच तदर्थव्यापाराधिकरणस्य कालस्यानित्यराजक्रियाऽऽद्यात्मकस्य वर्त्तमानप्रागभावप्रतियोगित्वरूपभविष्यत्त्वसत्त्वात् तदादायैव लृडुपपत्तिरिति यथाश्रुतार्थानुसारिणः।
अन्ये तु-ननु येषां मते नश्यत्यादिधातूनां नाशमात्रमर्थस्तेषां भविष्यत्त्वस्य वर्त्तमानप्रागभावप्रतियोगित्वरूपत्त्वे, श्वो भाविनाशके परश्वो नङ्क्षयतीति प्रयोगापत्तिः, वर्त्तमानप्रागभावप्रतियोगिनि तन्नाशे परश्वस्तनकालवृत्तित्वसत्त्वात्।
नच परश्वस्तनकालस्य भविष्यत्त्वघटकप्रागभावेऽन्वयाभ्युपगमात् तस्य च तत्प्रागभावे बाधान्नोक्तप्रयोगापत्तिरिति वाच्यम्, तथा सति श्वो भाविनाशकेऽपि `श्वो नष्टा' इति प्रयोगानुपपत्तिः। तन्नाशप्रागभावे श्वस्तनकालसम्बन्धबाधादत आह-*तत्त्वञ्चेति* अत्र समयपदोपादानं कालो लडाद्यर्थ इत्यभिप्रेत्य, नतु तस्य लक्षणे निवेशः, प्रयोजनाभावाद् विद्यमानप्रागभावप्रतियोग्युत्पत्तिकत्वस्यैव सम्यक्त्वात्। यत्र तूत्पत्तिरेव धात्वर्थस्तत्र तदघटितमेव तन्निर्वक्तव्यम्, अन्थोत्पत्तेर्द्वेधा भानप्रसङ्गात्। एवञ्चेक्तस्थले भविष्यत्त्वघटकोत्पत्तौ परश्वस्तनकालवृत्तित्वबाधान्नोक्तप्रयोगापत्तिरितित्थमवतारयन्ति। नइयत्यादीनां फलव्यापारोभयार्थकत्ववादिनान्तु व्यापारे वर्त्तमानप्रागभावप्रतियोगित्वाबाधन्नानुपपत्तिरिति प्रागोवोक्तम्।
अत्रेदमवधेयम्-इहाद्य घटो भविष्यतीत्यादौ देशकालविशेषादेरधिकरणत्वेन धात्वर्थोत्पत्तावेवाऽन्वयः। ननु भविष्यत्त्वघटकप्रागभावे उत्पत्तिमति वा, तथा सति कपालनाशजन्यघटनाशस्थले, इह कपाले घटध्वंसो भविष्यतीति प्रयोगाऽऽपत्तेर्घटरूपप्रतियोग्यात्मकघटध्वंसप्रागभावस्य कपाले सत्त्वादेवं श्वो भाविन्यद्य भविष्यतीतित प्रयोगप्रसङ्गश्च, अद्यतनकालवृत्तित्वस्य प्रागभावे सत्त्वात्। तथा भवते श्वः समुत्पद्य प्राङ्गणे परश्वो गमिष्यति मैत्रे प्राङ्गणे परश्वो भविष्यतीति प्रयोगाऽऽपत्तिः, उत्पत्तिमतो मैत्रस्य प्राङ्गणवृत्तित्वात्, परश्वस्तनकालवृत्तित्वाच्च। यथोक्ते तु तस्य परश्वस्तनकालवृत्तित्वेऽप्युत्पत्तेस्तत्कालवृत्तित्वान्न कश्चन दोषः। `घटो भविष्यति' इत्यादौ उत्पत्त्यर्थकधातुयोगे उत्पत्त्यघटितभविष्यत्वस्यान्वयो लाघवात्, उत्पत्त्यघटिते तस्मिन्नेव मृदादेः शक्त्यभ्युपगमात्, उत्पत्तिघटितलक्ष्यार्थस्य तु `नङ्क्षयति' चइत्यादौ नाशेऽन्वयादन्यमतेऽपि नानुपपत्ति-। एवञ्च `भविष्यति' इत्यादौ यउत्पत्तेर्द्वेधाभानप्रसङ्गशङ्कापि न। शाब्दबोधस्त्वत्र वर्त्तमानप्रागभावप्रतियोग्युत्पत्त्यनुकूलो घटाश्रयको व्यापार इति वैयाकरणमते बोधः।
*विध्याद्याशिष इति* आशीस्तु सम्बोध्यहितविषयकलोडाद्यन्तशब्दप्रयोक्त्रिच्छा। *भवतु ते इति* हितविषयकमदिच्छाविषयत्वसम्बन्धिशिवप्रसादकर्त्तृकं भवनमिति बोधः। *एतयोरिति* लेट्लोटोरित्यर्थः *त्रयाणाम् * लेट्लोट्लिङामित्यर्थः। * तन्निर्णयेनैवेति* वक्ष्यमाणलिङ्र्थनिर्णयेनैवेत्यर्थः (1-22)
(1-23) ह्यःपदस्याव्यवहितातीतदिवसे रूढतया तदात्मककालस्य लङर्थत्वेनैकदिनान्तरितभूते लङनुपपत्तिरत आह *अनद्यतन इति* तथाच ह्यःपदं लक्षणयाऽनद्यतनत्वेनानद्यतनमात्रबोधकमिति नोक्तदोषावकासः। एवं श्वो भाविनीत्यत्रापि बोध्यम्।
*अस्य पत्र इति* वर्त्तमानध्वंसप्रतियोग्यनद्यतनकालवृत्तिरेतत्सम्बन्धिपुत्रकर्त्तृकोत्पत्त्यनुकूलो व्यापार इति बोधः। अध्यास्तेत्यादौ तु भूताऽनद्यतनत्वमात्रविवक्षया लङुपपत्तिः। सूत्राद् विध्यादीनां लिङर्थत्वप्रतीतेः कथं प्रेरणादेर्विध्यर्तत्वमत आह *तत्रेति* तेषु मध्ये इत्यर्थः। *विधिः=प्रेरणमिति* प्रेरणपर्यायो विधिशब्द इत्यर्थः। प्रेरणाय लिङादिशब्दस्वरूपतां वदतां मतं निराकर्त्तृ प्रेरणायाः स्वरूपं दर्शयति *भृत्त्यादेरित्यादि*।
अयम्भावः-यद्विषयकत्वेन ज्ञानस्य प्रवृत्तिजनकत्वं सैव प्रवर्त्तना। तादृशविषयतानिरूपकत्वं चेष्टसाधनताया एव तद्विषयकत्वेनैव स्वपरज्ञानात्प्रवृत्तेः सर्वसग्मतत्वात्। नतु लिङादिनाम्, तद्विषयकज्ञानात् प्रवृत्त्यनुदयात्। सा यदि वक्त्रपेक्षयाऽपकृष्टोद्देश्यकप्रवर्त्तकज्ञानविषयीभूता तदा प्रेरणेत्युच्यते। अन्यादृक् तु निमन्त्रणादिपदव्यपदेस्या। तथाच स्वाभिलषितोपायाज्ञानादप्रवृत्तापकृष्टप्रयोज्यस्योपायविषयकप्रवृत्त्यनुकूलो व्यापारः प्रेरणेति पर्यवस्यतीति। अधिकमग्रे वक्ष्यते।
तऊ वैदिकमुदाहरणम्-`स्वर्गकामो यजेत' इत्यादि। स्वर्गकामाभिन्नकर्त्तृकयागभावना स्वर्गादीष्टसाधनमिति वैयाकरणमते बोधः। भावनायामिष्टसाधनत्वं तु प्रत्यासत्त्या स्वर्गकामस्यैव। तादृशश्चाहमिति अभिसन्धाय यागादौ नियोज्यस्य प्रवृत्तिर्निर्वहति। लौकिकं तु `जलमाहर' इत्यादि। बोदः स्वयमूह्यः।
निमन्त्रणादि स्वमतेन व्याचष्टे-*नियोगकरणमिति* `विप्रं निमन्त्रयत्' इत्यादितो विप्राश्रयकप्रवृत्तिजनकभावनाबोधेन प्रकृते नियोगपदार्थः=प्रवृत्तिस्तत्करणम्=तदनुकूलो व्यापार इत्यर्थः।
*आवश्यक इति* श्रद्धभोजनादिश्च तथा *प्रेरणेति* प्रवर्त्तनेत्यर्थः। अस्य दौहित्रादेरित्यादिः। तत्राप्रवृत्तस्य प्रवृत्त्यनुकूलव्यापार इति यावत्। यथा `इह भुञ्जीत भवातन्' इत्यादि। * कामचारानुज्ञेति* स्वेच्छया प्रवृत्तस्येतरत्र प्रवृत्तिप्रतिबन्धफलकस्वभिलषितविषयकप्रवृत्त्यनुकूलो व्यापार इत्यर्थ-। यथा `इहासीताऽऽरब्धं कुरुत तत्कुरुष्व यथा हितम्' इतायदि। उपवेशानादिव्यापार इष्टसाधनताज्ञानात् प्रवृत्तावितरत्राप्रवृत्तिरर्थतः फलति। *सत्कारपूर्वको व्यापार इति* अध्यापनादिव्यापारे सम्मानपूर्वकप्रकृत्त्यनुकूलो व्यापारोऽधीष्टपदार्थ इत्यर्थः। अ(इ)यमेवाऽभ्यर्थनेनेत्युच्यते। यथा `माणवकमध्यापयेद् भवादन् इति। उक्तेष्विष्टसाधनत्वे अनुकूलत्वञ्च प्रवृत्तिजनकताऽवच्छेदककोटिप3विष्टतया बोध्यम्।
*सम्प्रधारणमिति* उपस्थितक्रिययोर्मध्ये एकतरक्रियाधर्मिकेष्टसाधनत्वनिर्णयेच्छेत्यर्थः। यथा किं भो वेदमधीयीयोत तर्कमिति। स्वोद्देश्यकत्वसम्बन्धेन सम्बोध्यविशिष्ट मन्नष्ठा च वेदाध्ययन-तर्काध्ययनान्यतरभावनेष्टसाधनत्वप्रकारकनिर्णयेच्छाविषय इति बोधः। एवमग्रेऽपि। *विधिः प्रेरणमिति* प्रेरणम्=प्रवर्त्तनमित्यर्थः। अप्रवृत्तप्रयोज्यस्याज्ञातस्वभिलषितोपाय इष्टसाधनताबोधनमिति यावत्। अपकृषटोद्देश्यकतादृशेष्टसाधनत्वबोधविषयाप्रयुक्तं लिङादिघटितं वाक्यमेवाऽऽज्ञोपदेशपदाभ्यां व्यापदिश्येत। तदेवाऽऽह-*भृत्यादेरिति* आदिना शिष्यादिपरिग्रहः। तत्र लौकिकमुदाहरणम्-भवाञ्जलमानयेदित्यादि। वैदिकम्-स्वर्गकामो यजेतेत्यादि। *नियोगकरणमिति* निमन्त्र्यते=नियुज्यतेऽनेनेति व्युत्पत्त्या नियोगानुकूलो व्यापारो निमन्त्र्णपदार्थ इत्यर्थः।
[*आवश्यक इति* श्रद्धभोजनादावित्यर्थ-। प्रेरणेत्यस्य दौहित्रादेरित्यादिः। तथाचावश्यके श्रद्धभोजनादौ दौहित्रादेरिष्टसाधनताबोधनं निमन्त्र्णमिति फलितम्। यथेह भुञ्जीत भवानिति। *कामचारेति* स्वाभिलषिते कामचारेण प्रवृत्तस्येष्टसाधनाताबोधनमित्यर्थः। *यथेहासीतेति* अनुज्ञातुः प्रवृत्तिप्रयोजनस्येतरप्रवृत्तिप्रतिबन्धेनैतत्प्रवृत्तिविषय इष्टसाधनताबोधनम्। यथारब्धं कुरुत, तत्कुरुष्व यथा हितमिति च। एतदादि सर्वोपलक्षणम्।
*कत्कारपूर्वको व्यापार इति* सम्मानपूर्वकमध्यापनादिव्यापार इष्टसाधनताबोधनमित्यर्थः। अयमेव चाऽभ्यर्थनेति व्यावह्रियत्। उदाहरणम्-माणवकमध्यापयेद्भवानिति।] सम्प्रश्रः=सम्प्रधारणम्। प्रार्थना तु स्वाभिलषितवस्तुदानादौ स्वीयेच्छाबोधन्म्। यथा-भोजनं लभेयेति। *एतच्चतुष्टयेति* विध्यादिचतुष्टयेत्यर्थः। *लाघवादिति* तस्य शक्यताऽवच्छेदकत्वकल्पने लाघवादित्यर्थ-। विधिवाक्याद्विध्यादीनां बोधस्य सर्वसिद्धत्वेऽपि तत्तद्रूपस्य शक्यतावच्छेदकत्वकल्पने गौरवादुक्तानुगतरूपस्यैव शक्यताऽव्चछेैदकत्वमुचितमिति भावः। तत्र हरिसम्मतिमाह-*उक्तञ्चेति*। *किम्भेदस्येति* तत्तद्रूपेण (शक्तिभेदस्य) पार्थक्यस्येत्यर्थः, तत्तद्रूपेण शक्तेरनङ्गीकारादिति भावः। तर्हि तथोपादानं सूत्रकृता किमिति कृतमत आह-*न्यायेति* न्यायः=शक्तिः, तद्व्युत्पत्तये तद्ग्रहायेत्यर्थः।
ननु प्रवर्त्तनात्वेन प्रवर्त्तनायां शक्तिग्रहो विध्यादिसमसस्तधर्मिक एवेत्यत आह-*प्रपञ्चार्थमिति* प्रवर्त्तना=प्रवृत्तिकरणमिति व्युत्पत्तेर्ण्यन्ताद युचि निष्पन्नप्रवर्त्तनाशब्दात् प्रवृत्त्यनुकूलव्यापारलाभ इत्याह *प्रवर्तनात्वञ्चेति*। *विषयताऽवच्चेदकत्वमीति* प्रकारताऽव्छेदकत्वमित्यर्थः।
- तच्चेति* निरुक्ताऽवच्छेदकत्वञ्चेत्यर्थः।
*तदेवेति* इष्टसाधनत्वमेवेत्यर्थः। एवकारेण कृतिसाध्यत्वादिव्यवच्छेदः। इष्टत्वञ्च समभिव्याहृतपदोपस्तापितकामनाविषयत्वम्। स्वर्गकामो यजेतेत्यत्र स्वर्गकामपदोपस्थापितकामनाविषयत्वस्य स्वर्गे सत्त्वादिष्टत्वं तस्याक्षतम्। तेनैव च स्वर्गादीष्टानामनुगमः। यदि च सामान्यत इष्टसाधनत्वज्ञाने प्रवृत्त्यनुदयात् तत्तद्रूपेण स्वर्गत्वादिना स्वर्गसाधनताज्ञानं तथा वाच्यम्, तथाच तेन रूपेणेष्टसादनत्वस्य श्रुतेरनवगमद्विधिवाक्यात् कथं प्रवर्त्तकज्ञाननिर्वाह इति विभाव्यते तर्हिष्टताऽवच्छेदकत्वेन स्वर्गत्वादीननुगमय्य तदवच्छिन्नसाधनत्वे विधेः शक्तिरूपगन्तव्या, एवञ्च न विधेर्नानार्थत्वमपि, तदादिवत्। इष्टताऽवच्छेदकत्वस्योपलक्षणत्वोपगमाच्च न स्वर्गत्वादीनां तद्रूपेण भानाऽऽपत्तिः।
अथ `स्वर्गकामो ज्योतिष्टोमेन यजेत' इत्यत्र श्रुत्या स्वर्गसाधनत्वं ज्योतिष्टोमे बोधनीयम्, तच्च न सम्भवति, वाजपेयादपि स्वर्गोत्पत्तेर्व्यभिचारात् वैजात्यस्य चोत्तरकालकल्प्यत्वेन पूर्वमनुपस्थितत्वादिति चेन्न, `घटं द्रव्यत्वेनैव जानाति' इत्यादौ घटत्वोपलक्षिततद्व्यक्तिविशेष्यकद्रव्यत्वप्रकारकज्ञानावगमवत् स्वर्गत्वाश्रययत्किञ्चिद्व्यक्तिसमानाधिकरणाभावप्रतियोगित्वमेव श्रुत्या यागोऽवम्यते। अथवा यागानुत्तरकालवृत्तित्वमेव स्वर्गत्वसामानादिकरण्येनेति न कश्चिद्दोषः। अत एव साध्येष्टकत्वस्य विध्यर्थत्वमामनन्ति। तत्र अन्यथासिद्धत्वं तु विधेः प्रवृत्तितात्पर्य्यकत्वावधारणादुत्तरकालकल्प्यम्।
इत्थञ्च ग्रहणश्राद्धादौ नित्यत्व-नैमित्तिकत्वयोरिव नित्यश्राद्धसन्ध्यादौ नित्यत्वकाम्यत्वयोरप्यविरोधाल्लाघवाद्रात्रिसत्रन्यायेन-
दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमावहन्।
सन्ध्यामुपासते ये तु सततं संशितव्रताः।
विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम्।।
इत्याद्यर्थवादोपस्थितपितृतृप्तिब्रह्मलोकाऽवाप्त्यादिकमेव फलं कल्प्यते। यद्यप्यन्यत्र समावायघटितसामानाधिकरण्येनैव यागृस्वर्गयोः कार्यकारणभावः क्लृप्तस्तथाप्युक्तवाक्यप्रामाण्याच्छ्राद्वपितृतृप्त्योरुद्देश्यत्वसमावायघटितसामानाधिकरण्येन स कल्पनीयः। कर्त्तृनिष्ठादृष्टस्य तु न पितृतृप्तिजनकत्वम्, व्याधिकारणत्वात्, श्राद्धानन्तरकृतकर्मनाशाजलस्पर्शादिना तन्नाशेन पित्रादिस्वर्गापत्तेश्च। पितॄणां मुक्तत्वे नु अनुष्ठातर्य्ये व तत्कल्प्यताम्। अत एव शास्त्राऽऽदेशितं फलमनुष्ठातरीत्युत्सर्ग इति वृद्धाः।
स्वतः पुरुषार्थो दुःखप्रागभावः, प्रत्यवायानुत्पादो वा तथा कल्पनीयः। तत्साधनत्वञ्च योगक्षेमसाधारणम्। नित्ये कृते प्रत्यवायानुत्पादनियमात्, तत्सत्त्वे दुःखप्रागभावावश्यम्भावाच्च। तथाच सर्वशक्तौ प्रवृत्तिः स्यात् तथा भूतोपदेशादिति सर्वशक्तयधिकरणपूर्वपक्षसूत्रे पूरुषार्थस्य भाव्यस्योभयत्र तौल्येन यथा काम्यं फालयं अलं तथा नित्यमपिति व्याख्यातं भाट्टैः।
नन्विष्टसाधनत्वस्य विध्यर्थत्वे साधनत्वस्याऽऽखयातेनाऽभिधानाज्जयोतिष्टोमेनेत्यत्र तृतीयाऽनुपपत्तिरिति चेन्न, `द्रव्यं कारकम्' इति पक्षे शङ्काऽनवकाशात्। `श्क्तिः कारकम्' इति पक्षेऽपि यज्यर्थव्यापारनिष्ठभावनाभाव्यनिर्वर्त्तकत्वरूपकरणत्वस्यभिधानेऽपि यागनिष्ठस्य तस्यानभिधानंन तत्समानाधिकरणज्योतिष्टोमपदात्तदुपपत्तेः। `न कलञ्जं भक्षयेत्' इत्यादेर्निषेधविधित्वोपपत्तये नञ्मसभिव्याहारे विधेरनिष्टसाधन्तवे श्क्तिरूपगन्तव्या। तस्यापि धात्वर्थेऽन्वयः। नञ् तात्पर्य्यग्राहकः। कलञ्जकर्मकभक्षणमनिष्टसाधनमिति तु बोधः।
यद्वा नञर्थाबावविशेष्यक एव बोधः, नञा विधेर्निवृत्तितात्पर्यकत्वावधारणात्। तेन च स्वप3तीयोगिन्यनिष्टसाधनत्वाक्षेपात्ततो निवृत्त्युपपत्तिरिति भावः। बलवदनिष्टाजनके इष्टसाधने चन्द्रमण्डलानयने बलवदनिष्टाननुबन्धिनि साध्ये निष्फले, तृप्तिरूपेष्टसाधने कृतिसाध्यमधुविषसंपृक्ताऽन्नभेजने च प्रवृत्त्यदर्शनात् प्रवर्त्तकज्ञाने विषयताऽवच्छेदककोदौ तेषां निवेशस्यावश्यकतया विधिवाच्यत्वं श्रुतेः प्रवर्त्तकत्वनिर्वाहार्थमावस्यकमिति नैयायिकमतं निराकर्तुमाशङ्केते-*यद्यपीति*। *एतत्* प्रवर्तकज्ञानविषयताऽवच्छेदकत्वम्। तत्स्तवे युक्तिमाह *तज्ज्ञानस्येति* कृत्यसाध्येऽपि तज्ज्ञानात् प्रवृत्तिदर्शनादिति भावः। निराचष्टे-*तथापीति*।
*लोकत एवेति* लौकिकप्रमाणादेवेत्यर्थः। *न तच्छक्यमिति* `अनन्यलभ्यो हि शब्दार्थः, इति न्यायादिति भावः। वस्तुतस्तु उक्तन्यायस्य पदान्तरलभ्यैव शक्तिः, अन्यथा कस्यापि पदस्य शक्तिर्न सिध्द्येत् सर्वस्यापि शब्दातिरिक्तप्रमाणगम्यत्वात्। किञ्च, इष्टसाधनत्वादीनां स्वातन्त्र्येण यदि शक्यत्वं स्यात् तदा स्यादप्युक्तरीरिर्निराकरणक्षमा किन्तु प्रवर्त्तकज्ञानविषयताऽवच्छेदकत्वोपलक्षणानुगतीकृतेषु तेषु सा। उपलक्षणस्य च कृतीसाध्यत्वासाधारणतया तत्रापि सिध्यन्ती शक्तिः केन प्रतिषेध्द्येति सन्त एवाऽधारयन्तु।
यत्तु कृतिसाध्यत्वे वेदादवगतेऽप्यशक्तस्य यागादौ प्रवृत्त्यनुदयात् मदंशविशिष्टतज्ज्ञानस्यैव प्रवृत्तिहेतुत्वं वाच्यम्। तस्य च `यागो मत्कृतिसाध्यः' मत्कृतिसाध्यत्वविरोधिधर्मानधिकरणत्वात् मत्कृतिससाध्यपाकवत्, इत्यनुम्नेनैवावगमान्नास्य शक्यत्वमित्यशय इति तन्न, इष्टसाधनताज्ञानस्याऽपि मदंशविषयकस्यैव प्रवर्त्तकतया तस्य विधिवाक्यादलाभेनेष्टसाधनत्वे शक्तयभ्युपगमेऽपि प्रवर्त्तकत्वानुपपत्तेरपहिहारात्।
यदि तु प्रतिपुरुषं विधेरावृत्त्या बोधकत्वात्तेनैव तत्पुरुषीयेष्टसाधनबोधकत्वात्प्रवर्तकत्वोपपत्तौ नानुमानावश्यकत्वमिति विभाव्यते तथा कृतिसाध्यत्वेऽपि तुल्यमिति बलवदनिष्टाननुबन्धित्वस्य विध्यशक्तत्वे, "न कलञ्जं भक्षयेत्" इत्यत्र भक्षयेदित्यस्य भक्षणेऽनिष्टसाधनत्वाबोधकतया निषेधविधित्वानुपपत्तिरिति तत्रापि विधिशक्तिरभ्युपेया। अनिष्टे बलवत्त्वं चेष्टोत्पत्तिनान्तरीयकदुःखातिरिक्तत्वम्। तेन नाऽऽयाससाध्ये कर्माणि प्रवृत्त्यनुपपत्तिः। `कष्टंम कर्म' इति न्यायेन सुखमात्रजनककर्मासम्भवच्च नोक्तार्थस्य सिद्धिः। यदि च कदाचित्त्त्सम्भवस्तदेष्टोत्पत्त्यनान्तरीयकत्वमेव तद्वाच्यम्।
एतेन बलवदिनिष्टाननुबन्धित्वज्ञानस्य प्रवृत्तेकत्वमते (मेव) ब्रह्वायाससाध्ये कर्मणि प्रवृत्त्यनापत्तेः, बहुतरदुःखस्य जायमानत्वादल्पदुःखस्यापि कुतश्चित् बलवत्त्वेनानुगतबलवत्त्वस्य निर्वक्तुमशक्यत्त्वाच्चेति न (क्वि) तस्य विधिशक्यत्व्सम्भावनेति केषाञ्चित् प्रलपितं प्रत्युक्तम्।
अथोक्तयुक्तयाऽनिष्टत्वेनानिष्टसाधनत्वाभावज्ञानस्य न प्रवर्त्तकत्वम्, किन्तु `अगम्यां न गच्छेत्' `शाकं न भूञ्जित' इत्यादिवाक्यानां प्रामाण्योपपत्तये विशष्य नरकत्वादिरूपेण तदसाधनत्वस्य ज्ञानस्य तथात्वं वाच्यम्। तथाच शक्तयाऽऽनन्त्यम्, शक्तिग्रहाऽनुपपत्तिश्चेति चेन्न, द्वेषविषयताऽवच्छेदकत्वोपलक्षितनरकत्वाद्यवचछिन्नसाधनतात्वावत्त्छिन्नाऽभाव कूटे तादृशाऽभावत्वेनानुगते एकैव विधिप्रत्ययस्य शक्तिः। उपलक्षणत्वादेव च द्वेषविषयताऽवच्छेदकत्वं परित्यज्य नरकत्वाद्यवच्छिन्नाऽसाधनत्वमात्रं प्रतीयते। क्वचिच्च नरकासाधनत्वम्, क्वचिद्भोगाऽसाधनत्वं प्रतीयते इत्यत्र तात्पर्यमेव नियामकम्।
नचातिप्रसक्तस्योपलक्षणत्त्वाभ्युपगमे प्रमेयत्वस्यैव तथात्वमस्तु, साम्यादिति वाच्यम्, सुखाद्यसाधनत्वस्य विध्यर्थताविरहेण तत्साधारणप्रमेयत्वस्योपलक्षणत्वासम्भवात्। अत्यन्ताजनकसाधारणरूपस्य कारणतावच्छेदकत्ववद् (अ) द्विष्टसाधारणरूपस्यापि द्विष्टोपलक्षणताकल्पनानौचित्यात्।तात्पर्याभावादेव सुखाद्यसाधनताबोधानापत्तौ तस्य विध्यर्थत्वेऽपि न क्षतिरिति तु न युक्तम्, तथा सति तु तत्तात्पर्येणाऽऽधुनिकानां न भुञ्जीतेति प्रयोगापत्तेः।
तस्माद् द्वषविषयतावच्छेदकत्वोपलक्षितनरकत्वाद्यवच्छिन्न साधनतात्वावच्छिन्नप्रतियोगिताकाभावत्वेनानुगते तादृशाभावे विधिप्रत्ययस्य शक्तिरिति परिष्कृतं प्राचीननैयायिकमतं नव्यरीतिमवलम्ब्य दूषयति-*बलवदनिष्टेति* निरुक्तबलवदनिष्टाजनकत्वाज्ञाञ्चेत्यर्थः। *न हेतुः*=न प्रवृत्तिहेतुः। क्वचित् तथैव पाठः। तथाच न तद्विषयस्य विधिवाच्यत्वमिति भावः। तस्य प्रवृत्त्यजनत्वे हेतुमाह-*द्वेषाभावेनेति* मधुविषसंपृक्तान्नभोजने द्विष्टसाधनताज्ञानात् द्वेषविषये प्रवृत्तिवारणाय तद्विषयकप्रवृत्तिम्प्रति तद्विषयकद्वेषस्य क्लृप्तप्रतिबन्धकतया प्रतिबन्धकाभावविधयाऽवश्यक्लृप्तनियतपूर्ववर्त्तिताकद्वेषाभावेनैवोपपत्तो बलवदनिष्टासाधनत्वज्ञानस्य न हेतुत्त्वम्, तेनान्यथासिद्धंरित्यरथः।
नन्वन्वयव्यतिरेकसहचारज्ञानस्य कारणत्वस्योभयत्र साम्यात् तेनैवास्यान्यथासिद्धिर्दुर्वारेत्यत आह *आस्तिकेति* स च परलोकाङ्गीकारवान्। तदनङ्गीकर्त्तुर्नरकसाधनाज्ञानासम्भवात्तद्विशेषणमुपात्तम्। आस्तिकस्य नरकसाधनताज्ञानेन तत्र द्वेषावश्यम्भावेन प्रवृत्त्यसम्भवादाह-*कामुकेति*। तत्त्वञ्चोत्कटरागवत्त्वम्। रागे उत्कटत्वं जातिविशेषः, विषयिताविशेषो वा। प्रवृत्तेरित्यस्यागम्यागमने इत्यादिः। द्वेषाभावदशायामित्यनेन द्वेषसामग्रीवैकल्यं दर्शितम्। तच्च विषयतया द्वेषम्प्रति उत्कटेच्छासामग्रीविरहविशिष्टद्विष्टसाधनताज्ञानस्य हेतुतया तादृशसामग्र्याः स्वातन्त्र्येण प्रतिबन्धकतया बोध्यम्।
*व्यभिचाराच्चेति* न हेतुरिति पूर्वेणान्वितम्। अत एव "श्येनेनाभिचरन् यजेत" इत्यत्र न विध्यर्थबाधः, बलवदनिष्टाननुबन्धित्वज्ञानस्याप्रवर्त्तकत्वेन तद्विषयस्य तस्य विध्यर्थत्वस्यैवाभावादिति भावः। उपसंहरति-*तस्मादिति*। इष्टसाधनत्वमेव* इत्येवकारेण कृतिसाध्यत्वबलवदनिष्टाननुबन्धित्वयोर्व्यवच्छेदः। आद्यस्य लौकिकप्रमाणेनैवावगमादन्त्यस्य प्रवर्त्तकज्ञानाविषयत्वादिति भावः।
*प्रवर्त्तनेति* लिङाद्यर्थ इत्यर्थः। *इष्टाभ्युपायत्वादित्यादि* इष्टसाधनत्वात्। *अन्यः* कृतिसाध्यत्वादिः। *क्रियासु* यागादिरूपासु। *पुंसां प्रवर्त्तको न* ज्ञाननिष्ठप्रवृत्तिजनकतायां विषयतयाऽवच्छेदको नत्यर्थः। यजेतेत्यादिवाक्यान्तर्गतलिङादिशक्यो नेति यावत्। चो हेतौ। यतः प्रवृत्तिहेतुं तद्धेतुतावच्छेदकमेव प्रवर्त्तनापदेन व्यपदिशन्तीत्यर्थः।
परे तु-बलवदनिष्टाननुबन्धित्वज्ञानस्य द्वेषाभावेनान्यथासिद्धतयाऽप्रवर्तकत्वेऽपि कृतिसाध्यताज्ञानस्य प्रवर्त्तकतायाः सर्वसिद्धत्वेन तद्विषयस्य तस्य विध्यर्थत्वमावश्यकम्। नच तद्धेतुतायामेव मानाभावः, कृत्यसाध्ये प्रवृत्तिस्तु कृत्यसाध्यतयाज्ञानस्य प्रतिबन्धकतया तत्र तदभावादेव नेति वाच्यम्, कृत्यसाध्यताज्ञानस्य प्रतिबन्धकत्वे कृतिसाध्यत्वाऽभावतद्व्याप्यतदवच्चेदकधर्मदर्शनादीनां प्रतिबन्धकत्वस्य वक्तव्यतया तावदभावनां प्रवृत्तिं प्रति हेतुता कल्पनाऽपेक्षया कृतिसाध्यताज्ञानत्वेन हेतुतायां लाघवस्य स्फुटतरत्वात्, कृतिसाध्यताज्ञानाभावस्य सर्वदा सत्त्वेन प्रवृत्त्यापत्तेश्च।
अपिच कृतिसाध्यताज्ञानस्य प्रवर्तकत्वे कृतिसाध्यत्वप्रकारकपाकविशेष्यकज्ञानत्वावच्छिन्नाभावमानसं प्रति पाकादिगोचरप्रलृत्तिसामग्र्याः प्रतिबन्धकत्वं न कल्प्यते इति लाघवम्, तादृशप्रवृत्तिसामग्रीकाले पाकविशेष्यककृतिसाध्यत्वप्रकारकनिर्णयस्याऽऽवश्यकत्वेन, तस्य च स्वरूपसत एवोक्तज्ञानाभावमानसे क्लृप्तप्रतिबन्धकतयैवोपपत्तेः।
भावन्मते तादृशमानसे तादृशप्रवृत्तिसामाग्र्याः, प्रतिबन्धकत्वकल्पनेन गौरवं स्पष्टमेव। एवमप्रामाण्यविशिष्टपाकविशेष्यककृतिसाध्यत्वप्रकारकज्ञानवानहमिति मानसे पाकगोचरप्रवृत्तिसामाग्र्याः प्रतिबन्धकत्वाऽकल्पनेनापि लाघवम्। तादृशविशिष्टविषयताशालिमानससामग्रीकाले आप्रामाण्यज्ञानास्कन्दितोक्तज्ञानस्याऽऽवश्यकत्वेनाप्रामाण्यज्ञानानास्कन्दितपाकादिविशेष्यककृतिसाध्यत्वप्रकारकज्ञानघटिततादृशप्रवृत्तिसामग्रीतादृशमानससामग्न्योर्मेलनस्यैवाभावात्।
भवन्मते कृतिसाध्यत्वप्रकारकपाकादिविशेष्यकज्ञानाभावघटिततादृश्प्रवृत्तिसामग्रीतादृशमानससामग्न्योर्मेलने बाधकाभावेन तादृशमानसे तादृशप्रवृत्तिसामग्न्याः प्रतिबन्धकत्वस्यावश्यकल्पनीयत्वेन गौरवस्यातिस्फुटत्वादनयैव दिशाऽनिष्टसाधनत्वज्ञानाभावादीनामपि हेतुता निरनीयेत्याहुः।
गुरवस्तु-नेष्टसाधन्तवे विध्यर्थः, क्षणिकतयाऽवगते यागे बोधयितुमशक्यादेवं परम्परासाधनत्वमपि द्वाराऽनुपस्थितेः शाब्दबोधप्रयोजकान्वयप्रयोजकत्वरूपवत्त्वयो्ग्यतायास्तत्राभावात्। साधनतासामान्यबोधस्त्वेकविशेषबोधे तदितरप्रकारप्रकारकत्वनियमादसम्भवदुक्तिकः। किञ्च यागो न कर्तव्यतया प्रतीयते काम्यादन्यत्काम्याव्यवहितपूर्ववर्त्तिसाधनमेव कामी कर्तव्यतयाऽवैतीत्यस्यान्यत्र क्लृप्तत्वात्। द्वारीभूतं काम्याव्यवहतपूर्ववर्तिसाधनमपूर्वमेव कार्य्यत्वेन शक्यम्।
कार्य्यत्वञ्च कृत्युद्देश्यत्वम्। तत्र विशेषणीभूतकृतेराश्रयविषययोराकाङ्क्षायां विषयतया यागा आश्रयतया स्वर्गकामः सम्बध्द्यते। सुखदुःखाभावादेर्लौकिकप्रमाणेनैवापूर्वस्यापि वेदेन कृत्युद्देश्यत्वबोधनादपौरुषेये तस्मिन्नप्रामाण्यशङ्कानवकाशात् तस्य तत्त्वम्। तथाच स्वर्गकामो यजेतेत्यत्र स्वर्गकामकृत्युद्देश्यो यागाविषयको नियोग इति बोधः।
अत्रापूर्वस्य यागविषयककृत्युद्देश्यत्वमेव यागविषयकत्वम्। यागस्य तादृशकृतिविषयत्वे पुरुषस्याऽऽश्रयत्वे चान्वयिताऽवच्छेदकमपूर्वकारणत्वम्। सैव योग्यता। यथा `घटेन जलमाहर' इत्यत्र छिद्रेतरघटत्वं योग्यतावच्छेदकोपस्थितिर्घटोनेत्यादावर्थाध्याहारात्। प्रकृते चौपादानिकप्रमाणवशात्तच्छक्त्यैव। तच्छक्तयैवाशक्योपस्थित्यभ्युपगमे लक्षणोच्छेद इति न सांप्रतम्, स्वशक्तयाऽन्वयबोधकस्यैव स्वोपपादकसकलपदार्थबोधकत्वोपगमात्।
नच `गङ्गायां घोषः' इत्यादौ गङ्गादिपदानां स्वशक्तयान्वयबोधकत्वम्, येन तदुपपादकसकलपदार्थबोधनायौपादानिकप्रमाणावकाशः स्यात्। `अजहत्स्वार्थलक्षणा' तु नास्मान्मतसिद्धा। तथाच स्वीयत्वेन कार्य्यबोधो नियोज्यः, समभिव्याहृतपदोपस्थापितफलकामश्च तथेति काम्ये स्वर्गकामो नियोज्यः।
एवञ्च वेदबोधितमपूर्वमुद्दिश्य पूरुषप्रवृत्त्युपपत्तौ नेष्टसाधनत्वं विध्यर्थ-। इच्छाविषयसाधनत्त्वेन तत्र शक्तौ प्रवर्त्तकज्ञानानिर्वाहः, स्वर्गजनकतात्वेन शक्तौ नानार्थतापत्तेरिति तन्मतस्य विकल्पग्रस्तत्वाच्च।
अपिच नित्यनैमित्तिकस्ले शुचित्वकालजीविनो राहूपरागवतश्च मम सन्ध्यास्नानविषयको नियोग इति बोधान्न फलापेक्षा, भवन्मते तु `चन्द्रसूर्य्यग्रहे स्नायात्' अहरहः सन्ध्यामुपासीत्' इत्यादौ फलाश्रवणाद्विध्यर्थबाधः प्रसज्जयेत। मम तु वैदिक कर्मणि वेदबोधितमपूर्वमुद्दिश्यैव पूरुषः प्रवर्त्तते, तस्यैव वेदेन पुरुषार्थत्वबोधनात्। काम्ये फलावाप्तिरानुषङ्गिक्येव। अत एव नित्येऽपि तदुद्देशेन प्रवृत्तिरुपपद्यते इत्याहुः।
तदपरे तु न क्षमन्ते, लोके प्रवर्त्तकत्वेन सर्वसम्मतं यदिष्टसाधनत्वज्ञानं तद्विषयेष्टसाधनत्वे विधिशक्तिकल्पनयैव विधेः प्रवर्त्तकत्वोपपत्तौ नियोगस्य विधिवाच्यत्वे मानाभावात्, वेदबोधितस्वर्गमाधनत्वानुपपत्त्या हि तत्कल्पनात्। नच तस्य पूर्वमुपस्थितिरस्ति येन तत्र शक्तिग्रहः। एकविशेषबाधे सामान्यज्ञानस्य तदितरप्रकारकत्वनियमेऽपि साक्षात्साधनतातिरिक्तसाधनतात्वेन बोधे बाधकाभावात्। तादृशसाधनत्वे योग्यतावच्छेदकं च परम्पराघटकमपूर्वम्। तथाच स्वर्गसाधनत्वशक्तयैव निर्वाहे औपादानिकप्रमाणवशादपूर्वोपस्थितावपि न तद्वाच्यम्। अपूर्वानुपस्थितौ परम्परासाधनत्वमपि कथं वेदो बोधयेदिति त्वनुपस्थितेऽपूर्वे कथं शक्तिग्रह इत्यनेन तुल्ययोगक्षेमम्।
एवं काम्याव्यवहितापूर्वसाधनं कामी कर्त्तव्यतयाऽवैतीत्यपि न, काम्यसाधनताज्ञानस्यैव प्रवर्त्तकत्वान्न तु तत्राव्यावहितत्वनिवशोऽपि, गौरवान्मानाभावाच्छ। दृश्यते च तृप्त्यर्थिनस्तत्प्रयोजके जलाऽऽहरणादौ प्रवृत्तिः। इष्टसाधनत्वे यथा शक्तिग्रहस्तथोक्तम्। अपूर्वस्याशक्यतवेऽपि यथा नित्यनैमित्तिके प्रवृत्तिस्तथोपपादितम्।
प्रत्युत तत्र तवैव सा दुरुपपदा, निष्फलत्वात्, दुःखैकफलत्वाच्च। प्रवृत्तिमात्रे इष्टसाधनताज्ञानस्य हेतुत्वावधारणात्। प्रवृत्तिविष्यसाध्यत्वे सदीष्टत्वरूपसाध्यत्वमपि नापूर्वस्य, येन तदुद्देशेनापि प्रवृत्तिः सम्भाव्येत। निष्फलतयाऽवगते प्रवृत्तिस्तु श्रुतिसहस्त्रेणाप्युत्पादयितुमशक्येति वेदबोधितत्वान्नित्ये प्रवृत्तिरिति छात्रप्रतारणामात्रम्।
अत एव यज्ञो दानं तपः कर्म' इत्यादिनाऽनिर्दिषेटोऽपि प्रत्यवायपरिहारः स्वर्गादिफलमनुद्दिश्य क्रियमाणानामेषां फलं भवतीत्यर्थकेनाष्टादशाध्याये भगवद्गीतासु पावनत्वमुक्तम्। किच्छ पचेत्त्यादिलौकिकविधेरिष्टसाधनत्वबोधकत्वेन प्रवर्त्तकत्ववद् वैदिकविधेरपि तच्छक्तयैव प्रवर्त्तकत्वात् ज्ञाननिर्वाहे तस्यनुपस्थितापूर्वे शक्तिकल्पनं निष्प्रमाणकमेवेति।
परेतु-लिङादिश्रवणे `अयं मां प्रेरयति' इति नियमेन प्रतीतेरभिधानामकः प्रेरणापरपर्य्यायो व्यापारो लिङादिवाच्यः। सा च लिङ्गसङ्ख्यानन्वयित्वाद् व्यापारपदेन प्रवर्त्तकनिष्ठत्वात् प्रवर्त्तनापदेन च व्यावह्रियते। प्रेरणात्वेन तस्याः सविषयत्वमपि शक्यताऽवच्छेदकं च प्रेर्य्यादिधात्वर्थतावच्छेदकतया सिद्धं प्रेरणात्वमखण्डोपाधिः।
स च व्यापारः सम्भवाल्लोके प्रवर्त्तकपुरुषनिष्ठोऽभिप्रायविशेष एव। तत्प्रवर्तकत्वे च लिङाद्युच्चारयितृत्वम्। वेदे तु प्रयोक्तुरसम्भवाल्लिङाद्यन्तशब्दस्वरूप एव, प्रवर्त्तकत्वञ्च लिङाद्युच्चारयितृत्वे सति स्वतन्त्रत्वम्। राजादिप्रेरितपदातेर्लिङाद्युच्चारयितृत्वेऽपि प्रवर्त्तकत्वेनाव्यावह्रियमाणत्वात्। *स्वतन्त्रेति* अद्विष्टयाऽऽप्तोक्तया च तया स्वविषय इष्टसाधत्वानुमानम्। ततश्च प्रयोज्यप्रवृत्तिः। शत्रूक्ताद्विषं भुङ्क्ष्वेत्यतो विषभोजने इष्टसाधनत्वानवगते * आप्तोक्तयेति* आप्तोक्तयापि `विषं भुङ्क्ष्व' `मा चास्य गृहे भुक्ङ्थाः' इत्यादिकयापि तस्मिन्निष्टसाधनत्वाननुमानात् *अद्विष्टेति* तत्र विषभेजनविषयकाभिप्रायस्य तदीयद्वेषविशिष्टत्वान्न व्यभिचारः।
भवतु वा लिङादिसमभिव्याहारे व्यापारान्तरस्याननुभवात् सर्वत्र लिङ्द्यन्तशब्दस्वरूपैव सा। अत एव "पृच्छतु मां भवान्' इत्यत्र णिच् कस्मान्न भवतीति प्रश्ने, अकर्त्तृत्वादित्युत्तरम्। सक्रियप्रेरणायां णिच्, निष्क्रियप्रेरणायां लोडादि। `तत्प्रयोजकः' इत्यत्र तत्पदेन व्यापाराविष्टः कर्त्तोच्यते इति तद्भावः।
अथापि कथञ्चित् कर्त्ता स्यात्, एवमपि न दोषः, लोटोक्तत्वात् प्रेषणस्य णिज् न भविष्यतीत्युक्तम्। तत आहत्यैव प्रेरणाया विध्यर्थत्वं लभ्यते। विधिनिमन्त्रेति सूत्रभाष्येऽपि विधिः=प्रेरणमित्युक्तेश्च। तस्मान्नेष्टडसाधनत्वादि विध्यर्थः।
किञ्चेदं ते इष्टसाधनम्, तस्मात् त्वं कुर्विति स्वारमिकव्यावहारादपि न तस्य विध्यर्थत्वम्, पौनरुक्तयापत्तेः, पौनरुक्तयस्य सर्वथेष्टसाधनत्वबोधनतात्पर्य्यकत्वेऽपि तस्मादित्यस्यानन्वयापत्तेश्चेत्याहुः। स च प्रायशो भट्टमतानुवाद एव। यतो भट्टमते लिङर्थोऽभिधाख्यो व्यापारः। स च लोके प्रयोक्तृपुरुषनिष्टोऽभिप्रायविशेष एवेत्यादि प्राग्वत्। वेदे त्वन्यस्याऽ।सम्भवाल्लिङगद्यन्तशब्दनिष्ठ एव सः, समवेतश्चात एव सा `शाब्दी भावना' इति व्यवह्रियते।
भावनायाः शब्दार्थभेदेन द्वैविध्यादाख्यातवाच्याऽऽर्थोति व्यवह्रियते। भावनात्वेन लिङर्थसाब्दभावनायाः सविषयत्वमपि भावनाया भाव्यकरणेतिकर्त्तव्यतारूपांशत्रयविशिष्टत्वादभिधाभावनायाः सविषयकत्वेनावगतायाः किं भावयेदिति भाव्याकाङ्क्षायां समानप्रत्योपात्तत्वप्रत्यासत्त्यांऽशत्रयविशिष्ट स्वविशयप्रवृत्तिरूपाख्यातवाच्यार्थो भावना विषयत्वेनोपतिष्ठते। इयमेव साध्याकाङ्क्षेति व्यवह्रियते, साध्यताख्यविषयतयैव तस्याः सविषयत्वात्।
एव़ञ्च तस्याः साध्यत्वावगते केनेति करणाकाङ्क्षायां लिङादिपदज्ञानं करणत्वेनाऽन्वेति। करणत्वञ्च भावनाभाव्यनिर्वर्त्तकत्वमेव, कुठारादेरपि पुरुषव्यापारनिर्वर्त्त्यच्छिदा निर्वर्त्तकत्वेनैव करणत्वात्। इयमेव भावना करणाकाङ्क्षेत्युच्यते।
`कष्टं कर्म' इति न्यायादुपाये द्वेषणाऽऽलास्यादिना वा अप्रवर्त्तमानं पुरुषं प्रति प्रशस्तफलवत्ताबोधनेन द्वेषाद्यपसारणेनार्थवादवाक्यजन्या प्राशस्त्यरूपा स्तुतिः सहकारिकारणमितीयमितिकर्त्तव्यतेत्युच्यते। एवमार्थोभावनाया अप्यंशत्रयवैशिष्टयेन तदवगतौ किं भावयेदित्याकाङ्क्षायां स्वर्गकामादिपदसन्न्धानात् स्वर्गो भाव्यतयाऽन्वेति स्वर्गं भावयेदिति। यदपि स व्यापारस्त्यागविषयोऽपि तथाऽपि तस्याऽसुखरूपतयाऽपूरुषार्थत्वेन करणत्वेनैवोपस्थित्या च न भाव्यत्वम्।
अत एव तत्समानाधिकरणज्योतिष्टोमादिपदात्तृतीया। केनेत्याकाङ्क्षायां यागः करणत्वेनाऽन्वेति। करणत्वं तूक्तमेव। सहकार्यकाङ्क्षारूपे कथं भावाकाङ्क्षायां च "समिधो यजति" इत्यादिवाक्यवगतसमिन्नामकयागादिक्रियाजातमितिकर्तव्यतयाऽन्वेतीत्यधिकमन्यतोऽवधार्त्यम्। तदुक्तम्-
अभिधाभावनामाहुरन्यामेव लिङादयः।
अर्थात्मभावना त्वन्या सा चाख्यातस्य गोचरः।।
लिङोऽभिधा सैव च शबादभावना भाव्या च तस्याः पुरुषप्रवृत्तिः।
सम्बन्धबोधः करणं तदीयं प्ररोचना चाऽङ्गतया प्रयुज्यते।। इति।
उक्तोऽर्थः। तत्र पूर्वोक्तमते भट्टमतादियान् विशेषः-यद्भट्टमतेऽभिधाख्यो वैदिकलिङर्थो व्यापारः शब्दसमवेतस्तदतिरिक्तश्च। तस्मिंस्तु लिङाध्यन्तशब्दात्मक एव लोकवेदसाधारणश्च। सविषयकत्वं तु मतद्वयेऽप्यविशिष्टमिति।
अत्र वदन्ति-अभिधा-लिङादिनिरूपिता शक्तिरेव, नतु तदतिरिक्तः कश्चन शब्दसमवेतो व्यापारः, मानाऽभावात्। विधेः प्रवर्त्तकत्वस्य पूर्वमुपपादनात् तदनुपपत्तेरप्यभावात्। अन्यथा शब्दाऽतिरिक्तः शब्दसमवेत एको व्यापारः कल्पनीयः। तस्य च स्वप्रवृत्तौ परप्रवृत्तौ वा कारणत्वेनाऽक्लृप्तस्य तत्त्वेन कारणत्वम्। प्रवर्त्तनात्वेन परनिष्ठव्यापारबोधकत्वेन क्लृप्तस्य शब्दस्य स्वनिष्ठव्यापारबोधकत्वं सविषयकत्वं च भट्टैः कल्पनियमिति गौरवस्य स्फुटत्वाच्च।
प्रेरणाया विध्य्रथत्वेऽपि सामान्यस्य विशेषे पर्य्यवसानात् कोऽसौ व्यापार इति विशेषगवेषणायां समीहितसाधनत्वमेव स इत्येव वक्तुमुचितम्। लिङस्तदर्थकत्वं विना प्रवर्त्तकत्वस्यैवाऽसाम्भवात्। प्रेरणाविषयः पाक इति बोधस्येष्टसाधनत्वाद्यविषयकस्य प्रवर्त्तकत्त्वं लोकविरुद्धमेव। न खल्वागमसहस्त्रप्रेरितोऽपि स्वेष्टसाधनत्वमज्ञात्वा प्रवर्तते कश्चिदित्यपि सर्वसिद्धमेव। मखकरणस्य स्वनिष्ठव्यापारद्वारैव फलजनकत्वमिति नियमस्तु नास्त्येव व्याप्तिज्ञानादै व्यभिचारात्। तस्माल्लिङादिजन्यबोधविषयाऽभिधाया इष्टसाधनत्वादिज्ञाननिरपेक्षायाः प्रवर्त्तकत्वं निर्युक्तिकमेव।
शब्दरूपप्रेरणावादिनाऽपि तद्विषय इष्साधनत्वानुमितिद्वारैवोक्तयुक्त्या प्रवर्त्कत्वं वाच्यम्। तच्च वैदिकविधिस्थले न सम्भवति। "तस्यैव महाभूतस्य निश्वसितमेतद् यद्दग्वेदो यजुर्वेदः सामवेदः" इति श्रुत्युपष्टम्भेन निःश्वसितवद्वेदे तैर्जन्यत्वाऽङ्गीकारेण यथार्थज्ञानवदुच्चरितत्वरूपाऽऽप्तोक्तत्वरूपविशेषणवैकल्येनोक्तानुमानाप्रवृत्तेः। एवं सविषयत्वमप्यात्मविशेषगुणातिरेकिण्यास्तस्या सर्वतन्त्रविरुद्धम्।
नच प्रेरणैव स्वतन्त्र्येण प्रवृत्तिहेतुः, स्वतन्त्रप्रवृत्तौ व्याभिचारात, "सर्वइमे स्वभूत्यर्थ प्रवर्त्तन्ते" इति समीहितसाधनताज्ञानप्रवर्त्तकताप्रतिपादकहेतुमतिचेतिसूत्रभाष्यविरोधाच्च। "कः प्रयोज्यस्य प्रेरणयाऽर्थो यदभिप्रायेषु सज्जते" इति तत्सूत्रस्थभाष्येण णिजर्थप्रेरणाया अपि स्वातन्त्र्येणाप्रवर्त्तकत्वबोधनाच्चेति वैदिकविधेः प्रेरणाऽर्थकत्वासम्भवेन प्रवर्त्तकत्वानुपपत्त्येष्टसाधनत्वाऽर्थकत्वमेवाऽङ्गीकरणीयम्।
एवञ्च लौकिकविधेरपि तच्छक्त्यैव व्रवर्त्तकत्वोपपत्तौ न तदर्थोऽपि सा। अभिप्राय एव तत्र विध्यर्थ इति कल्पस्तु वक्ष्यमाणाऽऽचार्यमतनिरासेनैव निरस्तः। विधिः प्रेरणमिति भाष्यं तु प्रेर्य्यते प्रवर्त्यतेऽनेनेति व्युत्पत्त्या प्रवर्त्तकज्ञानविषयेष्टसाधनत्वपरम्। ज्ञानस्य तद्विषयकत्वेनैव प्रवर्त्तकत्वात्।
यदपि तदुपष्टम्भकतया `पृच्छतु मां भवान्' इत्यादिभाष्योपन्यसनं तदपि नाऽस्माकं प्रतिकूलम्, यतस्तेन प्रवर्त्तकज्ञानजनकत्वेन प्रवर्त्तनापदव्यपदेश्याया लोङाद्यन्तशब्दप्रयोगरूपायाः प्रेरणाया णिजर्थत्वं प्रतिपाद्यते, नतु विध्यर्थत्वमपि, अर्थभेदस्य दर्शितत्वात्। अकर्त्तृत्वादित्यनेनाऽपि गमयत्यादेर्गच्छन्तं प्रेरयतीतिवत्, पृच्छत्वित्यस्य पृच्छन्तं प्रेरयतीति `विग्रहस्यऽदर्शनेन कर्त्रसम्बन्धधात्वर्थविषयकप्रवृत्तिजनकज्ञानाऽनुकूलायास्तस्या णिजर्थत्वाऽभावप्रतीपादनात् तद्विरोधाभावात्।
अथाऽपीत्याद्युक्तिस्त्वेकदेशिनः, विध्यर्थकप्रत्ययवकृत्यर्थस्य स्वाभाव्येन भविष्यत्तयैव प्रतीतेः। तदानीं प्रयोज्यस्य निर्व्यापारत्वेन कर्तृत्वासम्भवात्, एवं लोटा प्रेषणास्य उक्तत्वादित्यपि लोङर्थप्रेषणस्य धात्वर्थविशेषणतयैव भानात् तद्विशेष्यतया प्रेरणाविवक्षायां णिचो दुर्वारत्वात्, लोडन्ताद्धात्वर्थविशेष्यतया प्रेरणाया अप्रतीतेः पूर्वपक्षस्यैव निर्द्दलतापत्तेश्च। इदं ते इष्टसाधनमित्याद्युक्तिस्तु सर्वथेष्टसाधनत्वबोधनपरैव, इष्टसाधनत्वस्य प्रवर्त्तनात्वेन विधिवात्त्यात्वमिति पक्षे पौनरुक्त्यसम्भवात्, नैयायिकमते कृत्यात्मकव्यापारस्य पच्याद्यर्थत्वाभावेन तन्मते इष्टसाधनतात्वेनेष्टसाधनत्वस्य विध्यर्थत्त्वे पौनरुक्त्यापादनानवकाशाच्चेति।
वस्तुतस्तु भाष्ये बहुषु स्थलेषु प्रेरणाया विद्यर्थकत्वकथनात् तत्प्रामाण्याल्लिङाद्यन्तशब्दप्रयोगरूपाया एव तस्या विध्यर्थत्वमुचितम्। श्रुतेस्तु "तस्माद्यज्ञात्सर्वहुत ॠचः सामानि जज्ञिरे" "धाता यथापूर्वामकल्पयत्" इत्यादिश्रुतिबलात् पौरुषेयत्वमभ्युपेत्यैकरूपेणैव लोकवेदयोस्तद्विषये इष्टसाधनत्वाऽनुमानेन विधेः प्रवर्त्तकत्वं निर्वाह्यमिति सर्वं चतुरस्त्रमिति।।
आचार्यस्तु-आत्माऽभिप्रायो विध्यर्थः, पाकं कुर्याः, पाकं कुर्यामिति मध्यमोत्तमपुरुषयोर्लिङ इच्छाविशेषात्मकाज्ञाऽध्येषणानुज्ञाप्रशनप्रार्तनार्थकतया प्रथमपुरुषेऽपिच्छायामेव शक्तेरुचितत्वात्। तत्र भयजनिकेच्छा आज्ञा। अध्येषणीये प्रयोक्तुरनुग्रहद्योतिका साऽध्येषणा। निषेधाभावव्यञ्जिकेच्छाऽनुज्ञा। उत्तरप्रयोजिका तु प्रश्नः। प्राप्तीच्छा प्रार्थनेति विवेकः। तथाच `स्वर्गकामो यजेत' इत्यत्र यागः स्वर्गकामनिष्ठतयाप्तेच्छाविषय इति बोधः।
यद्वा कर्त्तव्यत्वेनेच्छैव विध्यर्थः। तथाचेष्चसाधनत्वाऽनुमानम्। तध्यथा स्वर्गकामस्य मम याग इष्टसाधनम्, कर्त्तव्यत्वेनाऽऽप्तोक्तलिङ्बोध्येच्छाविषयत्वात् मत्पित्रष्यमाणमद्भोजनवत्। विषभोजनादेरपि कस्यचित्कृतिसाध्यतया कर्त्तव्यत्वेनेश्वरूपाप्तेच्छाविषयत्वेन तत्रेष्टसाधनत्वरूपसाध्याभावात् व्याभिचारवारणाय लिङ्पदबोध्येति। आप्तस्तु बैदिकस्थले ईश्वर एव। तस्मिन् विधिरेव तावत्, कुमार्या गर्भ इव पुंयोगे मानमित्याहुः।
तदपि न कृत्यसाध्यनिष्फलाऽनिष्टे प्रवृत्तिवारणायेष्टसाधनतादिज्ञानहेतुताया आवस्यकत्वेन तद्विषयेष्टसाधनत्वादीनां विध्यर्थत्वोपगमेनैव प्रवृत्तिनिर्वाहे आप्तभिप्रायस्य विध्यर्थत्वे मानाभावात्। नहीष्टसाधनत्वज्ञानमन्तरेणाप्तेच्छाविषयत्वज्ञानमात्रात् प्रवृत्तिः कस्याऽपि दृश्यते। स्वतन्त्रप्रवृत्तौ व्यभिचारेणाप्ताऽभिप्रायज्ञानस्य प्रवर्तकत्वाऽसम्भवाच्चेत्यलम्। प्रकृतमनुसरामः। *प्रपञ्चितञ्चैतदिति* बलवदनिष्टाऽननुबन्धित्वज्ञानस्य प्रवर्तकतानिराकरणमिष्टसाधनताज्ञानस्य प्रवर्तकत्वाऽवधारणं चेत्यर्थः। प्रपञ्चस्तूक्तप्रायः।
*आदिनेति* प्रेरणादौ चेत्यत्रोपात्तादिशब्देनेत्यर्थः। *योब्राह्मणायाऽवगुरेदिति* यत्कर्तृको ब्राह्मणोद्देश्यको वधोद्यमस्तत्कर्मिका तादृशवधोद्यमजन्या शतसंवत्सरयातनेति बोधः, "हेतुहेतुमतोर्लिङ्" (पाo सूo 3-3-156) इत्यनेन प्रकृत्यर्थयोर्भावे लिङो विधानात्। प्रवर्तकत्वेन निवर्तकत्वेन वा वेदस्य प्रामाण्यात्तेन वधोद्यमनिवृत्तिपरत्वग्रहे तस्मान्नावगुरितव्यमिति विधिः कल्प्यत इति भावः। मात्रपदं कृत्स्नार्थकमित्यभिप्रायवानाह-*भूतसामान्य इति* तेन विशेषविवक्षायां लङादीनामवकाशं सूचयति-*भूते लुङिति*। `भूते' इत्याधिकृत्य, लुङ्' इति सूत्रादित्यर्थः। ननु वर्त्तमानध्वंसप्रतियोग्युत्पत्तिकत्वं भूतत्वम्। अत एव घटनाशस्य विद्यमानतादशायामपि, विनष्टो घट इति प्रयोगः, तदुत्पत्तेर्वर्तमाननाशप्रतियोगित्वात्। तथाच यत्रोत्पत्तिरेव धात्व्रथस्तत्रोत्पत्तेर्द्वेधाभानप्रसङ्गोऽत आह *अत्रेति* भूत इति सूत्रे इत्यर्थः. *वर्त्तमान इत्यादि*। नचोक्तदोषः, अस्मन्मते नश्यत्यादेर्नाशानुकूलव्यापारार्थकतया कालान्वयस्यापि व्यापार एव समर्थितत्वेन च तदप्रसक्तेरुत्पत्त्यघटितत्वेन द्वेधाभानाऽसम्भवाच्च। वस्तुतस्तु `आत्मा आसीत्' इति प्रयोगोपपत्तये भविष्यत्त्ववद् भूतत्वस्यापि उत्पत्तिघटितस्य लङर्थत्वामावश्यकमिति बोध्यम्। *क्रियायामिति* फलानुकूलायां तस्यामित्यर्थः। *विद्यमानेऽपि* इत्यपिना समानप्रत्ययोपात्तत्वप्रत्यासत्त्याऽऽख्यातार्थकारके कालान्वयोपगम उक्तप्रयोगानुपपत्तिः सूच्यते।
नैयायिकास्तु-उत्पत्त्यघटितत्वेन लाघवादुक्तार्थ एव भूतपदस्य शक्तिः। परन्तु नश्यत्यादौ नाशातिरिक्तस्य व्यापारान्तरस्याननुभवात्तत्रोत्पत्तिघटिते प्रत्ययस्य लक्षणाऽवश्यकीत्याहुः।
*भूते भाविनीति*। कार्यकारणभावापन्नप्रकृत्यर्थयोर्भूतत्वे भविष्यत्त्वे वा गम्यमान इत्यर्थः। *हेतुहेतुमद्भावादीति* आदिना शक्तयादिपरिग्रह। तत्र भविष्यदर्थे उदाहरणमाह-*सुवृष्टिश्चोदिति* अत्रै3कस्यैव धात्वर्थस्य कर्तृरूपोपाधिभेदेन कार्य्यकारणभावावगतिः, उत्तरत्र तु स्वरूपतो भिन्नयोस्तयोरिति विशेषः। *व्यापाराभाव इति ्* धात्वर्थयोर्भविष्यत्त्वप्रदर्शनार्थं परमभावविशेष्यकबोधोत्कीर्तनम्। वह्नयभिन्नाश्रयकभाविप्रज्वलनजन्यौदनाऽऽश्रयकविक्लित्यनुकूलव्यापार इति शाब्दबोधस्तूचितः। *प्रयोज्य इति* व्यापाराभावान्वयि प्रयोज्यत्वोत्कीर्तनं च वह्निप्रज्यवलनौदनपाकयोः कार्य्यकारणभावप्रदर्शनाय, `यदभावो यदभावप्रयोज्यः स तज्जन्य' इति नियमात्। तथाच प्रकृते ओदनपाकाभावे वह्निप्रज्वलनाभावप्रयोज्यत्वेऽवगते तत्प्रतियोगिनोस्तयोः कार्य्यकारणभावः सुबोधो भवतीति भावः। एवं भूते-
परस्परेण स्पृहणीयशोभं नचेदिदं द्वन्द्वमयोजयिष्यत्।
अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां विफलोऽभवष्यत्।।
`मञ उञो वेत्यवक्ष्यत्' यणञ्चान्ववर्तयिष्यदित्यादि बोध्यम्। यदि देवदत्तो नाभविष्यदित्यादि बोध्यमित्याह *एवंरीत्येति*। *अयञ्चेति* वर्त्तमाने लडित्यादिनोपात्त इत्यर्थः * अर्थान्तरेऽपि* अर्ह प्रशंसाप्राप्तकालाद्यर्थेऽपित्यर्थः। एषु वर्त्तमानत्वादिषु शक्तिः सङ्केतरूपा, पदार्थन्तररूपा वा *अन्यत्र* आर्हद्यर्थे। *अनुबन्धक्रम इति* अकारद्यनुबन्धक्रम इत्यर्थः। ननु यत्र प्रत्ययस्य, तिबादेरदर्शनं तत्रद्यतकत्वं वाचकत्वं वेति पक्षद्वयेऽप्यनुपपत्तिः, वाचकस्य द्योतकस्य वाऽत्त्वेन वर्तमानत्वादिबोधस्योपपादयितुमशक्यत्वादत आह *दिगिति* तदर्थस्तु `पदं वाचकम्' इति पक्षे प्रकृतिप्रत्ययविभागकल्पनया वाचकत्वं तत्रारोप्य पदशक्तिरेव व्युत्पाद्यते। यत्र प्रकृतेर्वा अश्रूयमाणत्वं तत्र श्रूयमाणस्यैव तदर्थकत्वं कल्प्यते। तदाहुः "शिष्यमाणं लुप्यमानाऽर्थभिधायि" इति। अत एव, `व्यतिसे' इयानित्यादौ प्रत्ययमात्रात्प्रकृत्यर्थविषयको बोध इत्यादिः(1-23)
।। इति भूषणसारदर्प्पणे लकारार्थनिर्णयः ।। 2 ।।
(1-24) अवसरसङ्गत्या सुबन्तार्थे प्रातिपदिकार्थविशेष्यत्वात् क्रियाकाङ्क्षितत्वाच्चादौ (कारक) विभक्त्यर्थनिरूपणमित्यभिप्रायवानाह *सुबर्थमिति*।
*आश्रयोऽर्थ इति* किञ्चिद्धर्मानवच्छिन्नाश्रयतावानित्यर्थः। तेन चतुर्थो-पञ्चम्योरर्थयोरुद्देश्यावध्योराश्रयात्मकत्वेऽपि न क्षतिः। तत्र द्वितीयाया आश्रयार्थकत्वे मानमाह-*तथाहीत्यादिना*।
ननु यथाश्रुते `कर्त्तुरीप्सततमम्' इत्यनेन कर्त्तृसम्बन्धिप्राप्तीच्छाविशेष्यस्यैव कर्मत्वं प्रतिपाद्यते, नतु क्रियाजन्यफलाश्रयस्येत्यत आह *क्रियाजन्यफलवत्त्वेनेति* अयं भावः-`ईप्सिततम' शबद् आप्नोतेरिच्छासन्नन्तात् कर्मक्तान्तात् प्रकृत्यर्थातिशयद्योतके तमपि निष्पन्नः। तद्योगाच्च कर्त्तृशब्दात्, "क्तस्य च वर्त्तमाने" (पाo सूo 2-3-67) इति कर्त्तरि षष्ठी। तथाच कर्त्रोपस्थितत्वात् स्वीयव्यापारेण व्याप्तुमिष्यमाणतमं व्यापारजन्यफलसम्बन्दित्वप्रकारककर्त्तृनिष्ठोत्कटेच्छाविषयः कर्मेति पर्य्यवसानात् क्रियाजन्यफलाश्रयस्य कर्मतालाभ इति। नचेच्छाकर्मोभूतार्थंधातेरेव "धातोः कर्मणः" इति सूत्रेणेच्छायां सनो विधआनाद् व्याप्तीच्छार्थकसन्नन्तधातुना व्याप्तिरूपकर्मोपसंग्रहाज्जीवत्यादिवदकर्मकतया ततः कथं कर्मक्तोपपत्तिरिति वाच्यम्, धात्वर्थोपसङ्ग्रहीतकर्मत्वमित्यत्र कर्मणा तद्धात्वर्थोयकर्मान्तरानाकाङ्क्षत्वविशेषेण सन्प्रकृतिधात्वर्थकर्मणः कर्मान्तरसाकाङ्क्षत्वेनोक्ताकर्मकत्वस्य सन्नन्ते असम्भवात्। एवं सन्नन्तस्य वृत्तितया तद्घटककर्माऽऽदाय कर्म्मसंज्ञकान्वय्यर्थकत्वरूपसकर्मकत्वाभावेऽपि तद्बहिर्भूतकर्मान्वयित्वमादायैव सकर्मकत्वं बोध्यम्। एवं फलतावच्छेदकसम्बन्धेन तद्धात्वर्थफलव्यधिकरणव्यापारवाचकत्वरूपं तदपीति नेष्सत्यादितः कर्मप्रत्ययानुपपत्तिः। जिघ्रतेरपि स्वार्थान्तरभूतकर्मणस्तदीयपुष्पादिकर्मान्तरसाकाङ्क्षत्वमस्त्येव। गन्धनिरूपितलौकिकविषयितायां पुष्पादेः स्वनिष्ठाधेयत्वीसांसर्गिकविषयतानिरूपितप्रकारतानिरूपकत्वेनान्वयेन कर्मत्वात्।
`कष्णाय राध्यति' इत्यस्य `कृष्णस्य शूभाशुभं पर्यालोचयति' इत्यर्थान्न धात्वर्थान्तर्भूतशुभाशुभकर्मणः कर्मान्तरसाकाङ्क्षमिति न तत्रातिप्रङ्गः। बुभूषत्यादीनां तु भवनाऽऽदिकर्मणः कर्मान्तरानाकाङ्क्षस्य धात्वर्थतावच्छेदककोटिप्रविष्टत्वादकर्मकत्वं व्यक्तमेव। एवं `स्वर्यते' इति भाष्यप्रयोगस्थस्वरवद्रूपविकृतिकर्मणः सन्निहितशब्दरूपप्रकृतिकर्मसाकाङ्क्षतया करोत्यर्थणिजन्तात् कर्मप्रत्ययोपपत्तिरिति बोध्यम्। केचित्तु-सनाद्यन्तस्य धात्वर्थोपसङ्गृहीतत्वेनाकर्मकत्वेऽपि तत्प्रकृते सकर्मकत्वमादाय तस्मात् कर्मप्रत्ययोपपत्तिमाहः।
ननु तथापीष्टाघटितस्य भवदुक्तस्य कथं कर्मलक्षणत्वमत आह-*तथायुक्तमिति* कर्मव्यवहारस्य द्वेषोदासीनयोरप्यविशिष्टत्वात्तत्साधारणस्यैव लक्षणत्वमुचितम्। इच्छाघटितस्यैव तस्य लक्षणत्वे तु द्वेष्यादिकर्मण्यव्याप्तिः स्यात्। तथाच तत्साधारण्यायेदमेवाश्रयितुं युक्तमिति भावः। *एवमेवेति* इत्थमेवेत्यर्थः। ननु द्वितीयाया उक्तकर्मार्थकत्वे `हरिं भजति' इत्यादौ हर्य्यादेरीप्सितत्वादिना शाब्दबोधे भानानुपपत्तिरत आह-*ईप्सितानीप्सितत्वयोरिति*। *भानाभावेनेति* सार्वजनीनतयाऽनुभवाभावेनेत्यर्थः. ननु तर्हि क्रियाजन्यफलाक्षयः कर्मेत्येव सूत्र्यतामत आह-*संज्ञायामेवेति*
अयमाशयः- क्रियाजन्यफलाश्रयः कर्मेति सूत्रप्रणयते यद्यपीप्सितानीप्सितयोरविशेषण संज्ञा सिद्धयति, तथाप्यग्नेर्माणवकं वारयतीत्यादौ क्रियाजन्यफलभागित्वेनेष्टस्य माणवकस्यापि विशेषविहितेन "वारणार्थनाम्" (पाo सूo 1-4-27) इत्यनेनापादानसंज्ञा प्रसज्जयेत। सूत्रन्तु `हरिं भजति' इत्यादौ चरितार्थम्। तत्परिहारायेप्सिततमत्वस्य संज्ञाकोटौ निवेशे अप्राप्तद्वेषोदासीनसंज्ञाविधानार्थमुत्तरसूत्रमिति तथा भोक्तमिति। ननु तथापि पञ्चम्या इव न द्वितीयाया अप्याश्रयमात्रार्थकता, किन्तु विशिष्स्यैवेत्यत आह-
*तथाचेति*। *आश्रय एव* इत्येवकारेण विशिष्टार्थस्य शक्यत्वव्यवच्छेदः। नन्वाश्रयत्वस्य तत्तत्स्वरूपात्मकस्य तत्तदाश्रयभिन्नत्वात्, कथं तस्य शक्यतावच्छेदकत्वम्, अनुगतधर्मस्यैव तत्त्वादत आह-*तत्त्वञ्चेति* आश्रयत्वं चेत्यर्थः। *अखण्डशक्तिरूपमिति* शक्तिः=धर्मः; इतरपदार्थघटितमूर्त्तिकधर्मरूपमिति याव्त। आश्रय इत्यनुगतव्यवहारादाश्रयपद शक्यतावच्छेदकत्वाच्च तत्सिद्धिर्द्रव्यत्वादिवदिति भावः।
नैयायिकस्तु-आश्रयताया नियतान्यनिरूपितस्वरूपाया अनुगमकत्वाऽसम्भवः। शक्यतावच्छेदकत्वस्यापि विभित्वान्यतरत्वादौ व्यभिचारेण नाखण्डत्वसाधकत्वमिति न द्वितीयाया आश्रयोऽर्थः, तस्य प्रकृत्यैव लाभात्, प्रकृत्यर्थभिन्नत्वेन तत आश्रयस्याननुभवाच्च। किन्तु फलान्वयिनि वृत्तिरेव तदर्थः। कर्मणि द्वितीयेत्यस्य फलनिष्ठाऽधेयत्वान्वये प्रवृतितात्पर्य्ये तदुत्तरं द्वितीयेत्यर्थात् न तद्विरोधोऽपि अनादितात्पर्यग्राहकत्वेन परम्परया शक्तिग्राहकत्वाच्च न तद्वैय्यर्थ्यम्। आश्रयत्वन्तु न तच्छक्यम्। तस्य निरूपकतासम्बन्धेनैव फलान्वयित्वस्यभ्युपगन्तव्यतया निरूपकत्वस्य च वृत्त्यनियामकतयाऽभावप्रतियोगिताऽनवच्छेदकत्वेन विहगो भूमिं गच्छति, नच सूत्रस्वरभङ्गः, `शक्तिः करकम्' इति पक्षे तदयोगात्। आधेयताया अपि निरूपकतया करकधर्मत्वादित्याहुः।
*विक्लित्त्याश्रयत्वात् कर्मतेति* कर्मसंज्ञेत्यर्थः। एतेन कर्त्तगतप्रकृतधात्वर्थव्यावारप्रयोज्यतद्व्यधिकरणप्रकृतधात्वर्थफलाश्रयत्वं कर्मत्वमुक्तं भवति। यद् वक्ष्यति `उक्तप्रयत्वात् इति'। `अग्नेर्माणवक वारयति' इत्यादावग्न्यादावति व्याप्तिनिरासाय व्यापारे कर्तृगतत्वमुपात्तम्। वारयतेश्च संयोगानुकूलव्यापाराभावानुकूलव्यापारोऽपर्थः। `चैन्नो ग्रामं गच्छति' इत्यादौ चैत्रादेर्वारणाय व्याधिकरणेति। वैयाधिकरण्यञ्च-तदनधिकरणवृत्तित्वम्, नतु तदधिकरमावृत्तित्वम्, तस्य संयोगे असत्वेन ग्रामादावव्याप्तेः। तादृशवैयधिकरण्यविशिष्टाधिकरणतायाश्चैत्रादावसत्त्वान्नातिप्रसङ्गसम्भावन्ऽपि। `माषेष्वश्वं बध्गाति' इत्यादौ बन्धप्रयोज्यभक्षणाऽऽश्रयमाषाणां तत्त्ववारणाय प्रकृतधात्वर्थत्त्वं फलविशेषणम्। प्रकृतत्वञ्च-तत्र तत्र विशिष्योपादेयम्। `पयसौदनं भुङ्क्ते' इत्यादौ तु कर्मत्वाविवक्षणान्न द्वितीया, कृतभोनस्य पयोलोभेन प्रवृत्तावीप्सिततमत्वस्यापि पयसि सम्भवादिति।
ननु परैः कृञो यत्नमात्रार्थकत्वाभ्युपगमात् कथमुत्पत्तेः प्रकृतधात्वर्थत्वमत आह-*उत्पत्तेरिति* तथाच, कृञ उत्पत्तिरूपफालर्थकत्वस्य प्रागुपपादनान्नार्थासङ्गतिरिति भावः। *धात्वर्थत्वात्* इत्युक्त्या कृञः केवलयत्नर्थकत्वे घटादीनां कर्मत्वानुपपत्तिरपि दोषत्वेन ध्वन्यते। *आवरणभङ्गेति* प्राचीनमतानुसारेणेदम्। निष्कृष्टमते तु ज्ञानरूपफलस्य विषयतया घटादौ सत्त्वात्कर्मतेति बोध्यम्। नचाकर्मकताऽऽपत्तिः, फलतावच्छेदकसम्बन्धेन सामानाधिकरण्याभावात्। नैयायिकमते त्वेतादृशस्थले यथा घटादीनां कर्मत्वं तथोपपादित धात्वर्थनिरूपणावसरे।
ननु विद्यमानघटे ज्ञानजन्यावरणभङ्गस्य सम्भवेऽपि भाविविनष्टघटे निराश्रयस्य तस्यासम्भवेन तस्य कर्मत्वानुपपत्तिरत आह-*अतीतानागतेति*। तत्राऽऽश्रयताङ्गीकारेयुक्तिमाह-*अन्यथेति* तत्रावचरणभ्ङगास्वीकारे इत्यर्थः। *यथापूर्वमिति* जानातिक्रियाविशषणम्। पदार्थानतिवृत्तावव्ययीभावः। पूर्वमनतिक्रम्येत्यर्थ-। पूर्वज्ञानानतिक्रमोयस्मिँस्तदिति यावत्। घटस्य विद्यमानतादशायां तात्कालिकज्ञानस्य तद्घटे आवरणभङ्गजनकतयाऽतीतदशायामाधुनिकाज्ञनस्य तदजनकत्वेन पूर्वातिक्रमस्य तत्त्वात् पूर्वानतिक्रान्तज्ञानाभावस्य विषयस्याबाधात्तदृशप्रयोगस्य प्रामाण्यापत्तेरित्यर्थः। अतीतघटे आधुनिकज्ञानेनावरणभ्ङ्गेत्पादाभ्युपगमे तु तेन पूर्वज्ञानानतिक्रमात् तदभावस्य बाधाद्भवति तस्याप्रामाण्यमिति भावः।
ननु विनष्टे घटे वास्तवतदाश्रयतैव कथमत आह-*अतीतादेरिति* आदिना भाविपरिग्रहः। *नैयायिकानामिवेति* यथाऽनुभवानुरोधेन तस्मिन् विषयतया ज्ञानाश्रयताङ्गीकारस्तेषां तथास्माकमपीति भावः। नन्वतीतो घटो ज्ञानविषय इति प्रतीतेरस्तु नामतादृशघटस्य विषयतया ज्ञानाश्रयता; आवरणभङ्गश्रयतायान्तु न तथा साधकोपलब्धिरत आह-*सत्कार्य्येति*। तमेव दर्शयति-* "सदेव सोम्येदमग्र आसीत्" इति श्रुतेः कार्य्यजातं सूक्ष्मरूपेण प्रागवस्थितमेव। परमते जनकत्वेनाभिमतसामग्रीसम्बधानात्तु तदभिव्यक्तिर्भवति। कारणे सूक्ष्मरूपेणावस्थानमेव तत्प्रागभावः। तस्यामेवावस्थायां स भविष्यतीति व्यावह्णियते। ततः प्रच्युतमभिव्यक्तिलक्षणं धर्ममप्राप्तं जायत इति प्राप्ताभिव्यक्तिस्त्वस्तीति।
ननु सर्वदैव सति तस्मिन् कथं नास्ति नश्यतीति व्यावहारोऽत आह-*तिरोभावाभ्युपगम इति* तिरोभावाभिव्यञ्जकसामग्या तिरोभावेऽभिव्यञ्जिते सति, `नास्ति नष्टः' `इति व्यावहारः। लब्धक्रमायान्तु तस्यां नश्यतीति सत्कार्यवादसिद्धान्तः। प्रकृते घटस्य तिरोधानेऽपि सूक्ष्मरूपेण सत्त्वात्तत्रावरणभङ्गरूपफलाश्रयत्वं सूलभमिति भावः। उक्तनिष्कृष्ट कर्मत्वं विशदीकर्तुमाशङ्कते-*नन्विति*। *विभागस्य* इत्यस्य क्रियाजन्येत्यादि। ननु कर्मसंज्ञायाः परया कर्तृसंज्ञया बाधनेऽपि वास्तवकर्मत्वस्य तत्राबाधात् स्यादिव तादृशप्रयोगोऽत आह-*द्वितीयोत्पत्ताविति* इदञ्च प्रकृताभिप्रायेण। कारकविभक्त्युत्पत्तिमात्रस्यैव तन्नियम्यत्वात। *अन्यथेति* संज्ञाया अनियामकत्वे इत्यर्थः।
*द्वितीयाऽऽपत्तेरिति*`गमयति कृष्णं गोकुलम्' इत्यत्र णिजर्थव्यापारजन्यसंयोगानुकूलव्यापाररूपधात्वर्थफलाश्रयत्वस्येव, `पाचयति कृष्णेनौदनम्' इत्यत्रापि तादृशव्यापारजन्यविक्लित्त्यनुकूलव्यापाराश्रयत्वस्य तत्र सत्त्वादिति भावः। *शाब्दबोध इति* चैत्रनिष्ठसंयोगानुकूलश्चैत्रकर्तृको वर्तमानो व्यापार इति शाब्दबोध इत्यर्थः, तद्विषयस्याबाधादिति भावः। *तथाव्युत्पन्नानामिति* सामान्यतो धात्वर्थफलविशेश्यतानिरूपितप्रकारतासम्बन्धेन शाब्दबोधे आश्रयोपस्थितेर्हेतुत्ववादिनामित्यर्थः। बोधस्य स्वस्वव्युत्पत्त्यनुसारित्वादिति भावः।
चैत्रकर्मकच्रकर्तृकव्यापारशाब्धबोधस्य `चैत्रो ग्रामं गच्छति' इत्यादावननुभवादाह-*उच्यतां वेति* *कार्य्यकारणभावान्तरमिति* सामान्यतः कार्य्यकारभावकल्पेने उक्तातिप्रसङ्गेनाऽश्रयं प्रकृतधात्वर्थव्यापारानधिकरणत्वेन विशेष्य तादृशाश्रयोपस्थितेर्हेतुत्वस्य कल्पनान्न तादृशशब्दोधपत्तिरिति भावः। *समभिव्याहृतेति* प्रकृतेत्यर्थः। *उक्तप्रायत्वादिति* धात्वर्थविक्लित्त्याश्रयत्वात् कर्मतेत्यादिग्रन्थेनेत्यस्याऽदिः। गमेस्तत्र पार्थक्येनानुपादानादुक्तम्-*प्रायेति* वस्तुतस्तु फल्वयापारयोरित्यत्र फलत्वस्य तद्धात्वर्थजन्यत्वे सति तद्धातुजन्योपस्थितिविषयत्वरूपस्य निर्वचनाद्(तद्) व्यापारव्यधिकरणफलाश्रयत्वरूपकर्मत्वोक्तयैवानतिप्रसङ्गेनोक्तविशेषणस्य पार्थक्येन निविश इतिध्येयम्।
नैयायिकमतं दूषयितुमुपन्यस्यति-*नैयायिकास्त्विति*। *आद्यदोषेति* `चैत्रश्चैत्रं गच्छति' इति प्रयोगापत्तिरूपेत्यर्थः। *द्वितीयेति* प्रयागात् काशीं गच्छति चैत्रे `प्रयागं गच्छति' इति प्रयोगापत्तिरूपेत्यर्थः। *धात्वर्थताऽवच्छेदकत्वमिति* फलावच्छिन्नव्यापारस्य धात्वर्थत्वमितिवादिनां मतेनेदम्। तथाच तन्मते धात्वर्थताऽवच्छेदकफलशालित्वं कर्मत्वं द्वितीयार्थः पर्यवस्यति। *कार्य्यकारणभावेति* द्वितीयार्थपरसमवेतत्वस्य स्वनिष्ठप्रकारतानिरूपितविशेषतासम्बन्धेन शाब्दबुद्धि प्रति भावनात्वाच्छिन्नविश्ष्यतासम्बन्धेन धातुजन्योपस्थितेर्हेतुत्वान्तरकल्पनादित्यर्थः।
ननु भेदस्य केवलान्वयितया सर्वस्यैव परत्वेन चैत्रक्रियाया अपि मैत्रान्यसम्वेतत्वात् तद्वाच्यताङ्गीकारेऽप्युक्तदोषतादवस्थ्यमत आह-*परत्वञ्चेति* व्युत्पत्तिवैचित्र्यात्तु पदार्थैकदेशेऽपि परत्वे प्रतियोगितया प्रकृत्यर्थान्वयः, प्रकृते चैत्रसंयोगजनकक्रियायाः चैत्रभिन्नसमवेतत्वबाधान्न `चैत्रश्चैत्रं गच्छति' इति प्रयोगः। यत्र चोभयकर्मभ्यां मललयोः संयोगस्तत्र मल्लान्तरक्रियायाः स्वनिष्ठसंयोगजनिकायाः स्वभिन्नसमवेतत्वेऽपि तादृशक्रियायाः स्वस्मिन् बाधान्न `मल्लः स्वं गच्छति' इति प्रयोगः, स्वनिष्टसंयोगजनकस्वक्रियायां स्वभिन्नसमवेतत्वस्यायोग्यत्वेनाभानेऽप्यवाधितसंयोगजनकत्वं विशयीकृत्य `अभिचरन् यजेत' इत्यादाविव शाव्दबोदसम्भवात् तदर्थतात्पर्य्येण स्वं गच्छतीति प्रयोगो दुर्वार इति तु नाशङ्कनीयम्, परसमवेतत्वांशाविषयकस्य द्वितीयाऽधीनफलजनकत्वबोधस्य कूत्राप्यनभ्युपगमेन तादृशबोधे तद्भानसामग्या अप्यपेक्षणात् तस्याश्च प्रकृतेऽसत्त्वात्।
अथ स्वस्यापि द्वित्वावच्छिन्नभिन्नत्वात् `स्वं गच्छति' इतिप्रयोगवारणाय द्वितीयाप्रकृत्यर्थस्य प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वयो वाच्यः। तथाय `चैत्रो द्रव्यं गच्छति', `मल्लो मल्लं गच्छति' इत्यादिवाक्यानामप्रामाण्यापत्ति-, चैत्र-मल्लादिनिष्ठक्रियाया द्वितीयाप्रकृत्यर्थताऽवच्छेदकद्रव्यत्व-मल्लत्वावक्छिन्न भिन्नासम्वेतत्वात् तद्व्यक्तित्वानुपस्थितावपि शाब्दबोधस्यानुभवसिद्धतया तत्तद्व्यक्तिवावच्छिन्नप्रतियोगितयान्वयासम्भवात्, तद्व्यक्तित्वोपस्थापकपदाभावाच्च। एकधर्मवच्छिन्नप्रतियोगिताया अन्यवर्मावच्छिन्नसंसर्गत्वे मानाभावाच्च प्रतियोगिविशेषिताभावबुद्धेर्विशिष्टवैशिष्टयाऽवगाहित्वनियमात्।
तदुक्तं दीधितिकृता-`प्रतियोगिविशेषिताभावभानं तु विशिष्टवैशिष्ठयबोधमर्यादां नातिशेति' इतीति चेत् तर्हि क्रियान्वयिभेदाप्रतियोगितावच्छेदकत्वं द्वितीयार्थः। भेदे प्रकृत्यर्थस्याधेयतयाऽनवयाम्न पूर्वोक्तापत्त्यनुपपत्ती। ऩञ्समभिव्याहारे च नञा तात्पर्य्यवशाच्चैत्रश्चैत्रं न गच्छतीत्वादौ द्वितीयाप्रकृत्यर्थवृत्तित्वविशिष्टतदपारर्थभेदप्रतियोगितावच्छेदकत्वाभावः। क्वचिच्च चैत्रो ग्रामं न गच्छतीत्यादौ द्वितीयाऽर्थवृत्तीत्वविशिष्टधात्वर्थसंयोगजनकत्वाभावः। क्रियायां बोध्यते।
ये तु प्रकृत्यर्थवृत्तित्वविशिष्टसंयोगादिरूपफलस्यैव जनकत्वास्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन क्रियायामन्वयोपगमाद् भेदप्रतियोगिकावच्छेदकत्वस्य द्वितीयार्थत्वमन्तरेणाप्युक्तापत्तिमुद्धरन्ति, तन्मते वृत्त्यनियामकसम्बनध्सयाभावप्रतियोगिताऽनवच्छेदकतयोक्तस्थले उक्तसम्बन्धेन नञा संयोगाभावबोधानुपपत्तिः, `परसमवेत्वं द्वितीयार्थः' इति दीधितीविरोधश्च।
एवञ्च `चैत्रो ग्रामं गच्छति' इत्यत्र ग्रामवृत्तिसंयोगजनिका ग्राममवृत्तिभेदप्रतियोगितावच्छेदिका च या क्रिया गदनुकूलकृतिमाँश्चैत्र इति नैयायिकमतपरिष्कारः।
अत्र प्रत्यवतिष्टन्ते-नञ्रथप्रसज्यप्रतिषेधस्य प्रतियोगितया क्रियऽन्वयित्वमिति व्यावस्थापनात् कथं `चैत्रो ग्रामं न गच्छि' इत्यादौ नञः संयोगजनकत्वाभावबोधकत्वम्। उक्तञ्च-
पर्य्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ्।
प्रसज्जयप्रतिषेधस्तु क्रियया सह यत्र नञ् ।। इति ।
यत्र नञर्थांभावः क्रियया=धात्वर्थव्यापारेण प्रतियोगितया सम्बद्धो भवतीत्युत्तरार्द्धार्थः। तस्मात् तिङन्ते नञ्समभिवायाहारे क्रियाप्रतियोगिकाभावबोध एव न्याय्यः, नतु क्रियायां फलाभावस्य विभक्तर्थाभावस्य वा प्रथमान्तार्थे वा तिङर्थाभवस्य, क्लृप्तकारणविरहादिति।
अत्र वदन्ति-यद्धर्म्मावच्छिन्ने यद्धर्म्मावच्छिन्नत्वं येन संसर्गेण नञ्असभिव्याहारे प्रतियते तद्धर्म्मावच्छिन्ने तद्धर्म्मावच्छिन्नस्य तत्संसर्गावचिछिन्नप्रतियोगिताकाभावो नञ्चसमभिव्याहारे बुध्द्यते इति सकललोकानुभवसिद्धोऽयमर्थः। `प्रतियोग्यभावान्वयौ तुल्ययोगभेमौ, इति वदता दीधितिकृतोपनिबद्धः। एवञ्च चैत्रो ग्रामं गच्छतीत्यत्र नञअसमभिव्याहारे क्रियायां द्वितीयाऽर्थवृत्तित्वविशिष्टसंयोगजनकत्वस्य बोधात् तत्समभिव्याहारे तत्र तदभावस्य बोधो जायमानः केन वारणीयः। नच कारणभावः, नञर्थाभावप्रकारतानिरूपितविसेष्यतासम्बन्धेन शाब्दबोधे प्रतियोग्यन्वययोग्यार्थोपस्थिर्हेतुतया तस्याश्च क्रियायां सत्त्वात्। नतु नञर्थनिष्ठविशेष्यतानिरूपिताप्रकारतासम्बन्धेन बोधे धातुजन्यबावनोपस्तितेर्हेतुता, `चैत्रश्चैत्रं न गच्छति' इत्यादिवाक्यानामप्रामाण्यापत्तेः, चैत्रकर्मकचैत्रकर्त्तृकगमनक्रियारूपप्रतियोगिनोऽप्रसिध्द्या नञा तदभावस्य बोधयितुमशक्यत्वात्।
मन्मते तु चैत्रकर्तृकक्रियायां चैत्रवृत्तिसंयोगजनकत्वेऽपि चैत्रवृत्तिबेदप्रतियोगितावच्छेदकत्वस्य तस्यामसत्त्वेन नञा तदभावस्य प्रत्ययनात् प्रामाण्योपपत्तेः। अत एव परसमवेतत्वस्य द्वितीयार्थत्वमप्यावश्यकम्। नच त्वन्मतेऽपि चैत्रस्याकर्मत्वात् कथं तद्वाचकाद् द्वितीयोपपत्तिरुक्स्थेले इति वाच्यम्, मैत्रो गच्छति चैत्रम् न चैत्र इत्यत्र मैत्रक्रियाऽवच्छिन्नप्रतियोगिताकभेदवत्त्वतदीयसंयोगाश्रयत्वयोरुभयोर्द्वितीयार्थयोरबाधेन तदुपपत्तेः। अधिकमग्रे वक्ष्यते।
तस्माच्चैत्रो गच्छतीत्यादौ चैत्रो न कर्मेति व्यावहाराच्च, सर्वाथा कर्तृव्यावृत्तधात्वर्थव्यापारप्रयोज्यतद्व्यधिकरणधात्वर्थफलाऽऽश्रयत्वं कर्मत्वं निर्वाच्यम्। तत्र फलव्यापारयोर्धातुलभ्यत्वेऽपि वृत्तित्वे भेदप्रतियोगितवच्छेदकत्वपरर्य्यवसिते वैयधिकरण्ये च द्वितीयादेः शक्तिरनन्यलभ्यत्वात् स्वीकरणीयते; प्रकृतमनुसराः।
*विक्लित्त्यनुकूलेति* इदं तण्डुलान्यसमवेतक्रियाऽन्वयि।
यथाश्रुतं दूषयति-*तन्न रोयचामहे* इत्यादिना। ननु परसमवेतत्वस्य द्वितीयार्थत्वं विनाऽतिप्रसङ्गानिरासाद् गौरवं न दोषायेत्यत आह-*अतिप्रसङ्गः किमिति*। * तावदिति* परसमवेतक्रियाजन्यधात्वर्थताऽवच्छेदकफलशालित्वरूपकर्मत्वस्य द्वितीयार्थत्वस्वीकारेऽपि द्वितीयाऽतिप्रसङ्गस्य तादवस्थ्यादित्यर्थः। तमेवाह-*गमयति कृष्णमित्यादिना*। *द्वितीयापत्तेरिति* द्वितीयोत्पत्तावुक्तकर्मत्वस्य तन्त्रत्वे, `गमयति गोकुलं कृष्णम्' इत्यत्र णिजर्थनिरूपितनिरुक्तकर्मत्वस्येव पचिप्रकृतिणिजर्थकर्मत्वस्य कृष्णे सत्त्वेन पाचयत्यादिप्रयोगेऽपि प्रयोज्यकर्त्तृवाचकाद् द्वितीयापत्तेरतः संज्ञाया एव द्वितीयोत्पत्तौ प्रयोजकताऽङ्गीकरणीया। एवञ्च तत एवातिप्रसङ्गभङ्गे कृतं तत्र द्वितीयाशक्तयेति भावः।
ननु तादृशकर्सत्वमेव द्वितीयानियामकम्। निरुक्तस्थले कृष्णे तत्सत्त्वेऽप्युपात्तगत्यर्थकाद्यतिरिक्तणिजन्तधातुयोगे "गतिबुद्धि" इति सूत्रेण तदविवक्षाबोधनान्नोक्तापत्तिः, विवक्षाया एव विभक्त्युत्पत्तौ नियामकताया वक्ष्यमाणत्वादत आह-*तण्डुलं पच्यत इति* तण्डुले भवदुक्तद्वितीयानियामककर्मत्वस्य सत्त्वापत्तिः, मनमते तु कर्त्तृसंज्ञाया कर्मसंज्ञाया बाधान्न तदापत्तिरिति भावः। तण्डुलान्यसमवेतेत्यनेन परसमवेतक्रियाजन्यत्वं विक्लित्ततावस्तीति बोधितम्। धात्वर्थाश्रयत्वादित्यनेन कर्त्तृसंज्ञासत्त्वमावेद्यते। *उक्तरीत्यैवेति* तथाव्युत्पन्नामित्याद्युक्तरीत्यैवेत्यर्थः, धात्वर्थव्यापारानधिकरणाश्रयोपस्थितिरूपहेत्वभावादिति भावः। ननु नास्मन्मतेऽप्युक्तप्रयोगापत्तिः, तत्र व्यापारत्वेनैव, फलस्य भानाङ्गीकारेण तण्डुलस्य धात्वर्थतावच्छेदकफलशालित्वाभावात्, निष्कृष्टबवन्मतेऽपि व्यापारगतपौर्वापर्य्यारोपेण फलस्य व्यापारतायाः स्वीकाराच्चेत्यतो दूषणान्तरमाह-*परसमेवतत्वस्येति*।
*इष्टान्वयेति* इष्टस्य=प्रकृत्यर्थस्य प्रतियोगितासम्बन्धेन परसमवेतत्वस्यैकदेशे परत्वे परसमवेतत्वस्य चाश्रयतया क्रियायामन्वयस्य लाभाय=भानायेत्यर्थः। *अनेकश इति* प्रकृत्यर्थप्रकारकशाब्दबुद्धिं प्रति द्वितीयाऽधीनाधेयत्वोपस्थितेरिव तदधीनपरसमेवतत्वोपस्थितेः प्रकारतासम्बन्धेन, एवं परसमवेतत्वप्रकारकबुद्धिं प्रति धातुजन्योपस्थितेर्व्यापारत्वावच्चिन्नविशेष्यतासम्बन्धेन हेतुत्वकल्पने चातिगौरवादित्यर्थः। मन्मते तु फलप्रकारकशाब्दबोधक्लृप्तहेतुताकव्यापारोपस्थितिविषयव्यापारांशे द्वितीयाप्रकृत्यर्थावृत्तित्ववैशिष्यनिवेशेनैव नातिप्रसङ्ग इति भावः।
ननु `चौत्रो मैत्रश्च परस्परं गच्छतः' इत्यादौ धात्वर्थव्यापारस्य द्वितीयाप्रकृत्यर्थवृत्तित्वात् तत्र फलानन्वय प्रसङ्गोऽत आह-*स्पष्टमिति* तथाच द्वितीयाप्रकृत्यर्थावृत्तीत्यनेन द्वितीयाप्रकृत्यर्थवृत्तिभेदप्रतियोगिताऽवच्छेदकत्वस्य विवक्षणात् `परस्परं गच्छतः' इत्यादौ क्रियायाः परस्परावृत्तित्वबाधेऽपि परस्परनिष्ठभेदप्रतियोगितावच्छेदकत्वस्याबाधान्न फलान्वयानुप पत्तिरित्यादि तत्रोक्तमिति।
हरिकृतं कर्मविभागमाह-*तच्चेति* क्रियाजन्यफलाऽऽश्रयरूपं कर्मेत्यर्थः।
*यदसज्जायत इति* असत्कार्य्यवादमवलम्ब्य। सद्वेत्यादि तु साङ्ख्यमतेन। प्रकाशत इत्यनन्तरम्-
"प्रकृतेस्तु विवक्षायां विकार्य्यं कैश्चिदन्यथा।
तन्निर्वत्तयम्" इत्येव वाक्यपदीयपाठः, अन्यथा सामान्यधर्मेण अलक्षितस्य विकार्य्यस्य विश्ष्यरूपेण प्रदर्शनेऽर्थान्तरतापत्तेः। तदर्थस्यु कैश्चित् प्रसिद्धैराचार्य्यैः प्रकृतिविवक्षायां निष्पाद्यं विकार्य्यमित्युच्यते। अन्यथा तदविवक्षायां तन्निष्पाद्यं निर्वर्त्त्यमिति तदर्थः। तत्र घटं करोतीत्यादौ सत्या अपि मृदादिप्रकृतेः परिणामित्वेनाविवक्षा। भस्म करोतीत्यादौ त्वसत्या एव तस्यास्तत्त्वेन सा।
यद्यपि निर्वंर्त्त्यते=निष्पाद्यते इति व्युत्पत्त्या निर्वर्त्त्यत्वं तण्डुलानोदनं पचतीत्यादावोदनादौ विकार्य्यकर्म्मण्यप्यस्ति तथापि प्रकृतिवाचकपदासमभिव्याहृतपदोपस्थाप्यत्वे सति निष्पाद्यत्वरूपपारिभाषिकनिर्वर्त्त्यत्वस्य विवक्षणान्न दोपः।। तदुक्तम्-
सती वा विद्यमाना वा प्रकृति परिणामिना।
यस्य नाऽऽश्रीयते तस्य निर्वर्त्त्यत्वं प्रचक्षते।। इति।
यस्य=विकृतिकर्म्मणः, नाश्रीयते=न प्रयुज्यते, न विवक्ष्यत इति यावत्। अन्यत्=उक्तार्थम्। *विकार्य्यन्त्विति* तल्लक्षणं तु प्रतीयमानप्रकृतिभावकत्वे सति क्रियानिर्वाह्यविशिष्टासत्त्वोत्पत्त्यन्यतर फलवत्त्वम्। घटं करोतीत्यादिनिर्वर्त्ये क्रियानिर्वाह्योत्पत्तिमत्यपि प्रकृतीविकृतिभावाभानान्नातिप्रसङ्गः। प्रकृतिकर्मणस्तादृशविशिष्टासत्त्वाद् विकृतिकर्मणश्च तादृशोत्पत्त्याश्रयत्वाल्लक्षणसङ्गतिः। ईदृशस्थले फलद्वयप्रयोजकव्यापारार्थकत्वं धातोरावश्यकम्। उक्तञ्च भाष्ये-`ह्यर्थः पचिः' इति, अन्थैकफलैकव्यापारार्थकत्वस्याकर्मकेष्वपि सत्त्वाद् विशेषोपादानानर्थक्यप्रसङ्गत्।
परे तु-"द्वयर्थः पचिः" इति भाष्याद् विक्लेदनं निर्वर्त्तनं च पचेरर्थः, `तण्डुलानोदनं पचति' इत्यस्य `तण्डुलान् विक्लेतयन्नोदनं निर्वर्त्तयति' इति विवरणात्। तथाच प्रकृते तण्डुलाश्रयविक्लित्त्यनुकूलव्यापाराश्रयक ओदनाश्रयकोत्पत्त्यनुकूलो व्यापार इति बोधः। एवं `काष्ठं भस्म करोति' इत्यादावप्यूह्यमित्याहुः।
तदसत्, भावनाप्रकारबोधे हेतुत्वेन क्लृप्तायाः कृद्धात्वन्यतरजन्योपस्थितेर्विशेष्यतासम्बन्धेनाख्यातार्थेऽभावेन तादृशबोधसम्भवात्, एकयैव क्रियया फलद्वयोत्पत्तिसम्भवेन तद्वाक्यजन्यबोधस्य व्यापारद्वयविषयकत्वकल्पनानौचित्यादाख्यातशब्दान्निवृत्तिभेदाया एव क्रियाया अवगमादिति रूपप्सूत्रीयकैयटाच्च। किञ्च पचेर्व्यापारद्वयार्थकत्वे नव्यमते क्रियायां द्वित्वाबोधेन `चैत्रो तण्डुलान् ओदनं पचतः' इति द्विवचनापत्तिर्दुर्वारा।
वस्तुतस्तु विक्लेदनम्=विक्लित्तिः, निर्वर्त्तनम्=उत्पत्तिरेव, उक्तपदयोर्भावल्युडन्तत्वात्। तथाच फलद्वयानुकूल एक एव व्यापारो धात्वर्थतया भाष्यकृत्सम्मतः। व्यापारद्वयार्थकत्वोक्तिस्तु केषाञ्चित्, त्पदयोर्णिजन्तप्रकृतिकल्युडन्तत्वभ्रमनिबन्धनैवेत्यवधेयम्। यद्यपि विकार्य्यं द्वेधा-प्रकृतिर्विकृतिश्चेत्येव वक्तुमुचितम्, तथापि विकृतिद्धैविध्येऽवगते प्रकृतावपि विकार्यत्वं ज्ञातप्रायं भवतीत्यशयेन तदनुक्त्वैन विकृतिकर्म विभजत्-*प्रकृत्युच्छेदेति* एतेन क्रियानिर्वाह्याभावः प्रतियोगितावच्छेदकधर्मवत्त्वं प्रकृतिकर्मत्वमिति ध्वनितम्।
काशान् कटं करोति' `कुसुमानि स्त्रजं करोति' `सुवर्णं कुण्डलं करोति' `मृदं घटं करोति' `काष्ठं भस्म करोति' `तण्डुलानोदनं पचति' इत्यादौ क्रियानिर्वाह्यो यः पूर्वभावविशिष्टकाशकाष्ठादिप्रतियोगिकाभावो विशिष्टसत्त्वरूपस्तत्प्रतियोगितावच्छेदकवैशिष्ठयवत्त्वं काशकाष्ठादेरिति तत्तत्प्रकृतौ लक्षणसङ्गतिः। सर्वत्र विशिष्टाभावप्रतियोगिनि तादृशप्रतियोगितावच्छेदकवैशिष्टयसत्त्वादातिप्रसङ्गवारणाय क्रियानिर्वाह्योति प्रकृतधात्वर्थव्यापारनिर्वाह्यर्थकम्। क्वचित् काष्ठाण्डुलादिधर्मिनाशादेव विशिष्टाभावो भस्मैदनादिसम्पादकः। क्वचिद्धर्मिणः सत्त्वेऽपि कटस्त्रगादिसन्दर्भविशेषविरहरूपपूर्वभावविशिष्टासत्त्वं कटसन्दर्भादिनिष्पादकं क्रियातो निर्वहति।
*सम्भूतमिति* प्रकृतिनाशप्रयोज्योज्योत्पत्तिमदित्यर्थः। इदञ्च भस्मवदित्यन्वयि `काष्ठादि' इति पृथक् पदम् अन्यथा काष्ठसुवराणादेस्तुरीयतापत्तेः। *भस्मवदिति* तत्तौल्येन वर्त्तमानमन्यदपि विकारजातमित्यर्थः। सादृश्यञ्च प्रकृतिनाशप्रयोज्योत्पत्तिमत्त्वेनैव। एवमग्रेऽपि। तथाच प्रकृतिविकृतिभावापन्नकाष्ठभस्मादिविकार्य्यमित्यर्थः। पर्य्यवस्यति। एवञ्च `काष्ठं भस्म करोति' इत्यत्र करोतेः। (प्रतियोगित्वविशिष्ट) नाश उत्पत्तिश्च फलद्वयम्, तदनुकूलव्यापारश्चार्थः। नाशे प्रतियोगितया काष्ठस्योत्पत्तौ भस्मन आधेयतयाऽन्वयात् काष्ठप्रतियोगिकनाशानुकूलो भस्मोत्पादको वर्त्तमानो व्यापार इति बोधः। एवं `तण्डुलानोदनं पचति' इत्यादावपि।
नैयायिकास्तु-`तण्डुलानोदनं पचति' इति विकार्य्यस्थले प्रकृतिकर्मोत्तरद्वितीयाया नाशकत्वमर्थः। विकृतिकर्मोत्तरद्वितीयायाश्चोत्पादकत्वम्। तण्डुलाद्यन्वितं नाशकत्वं च पाकेऽन्वेति। ओदनान्वितोत्पादकत्वस्य नाशकत्वविशिष्टे पाकेऽन्वयः। नोशे चोत्पत्तेः प्रयोजकत्वमुद्देश्यविधेयभावमहिम्ना भासते। तेन पाकस्य तण्डुलारम्भकसंयोगनाशकत्वेऽपि `संयोगमोनं पचति' इति न प्रयोगः, तण्डुलारभकसंयोगनाशस्यौदनोत्पत्तौ तण्डुलनाशेनान्यथासिद्धतया अप्रयोजकत्वात्।
वस्तुतस्तु विकृतिकर्मासमभिव्याहृते `तण्डुलं पचति' इतिवत् `संयोगं पचति' इति प्रयोगवारणाय नाशद्वारा नाशकत्वमेव द्वितीयार्थो वाच्य इति प्रकृते प्रयोज्यप्रयोजकभावभानेऽपि न क्षतिः। तथाच तण्डुलनाशक ओदनोत्पादको यो व्यापारस्तदनुकूलकृतिमानिति बोधः। ईदृशस्थके च कर्माख्यातेन पय्रकृतेः कर्मत्वमेवाभिधीयते। अत एव `काष्ठानि भस्मराशिः क्रियन्ते' इत्यादौ काष्ठपदसमानवचनत्वमाख्यातस्य, नतु भस्मादिविकारावाचकपदसमानवचनत्वम्, भावनान्यिनि सङ्ख्यान्वयनियमात्।
ननु प्रधानाप्रधानकर्मवाचककर्मपदसमभिव्याहृतनी-वहादि (दुहादि) प्रकृतिककर्माख्यातस्यैवाप्रधाने दुहादीनाम्, `प्रधाने नीहृकृष्वहाम्' इत्यानुशासनात् कर्मत्वद्वयानभिधायकत्व नियमेन प्रकृते कर्मत्वद्वयस्यैव तुल्यतया विकृतिगतकर्मत्वस्यापि लकारेणाभिधाने बाधकाभावः। आख्यातस्य विकृतिसमानवचनत्वप्रसङ्गस्तु-
"गृह्णाति वाचकः सङ्खयां प्रकृतेर्विकृतेर्न हि"।
इत्यनुशासनसिद्धविकृतिसङ्ख्यान्वयबुद्धिं प्रति प्रकृतिसङख्यान्वयपरत्वेनागृह्यमाणाख्यातजन्योपसथितेर्हेतुत्वकल्पनया निरसनीतः। कथमान्यथा "भस्मीभवन्ति काष्ठानि" इत्यादिप्रयोगा इति चेन्न, `घटपटौ दृश्येते' इत्यत्र द्वित्वस्यैवोभयसाधारणविशेष्यतावच्छेदकापरिचयेन विकारविकारिणोर्द्वयोरेवाख्यातार्थविशेष्त्वे वा वाक्यभेदापत्तेः। नचेष्टापत्तिः, तथा सति ` काष्ठं नाश्येत=भस्म क्रियते' इति वाक्यजबोधस्येव `काष्ठं भस्म क्रियते' इति वाक्यजबोधस्यापि भस्म काष्ठविकृतिरन्यविकृतिर्वेति संशयनिर्वर्त्तकत्वानुपपत्तेः, समूहालम्बनबोधजनकत्वाविशेषेण काष्ठभस्मनोः प्रकृतिविकृतिभावस्योक्तवाक्यादलाभात्। सत्यामेवैकवाक्यतायां कर्त्तृप्रत्यये प्रयोज्यप्रयोजकभावस्य विशिष्टान्वयविवक्षानियमेन लाभ इव कर्मप्रत्ययस्थलेऽपि विवक्षाया नियमवशादेव कर्मात्मनेपदेन भस्मनि काष्मठोच्छेदप्रयोज्योत्पत्तिकत्वरूपकाष्ठविकृतित्वस्य लाभात्।
नच विकृतिवाचकाद् द्वितीयापत्तिः, लकारेण विकृतिकर्मत्वस्यानभिधानेऽपि कर्मत्वान्तरविशेषणतापन्नक्रियायां तस्य विकृत्यरथसंसर्गत्वाभ्युपगमेनैव द्वितीयापत्त्यसम्भवात्, प्रातिपदिकार्थविशेष्यतया कर्मत्वादिविवक्षायामेव द्वितीयाद्यवसरात्।
नचैवम्, `घट करोति' इत्यापत्तिः, कर्मत्वान्तरविशेषणतानापन्नक्रियायां क्रियान्तरकर्त्तृत्वविशेष्यतापन्नार्थकस्यैव कर्मतासंसर्गेण भानाभ्युपगमात्। अत एव `काष्ठं भस्मराशिः करोति' इति न प्रयोगः, भस्मराशेः क्रियान्तरकर्त्तृत्वविशेष्यतानापन्नत्वात्। उपपद्यते च `पश्य मृगो धावति' इत्यादिः।
प्रकृते च `नीलो घटो भवति' इत्यादावसाधारणधर्मरूपभवने नीलादेराधेयत्वरूपकर्त्तृतासम्बन्धेनान्वयवद्व्युत्पत्तिवैचित्र्येण प्रकृतिकर्मत्वविशेषणतापन्नायां कृधात्वर्थकृतौ भस्मादिरूपविकृतिकर्मणः कर्मतासम्बन्धेनान्वयोपगमेन एकावाक्यत्वोपपत्त्योक्तसंशयनिर्वर्त्तकत्वोपपत्तेः। तथाचोत्पादकत्वेन भस्मसम्बन्धिकृतिप्रयोज्यनाशप्रतियोगीनि काष्ठानीति `काष्ठं भस्मराशिः क्रियते' इति वाक्यजो बोधः। सम्बन्धस्य प्रातिपदिकार्थविशेष्यतया अविवक्षणादेव न तत्र ष्ठयपि।
एवं "मृदो न घटो न" इत्यत्रापि प्रकृतिविकृतिभावस्थले कर्मत्वान्तरविशेषणतानापन्नधात्वर्थान्वर्य्यबोधने द्वितीयायाः साधुत्वमिति नियमोपगमे नोक्तस्थले द्वितीयाप्रसङ्गः, नापि `दुह्यते गौः क्षीरम्' इत्यादौ तदनुपपत्तिः। एवमेकत्वावच्छिन्न द्वित्वावच्छिन्नारोपस्थलेऽपि `एको द्वौ ज्ञायेत' इत्यादौ आरोप्यविशेष्यवाचकसमानवचनत्वमाक्यातस्य। प्रयुज्यन्ते च कवयः-"एकोऽपि त्रय इव भाति कन्दुकोऽयम्" इति। नच तत्रापि `भान्ति' इत्येव पाठः, कथमन्यथा-
"अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरःस्थितम्"।
इत्यत्रारोप्यनिजायशोयुगसमानवचनम् `अमानि' इत्याख्यातं प्रयुक्तं श्रीहर्षेणेति वाच्यम् तत्रापि पूर्वार्द्धसमर्थितायशोयुगस्य वास्तवत्वेन तस्मिन् फालद्वयबद्धचिकुराणामेव राज्ञ अरोप्यत्वेन कवेरुत्प्रेक्षितत्वात्। अत एव न तत्रापिमृष्टविधेयांशतादोषावकाश इतायाहुः।
अत्र केचित्-"पुनरावृत्तः सुवर्णपिण्डः पुनरपरयाऽऽकृत्या युक्तः खदिराङ्गासवर्णे कुण्डले भवतः" इति महाभाष्य प्रयोगादाख्यातस्य विकृतिसमानवचनत्वमेव।
गुह्णाति वाचकः सङ्ख्यां प्रकृतेर्विकृतेर्न हि।
इति तु च्विप्रत्ययमात्रविषयकम्। एव़ञ्च `काष्ठानि भस्म राशिः क्रियन्ते' इत्यादिप्रयोगाणामसाधुत्वमेवेति।
अपरे तु-`खदिराङ्गारसवर्णे' इति विशेषणेन तत्र कुण्डलयोः प्रकृतित्वं गम्यते, सिद्धाया विकृतेः पाकानपेक्षणात्। `पुनरपरयाऽऽकृत्या युक्तः' इति विशेषणेन तु सुवर्णपिण्डस्य विकृतित्वम्, आकृत्यान्तरयोगस्य प्रकृतित्वाप्रयोजकत्वात्। युज्यते चैतत्। "मृत्तिकेत्येव सत्यम्" इतिवत् संहृतिमुखेन `पुनरावृत्तः' इति विशेषणेनापि सुवर्णपिण्डस्य विकृतित्वं गम्यते।
तथाहि-पूर्वोपक्रान्ताऽऽकृतिपरम्परायास्तत्पर्य्यवसायित्वेन सिषाधयिषितसुवर्णनित्यत्वस्य सिद्धेः, तस्मात् पूर्वनिर्दिष्टाकृतिविशिष्टसुवर्णस्य कुण्डलादिप्रकृतेरप्यनिर्दिष्टाऽपराकृतिविशिष्टस्य तस्य विकृतित्वमेव भाष्यकृत्तात्पर्यविषय इत्यस्यापि वक्तुं शक्यतया न तन्निर्देश आख्यातस्य विकृतिसमानवचनत्वे उपष्टम्भक इति।
अत्रेदमाभाति-वैयाकरणमते प्रकृते प्रकृतिविकृत्योर्द्वयोरपि कर्त्तृत्वेनाख्यातेन कर्त्तृद्वयमेव अभिधानीयम्। एवं तद्गतसंख्याऽपि तत्रैकेनाख्यातेन विरुद्धसंख्यावतोस्तयोः सख्ययायाः अभिधातुमशक्यतया भगवता कुण्डले भवत इति विकृतिसङ्ख्यैवोक्ता। नतु प्रकृतिगता नाख्यातप्रतिपाद्येति मुनित्रयस्याऽऽज्ञास्ति। एवञ्च प्रयोगवशेन पर्य्यायेणान्यतरसमानवचनत्वमाख्यातस्य नीराबाधमिति।
*क्रियाकृतेति* क्रियाप्रयोज्यासाधारणधर्मप्रकारकप्रतीतिविषयतानाश्रयत्वे सति फलाऽऽश्रयत्वम्। निर्वर्त्त्यादावतिव्याप्तिवारणाय सत्यन्तम्। तत्रापि विषयतानाश्रयत्वस्य धर्मप्रकारकप्रतीतिविषयतानाश्रयत्वस्यासाधारणधर्मघटितस्य वा तस्य `घटं जानाति' इतायादौ घटादावसम्भव इति प्रयटोज्यान्तं धर्मविशेषणम्। तत्रैव क्रियाप्रयोज्यासाधारणधर्मसंयोगप्रतीतिविषये ग्रामादिकर्मण्यव्याप्तिनिरासाय असाधारणेति। क्रियाजन्यफलानाश्रये अतिप्रसक्तिनिरासाय विशेष्यम्।
नच `घटं जानाति' इत्यादौ क्रियाजन्यफलाभावात् सामान्यलक्षणस्याव्याप्तिः, तद्वारणाय तत्राऽऽवरणभङ्गाभ्युषगमे तु तस्यैव क्रियाप्रयोज्यासाधारणधर्मतया `अयं घट एतेन ज्ञातः, एतद्व्यवहारविषयत्वात्' इति अनुमानजन्यप्रमाविषयत्वेन सत्यन्ताभावाद्विशेषलक्षणाव्याप्तिरिति वाच्यम्, कर्त्तृभिन्नत्वे सति कर्त्तृभिन्नत्वे सति कर्त्तृकर्मोभयसाधारणक्रियाजन्यफलाश्रयत्वे उक्तलक्षणवाक्यतात्पर्य्याद्विषयतया ज्ञानरूपफलाश्रयत्वाच्च न सामान्यलक्षणाऽव्याप्तिः, आवरणभङ्गफलमादाय जानात्यादिकर्म्मणि लक्षणलृसङ्गमनेऽपीच्छत्यादिकर्मण्व्यव्याप्तिवारणायोक्तरीतेरेवानुसर्तव्यंत्वादिति। निर्देशक्रमेणोदाहरणान्याह-*घटमिति*। *अद्यमिति* निर्वर्त्त्यमित्यर्थः। एवमग्रेऽपि।
*संज्ञान्तरैरनाक्यातमिति* अपादानत्वादितत्तद्रूपविशेषैरविविक्षितमित्यर्थः। अकथितञ्चेत्यत्राकथितशब्दोऽविवक्षितपरः, नत्वप्रधानपरः। तथा सति `पाणिना कास्यपात्र्यां दोग्धि' इत्यत्र करणाधिकरणयोः कर्मसंज्ञा प्रसज्ज्येतेति दु हादीनां परिगणनात् तत्संज्ञयोः करोत्यादियोगे सावकाशत्वादिति भावः। तथाच पूर्वविधिप्रसक्तिपूर्वकं तदविवक्षायां सर्वथा पूर्वविधेरप्रसक्तौ च तत्प्रवृत्तिरिति बोध्यम्। यद्यपि विभागानुकूलव्यापारानुकूलव्यापारस्यापि दुह्यर्थत्वेन कर्त्तुरीप्सिततममित्यनेनैव कर्मसंज्ञा सिध्द्यति, कर्तृनिष्ठदव्यापार विशेषणफलाश्रयतया गोः प्रधान्कर्मतया न तत्र ताद्यनुपपत्तिः, पयोनिष्ठविभागानुकूलगोनिष्ठव्यापारामनुकूलव्यापारस्य शब्दतः प्राधान्यादन्यथासिद्धप्रयोजनकमेतत् सूत्रमित्याभाति, तथापि विभागानुकूलव्यापार एव यदि धात्वर्थस्तदाऽपादानत्वाद्यविवक्षायामन्यसूत्राप्राप्तकर्मत्वार्थमिदमावश्यकम्। एतस्मिन्नर्थऽप्रधाने दुहादीनामित्यनुशासनाद् गवादावेन लादयः।
अप्रधानकर्मत्वं चोक्तकर्मभिन्नत्वम्। तच्चोक्तर्थे गवादीनामक्षतम् धात्वर्थफलानाश्रयत्वात्। तथाचैतत्कल्पे स्थितं द्रवद्रव्यनिष्ठविभागानुकूलव्यापारो दुहेर्थः। तत्र गोरपादानत्वाविवक्षायामनेन कर्मत्वम तद्विवक्षायां पञ्चमी। गोः पयस्यन्वये तु षष्ठी। एवञ्च गोकर्मकपयोनिष्ठविभागानुकूल एककर्त्तृको व्यापार इति बोधः। विभागावधित्वमेव गोः कर्मत्वम्। आद्यकल्पे तु पयोनिष्ठविभागानुकूलगोनिष्ठयापारानुकूल एककर्त्तृ वर्त्तमानो व्यापार इति। तत्र विभागाश्रयत्वात् पयसः कर्मता। तदनुकूलव्यापाराश्रयत्वात्तु गोः, नतु विभागाश्रयत्वेन, पयोनिष्ठविभागीयसम्बन्धस्यैव पलतावच्छेदकत्वात्। एवमन्यत्राप्यूह्यम्।
*अन्यपूर्वकमिति* अन्यसंज्ञाबाधनपूर्वं शास्त्रबोधितमित्यर्थः। `क्रूरमभिक्रुध्यति' इत्यत्र क्रुधद्रुहेर्ष्येतिप्रसक्तप्तम्प्रदानसंज्ञायाः "क्रुधद्रुहोरुपसृष्टयोः कर्म" (पाo सूo 1-4-38) इतिबाधनात्। एवं `वैकुण्ठमधिशेते' इत्यादावपि बोध्यम्। `अजां ग्रामं गमयति' `शिष्यं सास्त्रं बोधयति' ब्राह्णमन्नं भोजयति' `यजमानं मन्त्रं पाठयति' `घटं जनयति नाशयति' इत्यादौ गतिबुद्धीति सूत्रेण गम्यादिधात्वर्थकर्तुः कर्मसंज्ञाविधानाद् गम्यादिप्रकृतिकणिजन्तधातुसमभिव्याहृतद्वितीयाया अप्याश्रयोऽर्थ। यद्यपि णिजन्तधात्वर्थप्रेरणाजन्यव्यापाररूपफलाश्रयत्वादजादीनामपि कर्मत्वं कर्त्तुरीप्सिततममित्यनेनैव सिद्धम्, तथापि णिजन्तेन आप्यमानस्य चेद्भवति गत्याद्यर्थव्यापाराश्रयस्यैवेति नियमार्थं सूत्रम्। तेन `पाचयत्योदनं देवदत्तेन' इत्यादौ न। तदुक्तम्-
गुणक्रियायां स्वातन्त्र्यात् प्रेषणो कर्मतां गतः।
नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते।। इति।
वाचकतासम्बन्धेन स्वनिष्ठया तृतीययेत्यर्थः। यद्यपि कर्त्तृसंज्ञायाः परत्वाद्धेतुमति चेत्यनुशासनात् स्वकारकविशिष्टक्रियाया णिजर्थसम्बन्धावगतेरन्तरङ्गात्वाच्च कर्मसंज्ञायास्तया बाध एवोचितस्तथाप्यन्यानधीनत्वलक्षणार्थप्राधान्य-शाब्दप्राधान्ययोः प्रयोजकव्यापारे सत्त्वेन प्रधानकार्य्यस्य च सर्वतो बलावत्त्वस्याऽऽकजार (पाo सूo 1-4-1) सूत्रे कैयटेनोक्तत्वात् `हेतुमति च' इति सूत्रस्थभाष्यप्रामाण्याच्च तदनुरोधिकर्मत्वस्यान्तरङ्गादपि कर्त्तृत्वाद् बलवत्त्वानियमत्वमेव साम्प्रतम्।
परे तु-`हेतुमति च' इत्यनुशासनादन्यनिष्ठकर्तृत्वनिर्वाहकव्यापाररूपा स्वतन्त्रप्रेरणा णिजर्थः। कर्तृत्वं च क्वचित् प्रयत्नः, क्वचिदाश्रयत्वादि। यादृशधातूत्तराख्याते यादृशं कर्तृत्वमभिधीयते तादृशधातूत्तरणिच्प्रत्ययेन तादृशकर्तृत्वनिर्वाहको व्यापारोऽभिधीयते। निर्वाहकत्वं च स्वरूपसम्बन्धविसेषः, नातो `नाशयति' इत्यादावन्वयानुपपत्तिः।
एवञ्च पाकादिकर्तुस्तत्कर्मत्वविरहेऽपि ण्यन्तधातुप्रतिपाद्यतावच्छेदककर्तृत्वस्य फलत्वेन तदाश्रयत्वात् पाकादिकर्तुः कर्मत्वं तादृशकर्तृत्वविशेषणतया सहायादिरूपस्वतन्त्रकर्तृवृत्तित्वविवक्षायां `पाचयत्योदनं सहायम्' इत्यापि प्रयोगः साधुरेव। अत एव "अजिग्रहत्तज्जनको धनुस्तत्", इति भट्टिप्रयोगः स्वरसतः सह्गच्छते। ग्रहेर्ज्ञानलाक्षणिकतया तदुपपादनं त्वगतिकगतिः। यदा तु णिच्प्रकृत्यर्थव्यापारे स्वतन्त्रकर्तृवृत्तित्वस्य विशेषणतया विवक्षा तदा सहायेनेत्येव। `गतिबुद्धि' इति सूत्रं तु गत्याद्यर्थकधातुयोगे तादृशकर्तृत्वविशेषणतया स्वतन्त्रकर्तृवृत्तित्वविवक्षा नियता नान्यत्रेत्यर्थबोधनद्वारा तत्र कर्तृप्रत्ययासाधुत्वज्ञापकम्। तेन `पाचयत्योदनं सहायेन' इतिवत् `अजया ग्रामं गमयति' इति न।
एवञ्च `अजां ग्रामं गमयति' इत्यत्र ग्रामनिष्ठसयोगानुकूलव्यापारस्य यदजानिष्ठकर्तृत्वं निर्वाहकत्वसम्बन्धेन तद्विशिष्टो यो व्यापारस्तदनुकूलकृतीमानिति बोधः। `पाचयत्योदनं सहायेन' इत्यत्र सहायकर्तृको यो विक्लित्त्यनुकूलो व्यापारो निर्वाहकत्वसम्बन्धेन तत् कर्तृच्लसम्बन्धेन तत्कर्तृत्वविशिष्टव्यापारानुकूलकृतिमानिति बोधः।
`चैत्रेण ग्रामं गम्यते अजा' इत्यात्र कर्माख्याते तु तादृशब्यापारनिर्वाह्यकर्तृतानिरूपकस्तादृशधात्वर्थः कर्मात्मनेपदोपस्थितकर्तृत्वेऽन्वेति, संयोगफले च द्वितीयार्थग्रमवृत्तित्वान्वयः एवञ्च चैत्रकर्तृकव्यापारनिर्वाह्यकर्तृत्वनिरूपकं यद् ग्रामवृत्तिसंयोगानुकूलं गमनं तत्कर्त्र्यजेति बोधः। सहायेन पाच्यते तण्डुलश्चैत्रेण' इत्यत्र तु चैत्रकर्तृकप्रेरणानिर्वाह्यकर्तृत्वनिरूपको यः सहायरूपस्ततन्त्रकर्तृवृत्तिवायपारस्तज्ज्न्यविक्लित्त्याश्रयस्तण्डुल इति बोधः। अर्थविवेकः स्वयमूह्यः।
ये त्वनुकूलव्यापार एव णिजर्स्तदन्वयिनि गमनादिक्रियैव धात्वर्थतावच्छेदकं फलं, तच्छालिययाऽजादीनां प्राप्तमेव कर्मत्वं "गतिबुद्धि" (पाo सूo 1-4-52) इति सूत्रेण नियम्यते इति वदन्ति। तेषां मते `पाचयत्योदनं सहायेन' इत्यादौ द्वितीयातृतीययोर्नियामकालाभः। अधिकमन्यत्रानुस-धेयमित्याहुः।
`वैकुण्ठमधितिष्ठति'इत्यादावपि द्वितीयाया आधार एवार्थः, अध्याद्युपसृशीङादियोगे "अधिशीङ्" (पाo सूo 1-4-4-6) इत्यादिसूत्रैराधारस्य कर्मसंज्ञाविधानात्। यदापि कृञर्थव्यापारपान्तर्भाबेणाध्याद्युपसृष्टशीङादीनां लक्षणामुपगम्य `कर्तृरीप्सिततमम्' इत्यनेनैव कर्मसंज्ञा सूसाधा, ततापि मुख्यार्थकतद्योगेऽपि कर्मप्रत्ययसाधुत्वबोधनार्थम् `अधिशीङ्स्थासाम्' इत्यादिसूत्राणामप्यावश्यकतेति। कर्मप्रवचनीययोगविहितविभक्तेस्तु यथायथं लक्ष्यलक्षमभावादिः सम्बन्धो द्योत्य इति वक्ष्यते।
उपपदविभक्तीनां तु षष्ठयपवादकत्वात् सम्बन्ध एवार्थः। "कालाध्वनोरत्यन्तसंयोगे" (पाo सूo 2-3-5) इति विहितद्वितीयाया व्यापकत्वमर्थः, `मासमधीते' इत्यादौ मासव्यापकाध्ययनमिति बोधात्, द्वितीयादीनामाश्रयोऽर्थ इत्यत्र विभक्तिपदस्य पारकविभक्तिपरत्वेन तदविरोधादित्यन्यत्र विस्तरः।
क्रमप्राप्तं तृतायार्थं निरूपयति-*कर्तृतीयाया इति* करणतृतीयाया व्यापारार्थत्वस्यापि वक्ष्यमाणत्वादुक्तम्-*कर्त्रिति*। *आश्रय इति* आश्रयमात्रमित्यर्थः। आश्रयार्थकत्वे मानमुपन्यस्यति *तथाहीत्यादिना*। ननु स्वातन्त्र्यमितरव्यापारानधीनव्यापारवत्त्वम्, तच्च `काष्ठं पचति' इत्यादौ काष्ठादावप्रसक्तम्, तद्व्यापारस्य चेतनव्यापाराधीनत्वादत आह-*स्वातन्त्र्यञ्चेति* व्यापारश्रयत्वस्य करणे, धात्वर्थाश्रयत्वस्य कर्मण्यतिप्रसक्तत्वात् तद्व्यावृत्तये क्रमेणोभयम्।
अन्ये तु-कर्तृप्रत्ययसमभिव्याहारे व्यापारातावच्छेदकंसम्बन्धेन धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतानाश्र्यतद्धात्वर्थाश्रयत्वं स्वातन्त्र्यम्। तदेव च कर्तृत्वम्। कालिकसम्बन्धेन व्यापाराश्रयेऽतिप्रसङ्गवारणाय व्यापारातावच्छेदकसम्बन्देनेति। `ग्रामं गच्छति' इत्यादावुत्तरसंयोगात्मके फले तादृशधात्वर्थत्वाभावान्न तदाश्रयेऽतिप्रसंङ्गः। `पक्वस्तण्डुलो देवदत्तेन' इत्यादौ फलस्य विशेषत्वेन देवदत्तेऽव्याप्तिपरिहाराय कर्तृप्रत्ययसमभिव्याहार इति। सामग्रीसाध्यायां क्रियायां सर्वेषां स्वस्वव्यापारे स्वातन्त्र्येऽप्युक्तस्वातन्त्र्य युगपत्सर्वेष्वभावान्न सूत्रानर्थक्यमिति। तत्तु कर्मप्रत्ययसमभिव्यहृतकर्तृव्यावृत्तत्वाद् धात्वर्थव्यापाराश्रयत्वस्यैव सम्यक्त्वे गुरुविशेषणस्यानतिप्रयोजनकत्वाच्चोपेक्ष्यम्। कर्मकर्त्तरि तु नव्यामते फले व्यापारत्वाऽऽरोपान्नाऽव्याप्तिः। व्यापारत्वेन कृतेरपि सङ्ग्रहान्न तदनाश्रयेऽचेतने स्वरसतः कर्तृव्यावहारः। तदतिरिक्तव्यापारस्य धातुना विवक्षायां तु क्वचित् कर्तृत्वव्यावहारोऽपि। वक्ष्यति च-`यदा यदीयो व्यापारः' इत्यादि। एवमेव `मत्तो भूतं न तु मया कृतम्' इत्याद्युपपाद्यमिति भावः। तत्र हरिवाक्यं प्रमाणयति *धातुनेति*। *उक्तक्रिय इति* विशेषणदस्मदुक्तमेव स्वातन्त्र्यं इरिसम्मतमिति सूचयति*।
अत एवेति *उक्तस्वातन्त्र्यस्य कर्तृत्वादेवेत्यर्थः।
*सङ्गच्छत इति* कृत्याश्रयत्वादेस्तत्त्वे तु तदसङ्गतिरिति भावः। उक्तविवक्षायाः प्रयोगनियामकत्वं द्रढयितुं पृच्छति-*नन्वेवमिति* एवं विवक्षाया एव प्रयोगनियामकत्वे मनोमयस्य=मनोमयशब्दप्रतिपाद्यस्येत्यर्थः। *जीवत्वे*=संकल्पकर्तृरूपत्वे=ब्रह्मभिन्नत्वे इति याव्त। *एतमितः* इत्यादेरितः=शरीरात्* प्रेत्य*=निःसृत्य=एतच्छरीरं परित्यज्येति यावत्। *एतम्* स्वप्रकाशत्वादिगुणविशिष्टं पूर्वोक्तमात्मानम्।
*अभिसम्भवितास्मि* प्राप्तास्मीत्यर्थः। *कथं सङ्गच्छतामिति* भवन्मते वैवक्षिकयोः कर्तृत्वकर्मत्वयोरेकस्मिन्नपि सम्भवादिति भावः।
संज्ञानिबन्धनविरोधं समर्थयन् कर्तृत्वकर्मत्वयोर्वास्तवाविरोधं दर्शयति-*उच्यत इत्यादिना*। *जीवस्यैव ज्ञेयत्व इति* `स क्रतुं कुर्वित' इत्यनेन जीवस्यैवोपास्यत्वबोधने इत्यर्थः। *प्राप्तिकर्मत्वमिति* अन्योपासनाया अपरप्राप्त्यफलकत्वादिति भावः। *आख्यातेनेति* अभिसम्भविताऽस्मीत्येतद्घटकेनेत्यर्थः। * बाधादिति* संज्ञायोराकडारीयतया सम्वेशासम्भवेन परया कर्तृसंज्ञया बाधादित्यर्थः। *यगाद्याऽऽपत्तिरिति*। अभ्युच्चयवादः, प्राप्ये कर्मणि कर्मवद्भावाप्रसक्तेः। *शद्बविरोधद्वारा*=एकदा संज्ञाद्वयप्रयुक्तकार्य्यानुत्पत्तिद्वारा, *सः*=संज्ञाद्वयविरोधस्तत्र कर्तृकर्मत्वव्यवहारहेतुरित्यर्थः। नतु कर्तृत्वकर्मत्वयोः पारमार्थिकं भेदमादायेति भावः।
ननु विशिष्टाश्रयस्य तावता तृतीयाऽर्थत्वमायातमत आह-*एवञ्चेति* धातुपात्तव्यापाराश्रयस्य कर्त्तृत्वे चेत्यर्थः। *आश्रयमात्रमिति* अनन्यलभ्यत्वादिति भाव-। मतान्तरं दूषयति-*कृत्याश्रयत्वमित्यादिना*। *अव्याप्तमिति* अचेतने तस्मिंस्तद्बाधादिति भावः।
अत्र वदन्ति-दण्डादिनिष्ठव्यापारस्य धात्वर्थत्वविवक्षया भवदुक्तस्वातन्त्र्यवद् वास्तवकारकचक्रप्रयोक्तृत्वस्य दण्डादावभावेऽपि तदारोपात् कर्तृत्वव्यावहारस्तस्मिन् सूपपादः। अत एव हरिणा-
प्रागन्यतः शक्तिलाभान्नयग्भावाऽष़पादनादपि।
तदधीनप्रवृत्तत्वात् प्रवृत्तानां निवर्त्तनात्।।
अदृष्टत्वात्प्रतिनिधेर्व्यतिरेके च दर्शनात्।
आरादप्युपकारित्वे स्वातन्त्र्यं कर्त्तुरिष्यते।।
इत्यनेन करणादिव्यापारात् पूर्वं करणादिसम्पादकशिक्तिमत्त्वेन करणादीनामात्माधीनत्वसम्पादनेन च तदायत्तव्यापारत्वेनातिप्रवृत्तानां निवर्त्तनेन कर्त्तुः फलप्राप्तौ स्वत एव निवृत्त्या प्रतिनिध्यभावेन कारकान्तराभावेऽप्यस्त्यादौ कर्त्तुर्दशनेन च आरा (दूरा)दप्युपकारित्वे स्वातन्त्र्यमित्यर्थकेन कारकचक्रप्रयोक्तुत्वमेव स्वातन्त्र्यमभिहितम्।
वस्तुत एषां धर्माणामभावेऽपि शब्देन यस्यैते प्रतिपाद्यन्ते स कर्त्तेति तदाशयः। `पाचयति चैत्रेण मैत्रः' इत्यादौ प्रयोज्यस्य प्रयोजकव्यापाराधीनत्वेऽपि णिच्ेप्रकृत्यर्थसाधनान्तरविषये उक्तस्वातन्त्र्यस्य सत्त्वात् कर्त्तृत्वोपपत्तिः, धातुवाच्यक्रियाकृतस्वातन्त्र्यस्यैव विवक्षणात्, कर्त्तृपरतन्त्रकरणादेर्न स्वव्यापारमादाय कर्त्तृत्वम्, प्रयोज्यस्य स्वार्थसिध्द्यर्थमपि प्रवृत्त्या करणादीनां कर्त्रधीनत्ववत् प्रयोज्यस्य प्रयोजकानदीनत्वाच्च। नहि फलोद्देशाधीना करणादीनां व्यापारवत्ता। प्रयोज्यस्य तु तादृशप्रवृत्तौ "सर्व इमे स्वभूत्यर्थं प्रवर्त्तन्ते" इति, हेतुमति चेति सूत्रस्थं भाष्यमनुभवश्च सार्वजनीनः प्रमाणमित्याहुः।
कृत्याश्रयत्वं दण्डादावव्याप्तमित्युक्तया नैयायिकोक्तकर्त्तृत्वस्योपेक्षणीयत्वमावेदितम्। तेषां त्वयमाशयः-कर्त्तृत्वं मुख्यं पूर्वोक्तमेव, आश्रयप्रतियोगित्वादिरूपं तु गौणम्, उभयमपि कर्तृतृतीयया प्रतिपाद्यते।
तथाहि-`चैत्रेण पच्यते' इत्यादौ कृतिमदभेदेन तज्ज्न्यत्वं वा क्रियाविशेषणतया तृतीययाऽभिधीयते। अचेतनकाष्ठछादेरपि कर्तृत्वविवक्षआयां तु `काष्ठं पचति' इतिवत् `काष्ठेन पच्यते तण्डुलः' इत्यपि प्रयोगाद् वायपाररूपे कर्तृत्वे तज्ज्न्यत्वरूपे सकर्तृकत्वे वा तस्य लक्षणा। एवं `चैत्रेण ज्ञायते' इत्यादावाश्रयत्वरूपे कर्तृत्वे आधेयत्वरूपे कर्तृमत्त्वे वा, नश्यते घटेनेत्यादौ प्रतियोगित्वात्मककर्तृत्वेऽनुयोगित्वरूपकर्तृमत्त्वे वा लक्षणा। चैत्रः पचतीत्यादवुक्तस्थले सुख्यं गौणं वा क्रियाविशेष्यतयाऽऽख्यातेन बोध्यते। अचेतने स्वरसतः कर्तृव्यवहाराभावेन तत्र कर्तृपदमपि भाक्तमेव।
नच यत्नवत एव मुख्यकर्तृत्वे तदादायैव "कर्तृकरणयोः" (पाo सूo 2-3-18) इत्यादेश्चारितार्थ्ये गौणकर्तृत्वे तृतीयाद्यनुपपत्तिरिति वाच्यम्, तत्सूत्रस्थकर्तृपदस्य पारिभाषिककर्तृपरत्वात्, तत्सूत्रप्रणयनस्यैव तस्य तत्परव्ये मानत्वात्। सूत्रे स्वातन्त्र्यञ्च-समभिव्याहृतकारकान्तरानधीनत्वे सति कारकत्वम्। पूरुषव्यापारादीनक्रियानुकूलव्यापारवतामेव काष्ठादीनामन्यानधीनत्वविवक्षया काष्ठं पचतीत्यादौ कर्तृत्वम्। अनधीनत्वान्तविशेषणं च, चैत्रः काष्ठैः स्थाल्यां पचतीत्यत्र चैत्रः कैष्ठानि स्थाली पचन्तीति प्रयोगवारणाय। चैत्रः पचति,स्थाली पचतीत्यादौ यत्र कारकान्तराप्रसिद्धिस्तत्रानदीनान्तविशेषणं न प्रतीयत एव, तन्निर्वाहश्च स्वातन्त्रश्कतिकल्पनात्। विशिष्टशक्तेर्विशेषणाविषयकविशेष्यबोधाजनकत्वात्, विशिष्टशक्त्या निर्वाहात्। चैत्रेण पाचयतीत्यादौ हेतुकर्त्तृसमभिव्याहारे प्रयोज्यस्य हेतुकर्त्रधीनत्वेऽपि ण्यन्तप्रतिपाद्यपाचनादिक्रियायामेव प्रयोजकस्य कारकतया प्रयोज्यस्य जव्याद्यर्थक्रियाकारकानधीनताया अवैकल्पेन न तद्वाचकपदोत्तरं तृतीयानुपपत्तिः, स्वतन्त्रकर्तृप्रयोजकव्यापारस्य तण्डुलक्रयणादिवत् पाकादावन्यथासिद्धत्वादकारणत्वेन तस्य पाकादिप्रयोजकव्यापारवत्त्वेऽपि तत्क्रियाकारकत्वाभावाच्च। अत एव चैत्रेण मैत्रः पाचयतीत्यत्र, मैत्रः पचतीति न।
नन्वस्तुपदर्शितरीत्या चैत्रादेः स्वतन्त्रकर्तृतानिर्वाहस्तथापि तद्वाचकपदोत्तरं तृतीयाऽनुपपत्तिः, कर्तृत्वनिर्वाहकव्यापारस्य णिजर्थत्वेन स्वतन्त्रनिष्ठस्य तस्य णिचाऽभिधानादिति चेन्न, कर्तृत्वनिर्वाहकत्वसम्बन्धेन पाकाद्यन्वितहेतुकर्तृव्यपारस्य णिजर्थतापक्षेऽदोषात्। कर्तृत्वरूपफलावच्चिन्नव्यापारस्य णिजर्थतामतेऽपि तदुपरक्ताश्रयस्यान्यतो भानानिर्वाहेणानभिधानस्याश्रतत्वात्, अबोधनस्यैव तत्रानभिधानपदार्थत्वादभिधानस्य "तिङ्कृत्त्द्धितसमासैः" इति परिगणनाच्च।
अख्यातस्य धर्म्यवाचकत्वेऽपि कृत्यादिविशिष्टकर्तृबोधकत्वरूपाभिधानस्य तत्र सत्त्वान्न चैत्रः पचतीत्यादौ तृतीयाऽऽपत्तिः। `चैत्रः पचति भवति' इत्यादौ मुख्यविशेष्यतया तद्विवक्षायां चैत्रेण पचतीत्यादिप्रयोगापत्तिरित्यपि न, आश्रयातिरिक्ते विशेषणतया कृतिबोधनस्यैवानभिधानपदर्थत्वात्। तथाभिधानं च `लकृत्तद्वितसमासैरेव' इति त एवाभिधायकतया वृत्तिकृतोपात्ताः।
यद्यपि स्वतन्त्रव्यापार एव तृतीयादेरनुशासनम्, तथापि कृतिरूपकर्तृत्व एव लाघवाच्छक्तिः, व्यापारदौ तु लक्षणेत्युक्तमनुशासनस्यानादितात्पर्य्यमात्रग्राहकत्वाल्लाघवसहकृतस्यैव तस्य श्कतिकल्पकत्वात्, व्यापारे तत्सत्त्वेऽपि गौरवेण तदसिद्धेः।
एवञ्च कृतिरूपकर्तृत्वबोधस्थले कारकान्तरव्यापारानधीनत्वं प्रतीयत एवेति न तदन्तर्भावेण शक्तिः, प्रमाणाभावात्, व्यापारलाक्षणिककर्तृप्रत्ययेन लक्षणया तदन्तर्भावेण व्यापारबोधनादेव पूर्वोक्तातिप्रसिङ्गस्य वारणात्, अन्यथा तदन्तर्भावेण कृतौ श्क्तावपि पूर्वोक्तातिप्रसङ्गस्य दुष्परिहरत्वात्। `घटो जायते' `ओदनः सिध्द्यति' इत्यादौ घटादेः कारकत्वं कर्तृत्वं च सत्कार्यवादमवलम्ब्यैवोपपादनीयम्।
मुख्यं क्रियाकर्तृत्वं च न तदनुकूलकृतीमात्रम्, एकक्रियाविषयककृतेर्थत्र नान्तरीयकक्रियानिर्वाहस्तत्र तत्क्रियाकर्तृत्वाव्यपदेशात। किन्तु तत्क्रियाविषयकत्वे सति तदनुकूलकृतिस्तत्कर्तृत्वम्। गुरुतकभारोक्तोलनादौ तु यत्र क्रियाया अनिष्पत्तिस्तत्र गतिरुक्तैव। अन्योद्देशेन नाराचक्षेपाद् यत्र ब्राह्मणवधस्तत्र मरणानुकूलनाराचक्षेपरूपव्यापारस्य कृतिविषयत्वेऽपि हिंसालक्षणस्योद्देश्यताघटिततया तस्य विप्रमरणानुकूलव्यापारत्वेनानभिसंहितत्वात्तेन रूपेण क-तिविषयत्वस्य तादृशव्यापारे असत्त्वेन न ब्राह्मणत्वविशिष्टवधकर्तृत्वं तादृशव्यापारकर्तुरिति न सम्पूर्णं प्रायश्चितं तस्येति।
कर्तृविभागामाह-*अयञ्चेति* अनुपदं तृतीयार्थत्वेन निरुक्तः, कर्त्तेत्यर्थः। *घुद्ध इति* हेतुत्वकर्मकर्तृत्वानधिकरणमित्यर्थः। प्रेरणार्थकणिच्प्रकृतिधातूपात्तव्यापाराश्रय इति यावत्। *हेतुरिति* णिजर्थप्रेरणाश्रय इत्यर्थः। *कर्मकर्त्तेति* धातूपात्तव्यापाराऽऽश्रयत्वे सति णिजर्थव्यापारेणाऽऽप्यमानत्वेन विवक्षित इत्यर्थः। क्रमेणोदाहरणान्याह-*मया हरिः सेव्यात इत्यादिना* अत्र व्यापारविशेष्यकबोधोत्कोर्त्तनं तु कैयटानुसारेण तत्त्वं तु प्रागेवावोचामः। *आश्रयव्यापाराविति* आश्रयविशिष्टयापारशक्तौ तु एकदेशान्वयप्रसङ्ग इति भावः।
ननु व्यापारस्य धातुत्वेनैव लाभात् तत्र शक्तिकल्पनमपार्थमित्याशङ्कयैकस्य कर्तृनिष्ठव्यापारस्य धातोर्लाभेऽप्यनुभूयमानकरणनिष्ठव्यापारस्य पदार्थत्वमन्तरेण शाब्दविषयतानुपपत्त्या शक्तिरावश्यकी। आख्यातान्निवृत्तिभेदाया एव क्रियाया अवगमाद्व्यापादद्वयस्य धात्वर्थत्वासम्भवाच्चेत्यभिप्रेत्य स्वोक्तार्थस्य सप्रमाणतां दर्शयितुं करणसंज्ञाप्रतिपादकं सूत्रमुपन्यस्यति-* तथाहीत्यादिना*। साधकतममिति सूत्रस्य कारकाधिकारीयत्वात् सुत्रोपात्तसाधकशब्दादेव प्रकर्षंलाभेऽपि गौणाधारे आधिकरणसंज्ञापलकस्य `कारकप्रकरणे शब्दसामर्थ्यगम्यः प्रकर्षो नाश्रीयते' इत्यर्थस्य बोधनाय तमबुपादानमिति सूचन्नाह *तमबर्थ प्रकर्ष इति* प्रकर्षश्च-कारकान्तरापेक्षः, नतु करणान्तरापेक्षः, कारकसामान्यावाचिसाधकशब्दादुत्पन्नेन तमपा तदवधिकप्रकर्षस्यैव द्योतनात्। तेनाश्वेया व्रजतीति प्रयोगोपपत्तिः, अन्यथा करणान्तरापेक्षिकप्रकर्षस्य करणान्तरे अभावेन तदनुपपत्तेः।
*तादृशेति* फलोत्पत्त्यव्यवहितपूर्ववर्त्तोत्यर्थः। परे तु- फलायोगव्यावच्छिन्नकारणत्वम् करणत्वम्। स्वव्याप्येतरयावत्कारणसमवधाने सति यदव्यावहितोत्तरक्षणे फलनिष्पत्तिस्तत्त्वमिति यावत्। स एव तृतीयार्थः। सत्यन्तनिवेशाच्चक्षुषोऽन्धकारे फलायोगेऽपि न तत्राप्रसङ्गः। प्रयोजकेऽतिप्रसङ्गनिरासायाव्यवहितेति वदन्ति।
तत्र हरिसम्मतिमप्याह* उक्तञ्चेति*। अत्र क्रियापदं फलपरम्। `वाणेन हतः' इत्यत्र वाणव्यापाराव्यवहितोत्तरक्षणे प्राणवियोगरूपफलावश्यम्भावाल्लक्षणसम्न्वयः। *विवक्ष्यते* इत्यनेन विवक्षैव विभक्तौ प्रयोजिका, न वास्तवकरणत्वादिसत्तेत्युक्तम्। अत एव दावानादरेण बलस्य तत्वविवक्षायां बलेन लुनातीति प्रयोगः। *वस्तुत इति* यत इतमेव वस्तु करणमिति न नियमोऽत एव निश्चिताधिकरमत्वापि स्थाली तनुतरकपालत्वाद्वैवक्षिककरणत्ववतीत्यर्थः। *अवकाशमिति* तण्डुलं स्थाल्यां पचतीत्यादौ करणत्वाविवक्षायां तत्तत्संज्ञाप्रयुक्तद्वितीयादेरवकाशमित्यर्थः। तथाच काष्ठैः पचतीत्यादौ प्रकृत्यर्थकाष्ठादेरभेदेनाश्रयरूपतृतीयार्थेऽन्वयः। तस्य च व्युत्पत्तिवैचित्र्येण समानप्रत्ययोपात्तत्वप्रत्यासत्त्या व्यापाररूपतदर्थान्तरे आधेयतासम्बन्धेन फलोपहिततादृशव्यापारस्य च अनुकूलतासम्बन्धेन विविलत्त्यनुकूलव्यापारे। एवञ्च काष्ठाभिन्नाश्रयको यः फलोपहितव्यापारस्तद्विशिष्टो विक्लित्त्यनुकूल एकाश्रयको वर्त्तमानो व्यापार इति बोधः। वैशिष्टयं च धात्वर्थव्यापारे जन्यजनकभावसम्बन्धेन बोध्यम्। अत्र च `यत्सन्निहितेषु सर्वेषु कारकेषु कर्त्ता प्रवर्त्तयिता भवति" इति सकलकारकव्यापारस्य कर्त्रधीनत्वप्रतिपादकम् "कारके" इति सूत्रसथं भाष्यं प्रमाणम्।
अपरे तु-`क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम्' इति वाक्यस्थानन्तरपदस्वारस्यात् तृतीयार्थव्यापारस्य जन्यतासम्बन्धेन फलेऽन्वयः। तथाच जन्यतासग्बन्धेन काष्ठाश्रयकव्यापारविशिष्टविक्लित्त्यनुकूलो व्यापार इति बोधमाहुः। तृतीयार्थकरणत्वस्य व्यापार एवान्वयः, शब्दशक्तिस्वभावान्न फलांशे। अत एव मत्वर्थलक्षणया सोमादिपदस्य नामधेयत्वं सिद्धान्तितम्। अन्यथा व्यापारं प्रति करणत्वेनन्विते फलांशे करणत्वेनान्वयोपपत्तौ लक्षणाया अप्रसङ्ग एव। अत एव सोमेन यजेतेत्यत्र सोमपदस्य मत्वर्थे लक्षणेति मीमांसका इत्यन्ते।
वस्तुतस्त्वाश्रयोऽवधिरुद्देश्य इति मूलस्वारस्यात् करणतृतीयाया अप्याश्रयमात्रमर्थः। प्रकृत्यर्थान्वितस्य तस्य स्वनिष्ठव्यापारजन्यत्वसम्बन्धेन धात्वर्थव्यापारेऽन्वय इत्येव ज्यायाः।
नैयायिकास्त्वसाधारणं कारणं करणम्। कारणे असाधारण्यं च व्यापारवत्त्वामेव, नतु फलायोगव्यापच्छिन्नत्वम्, तस्य यावत्कारणघटिततया गौरवेण तद्धर्मावच्छिन्ने शक्तयसिद्धेः। स एव च प्रकर्षस्साधकतममिति तमपा बोध्यते। व्यापारश्च तज्जन्यत्वे सति तज्जन्यत्वे सति तज्जन्यजनकत्वरूपः। एवञ्च जनकत्वस्याव्यावधानाघटितत्वेन लाभस्यान्तरीयकत्वान्न तत्र पृथक्शाक्तिरिति व्यापारमात्रं करणतृतीयार्थस्तस्मिन् प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः। शेषं पूर्ववदित्याहुः।
*एवमिति* एकस्मिन्नपि धर्मिणि कर्तृत्व-करमत्वयोरङ्गीकार इत्यर्थः। कर्त्तृकरणशक्तयोरविरोध इति यावत्। *शक्तिविपर्य्ययादिति* "कर्ता शास्त्रार्थवत्त्वात्" इति सूत्रेण `एष हि द्रष्टा श्रोताऽनुमन्ता बोद्धा विज्ञानाऽऽत्मा पुरुषः' इत्यादीनां पथा कर्त्तुः कर्त्त्वयाविशेषप्रतिपादकानाम् `यजेत' `जुहुयात्' इत्यादीनां च सार्थक्याय जीवस्य कर्तृत्वबोधिते वुद्धिपदव्यावहार्य्यविज्ञानमेवास्तु कर्त्रित्याशङ्कायां विज्ञानशब्दवाच्यबुद्धेः कर्त्तृत्वाभ्युपगमे लोके समर्थस्यापि कर्तृः सर्वार्थकारिकरणान्तरसापेक्षस्यैव कार्य्यकारित्वदर्शनेन विज्ञानपदव्यपदेश्यत्वबुद्धेः करणशक्तिहान्यापत्तिरतस्तदतिरिक्तजीवस्यैव कर्तृत्वमुचितमित्यर्थप्रतिपादकेन "शक्तिविपर्ययात्" इति सूत्रेणेत्यर्थः।
*न युज्येतेति* कर्तृकरणशक्तयोरविरोधस्यैव भवद्भिरभिदानादिति भावः। समाधत्ते-* तदेवैतेषामिति*। *प्राणानाम्* इन्द्रियाणाम्। *विज्ञानम्* ग्रहणशक्तिम्। *विज्ञानेन* विज्ञानशब्दवाच्येन मनसा तज्जन्यबुध्द्यात्मकवृत्तयेति यावत्। *आदाय* गृहीत्वा हृदयं स्वापे गच्छतीति श्रुत्यर्थः।
*करणतयेति* विज्ञानेनेत्यत्र करणतया क्लृप्तस्येत्यर्थः. निष्प्रमाणेत्यादेः कर्त्तरि करमशक्तिस्वीकारेऽपि द्वयोः शक्तयोरेकदा विवक्षायामसम्भवेन तद्विपर्ययप्रसङ्गाभावादित्याशयादित्यर्थः।
नन्विदमयुक्तम्, आपादनप्रतिपादकग्रन्थस्यैवापत्तावप्राणाण्यप्रतिपादकत्वासम्भवात्, आपत्तेः प्राक्तनसूत्रादप्रकान्तत्वाच्चेत्यत आह-*वस्तुतस्त्विति*। *अभ्युच्चयमात्रमेतदिति* एतत्=शक्तिहान्यापत्तिरूपं दूषणम्। मात्रपदेन तात्पर्यविषयत्वस्य व्यवच्छेदः। अभ्युच्चयत्वञ्च तात्पर्य्यज्ञानविषयार्थसन्निहितत्वम्, उपेक्षाविषयत्वं वा। तच्च बुद्धेः करणशक्तिविपर्ययेऽस्ति। दृष्टान्तप्रतिपादकसूत्राद् बुद्धेः कर्तृत्वनिरासस्यैव सुख्यत्वावगतेरिति भावः।
भूषणे तु तदेवैतेषामित्याद्यभिप्रायादित्यन्तः पाठो नास्त्येव। नन्वेवं कर्त्तेत्यादिर्न युज्येतेति चेत् सत्यम्, "अन्वाचयमात्रमेतद्" इति पाठः। अन्वाचयेति विज्ञानसब्दार्थस्य जीवत्वे शक्तिविपर्य्ययापत्तिः सम्भाव्यते, नतु निर्भरस्तत्रेत्यर्थः। उपाधिवशेन परमात्मन्येव तत्सम्भवादिति भावः। तदेव विशदयति-*यथा चेति* सूत्रे चशब्दस्त्वर्थे, पराभिमतबुद्धिकर्तृत्वनिरासार्थः। नहि परमात्मनोऽन्यो जीवो नाम कर्त्ता भोक्तावा सम्भवति, नित्यशुद्धमुक्तात्मनः कर्तृत्वाद्यसम्भवात्, अनिर्मोक्षप्रसङ्गाच्च।
किन्तु "ध्यायतीव लेलायतिव" इति श्रुतेरध्यस्तं तत्त्त्र वाच्यम्, अविद्योपस्थापितं तु तत् परस्यापि सम्भवति, "यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति" इति श्रुतेः। विद्याऽवस्थायां तु तदभावः "यत्र तु सर्वमात्मैव स्यात् किं केन पश्यत्" ओइति श्रुतेः। यथा तक्षा वास्यादिकरणहस्तः कर्त्ता दुःखीभवति, स एव गृहस्थो विमुक्तवास्यादिनिर्व्यापारः सुखीभवतीति तदर्थः। तथाच शक्तिविपर्य्ययादित्यस्य पराभ्युपगतबुद्धिकर्तृत्वनिरासे तात्पर्यम्, नतु बद्धेः कर्तृत्वेन करणशक्तिपरित्यागा इति न तद्विरोध इति भावः।
सप्तम्यर्थं निरूपयति-*सप्तम्या अपीति*। ननु तावता सूत्रादाधारस्य वाच्यत्वं लभ्यते, नाश्रयस्येत्यत आह-*तत्त्वञ्चेति* आधारत्वञ्चेत्यर्थः। *आश्रयत्वमिति* आश्रयत्वविशिष्टत्वमित्वर्थः। विशिष्टे सूत्रेण शक्तिबोधनेऽप्याश्रयांऽशे एव सा, नतु विशेषणीभूताश्रयतेवेऽपि तत्प्रकारकशाब्दबोधे आश्रयशक्तिज्ञानस्य हेतुताकल्पनयैव तद्भानोपपत्तेरित्याशयेनाह-*तत्राश्रयांशः शक्य इति*। यद्वा-ननु तावता परम्परया क्रियाऽऽश्रयस्य सप्तम्यर्थत्वं लब्धम्, नाऽऽश्रयमात्रस्येत्यत आह-*आश्रयांश इति* पूर्वोक्तरीत्या क्रियाया धातोरेव लाभदन्यलभ्याश्रय एव शक्य इत्यर्थः। *तत्त्वमिति* आश्रयत्वमित्यर्थः। *आश्रयत्वमात्रेमेति* शक्यताऽवच्छेदकस्य कर्त्रादिसाधारण्यात् करणतृतीयायाश्च व्यापारोऽपित्यपिना आश्रयार्थत्वप्रतिपादनादिति भावः। *कर्त्तृकर्मद्वारेति* एतादृशार्थलाभश्च तत्सूत्रसामर्थ्यादेव।
तथाहि-कारकाधिकारीयेणैतेन क्रियाऽन्वय्यारस्याधिकरणसंज्ञा विधीयते। क्रियाच धात्वर्थः। साक्षात्तदाधारयोः पराभ्यां कर्त्तृकर्मसंज्ञाभ्यामाक्रान्तत्वादिदं सूत्रमनवकाशं सत् परम्परया धात्वर्थश्रयस्याधिकरणसंज्ञाविधानेन चरितार्थम्, परम्पराघटके च कर्तृकर्मणी एवेति भावः। परया कर्मसंज्ञया बाधादेव `मोक्षे इच्छास्ति' इतिवन्मोक्षे इच्छति भवतीति न प्रयोगः।
*औपश्लेषिकमिति* संयोकसम्बन्धनिबन्धनमित्यर्थः। सामीप्यस्यापि संयुक्तसंयोगरूपतया संयोगपदेन तस्यापि सङ्ग्रहात् आधेयव्याप्यताऽवच्छेदकयत्किञ्चिदवयवकमित्यर्थः।
*वैषयिकमिति* विषयतासम्बन्धनिबन्धनमित्थर्थः। *अभिव्यापकमिति* आधेयव्याप्यतावच्छेदकयावदवयवकमित्यर्थः। तत्राद्यस्य कटे शेते, गुरौ वसतीत्युदाहरणे। द्वितीयस्य मोक्षे इच्छास्तीति, अन्त्यस्यान्त्यम्। `कटे शेते' इत्यत्र परम्परया कटाभिन्नाश्रयकः शयनानुकूलो व्यापार इति बोधः। एवमन्यत्राऽप्यूह्यम्।
*भाष्ये स्पष्टमिति* तत्र हि संहिताधिकारखण्डनाय "अयं योगः शक्योऽवक्तुम्। अधिकरणं नाम त्रिप्रकारम्-व्यापकमौपश्लेषिकं वैषयिकमिति। इक्शब्दस्य अच्शब्देन कोऽन्योऽभिसम्बन्धो भवितुमर्हत्यन्यदत उपश्लेषात्। "इकोयणचि" उपश्लिष्टस्येति तत्रान्तरेण संहिताग्रहणं संहितायामेव भविष्यति" इत्युक्तम्। अत्रोपश्लिष्टपदाध्याहारेण सप्तमीत्यर्थे इदमेव भाष्यं। संहितायामित्युपलक्षणम्-"तत्र च दीयते कार्य्यं भववत्" इत्यादिसूत्रस्थभाष्यवस्यापि तत्राधिकरणत्रैविध्यप्रतिपादनादिति।
नैयायिकास्तु-`संयोगेनाऽऽधारः' समवायेनाऽऽधारः' इत्याद्यनुगतप्रतीतिबलादाधारत्वमखण्डोपाधिः। संयोगादिरूपं तु न तत्, कुण्डसंयोकिनो बदरादेरपि कुण्डाऽऽधारतापत्तेः।
ननु बदरप्रतियोगिकत्वविशिष्टसंयोगानुयोगितायाः कुण्डाधारताव्यवहारनियामकत्वाभ्युपगमान्नोक्तदोषः, न वा कुण्डे कुण्डसंयोगानुयोगितासत्त्वेऽपि कुण्डे कुण्डमिति प्रतीत्यापत्तिः, कुण्डप्रतियोगिकत्वविशिष्संयोगानुयोगितायास्तत्रविरहादिति चेदेवमपि मल्ले मल्लान्तरसंयोगसत्त्वे उक्तानुयोगिताध्रौव्यान्मल्ले मल्ल इति वायवहारापत्तेरशक्यवारणत्वेनोक्तप्रकारस्यैवानुसर्त्तव्यात्वात्। तथाच तादृशमाधारत्वम्, आधेयत्वं वा सप्तम्यर्थः। कस्याधारत्वं इत्याकाङ्क्षायां क्रियानिरूपितस्य तस्य बाधादुपस्थितत्वात् कर्तृकर्मणोराधार एव सेति तयोरेव तदन्वयः।
एवञ्च `भूतले घटः' इत्यादौ न यत्र क्रियाश्रवणं तत्रापि कारकत्वनिर्वाहाय तदध्याहारस्याऽऽवस्यकता। ईदृशस्थले परम्परासम्बन्दस्यापि क्रियाऽन्वयित्वरूपकारकत्वघटकता, शास्त्रप्रामाण्यात्। अत एव `अक्षशौण्डः' इत्यादौ सामर्थ्योपपत्तिः। एवञ्चभूतले घटोऽस्तीत्यत्र भूतसवृत्तिर्घटो वर्त्तमानसत्ताऽऽश्रय इति भोधः। नञ्समभिव्याहारे तु तादृशसप्तम्यर्थाभावो घटांशे भासते इत्याहुः।
पञ्चम्यर्थं निरूपयति-*अवधिः पञ्चम्यर्थ इति*। *विश्लेष इति* विभाग इत्यर्थः। अवधित्वञ्च प्रकृतधात्वर्थविभागजनकतत्क्रियाजन्यविभागस्य तत्रापि सत्त्वादतिप्रसङ्गतादवस्थ्यमतस्तद्विशेषणम् *प्रकृतेति* एवञ्च वृक्षात् पततीत्यादौ विभागजनकक्रिया पतत्यर्थः। यद्वक्ष्यति-यत्र धातुना गतिर्निर्दिश्यते तन्निर्द्दिष्टविषयमिति। अधिकं हरिपद्यव्याख्याऽवसरे ग्रन्थकृतैव स्फुटीकरिष्यते।
*उदासीनम्*=विभागजनकक्रियानाश्रयः। यद्द्वैविध्यमाह-*चलमित्यादि*। चलः=अश्वादिः, अचलः=ग्रामादिः।
*तत्क्रियानाश्रयत्वादिति* तद्विभागजनकतत्क्रियाऽनाविष्टत्वादित्यर्थः। *क्रियाश्रयत्वादिति* तथाचाव्याप्तिरिति भावः।
*विशेषणीयमिति* तथाच विबागस्तत्तद्वयक्तित्वेन निवेशनीय इति भावः। समाधत्ते *प्रविभक्तेत्वित्यादिना* तत्तन्मेषवृत्तित्वविशिष्टत्वेन भिन्नतयाऽवगते इत्यर्थः। *व्यवस्थिते इति* तत्तन्मेषवृत्तित्वविशिष्टविभागजनकक्रिये तत्तन्मेषानाश्रिते भवत एवेत्यर्थः. तदेवाऽऽह *मेषान्तरक्रियापेक्षमित्यादीति*। *अत्रधित्वम्* तद्विभागजनकतत्क्रियानाश्रयमित्यर्थः। परस्परपदोपात्तयोरपादानत्वम् तत्तत्क्रियाश्रयत्वान्मेषपदोपात्तयोः कर्त्तृत्वञ्चोपपद्यत इत्यर्थः। तत्तद्वयक्तित्वेनापि धात्वर्थक्रियाविशेषणीयेत्याह-*क्रिया चेति*। *धात्वर्थ इति* प्रकृतधात्वर्थं इत्यर्थः। *नतु स्पन्द इति* यथाकथञ्चित्प्रतीयमानक्रियाऽपीत्यर्थः। वृभकर्मजविभागवति वस्त्रे इत्युक्तया वस्त्रद्वारकसम्बन्धेन क्रियाऽन्वयित्वं वृक्षस्य सूच्यते। `क्रियाजनकत्वं कारकत्वम्' इति मते तु तत्र वृक्षस्याऽपादानत्वं दुरुपपादमेव। *सङ्गच्छत इति* तादृशवृक्षनिष्ठक्रियायाः प्रकृतपतधात्वर्थत्वाभावेन तद्वति वृक्षे नाव्याप्तिरिति भावः।
अत्र वदन्ति-पञ्चम्या आश्रय इव विभागोऽप्यर्थोऽविभागार्थकपतत्यादिसमभिव्याहारे करणतृतीयाया व्यापारवद् अनेकधातूनां विभागे शक्तिकल्पनापेक्षया एकस्याः पञ्चम्यास्तत्र शक्तिक्पनायां लाघवात्। विभागस्य धात्वर्थत्वे द्वितीयादिस्थले इव विभागस्य धातुना लाभादाश्रयमात्रं पञ्चम्यर्थ इत्येव ब्रूयात्, अवधेराश्रयात् पृथुगुपादानवैयर्थ्यात्, त्यजिपत्योः पर्यायतापत्तेश्च। प्रकृतेऽधोदेशसंयोगानुकूलक्रियैव पतत्यर्थः। अधोदेशश्च-संयोगांशे उपलक्षणम्, गम्युपात्तसंयोगफल उत्तरदेशवत्, विभागाधीनपूर्वदेशसंयोगनाशमन्तरेण क्रियायाः संयोगजनकत्वासम्भवात्। तस्याविभागजनकत्वमक्षुण्णमेव। समानप्रत्ययोपात्तत्वप्रत्यासत्त्या व्युत्पत्तिवैचित्र्येणाश्रयरूपपञ्चम्यर्थस्य विभागरूपापरतदर्थे आधेयतयान्वयः, तस्य चानुकूलतासम्बन्धेन पतत्यर्थक्रियायाम्। एवञ्च विभागस्य धात्वर्थत्वाभावान्न कर्मताप्रसङ्गलेशोऽपि।
यद्वा-अविधिरित्यनुगतव्यावहारादविधित्वमाश्रयत्वव्याप्यमखण्डोपाधिस्तदवच्छिन्न एव पञ्चम्यर्थः। अत एवावधेराश्रयात् पृथगुपादानम्। तस्य च स्वनिष्ठावधित्वनिरूपकविबागजनकत्वसम्बन्धेन क्रियायामन्वयः। एवञ्च पूर्वकल्पे `वृक्षात् पर्णं पतति' इत्यत्र वृक्षाभिन्नाश्रयकविभागजनकपर्णाऽऽश्रयकसंयोगानुकूलव्यापार इति बोधः। द्वितीये तु वृक्षाभिन्नावधिविशिष्टा तादृक् क्रियेति विभागजन्यसंयोगो विभागजनकक्रियाया न पतत्यर्थः, `पत्लृ गतौ' इत्यनुशासनाद् गतिशब्दस्य गम्लृ गतावित्यादौ संयोगानुकूलव्यापार एव प्रसिद्धेः, त्यजर्थे गतिव्यवहाराभावाच्च, फलावच्छिन्नव्यापारे व्यापारावच्छिन्नफले च धातोः शक्तिमङ्गीकुर्वतः स्वोक्तफलत्वानाक्रान्तविभागस्य धात्वर्थव्यापारावच्छेदकत्वासम्भवाच्च।
पततेः संयोगरूपफलार्थकत्वे ग्रामं गच्छतीतिवद् ग्रामं पततीत्यापत्तिरिति तु न शब्दशक्तिस्वाभाव्येन तदुपस्थितसंयोगस्याधोदेश एवान्वयात्। ग्रामस्य तत्तवे तु `विहगो ग्रामं पतति' इति त्विष्टमेव। अत एव `नरकं पतितिः' इति विग्रहे `द्वितीया श्रित' इति पतितशब्दयोगे द्वितीयासमासविधानं सङ्गचछते। नच वृक्षमजहत्यपि पर्णे भूमिं स्पृशति, वृक्षात् पर्णं पततीत्यापत्तिः, तदुपस्थाप्यक्रियाजन्यदेशान्तरविभागे वृक्षावधिकत्वानुपगमात्। अन्यथा क्रियाजन्यसंयोगमात्रस्यैव विभागजन्यत्वेन भूमिपर्णसंयोगस्यापि तथात्वात् त्वन्मतेऽपि तादृशप्रयोगस्य दुर्वारतापत्तेः। अत एव
गतिर्विना त्ववधिना नापाय इति कथ्यते।
वृक्षस्य पर्णं पततीत्येव भाष्ये निदर्शितम्।।
इत्यवध्यन्वययोग्यविभागानुकूलत्वं विना संयोगजनिका क्रिया नापायः। अत एव पर्णविशेषणतया वृक्षविवक्षायाम पारस्याविवक्षणाद् वृक्षस्य पर्णं पतततीत्यत्र भाष्ये ष्ष्ठ्युक्तेत्येतदर्थकं हरिणोक्तम्। (विभागजन्यसंयोगस्य पूर्वापरीभूतानवयवकत्वेन च व्यापारत्वाभावेन विभागस्य तदुक्तफललक्षणानाक्रान्तत्वेन तदुभयार्थकस्य पततेर्धातुत्वानापत्तेश्च)।
यत्र च गृहादपसरतीत्यादौ विभाग एव धात्वर्थस्तत्राश्रयः, अवधिमात्रं वा पञ्चम्यर्थः। तस्याधेयतया स्वनष्ठावधित्वनिरूपकत्वेन वा यथायथं विभागेऽन्वयः। परस्परस्मान्मेषावपसरत इत्यादौ तु मेषपदवाच्यत्वावच्छेदेनैव कर्त्तृत्वविवक्षा, नच परस्परवाच्यत्वावच्छेदेनेति न पञ्चम्यनुपपत्तिरिति।
उक्तापादान्त्वस्य पञ्चमीवाच्यतावच्छेदकत्वे गौरवं मनस्याधायाऽऽह-*वस्तुत इति*।
लक्षणमात्रमिति* मात्रपदेन शक्यतावच्छेदकत्वव्यावच्छेदः। तथाच व्यावृत्त्यादिफलकं निरुक्तावधित्वमेव। पञ्चम्य्रथस्तु विभागाश्रयमात्रमेवेति भावः। *द्वितीयार्थोक्तरीत्येति* चैत्रो ग्रामं गच्छतीतिवच्चैत्रः स्वं गच्छतीति वारणाय परया कर्तृसंज्ञाया बाधादित्युक्तरीत्येत्यर्थ-। नन्वेवं वृक्षात् पर्णं पततीत्यत्र पर्णेऽपि विभागाश्रयत्वस्यावैकल्यात् तदुत्तरं पञ्चम्यापत्तिरत आह *अतिप्रसङ्गस्येति* स्यन्दस्य प्रस्त्रवणजन्यविभागाश्रयत्वस्य वृक्षे सत्त्वादतिप्रसङ्गमासङ्कय निषेधति-*नचेति*। *एवमिति* विभागाश्रयत्वमात्रस्यापादानसंज्ञानियामकत्वे इत्यर्थः।
*स्यादिति* प्रस्त्रवणस्याधोदेशसंयोगानुकूलद्रवद्रव्याक्रियारूपतया विभागस्य धात्वर्थाभावेन परमते आपत्यसम्भवादित्याशयः। *इष्टत्वादिति* चलत्यर्थक्रियाजन्यविभागाश्रयत्वस्येवैतदर्थक्रियाजन्यविभागाश्रयत्वस्यापि पञ्चमिनियामकत्वे क्षतिविरहादित्यर्थः। चलतेर्गत्यर्थकत्वेऽपि `राज्याच्चलितः' इति प्रयोगे विभागानुकूलक्रियापरत्ववत् स्यन्देरपि तदर्थत्वमुपगम्याऽऽपत्तेरिष्टत्वमिति भावः. जलमत्र कर्त्तृ, वृक्षस्यैव कर्त्तृत्वविवक्षायान्तु परया कर्त्तृसंज्ञया बाधेनोक्तापत्तेरसम्भवादिति भावः।
*नचैवमपीति* एवमपि=धात्वर्थविभागाऽऽश्रयत्वस्यापादानसंज्ञानियामकत्वेऽपित्यर्थः। *दुर्वारमिति* वृक्षस्य त्यज्यर्थक्रियाजन्यविभागाश्रयत्वादिति भावः। *कर्मसंज्ञयेति* वृक्षस्य त्यजर्थव्यापारजन्यविभागाश्रयत्वादिति भावः। पूर्वमतिप्रसङ्गः कर्त्तृसंज्ञामादायैवोक्तः। इदानीं तु कर्मसंज्ञामादाय प्राप्तः स नीवारित इति बोध्यम्। *अनुभवसिद्ध इति* वस्तुतो विभागावधित्वस्य वृक्षे अबाधात्तज्जन्यबोधस्य प्रामात्वंमिष्टमेव, धात्वर्थव्यापारजन्यविभागाश्रयस्यैव पूर्वग्रन्थेनावधित्वोक्तेः। त्यजतेः पतत्यर्थे शक्तिभ्रमदशायां लक्षणाग्रहदशायां वा `वृक्षात् पर्णं त्यजति' इति प्रयोगस्य प्रामणिकत्वेन कारणतावच्छेदककोटौ त्यजादिभिन्नत्वस्य धात्वंशे निवेयितुमशक्यत्वादित्यभिप्रेत्योक्तम्-*यदीति*। *बलाहकादिति* धूममरुज्जयोतिःसमूहो बलाहकः। ततोऽवयवभूतज्योतिषामेव विभागविवक्षणात् सोऽवधिः। द्युतिश्च लक्षणया निःसरणपूर्वकविद्योतनबोधकः। तथाच बलाहकावधिकनिःसरणोत्तरकालिकं विद्युत्कर्त्तृकं विद्योतनमिति बोधः। *निःसृत्येति* निःसरणपूर्वके विद्योतने धातोर्वृत्तिमुपगम्य पञ्चम्युपपाद्योत्यर्थः। अत एवोपात्तविशेष्यस्वान्तर्भावो वक्ष्यमाणः सङ्गच्छेते।
*बुद्धिपरिकल्पितमिति* बौद्ध (आरोपित) विभागावधित्वमाश्रित्येत्यर्थः। तादृगपादानत्वाश्रयणे प्रमाणशैथिल्यं मत्वाऽऽह-*पृथगिति*। *साक्षादिति* मुख्यवृत्त्येत्यर्थः। धातुनेत्यस्य समभिव्याहृतेत्यादिः। *गतिरिति* विभागजनकक्रियेत्यर्थः। *उपात्तविषयमिति* समभिव्याहृतधातुनोपात्तः लक्षितो गतिरूपो विषयो यत्रेत्यर्थः। *अपेक्षितक्रियमिति* अनुपात्तधात्वर्थक्रियासाकाङ्क्षमित्यर्थः।
*अध्याहृत्येति* अर्थाध्याहाराभिप्रायेण। पदाध्याहारवादे तु आकङक्षितक्रियोवाचकपदानुसन्धानेऽप्यनुपात्तत्वरू6पविशेषणघटितलक्षणावैकल्यं बोध्यम्। प्रमाणं तत्रशब्दाध्याहारवादे `पुष्पेभ्यः स्पृहयति' इत्यादौ स्पृहयत्यादियोगे सम्प्रदानादिसंज्ञाविधायकानि `स्पृहेरीप्सितः' (पाo सूo 1-4-36) इत्यादिसूत्राणि, तैस्तत्तद्धातुयोगेव तद्धोधनात्। अर्थध्याहारे तु `क्रियार्थोपपदस्य' इत्यादिसूत्रम् "ल्यब्लोपे" इत्यादिवार्त्तिकानि च।
अन्ये त्विदमित्थं व्याचक्षते-यत्र विभागास्तज्जनकक्रिया चोभयं धातुनाऽभिधीयते तदाद्यम्। यत्र विभागोऽध्याहृत धातुना तथा तद्द्वितीयम्। यत्र तूभयमप्यध्याहृतधात्वभिधेयं तत्तृतीयमिति। अधिकमन्यतोऽवधार्य्यम्।
चतुर्थ्यर्थं निरूपयति-*उद्देश्य इति* ननूद्देश्यत्वं कामनाविषयत्वम्, तच्च `विप्राय गां तताति' इत्यत्र क्रियाजन्यफलभागितया कामनाविषये गवादावतिप्रसक्तमतस्तध्द्यावृत्तम्, तत्सूत्रप्रामाण्येन दर्शयति-*तच्च कर्मणेत्यादि* कर्मणेत्यनन्तरं सम्बन्धुमिति शेषः। कर्म चात्र पारिभाषिकम्, "कर्मणा यमभिप्रैति" (पाo सूo 1-4-32) इति क्रियाव्याप्यमानस्य सम्प्रदानसंज्ञाविधानात्। अत एव तदकर्मकविषयम्।
ननु `ग्रामं गच्छति' इत्यत्र ग्रामरूपकर्मजन्यसुखादिफलभागितयोद्देश्ये कर्त्तरि अतिप्रसङ्गोऽत आह-*करणभूतेनेति* करणत्वञ्च सम्बन्धक्रियाऽपेक्षम्, क्रियाव्यावहितव्यापारवत एव करमतया व्यापारे कर्मवृत्तित्वलाभेन तद्वृत्तित्वस्य धात्वर्थतावच्छेदकफल एव सम्भवात्। कर्मवृत्तितज्जन्यत्वस्य ग्रामजन्यसुखे असत्त्वान्नोक्तातिप्रसङ्ग इति भावः। यमित्यस्यानुपादाने योऽभिप्रैतीत्यर्थस्यापि लाभात् प्रथमान्तार्थकर्त्तर्यतिप्रसङ्गः स्यादतस्तदुपात्तम्।
यद्यपि `गौर्ब्राह्मणस्य भवतु' इतीच्छाविशेष्यतया गामेवावगाहते तथापि सूत्रस्य फलितार्थपरत्वान्न दोषः। तथाच कर्मजन्यतद्वृत्तिफलभागित्वप्रकारको यद्विशेषयकोऽभिप्रायः स सम्प्रदानमिति सूत्रार्थः। तादृशफलसम्बन्धित्वप्रकारतानिरूपितविशेष्यताश्रय इति यावत्।
`विप्राय गां ततादि' इत्यादौ परस्वत्वजनकस्वस्वत्वध्वंसावच्छिन्नेच्छात्मकस्त्यागो दाधात्वर्थः। उद्देश्यत्वं चतुर्थ्यर्थः। (निरुक्वविशेष्यताश्रयरूपस्य तस्य स्ववृत्तिविशेष्यतानिरूपकत्वसम्बन्धेन त्यागेऽन्वयः) गोरूपकर्मणश्चाऽऽश्रयत्वेन स्वत्वरूपफले। तथाच गोवृत्तिस्वत्वजनकस्वस्वत्वध्वंसानुकूलो विप्राभिन्नोद्देश्यकस्त्याग इति वैयाकरणमते बोधः। उद्देश्यत्वं च विप्रे गोजन्यस्वत्वभागितयेच्छाविषयत्वमेव, एवं वृक्षायोदकमासिञ्चतीत्यत्राप्युदकनिष्ठक्रियाजन्यसंयोगफलभागितयेच्छाविषयत्वात् सम्प्रदानत्वमूह्यम्।
नैयायिकास्तु-परस्वत्वेच्छाधीनस्वस्वत्वध्वंसेच्छात्याग इति मते स्वस्वत्वध्वंसावच्छिन्नत्यागो ददात्यर्थ-। विशेष्यत्वं चतुर्थ्यर्थः। तस्य स्वनिरूपकनिरुक्तेच्छाजन्यत्वसम्बन्धेन ददात्यर्थत्यागे गोरूपकर्मणस्त्वाधेयतया स्वस्वत्वध्वंसरूपफले। तथाच गोवृत्तिस्वस्वत्वध्वंसजनको निरुक्तसम्बन्देन विप्रनिष्ठविशेष्यताविशिष्टो यस्त्यागस्तदाश्रयश्चै इति `विप्राय गां ददाति चैत्रः' वाक्याद् बोधः।
यदि तु गौर्विप्रस्य भवतु ममेतीच्छैव त्यागः, सच गवि स्वस्वत्वध्वंसमिव परस्वत्वमपि अवगाहते तदा स्वस्वत्वध्वंसपूर्वकपरस्वत्वोत्पत्त्यवच्छिन्नत्यागौ दाधात्वर्थः। एव़ञ्च उक्तस्थले निरूपितत्वेनेच्छाविषयत्वं चतुर्थर्यर्थः। तस्य च स्वस्वत्वध्वंसेऽन्वयाद् विप्रनिरूपितत्वेन इच्छाविषयगोवृत्तिस्वस्वत्वध्वंसपूर्वकपरस्वत्वोत्पत्त्यवच्छिन्नत्यागाऽऽश्रय इति बोधः। जन्यस्वत्वस्य गोवृत्तित्वेऽवगतेऽर्थात्तस्मिंस्तज्जन्यत्वं लभ्यते एवेति गोजन्यस्वत्वनिरूपकत्वेनेच्छाविषयत्वरूपमुद्देश्यत्वं विप्रस्याक्षतम्। वृक्षायोदकमासिञ्चतीत्यत्र तु संयोगावच्छिन्नद्रवद्रव्यक्रियावच्छिन्नव्यापारो धात्वर्थः. वृत्तित्त्वेच्छाविषयत्वं चतुर्थ्यर्थः। स च धात्वर्थतावच्छेदकसंयोगान्वयी। द्वितीयार्थवृत्तित्वं तु द्रवद्रव्यक्रियान्वयि। तथाच वृक्षवृत्तित्वेनेच्छाविषयो यः संयोगस्तदवच्छिन्ना या उदकाभिन्नद्रव्यावृत्तिक्रिया तदवच्छिन्नव्यापारानुकूलकृतिमानिति बोधः।
नचैवं सिचधात्वर्थत्वर्थतावच्छेदकद्रवद्रव्यक्रियायां द्वितीयार्थवृत्तित्वान्यवये पयसा वृक्षं सिञ्चतीति न स्यात्, तादृशक्रियाया वृक्षावृत्तित्वादिति वाच्यम्। तत्र संयोगावच्छिन्नद्रव्याक्रियाया एव धात्वर्थतया तदवच्छेदकीभूतसंयोग एव वृक्षवृत्तित्वान्वयान्नानुपपत्तिरित्याहुः।
पुतृभ्यो दद्यादित्यादौ तु रुद्राय गां ददातीतिवत् सम्प्रदानत्वमस्त्येव। त्यागे बैजात्यनिवेशाच्च न क्रेतुः सम्प्रदानत्वम्। वृक्षायोदकमासिञ्चतीत्यादौ तु चतुर्थ्यर्थे गौणसम्प्रदानत्वम्। तत्र सिचेर्द्रव्यवृत्तिसंयोगानुकूला क्रिया। उदकादिपदसमभिव्याहारे च संयोगानुकूलक्रियामात्रमर्थः। चतुर्थ्यस्तु वृत्तित्वम्। इत्त्थञ्च वृक्षत्त्युदकीयसंयोगावच्छिन्नकियेत्यादिबोधः।
अत्र चुतर्थोद्वितीयाभ्यां तुल्यबोधजनन्त्तत्र द्वितीया मा भूदिति सम्प्रदानसंज्ञानुशिष्यते। वृक्षं पयसा सिञ्चतीत्यादौ तु वृक्षशब्दात् द्वितीया भवत्येव। तत्र तृतीयार्थोऽभेदस्तस्य द्रवद्रव्येऽन्वयः। द्वितीयार्थवृत्तित्वस्य तु संयोगेऽन्वयः। तथाच वृक्षवृत्तिसंयोगानुकूलोदकाभिन्नद्रव्याक्रियेति बोधः।
`शत्रवेऽस्त्रं मुञ्चति' अत्र दुःखोद्देश्यकत्वं चुतुर्थ्यर्थः। मोचनं विभागावच्छिन्नक्रिया, क्रियानुकूलव्यापारो वा। प्रकृत्यर्थस्य वृत्तित्वेन चतुर्थ्यर्थैकदेसे दुःखेऽन्वयः। एवं मित्राय दूतं प्रेषयतीत्यत्र वार्त्तादानोद्देश्यकत्वम्। पुत्राय धनं प्रेषयतीत्यत्र प्रीत्युद्देश्यकत्वं चतुर्थ्यर्थ इत्याद्यूह्यमित्याहुः।
तन्न सम्यक्, सम्प्रदाने हि चतुर्थि। नच भवदुक्तसम्प्रदानत्वे किञ्चिन्मानम् येन वृक्षायेत्यत्र चतुर्थो स्यात्। किञ्च संयोगरूपधात्वर्थान्वयित्वाविशेषादुदकपदादपि चतुर्थ्यापत्तिः। बाधकं कर्मत्वं तु वृक्षेऽप्यक्षतमिति न किञ्चिदेतत्। *इदमेवेति* निरुक्तोद्देश्यत्वमेवेत्यर्थः। *पूर्वतन्त्रे* मीमांसायाम्। *अत एवेतति* शेषित्वस्यार्थकर्मप्रयोजकत्वादेवेत्यर्थः।
*प्रासनवदिति* "प्रासनवन्मैत्रावरुणाय दण्डप्रदानं कृतार्थत्वात्" इत्याधिकरणे इत्यर्थः। प्रासनदृष्टान्तश्चैवम् ज्योदिष्टोमे श्रूयते "नीतासु दक्षिणासु चात्वाले कृष्णविषाणं प्रास्यति" इति। यदा यजमानेन दत्ता दक्षिणा ऋत्विग्भिर्नातास्तदा यजमानः स्वहस्ते धृतं कृष्णमृगश्रृङ्गं चात्वालनामकगर्त्ते प्रक्षिपेदिति तदर्थः। तत्रैवं सन्दिह्यते-किमेतत् प्रासनमर्थकर्म, प्रतिपत्तिकर्मेति वा? अर्थकर्मैव भवितुमर्हति, सप्रयोजनत्वात्। प्रतिपत्तितायां तु अपूर्वाभावे निरर्थकमेव स्यादिति पूर्वापक्षे-"कृष्णविषाणया कण्डुयति" इति श्रुत्या कृतार्थस्य प्रतिपत्त्यपेक्षत्वात् प्रतिपत्तिकर्मतैव युक्ता। नचानर्थक्यम्, प्रासनक्रियाप्रयुक्तापूर्वाभावेऽपि चात्वाल एवेति नियमापूर्वसद्भावादिति सिद्धन्तितम्। तद्वुद्दण्डदानं न प्रतिपत्तिरिति योजना। *इत्यधिकरण इति* चतुर्थाध्याय इति शेषः।
ज्योतिष्टोमं प्रकृत्यैव सोमे दीक्षिताय दण्डं प्रयच्छतीति दण्डस्य दीक्षाभिव्याञ्जकत्वं विधायक्रीये सोमे " मैत्रावरूणाय दण्डं प्रयच्छति" इति श्रूयते। तू दण्डदानस्यार्थप्रतिपत्तिकर्मभावसन्देहेऽध्यवर्युणा दीक्षासिद्धयै दत्तदण्डस्यासोमक्रयाद्यजमानधारणेन कृतार्थत्वादुपयुक्तस्य तस्य दानं प्रतिपत्तिकर्मैवेति पूर्वपक्षे, " दण्डी प्रैषानन्वाह" इति श्रवणान्मैत्रावरुणस्य प्रैषानुवादेऽवलम्बनाय दण्डोपेक्षितः. एव़ञ्च भविष्यदुपयोगसद्भावात् दानव्याप्यमानदण्डयाप्यमानत्वेन मैत्रावरुणस्य प्राधान्याच्च दण्डदानस्य प्रतिपत्तिकर्मण उपयुक्तसंस्काररूपादर्थकम्मैवोपयोक्ष्यमाणसंस्काररूपत्वेन प्राशस्त्याच्चार्थकर्मतैवोचिता,उपयोजयितुमेव सर्वत्र संस्कारप्रवृत्तेः। उपयुक्ते तु प्रतिपत्तिरूपसंस्कारस्य सत्कारमात्रपर्य्यवसायित्वेन कार्यपर्यावसानाभावादप्रशस्तत्वमतो मैत्रावरुणसंस्काराय तद्दानमर्थकर्म। तथा सति निरूढपशौ असत्यपि दीक्षिते दण्डसम्पादनस्यैवैतद् दानप्रयोजकमिति सिद्धान्तितम्।
अर्थकर्मत्वे च शेषित्वं प्रयोजकम्। तच्च चतुर्थिश्रुत्या मैत्रावरुणस्य बोध्यत इत्याह-*चतुर्थिश्रुत्येति* ननु यत्र दाधातुरधीनीकरणाद्यर्थकस्तत्राधिनत्वादिरूपफलनिरूपकतयेच्छाविषयत्वरूपसम्प्रदानत्वस्य रजाकदावपि सम्भवात् "रजकाय वस्त्रं ददाति" "होत्रे उष्ट्रं ददाति" इत्यादिप्रयोगाः प्रसज्ज्येरन्नित्याशङ्कामिष्टापत्त्या परिहरति-*रजकायेति*। तत्र प्रमाणमुपन्यस्यति-*खण्डिकोपाध्याय इति*। *ददातीति* दाधात्वर्थसंयोगसम्बन्धित्वेनेच्छाविषयत्वरूपोद्देस्यत्वस्य तत्र सत्त्वादिति तद्भावः। अस्मिन् प्रयोगे ददातिः संयोगानुकूलव्यापारार्थकः। चपेटापदार्थस्तु प्रसृतकरतलम्। " न शूद्राय मतिं दद्यात्" इत्यत्र ददातिर्बोधनार्थकः। मतिपदार्थश्च तज्ज्नकं वेदादिशास्त्रमिति बोध्यम्।
*स्वस्वत्वनिवत्तिति* परस्वत्वोत्पत्त्यवच्छिन्नस्वस्वत्वध्वंसेच्छारूपं व्यापारम्। *अर्थम्* दाधात्वर्थमित्यर्थः। तथाचोक्तराथकदाधात्वर्थकर्मनिष्ठफलभागितयेच्छाविषयत्वमेव सम्प्रदानत्वम्। अन्वर्थमहासंज्ञाकरणसामर्थ्यादुक्तस्थले च ददातेस्तदर्थकत्वाभावेन रजकस्य वस्त्रं ददातीत्येवेति तेषामाशयः। उक्तभाष्यप्रामाण्यादन्वर्थत्वमेवासिद्धम्। महासंज्ञाकरणं तु प्राचामनुरोधादेव, सर्वनामस्थानसंज्ञावदित्यस्वरसादाह * आहुरिति*।
नन्वजां ग्रामं नयतीत्यत्राजायां निरुक्तसम्प्रदानस्य सत्त्वात्तद्वाचकाच्चतुर्थ्यापत्तिरिति चेत् स्यादेव यदि परया कर्म्मसंज्ञाया सम्प्रदानत्वस्य न बाध इति। `यूपाय दारु' इत्यादौ न सम्प्रदानचतुर्थो, अपि तु तादर्थ्ये। तादर्थ्यञ्च-स एवार्थः प्रयोजनमस्य तत्त्वाम्। समभिव्याहृतार्थे तादर्थ्यविवक्षायां तद्वाचकाच्चतुर्थिति `तादर्थ्ये चतुर्थी वाच्या' इति वार्त्तिकार्थः।
प्रयोजनत्वञ्च न जन्यत्वम्, दुःखाय पापमित्यस्याप्यापत्तेः। नापि जन्यतयेच्छाविषयत्वम्, स्वर्गादेः पुण्यादिजन्यतयेच्छाविषयत्वेन स्वर्गाय पुण्यमित्यापत्तेः। नचेष्टापत्तिः, तथा सति पक्तुं व्रजतीत्य्रथे `पाकाय व्रजति' इति प्रयोगनिर्वाहाय "तुमर्थाच्च" (पाo सूo 2-3-15) इतिसूत्रप्रणयनवैयर्त्यापत्तेः। पाकादेर्निरुक्तव्रजनाद्यर्थतयैव तद्वाचकाद्वार्त्तिकेन चतुर्थ्युपपत्तेः। अपि तु समभिव्याहृतपदार्थनिष्ठव्यापारेच्छानुसूलेच्छाविषयत्वम्। तत्प्रयोजनकत्वरूपं तादर्थ्यं तु तदिच्छाधीनेच्छाविषयव्यापाराश्रयत्वम्। दारुणो यूपेच्छाधीनेच्छाविषयतक्षणादिरूपव्यापारवत्तय यूपार्थत्वात्तद्विवक्षया वूपपादच्चतुर्थी। तदर्थश्चेच्छाधीनेच्छाविषयव्यापाराश्रयत्वम्। प्रथमेच्छायां यूपादेः प्रवृत्यर्थस्य विषयित्वेनान्वयः। तस्याऽऽश्रयतया दार्वादौ, एवं रन्धनाय स्थालीत्यादावप्यह्यमिति केचित्,
नन्न मनोरमम्, तदार्थ्यस्योक्तरूपत्वे सुक्कये हरिं भजतीत्यत्र चतुर्थ्यनुपपत्तेः। नहि भजनस्य मुक्तीच्छाधीनेच्छाविषयव्यापारवत्ता नापि मुक्तेः सम्प्रदानता, कर्मजन्यफलभागितयानुद्द्श्यत्वात्। तस्मात्तदिच्छाधीनेच्छाविषयत्वमेव तत्तादर्थ्यम्। स्वार्गाय पुण्यमित्यास्त्विष्यन्त एव। वार्त्तिकं दृष्ट्वा सूत्रकृतोऽप्रवृत्तेर्न "तुमर्थात्" इति सूत्रानुपपत्तिरपीति। नमःस्वस्त्यादिशब्दयोगेऽपि तदर्थविसेषवाचकात् "नमः स्वस्ति" (पाo सूo 2-3-16) सूत्रेण चतुर्थी विधीयते। तत्र नमःपदार्थस्त्यागो नतिश्च। तत्र नतिः स्वापकर्षबोधनानुकूलो व्यापारः। `हरये नामः `एषोऽर्घः शिवाय नमः" इत्यादौ त्यागः। चतुर्थ्या च तत्रोद्देश्ययत्वं प्रत्याय्यते। त्यागश्च यदि शिवस्यायं भवत्विति फलेच्छाधीनो न ममेत्याकारकः स्वस्वत्वेच्छाभावरूपस्तदा तदुद्देश्यत्वं त्यागजनकेच्चायाः स्वत्वभागितया विषयत्वम्। यदि त्यागरूपेच्छैवान्यदीयत्वेन त्यज्यमानगतं स्वत्वमपि विषयीकरोति तदा स्वत्वभागितया विषयत्वमेव तदुद्देश्यत्वम्, नतु स्वीकाराश्रयत्वम्, शिवादेर्विग्रहवतोऽपि स्वीकाराभावात्तदाकारकतया ध्यातस्य मन्त्रस्य त्यागोद्दश्यतामते तदभावाच्च।
त्यज्यमानोपचारादौ शिवादिनिरूपितस्वत्वाभावेऽपि तदीयत्वेन तत्र द्रव्ये स्वत्वावगाहिनिच्छाविसंवादिरूपैव। अन्यदीयस्वत्वे बाधितं शिवादिनिरूपितत्वं शिवादीनिरूपितप्रसिद्धस्वत्वान्तरे वा बाधिनं तद्द्रव्यासम्बन्धमवगाहते।
तत्र प्रथमे स्वत्वप्रकारकेच्छाजन्यत्वं जन्यतासम्बन्धेन तादृशेच्चावत्त्वं वा चतुर्थ्यर्थः। तत्र प्रकृत्यर्थस्य शिवादेर्विषयताविशेषसम्बन्धेनान्वयः। द्वितीये विषयताविशेष एव सः। तत्र च प्रकृत्यर्थशिवादेर्निरूपितत्वसम्बन्धेनान्वयः। नमः-पदार्थत्यागस्य वि,यताविसेषसम्बन्धेनार्घादिद्रव्येऽडन्वयः। द्रव्यस्यैव वा विशेष्यतया भासमानत्यागेऽन्वयः। शिवायोत्सृजतीत्यादाविव नात्रानिराकर्त्तृसम्प्रदानता, नमःपदस्याधातुत्वात्।
नमःपदेन च स्वप्रयोक्तृपुरुषकर्त्तृकत्वोपरागेणैव त्यागो बोध्यते, अन्योच्चरितनमःपदेनान्यदीयत्यागाबोधनात्, तत्पुरुषोच्चारितनमःपदात्त्यागबोधे त्यागे त्यज्यमानद्रव्ये च तदीयत्वसंशयानुदयात्। अत एव तदीयत्वबोधनायाहं ददे इतिवत्, `अहं नमः' इत्यादि न प्रयुज्यते। कॠत्विजा च यजमानरूपरुरुषान्तरीयद्रव्यत्यागे स्वीयत्वमारोप्यैव पूजायां नमःपदं प्रयुज्यते। स चारोपस्तस्मिन् विशेषदर्शनदशायामाहार्यतयोपपद्यते। प्रतिनिधिप्रयुक्तदानवाक्यस्येव पूजायां नमः-पदघटितवाक्यस्य बाधितार्थकत्वेऽप्यदृष्टजनकत्वं न विरूद्धम्, शास्त्रप्रामाण्यादित्याद्यन्यत्र विस्तरः।
तद् विजते *इदमिति* "कर्मणा यमभिप्रैति" (पाo सूo 1-4-32) इति सङ्केतितं सम्प्रदानं चेत्यर्थः। त्रिविधमित्यनेनान्वितम्। त्यागाङ्गं कर्मणेप्सितं कर्तुरनिराकरणादित्रिभ्यः सम्प्रदानव्यपदेशं लभत इति योजना। स्वनिष्ठोद्देश्यतानिरूपकत्वसम्बन्धेन त्यागे समभिव्याहृतधात्वर्थे विशेषणतया प्रतीयमानत्वं तदङ्गत्वम्। तेन वृक्षायोदकमासिञ्चतीत्यादौ न वृक्षादेराधिक्यम्। वस्तुतस्तु वृत्तिकृन्मते नायं विभागः। तेन वृक्षादेरसंग्रहेऽपि न क्षतिः। तथाच समभिव्याहृतधात्वर्थे इति न व्याख्येयम्।
इदं च विशेष्यं तद्भेदनियामकमाह-*अनिराकरमादिति* प्रवृत्तिवृत्त्यतरानुकूलव्यापारशून्यत्वादित्यर्थः। *कर्मणेप्सितमिति* कर्मजन्यफलभागितयेच्छाविषयः। *प्रेरणेति* अप्रवृत्तस्य कर्त्तुस्त्यागादाविष्टसाधनताबोधनं प्रेरणा, जातेष्टसाधनताबोधे अप्रामाण्यशङ्कया शिथिलस्य कर्तुस्तादृशशङ्काविधूननक्षमप्रमाणोपन्यासेन प्रवर्त्तनं कर्मनिष्टस्वत्वादिफलाभ्युपगममात्रानुकूलव्यापारवत्त्वं वानुमतिस्ताभ्यामित्यर्थः। `प्रकृतधात्वर्थकर्मजन्यफलभागितयेच्छाविषयत्वे सति कर्त्तृप्रवृत्तिनिवृत्त्यन्यतरानुकूलव्यापाराभाववत्त्वम्' अनिराकर्त्तृतवम्। निरुक्तविषयवत्त्वे सति कर्त्तृसम्बन्धित्यागादिविषयकेष्टसाधनताबोधौपयिव्यापारवत्त्वं प्रेरकत्वमित्याद्युह्यम्।
*सूर्यायार्ध्यं ददातीति* अत्र मतभेदेन दाधातोः परस्वत्वेच्छाधीनस्वस्वत्वाभावेच्छारूपः। परस्वत्वगोचरस्वस्वत्वाभावेच्छारूपो वा त्यागोऽर्थः। अन्वयबोधस्तु "नमः स्वस्ति" (पाo सूo 2-3-16) इतिसूत्रोक्तदिशोहनीयः। *सर्वत्रेति* न तत्सूत्रविहितद्वितीयाद्यन्तप्रयोरेष्वित्यर्थः। *अभेदः संसर्ग इति* अभेदात्मकः संसर्गो विशिष्टबुद्धिनियामको विशेष इत्यर्थः। अभेदसंसर्गकप्रकृत्यर्थप्रकारकबोधं प्रति सम्बन्धार्थकविभक्तिभिन्नप्रत्ययजन्योपस्थितेर्हेतुत्वादिति भावः।
यत्तु सम्बन्धस्य सम्बन्धिभेदनियतत्वादभेदस्य सम्बन्धत्वे मानाभावादभेदसंसर्गं इतरसम्बन्धानवच्छिन्न विशेष्यविशेषणभाव इति, तन्न, विशेष्यविशेषणभावस्यापि सम्बन्धनियततत्वेन तदसत्त्वे तस्याप्यसम्भवात्। अत एव भासमानवैशिष्टयप्रतियोगित्वं विशेषणत्वमिति टीकाकृतः। कथमन्यथा `द्विष्ठोऽप्यसौ परार्थत्वात्' इति विशेषणत्वेन विवक्षितस्य सम्बन्धं विना विशेषण्वासम्भवेन तदाकाङ्क्षित्वादिति स्वयं व्याख्यातम्।
नच तस्य सम्बन्धेत्वे `नीलो घटः' इत्यादौ षष्ठयापत्तिरिति वाच्यम्, `राहोः शिरः"इत्यादावौपाधिकभेदसम्बन्धमादाय षष्ठ्युपपादनपरस्यानेकावस्थायुक्तराहोः "इदमेकावस्तायुक्तं शिरोऽवयवः" इति भाष्यप्रामाण्येन भेदमूलकसम्बन्ध एव षष्ठीत्यर्थलाभात् अभेदसम्बन्धे तदापादनासम्भवात्,
तादृशभाष्येणाभेदसम्बन्धस्य प्रातिपदिकार्थविशेष्यत्वाविवक्षणाद्वा, सम्बन्धस्य सम्बन्धिभेदनियतत्वं त्वसिद्धमेव। यदि भेदनियतत्वमेवेत्याग्रहस्तदा सर्वसाधाराण्याय सम्बन्धितावच्छेदकभेद एव नियामकत्वेनाभ्युपेयताम्।
नच तत्सम्बन्धत्वे मानाभावः, सर्वसिद्धनीलादिविशिष्टबुद्धेरेव मानत्वात्। शाब्दबोधे तद्भाननियामिका च प्रकृतिप्रत्ययविशेषयोः समानाधिकरणप्रातिपदिकार्थयोश्च समभिव्याहाररूपाकाङ्क्षा। अत एव "अर्थवत्" ( पाo सूo 1-2-45) सूत्रे भाष्ये " एषां पदानां सामानयें वर्त्तमानानां यद्विशेषे पर्य्यवसानं स वाक्यर्थः" इत्युक्तम्।
अन्विताभिधानवादिमतेन चेदम्, तन्मतेऽन्वितस्यैव पदार्थत्वात्। तथाच सामान्यरूपेण सन्बन्धवाचकानां पदानां यद्विशेष इत्यादेस्तत्तदनुयोगिप्रतियोगिकत्ववैशिष्टयबोधकत्वम्। आकाङ्क्षादिसमवधानात् स एव वाक्यार्थो वाक्यजन्योबोधविषय इत्यर्थः। वाक्यशक्तयभिप्रायण वा तथाभिधानम्। प्रातिपदिकार्तसूत्रे भाष्ये "पदसामानाधिकरण्यमुपसङ्खयानमधिकत्वात्" इत्यस्य तु 'वीरः पूरुषः' इत्यादौ विशेष्यविशेषणभावप्रयोजकप्रातिपदिकार्थातिरिक्ताभेदसंसर्गस्यापि भानात् प्रातिपदिकार्थमात्राभावात् प्रथमा न प्राप्नोतीत्यतः प्रथमाया उपसङ्खयानमारब्धव्यमित्यत्यर्थान्न तद्विरोधोऽपि।
कैयटेनापि न वाक्यार्थत्वादिति तत्प्रत्याख्यानावसरे वीरप्रातिपदिकादनपेक्षितशब्दान्तरोहितविशेषणभावात् स्वार्थमात्रनिष्ठात् प्रथमा विधीयते इत्यत्र प्रतिपादितपदमपहायोहितशब्दं प्रयुञ्जानेन विशेष्यविशेषणभावनियामकत्वमितर सम्बन्दस्यैवाङ्गीकृतम्।
वस्तुतस्तु प्रकृते विशेष्यविशेषणभावस्य सम्बन्धतानुपपन्नैव, सम्बनधस्य सम्बन्धिभेदनियतत्वादिति त्वदुक्तेः। विशेष्यविशेषणयोर्भाव इति व्युत्पत्त्या तस्य विशेष्यत्वविशेषणत्वमात्रपर्य्यवसायितया प्रत्येकं तयोरद्विष्ठत्वाच्चानुयोगित्वप्रतियोगित्वाभ्यां द्विष्ठत्वोपपादनेऽप्येकस्यैव सा स्यान्न समुदित्योर्द्वयोः। स्वस्वामिभाववत् शब्दानुगममात्रस्यार्थपरिच्छेदकत्वात् सम्बन्दान्तरे षष्ठी, न विशेष्यविशेषणभावसम्बन्दे इत्यत्र मानाभावाच्च्। तस्माद्यथेक्तमेव रमणीयमिति।
ननु विभक्तिनां धर्मवाचकत्वस्य तन्त्रान्तरसिद्धतया कथं तत्र प्रकृत्यर्थस्याभेदेनान्वयः, अयोग्यत्वादन आह *विभक्तीनामिति* कारकविभक्तीनामित्यर्थः। *धर्मिवाचकत्वात्*=शक्तिमच्छक्तत्वादित्यर्थः.
नन्वस्तु शक्तिरेवार्थोऽत आह *धर्मवाचकत्व इति*। *सूत्रस्वरसभङ्गापत्तेरिति* तद्घटककर्मादिपदानां धर्मपरतां विनोक्तार्थलाभात्तत्परत्वे तदभ्ङ्गः स्पष्ट एवेत्यर्थः। तथार्थस्य सूत्रकारसम्मतत्वे, कर्मत्वे द्वितीयेत्याद्येव ब्रूयादिति भावः।
ननु कर्मणीत्यादौ विषयसप्तमीबोध्य इत्यर्थः। तथाच विभक्तीनां धर्मवाचकत्वेऽपि तस्याश्रयतया प्रकृत्यर्थेऽन्वयेन कर्मबोधात् तत्फलान्वयिनि वृत्तिरेव द्वितीयार्थ इत्मतेऽपि तुल्यवित्तेवेद्यतया तण्डुलादीनां फलाश्रयकर्मत्वादिना भानान्न सूत्रस्वरसभङ्गोऽत आह *कर्मर्थकेति*। *कृति*=`पक्वस्तण्डुलः' इत्यादौ। *तद्विते*=`शत्योऽश्वः' इत्यादौ। आदिपदात् `पच्यमानस्तण्डुलः' इत्यादौ लडादेशशानच्संग्रहः।
*तथादर्शनादिति* धर्मिवाचकतादर्शनादित्यर्थः। तथाच कर्मपरामर्सकतच्छब्दघटितयोरित्यादिसूत्रविहितक्तादीनां धर्मिवाचकत्ववत्रापि तद्वाचकत्वमेव न्याय्यमिति भावः। ननु तत्र पदार्थान्तरसामानाधिकरण्यानुपपत्त्यास्तु तथात्वमत्र तूक्तापत्त्यभावेनास्तु धर्मवाचकत्वमेवेत्यत आह *द्वितीयाद्यर्थकेति* द्वितीयादिविभक्तीनां धर्मवाचकत्वे तदर्थविहितसमासस्यापि धर्मवाचकत्वापत्त्या "प्राप्तोदकः" इत्यादौ उदककर्त्तृकप्राप्तिकर्मत्वस्य समासार्थस्य समानविभक्तिक पदोपस्थाप्यग्रामादावभेदान्वयानुपपत्तेरत्रापि जागरूकतया द्वितीयादिविधायकसूत्रस्थकर्मादिपदानां धर्मिवाचकत्वमावश्यकमिति भावः।
ननु त्वन्मतेऽपि षष्ष्ठयाः सम्बन्धार्थकतया तदर्थविहितबहुव्रीहेः पदार्थान्तसामानाधिकरण्यानुपपत्तेस्तौल्येन तत्र लक्षणया विशिष्टशक्त्या वा सामानाधिकरण्यस्योपपाद्यतयान्यत्रापि तयैव रीत्या निर्वाहे कृतं सुपां धर्मिवाचकत्वेनेत्यत आह-*सुपां कर्मादयोऽप्यर्था इति*।
यदि कर्मत्वादिधर्मो द्वितीयादिवाच्यतया विवक्षितोऽभविष्यत् तदा कर्मत्वादयोऽप्यर्था इत्येवावक्ष्यत्। तदनुक्त्या तु तेषां द्वितीयाद्यर्थत्वमप्रामाणिकम्, मिनित्रयानुक्तत्वादिति भावः।
शक्तिवादपक्षमवलम्ब्याह-*आश्रयस्यापीति* आश्रयत्वेन भानं त्वसिद्धमेवेति भावः। *आश्रयत्वमात्रमिति* द्वितीयातृतीयासप्तमीनामिति शेषः। मात्रपदेनाश्रयव्यावच्छेदः।
नन्वाश्रयत्वस्य शक्यत्वे आश्रयत्वत्वं शक्यतावच्छेदकं वाच्यम्, तच्चाश्रयत्वेतरावृत्तित्वघटितत्वाद् गुर्विति शक्यतावच्छेदकगौरवमेवैतस्मिन् कल्पे दोष इत्यत आह *तदेवेति* आश्रयत्वमेवेत्यर्थः। `एव'कारेण निरुक्ताश्रयत्वत्वव्युदासः। तस्याखण्डत्वस्योपपादितत्वान्ननाव्यक्तिविशेष्यकशक्तिग्रह एव स्वेतरधर्मस्यावच्छेदकत्वापेक्षणादिति भावः। कर्त्तृतृतीयाया आश्रय(त्व)मात्रार्थकत्वादाह-*करणेति*। व्यापारोऽपीत्यपिनाश्रय(त्व)समुच्चयः।
वस्तुतस्तु अत्रापि `व्यापारमात्रमर्थः' इत्येव वक्तुमुचितम्, अपिशब्दस्यावधारणार्थकत्वात्।
*विभागमात्रमिति* मात्रपदेनाश्रयत्वव्यावच्छेदः, विभागस्याश्रयतयान्वयादेव वृक्षादाववधित्वलाभादिति भावः। वस्तुतस्तु वृक्षादेरवधित्वरूपस्वरूपसम्बन्धेन पञ्चम्यर्थविभागेऽन्वनय इत्युक्तम्। उद्देश्यत्वमात्रमित्यनेनाप्याश्रयत्वस्य सः। * अत एवेति* कर्मत्वादिशक्तेस्तत्तद्विभक्तिवाच्यत्वकथनादेवेत्यर्थः।
*न विरुद्धयत इति* शक्तिग्रहे जातिव्याक्त्योरुभयोर्भानाविशेष्ऽपि जातिरेव शक्या, `नागृहीतविशेषणन्यायात्', `विशेष्यं नाभाधा गच्छेत्' इतिन्यायाच्च। व्याक्तिशक्तौ व्यभिचारात् तासामानन्त्याच्चेति तत्र सिद्धान्तितमिति भावः। कारकविभक्त्यर्थं निरूप्य प्रसङ्गात् षष्ठयथं निरूपयति मूले-*सम्बन्ध इति*। "शेषे षष्ठी" ( पाo सूo 2-3-50) इति सूत्रात् कारकप्रातिपदिकार्थभिन्नः स्वस्वामिभावादिसम्बन्धश्च तत्र शेषपदार्थः। तत्रान्यविभक्तीनां मतभेदेन धर्मिधर्मवाचकत्ववदेतस्यास्तथा भ्रमो मा भूदित्याशयेनाह सारे * सम्बन्धमात्रमिति* पक्षद्वयेऽपिति शेषः।
स च क्वचित् सम्बन्धत्वेन सामान्यधर्मेण वाच्यः, क्वचिच्च विशेषरूपेणैव। तत्र सामान्यरूपेण "मातुः स्मरति" इत्यादौ, विशेषरूपेण विवक्षायां स्वस्वविषये तत्तद्विभक्तीनां प्रसरात्। ' राज्ञः पूरुषः" इत्यादौ तु विशेषरूपेणैव अनेकसम्बन्धसत्त्वेऽपि सम्बन्धविशेषविवक्षया `नेदं चैत्रस्य' इति प्रयोगात्। सम्बन्धश्च सर्वत्र क्रियाकारकभावमुल एव। "षष्ठी शेषे" इति सूत्रे `राज्ञः पूरुषः' इत्यत्र राजा पुरुषाय ददातीति सम्प्रत्ययाद्राजा कर्त्ता पुरुषः सम्प्रदीनम्, वृक्षस्य शाखेत्यत्र वृक्षे शाखेति लौकिकप्रसिद्धया वृक्षः शाखाया अधिकरणम्। "यदेतत् स्वं नाम चतुर्भिः प्रकारैरेतद्भवति-क्रयणादपहरणाद्याञ्चायाः परिवर्तनरूपाद्विनिमयादित्यनेन यत्राक्षूयमाणा क्रिया तत्रापि तत्फलसम्बन्दानुमितकरणत्वादिशक्तेर्वस्तुतः सत्त्वादित्यर्थकेन भाष्येण शेषपदार्थापऐसिद्धिमासङ्कयैवं तर्हि कर्मादीनामविवक्षा शेष इति शोषोक्तेः"। क्रियाकारकसम्बन्धस्य वस्तुतः सर्वत्र सत्त्वेऽपि तन्निमित्तस्य स्वस्वामिभावादेः सम्बन्धत्वेन विवक्षणे तस्याविवक्षणात् शेषपदार्थसौलभ्यमिति तद्भावः।
नच सम्बन्धस्योबयनिरूप्यत्वात् `राज्ञः पूरुषः' इत्यत्र राजपदोत्तरमिव पुरुषपदोत्तरं षष्ठयापत्तिरिति चेन्न, यदा राज्ञः उपकारकत्वविवक्षा तदा राजपदादेव। यदा तु पुरुषस्य तद्विवक्षा तदा पुरुषपदादपि, पुरुषस्य राजेति। नचैकदोभयत्र सेति नोक्तातिप्रसङ्गः। तदुक्तं हरिणा-
द्विष्ठोऽप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते।
तत्राभिधीयमानश्च प्रधानेऽप्यपचर्य्यते।। इति।
परार्थत्वात्=परं प्रति गुणानां विशेषणत्वात्, विशेषणत्वेन विवक्षितस्य सम्बन्धं विना सम्बन्धं विना विशेषणत्वासम्भवेन सम्बन्धो व्यतिरिच्यते=उद्भूततया प्रतियते इति तत्रैव षष्ठी। विशेष्यस्य सु पदान्तरासमभिव्याहारे स्वरूपेणैव प्रतीयमानत्वान्न विशेष्यतानियमकसम्बन्धाकाङ्क्षा। तत्र=विशेषणे, अभिधीयमानः=षष्ष्ठया प्रतीयमानः प्रधाने=विशेष्येऽपि उपयुज्यते, तस्य द्विष्ठत्वस्वभावाद्राजनिरूपितविशेष्यताया राजपदसन्निदाने प्रतीयमानाया उपकारको भवतीति तदर्थः।
*कारकषष्ठया इति* "कर्त्तृकर्मणोः कृति" (पाo सूo 2-3-65) इत्यादिसूत्रविहितषष्ठया इत्यार्थः। शेषविहितषष्ठयाः सम्बन्धरूपधर्मवाचकतया षष्ठीत्वेनैतस्या अपि तद्वााचकत्वस्यैव न्याय्यत्वादिति भावः। ननु कर्त्तृकर्मादिकारकविहिततृतीयादीनां कथं कर्त्रादिधर्मवाचकत्वमत आह *सप्तमीपञ्चम्याविति*। तथाच धर्मस्यापि कारकत्वस्य भाष्यसम्मतत्वेन तासां तद्वाचकत्वे न दोष इति भावः।
*दर्शनादिति* तत्र हि द्रव्यं कारकमिति पश्रे `अद्य भुक्त्वाऽयं द्वयहे भोक्ता' इत्यादौ देवदत्तरूपकर्त्तृकारकस्यैक्यान्मध्यव्यापदेशासम्भवादप्राप्तसप्तमीपञ्चम्योरुपपादनाय प्रवृत्त्स्य `क्रियामध्य इति वक्तव्यम्' इति वार्त्तिकस्य खण्डनायोक्तम्। नान्तरेण साधनं क्रियायाः प्रवृत्तिर्भवति। क्रियामध्यं च कारकमध्यमपि भवति। तत्र कारकमध्यमपि भवति। तत्र कारकमध्ये इत्येव सिद्धमिति तत्र साधनमित्यस्य शक्तिमित्यर्थः।
तथाच देवदत्तादिरूपकर्त्तृद्रव्यस्यैक्येऽपि कालभेन्नभुजिक्रियानुमितकारकपदार्थकर्त्तृत्वशक्त्योर्भेदात् तन्निमित्तम्ध्यव्यपदेशाबाधाद्योथोक्तेऽनुपपत्त्यभावात् `क्रियामध्ये' इति वार्त्तिकं नारम्भणीयमिति तद्भावः।
इदमुपलक्षणम्-अनभिहितसूत्रभाष्यस्य। तत्र `संख्या विभक्तयर्थः' इति पक्षेणानभिहिताधिकारं समर्थ्य द्वयोः कारकयोरन्यतराभिधानं विभक्त्यभावप्रसङ्गः, क्व? `प्रासादे आस्ते' `शयने आस्ते' किं कारणम् यदि प्रत्ययेनाभिहितमधिकरणमिति कृत्वा सप्मी न प्राप्नोतीत्याशङ्कय, नवान्यतरेणाभिधानात्, `अनभिहिते विधानम्'इत्यादिना प्रसज्ज्यप्रतिषेधे, पर्य्युदासे वा नञर्थे दूषणं परिहृत्य यदि साधनं द्रव्यं स्यात् तदेकमेव, तच्चाभिहितमिति पूर्वोक्तपरिहारो न सम्भवति। अथ शक्तिः साधनं तदा तस्याभेदादनभिहितत्वसम्भवाद्भवत्युक्तपरिहार इत्याभिप्रेत्य किं पुनर्द्रव्यं साधनमाहोस्विद् गुण इत्याशङ्कयोक्तम्, किं पुनः साधनं न्याय्यम्? गुण इत्याह। कथं ज्ञायते, एवं हि कश्चित् पृच्छति, क्व देवदत्त इति?। स तस्मायाचष्टेऽसौ वृक्षे इति, कतरस्मिन् यस्तिष्ठति स वृक्षोऽधिकरणं भूत्वाऽन्यशब्देनाभिसम्बन्धमानः कर्त्ता। सम्पद्यते। द्रव्ये साधने यत् कर्म कर्मैव स्याद्यत् करणं करणमेव यदधिकरणमधिकरणमेव" इति।
कैयटेनापि "यदि द्रव्यं साधनं स्यात् तदा तस्यैकरूपत्वात् तन्निबन्धनाबाधितप्रत्यभिज्ञाविषयान् नानार्थक्रिया करमनिबन्दनः `घटेन जलमाहरे' `घटं कूरु' `घटोऽस्ति'इति व्यापदेशो न स्यात्, दृश्यते चासौ। तस्मान्नानासक्तिभावावगमः सिद्धः" इति तद्विवृतम्।
एवञ्च शक्तिपक्षस्याऽऽकरसम्मततया द्वितीयादीनां कर्मत्वादौ शक्तिरिति वदतां मतमपि सम्यगेवेति भावः। प्रातिपदिकार्थेतिसूत्रविहितप्रथमाया यथायथं प्रातिपदिकार्थः, लिङ्गम्, परिमाणं चार्थः।
कर्माद्याधिक्ये प्रथमा मा भूदिति तत्र मात्रग्रहणम्। द्वन्द्वान्ते श्रूयमाणस्य तस्य प्रत्येकं द्वन्द्वघटकपदार्थेऽन्वयात् प्रातिपदिकार्थमात्रे, प्रथमेत्यादिवाक्यभङ्गः। प्रातिपदिकार्थत्वञ्च-नामनिष्ठशक्तयवच्छिन्नजनकतानिरूपितजन्यताश्रयोपस्थितित्वव्यापकविषयिताप्रतियोगित्वम्। उच्चैरित्याद्यर्थविषयितायास्तादृशोपस्थितित्वव्यापकत्वात् तत्र प्रथमोपपत्तिः।
एवं कृष्ण इत्यादौ कृष्णादिविषयिताया इव पुँल्लिङ्गादिवषयिताया अपि तदुपस्थितित्वनैयत्यं व्यक्तमेव। यद्यपि `द्विकं प्रातिपदिकार्थः' इति पक्षे लिङ्गस्योपस्थिविषयत्वं दुर्घटम्, तथाप्यनुभवानुरोधेन शक्यार्थोपस्थितेः प्राग् लिङ्गोद्वोधकसमवधानस्य नियमेन कल्पनात् तस्य तत्त्वं बोध्यम्। एवञ्चालिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणानि। तटादिशब्दजन्योपस्थितौ तु पुँल्लिङ्गादिभानस्यानैयत्यात्राप्राप्तप्रथमाविधानाय लिङ्गग्रहणम्।
`सिंहो माणवकः' इत्यादौ सादृश्याद्यधिकार्थस्य प्रतीतावप्यन्तरङ्गत्वात् स्वार्थमात्रनिष्ठात् तस्मात् प्रथमा सुलभैव। तत्र प्रथमार्थलिङ्गस्य विशेषणतया प्रकृत्यरथेऽन्वयः, योग्यताबलादनुभवाच्च, तथैव कार्य्याकारणभावकल्पनात्। एवं द्रोणो व्रीहिरित्यादौ द्रोणप्रतिपदिकार्थातिरिक्तद्रोणपदात् परिमणस्याधिक्येन भानात्तत्र परिमाणग्रहणम्।
नच व्रीह्यादिपदसमभिव्याहारात् तद्भानेऽप्यन्तरह्गत्वात् प्रातिपदिकार्थमात्र एव साऽस्त्विति वाच्यम्, तथा सति द्रोणपदार्थस्य परिमाणस्य भेदसम्बन्धेनान्वयानुपपपत्तेः। प्रथमार्थस्य तस्य तु भेदेनान्वये न किञ्चदि, बाधकमिति सम्प्रदायः।
नव्यास्तु-प्रातिपदिकार्थः-तत्तत्पदप्रवृत्तिनिमित्तम्, तदाश्रयश्च। अत एव लिङ्गग्रहणं चरितार्थम्, अन्यथा "स्वमोर्नपुंसकात्" (पाo सूo 7-1-83) इति सूत्रप्रामण्यात् तस्यापि प्रातिपदिकार्थतया तदुपादनवैयर्थ्यापत्तेः। आश्रयत्वं च वैज्ञानिकम्ा, शक्यतावच्छेदकारोप एव लक्षणेत्यन्यत्र व्यावस्थापितत्वात्। गोपीत्यादौ प्रकृत्यर्थस्य प्रकृत्यर्थस्य लाक्षणिकत्वेऽपि न क्षतिः। तटादिशब्दानां लिङ्गं वाच्यमेव। विसर्गादयस्तद्द्योतकाः।
एवञ्च प्रातिपदिकार्थ इत्यस्यालिङ्गा लिङ्गप्रवृत्तिनिमित्तकाव्यायस्त्रीपुंसादिशबादाश्चोदाहरणम्। इतरे लिङ्गमात्रद्याधि क्यस्य। द्रोणत्वादिप्रवृत्तिकद्रोणादिशब्दानां परिमणत्वेन परिमाणमपि लिङ्गवद् विशेष्यान्वय्यर्थः। एवञ्च लिङ्गवत् प्रातिपदिकार्थत्वाभावात् परिमणग्रहणम्। "वीरः पुरुषः" इत्यादौ पुरुषादिपदसन्निधाने विशेष्यविशेषणभावस्याधिकस्य भानेऽपि तत्समभिव्याहारात् पूर्वं स्वार्थमात्रनिष्ठात्तस्मात् सेत्याहुः।
"सम्बोधने च" (पाo सूo 2-3-47) इति विहितप्रथमायास्तु सम्बोधनमर्थः। प्रातिपदिकार्थापेक्षया तस्याधिक्येन भानात् पूर्वसूत्राविषयत्वात् तत्सूत्रारम्भः। तच्चाभिमुखीभवनानुकूले व्यापारः क्रियान्वय्येवेति प्रतिपादितं प्राक्। `यथायथं विभक्त्यर्थाः' इत्यत्रत्य-यथायथपदं व्याचष्टे-*उक्तप्रकारेणेति* यदरथबोधे या विभक्तिः समर्थ तस्याः सोऽर्थोऽवसेयः। तथैवोक्तं प्राग्, द्वितीयातृतीयासप्तमीनामित्यादिनेति भावः।
*अत्रेति* सुपां कर्मादिवाचकत्व इत्यर्थः। *नैयायिकान् प्रतीति* प्राचीनान् प्रतीत्यर्थः। यथा तन्मतं तथाख्यातशाक्तिनिरूपणावसरे प्रतिपादितम्।
ननु `सुपां कर्मादयोऽप्यर्थाः' इति भष्यात् सिध्यतु तु तेषां कर्मादौ शक्तिः विषयत्वादौलक्षणायां तु किं बाधकम्। क्रियाजन्यफलशालित्वरूपमुख्यकर्मत्वबाध एव तत्प्रसरादत उक्तरार्द्धप्रदर्शितनियमं बाधकत्वेनोपदर्शयिष्यन्नाशयं प्रकाशयति-*अयं भाव इत्यादि* "स्वौजसमौ" (पाo सूo 4-1-2) इत्यत्र कारकविभक्तिष्वादौ द्वितीयाया उपादानाद् वार्तिकेऽपि तदर्थकर्मणः प्राङ्निर्द्देशः। कर्मादीत्यादिना कारकान्तरसंग्रहः। अपिना शक्तिः कारकमिति पक्षोक्तकर्मत्वादिशक्तीनां समुच्चयः।
*तथा तिङामिति* तद्वत्तिङामपि सङ्खयाकर्मद्यर्थ इत्यरथः। *तत्र* सुप्तिङ्क्षु। *प्रकृतेषु* अर्थेष्वित्यर्थः। *वार्तिकतद्भाष्येति* लोकादेव बहुत्वादिषु बहुवचनादि भविष्यति, किमर्थम् "बहुषु बहुवचनम्"। (पाo सूo 1-4-21) इत्यादिसूत्रमित्याक्षेपे सुप्तिङ्ङामविशेषेण विभानाद् दृष्टविप्रयोगत्वाच्च नियमार्थं वचनमिति समाधाय नियमाऽऽकारप्रदर्शकमिदं श्लोकवार्त्तिकम्।
अथवा प्रकृतार्थनपेक्ष्य नियमः। के च प्रकृताः, एकत्वादयः एकस्मिन्नेवैकवचनम्, न द्वयोर्न बहुषु इत्यादि तद्भाष्यं च ताभ्यामित्यर्थः।
नियमाकारमाह-*द्वितीया कर्मण्येवेति*। प्रकृताभिप्रायम्। निष्कृष्टनियमस्य त्वेकत्वविशिष्टे कर्मण्येव द्वितीयैकवचनमित्याकारो बोध्यः। एवमुत्तरत्रापि। *उभयथापीति* विभक्त्यपेक्षया अर्थापेक्षया चेत्यर्थः। विभक्तिनियमोऽपि द्विधा-अर्थविशेषापेक्षस्तत्सामान्यापेक्षश्च।
तत्राद्यः-कर्मार्थयोग्यप्रातिपदिकाच्चेद् द्वितीया तदा कर्मण्येव, न करणादौ। कर्मादियोग्ये तद्रहितप्रातिपदिकार्थ एव प्रथमा, न कर्मादै। संख्यावदर्थयोग्यप्रातिपदिकाच्चेदेकवचनं तदा एकत्वे एव न द्वित्वादावित्याकारकः। द्वितीयस्तु-प्रातिपदिकाच्चेद् द्वितीया कर्मण्येवेत्याकारकः। अर्थनियमस्तु-कर्मार्थयोग्यप्रातिपदिकाच्चेत् कर्मणि विभक्तिरतदा द्वितीयैव। कर्मादिरहिते तद्योग्यप्रातिपदिकार्थे प्रातीपदिकात्प्रथमैवेत्याकारक इति। सिद्धेत्यस्यैकवाक्यताबलेनेत्यादिः। तथाच विषयत्वस्य निरुक्तकर्मत्वानात्मकत्वेन तत्र द्वितीयादेः शास्त्रेणाविधानात् तदर्थतात्पर्य्येण तदुच्चारणस्यानृतत्वादित्यर्थः। *अत एवेति* विभक्तौ लक्षणाया अप्रयोजकत्वादेवेत्यर्थः।
ननु व्याकरणस्य शक्तिनिरूढलक्षणान्यतरप्रतिपादकत्वेन यत्र मुख्यार्थबाधप्रतिसन्धानादि तत्र शक्यसघ्बन्धिनि लक्षणास्वीकारे बाधकाभावः। घटं जानातीत्यादितो घटादिविषयकज्ञानबोधस्य सर्वानुभवसिद्धस्य द्वितीयाया वृत्तिं विनानुपपन्नस्यैव लक्षणाकल्पकत्वाच्च "विभक्तौ न लक्षणा" इति प्रवादस्त्वेकविभक्तेरपरविभक्त्यर्थे न लक्षणेत्येतत्परोऽत एव न व्यत्ययानुशासनवैयर्थ्यम्। `सुपां कर्मादयोऽप्यर्थाः' इत्यत्र कर्मादिपदस्य गौणमुख्यसादारणकर्मत्वपरतयाऽप्युपपत्तेर्न तद्विरोधोऽपीत्यत आह-*दिगिति*।
दतर्थस्तु मुख्यार्थमादाय सास्त्रचारितार्थ्ये गौणे तद्वयापारे मानाभावः। नच घटं जानातीति प्रसिद्धप्रयोगानुरोधेन गौणेऽपि तद्वयापारकल्पनावशियकेति वाच्यम्, जानातेर्ज्ञानविषयत्वापत्त्युपसर्ज्जनविषयत्वापादनार्थकतया मुख्यकर्मतयैवास्मन्मते प्रयोगोपपत्तिसम्भवात्। स्वानुभवैकगम्येऽर्थे लक्षणाभ्युपगमेऽर्थनिर्द्देशस्य वैयर्थ्यापत्तेस्चेत्यादिः।
अत्र वदन्ति-शास्त्रस्य गौणे प्रवृत्त्यनभ्युपगमे स्थादीनां फलत्वेनाभिमते गत्यभावे धात्वर्थव्यापारजन्यत्वाभावेन तद्धटितमुख्याकर्मकत्वाभावात्तत्तो भावे कर्त्तरि च प्रत्ययानुपपत्तिः, एवं वारयतेः संयोगानुकूलव्यापाराभावानुकूलव्यापारार्थकतायाः सर्वसम्मततया तस्यापि मुख्यसकर्मकत्वाभावेन ततोऽपि कर्त्तरि कर्मणि च लकाराद्यनुपपत्तिरतो गौणेऽपि शास्त्रविषयतावश्यमभ्युपेतव्येति न घटं जानातीत्यादीनां विषयत्वलक्षणायामप्यसाधुता।
वस्तुतस्तु शक्तिः कारकमिति पक्षस्य तन्मते तिङ्सुप्सु व्यावस्थिकत्वेन द्वितीयाया विषयत्वान्वय्याधेयत्ववोधकत्वेऽपि न क्षतिः, तादृशस्थले विषयरूपफलस्य धात्वर्थपफलस्य धात्वर्थपरतायाः प्रागुपपादनात् तन्मतेऽप्युक्तनियमविरोधस्य निषेधविषयतायाश्चासम्भवादित्यलम् (1-24)
इति श्रीभूषणसारदर्पणे सुबर्थनिर्णयः (3)
*****
(1-25) क्रमप्राप्तं नामार्थनिरूपणमित्याशयेनाह-*नामार्थमिति*। *जातिरिति* तत्त्त्पदार्थासाधारणो धर्म इत्यर्थः। तेनाभावत्वाकाशत्वादीनां नित्यानेकसम्वेतत्वरूपजातित्वाभावेऽपि न क्षतिः। एतस्यैव सास्त्रे `स्वार्थ' पदेन व्यवहारः। जातेः पदार्थत्वे मानन्तु-"जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्" (पाo सूo 1-2-49) इति सूत्रम्, "सवर्णेऽण्ग्रहणमपरिभाष्यम्, आकृतिग्रहणात् सिद्धम्" इति वार्त्तिकम्, "आकृतिं वाजप्यायनः" इति सरूपसूत्रस्थं भाष्यञ्च। युक्तिमप्याह-*लाघवेनेति* एकाश्रयकशक्तेरेकस्या एव सम्भवादिति भावः।
ननु शक्तिग्राहकशिरोमणिना व्यवहारेण व्याक्तावेव तत्परिच्छेदात् कथं जातौ तत्सिद्धिरत आह-*अनेकव्यक्तीनामिति* पूर्वं व्यावहारेण व्यक्तौ शक्तिग्रहेऽप्यानन्त्यात् तावतीषु शक्तिग्रहसम्भवात्तत्तदाश्रयभेदभिन्ननानाशक्तिकल्पने गौरवात् पश्चाज्जतावेव निर्द्धार्य्यते इत्यर्थः।
एकव्यक्तिविषयकशक्तिज्ञानादपरव्यक्तिविषयकशाब्दबोधाभ्युपगमे तु गोव्यक्तिविषयकशक्तिज्ञानादश्वविषयकबोधापत्त्या तद्रव्यक्तिविषयकशक्तिज्ञानस्य तद्वयक्तिविषयकबोधे हेतुताया अवश्यकल्प्यतयैकविषयकज्ञानादपरव्याक्तिबोधानुदयापत्त्या सकलव्यक्तिभानार्थं तावद्व्यक्तिषु शक्तिकल्पनायां गौरवस्य स्फुटतया जातावेव शक्तिकल्पनोचिता।
यद्यपि `गोर्गौपदवाच्यः' इति शक्तिग्रहो व्यक्तिविषयकोऽपि, तथापि `सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्यबाधे' इति न्यायेन जातावेव सत्तां जातावेव सत्तां परिच्छिनत्ति। यद्वा जातिविशेष्यक एव शक्तिग्रहः `गौर्गोपदशक्यः' इति जातिशक्तिवाद एवमेवाभिलापात्। व्यक्तिभानस्य त्वग्रे उपपादयिष्यमाणत्वान्न तदनुपपत्तिरिति भावः।
*विनिकमनेति* एकतरपक्षपातियुक्तिरूपेत्यर्थः। तथाचेयं व्यक्तिः शक्या, न जातिरित्येवं प्रत्येकव्यक्तिग्रहे विनिगमकाभावः। पूर्वत्र तु व्याक्तिसमुदायस्यैव कोटितया गौरवज्ञानस्यैव बाधकस्य विनिगमकत्वान्न तदभाव इति भावः। तत्पक्षेऽपि गौरवमेव बाधकमित्याह-*एवं हीत्यादि*।
ननु उक्तविनिगमनाविरहेण सर्वास्वपि व्यक्तिषु शक्तिसिद्धावशक्यव्यक्तेरभावेन न तद्भानाय व्यक्तिवृत्तिकल्पनेति व्यक्तिशक्तिवादपक्षो निर्दुष्टोऽत आह-*किञ्चैवमिति*। यद्वा ननु गोत्वादिजात्यनुगतीकृतयावद्व्यक्तिषु शक्तिस्वीकारान्नानन्त्यादिदोषोऽत आह-*किञैचवमिति* एवम्=विशिष्टे शक्त्यभ्युपगमे। *नागृहीतेति* `नागृहितविशेषणा बुद्धिर्विशेष्यमधिगच्छति' इति न्यायशरीरम्। विशेषणाविषयकबुद्धिर्विशेष्यं नावगाहत इति दर्थः, विशेष्यविषयकत्वस्य विशेषणविषयकत्वनियतत्वमिति यावत्। तथाच विशिष्टशक्तिवादे विशिष्टशक्तिग्रहस्य विशेषविषयकत्वावश्यकतया तदुभयविषयकत्वस्य पदार्थोपस्तित्यादिकारणतावच्चेदकत्वकल्पनोपेक्षया विशेषणविषयकत्वमात्रस्यैव तदवच्छेदकत्वकल्पना लाघवादुचितोति जातावेव शक्तिः सिद्धयतीति भावः।
नन्वेवम् `गां दद्यात्' `व्रीहीनवहन्ति' इत्यादौ दानावहननकर्मत्वाद्यन्वयानुपपत्तिः, जातेस्तदन्वयायोग्यत्वादिति चेदत्र केचित्-जात्याऽऽक्षिप्तव्याक्तावेव दानादिकर्मत्वान्वय इति तत्र, `प्रत्ययानाम्' इति व्युत्पत्तेरप्रकृत्यर्थव्यक्तौ तदन्वयासम्भवात्। तदुक्तम्-
`गाम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम्।
शब्दान्तरैर्विभक्त्या वा धूमोऽयं ज्वलतीतिवत्'।। इति।
किञ्चायमाक्षेपोऽर्थापत्तिः, समानसंवित्संवेद्यत्वं वा। नाद्यः, अनुपपत्तिमन्तरेणापि `गौरस्ति' इत्यतो गोत्वविशिष्टबोधात्। नान्त्यः, जातिविषयकशक्तिग्रहस्य विशिष्टविषयकबोधहेतुत्वाभ्युपगमेन जातिविषयताया व्यक्तिविषयतानैयत्वरूपो वाच्यः, अन्यस्यासम्भवात्। स च ` गोत्वमस्ति' इत्यत्र गोत्वविशिष्टाप्रत्ययाद् व्यभिचरित इत्युक्तानुपपत्तिर्दुर्वारैवेत्यत आह-*व्यक्तिवोधस्तिवति*। *लक्षणयेति* स्वशक्यगोत्वाश्रयत्वसम्बन्धरूपलक्षणयेत्यपर्थः। तथाच पदवृत्तिजन्योपस्थितेरेव शाब्दबोधे हेतुतया व्यक्तेरशक्यत्वेऽपि लक्षणावृत्त्युपस्थितायां तस्यां नावघातादिकर्मत्वान्वयनुपपत्तिरिति भावः। *एवञ्चेति* लक्षणाभ्युपगमे चेत्यर्थः। *तत्र* लक्षितव्यक्तौ। *उपपद्यत इति* अन्यथा प्रत्ययानामिति व्युत्पत्तेः स नोपपद्योतेति भावः। ननु व्यक्तिलक्षणाभ्युपगमे युगपद्वृत्तिद्वयविरोध इति सिद्धान्तभङ्गः, गौरस्तीतिवाक्यादनुभूयमानव्यक्तिबोधानुपपत्तिश्च, लक्षणाबिजस्यान्वयानुपपत्तेस्तत्राभावादत आह-*दिगिति*।
तदर्थस्यु सति तात्पर्य्ये `गङ्गायां घोषमत्स्यौ स्तः' इत्यत्र वृत्तिद्वयस्य सर्वैरेवाभ्युपपगात्तादृशन्यायः, युगपच्छक्तिस्तात्पर्याविषये लक्षणा च नेत्येवंपर इति न तद्विरोधः। तात्पर्यानुपपत्तिसत्त्वाच्च न व्याक्तिलक्षणाऽनुपपत्तिः, तद्विरोधाभ्युपगमे तु जातिव्यक्त्योरभेदपक्षमुपगम्य विभक्त्यर्थान्वय उपपाद्यः। तदुक्तम्-
`तेन तल्लक्षितव्यक्तेः क्रियासम्बन्धचोदनात्।
जातिव्यक्त्योभेदो वा वाक्यार्थेषु व्यवस्थित-'।। इति।
वस्तुतस्तु जातिधर्मिकशक्तिग्रहस्य जातिविशिश्टव्याक्तिशाब्दबोधे हेतुत्वकल्पनान्न व्यक्तिभानानुपपत्तिः, नाप्यशक्यभानाऽऽपत्तिः, तस्य तद्वैशिष्टयाभावादिति जातिशक्तिवादनिष्कर्षः। वक्ष्यते चाधिकमुपरिष्टात्।
अन्ये तु जातिशिक्तिवादमित्त्थमुपपादयामासुः-माऽस्तु व्यक्तेर्भानम्, आनयनादिक्रिया केवलायां जातावसम्भवन्ती व्यटाक्तिमाहित्येन निष्पाद्यते, समाहारे पाणिपादसाहित्येन वादनक्रियावत्। तदुक्तम्-"तद्धितार्थे" (पाo सूo 2-1-51) इति सूत्रे भाष्ये-"आकृतावालम्भनादीनां सम्भवो नास्तीति कृत्वा तत्सहचरिते द्रव्ये भविष्यति यथा-`अग्निरानीयताम्' इत्युक्ते केवलस्याग्नेरानयनासम्बवादचोदितमपि पात्रमानीयते। एतदेवाग्नेरानयं यत्पात्रस्तस्य। तथाऽऽकृतावालम्भनादीनि चोद्यमानानि सामर्थ्यात् साहचर्य्याद् द्रव्यमभिनिविशिन्ते। सर्व एवाऽऽकृतेर्योगोऽनव्तर्भावितद्रव्याया इति द्रव्यद्वारकः सम्बन्धः सम्पद्यते"इति। साहचर्य्यम्=सम्बन्धः। सरूपसूत्रे भाष्येऽपि स्फुटोऽयमर्थः। हरिरप्याह-
व्यटक्तो कार्याणि संसृष्टा जातिस्यु प्रतिपद्यते। इति।
गोत्वादिपदानां तु गोत्वादिधर्मिवृत्तिधर्म एव शक्तिरिति न तत्र गोविशेष्यको बोधः।ष जातेराश्रयावियोगेऽपि केवलायास्तस्याः शब्दवाच्यत्वं नानुपपन्नम्, जलादौ दृस्यमानस्य मुखस्य स्वस्थानावियोगेऽपि मुखादिपदबोध्यवत्। शक्यतावच्छेदकता तु जातिगतधर्मस्यैवेति।
इदमपि मतं जात्या व्यक्त्यक्षेपे पर्य्यपस्यति। तच्च नचापदार्थे प्रत्ययान्वय इति दूषणग्रस्तम्। विनापि सङ्केतविषयतां सामान्येन सम्बन्धनियमादर्थाध्याहारन्यायेनोपस्थितां व्यक्तिं पुनर्जातिर्विशिनष्टि, रूपादिज्ञानापिषयाणां चक्षुरादीनां चाक्षुषयामीति प्रतीत्या विषयीकरणवदित्यपि केचित्।
शक्यसम्बन्धरूपाया लक्षणाया एकस्य लक्ष्य-लक्ष्यतावच्चेदकयोरसम्भवेऽपि लक्ष्यार्तप्रतीतौ लक्ष्यताऽवच्छेदकभानवच्छक्यतावच्छेदके शक्त्यभावेऽपि तादृशकार्य्यकारणभावलादेव गोत्वादिबाननिर्वाहे कृतं तत्र शक्तिकल्पनयेत्याशयेनैकपदमन्यता व्याचष्टे-*यद्वेति* *व्यक्तिरेवेति* एवेन जातिव्यवच्छेदः।
ननु `सवर्णेऽण्ग्रहणम्' इत्यादिप्रामाण्यादस्तुक्तः पक्षः, `व्यक्तिः पदार्थः' इत्यत्र तु किम्मानमत आह-*केवलव्यक्तीति*। *एकशेषस्य चेति* जातिपक्षे एकेनैव शब्देन द्वयोर्बहूनां वा प्रत्यायनसम्भवात् तदनर्थकं सद् व्यक्तिपक्षज्ञापकमित्यर्थः। आण्ग्रहणस्य भाष्यकृता प्रत्याख्यानात् सरूपसूत्रस्य च शास्त्रीयप्रक्रियामात्रोपयोगित्वस्याऽऽकरे व्यवस्थापनात् कथमुक्तर्थे तयोः प्रामाण्यमत आह-*युक्तञ्चैतदिति* सयुक्तिकमप्येतदित्यर्थः। अपना `द्रव्याभिधानं व्याडिः' इति सरूपसूत्रस्यभाष्यप्रामाण्मत समुच्चीयते। युक्तिमेवाह-*व्यवहारेणेति*।
एतत्तत्वं शक्तिवादे वक्ष्यते। एतत्कल्पे पूर्वोक्तं सक्त्याऽऽनन्त्यदोषं समुद्धरति-*सम्बन्धितावच्चेदकस्येति* शक्तिग्रहे धर्म्मितावच्छेदकस्येत्यर्थः। सम्बन्धितावच्छेदकपदसय् लिङ्गसर्वनामनपुंसकत्वादुद्देश्यसमर्पकत्वाद्वा न तत्त्वानुपपत्ति। तथाच सम्बन्दितावच्चेदकजात्यनुगतीकृतनानाव्यक्तिष्वेकधर्मावच्छिन्नाया एवस्या एव शक्तेरुपगमा न्न तन्नानात्वप्रयुक्तगौरवमिति भावः।
*एवमिति* विशिष्टे शक्तित्वस्वीकारे इत्यर्थः। घटत्वादेर्घटादिनिष्ठशक्यतावच्छेदकत्वाभ्युपगम इति यावत् *तदेव* घटत्वाद्येव *वाच्यम्* शक्यमित्यर्थः। शक्यत्वे हेतूपन्यसनम्-*न्यायादिति*। *अकारणत्वेऽपिति* दण्डत्वाऽऽदीनामन्यथासिद्धत्वेनाकारणत्वेऽपि तीरत्वादीनां प्रवाहाद्यसम्बन्धितया। लक्ष्यत्वेऽपि च तत्र तन्निष्ठावच्छेद्यतानिरूपितस्वरूपसम्बन्धाऽऽत्मिकायाः, विषयिताविशेषाऽऽत्मिकाया वावच्छेदकताया अभ्युपगमवदशक्यस्यापि घटात्वादेस्तादृशक्यतावच्छेदकत्वसम्भवात्। शक्यत्वे सति शक्यविशेषणताऽऽपन्नस्य शक्यतावच्छेदकत्वमिति नियमे मानाभावादिति भावः।
उक्तेऽर्थे सम्मतिमाह-*उक्तञ्चेति*। *आनन्त्येऽपीति* *भावानाम्*=व्यक्तीनां नानात्वादपरिच्चेद्यत्वेऽपि, *एकम्* अनुगतजात्यादिधर्मम् *उपलक्षणम्* अशक्यत्वेऽपि शक्यव्यावर्त्तकम् *कृत्वा* अभ्युपागम्य सक्यतावच्छेदकतयाऽभ्युपेत्येति यावत् *शब्द* गवाद्यात्म्कः *सुकरसम्बन्धः* सुग्राह्यगवादिनिष्ठवाच्यतासम्बन्धः। *नचेति* शक्तिग्रहाविषयव्यक्तिं न बोधयिष्यतीति तदर्थः। गोत्वादिसामान्यलक्षणया सर्वास्वेव व्यक्तिषु शक्त्यवधारणादिति भावः। अधिकमग्रे वक्ष्यते।
व्यक्तिरेवात्र द्रव्यपदेन व्यवह्रियते, सर्वनामपरामर्सयोग्यत्वात्। उक्तञ्च-
`वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते।
द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः'। इति।
स्वभावादेव बुद्धिविषयताऽवच्छेदकत्वोपलक्षिततद्धर्मावच्छिन्नबोधकं सर्वनाम यस्मन् धर्मिणि तादृशधर्मं प्रवृत्तिनिमित्तीकृत्य प्रयुज्यते। `इदम्' इति परामर्शयोग्यमिति यावत्। द्रव्यपदेन व्यवह्रियत इत्यर्थः। भेद्यत्वेन=विशेष्यत्वेनेत्यादि तु लक्षणान्तरपरम्, एतत्पक्षे तु जात्यादेरपि विशेष्यत्वाविवक्षायां द्रव्यत्वमिष्टमेव। तिङन्तार्थक्रियायाः किमादिभिः परामर्शात् स्तोकाद्यर्थनिरूपितविशेष्यतावत्त्वाच्च द्रव्यत्वमस्त्येव। "विप्रतिषिद्धम्" (पाo सूo 2-4-13) इत्यादौ च सामर्थ्यात्तन्त्रान्तरप्रसिद्धद्रव्यग्रहणम्। "चादयोऽसत्त्वे' (पाo सूo 1-4-57) इत्यत्र प्रथमकल्पोक्तद्रव्यस्यैव पर्युदासो बोध्यः।
शक्यतावच्छेदकत्वञ्च-शक्यनिष्ठविशेष्यताऽवच्छेदकतया भासमानत्वम्। घटादिपदे शक्तिग्रहे च घटत्वादेरेव तत्त्वम् न पृथिवीत्वादेरिति न तेभ्यः पृथिवीत्वादिबोधः। आकाशशब्दस्य शब्दाऽश्रयत्वे शक्त्यभावेऽपि ततस्तद्रूपेणैव बोधः। तद्विशिष्टशक्तिग्रहस्य तद्बोधहेतुत्वात्। यद्वाऽऽकाशत्वसखण्डोपाधिः। वृद्धिसूत्रोक्तरीत्या तत्पदं वाऽऽकाशशब्दशक्यतावच्छेदकमिति न `आकाशः शब्दाश्रयः' इति प्रयोगानुपपत्तिरिति द्रव्यवादिनिष्कर्षः।
ननुक्तपक्षद्वयमपि न विचारसहम्, तथाहि-जातिशक्तिवादे गोत्वादिपदात्तद्विसिष्टबोधापत्तिः, गोत्वशक्तिग्रहस्य तद्विशिष्टबोधौपयिकस्य सत्त्वात्। नच निर्धर्मितावच्छेदकशक्तिग्रहो गोत्वविशिष्टबोधे हेतुर्गोत्वत्वधर्मितावच्छेदकबाधग्रहकाले निर्धार्मितावच्छेदकशक्तिग्रहसम्भवेन गोत्वविशिष्टबोधापत्त्या गोत्वात्वधर्मितावच्चेदकशक्तिग्रहस्य तादृशबोधहेतुताया आवश्यकत्वात्।
यदि च गोत्वे निरवच्छिन्नैव शक्तिः-गोपदं गौरित्याकारकं शक्तिसम्बन्धेन गोत्वप्रकारकं गोपदत्वविशिष्टविषयकं शक्तिज्ञानं गोत्वविशिष्टबोधहेतुरिति विभाव्यते, तथापि कदाचित् समवायेन गोत्वविशिष्टबोधः, कदाचित् कालिकादिसम्बन्धेनेति व्यवस्थाऽनुपपत्तिः, गोत्वविषयकशक्तिज्ञानस्याविसिष्टत्वात्। मन्मते तु समवायेन गोत्वविशिष्टविषयकशाब्दबुद्दि प्रति तेन सम्बन्धेन गोत्वविशिष्टशक्तिग्रहस्य, एवमितरसम्बन्धेन तादृशविसिष्टविषयबोधे तेन सम्बन्धेन तादृसविशिष्टशक्तिज्ञानस्य हेतुतया तन्नियमोपपत्तेः। गोपदं गौरित्याकारकशक्तिग्रहात्, तादृसबोधाननुभवाच्च गोतेवादिपदानां गोत्वत्वे शक्तिरित्यपि न, प्रकृतिजन्यबोधप्रकारे भावप्रत्ययविधानात्। गवेतरासमवेतत्वविसिष्टसकलगोसमवेतत्वरूपस्य गुरोः शक्यत्वाऽभ्युपगमे, लाघवसूलकाकृतिवादस्य मूसशैथिल्यापत्तस्च। व्यक्तिवादेऽपि पदमात्रस्यैव व्यक्तिबोधकत्वाविशेषत्वात्। `गौश्चलो नीलः इत्यादीनां सह प्रयोगानुपपत्तिः।
किञ्च हस्तिपकव्यक्तयन्तरे सम्बन्धग्रहे यत्र हस्तिपके सम्बन्धो न गृहीतस्तस्यापि हस्तिदर्शने स्मरणापत्त्या तद्व्यक्तिविषयकसम्बन्धग्रहस्य तदुपस्थितिनियामकत्वस्यावश्यकतया कथमेकविषयकशक्तिज्ञानापरविषयकोपस्थितिः।
यद्यपि "आकृतिपदार्थस्य द्रव्यं न पदार्थो द्रव्यपदार्थकस्य चाकृतिर्न पदार्थ इत्युभयोरुभयं पदार्थः" इति भाष्याद्विशकलितयोरेवाकृतिव्यक्तयोः शक्तिग्रहविषयता तभ्यते। तथापि "पस्यचित् किञ्चिद्गुणभूतं किञ्चित् प्रधानम्" इत्युत्तरभष्यपर्यालोचनया तत एव विशिष्टे शक्त्यवधारणात् तथोपादानमविरुद्धम्, अन्यथा तृतीयोपात्तैकत्व-करणत्वयोरिव विशेष्यविशेषणभावानापन्नजाति-व्यक्त्योः शक्यत्वे गोर्यद् व्यक्तिशचेति समूहालम्बन्धबोधापत्तेः शक्तिज्ञानपदार्थेपस्थिति शाब्दबोधानां समानप्रकारत्वनियमात्।
एवमेवावयवसंयोगरूपाकृतौ। तथाच सूत्रितं गौतमेन "जात्याकृतिव्यक्तयः पदार्थः" इति त्रिष्वेकैव शक्तिरिति बोधनाय च तत्रैकवचनम्, गुणभूतमिति भाष्यस्य च स्वारसिकतयेति शेषः। जातेः कदाचित् प्राधान्येन भानं तु तात्पर्यग्रहसापेक्षमिति तदाशयः। जातेः प्राधान्येऽपि द्रव्यसंख्यामादाय तत्र द्विवचनाद्युपपत्तिर्बोध्या। तदुक्तं कैयटेन-"यथा `भवतः' इत्यादौ क्रियाप्राधान्येऽपि साधनकृतो वचनभेदः, एवमाकृतिप्राधान्येऽपि द्रव्यसङ्खयाकृत इत्यदोः" इति। द्रव्यप्राधान्येऽपि क्वचिज्जातिसङ्खयामादाय वचनम्, `ब्राह्मणं न हन्यात्' इत्यादौ यथा। जातेः प्राधान्ये च निरवच्छिन्नाया एव व्यक्तेः प्रकारताविशेष्यीभूतजात्या च तदनुगमः `नहि प्रकारिभूतमेवानुगमकमिति नियमः' इति तत्कल्पपरिष्कारः।
वस्तुतस्तु जातिविशिष्टव्यक्तिरेव शक्या, गवादिपदाद्रोविशिष्टगोत्वबोधस्याननुभवेनोक्तकल्पासम्भवात्। अत एव तथैव व्याख्यातम। जात्यतिरिक्तपदार्थस्य किञ्चिद्धर्मावच्छिन्नत्वमिति नियमेन निरवच्छिन्नायास्तस्या जात्यंशे भानायोगात्, गोत्वस्यान्वयितावच्छेदकरूपेणानु पस्थित्या तत्तत्कर्मत्वाद्यन्वयासम्भवाच्च। `सम्पन्नो व्रीहिः' इत्यादौ तु स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसम्बन्देन प्रकृत्यर्थव्यक्तावेवैकत्वान्वयः। उक्तस्थले एकवचनोपस्थितानि नानैकत्वानि न व्रीहिष्वन्वीयन्त इति तु न सत्, सजातीयनिष्ठभेदप्रदियोगितानवच्छेदकैकत्वरूपसजातीयद्वितीयरहितत्वस्यैवैकवचनार्थत्वेन तत्र तस्य बाधात्, संख्यारूपैकत्वस्य द्रव्यमात्रसाधारण्येनार्थत एव लाभादनुपयोगात्तस्यैकवचनार्थत्वाभावाच्च।
अत एव `पशुना यजेत' इत्यत्र तादृशैकत्वस्यैकवचनेन विवक्षितत्वान्नानेकपशुकरणकयागाददृष्टसिद्धिः, समभिव्या हृतपदार्थसंसर्गित्वविश्टप्रकृत्यर्थताऽवच्छेदकरूपेण साजात्यस्य साजात्यस्य विवक्षणाच्च नात्र `घटोऽस्ति' इत्यादौ घटनिष्टभेदप्रतियोगितानवच्छेदकैकत्ववाप्रसिद्धिः, एतद्देशविद्यमानघटनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वस्यैव त6 बोधेन तस्योक्तरीत्या प्रसिद्धिसम्भवात्। एवञ्च व्यक्तिविशेष्यकबोधाभ्युपगमे क्वाप्यनुपपत्तेरभावेन तस्य चैतद्विशेष्यकशक्तिग्रहमन्तरेणासम्भवाद्गवादिपदानां जातिविशिष्टव्यक्तावेव शक्तिः। व्यक्तिमात्रविषयकस्य, जातिमात्रविषयकस्य वा शक्तिज्ञानस्य जातिविशिष्टव्यक्तिशाब्दबोधहेतुतायामुक्तदोषस्य दुरुद्धरत्वादिति सारनिष्कर्षः।
अन्ये तु-"उभयोरुभयं पदार्थः" इति भाष्याज्जातौ, व्यक्तौ च गवादिपदानां शक्तिः। परन्तु व्यक्तिशाब्दबोधेऽपि जातिविषयकत्वेन जातिशक्तिज्ञानस्यैव हेतुता। व्यक्तिशक्तिस्तु स्वरूपसत्युपयुज्यते। अशक्यस्यापि शाब्दे भमाभ्युपगमे गवादिपदादशक्यगवादिव्यक्तेरिवाशक्तघटादीनामपि भानापत्त्या व्यक्तिशक्तिरावस्यकी। अयमेव `कुब्जशक्तिवादः' इति व्यवह्णियते, शाब्दोधकारणतावच्छेदककोटौ व्यक्तिविषयकत्वस्यानिवेशात्। तथाच गोत्वप्रकारकगोविषयकशाब्दबोधे गोत्वविषयकगोपदशक्तिमती गौरित्याकारकशक्तिज्ञानं कारणम्, नतु गोत्वविसिष्टविषयकगोपदशक्तिमती गौरित्याकारकम्। `गोत्वमस्ति' इत्यादौ तादृशगोत्वप्रकारकशक्तिज्ञानाभावान्न गोत्वविशिष्टबोधप्रशङ्ग इत्याहुः।
तदप्यापातमनोपमम्, गोत्वविषयकगोपदशक्तिमती गौरित्याकारकसक्तिग्रहे कारणतावच्छेदककोटौ गोत्वविषयकत्वस्य प्रवेशे गौरवात्।
ननु मास्तु तद्विषयकत्वस्यावच्चेदककोटौ निवेः, गोपदशक्तिमती गौरित्याकारकशक्तिग्रहस्य गोत्वप्रकारकत्वेन गोत्वविशिष्टविषयकशाब्दबुद्धिहेतुत्वे व्यक्तिविषतायाः कारणवच्छेदककोटावनिवेशेन लाघवात्। देसान्तरस्थव्यक्तिविसेप्यकबोधानुपपत्त्या समानविसेष्यकत्वेन कार्यकारणभावासम्भवेन समानप्रकारकत्वेनैव कार्य्यकारणभावोपगमादिति चेत्,
मैवम्, व्यक्तिविषयतायाः कारणतावच्चेदककोटावनिवेशे व्यक्तिशक्तिस्वीकारस्य वैयर्थ्यापत्तेः। नच तदस्वीकारे गोत्वप्रकारकशक्तिज्ञानत्वेन हेतुत्वासम्भवः, व्यक्तौ शक्त्यभावेन तादऋशशक्तिज्ञानस्य भ्रमत्वादिति वाच्चयम्, ज्ञक्तिर्हि न स्वरूपसती शाब्दबोधहेतुः, अपभ्रंशादपि बोधोदयात्, आगृहीतशक्तिकाच्छाब्दबोधापत्तेश्च। किन्तु ज्ञात्। तथाच यदंशे शक्तिज्ञानहेतुस्तदेव शक्यमिति जातिवद् व्यक्तिरपि शक्यैव, एवं तद्वैसिष्टयमपि तथा। अन्यता व्यक्तावेव शक्तिः, व्यक्तिशक्तिज्ञाने जातेरप्रकारकत्वात् समानप्रकारत्वेन शक्तिज्ञानपदार्थोपस्थितिशाब्दबुद्धीनां कार्य्यकारणभावावादिति शक्तिरुच्छिद्येत।
नच यद्विषयकत्वेन शक्तिज्ञानं कारणं तदवश्यं शक्यमिति नियमाज्जतौ शक्तिः सेत्स्यतीति वाच्यम्, तर्हि व्यक्तिविषयकत्वेन शक्तिज्ञानस्य हेतुतया व्यक्तिशक्तिस्वीकारस्यावश्यकत्वादुक्वेऽर्थे भाष्योपन्यसनं तु "कस्यचित् किञ्चित् प्रधानभूतं किञ्चित् गुणभूतम्" इत्युपसंहारभाष्यानालोचनमूलकमेवेत्यास्तां तावत्।
नन्वेवम् `एकम्' इति पक्षस्य निरालम्बनतापत्तिरत आह-*एकमित्यस्य चेति*। `बोधकत्वं शक्तिः' इति मते बोधकत्वज्ञानविषयबोधांसे प्रकारितयावच्छेदकत्वं शक्तिरित्यर्थलाभात्तदाश्रयजातेरैक्याच्छब्दनिष्ठबोधकत्वस्यैव विनिगमनाविरहादर्थनिष्ठबोध्यत्वस्यापि शक्तित्वमिति मतेऽपि `अस्मात् पदादेतदर्थबोधो भवतु' इति शक्तिज्ञाननिष्ठशाब्दधीहेतुतायां प्रकारितयावच्छेदिकाया जातेरेक्याद्वा तत्पपक्षोपपत्तिरित्यर्थः। तथाच तादृशप्रकारितावच्चेदकतारूपायाः शक्यजातिमात्रनिष्ठतया `आकृतिरेव पदार्थः' इति पक्षः समर्थितो भवति। अवच्छेदकतायाः स्वरूपसम्बन्दरूपाया घटत्वाद्यात्मकत्वेऽप्यवच्छेद्यावच्छेदकभाव उपहितानुपहितभेदात् सम्रथनीयः।
एवमेव `एकं व्यक्तिः' इति पक्षोऽपि समर्थनीयः, तादृशज्ञाननिष्ठशाब्दबोधकारणतायां बोधांशे विशेष्यतया व्यक्तेरवच्छेदकत्वात्। एतत्पक्षे चावच्चेद्यावच्छेदकभावस्य सामञ्जस्येनोपपत्तिर्गोत्वादिजात्यनुगमान्न तदानन्त्यमपि। शक्यतावच्छेदकप्रकारकव्यक्तिबोधे व्यक्तिशक्तिग्रहस्यैतत्कल्पे हेतुतया। चलत्वादिना गवादिव्यक्तिबोधार्थ तत्प्रयोगस्याप्युपपत्तिश्चेति बोध्यम्।
ननु `घटो घटपदबोध्यः' इत्याकारकशक्तिज्ञानात् स्वरूपतो घटत्वप्रकारकविशि,्टबुद्धेरिव जातित्वेन घटत्वविशष्टबुद्धेरप्यापत्तिः, तत्कार्य्यतावच्चेदकाक्रान्तत्वादत आह-*तथाचेति*। *घटत्वविशिष्टबोधे इति*। स्वरूपतस्तत्प्रकारकबोध इत्यर्थः। *कार्य्यकारणभाव इति* तथाच `जातिमान् घटः' इति बोधस्य घटत्वांशे जातित्वप्रकारकत्वेनोक्तशक्तिज्ञानकार्य्यतावच्छेदकानाक्रान्तत्वेनोक्तापत्तेरसम्भवाद् घटत्वांशे जातित्वप्रकारकघटत्वविशिष्टबुद्धिं प्रति तु तदंशे जातित्वप्रकारकसक्तिज्ञानस्य हेतुत्वान्तरं कल्पनीयमिति भावः।
ननु तदंशेऽन्याप्रकारकत्वघटितधर्मस्यार्थसमाजग्रस्ततया कथं कार्य्यतावच्छेदकत्वमत आह-*प्रपञ्चितमिति* तथाच निरवच्छिन्नप्रकारताकतद्विशिष्टबुद्धिं प्रति निरवच्छिन्न(तत्)प्रकारताकसक्तिज्ञानस्य, सावच्छिन्नप्रकारताकतद्विशिष्ठबुद्धिम्प्रति सावच्छिन्नतत्प्रकारकशक्तिज्ञानस्य हेतुत्वकल्पनान्नोक्तापत्तिरिति तत्रोक्तमित्यर्थः। *तदभिप्रेत्येति* उक्तरीत्या विशिष्टश्य शक्यत्वमुपगम्येत्यर्थः। *जातिव्यक्ती इति* विशेष्यविशेषणभावापन्ने ते इत्यर्थः।
*पूर्वपक्षादिति* `एकम्' इति पक्षादित्यर्थः। तत्पक्षे हि शाब्दज्ञानकारणतायां बोधांशे प्रकारित्यावच्छेदकत्वं शक्तिरिति जातिरेव शक्या। `विशेष्यितयाऽवच्छेदकत्वम्' इति मते केवलव्यक्तिरेव शक्येति सिद्धान्तितम्। अत्र तु विषयितात्वेन प्रकारिताविशेष्यिते अनुगमय्य तत्र विषयितयाऽवच्छेदकत्वं शक्तिरित्युपगमाद् द्वियोरपि नामार्थत्वसिद्धिरिति न तयोः परस्परविरोधशङ्केति भावः। एतेषां मतानामाकरारूढत्वेऽपि `व्यक्तिः पदार्थः' इति पक्ष एव क्षोदक्षमः। प्रत्येकपदशक्तिनिर्णयस्त्वन्यतोऽवधार्य्यः।
*लिङ्गनीति* लिङगत्वञ्च-प्रकृतगुणवतो धर्मविशेषः। तद्विशेषञ्च नपुंसकत्वादीत्यासयेनाह-*सत्त्वेति*। *साम्यावस्थेति* उपचयापचयहाहित्येनावस्थानमित्यर्थः। उपचयः=बुद्धिः, अपचयः=तन्नयूनत्वम्। *तत्तच्छब्दनिष्ठमिति* जाति- गुण-क्रियादिभेदभिन्नशब्दनिष्ठम्। *तत्तच्छब्दवाच्यञ्चेति* स्वाश्रयशब्दवाच्यञ्चेत्यर्थः, `पुँल्लिङ्गः शब्दः' इति व्यवहारात्, "तस्माच्छसो नः" (पाo सूo6-1-103) "स्वमोर्नपुंसकात्" (पाo सूo 7-1-23) इत्यादिसूत्रप्रामाण्याच्चेति भावः। *तमेवेति* समानानुपूर्वोकत्वेऽप्युपचयाद्यवस्थारूपं परस्परसमानादिकरणं लिङ्गमादायैवेत्यर्थः। *भिद्यन्ते इति* पुँस्त्वादिलिङ्गकेतरव्यावृत्तिविधेयकानुमित्युद्देश्या भवन्तीत्यर्थः।
ननु लिङ्गस्योक्तावस्थारूपत्वे तासां परस्परविरुद्धानामेकत्रावस्तानासम्भवेन केषुचिच्छब्देष्वनेकलिङ्गकत्वव्यवहारः किंनिबन्धनोऽत आह-*केषाञ्चिदिति* तटादिशब्दानामित्यर्थः।
वस्तुतस्तेषां विरुद्धत्वेऽपि शब्दानां समानानुपुर्वोकत्वनिबन्धनाभेदाध्यासादनेकलिङ्गकत्वव्यवहारोपपत्तिरित्यर्थः। अर्थनिष्ठम्-
"स्तनकेशवती नारी लोमशः पुरुषः स्मृतः।"
इत्यादिस्मृतिलक्षितं लिङ्गं तु नात्राश्रययितुं शक्यम्, `दारान्' इत्यादौ शस्प्रकृत्यर्थे तदभावेन नत्वाद्यनापत्तेः। तथाच भाष्यम्-"एकार्थशब्दान्यत्वाद् दृष्टं लिङ्गान्यत्वमवयवान्यत्वाच्च" इति। एकस्मिन्नर्थे पुष्यः, तारका, नक्षत्रम्" इति लिङ्गनानात्वदर्शनात्, `कुटीरः' इत्यादौ रेफस्यावयवस्योपजनेऽपि लिङ्गभेददर्शनाच्चान्यदेव शब्दनिष्ठं लिङ्गमिति तदर्थः। अर्थनिष्ठत्वे तु `पुँलिङ्गः शब्दः' इति सामानदिकरण्यानुपपत्तिश्चेति भावः।
*एवञ्चेति* पारिभाषिकशब्दनिष्ठलिङ्गस्य व्यावहारौपयिकत्वे चेत्यर्तः। *व्यवहार इति* अर्थनिष्ठस्य तस्य तन्नियामकत्वे तु स्त्रीव्यक्तिर्वस्तुपदार्थपदाभ्यां न व्यक्तिविषये, नैवं पुरुषादिरपि। व्यक्त्यादिशब्दैः स्तनकेशादिरूपलौकिकलिङ्गस्य खट्वादावभावेन तद्वाचकात् स्त्रीप्रत्ययाद्यनापत्तेश्चेति भावः। *तटस्तटीति* अर्थे लौकिकलिङ्गभावेऽपि परस्परासमानाधिकरणपारिभाषिकलिङ्गवत्त्वेन विभिन्नानां तटादिशब्दानां तत्तत्कार्यभाक्त्वमुपपद्यते इत्यर्थः।
ननु शब्दनिष्ठोक्तलिङ्गस्यैव स्त्रीपुंसादिव्यवहारौपयिकत्वे तस्य स्त्रीवाचकपशुशब्देऽपि सत्त्वात् `पशुना यजेत' इत्यत्र पसुस्त्रीकरमकयागादप्यदृष्यदृष्टसिद्धिः स्यात्, तद्द्रव्यात्तल्लिङ्गस्य व्यक्त्यादिशब्दोक्तलिङ्गवत् स्त्रीपुंसादिसाधारण्येनार्थापरिच्छेदकत्वादत आह-*तच्चेति* शब्दनिष्ठमेवेत्यर्थः। *अर्थेति* अर्थमपि परिच्छिनत्तीत्यर्थः। तदेवाह-*पश्वादिशब्दोक्तमिति* लिङ्गमिति शेषः। यदि स्त्रीपशुर्यागाङ्गत्वेन विवक्षितोऽभविष्यत्तदा अस्त्रीविहितनाभावं विभक्त्यनेते न प्रायोक्ष्यत्। तदन्तपशुशब्दप्रयोगात्तु पुम्पशुरेव यागाङ्मिति निर्णियते इत्यर्थः।
स्त्रीलिङ्गार्थकपशुशब्दात् `आङो नाऽस्त्रीयाम्' (पाo सूo 7-3-120) इति विहितनाभावस्य तृतीयैकवचनेऽसम्भवेन तदन्तपशुशब्दप्रयोगात् तदर्थस्य पुंस्त्वावगतेरिति भावः। ननु व्यक्त्यादिशब्दानामर्थनिष्ठलिङ्गानादरेण प्रवृत्तिवत्पशुशब्दस्य तथा। प्रवृत्तौ बाधकाभावादुक्तदोषो दुरपह्नव इत्याशङ्कय निराचष्टे-*नचेति* व्यक्त्यादीत्यादिना वस्त्वादिपदसङ्गहः। साधारण्यं स्वाश्रयवाच्यत्वसम्बन्धेन, स्त्रीपुंवृत्तित्वं नित्यस्त्रीलिङ्गत्वेनेपि, "स्त्रियां क्तिन" (पाo सूo 3-3-84) इत्यनुशासनादिति भावः।
ननु `पशुना यजेत' इति वैदिकप्रयोग एव तस्य नित्यपुंस्त्वे मानं स्यादत आह-*पश्वेति* तथाच वेदे पशुशब्दस्य स्त्रीलिङ्गत्वस्यापि दर्शनेन न तस्य व्यक्त्यादिशब्दसाम्यमिति भावः। स्वोक्तेऽर्थे मीमांसकसम्मतिमाह *मीमांसायामिति*।
वक्ष्यमाणास्वरसादाह-*वस्तुतस्त्विति*। ननु उप्रत्ययान्तानां नित्पुंस्त्वे पश्वेत्यादिस्त्रीलिङ्गप्रयोगानुपपत्तिरत आह-*वेदभाष्येऽपीति* तथाच व्यक्त्यादिशब्दोक्तलिङ्गस्येव पशुशब्दोक्तलिङ्गस्यापि स्त्रीपुंससाधरण्यान्न तत्स्वार्थपरिच्छेदकत्वमिति भावः।
ननु कथं तर्हि पुम्पशोरेव यागाङ्गत्वनिर्णयोऽत आह-*छागो वेति*। *न्यायनैव* एवेत्येवकारेण लिङ्गस्यार्थपरिच्छेदकस्य व्युदासः। यथा "सारस्वतौ मेषौ" इत्यत्र तद्धितप्रकृतिशब्दः स्त्रीलिङ्गः पुँल्लिङ्गो वेति सन्देहे "सन्दिग्न्धे वाक्यशेषात्" (मीo सूo 1 4-19-29) इति न्यायेन, "तद्वामदेव्यमिथुनम्" इत्यर्थवादाद् द्वयोरेवैकशेषेण ग्रहणं तद्वन्मन्त्रवर्णादत्र पुम्पशोर्यागाङ्गत्वनिर्णय इति भावः। *प्रपञ्चितमिति* लौकिकलिङ्गमेव नामार्थः। तच्चावयवविशेषसंस्थानरूपम्। `दारान्' इत्यादौ पुंस्त्वारोपेणैव तत्प्रयुक्तकार्यम्, "रात्राह्नाहाः पुंसि" (पाo सूo 2-4-29) इत्यादिलिङ्गानुशासनस्यैवोक्तार्थे मानत्वात्। अत एव न पशुस्त्रिया यागमिति। अथवा स्त्रीत्वादिर्जातिरेव।
`तिस्त्रो जातय एवैताः केषाञ्चित् समवस्थिताः।
अविरुद्धा विरुद्धाभिर्गोमहिष्यादिजातिभिः'।।
इत्यादि तत्रोक्तमिति।
परे तु-
`स्तनकेशवती नारी लोमसः पुरुषः स्मृतः।
एतयोरन्तरं यच्च तदभावे नपुंसकम्'।।
इति स्मृत्युक्तलक्षणलक्षिलिङ्गस्यासार्वत्रिकत्वेन `दारान्' इत्यादौ नत्वानापत्त्या `स्त्रियाम्'इति सूत्रे "अवश्यं कश्चित् स्वकृतान्त अस्थेयः" इत्यादिना सार्वत्रिकगुणावस्थारूपपारिभाषिकलिङ्गस्य शास्त्रीयकार्योगिनो भाष्यकृताऽभ्युपगमेऽपि गुरुसंज्ञाविज्ञानान्नत्वादिशास्त्रप्रवृत्तौ लौकिकालिङ्गस्याप्याश्रयणं पुमादिसंज्ञाया इवाधिकसंग्रहार्थ प्रवृत्तत्वेऽपि सतसिद्धार्थनिरासार्थमप्रवृत्तेः। अत एव
`आविराभावस्तिरोभावः स्थितिश्चेत्यप्यपायिनः।
धर्मा मूर्तिषु सर्वासु लिङ्गत्वेन व्यवस्थिताः'।।
इत्यत्रापिनाऽलौकिकलिङ्गमपि समुच्चितवान् हरिः। तत्र सति सम्भवे सामानाधिकरण्यसम्बन्धेन लौकिकपुंस्त्विशिष्टशास्त्रीयलिङ्ग एव पुमादिशब्दानां शक्तिर्न केवलशास्त्रीये, नापि लौकिके। असम्भवे तु सास्त्रीय एव। अत एव `पशुना यजेत' इत्यादौ पशुस्त्रिया कृते यागे वैगुण्यम्। तत्र लौकिकपुंस्त्वविशिष्टशास्त्रीयपुंस्त्वस्यैव शब्देन प्रतिपादनादित्याहुः।
अथ लिङ्गे शक्तिग्रहविषयताया अभावेन प्रातिपदिकार्थत्वाभावात् `त्रिकम्' इति पक्षोऽनुपपन्न इति चेन्न, "स्वमोर्नपुंसकात्" (पाo सूo 7-1-83) इत्यादिसूत्रप्रामाण्येन `पूँल्लिङ्गादिविशिष्टोऽयं घटो घटपदवात्त्यः' इत्याकारकशक्ति ग्रहाभ्युपगमेन सामञ्जस्यात्। `शब्दनिष्ठमेव लिङ्गं नत्वादिप्रवृत्तौ निमित्तम्' इतिमते शब्दार्थयोरभेदे लिङ्गस्य साक्षादितरथा स्वाश्रयवाच्यत्वसम्बन्धेनार्थांशे प्रकारकत्वाद्धर्मितावच्छेदकत्वेन धर्मितावच्छेदकसमानाधिकरणत्वेन सक्तिग्रहविषयताया नियामकत्वस्य फलबलेन कल्पनात्।
वस्तुतस्तु पारिभाषिकलिङ्गमप्यर्थ एव स्वीकर्त्तुमुचितम्। पुँल्लिङ्गः शब्द इत्यादौ पुँल्लिङ्गादिशब्दा अर्श आद्यजन्ताः। आत्मनि सर्वस्याध्यस्तत्वेन परम्परया तत्रापि स्त्यानादिसत्त्वात्। "आत्मा ब्रह्म" इत्यादिप्रयोगोपपत्तिः। स्त्यानमन्=तिरोभाबोऽपचय इति यावत्, उपचयादिविवक्षाया एव प्रयोगनियामकत्वेन तेषामेकत्र विरोधेऽपिक्षत्यभावात्। अत एव "सामान्ये नपुंमसकम्" इति तत्र तत्रोक्तं सङ्गच्छते। उत्कर्षासत्त्वेऽपि तदविवक्षायामिति तदर्थ इत्याद्यन्यतोऽवधार्थम्।
लिङ्गादित्रयस्य नामार्थत्वं साधयितुं शङ्कते-*नन्विति*। * अन्वयव्यतिरेकाभ्यामिति* टाबादीसमभिव्याहारे अश्वादिपदात् स्त्रीत्वबोधादभावे च तद्बोधादेवंरूपाभ्यामित्यर्थः। एवमन्यत्राप्यूह्यम्। तथाच ताभ्यां लिङ्गदेः प्रत्ययार्थत्वावधारणान्न लिङ्गादित्रिकस्य प्रकृत्यर्थत्वमित्यर्थः। दधि पश्यतीत्यादावित्यादिना `अयं याति' `इत्यमायाति' इत्यादिपरिग्रहः। *बोधादिति* कर्मत्वादिबोधादित्यर्थः। तथाच व्यतिरेकव्यभिचारेणान्यलभ्यत्वाच्च तदर्थत्वाभावान्नामार्थत्वमेव तेषामावश्यकमिति भावः। वक्ष्यमाणयुक्तया सङखयाकारकयोः प्रत्ययार्थत्वेऽपि लिङ्गस्य प्रकृत्यर्थत्वमेव युक्तमित्याशयेनाह-*लिङ्गेति*।
*अत एवेति* प्रकृतिप्रत्यययोरन्यतरस्य वाचकत्वे युक्तिसाम्यादेवेत्यर्थः *निर्बन्ध इति* इदमेव मतं मुख्यमित्यभिनिवेस इत्यर्थः। तदेवाह-*प्रत्ययस्यैवेति*। *युक्तत्वादिति*। अनन्तानां प्रकृतीनां शक्तत्वकल्पनापेक्षया कतिपयस्वादिनामेव तत्कल्पने लाघवादिति भावः।
केचित्तु-टाबादिकं विनापि वागादिशब्देभ्यः स्त्रीत्वस्याव्युत्पत्तिपक्षे रामज्ञानादिशब्देभ्यः पुन्नपुंसकत्वयोर्बोधस्य सार्वजनीनानुभवसिद्धत्वाल्लिङ्गस्य प्रातिपदिकार्थत्वमेव। लुप्तविभक्तिस्मरणादपि बोदाङ्गीकारेण सङ्खयाकारकयोर्विभक्तिवाच्यतैव। उक्तञ्च-
स्वार्थो द्रव्यञ्च लिङ्गञ्च कर्मादिरेव च।
अमी पञ्चैव नामार्तस्त्रयः केषाञ्चिदग्रिमाः।। इति।
अग्रिमाः=लिङान्ता इत्याहुः।
नन्वेकवचनत्वादेरनुगतस्य दुर्वचतया कतं तेन रूपेण स्वादीनामेकत्वादिवाचकत्वम्। तताहि-न तावदेकत्वादिवाचकत्वं तत्, वाचकतायाः शक्ततारूपत्वेनात्माऽऽश्रयात्, बोधकतारूप्तवे तु द्विवचनादीनामपि सक्तिभ्रमेणैकत्वादिबोधकतयाऽतिप्रसभङ्गात्, `बोधकत्वं शक्तिः' इति मते आत्माश्रयस्य दुर्वारत्वाच्च। नाप्येकवचनत्वादिकं जातिः, सुत्वादिना साङ्कर्य्यात्। नच पाणिनिसङ्केतसम्बन्देनैकवचनादिपदवत्त्वं तत्, तादृशसङ्केतस्य सङ्केतत्वेन सम्बन्धत्वे कस्यचिदेकवचनादिपदादौजसादिर्बोद्धव्य इत्याकारकसङ्केतस्यापि सम्भवेनातिप्रसङ्गतादव्स्थ्यात्। पाणिनिसङ्केतत्वेन तत्त्वे तु व्याकरणान्तरप्रणेतृपुरुषान्तरस्यातपि पाणिनिसङ्केततुल्यसङ्केतसम्बन्धेन एकवचनादिपदवत्त्स्य, `डित्थादिपदात् स्वौजसादिर्बोद्धव्यः' इत्याकारकपुरुषविशेषीयसङ्केतसम्बन्धेन डित्थादिपदवत्त्वस्य वा विनिगमनाविरहेण शक्ततावच्छेदकत्वापत्तेरिति चेन्न,
सुत्वाम्त्वादिनैवेकवचनस्य सख्यत्वाभ्युपगमेनोक्तदोषनवकाशात्, कार्य्यतावच्चेदककोटावव्यवहितोत्तरनिवेशाच्च न परस्परजन्योपस्थितौ व्यभिचारः। नच `दधि' `मधु' इत्यादौ व्यभिचारः, तत्र लुप्तविभक्त्यनुसन्दानेनैव बोधाभ्युपगमात्। कथमन्यथा द्योतकतावादिमतेऽपि केवलप्रातिपदिकात् तदुपपत्तिः, द्योतकस्यैवाभावात्।
नचानेकसुत्वादीनां शक्तत्वावच्छेदकत्वे गौरवात् प्रातिपदिकत्वस्यैकस्य तत्तवमुचितम्; लाघवादिति शङ्कयम्, उक्तरीत्या प्रातिपदिकत्वस्याप्यनुगतस्य दुर्वचत्वात्, तदज्ञानेऽप्येकत्वादिबोदस्यानुभवसिद्धत्वात्। पदत्वेन वर्णत्वेन वा शक्तत्वे तु विभक्तेरपि वाचकतासिद्धेः, एकत्वाद्युपस्थितेः प्राग्वर्णत्वाद्युपस्थितेरप्यनावस्यकत्वात् तदनुरोधेन तत्कल्पने गौरवाच्च। पदार्थयोर्विशेषणभावेनान्वये भिन्नपदजन्योपस्थितेस्तत्र तयैकप्रकृत्युपस्थाप्यघटैकत्वाद्योस्तद्भावेन परस्परमनन्वयापत्तिश्चेति स्वादीनां सङ्खयादिवाचकत्वमेवेति भावः।
द्योतकतावादिनां पुनरयमासयः-न प्रकृतीनां घटैकत्वाद्योर्विशकलितयो शक्तिर्येनोक्तदूषणावकाशः स्यात्, किन्त्वेकत्वाविशिष्टे घटादौ पृथक्शक्तयनभ्युपगमेनान्वयस्यैवाभावात्, अनन्तप्रकृतीनामेकत्वादिसक्तताकल्पनगौरवस्याप्यभावाच्च, घटपदस्यैकत्वे शक्तिभ्रमदशायाम् `घटः प्रमेयः' इत्यादिवाक्यादेकत्वं प्रमैयमिति बोधस्य सर्वसिद्धतया दतनुपोधेनैकत्वादिविषयकशाब्धबोदे घटादिपदजन्यैकत्वाद्युपस्थितेर्हेतुताया आवस्यकत्वाच्च।
किञ्च विभक्तेः सङ्खयावाचकत्वमते समानविषयकानुमितिसामग्रीप्रतिबन्दकतायां प्रातिपदिकजन्यघटाद्युपस्थितिः स्वादिजन्यैकत्वाद्युपस्थितिश्च निवेश्या। तथाच तयोर्विशेषणभावे विनिगमनाविरहेण प्रतिबन्धयप्रर्तिबन्धकभावबाहुल्यम्। मन्मते तदु भयस्थलीयैकैकविशिष्टवि,यकोपस्थितिस्तत्र निवेश्येति लाघवम्, विशिष्टविषयकोपस्थितेरप्येकत्वादिप्रकारतानिरूपितघटादिविशेष्यताशालित्वेन, घटादिवेशेषश्यतानिरूपितैकत्वादिप्रकारताशालित्वेन वा निवेश इत्यत्र विनिगमकाभावात् साम्यमिति तु न, भवन्मते यत्र योग्यताज्ञानघटोपस्थित्येकत्वोपस्थितीनां तिसृणां विशेष्यविशेषणभावे विनिगम नाविरहेण प्रतिबन्ध्यप्रतिबन्दकभावषट्कम्, तत्र मन्मते योग्यताज्ञाने विशिष्टविषयकोपस्थितेः प्रत्येकं विशिष्टोभयरूपेण वैशिष्टयं निवेश्य द्वयम्, प्रत्येकं तादृसरूपावच्चिन्नायामुपस्थितौ योग्यताज्ञानस्य वैशिष्टयं निवेश्य च द्वयमिति चतुष्टयमिति लाघवात्। अतिप्रसङ्गपरिहारस्तु तत्तत्सङ्खयाबोधे तत्तद्वचनसमभिव्याहारस्य हेतुत्वकल्पनात्।
एवम् `कारकं विभक्तयर्थः' इति कल्पे तत्तत्कारकबोधे स्वोत्तरतत्तद्विभक्तिसमभिव्याहारस्य हेतुत्वकल्पनात् स बोध्यः। स च `अम्घटः' इत्यातो बोधवारणाय वाचकतावादिनामप्यावस्यकः। एवं रीत्योपसर्गाणामपि द्योतकत्वं बोद्यमिति पक्षद्वयेऽपि हरिसम्मतिमाह *द्योतिका वाचिका वेति*।
यद्वा सङ्खयावतोऽर्थस्य समुदायोऽभिधायकः।
इति त्वसयोत्तरार्द्धम् `घटः' इत्याद्याकारकानमुपूर्व्यवच्छिन्नविभक्तयन्तसमुदायो वैकत्वादिविसिष्टघटादिवाचक इति तदर्थः। पदस्फोटमवलम्ब्य चेदम्। नामार्थ-धात्वर्थयोः साक्षादभेदारिरिक्तसम्बन्धेनान्वयस्याव्युत्पन्नत्वादभिधानानभिधानव्यवस्थानुपपत्तेश्च कारकविभक्तयर्थः।
यदि च नामार्थधात्वर्थयोर्भेदेन परस्परान्वयापादनम्, तण्डुलकर्मकपाकविशेष्यकबोधे द्वितीयान्ततण्डुलपदसमभिव्याहृतपचतीत्यादावानुपूर्वोविशेषज्ञानस्य हेतुत्वकल्पनयैव निरसितुं शक्यम्। अनभिहिताधिकारस्यापि सङ्खया विभक्तयर्थः इति पक्षे एवोपयोगस्तत्पक्षे "कर्मणि द्वितीया" (पाo सूo 2-3-2) "द्वयेकयोः" (पाo सूo 2-2-22) इत्यादीनामेकवाक्यतयैव प्रवृत्तेस्तत्र विशेष्यविशेषणभावे कामचारात्। एकस्य यत्कर्म, कर्मणि यदेकत्वादनभिहितसूत्रमर्थसम्पत्तिः प्रथमकल्पे द्वितीयादीनाम्, तिङादीनाञ्च कर्मादिवाचकतयान्यतरेणाभिधानेन्यतरस्य गतार्थत्वादनभिहितसूत्रमफलम्। द्वितीये तु कृता कर्मणोऽभिधानेऽपि तद्गतसङ्खयापि अनभिधानात् प्राप्तां द्वितीयां वारयितु तदवसरः। सति तस्मिन्ननभिहितकर्मगतत्वाभावान्न द्वितीयादिप्रसङ्गः। सङ्खयापि यदि प्रातिपदिकार्थस्तदोक्तवाक्यार्थासम्भवात् सूत्रवैयर्थ्यमेव।
नन्वनभिहितसूत्राभावे `भीषमं कटं करोति' इत्यादौ भीषमादिपदाद् द्वितीयाद्यनुपपत्तिः, विशिष्टस्वैव कटादेः क्रिययेप्सिततमत्वात् प्रातिपदिकार्थमात्रे प्रथमाप्रसङ्गत्। तत्सूत्रपक्षे त्वभिधानस्य कृदादिभिः परिगणनात् कटप्रकृतिद्वितीययाऽभिहितेऽपि तस्मिन् भीष्मादिपदेभ्यो द्वितीयादिविभक्तेः सूपपादत्वादिति चेन्न,
विशिष्टस्य विधित्सायां धर्मिम्त्रेण तोषाभावाद्धर्माणामपीप्सिततमत्वात् कर्मत्वम्, तस्य चान्यवाचकपदोत्तरद्वितीययानभिधानात्। `कृतः कटः' इत्यादौ तु प्रत्ययस्य धातूत्तरवर्त्तित्वेन तेन प्रातिपदिकार्तविशेषनिष्ठकर्मत्वस्यानभिधानादविशेषाद्धर्मिनिष्ठतदभिधानमिति भीष्मादिविशेषणवाचकपदेभ्यः प्रथमोपपत्तिरिति न कापि तदनारम्भेऽनुपपत्तिः। तदुक्तं भाष्ये "कटोऽपि कर्म भीष्मादयोऽपि" इति, तदाऽस्तु कारकमपि प्रातिपदिकार्थः, अस्मिन्नपि पक्षे कारकस्य प्रकृत्यर्थव्यक्तिविशेषणतैव विभक्तिद्योत्यत्वादिति केचित्।
नचैवं प्रातिपदिकार्थप्रआकारकबोदे सुब्जन्योपस्तितेर्हेतुत्वं विलीयेतेति वाच्चम्, इष्टत्वात्। एतत्कल्पे जातिलिङ्गसङ्खयाकारकविशिष्टद्रव्यस्य प्रातिपदिकाद् बोधनोक्तहेतुहेतुमद्भावस्य गगनकुसुमायमानत्वाद् विशेष्यतैव तु कारकस्योचितानुभवात्, क्रियान्वयानुरोधाच्चेति पञ्चकपक्षस्योपपत्तिरिति। *बहुषु स्थलेष्विति* भाष्याद्याकरग्रन्थेष्वित्यर्थः। तत्र पञ्चकचतुष्कपक्षौ तत्रोपपदमित्यत्र कैयटेनोपन्यस्तौ, त्रिकमिति पक्षस्तु वृत्तिकारेण। *प्राधान्येनेति* तत्र सर्वेषामेव पक्षाणां भाष्यकृतोपन्यासादिति भावः। सूत्रादावित्यादिनाऽनभिहितादिसूत्रसंग्रहः (1-25)
(1-26) `घटमानय' इत्यादिशाब्दबोदे घटादिशब्दस्य भाने प्रमाणाभावेन तस्य प्रातिपदिकार्थत्वसाधनमनुचितमित्याशङ्कां परिहरत-*शब्दस्तावदिति*। तत्र हरिवाक्यं प्रमाणयति-*न सोऽस्तीति*। *प्रत्ययः-* शाब्दबोधात्मकः। *शब्दानुगमादिति* शब्दविषयकत्वादित्यर्थः।
*अनुविद्धमिति* विशिष्टमित्यर्थः। अनुव्यवसायो यथाऽर्थेन विशिष्टज्ञानं विषयीकरोति तथा शब्देन विशिष्टमपीत्यर्थः। वैशिष्ठयञ्चार्थद्वारकं बोध्यम्। घटपदजन्यबोधानन्तरम् `घटं शाब्दयामि' इत्येवानुव्यवसायान्न कलशं कुम्भं वेत्यत एव "उदेति सविता ताम्रः" (भानुः) इत्यादौ न पौनरुक्त्यम्, तत्पदानुपादाने उदयास्तयोः शाब्दवोधे एकरूप्यानिर्वाहादिति भावः।
ननु तावताऽपि शब्दभानं सिद्धम्, न विशेष्यत्वेनेति कथं शब्दस्य शब्दार्थत्वसिद्धिरत आह-*विष्णुमिति* अर्थोच्चारणासम्भवेनेति वदता लक्षणाऽवसरोऽपि सूचितः। *असङ्गतिरिति* अनुपपत्तिरित्यर्थः। *सोऽपि*=शब्दोऽपि। *प्रातिपदिकार्थ इति* प्रकारान्तरेणोपस्थितस्य विशेष्यत्वासम्भवादिति भावः।
*लक्षणया* स्ववाच्यवाचकत्वसम्बन्दरूपया *निर्वाह इति* तावताऽपि पदवात्तयत्वासिद्धेरिति भावः। *निरूढेति* निरूढत्वञ्च लक्षणायामनादितात्पर्य्यग्रहाधीनत्वम्, अनादित्वञ्च तत्र स्वजन्यबोधसमानाकारपूर्वपूर्वबोधध्वंसवत्त्वम्। शक्त्यनतिरेकादित्यस्यास्मन्मत इत्यादिः। एतत्तत्वमग्रे वक्ष्यते। तस्या असार्वत्रिकत्वमप्याह- *जबगडदशमिति* तत्र समुदायस्य कुत्राप्यशक्तत्वादिति भावः। *अग्रहादिति* मन्मते तु तादृशसमुदायस्यैव तत्पदशक्यतयाऽनुपपत्तिरिति भावः।
ननु तत्र समुदायस्याशक्तत्वेऽपि तद्घटकजकारादिवर्णानामेकाक्षरकोसादौ जैत्रादौ शक्तिप्रतिपादनात्तत्तदर्थवाचकत्वरूपलक्षणायास्तत्र नानुपपत्तिरत आह-*अज्ञाताया इति* गङ्गापदसय् वस्तुतः स्वशक्यप्रवाहसामीप्यरूपसम्बन्धस्याग्रहे लक्ष्यार्थबोधस्यानुदयेन ज्ञाताया एव तस्याः पदार्थोपस्तित्यौपयिकत्वेन प्रकृते तदग्रहादुक्तानुपपत्तिस्तदवस्थैवेति भावः।
ननु शाब्दबोधाव्यवहितप्राक्काले तादृशवृत्तिग्रहासत्त्वेऽपि यदा कदाचिज्जाततादृशवृत्तिग्रहादिनोदबुद्धसंस्कारेण पदार्थोपस्तितिद्वारा तादृशशाब्दबोधोपपत्तिः सुकरेत्यत आह-*गावमिति* गोशब्दाद्यनुकरणे साधुत्वस्य सर्वैरेवाभुपगमादित्यर्थः। *परनय इति* परः नैयायिकस्तन्मते तेषां सक्तयाभावेन तद्घटितलक्षणाया अप्यप्रसराद् वृत्तिमत्वात्मकार्थवत्त्वनिबन्धनप्रातिपदिकत्वाद्यनुपपत्तिरिति भावः।
*षोढाऽपीति* पूर्वोक्तपञ्चकसहितः शब्दोऽपीत्यर्थः *क्वचित्*=अनुकरणस्थले। तच्चानुकरणं द्विविधम्। ध्वेर्वर्णस्य च। तत्राद्यम्-पटत्करोतीत्यादि। द्वितीयम्-भुबो वुगित्यादि। *भेदविवक्षेति* पटदित्यादौ ध्वनीमयत्व-वर्णमयत्वाभ्याम्, भुवो वुगित्यादावर्थकत्व-शब्दपदार्थकत्वाभ्यां तद्विवक्षेत्यर्थः। *शब्दोऽपि प्रातिपदिकार्थ इति* तथाच "मतौ छः सूक्तसाम्नोः" (पाo सूo 5-2-59) इति सूत्रे योऽसावाम्नायेऽस्यवामशब्दः पठयते स छप्रकृतेरस्यवामीयमित्यादौ पदार्थोऽत एव प्रातिपदिकत्वाच्छसिद्धरितीति भावः। मूले अर्थेऽवभासते इति पाठे अर्थे=घटादिस्वरूपे अवभासते विशेषणतया विषयो भवतीत्यर्थः।
वस्तुतस्तु भूषणपर्य्यालोजनयासावर्थो व भासते इति पाठः। तत्र `व'शब्दः सादृश्ये, तथाच भेदपक्षे यथाऽनुकार्य्यरूपोऽर्थो विशेष्यतया शाब्दबोधे भासते तथाऽभेदपक्षेऽनुकार्य्याभिन्नानुकरणशब्दोऽपीत्यर्थः। तत्रानुपस्थितस्य कथं भावमित्याकाङ्क्षायामुक्तम्-*श्रोत्रादिभिरिति* आदिना-वृत्तिज्ञानतज्जन्यसंस्कारसङ्ग्रह इति केचित्। वस्तुतस्तु-लिप्याद्यनुसंहितस्य तस्य शाब्दे भानसम्पत्तये-आदीति। `पदोपस्थितमेव शाब्दबोधे भासते' इति त्वसार्वत्रिकमिति भावः। अत एव सारकृता `अर्थवद्भासते' इति तद्विवृतम्। एतेनाभेदपक्षे।़नुकरणस्यार्थभावेन तदंशे भानवर्णनमसम्भवदुक्तिकमित्याशङ्का समाहिता। नन्वभेदपभेप्यनुकार्य्यस्य शाब्दे कथं भानम्, पदवृत्तिजन्योपस्थित्यभावादत आह-*अयम्भाव इति* `पदानुपस्थितत्वात्' इत्यस्य शाब्दबोधे भानानुपपत्तेयति सेषः। *तत्सिद्धये* शाब्दबोधजनकपदजन्योपस्थितये इत्यर्थः। *शक्तिरिति* `असम्बद्धस्य तत्स्मृत्यजनकत्वा'दिति शेषः। तथा पदवृत्तिज्ञानजन्योपस्तितिसद्भावात्तस्य शाब्दविषयता सुलभेति। *अभेदे इति* अभेदविवक्षायामित्यर्थः, तत्पक्षे निरूप्यनिरूपकत्वयोर्भेदनिबन्दनत्वेनानुकरणे तद्वृत्त्यसम्भवादिति भावः। *हेतुत्वादिति* उपस्ततिनिष्ठजन्यतायामन्वेति।
*स्वप्रत्यक्षेति8 अनुकरणप्रत्यक्षरूपामित्यर्थः। * शाब्दबोधविषयतोपपत्तिरिति* अयमाशयः-अभेदपक्षे स्वप्रत्य7रूपामुपस्तितिमादाय यथा शाब्दे शब्दस्य भानम्, तथैव `घटमानय' इत्यादौ घटादिपदानामपि तां सामग्रीमादाय भानस्य दुर्वारतया शाब्दबोधमात्रस्य शबादविषयकत्वसिद्धिः, तदुक्तं `स्वं रूपम्' इति सूत्रे भाष्ये-"नैतद्वक्तव्यम्, किं कारणम्? शब्दपूर्वको ह्यर्थे सम्प्रत्ययः, आतश्च शब्दपूर्वः' योऽपि ह्यसौ नाम्नाऽऽहूयते नाम च तेन यदा नोपलब्धं तदा पृच्छति-किं भवानाहेति, शब्दपूर्वकश्चार्थस्य सम्प्रत्ययः इह शास्त्रे सब्दे सम्भवादर्थस्य निवृत्तिः' इति। तत्र-`शब्दपूर्वको हि' इत्यादिना शब्दवृत्तिज्ञानस्य पदार्थोपस्थित्यादावन्वयव्यतिरेकौ प्रदर्श्य `शब्दपूर्वक' इत्यादिग्रन्तेन प्रकारान्तरं प्रदर्श्यते, सब्दविशेषणक इत्यर्थः। तेनार्थे असम्भवेऽर्थविशेषणतयोपस्थिते शब्दे कार्य्यमित्यर्थः। तथाचोक्तभाष्यच्छब्धतदर्थयोरुभयोरेव शब्दाद्भानम्। यत्र च लोके शब्दे इतरपदार्थान्वयवाधस्तत्रार्थंशे शब्दस्य विशेषणता। यत्र त्वर्थे "विष्णुमुच्चारय" "अग्नेर्ढक्" (पाo सूo -2-33) इत्यादौ तत्र शब्दांसेऽर्थस्य विसेषणतेति स्पष्टतिपत्तेः, *विषयत्वमनादृत्येति* वाक्यपदीयाच्चेति। *अतिप्रसङ्गेति*-घटोऽस्तीत्यतः समवायेनैकज्ञानविषयत्वादिना वोपस्थितस्याकाशादेः शाब्दे भानापत्तिवारणायेत्यर्थः।
*वृत्तिजन्येति* वृत्तिज्ञानजन्येत्यर्थः। *पदोपस्थितिरिति* घटपदंम श्रृण्विवत्यादौ तादृशपदोपस्थितेर्हेतुताया दर्शनात् प्रकृते च तदभावेऽनुकरणस्य शाब्दविषयत्वं दुर्घटमिति भावः।
*आश्रयतयेति* इदञ्च `बोधकत्वं शक्तिः' इत्यभ्युपेत्य। `बोध्यत्वं सा' इति पक्षे तु निरूपकतयेति बोध्यम्। नन्वाश्रयतासंसर्गेण वृत्तिमत्तवस्यैव शाब्दबोधविषयत्वे तन्त्रत्वे निरूपकतासंसर्गेण वृत्तिमतः शाब्दे भानानुपपत्तिरत आह-*निरूपकतेति* प्रमाणिकगोरवस्यादोषत्वादिति भावः। * अनवद्यमिति* वृत्तिनिरूपकार्थवोधकत्वस्यैव प्रातिपदिकत्वे तन्त्रत्वान्नाबेदपक्षे तत्संज्ञाप्रसक्तिरिति भावः।
ननु स्वप्रतियोगिकत्वविशिष्टसम्बन्धाऽऽश्रयतायाः स्वस्मिन्ननभ्युपगमेन कथमनुकरणस्य वृत्तिमत्तेत्यत आह-*सम्बन्धस्येति*। *तद्बोधकत्वेनेति* प्रत्यक्षाऽऽतमकशाब्दबोधजनकत्वेनेत्यर्थः। तथाच हर्य्यादिवाक्यप्रामाण्यात् प्रकृते स्वस्मिन्नपि ादृशसम्बन्धाश्रयताऽभ्युपगमान्न तस्य शाब्दे भावनानुपपत्तिरित्यनयैव रीत्या शब्दमात्रस्य शाब्दे भानं निर्वाह्यमिति भावः। ननु स्वनिष्ठबोधकत्वस्य स्वनिरूप्यत्वे पदान्तरस्येवानुकरणस्यापि प्रातिपदिकत्वं दुर्वारम्, किञ्च स्वीयप्रत्यक्षऽऽत्मकबोधजनकत्वस्य वृत्तित्वं दुरुपपादम्, शाब्दबोधजनकपदार्थोपस्थितिजनकज्ञानविषयताऽवच्चेदकसम्बन्धस्यैव तत्त्वात्। नचैतादृशज्ञानेन शाब्दबोधात् प्राक् शब्दरूपपदार्थोपस्तितिर्जन्यते। नापि बोधकत्ववदिति ज्ञानं तदानीमस्तीत येन साऽपि सम्भाव्येत, घटादावगृहीतवृत्तिकस्य घटपदं स्वप्रत्यक्षजनकमिति ज्ञानाद् घटपदशाब्दबोधाननुभवाच्चतस्मात्, कथमेतदिति चेत्,
अत्र वदन्ति-सम्बन्दस्येत्यादिग्रन्तस्य पदवृत्त्युपस्थितेनार्थेन सम्बन्दाविशेषाच्छब्दोपस्थितिस्ततः शब्दर्थयोरुभयोरपि शाब्दे भानं शब्दवृत्तिप्रयोज्यत्वस्योपस्थितिद्वये सत्त्वादित्यर्थपरत्वान्नोक्तानुपपत्तिः, तत्रार्थस्येवेत्यनन्तरं बोध्यत्वादिति शेषः। तद्बोधकत्वेनेत्यत्र तदाऽव्यहितप्रागुपस्तितार्थपदार्थपरामर्शस्यैवोचित्यादर्थबोदकत्वेनेत्यर्थात्। तदुक्तम्-
यत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम्।
पिण्ड एव हि दृष्टः सन् संज्ञा स्मारयितुं क्षमः।। इति।
दृष्टः=उपस्थितः शाब्दबोधस्तु वक्ष्यमाणहर्य्यादिवाक्यप्रामाण्यात् क्षणविलम्बेनैवाभ्युपगन्तव्यः। अनुकार्य्यस्याऽभेदपक्षे भानाय तु प्रकारान्तरमेवानुसर्त्तव्यमिति।
परेतु-उक्तमते पदार्थोपस्थितेः शाब्दबोधहेतुतायां तदवच्छेदककोटौ तत्त त्सम्बन्धावच्छिन्नवत्तिज्ञानजन्यत्वनिवेशावश्यकत्वेन वृत्तेर्द्वेधा प्रवेशे गौरवम्। अन्यतरत्वेन सम्बन्धनिवेशे त्वन्यतरत्वघटकभेदयोर्विशेष्यविशेषणभावे विनिगमनाविरहात्तत्तादवस्थ्यमेव। तदपेक्ष्याभेदपक्षे सादृश्यसम्बन्धेनानुकरणादनुकार्य्योपस्थितिस्ततथोपस्थितस्यापि तात्पर्य्यवशाच्छाब्दे भानं वृत्तिज्ञानजन्यतावच्छेदककोटौ सादृश्यज्ञानाजन्यत्वनिवेशान्न तद्धेतुतायां व्यभिचारः। अत एव गवित्ययमाहेत्यादौ न विभक्त्युत्पत्तिः, वृत्त्यार्थबोधकत्वरूपार्थवत्त्वाभावेनाप्रातिपदिकत्वात्। स्पष्टश्चायमर्थः "मतौ छः सूक्तसाम्नोः" (पाo सूo 5-2-59) इत्यत्र भाष्यकैयटयोरित्याहुः।
स्वप्रतियोगिकत्वविशिष्टसम्बन्धस्य स्वस्मिन् सत्तां तेजोदृष्टान्तव्याजेन दर्शयन् स्वोक्ते हरिसम्मतिमाह-*उक्तञ्चेति*। *ग्राह्यत्वम्*=बोध्यत्वम्। *ग्राहकत्वम्*=बोधकत्वम्। *एते*=ग्राह्यत्व-ग्राहकत्वे। *पृथगवस्थिते* इत्यनेन तयोरसमनैयत्यं दर्शयति। दीपादिरूपतेजसो विषयसन्निधाने शक्तिद्वयं लोके प्रत्यक्षसिद्धम्। तदसमवधाने तु ग्राह्यत्वमेव यथा, तथा शब्दानमर्थावाधे उक्तशक्तिद्वयम्। तद्वाधे तु ग्राह्यत्वमेवेति तदर्थः।
स्वं रूपमिति सूत्रभाष्यादप्युक्तार्थस्यैव लाभादिति तस्यैव पद्यान्तरमाह-*विषयत्वमिति* स्वस्य विषयतामसम्पाद्य शबादैर्थो न बोध्यते इत्यर्थः, स्वजन्यार्थबोधत्वस्य स्वविषयकत्वव्याप्यत्वादिति यावत्।
अयं भावः-शब्दार्थयोरभेदमते तन्मूलकाध्यासाच्छाब्दादर्थाऽऽकारवृत्तौ जायमानायं शब्देनापि तस्यां स्वाकारसमर्पणमिति शाब्दबोधस्य शब्दविषयकत्वसिद्धिरिति।
अत्र वदन्ति-"न सोऽस्ति प्रत्ययो लोके" इत्युक्तत्वात् किं बोधत्वावच्छेदेन शब्दविषयकत्वं प्रतिज्ञायते, उत ग्राह्यत्वमिति पद्यद्वयाच्छब्दत्वावच्छेदेन तत्त्वम्। किं वा शाब्दत्वसामानाधिकरण्येन। नाद्यः, घटादिप्रत्यक्षाव्यवहितप्राक्काले घटादिपदोपस्तितेरनैयत्येन तादृशप्रत्यक्षस्य घटादिपदविषयकत्वासम्भावत्। एवं घटाद्यनुमिताव पि तद्भावं न सम्भवति, व्यापकतया तदवच्छेदकतया वा व्याप्तिग्रहे तदभानात्, तदनन्तरम् `घटपदं साक्षात्करोमि' `घटपदमनुमिनोमि' इत्यनुव्यवसायाभावाच्च। न द्वितीयः, घटपदज्ञानजन्योपस्तितेस्तद्वाचकपदेऽभावेन तस्य शाब्दविषयत्वासम्भवात्, पदज्ञानस्य सम्बन्धिज्ञानविधयाऽर्थस्मारकत्वेन हस्तिपकदर्शनजन्यहस्त्युपस्थितौ हस्तिपकस्यैव तज्जन्यार्थोपस्थितावुद्धोधकतावच्छेदकपदस्य विषयत्वासम्भवाच्च। `घटो न घटशब्दः'
इति सार्वजनीनप्रतीत्या शब्दर्थयोस्तादात्म्ये मानाभावेन नार्थाकारवृत्तेः शब्दाऽऽकारतासम्भवोऽपि घटशब्दबोधानन्तरं घटपदं शाब्दयामीति प्रतीतेः सार्वजनीनत्वे क्षणविलम्बसहिष्णुता सम्भवेदपि नच तस्यास्तथात्वमिति न किञ्चिदेतत्।
अपिच भिन्ने विषयेऽनुमितिसामग्नयाबलवत्त्वात् यत्र तादृशानुमितिसामग्रीकाले केवलघटत्वविशिष्टविषयिकाशाब्दधीर्जायतामितिच्छाबलाद् घटशाब्दधीस्तत्र घटांशे तद्भानं दुरुपपादमेव। घटशब्दशाब्देच्छाविरहविशिष्टभिन्नविषयका नुमितिसामग्न्याः प्रतिबान्धिकायाः सत्त्वात्। नापि तृतीयः, सिद्धसाधनात्, `विष्णुमुच्चारय' इत्यादौ विष्ण्वादिपदानां लक्षणया शाब्दविषयतायाः परैरभ्युपगमात्, उक्तभाष्यादपि क्वचिच्छाब्दबोधे शब्दो विषय इत्यर्थस्यैव लाभात्, सति तात्पर्य्ये क्वचिदन्यत्रापि विशेष्यांऽशे तद्भानाभ्युपगमे क्षतिविरहाच्च। अत एव नलादीनां विशिष्य तत्तद्रूपेणानुपस्थितत्वेऽपि नलपदवाच्यः कश्चिदासीदिति सामान्यशक्तिग्रहात्तत्पदवाच्यत्वेन तेषां बोधः प्राचीनसम्मत उपपद्यते। अभेदे शब्दभानं तु परे त्वित्युक्तभाष्यसमतमतेनैव। अत एव तस्मादविकृतस्यैव बोधः। हरिवचनानि तु प्रणवब्रह्मणोरभेदेपासनश्रद्धाऽतिशयबोधकानि भवन्तीति न तैर्व्यावहारिकार्थस्य सिद्धिस्तस्माच्छाब्दबोधमात्रस्य शब्दविषयकत न विचारसहमधिकमग्रे व्यक्तीभविष्यतीति (1-26)
(1-27) *अन्यथेति* भेदपक्षस्यैवाभ्युपगमे इत्यर्थः। *प्रत्ययः परश्चेति* नियमशास्त्राणां निषेधमुखेनापि प्रवृत्तेः `प्रत्ययपरैव प्रकृतिः प्रयोक्तव्या न केवला'इति नियममूलकस्य "अपदं न प्रयुञ्जीत" इति निषेधविदेः प्रत्यययोग्यस्य प्रत्ययं विना प्रयोगेऽतिक्रमणादसाधुतापत्तेरित्यर्थः। अस्मन्मते तु तस्य प्रत्यययोग्यत्वाभावान्निषेधविषयताया एवाभावत्तदतिक्रमणा प्रसक्तेः साधुत्वादेव च तत्रावादेशादिरपि। अन्यथा भाषाशब्देष्विव न तत्प्रवृत्तिः स्यादिति भावः (1-27)
इति श्रीभूषणसारदर्पणे नामार्तनिरूपणम् ।। 4 ।।
*****
(1-28) क्लुप्तशक्तयैव निर्वाहान्न नामसमुदायात्मकसमासेऽतिरिक्ता शक्तिरिति मतं दूषयिष्यन् प्रसङ्गात्समासार्थं निरूपयितुमादौ तद्विभागप्रदर्शनमित्याशयेनाह-*समासानिति* समासत्वञ्च शक्तिसम्बन्धेन समासपदवत्त्वम्, एकार्थोभावापन् नपदसमुदायविशेषो वा। एकार्थोभावे मानञ्च "किं पुनः समर्थन्नाम? पृथगार्थानमेकार्थोभावः समर्थवचनम्, क्व पुनः पृथगर्थनि, क्वैकार्थानि। वाक्ये पृथगार्थानि-`रापूरुषः" इति समर्थसूत्रस्थं भाष्यम्, तन्मूलिका वक्ष्यमाणा युक्तयदश्च।
तत्रेकार्थत्वमेकोपस्थितिविषयार्थकत्वम्। नत्वेकार्थसक्तत्वम्, घटादिपदानामपि घटघटत्वतत्सम्बन्धरूपनानार्थशक्तत्वेनैकार्ततानापत्तेः। नानोपस्थितिविषयार्थकत्वं पृथगर्थकत्वम्। यथा वाक्ये पृथक्पदार्थानाकाङ्क्षादिसहकारेम विसिष्टार्थमवगाहते, "संस्पृष्टार्थं समर्थम्" इति भाष्यात्। राजपूरुषादिपदम्-`राजसम्बन्धवत्पुरुषादौ शक्तम्' इत्याकारकः शक्तिग्रहः। ततश्च प्राप्ताप्राप्तविवेकेन विशिष्टशक्तिः षष्ठयाद्यर्थे पर्यवस्यति। अत एव न तत्र राजादौ सुन्दरादिपदार्थान्वयः, एकदेशत्वात्। `देवदत्तस्य गुरुकुलम्' इत्यादौ तु गमकत्वात् स इति वक्ष्यते। जहत्स्वार्थावृत्तिः पदानामानर्थक्यमिति तु न सम्यक्, `महाबाहुः' इत्यादावात्वाद्यनापत्तेः। भूतपूर्वगत्याश्रयणन्तु सत्यां गतावनुचितम्। तुदक्तम्-
जहत्स्वार्था तु तत्रैव यत्र रूढिर्विरोधिना। इति।
अवयवार्थविरुद्धो यत्र समुदायार्थस्तत्रैव सा, यथा। कृष्णासर्पादाविति तदर्थः। अयमेव पक्षः-
समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत्।
इतिवदतो मूलकृतः सम्मतः, तथा सति पङ्कजशब्दादौ परैर्योगरुढयभ्युपगमेन तददृष्टान्तोपन्याससार्थक्यात्। जहत्स्वार्था वृत्तिरिति पक्षस्य तत्सम्मतत्वे स्वमते तस्य पक्षतया परैस्तत्र तदनभ्युपगमेन तदुपन्यासानुपपत्तेः स्पष्टत्वात्। अधिकमग्रे वक्ष्यत इति।
*गतिमतोदात्तवतेति* उपलक्षणमिदम्-`सह सुपेति योगविभागस्यापि। `अनुव्याचलत्' इत्यत्रानोर्व्यचलदित्यनेन, वेश्चाचलदित्यनेन युगपत्समासः, अन्विति सुबन्देन व्यचलदिति समुदायस्य समर्थत्वात्। सतयां समाससंज्ञायां शाकलप्रतिधाद्यणादेशः, समासान्तोदात्तत्वञ्च भवति। तिङैकत्वस्योक्तत्वात् प्रकृत्यर्थव्यापारस्य सङ्ख्यान्वयायोग्यत्वाद्वा न ततः सुबुत्पत्तिः। सम्यपरिपालकौत्सर्गिकैकवचनस्य तु नावसरः, छन्दसि तदापादनासम्भवादिति भावः। तथा सुबन्तस्यानभिधानादेवाप्रवृत्तिरिति भावः।
*अन्यथेति* सुबुत्पत्तेः प्राक्समाससंज्ञाऽभ्युपगम इत्यर्थः। नलोपत्यस्यापदत्वादित्यादिः। यद्यपि `उपपदम्' (पाo सूo 2-2-19) इति सूत्रे भाष्येऽनयोर्योर्निवृत्तं सुप्सुपेत्युक्तम्, तथाप्युपदमिति महासंज्ञाबलादेव पूर्वपदस्य सुबुत्पत्त्यनन्तरम्(एव) समास इति भावः। `प्राक्सुबुत्पत्तेः' इत्येकदेशप्रयोजनप्रदर्शनमिषेण परिभाषायाः प्रयोजनमपि दर्शितम्। सुबुत्पत्तेः पश्चात् समासे हि स्वार्थ-द्रव्य-लिङ्ग-सङ्खया-कारकाणां क्रमिकत्वस्यान्तरङ्ग बहिरङ्गभावमूलकस्य "कुत्सिते" (पाo सूo 5-3-74) इति सूत्रभाष्यसम्मतत्वेनान्तरङ्गवात् सुबुत्पत्तेः पूर्वं टाप्यनदन्तत्वात् "क्रीतात् करणपूर्वात्" (पाo सूo 4-1-50) इति ङीषोऽनुपपतेरिति दिक्।
*भाष्ये व्युत्पादित इति* तत्र हि प्रत्येकं समाससंज्ञावारणरूपं सहशब्दप्रयोजनं समुदाये वाक्यपरिसमाप्तित्यायेन परिहृत्य "एवं तर्हि सिद्धे सति यत् सहग्रहणं करोति तस्यैतत् प्रयोजनं योगाङ्गं यथा विज्ञायेत, सति योगाङ्गे योगविभागः करिष्यते। सह सूप् समस्यते। केन सह समर्थेन, अनुव्यचलत् `अनुप्राविशते'। ततः सुपा, च सह सुप् समस्यते। अधिकारश्च लक्षण़ञ्च, यस्य समासस्य अन्यल्लक्षणं नास्ति इदं तस्य लक्षणं भविष्यति" इत्युक्तम्। तत्राधिकारप्रयोजनम्-देवदत्तः पचतीत्यादौ समानाधिकरणेन समानसंज्ञावारणं बोध्यम् (1-28)
(1-29) *भेदमिति* षाड्विध्यरूपमीत्यर्थः *प्राचीनेत्यादि*। यद्यपि "अव्ययं विभक्ति" (पाo सूo 2-1-6) इति सूत्रे भाष्ये समुदायस्य संस्कारर्य्यत्वात् प्राधान्यात्तस्यैव समृद्धयादयो विशेषणानीति समुदायात्-समृद्धयादीनां गम्यमानत्वादत्राऽप्यव्ययीभावापत्तिरित्यभिप्रत्येणह-`इह कस्मान्न भवति सुमद्राः, सच्छात्र इति' प्रश्ने `नैष दोषः, इह कश्चित् समासः पूर्वपदार्थप्रधानः' इत्यादिसमासलक्षणान्युक्त्वा `नचात्रंपूर्वपदार्थप्राधान्यं गम्यते' इति समाहितम्। तथापि `अथवा' `नेमे समासार्था निर्दिश्यन्ते' इत्यादिना पक्षान्तरोपन्याशेनोक्तलक्षणेष्निर्भरसूचनाददोष इति भावः।
*लक्षणास्येति* तत्तवञ्चासाधारणधर्मवत्तवम्। धर्मेऽसाधारण्ञ्च-तदितरावृत्तित्वे सति सकलतद्वृत्तित्वम्। यथा-सास्नाश्रृङ्गवत्त्वं गोर्लक्षणम्। त6 श्रृङ्गवत्त्वं गगनकृष्णरूपादीनां लक्षणत्ववारणाय सत्यन्तवृत्तित्वसाकल्यानांनिवेशः। तुक्तम्-"लक्षणे तान्येव पदानि देयानि यैरव्याप्त्यतिव्याप्त्यसम्भवदोषा वार्त्य्यन्ते" इति। तत्र लक्ष्ये लक्षणासत्त्वमव्याप्तिः। अलक्ष्ये तत्सत्त्वमतीव्याप्तिः। लक्ष्यमात्रावर्त्तनमसम्भवः। उदाहरणानि वक्ष्यन्ते। अशाधारणधर्मवत्ताज्ञानात्तद्धर्माश्रय इतरभेदानुमितिव्यवहारश्च फलम्। यस्य तु धर्मस्य केवलान्वयित्वं तद्धर्मज्ञानस्यन्तु व्यवहारमात्रं तत्। तदुक्तम्-
व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम्। इति।
*प्रायोवाद इति* प्रायशस्तेषामुपलभ्यमानत्वेऽपि अन्येषामपि केषाञ्चिदुपलब्धेरित्यर्थस्तदेव विशदयति-
*भूतपूर्व इत्यादि* एषां वक्ष्यमाणयत्किञ्चिल्लक्षणाक्रान्तत्वेऽपि तत्तदधिकारीयसूत्राननुशिष्टत्वादसङ्ग्रहो बोध्यः, समासाधिकारीयसूत्रानुष्ठतत्वाद्विभागे तदङ्ग्रहे इष्ठापत्तेरयोगात्।
*पूर्वपदार्थेत्यादि* प्राधान्यञ्च समासघटकपदार्थप्रकारतानिरूपितमुख्यविशेष्यत्वम्। तथाच पूर्वपदार्थविशेष्यकबोधजनकत्वमव्ययीभावत्वमित्यर्थः। एवमग्रेऽपि। `उपकुम्भम्' इत्यत्र कुम्निरूपितसामीप्यस्य विशेष्यतया बोधात् `राजपुरुषः' इत्यादौ राजसम्बन्दिपुरुषस्योत्तरपदार्थस्य, `पीताम्बरः' इत्यत्र पीताभिन्नम्बरसम्बन्दिनोऽन्यपदार्थस्य, `धवखदिरौ' इत्यत्र साहित्यापन्नधवखदिरयोः पूर्वोत्तरपदार्थयोर्विशेष्यतया भानाद् यथायथं लक्षणसमन्वयः।
*व्यभिचारादिति* यद्यपि व्यभिचारोऽतीव्याप्तिरेव तथापि प्रकृते दोषन्वेन व्यभिचारपदेनोभ्यं लक्ष्यते। यद्वक्ष्यति-*अव्याप्तिरिति* तमेवामिनयेन प्रदर्शयति-*तथाहीत्यादि* *पूर्वपदार्थेति* उन्मत्तादिपदार्थेत्यर्थः। एवमग्रेऽपि। *अव्ययीबावलक्षणेति* पूर्वपदार्थविशेष्यकबोधजनकत्वरूपतल्लक्षणासत्त्वरूपेत्यर्थः। *बहुव्रीहीति* तल्लक्षणेत्यर्थः। एवमग्रेऽपि।
ननु तर्हि कान्यव्ययीभावादिलक्षणनीत्यत आह-*सिद्धान्ते त्विति* लक्ष्यताऽवच्छेदकन्तु शक्तिसम्बन्देनाव्ययीभावादिपदवत्त्वम्। भूतपूर्वादीनां लक्ष्यताऽव्छेदकानाक्रान्तत्वात् तदसङ्ग्रहो न दोषायेति भावः। जहत्स्वार्थवृत्तिपक्षम वलम्ब्य मूलमवतारयति-*असम्भवश्चैषामिति* अस्य जहत्स्वार्थवृत्तिपक्ष इत्यादिः * एषाम्*=लक्षणानाम्। *असम्भवः*=लक्ष्यामात्राऽवर्त्तनमित्यर्थः। तत्पक्षे पूर्वोत्तरपदयोस्तत्त्ववेन कुत्रापि वृत्तेरभावेन लदर्थघटितानां तेषामुपकुम्बादावसम्भवादिति भावः।
मूले *भौतेति* शब्दनित्यतावादिमते यथाश्रुतमौतपूर्व्यस्याप्यव्ययीभावादावसम्भवादाह-*सोऽपीति* व्यवहारोऽपीत्यर्थः। *रेखेति*। अन्यस्य कथमन्यधर्मबोधकत्वमत आशयं प3कासयति सारे-*रेखागवयेत्यादि*। *तद्वदेवेति* रेखागवयादिवदेवेत्यर्थः। यथा गवयादावविद्यमानमपि रेकाकवयादिनिष्ठं रेखाकृतिपुच्छं गवयादिपुच्छे सादृश्यमूलकाभेदाध्यवसायाद् गवयादिबोधकम्, तथा समासेऽविद्यमानमपि विग्रहवाक्यनिष्ठपूर्वपदार्थादिप्राधान्यं सादृसयाद् अव्ययीभावादिबोदकमित्यर्थः (1-29 1/2)
(1-30 1/2)अजहत्स्वार्थवृत्तिपक्षे तु पूर्वपदार्थप्राधान्यव्यवहारो न पुनः दुरुपपाद इत्याशयेन मूलमवतारयति-*नन्विति*। *अनेकधोक्तष्विति* "अथ तेषां ब्रुवतां किं जहत्स्वार्था वृत्तिराहोस्विदजहत्स्वार्था" इत्यादिनेत्यादिः। *एकार्थोभावव्यपेक्षेति* एकार्थोभावस्तुक्तः। व्यपेक्षा तु स्वार्थपर्यवसयिनां पदानामाकाङ्क्षावशात्परस्परार्थान्वयबोधकत्वम्। *पर्य्यवसानं लभ्यते इति* समर्थसूत्रभाष्यपर्य्यालोचनया तु एकार्थभावः सामर्थ्यमिति पक्ष एव वृत्तिद्वयस्वीकारो बोद्धृभेदेन, किन्तु, अथ ये वृत्तिं वर्त्तयन्ति किं ते आहुरित्यादिभाष्याद् वाक्यादेवेयं वृत्तिर्निष्पन्नेति मतमवलम्ब्यायं विचार इति लभ्यते। *समासशक्तयैव* इत्येवकारेणावयवशिक्तिव्यवच्छेदः। दृष्टान्तमाह-*वृषादिपदानामिवेति*।
आनुपूर्व्यन्तरघटकत्वाभावविशिष्टानुपूर्व्या एव शक्ततावच्छेदकत्वेन वृषभादिपदान्तर्गतवृषादिसमवेतानुपूर्व्याः शक्तताऽनवच्चेदकत्ववत् समासान्तर्गतराजानुपूर्व्याः शक्ततावच्चेदकत्वासम्भवादित्यर्थः। अन्यथा रामादिपदादग्न्यादीनामवयवार्थानामपि पदार्थोपस्थितिशाब्दबोधरोरापत्तिः, अवान्तकसुबुत्पत्त्यापत्तिः, धनं वनमित्यादौ जश्वाऽऽपत्तिश्च। वाक्ये तु पदान्यर्थवन्त्येव। `राजसम्बन्धी पूरुषः' इत्याद्यर्थे राज्ञः पूरुषः `पुरुषो राज्ञः' इत्यादिविशिष्टानुपूर्वोद्वयस्य शक्यतावच्छेद कत्वकल्पनाऽपेक्षया पदशक्तिकल्पनाया एव लघीयस्त्वादिति भावः।
नचैतत्कल्पे विशिष्रूपोपादानविहितत्वाऽनापत्तया, महाबाहुः, सुपन्थाः, इत्यादौ दोष, अनर्थकत्वात्। एवमर्थवत्त्वनिबन्धनप्रातिपदिकत्वाभावेन नलोपाद्यनापत्तिश्चेति वाच्यम्, वृत्तिप्रग्भाविनमर्थवत्त्वमारोप्य तत्तकार्यस्य सूपपादत्वात्। इदञ्च "प्रत्ययोत्तरपदयोश्च" (पाo सूo 7-2-17) इति सूत्रभाष्ये स्पष्टम्।
नचैवम् `वाप्यश्वः' इत्यादौ न दोषः जहत्स्वार्थायां वृत्तावानर्थक्यादिति "ईदूतौ च सप्तम्यर्थे" (पाo सूo 1-1-19) इति सूत्रस्थभाष्यविरोधो दुष्परिहरः, आरोपिताऽर्थवत्त्वस्य समासाऽन्तर्गतपदेषु स्वीकारादिति वाच्यम्, अर्थग्रहमसामर्थ्येनारोपितार्थस्य तत्राग्रहणादित्याशयात्। एकस्यैव पदस्य वृत्तितत्प्राक्कालयोरर्थवत्त्वानर्थवत्त्वे च प्रयोगानुरोध एव शरणम्। योगरूढिस्थले तु योगान्तर्भावेण शक्तयभ्युपगमान्न तदुच्छेदोऽपि।
नचात्र पक्षे राजादिपदैः सर्वथा स्वार्थत्यागे तद्भानं न स्यात्तस्माच्चैकपदार्थोऽपरपदार्थे विशेषणमिति व्यवहार इति वाच्यम्, विशिष्टोनैव राजादिविशिष्टपुरुषाद्युपस्थापनेनाऽऽद्यदोषाभावात्। अथवा` अन्वयाद् विशेषणं भवति' इति भाष्येण द्वितीयस्यापि समाधानात्। निष्कीर्णास्वपि सुमनःस्वामोदान्वयमात्रेण यथा चम्पकपुटव्यावहारस्तथा सदृशार्थान्वयमात्रेण राजादिपदार्थः पुरुषे विशेषणमिति व्यवहार इति तदर्थ इति जहत्स्वार्थवृत्तिपक्षोपपत्तिः। परन्त्वेवं हि दृश्यते लोके पूरुषोऽयं परकर्मणि पुवर्त्तमानःस्वं कर्म जहाति, तद्यथा-तक्षा राजकर्मणि प्रवर्त्तमानः स्वं कर्म जहाति। एवं युक्तं यद्राजा पूरुषार्थे प्रवर्त्तमानः स्वमर्थं जह्यादुपगुश्चापत्यार्थे वर्त्तेमानः स्वमर्थं जह्यादिति भाष्यादेतत्कल्पेऽपि पूर्वपदार्थ एव जहत्स्वार्थत्वं लभ्यते इति।
*अन्यथेति* वृत्तौ व्यपेक्षारूपसामर्त्याभ्युपगमे इत्यर्थः। *इत्यस्यापि* राज्ञः पूरुषो भार्यायाश्चेत्येकत्र द्वयमिति विषयताशालिबोधजनकस्य समुच्चयः। *आपत्तेरिति* अस्मन्मते तु पदार्थैकदेशत्वाद्भेदेऽपि शक्त्यभ्युपगमेन (अ) राजकीयभिन्नत्वेनागते विसेषणान्तरायोगाच्च न सेति भावः। अजहत्स्वार्थवृत्तिपक्षस्य भाष्यानुसारेणाऽन्यथैवोपपादनाद् `व्यपेक्षायां सामर्थ्यमेके' इत्येकीयमताश्रितामनुसृत्याह-*अयमभिप्राय इति*। *नातिरिक्तेति* क्लृप्तप्रत्येकवृत्त्यतिरिक्तेत्यर्थः। *कल्पकाभावादिति* कल्पकस्यान्यथानुपपत्तिरूपप्रमाणस्याभावादित्यर्थः।
ननु विशिष्टार्तानुपपत्तिरेव तत्कल्पिका भविष्यतीत्यत आह-*क्लृप्तराजादीति* तत्कल्पनस्य-विशिष्टशक्तिकल्पनस्येत्यर्थः। ननु स्यादेवं यद्येतत्पक्षे प3त्येकपदशक्तिकल्पना, सैव नेतिक्व गोरवावसरोऽत आह-*क्लृप्तशक्तिति* वृत्तिप्राक्काले क्लृप्तायाः प्रत्येकपदशक्तिस्तत्परित्याग इत्यर्थः। कालभेदेनाप्येकस्यैव शब्दस्यार्तवत्त्वानर्थकत्वयोर्विरुद्धत्वात्, नलोपादिव्यवस्याऽनुपपत्त्या च वृत्तिदशायां तत्स्वीकारस्यैवोचितत्वादिति भावः।
ननु प्रत्येकशक्तया तत्तत्पदार्थोपस्थितावपि विशिष्टे शक्तयनङ्गीकारेम तदनुपस्थित्या कथं तस्य शाब्दविषयतेत्यत आह-*तथाचेति*। *आकाङ्क्षेति*। आदिपदाद्योग्यताऽऽदिपरिग्रहः, राजपदाव्यवहितपूरुषपदत्त्वादिरूपकारणसमवधानादित्यर्थः। तथाच प्रत्येकपदार्थोऽपस्थितिसहकृताऽऽकाङ्क्षाऽऽदिभिरेव विशिष्टबोदसम्भवेन तत्पूर्वं विशिष्टोपस्थित्यपेक्षा यस्यै सा कल्प्येतेति भावः। *अयमेवेति* अयमभिप्राय इत्यादिनोक्त एवेत्यर्थः। भाष्यकारैरित्यस्य `परस्परव्यपेक्षां सामर्थ्यमेके' इत्यादिनेति शेषः। उक्तापत्तिसुद्धरति-*नचात्रेति*। अन्वयापत्तिरिति* यथाश्रुताभिप्रायेण सम्बन्धिलक्षणायामापत्तेरभावस्य वक्ष्यमाणत्वात्।
*प्रसङ्गादिति* स्मृतिकालावच्छिन्नोपक्षतानर्हताऽवच्छेदकधर्मवत्त्वादित्यर्थः। *वृत्तिभेदमिति* वृत्तेः=समाप्तादिवृत्तेर्भेदम् भेदसंसर्गादिरूपार्थकृतमित्यर्थः। तदुक्तं भाष्ये-"सामर्थ्यन्नाम भेदः, संसर्गो सा। अपर आह--भेदसंसर्गौ वा सामर्थ्यम्" इति। यदि वृत्तौ भेदसंसर्गौ न स्यातां तदा सामर्त्यमेव न स्यात्तदात्मकत्वात्सामर्थ्यस्य" इत्यतस्तदर्थकत्वं तस्येति तद्भावः। * भेद इति* संसर्गाविनाभावित्यादनुमीयमान (संसर्गः) तादात्म्यसम्बन्दावच्चिन्नप्रतियोगिताकाभाव इत्यर्थः। तदेवाह *अन्योन्याभाव इति*।
*संसर्ग इति* भादाविनाभावित्वादनुंमीयमानभेदः=भेदमूलकः संसर्ग इत्यर्थः।
वस्तुतस्तु "भेदसंसर्गो वा सामार्थ्यम्" इति भाष्यस्य राजादिपदसमभिव्याहृतपुरुषादिपदेन राजादिविशिष्टपुरुषादिरुपविशिष्टार्थस्यैव बोध इत्यभिप्रायः, नतु भेदे पृथक्शाक्तिबोधकं तत्, तादृशबोधाननुभवात्, `रामकृष्णौ' इत्यादिद्व द्वे भेदस्य वाच्यताया दुरुपपादत्वाच्चेति (1-30 1/2)
(1-31) *व्यपेक्षावादस्येति* अव्यवहितोक्तविधया वर्णितस्येति शेषः। उक्ताजहत्स्वार्थपक्षस्य तु निर्द्दिष्टत्वमेवेति भावः। *एवं युक्तीति* उक्तवक्ष्यमाणेत्यर्थः। *भाष्येत* "नानाकारकान्निघातयुष्मदस्मदादेशप्रतिषेधः" इत्यादिभाष्यदूषितत्वादित्यर्थः।
*वृत्तिमात्रेति* मात्रपदं कृत्स्नार्थकम्। अजहत्स्वाथलक्षणया वृत्तिपञ्चकोपस्थापकमित्यर्थः। *वाक्यार्थाभिधान इति* तथाभिधाने इत्यर्थः। भाष्यादित्यस्य ` समर्थानां पदवचनम्' इत्यादिः।
मूले *पङ्कजशब्दवदिति* सप्तमयन्ताद्वतीः, उपमेये सप्तमीदर्शनात्। पङ्कजशब्दे यथाऽवयवशक्तयतिरिक्तशक्तिस्तद्वत्समासेऽपीत्यर्थः। नच पङ्कजपदे रूढिस्वीकारे मानाभावः, समुदायात् पद्मत्वविशिष्टप्रतीतेरेव मानत्वात्, पदान्नियतोपस्थिते रूढयेकसाद्यत्वात् पङ्कजपदाद् योगेन कुमुदस्यापि बोदप्रसङ्गाच्च। रूढिस्वीकारेप्युद्भित्पदेन वृभादेरिव योगेन पङ्कजपदेन कुमुदमपि बोध्यते इति स्मृतं पद्ममेव कर्त्तृव्यक्तिशक्तडप्रत्ययेन पङ्कजनिकर्त्तृतया बोध्यते। "बाधकं विना' इति।
तथाच पद्मे तात्पर्य्यसत्त्वेन तदेव योगेनापि प्रतीयते, न कुमुदम। प्रथमकल्पस्तु रूढिज्ञानस्य ग्राह्याभावानवगाहित्वात्, जनकज्ञानविघटकत्वाच्छ प्रतिबन्धकत्वासम्भवान्न क्षोदक्षमः, सिद्धेरनायत्या `मणिमन्त्रादि' न्यायेन प्रतिबन्धकत्वाभ्युपगमेऽप्यन्यत्र तथाकल्पेन मानाभावात्। इत्थञ्च पद्मानुबवसामग्रीसत्त्वात् तस्यैव बोधः, न कुमुदस्य। सत्यां हि सामाग्रयां पलानुत्पादे प्रतिबन्धकत्वापेक्षणादिति तार्किंकाः। तद्दृष्टान्तेन वृत्तिसामान्ये समुदाये सक्तिरावस्यकीति कथने पूर्वोक्तार्थ एव पर्य्यवस्यतीति।
नन्वजहत्स्वार्थवृत्तिकल्पे विशिष्टशक्ते सम्बनन्धांशे विरामस्योक्तत्वाद्वाक्येऽपि सम्बन्धांशे एव तैः स्वीकारात् को वृत्ति-वाक्ययोर्वैयाकरमनये विशेष इति चेदत्राहुः-तत्र हि फलबलात् पदार्थोपस्थितिकाले नियमतः सम्बन्धांश उद्बोध कासमवधानकल्पनेन पृथगुपस्थितयोः पदार्थयोः संसर्गबोधः। वृत्तौ पदार्थोपस्थितिसमकालमेव नियमतः संसर्गाशें उद्बोधकसमवधानकल्पनाद् विशिष्टार्थोपस्थितिरिति वैलक्षण्योपपत्तेः। अत एव प्राप्तोदकादौ विशेष्यविशेषण भाववैपरीत्ये तु न बोधः, तत्राप्रयुज्यमानद्वितीयार्थः सम्बन्धश्चोभयं समुदायशक्तिसाध्यम्, अनन्यलभ्यत्वात्, क्लृप्तशक्तयैव राजादिपदाद्राजादेरुपस्थितिसम्भवेन तत्र समुदायशक्तिकल्पने गौरवाच्च। `नामार्थयोरभेदान्वयः' इत्यादिव्युपत्तयश्च पृथगुपस्थितनामार्थविषया इति।
जहत्स्वार्थवृत्तिपक्षे पङ्कजशब्दस्य पूर्वोक्तरीत्या दृष्टान्तत्वासम्भवेनाऽन्यथा मूलमवतारयति-*विशिष्टशक्तयस्वीकर्तॄणामिति*। *साधकमिति* विशिष्टशक्तिसाधकमेवेत्यर्थ-. व्यपेक्षावादिनये `पाजपुरुषः' इत्यादौ प्रत्येकपदवृत्त्या पदार्थोपस्तितावाकाङ्क्षादिवशात् विशिष्टार्थबोधवत् पङ्कजपदादपि तथैव विशिष्टार्थोपस्तित्या रूढेरुच्छेदापत्तिः, न च सा तवेष्टेत्याह-*पङ्कजनिकर्त्तुरपीति* तेन रूपेण पद्मस्यापीत्यर्थः। *योगादेवेति* अवयवसक्तेरेवेत्यर्थः। *तत्रापि* पङ्कजादिपदेऽपि। तत्र तत्स्वीकारे तु किमपराद्धं समासे विशिष्टशक्तयेति भावः। *सा* समुदायशक्तिः।
*तत्कल्पनस्य*=रूढिकल्पनस्येत्यर्थः। *तथोपस्थितिरिति* स्वामित्वादिना स्वम्याद्युपस्थितिरित्यर्थः। *सुवचेति* पद्मत्वादिनोपस्थितिरपि लक्षणयेति वक्तुं शक्यमित्यर्थः। रथकाराधिकरणविरोधमपि तत्राह-*एवमिति*।
*लक्षणामिति* निरूञलक्षणामित्यर्थः, तस्याः शक्तिसमाकक्षत्वादिति भावः। *योगेनेति* प्रत्येकपदवृत्त्युपस्थाप्यरथकर्त्तृत्वेनेत्यर्थः। *उपपत्ताविति* शास्त्रसङ्कोचमन्तरेणाप्यनुष्ठाननिर्वाह इत्यर्थः। *तत्कल्पनामित्यादि* रूढिकल्पनामित्यर्थः। (प्रतिलोमजातये) रूढिं तां कल्पयित्वेति यावत्। *जातिविशेषस्येति*
रथकारस्तु माहिष्यात् करण्यां यस्य सम्भवः।
इति स्मृतिसङ्केतितजातिविशिष्टस्येत्यर्थः। *अयुक्तमिति*, विनैव शास्त्रसङ्कोचं विधेश्चरितार्थ्यादिति भावः।
ननु नेयं युक्तिर्विशिष्टशक्तिसाधिका, प्रतिबन्देरनुत्तरत्वात्, तदुद्धारस्य स्वयमेव वर्णयिष्यमाणत्वाच्च। किञ्च पङ्कजपदे लक्षणाऽपि न सुवचा। तथाहि-सा किं पङ्कजपदे,उत तदवयवडप्रत्यये। न तावदाद्यः, समुदाये शक्त्यभावेन तद्घटितलक्षणाया एवासम्भवात्। किञ्च जहत्स्वार्थायास्तस्यास्तत्रासम्भव एव, अवयवार्थविरोधिन्या रूढेरभावात्।
जहत्स्वार्था तु तत्रैव यत्र रूढिर्विरोधिनि।
इत्यभियुक्तोक्तेः। यथा `मण्डपं भोजय' इत्यत्र मण्डपपदस्य गृहविशेषे रूढिर्योगविरोधिनि, रूढयर्थग्रहे मण्डपानकर्त्तरि रूपयोगार्थस्य बाधात्तत्र "रूढेर्योगापहारता" इति प्रवादादेव शक्त्या मण्डपानकर्तुर्बोधासम्भवान्मण्डपपदस्य मण्डपानर्त्तरि लक्षणा। तथाच तत्र रूढियर्थग्रहसम्बन्धितावच्छेदकतया गृहीतचत्रत्वादिनैव तद्बोधो न मण्डपानकर्त्तृत्वेन। नच तथा प्रकृते, पद्मत्वेन लक्षणायामवयवार्थस्याभावेनाजहत्स्वार्थाया अप्यसम्भवाच्च। जहत्स्वार्था त्वाववार्थप्रतीत्यनुपपत्त्या न वक्तुं शक्या। नान्त्यः, प्रकृत्यर्थस्यानन्वयापत्तेः, तदर्थे प्रत्ययस्यासाधुतापत्तेश्चेति लक्षणानवसरादनायत्त्या तत्र वुशिष्टशक्त्यम्युपगमः। "राजपुरुषः" इत्यादौ तु प्रत्येकपदवृत्त्याऽपि विशिष्टार्थबोधनिर्वाहे समुदायशक्तिकल्पनं तत्रानुचितमेव। नापि रथकाराधिकरणविरोधः, यौगिकार्यरथकरणनिमित्ते वर्षाभिधानस्य सङ्करस्य विशिष्टाधानापेक्षया लववुत्वेऽपि ऋभूणां त्वा देवानामिति मन्त्रवर्णादृभुसौधन्वन्पर्यायप्रतिलोमजातिरथकारस्यैव तदधिकारावगत्या लाघवानादरेण रूढार्थे तत्र विशिष्टाधानकल्पनात्।
नचापूर्वविद्याध्ययनकल्पनागौरवम्, फलमुखत्वात्। प्रकृते राजपूरुषादिसमुदाये शक्तिप्राहकं न तादृशं कोसादि, येन तद्बलादवयवार्थः परित्यज्येतेत्यपरितोषान्मूलमवतारयति-*साधकान्तरमिति* *लिङ्गोति* `कुक्कुटाण्डम्' इत्यादौ कुक्कुटपदार्थे स्त्रीत्वस्याप्रतीतेरिति भावः *सङ्खयेति* राज्ञो राज्ञां वा पुरुष इति वाक्ये उफपसर्जनपदानि सङ्खयाविशेषयुक्तं स्वार्थमभिदधति समासे त्वन्तर्भूतस्वार्थं प्रधानार्थमभिदधतीति भाष्यात्तत्र सङ्खयाविशेषस्याप्रतीतेरिति भावः। सङ्खयादीत्यादिपदात् "इमे तर्ह्येकार्थिमावकृता विशेषः, सङ्खयाविशेषो व्यक्ताभिधानमुवपसर्ज्जनविशेषणाञ् चायोगो" इति भाष्योक्तस्य `राज्ञो रावश्वपुरुषाः' देवदत्तयज्ञदत्तविष्णुमित्राणां गौः" इत्यादौ चायोगस्य च सङ्ग्रहः। *वचनैरिति* "सविशेषणानां वृत्तिर्न" इत्यादिभिरित्यर्थः। उक्तार्थमेव प्रकटयति-
*अयम्भाव इति*। *न्यायसिद्धिमेव सूत्रमिति* इह व्यपेक्षायां समासो न भवत्येकार्थिमावे वाक्यं न भवति, विभिन्नविषयत्वेन वाध्यवाधकभावासम्भवादिति न्यायासिद्धविभाषावचनं नापूर्वमित्यर्थः। तदुक्तं भाष्ये-"नसंज्ञाया भावाभावाविष्येते" इति। एकार्थानां विकल्पनान्नार्थो विकल्पेनेति तद्भावः।
*अन्वयासम्भवादिति* वृत्तौ ह्युपसर्ज्जनपदेन प्रधानार्थाभिधायिना भाव्यम्, स्वस्य विशेषणाऽकाङ्क्षायाञ्च प्राधान्यमिति कथमेकदा प्राधान्यमेकार्थोभावश्चास्य, युगपद्गुणप्रधानभावविरोधादिति न्यायसिद्धमेवेत्यर्थः। *अत एवेति* व्यपेक्षावादस्याऽपातरमणीयत्वादेवेत्यर्थः। *दूषणामप्युक्तमिति* अस्य नानाकारकान्निघातयुष्मदादेशप्रतिषेधः। `अयं ढण्डो हरानेन' इत्यादिनेति शेषः(1-32)
(1-33) कौयटोक्तं दोषसङ्घातमाह-*तथेत्यादि*। *इति दुषणान्तरमिति* इत्याकारकं दुषणान्तरमित्यर्थः। *पूर्वोक्तानामिति* `निष्कौशान्बिः' इत्यादौ क्रान्ताद्यर्थवाचकानां लोपवचनमित्यादिकानामित्यर्थः। एतद्दूषणोद्धारस्य वक्ष्यमाणत्वादाह-*दूषणान्तरमिति*।
व्युत्पत्तिभङ्गमाविष्कर्त्तु माह-*अयमाशय इति*। *लक्षेणेति* वाक्ये इति शेषः।
`चित्रगुः' इत्यादौ वाक्यस्य गोस्वामिलक्षकत्वेऽभाष्सितबोधलाभसम्मवादाह-*प्राप्तोदको ग्राम इति*। लक्षणायामपीति* इदञ्च मीमासकमतेन। स्ववाध्यसम्बन्धस्यैव लैर्लक्षणात्वाऽभ्युपगमात्। *बोधोत्तरम्* इत्यस्यानुपपत्तिप्रातसन्धान सतात शेषः। * लक्षणायामति* इत्यपिना तत्र लक्षणाया असम्भवं सूचयात। *अर्थलाभादिति* प्राप्तकर्त्राभन्नोदकसम्बन्धिनो लाभऽप्यनुभूयमानोक्तार्थालाभादित्यर्थः। *तर्हि समानाधिकरणेति* सामानाधिकरण्यञ्चात्र समानाबिभक्तकत्वम्। अन्यथा कर्मलाभाणकक्तान्तार्थोदकपदार्थयोरभेदान्वयानभ्युपगमे इत्यर्थः। *बङ्गापत्तेरिति* तादृशव्युत्पत्तरत्रैव व्यभिचारादिति भावः। ननु तद्व्युत्पत्तौ समानाधिकरणस्यैकार्ताभिधायित्वस्यैव निवेशेन र्नेदं तद्ावषयाऽत आह-*प्राप्तेरति*। *अन्वयासम्भवादिति* नामार्थधात्वर्थयोः साक्षाद्भेदेनान्वयस्याव्युत्परन्नत्वात्' इति भावः। *अन्यथा देवदत्त इति* अन्यथा=उक्तव्यत्पत्त्यनभ्युपगम इत्यर्थः।
ग्रामो लक्ष्यत इति*। वाक्येनेति शेषः। उक्तबोधस्य सम्भवदुक्तिकत्वे कथञ्चिल्लक्षणाऽपि कल्येत, तदेव नास्तीत्याह-*प्राप्तेर्धात्वर्थतयेति* "प्रकृतिप्रत्यययोः" इति न्यायस्य सङ्खयादौ व्यभिचरितत्वं सम्भाव्याह-*प्राप्तपदेइति*। *नामार्थत्वेनेति*। नामजन्यप्रतीतिविशेष्यस्यैव नामार्थत्वादिति भावः।
*अभेदान्वयापत्तेश्चेति* समानाभक्तिकनामार्थयोरिति भावः।*द्रष्टव्यमिति*। भवन्मते `वहनकर्माभिन्नो रथः' इति बोधोत्तरं सम्बन्धिनि लक्षणायामपि `रथकर्मकवहनकर्त्तदऽनड्वान्' इतीप्सितार्थस्यालाभ एव। कर्मार्थेकत्तप्रत्ययस्य कर्त्तारे लक्षणायां तु धात्वर्थवहने रथस्य कर्मतया भेदसम्बन्देनान्वयो दुर्लभ एव, उक्तव्युत्पत्तिविरोधादिति पूर्वोक्तदिशाऽवसेयमित्यर्थ-। *अत्र हीति* बोधाभ्युपगमादित्येननान्वयि। अत्र `ऊढरथः' इत्यादिसम्से विशिष्टशत्तयभ्युपगमे तु न कस्या अपि व्युत्पत्तेर्विरोध इत्याह-*अतिरिक्तेति*(1-33)
(1-34) षष्ठयर्थबहुव्रीहिपर्युदासे बीजं प्रदरशयति-*अयम्भाव इति*। *पवना शक्तिमिति*। समुदायशक्तिमित्यर्थः। *नच तत्रेति* तादृशसमुदायखृकंपूर्वोत्तरपदयोरित्यर्थः। *चित्रस्वामीति* `समानाधिकरणनामार्थयोः' इति व्युत्पत्तेरिति भावः। ननु गोपदस्य गोमति लक्षणा। गवि चित्रस्यभेदान्वये चित्राभिन्नगोस्वामीतदि बोधो नानुपपन्नोऽत आह-*चित्रादिमात्रस्येति* आदिना गवादिपरिग्रहः। प्राथम्यात् पूर्वपदे लक्षणेत्याश्येन चित्रपदोपादानम्।
*लक्ष्यैकदेशत्वेनेति* लक्ष्यगोस्वामिरूपपदार्थैकदेशत्वेनेत्यर्थः। *अन्वयायोगादिति* `एकपदार्थप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति विशेष्यतासम्बन्देनापरपदजन्योपस्थितेर्हेतुता' इत्यर्थपर्य्यवसितायाः "पदार्थः पदार्थेनान्वेति" इत्यादिव्युत्पत्तेर्विंरोधादुक्तान्वयासम्भवादिति भावः। कस्यचिन्मतमासङ्कय निराचष्टे-*नचेति* *साक्षादिति* गोद्वारक इत्यर्थः। तथाच षष्ठयर्थबहुव्रीहो न व्युत्पत्त्यन्तरकल्पनमिति भावः। *पदद्वय इति* विनिगमकाभावादिति भावः *नैयायिकेति* अस्य प्राचीनेत्यादिः। एकदेशान्वयपक्षे हि तैरित्त्थमुक्तम् *बोधावृत्तीति* बोध्यमानस्य स्वमीनो द्वेधा भानापत्तेरित्यर्थः।
*विनिगमनाविरहेति* चित्रपदं तात्पर्य्यग्राहकमुत गोपदमितद्येकतरपक्षपातियुक्तिविरहतादवस्थ्येनेत्यर्थः। *असम्भवादिति* एकतरपदे लक्षणाया असम्भवादित्यर्थः। पददव्ये लक्षणायान्तु उक्तदोष इति भावः। प्रत्ययार्थान्वयानुपपत्तिरेव उत्तरपदे लक्षणायां विनिगमिका भविष्यतीत्याशङ्कय निरावष्टे-*नचेति* *एवं हीति* उत्तरपदस्यैवान्यपदार्थलक्षकत्वे इत्यर्थः। बहुव्रीह्यसम्भवे हेतुमाह-*अनेकमिति* *तदविधानादिति* बहुव्रीहिविधआनादित्यर्थः।
अयम्भावः। वृत्तेर्विशिष्टार्थकत्वं न शास्त्रैकगम्यम्। "अचतुर" इत्यादावर्थानादेसनात्। किन्तु लौकिकव्यवहारगम्यम्। "स्वभावत एव तेषां शब्दानामेष्वर्थेष्वभिनीविष्टानां निमित्तत्वेनान्वाख्यानं क्रियते" इति समर्थसूत्रभाष्यात्। "अनेकमन्यपदार्थे" (पाo सूo 2-2-24) "चार्थे द्वन्द्वः" (पाo सूo 2-2-29) इत्यादीनामनेकप्रथमान्तमन्यार्थप्रतिपादकं बहुब्रीहिसंज्ञकं भवति, चार्थे वर्त्तते यः प्रथमान्तसमुदायः स द्वन्द्व संज्ञको भवतीति क्रमेण लोकसिद्धार्थाऽनुवादेन बहुब्रीह्यदिसंज्ञाविधायकत्वमात्रम्, अर्थस्यापि विधाने वाक्यभेदापत्तेः। स्वसमानार्थकवाक्यानिवृत्तये विभाषाऽधिकारोऽपि विधेयः स्यात्। एवञ्च सुबन्तसमुदायस्यान्यार्थप्रतिपादकत्वे कथं बहुब्रीहि स्यादिति। नन्वेकपदस्यान्यार्थप्रतिपादकत्वे तात्पर्य्यग्राहकतयाऽपरपदस्यप्युपयोगित्वेन समुदायस्य विशिष्टार्थप्रतिपादकत्वमिविकलमत आह-*कञ्चैवमिति* समासस्थचरमपदस्यैव लक्षकत्वे सतीत्यर्थः। इष्टापत्तावाह-*एवं सतीति* चरमवर्णस्य वाचकत्वे सतीत्यर्थः *अत्रापि* प्राप्तोदकादावपीत्यर्थः *आपत्तिरिति* आपाद्यव्यतिरेकनिर्णयकालिकाऽऽपाद्यव्याप्याऽऽपादकवत्ताज्ञानसत्त्वादिति भावः।
ननूदकपदमात्रश्रवणान्न लक्ष्यार्थबोधः, तदानीं लक्षणाकल्पिकायास्तात्पर्य्यग्राहकर्पूवपदोपस्थितेरभावादत आह-*आन्यत्रेति* भूषणे इत्यर्थः। *विस्तर इति* उत्तरपदलक्ष्यार्थे प्रकृत्यर्थत्वाभावेन तत्र प्रत्ययार्थानन्वयाऽपत्तिरित्यादि तत्रोक्तम्। *व्युत्पत्तीति* व्युत्पत्तित्यागः प्रकृते प्रतिज्ञाहानिरेव। *व्यपेक्षावादिन इति* समर्थसूत्रे "परस्परान्वययोग्यत्वरूपसामर्थ्यमेव व्यपेक्षा" इतिवादिन इत्यर्थः। *न समासे शक्तिरिति*। समासे=राजपूरुषदिसमुदाये, विशिष्टशक्तिर्नेत्यर्थः। समाससंज्ञाप्रयोजकत्वं क्लृप्तप्रत्येकपदवृत्तयतरिक्ते नास्तीति यावत्। संसृष्टार्थ समर्थमिति भाष्यकारोक्तेः, संसर्गस्य पृथगुपस्थितिनिबन्धनत्वात् परस्परव्यपेक्षैव सामर्थ्यम्। "इसुसोः सामर्थ्ये" (पाo सूo 7-3-44) इत्यत्र समर्तपदस्य तादृशार्थकत्वस्य सर्वैरेवाङ्गीकारात्, पराङ्गवद्भावानुरोधाच्छ। अन्यथा समासादावेकार्थोभाव; पराङ्गवद्भावादौ व्यपेक्षेति वाक्यभेदापत्तेः। तत्र व्यपेक्षाऽनादरे तु "ऋतेन मित्रावरुणावृतावृधावृतस्पृशौ" इत्यादावृतेनेत्यादेः पराङ्गव्द्भावे सति "आमन्त्रितस्य च" (पाo सूo 2-2-98) इत्याद्युदात्तताऽऽपत्तिः।
नच "तन्निमित्तग्रहणं कर्त्तव्यम्" इति वार्तिकेनाऽमन्त्रितार्तस्य यन्निमित्तं तद्वाचकमेव पराङ्गवदित्यर्थकेन नियमितत्वात् पराङ्गवद्भावाप्रसक्तिरिति वाच्यम्, समर्थपरिभाषामाश्रित्य तत्प्रत्याख्यानस्यैवं न्याय्यत्वात्। "ऋतेन मित्रावरुणो" इत्येतयोः समभिव्याहृतक्रियान्वयित्वेन परस्परमसामर्थ्यात् "मित्रावरुणावृतस्पृशो
एतयोस्तु पार्ष्ठिकान्वयबोधसत्त्वादस्तयेव सामार्थयम्, स्पष्टं चेदं वेदभाष्ये। अत एवाननतरपाठोऽपि चरितार्थः। `पूत्रो राज्ञः पुरुषो देवदत्तस्य' इत्यादौ निरुक्तव्यपेक्षारूपसामर्थ्याभावादेव समासाप्रसक्तेः।
समर्थसूत्रार्थस्तु पदसम्बन्दी समासादिविधिः साक्षात्परम्परया वा स्वप्रयोज्यविषयतानिरूपिवविषयताप्रयोजकत्वरूपव्यपेक्षाऽपरनामकसामर्थ्यवत्पदाऽश्रितो बोध्य इति बहुव्रीहौ चित्रऽदिविषयतायाः साक्षात्प्रत्योजकत्वाभावात्परम्परयेति।
किञ्च वृत्तित्वावच्छेदनैकार्थोभाववादिमते स्ववयवार्थातिरिक्तार्थाभिधायकत्वरूपवृत्तिलक्षणस्य कर्मधारयेऽव्याप्तिः, तत्रावयवार्थातिरिक्तार्थवत्त्वाभावात्। वृत्तित्वसामानादिकरण्येन तु रथन्तराऽदिशुद्धरूढे पङ्कजादियोगरूढे च कोशाऽदिसिद्धायाः समुदायशक्तेरस्माबिरप्यभ्युपगमेन सिद्धसाधनात्। शुद्धयोगिकचित्रग्वादिसमुदाये शक्तयभ्युपगमस्तु कोशाऽऽद्यनुक्तत्वात्समासघटकप्रत्येकपदवृत्त्यैवोपपत्तेश्च हेय इति तदभिसन्धिः। शक्तिकल्पनानुपपत्त्यभावं तत्प्रयोजनतया दर्शयति-*राजपूरुष इत्यादाविति* अत्र राजपूरुषपदमश्रूयमाणविभक्तिपूर्वपदकषष्ठीसमासपरम्, तेन `दास्याः पुत्रः' इत्याद्यलुक्समासे न दोषः।
नच सम्बन्ध एव लक्ष्योऽस्त्वेवञ्च व्याससमासयोः समानाकारबोधकत्वप्रवादोऽप्युपपत्स्यते। राजाऽऽदिसम्बन्धरूपलक्ष्यार्थस्योत्तरपदार्थे आश्रयतयाऽन्वयेनैवोपपत्तौ सम्बन्दिनि लक्षणाऽभ्युपगमे प्रयोजनाभावश्चेति वाच्यम्, `राजा पूरुषः' इत्यादावपि राजादिपदार्थस्य स्वस्वामिभावसम्बन्धेन शाब्दबुद्धिं प्रति विशेष्यतासम्बन्देन प्रत्ययनिपातान्यतरजन्योपस्तितेर्हेतुत्वास्यावश्यकतया प्रकृते राजसम्बन्दरूपनामार्थस्य प्रत्ययनिपातान्यतरानुपस्थिते पूरुषादावन्वयासम्भवात् निपातातिरिक्तत्वविशेषणाते `चन्द्र इव मुखम्' इत्यादाविवपदार्थसादृश्यस्य नामार्थस्य प्रत्ययजन्यापस्थित्यविषेते मुखे निपातातिरिक्तनामार्थचन्द्रस्य तथोपस्थित्यविषये सादृश्येऽपि न क्षतिः। अभेदातिरिक्तसम्बन्दावच्छिन्नत्वस्य प्रकारतायां निवेशाच्छ `राजा पुरुषः' इत्यादावभेदान्वयेऽपि न सा।
नच समस्यमानातिरिक्तत्वेनापि नाम्नो विशेषणीयत्वान्न प्रकृतेऽनुपपत्तिरिति वाच्यम्, गौरवात्, क्वचिदगत्या सङ्कोचेऽपि सर्वत्र सङ्कोचसयान्याय्यत्वाच्च, प्रकृते सम्बन्धिलक्षणाऽभ्युपगमरूपगतिसत्त्वात, निपातानां द्योतकत्वनये घटादिपदानां घटादिप्रतियोकिकलाक्षिणकतयैवोपपत्तौ व्यत्पत्तौ निपातातिरिक्तत्वस्याप्रवेशाच्चेति भावः।
*अत एवेति* पूर्वपदस्य सम्बन्धिलाक्षणिकत्वादेवेत्यर्थः। *(न)विशेषणान्वय इति* "पदर्थः पदार्थेनान्वेति" इति व्युत्पत्तेरिति भावः। ननु `गभीरायां नद्यां घोषः' इत्यादौ नदीपदलक्ष्यनदीदीरार्थैकदेशनद्यादौ गभीराद्यन्वयवदत्राप्येकदेशान्वयो दुर्वार इति चेन्न, दृष्टान्तासिद्धेः। तत्राप्येतन्मते नदीपदस्य गभीरनदीदीरलक्षकताया गभीरपदस्य तात्पर्य्यग्राहकतायाश्च वक्ष्यमाणतया अदोषात् तादृशव्युत्पत्तेः ससम्बन्धिव्यतिरिक्तविषयतया चैत्रस्य नप्तेत्यादावेकदेशान्वयेऽपि क्षतिविरहादिति। *उक्तार्थतयेति* तत्र निरादीनं द्योतकतया कौशाम्ब्यादिपदस्यैव कौशाम्ब्यवधिकनिष्क्रमणकर्त्राद्यर्थे लक्षणाऽभ्युपगमेनैवेप्सितार्थबोधोपपत्तौ क्रान्तादिशब्दनामुपादानासम्भवादित्यर्थः। *आवश्यकत्वमिति* तेन पारायणादावदृश्टार्थकतया स्पष्ठप्रतिपत्त्यर्थकतया वा तदुपयोगेऽपि न क्षतिरिति भावः।
*प्रतिबन्दीति* पङ्कजादिपदे पद्मत्वादिविशिष्टशक्तयभ्युपगमरूपेत्यर्थः। *अवयवशक्तिमजानतोऽपि* इत्यापिना दृष्टन्त-दार्ष्टन्तिकयार्वैषम्यं सूच्यते। *शक्त्यग्रहे* अवयवशक्तिग्रहाभावे। *तेभ्यः* पङ्कजादिपदघटकावयवेभ्यः। *विशिष्टर्थप्रत्यय इति* पद्मत्वादिरूपेण पद्मादिबोद इत्यर्थः। लक्षणायाः शक्तिघटितत्वात्, किन्तु समुदायशक्त्युपस्तिते तस्मिन्नवयवशक्त्युपस्थापितपङ्कजनिकर्तुरभेदान्वयोपगम एवेति भावः। *अत एवेति*। तत्पदीयलक्षणग्रहे तत्पदशक्तिज्ञानस्य हेतुत्वादेवेत्यर्थः उत्तरपदलक्षणायां विनिगमकमाह-*यौगिकत्वेनेति*। *विलम्बितत्वात्* इत्यनेन शीघ्रोपस्थितिकत्वमुत्तरपदलक्षणायां विनिगमकमिति सूचितम्।
ननु व्युत्पत्तिपक्षे यौगिकत्वमुदकादिपदानामपि सममत आह-*प्रत्ययानामिति*। यथाश्रुतप्रकृत्यर्थत्वस्योदकादौ बाधात् प्रकृत्यर्थपदमन्यथा व्याचष्टे-*सन्निहितेति* `दण्डिनमानय' इत्यादौ व्यवहितपदार्थे=दण्डादौ कर्मत्वाद्यन्वयवारणाय सन्निहितेति। तथाच "अणुरपि विशेषो।टध्यवसायकरः" इति न्यायेनोत्तरपदे एव लक्षणेति न बोधाऽवृत्तिरूपदूषणमपीति भावः। पूर्वक्तदूषणान्तरमुद्धरति-
*घटादिपदे चेति*। *कल्प्यमाना* इत्युक्तया अक्लृप्तत्वं सूचयति-*विशिष्टस्यैवेति* व्यवहारादिना तत्रैव तन्निद्वाराणादात भावः। *असत्त्वात्* इत्यस्य येन तत्रापि विनिगमकगवेषणा स्यादिति शेषः। *उत्तरपद इति* प्राप्तादकादिघटकोदकादिपदे इत्यर्थः। *सा* लक्षणा। *विशेष इति* घटादिपदात् समासस्य लक्षणायां वैषम्यमित्यर्थः।
अत्रेदं बोध्यम्-उक्तयुक्तयोपकुम्भमित्यादावुत्तरपदस्यैव समीपाद्यर्थे लक्षणा, पूर्वपदं तात्पर्य्यग्राहकम्। तत्पुरुषेऽपि क्वचिदर्द्धपिप्पंलीत्याद्येकदेशिनि चरमपदस्यैव सा पिप्पल्यर्द्दाद्यर्थे, इतरद् द्योतकम्। नीलोप्पलमित्यादिकर्मघारये तु न क्वाऽपि सा, प्रत्येकपदशक्त्युपस्थितयोरबेदान्वयसौलभ्यात्। बहुव्रीहौ तूत्तरपद एव सेति सार एव व्यक्तम्। पाणिपादमित्यादिद्वन्द्वे साहत्यापन्नप्रत्येकपदार्थयारुत्तरपदस्यैव सा। अत एव द्विवचनाद्यर्थद्वित्वाद्यन्वयस्तत्र। समाहारद्वन्द्वे साहित्यं विशेष्यम्, अत्र तु विशेषणमिति भेदः।
यद्वा समाहारद्वन्द्वेऽपि साहित्याप्रतीतेर्न त6 लक्षणा, किन्तु प्रत्येकपदशक्त्युपस्थाप्ययोरेव साक्षाद् वादनकर्मत्वान्वयः। `द्वन्द्वस्च प्राणि' (पाo सूo 2-4-2) इतिप्रकरणातिदिष्टैकत्वसमासस्यैव मुख्यं समाहारपदव्यपदेस्यत्वम्। इतरत्र तु तद्यवहार औपचारिकः। नात इतरेतरयोगे तत्प्रसङ्गः। एवमितरेतरयोगेऽपि न लक्षणा, एकस्मृत्यारूढपदद्वयात् प्रत्येकशक्त्युपस्थितार्थयोर्द्वित्वान्वयसम्भवात्, एकक्त्रियाऽन्वयित्वरूपस्य एकबुद्धयवच्छिन्नत्वरूपस्य वा साहित्यस्य पश्चादेवावगमेव पूर्वं तत्र लक्षणाग्रहासम्भवाच्च। `चार्थे द्वन्द्वः' इत्यस्य चार्थान्वययोग्य इत्यर्थातन्न तद्विरोधोऽपि।
युक्तत्र्चैतत्, द्वन्द्वत्वावच्छिन्नस्य प्रधानीभूतार्थद्वयप्रतिपादकत्वे एव "द्वन्द्वः सामासिकस्य च" (गीता) इत्यनेन समाससमूहमध्ये द्वन्द्वस्य विभूतितया परिगणनस्य भगवत्कृतस्य सङ्गतेः। विशिष्टशक्त्या, लक्षणाया वा तस्य प्रधानीभूतसमाहारप्रतिपादकत्वे तु समासान्तराद् द्वन्द्वस्याविशेषात्तदसङ्गतिः स्पष्टैव।
यत्तु भारतभावदीपे-सममेकत्राऽऽसनं समासो विदुषां गुरुशिष्याणां वा मान्त्रार्थे कथार्थं वैकत्रावस्थानम्। तत्र विदितमर्थजात सामासिकम्, चातुरर्थिकष्ठक् तस्य "ठस्येकः" (पाo सूo 7-3-50) इतीकादेशः, "यस्येति च' (पाo सूo 6-4-148) इत्यलोपः। तस्य मध्ये द्वन्द्वः=रहस्योऽहम् "द्वन्द्वं रहस्य" (पाo सूo7-1-15) इति सूत्रे द्वन्द्वशब्दस्य रहस्यवाचित्वं शाव्दिकप्रसिद्धमिति व्याख्यातम्।
तत्तु विदितार्थस्य चतुर्थे चतुरर्थ्याञ्च अदर्शनाद्रथन्तराधिकरणान्यायेन सङ्केतितसमासशब्दात् पारिभाषिकसमासरूपार्थस्यैवोपस्थितेरुचितत्वेन प्राप्तस्य सामूहिकठकः समासशब्दात्तदनभिधानात्। "द्वन्द्वं रहस्य" (पाo सूo 7-1-15) इत्यनेन रहस्ये व्युत्पादितद्वन्द्वस्य नित्यपुंसकत्वेन पुँल्लिङ्गस्य तद्वाचित्वासम्भवात्। समासवाचिनश्च तस्य पूँल्लिङ्गतायाः "चार्थे द्वन्द्वः" (पाo सूo 2-2-2-21) इत्यादौ दृस्टत्वात् पारिभाषिकत्वाच्छ तेन समासस्यैव ग्रहणस्योचितत्वाच्च चिन्त्यम्।
नच साहित्याभानेऽन्यतरस्य क्रियाऽन्वयविवक्षायाम् `पश्य धवं खदिरं छिन्धि' इतिवाक्यवत् `पश्य धवखदिरौ छिन्धि' इति प्रयोगापत्तिरिति वाच्यम्, प्रत्ययार्थद्वित्वावच्छिन्नधर्मिकस्यैव पदार्थान्तरान्वयवोधस्यान्यत्र दर्शनेनात्रापि तदवच्छेदेनान्वयस्यैवोचितत्वात्।
नच द्वित्वान्वययोग्यतावच्छेदकसाहित्यभानमन्तरेम द्वित्वान्वय एव दुर्लभ इति वाच्यम्, योग्यताऽवच्छेदकोपस्थितेरनपेक्षणात्, उपस्थिरेर्योग्य एव तदन्वयात्। अत एव `घटेन जलमानय' इत्यत्र छिद्रेतरस्यैव योग्यताबलेनान्वयः, नतु छिद्रेतरत्वप्रकारकः शाब्दबोधः, तत्र प्रकृत्यर्थतावच्छेदकस्यैव द्वित्वान्वययोग्यतावच्छेदकत्वेऽपि क्षतिविरहाच्च। विवेचितं चेदमधिकमन्यत्र।
नच `क्षौमवसनावग्निमादधीयाताम्' इत्यत्र समुच्चयसाहित्यलाभो न स्यादिति वाच्यम्, "यत् कर्त्तव्यं तदनया सह" इति वचनान्तरात्तत्सिद्धेः। यद्यपि द्वन्द्वे परस्परान्वयित्वरूपव्यपेक्षा दुर्घटा, तथापि "चार्थे द्वन्द्वः" (पाo सूo 2-2-29) इति विधिसामर्थ्यादेव तत्र समासः, दतर्थस्तूक्तः, समुच्चयान्वाचययोस्त्वनभिधानादेव न द्वन्द्व इति स्पष्टं भाष्ये। यत्त्वेकस्यां क्रियायामेकरूपेणान्वयित्वमेव सामर्थ्यमिति, तन्न, क्वचिदेतस्य क्वचित् पूर्वाक्तस्य सामर्थ्यस्यश्रयणे समर्थसूत्रे वाक्यभेदापत्तेः, एकक्रियान्वयित्वस्य ततोऽननुभवाच्चेति पूर्वोक्तापत्तिमिष्टत्वेनापि परिहरति-*स्वीकृतमिति*।
*चरमवर्णास्यैवेति* पूर्वपूर्ववर्णानुभवजन्योदुबुद्धसंस्कारसहितान्तिमवर्णस्येत्यर्थः। नातः केवलचरमवर्णार्थबोधापत्तिः। अधिकमग्रे वक्ष्यते। "व्यपेक्षायां सामर्थ्ये समास एकोऽसङ्गृहीतो भवति" इति भाष्याशयं प्रकाशयन्नैयायिकमतं दूषयति-*अत्रोच्यते इति*। संज्ञादीत्यादिना पदत्वादिपरिग्रहः।
*भाष्यसिद्धाया इति* "समासग्रहणमर्थवत्समुदायानां नियमार्थम्" इति भाष्यसिद्दाया इत्यर्थः।
*स्पष्टमिति* वाक्यस्याप्यर्थवत्त्वेन प्रातिपदिकत्वप्रसक्तौ तद्व्यावृत्तये वचनारम्भमाशङ्कय नियमार्थेन समासग्रहणेन समाहितम्। समासे शक्त्यनभ्युपगमे तु तस्य वृत्त्यार्थबोधकत्वरूपार्थवत्त्वाभावेनाप्राप्तसंज्ञाविषये तस्याऽऽवश्यकतया वियमार्थत्वव्याघातः स्पष्ट एव। तस्मादेतद्भाष्यमपि समासे विशिष्टशक्तौमानमिति तत्रोक्तत्वादित्यर्थः।
नच अर्थवत्पदसामर्थ्यनार्थवाचकपदघटितेऽपि प्रातिपदिकसंज्ञासिद्धिरन्यता धात्वादिपर्य्युदासेनैवाऽर्थवत्त्वे लब्धे तदुपादानवैयर्थ्यं स्पष्टमेव। दशदाडिमानीत्याद्यनर्थकसमुदायस्य तु नियमेन वारणीयत्वादिति वाच्यम्, अर्थवद्ग्रहणस्योत्तरार्थतायाः सिद्धान्तसिद्धत्वे तत्प्तामर्थ्याभावात्, "अर्थवद्ग्रहणं संज्ञिव्यपदेशार्थम्" इति भाष्येणार्थवत्त्वेन सादृश्यबोधनार्थं तदुपयोगदशनाच्चेति विशिष्टशक्त्यभ्युपगममन्तरेण समासे प्रातिपदिकसंज्ञादौभिक्ष्यमेवेति भावः।
ननु चित्रगुरित्यादौ विशिष्टे शक्त्यस्वीकारेऽपि नार्थवत्त्वनिबन्धप्रातिपदिकसंज्ञाऽनुपपत्तिः। तथाहि-न शक्यसम्बन्धो लक्षणा, `गभीरायां नद्यां घोषः' इत्यादावसम्भवात्। तत्र तावन्न गभीरपदं तीरलक्षकम्, नद्यामित्यस्यानन्वयापत्तेः। नहि तीरं नदी, अत एव नीदीपदमपि न तथा, गभीरपदार्थस्यानन्वयापत्तेः। नच पदद्वये प्रत्येकं सा, विशिष्टनदीतीराभानप्रसङ्गात्। नच नदीपदेनैव गभीरनदीतीरं लक्ष्यते, गभीरादिपदं तात्पर्त्यग्राहकमिति वाच्यम्, गभीरपदस्य तात्पर्य्यग्राहकत्वमुत नदीपदस्येति विनिगमनाविरहात्।
नच नदीपदस्य द्रव्यवाचकतया साक्षात्सम्बन्ध एव लक्षणायां विनिगमक इति वाच्यम्, गभीरपदस्यापि नित्यं गुणिवाचकतया तदर्थस्यापि साक्षात्सम्बन्धाविशेषात्। तस्मात् पदद्वयलक्षणायां गौरवात् समुदाय एव साऽङ्गीकार्य्या। अत एवाऽर्थवादवाक्यानां प्राशस्त्ये लक्षणेति सङ्गच्छेते। किन्तु स्वबोध्यरूपैव सा। अस्ति च गभीरायां नद्यामित्यत्र वाक्यज्ञाप्या गभीराभिन्ननदी तत्सम्बन्धस्तीरे इति। एवञ्च चित्रगुरित्यादिसमुदायस्य लक्षणया चित्राभिन्नगोस्वीमिरूपार्थबोदकत्वरूपार्थवत्त्वात् प्रातिपदिकसंज्ञा नानुपपन्नेत्यत आह-*समासवाक्य इति* वाक्य इत्युक्त्या क्वचित्तत्सम्भवेऽपि सर्वत्र राजपुरुषादिसमासे तदसम्भवं सूचयति।
अयमाशयः-स्वज्ञाप्यसम्बन्धस्य न लक्षणात्वम्, अपभ्रेशेऽपितत्प्रसङ्गात्। किञ्च `स्वज्ञाप्य' इत्यस्य स्वनिष्ठज्ञापकतानिरूपकज्ञाप्यतावदर्थसम्बन्द इत्यर्थो वाच्यः। तत्र ज्ञापकत्वं वृत्या बोधकत्वम्, उत ज्ञानजनकज्ञानविषयत्वमात्रम्। नाद्यः, वाक्ये लक्षणाऽभावप्रसङ्गात्। तदर्थस्य गम्भीराभिन्नस्य वृत्त्यबोध्यत्वात्। नान्त्यः, प्रत्येकं वर्णानामर्थवत्त्वापत्त्या विभक्त्यापत्तेरिति स्वशक्यसम्बन्धो लक्षणेत्येवाङ्गीकरणीयम्। तथाच समासे तदसम्भवेन प्रातिपदिकसंज्ञाऽनुपपत्तिस्तदवस्तेति तदर्थं विशिष्टशक्तिस्वीकार आवश्यक इति।
*भाष्यसिद्ध इति* "तिबेकादेशे प्रतिषेधोऽन्तवत्त्वात्" इत्यादेस्तत्राभिधानादिति भावः।
*सूत्र्यतामिति* "अतिप्समासश्च प्रातिपदिकम्" इत्येव सूत्रयतामित्यर्थः। तथाच तिङ्सुबन्तभिन्नं यत्तत्प्रातिपदिकमित्यर्थेन समासस्य प्रातिपदिकत्वलाभादतिरिच्यमानं समासग्रहणं नियमार्थमस्त्विरत्यर्थः। *प्रत्येकं वर्णेष्विति* वर्णानामानर्थक्यपक्षे प्रातिपदिकसंज्ञायां प्रकाशनीयार्थाभावादविशेषेण प्रतिवर्णे विभक्तिसम्भवादव्ययादिवेति भावः। *अर्थवत्त्वेति*। अर्थवद्ग्रहणस्यावश्यकत्वेनेत्यर्थः।।
नचार्थवत्समुदायघटकवर्णानामर्थवत्त्वपक्षस्यापि भाष्ये दर्शनात्तद्ग्रहणेऽपि विभक्तिर्दुर्वारेति वाच्यम्, तत्पक्षेऽपि, "सङ्घातस्यैकार्थ्यात् सुबोभावो वर्णात्" इति भाष्यात्तन्त्रेणैकैव विभक्तिः समुदायावयवार्थगतमेकत्वं बोधयेत्। एकमेव तदेकत्वं तच्चैकेन सुपा प्रत्यायितमिति बोधनीयाभावात् विभक्तेः प्रत्येकवर्णादनुत्पत्तेरिति भावः।
ननु समासवाक्यस्यार्थवत्त्वाऽभावेऽपि न प्रातिपदिकसंज्ञानुपपत्तिः, "कृत्तद्धित" (पाo सूo 1-2-46) इति सूत्रेणैव तत्सम्भवात्। सम्भवति विधित्वे नियमकल्पनाया अन्याय्यत्वात्। समासग्रहणमेव च समास एकार्थोभावाभावे मानम्। वाक्यस्य तु न पूर्वसूत्रेण तत्प्रसक्तिः, अर्तवत्त्वाभावात्। संसर्गस्याशक्यवेऽप्याकाङ्क्षादिवशादेव तद्भानस्य सूपपादत्वात्। एवं प्रकृतिप्रत्ययसमुदायस्याप्यनर्थकत्वेनाप्राप्तसंज्ञाविधानार्थं कृत्तद्धितग्रहणमिति समस्तस्यैव सूत्रस्य विधायकत्वम्। आद्यसूत्रस्य तु अव्युत्पन्नसाधुशब्दस्वरूपमेव, नतु बहुपटुरित्यादिसमुदायोऽप्युत्तरपदलाक्षणिकतादृशसमुदायस्यार्तवत्त्वाभावात्। तृदन्तानां केषाञ्चिदर्थवत्त्वेऽपि धातुत्वात्, एवं तद्धितानामपि `इ' `इयान्' इत्यादीनां प्रत्ययत्वेन तादृशसमुदायस्य त्वनर्थकत्वेन पूर्वसूत्राविषयत्वेन तत्र तत्र प्रातिपदिकत्वविधानार्थ सूत्रकारेम द्वितीयं सूत्रं प्रणीतम्। अत एवात्रार्थवदिति नानुवर्त्तते, असम्भवात्प्रयोजनाभावाच्च। तत्र कृच्छब्देन प्रत्ययपरिभाषया तदन्तग्रहणं संज्ञाविधावित्यस्य प्रायिकत्वात्, डतरादिवत्केलकृतामप्रयोगेण तदुपादानवैयर्थ्याच्च। यद्यप्युक्तयुक्त्या तद्धितपदस्य तद्धितान्तपरतैव लभ्यते तथापि लक्ष्यतावच्छेदकाक्रान्तबहुपट्वादिसङ्ग्रहाय तत्स्वाव्यवहितोत्तरत्वसम्बन्धेन तद्धितविशिष्टप्रकृतिघटितसमुदायतद्धितान्तान्यतरपरतया व्याख्येयम्।
प्रकृतित्वञ्च प्रत्ययविधानावधित्वम्। `इः' `इत्यान्' इत्यादौ तु प्रत्ययस्यैव तदन्तत्वान्न दोषः। पचतक्यादिसमुदायान्तर्गततद्धितप्रकृतेर्निरुक्ततद्धितवैशिष्टयाभावान्न तत्रातिप्रसङ्गः, कृद्ग्रहणपरिभाषाया अनन्तरग्रहणज्ञापिताया असार्वत्रिकत्वाच्च न मूलकेनोपदंशमित्यादावतदिप्रसक्तिः। एवं समासग्रहणेनाप्यप्रप्तप्रातिपदिकसंज्ञाविधानाद्राजपुरुष इत्यादिसमुदायात् स्वाद्युत्पत्तिः सुलभेति तत्र विशिष्टशक्त्यभ्युपगमो निष्प्रमाणकः। वाक्यस्य सा नेत्युक्तमेव, तत्र कोसादिना शक्त्यरिच्छेदात्।
यत्र तु कोसादिकं रिच्छेदकं तत्र समासे पङ्कजादौ तां निवारयामः। एवञ्च वाक्यस्यार्थवत्त्वाभावेन प्रातिपदिकसंज्ञाऽप्रसक्तेस्तद्वयावृत्तिरूलाभावेन समासग्रहणस्य नियमार्थत्ववर्णनमसाम्प्रतम्। भाष्ये तस्य नियमपरतया वर्णनं तु संसर्गस्य शक्यत्वमित्येकदेशिमतमनुसृत्यैवैत्यरुचेराह-*किञ्चैवमिति*। एवम्=समासे विशिष्टशक्तयस्वीकारे। कर्मत्वाद्यनन्वयापत्तिरित्यस्य गवादिपदार्थ इति शेषः। तत्र हेतुमाह-*प्रत्ययानामिति* तथाच प्रकृतित्वम् प्रत्ययविधानावधित्वम्, न तु प्रत्ययाव्यवहितपूर्वत्वम्, बहुपटुरित्यादौ पट्वादिसब्देऽव्याप्तेः।
नच "तावेव सुप्तिङौ यौ ततः परौ, सैव च प्रकृतिराद्या" इति भाष्यात् प्रत्ययाव्यवहितपूर्वस्यैव प्रकृतित्वलाभ इति वाच्यम्, तदर्थानवबोधात्। यौ ततो विधानावधेैरसति विशषानुशासने परौ तावेव सुप्तिङावित्युपलक्षणम्, प्रत्ययान्तरस्यापि, यतो विहितौ सैव प्रकृतिरिति तदर्थात्। आद्येत्यभ्यासाभिप्रायेण। तथाच समासोत्तरपदस्य विधानावधित्वरुपप्रकृतित्वाभावेन तदर्थे न कर्मत्वाऽद्यन्वयः सम्भवति, उक्तव्युत्पत्तिविरोधादिति भावः।
प्रत्ययानामिति व्युत्पत्तिर्हि दण्डनमानयेत्यादौ दण्डादौ कर्मत्वान्वयवारणाय स्वीक्रियते। तदर्थश्च `प्रकृत्यर्थनिष्ठविषयतानिरूपितविषयतासम्बन्धेन शाब्दबुद्धिं प्रति विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितित्वेन हेतुता' इति तत्र प्रकृते सन्निहितत्वेनैव निवेशस्तावतैवोक्तस्थले व्यभिचारवारणात्, न तु प्रकृतित्वेन, गौरवादिति मतं दू,यितुमुपन्यस्यति-*यत्त्विति*।
*सन्निहितेति* सन्निहितत्वञ्चाव्यवहितपूर्वत्वेनानुसन्दीयमानत्वम्। तस्य च चित्रग्वादिपदे गवादौ सत्त्वान्नोक्तानुपपत्तिरिति भावः। व्युत्पत्तिरेवेत्येवकारेण पूर्वोक्तप्रकृतित्वघटिव्युत्पत्तिव्यवच्छेदः। उपकुम्भादिसमासेऽपीत्यर्थः।
*आनुशासनिकेति* सन्निहितत्वं नाव्यवहितपूर्वत्वम्। तत्त्वेनानुसन्धीयमानत्वं वा, धवखदिरावित्यादौ धवादिपदार्थे विभाक्त्यर्थानन्वयप्रसङ्गत्, किन्तु सन्निहितत्वेनानुशासनबोधितत्वम्। तच्च धवादिपदार्थानमिवोपादिपदार्थानामस्तीत्याशयवानाह-*तथाचेति*। *समस्यमानपदोत्तरमिति* समासस्यानेकपदसमुदायात्सकतया समुदायस्य प्रत्येकानतिरिक्ततया समासरूपप्रातिपदिकाद् विहितविभक्तेस्तत्तत्पदसन्निहितत्वादिति भावः।
सम्भवेदेवं यदि समासग्रहणनिबन्धना प्रातिपदिकसंज्ञा, किन्तु नियामकतया पूर्वसूत्रेणैव सा वाच्या। तथाचोक्तप्रकारासम्भव इत्याशयेनाह-*अर्थवत्सूत्रेणेति* तथाच शास्त्रबोधितसन्निहितत्वमपि विशिष्टस्यैव, न केबलपूर्वपदस्येत्युक्तस्थले व्यभिचारो दुरुद्धर इति भावः। प्रकृतित्वस्य पर्य्याप्त्याख्यविलक्षणसम्बन्धेन समुदायमात्रविश्रान्तत्वेऽपि केवलाश्रयतया तद्त्त्वस्य प्रत्येकदेशेऽपि सम्भवादुक्तव्युत्पत्तिरशरीरे आश्रयतैव निवेशनीयेत्याशयेन शङ्कते-*अथेति*। *प्रकृतित्वाश्रये*=प्रकृतित्वाश्रयार्थे। असन्निहितप्रकृत्यर्थे दूषणमुद्भाव्य सन्निहितेऽपि तदाह-*अघटमिति* पूर्वपदार्थप्राधान्यमत्रेत्यासयेन दूषणोद्भावनम्। तत्त्वञ्चाऽग्रे वक्ष्यते। *विशेषणतयेति* एकत्र विशेषणतयाऽवरुद्धस्यापरत्र तदन्वये नैराकाङ्क्षयादिति भावः। यत्र क्वपि विशेषणेनापरान्वय इति यथाश्रुतं दूषयति-
*पाकान्नील इत्यादि* नीलत्व-सुखयोः स्वाश्रये विसेषणतयाऽन्वितयो- पाकादित्याद्यन्तर्गतपञ्चम्यर्थहेतुत्वस्यानन्ववापत्तेरित्यर्थः। *तज्जन्यज्ञानविषयत्वेति* तत्पदार्थः प्रकृतिः। मात्रपदेन वृत्तिप्रतिपाद्यत्वस्य व्यवच्छेदः। *अत्र* चित्रग्वादिसमासान्तर्गतगवादिपदार्थे इत्यर्थः। *अविरुद्धमिति* अबाधितमित्यर्थः। `घटं पश्य' इत्यत्र दृशिर्ज्ञानसामान्यार्थः। *आकाशवारणायेति* सम्वायेनोपस्थिताकाशे दृश्यर्थकर्मत्वाद्यन्वयवारणायेत्यर्थः। *वृत्त्या प्रकृत्यर्थत्वस्येति* वृत्तिजन्योपस्थितिविषयत्वस्येत्यर्थः।
`वादिवाक्ये यावन्तोऽर्थाः सम्भवन्ति' इति न्यायेनोक्तव्युत्पत्तिं दूषयितुमर्थान्तररतया व्याचष्टे-*प्रसङ्गादिति* प्रत्ययप्राग्वर्त्तिपदजन्योपस्थितिविषयतायाः कृष्णे सत्त्वादिति भावः। `प्रत्ययानाम्' इति व्युत्प्त्तेरेकार्थोभाववादिमते सत्त्वेऽपि नास्मन्मते सा सार्वत्रिकी, समास एवासम्भवात्। किन्तु प्रकृते व्युत्त्पत्त्यन्तरमेव कल्प्यते इत्यभिप्रेत्याह-*अथेति*।
*अक्लृप्तकल्पनामिति* समस्यमानपदार्थविषयतानिरूपितविषयतासम्बन्धेन शाब्दं प्रति विश्ष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेः कारणत्वान्तरकल्पनामित्यर्थः।
ननु प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्वरूपा व्याससमाससाधारण्येकैव व्युत्पत्तिः। सन्निहितत्वञ्च पदत्वस्य प्रकृतित्वघटितस्य व्युत्पत्तौ निवेशे गौरवमित्यादिदिगर्थः।
ननु प्रत्ययानामिति व्युत्पत्तेः प्रकृतिप्रत्ययघटिततया तत्र प्रकृतित्वप्रत्ययत्वयोरनुतयोर्दुर्वचत्वेन तत्तद्वयक्तिभेदेन कार्य्यकारणभावो वाच्यः। तथाच समासस्थले समास्यमानपदार्थस्य प्रत्ययार्थान्वयाभ्युपगमे बाधकाभावोऽत आह-*अपि चेति*। यद्वाऽनेकसमासेषु विशिष्टशक्तिकल्पनापेक्षया क्लृप्तव्युत्पत्तित्यागसहकृता व्युत्पत्त्यन्तरकल्पनैव लघीयसी इत्यत आह-*अपि चेति*। *अनन्वयप्रसङ्ग इति* नामार्थयोरिति व्युत्पत्तेरिति भावः।
अनन्वयमेवाह-*राजपदादेरिति*। लक्षणायमपीत्यपिना सम्बन्धलक्षणायां नितरामन्वयाभावः सूच्यते। नचोक्तव्युत्पत्तेः `शुभ्रः" इत्यादौ व्यभिचारोऽत आह-*तण्डुलः शूभ्र इति*।
तथाच तण्डुलान्वयिनि प्रातिपदिकार्थे विभक्तिजन्योपस्थितेः सत्त्वान्न सत्त्वान्न तत्र व्यभिचार इति भावः। शुभ्रेण तण्डुलेन इत्यादौ व्यभिचारमाशङ्कय निराचष्टे-*अभेदार्थिकेति* अथवा कट इव तत्समानाधिकरणभीष्माऽऽदिभ्यो द्वितीया भविष्यतीति द्वितीयादिविभक्तेरनभिहितसुत्रे भाष्यकृताऽभिधानात् सामानाधिकरण्यस्य समानाधिकरणयोर्विशेणषयोर्भावस्याभेदस्य विशेषणपदोत्तरविभक्त्यर्थलाभात् तत्रापि शुभ्रेणेति तृतीयाजन्याभेदोपस्थितिसत्त्वान्न व्यभिचार इति भावः।
नन्वत्र अभेदो यदि भेदत्वावच्छिन्नाभावस्तदाऽप्रसिद्धिः, भेदस्य केवलान्वयित्वात्। यदि भेदप्रतियोगिकाभावस्तदा `नीलो वह्निः' इति वाक्यस्य प्रामाण्यापत्तिः द्वित्वादिना नीलभेदाभावस्य वह्नौ सत्त्वाद् विशेषणविभक्त्यर्थैकदेशे भेदे प्रकृत्यर्थस्यानन्वयापत्तिश्च।
नच भेदेऽभावे च द्वितीयादेः शक्तिः। भेदे च प्रकृत्यर्थस्य प्रकृत्यर्थताऽवच्छेदकावच्छिन्नप्रतियोगिताकत्वेनान्वयः, उक्तसम्बन्धेन प्रकृत्यर्थविष्टभेदस्य तु तत्त्वावच्छिन्नप्रतियोगिताकत्वेनाभावेऽन्वयोपगमान्नोक्तापत्त्यादिरिति वाच्यम्। `प्रमेयो घटः' इत्यादौ प्रमेयत्वाच्छिन्नभेदाप्रसिद्धयोक्तप्रकारासम्भवात्, नीलापटादिपरनीलपदघटितनीलो घट इति वाक्यस्य प्रामण्याऽऽपत्तेश्च। नीलत्वादिना नीलभेदाभावस्य घटेऽबाधात्।
नच तद्व्यक्तित्वावच्छिन्नाभेद एव विभक्त्यर्थः। तथा सत्यपूर्वव्यक्तिनिष्ठतद्व्यक्तित्वस्य बानासम्भवेन तदवच्छिन्नप्रतियोगिताकाभावे शक्तिग्रहासम्भवेनापूर्वव्यक्त्यबेदान्वयाऽनुपपत्तेः। अभावबुद्धेर्विंशिष्टवैशिष्टयाऽवगाहित्वानुपपत्त्या एकधर्माऽवच्छिन्नप्रतियोगिताकाभावेऽपरधर्माऽवच्छिन्नप्रतियोगितायाः सम्बन्दतया भानासम्बवाच्चेति। चेन्न, अभेदस्तादात्म्यम्, तच्च स्ववृत्त्यसाधारणो धर्म्मः। असाधारण्यञ्च स्वप्रतियोगिवृत्तित्व-स्वसाभानाधिकरण्योभयसम्बन्धेन भेदविशिष्टं यत्तदन्यत्वमित्येकमात्रवृत्तिधर्म एव, तस्मिन्नाधेयतया प्रकृत्यर्थाऽन्वयः। अपूर्वव्यक्तिनिष्ठतद्व्यक्तित्वस्य विशिष्यंज्ञातुमशक्यत्वेऽप्येकमात्रधर्मत्वेन सामान्यप्रत्यासत्त्या सुग्रहात् सर्वं सुस्थमिति। *पार्ष्ठिक इति*। शाब्दबोधोत्तरकालिक इत्यर्थः। *अन्वय इति* तद्वोध इत्यर्थः। अरुणाधिकरणरीत्या सर्वेषां विभक्त्यर्थानां प्रथमं क्रियायामेवान्वयेन तत्र शुभ्रादिपदार्थान्वये विभक्तिजन्योपस्थितिसत्त्वात्तत्पक्षेऽपि नोक्तव्युत्पत्तेर्व्यभिचार इति भावः।
ननु नामार्थयोरिति व्युत्पत्ते राजा पूरुषस्तण्डुलः चतीत्यादौ राज्ञः स्वस्वामिभावसम्बन्धेन पुरुषे, तण्डुलस्य कर्मतासम्बन्धेन धात्वर्थपाकेऽन्वयवारणायाऽवस्यकत्वेऽपि तत्र राजा पुरुषः स्तोकं पचतीत्यत्राबेदसम्बन्धेनान्वयाद् व्यभिचारवारणाया भेदातिरिक्तसम्बन्धावच्छिन्नत्वं नामार्थनिष्ठप्रकारतायां निवेशनीयम्।
नच विशेषणविभक्तेरभेदार्थकतया निर्वाहः, कट एव कर्मेति भाष्यव्याख्यावसरे भीष्मादीनां स्वयमकर्मकत्वेऽपि विशेष्यसम्बन्धिविभक्त्यैव भीष्यमादिपदोत्तरे भवितव्यम्, तदेकयोगक्षेमत्वात्। केवलानां च प्रातिपदिकानाम् "प्रत्ययः" "परश्च" इति नियमेन प्रयोगानर्हत्वात्। यथेश्वरसुहृद्रः स्वयं निर्दना अपि तदीयधनेनैव तत्फलभाजः, एवं गुणा अपीति "अनभिहित" सूत्रे वदता कैयटेन विशेषणविभक्तेः साधुत्वमात्रार्थकत्वं स्पष्टमेवोक्तम्। विभक्त्यर्थप्रातिपदिकार्थविशेष्यकनामा(पुरुषा)दिप्रकारकबोधस्य समानाधिकरमविशेष्यविशेषणभावस्थलेऽननुभवाच्च। अत एव व्युत्पत्तौ भेदेनेति पठयते। तथाच तत्क्षे लक्ष्यार्थराजसम्बन्धिनः पुरुषादावन्वयो नानुपपन्नोऽत आह-*किञ्चेति*। *विवरणविरोधादिति*।
अत्र वदन्ति-विग्रहस्य विव्रियमाणसमानाऽडर्थकत्वम्, नाविव्रियमाणजन्यबोधे यद्यद्विशेष्यकत्वे सति यद्यत्प्रकारकबोधजनकत्वं तत्तद्विशेष्यकतत्तत्प्रकारकबोधजनकत्वम्, इत्यादिकृत्तिद्धित्तान्तविग्रहत्वानापत्तेश्च, तत्र विग्रहविगृह्यमाणजबोधविषयपदार्थानां विशेष्यविशेषणभाववैपरीत्यात्। नापि तज्जन्यबोधीययावद्विषयकबोधजनकत्वम्, पुरुषस्य राजेत्यस्यापि राजपुरुषादिविग्रहत्वापत्तेः। किन्तु विव्रियमाणजबोधजनकत्वं तद् वाच्यम्। प्राप्तमुदकं यमित्यादेः प्राप्तोदकादिसमासजबोधविषयाः परस्परसम्बन्धतात्पर्य्यविषयीभूताश्च यावन्तः पदार्था उदकादयस्तावद्विशयकबोधजनकत्वम्। घटकी कर्मतेत्येतावन्मात्रस्य घटकर्मकानायनकृतिरिति विग्रहत्वावारणाय यावदिति। राज्ञः सुन्दर इत्याधिकाऽवगाहिनो राजपुरुष इति विग्रहत्वमिष्टमेव।
वस्तुतस्तु शक्तिग्रहणार्थं प्रयुज्यमाने तस्मिन्नतात्पर्य्यविषयार्थकपदप्रयोगदौर्लभ्यमेव। पूरुषस्य राजेत्यादेस्यु विग्रहत्ववारणाय तात्पर्य्यविषयत्वं विशेषणम्। तत्र पुरुषः प्रतियोगी न, घटः कर्मत्वमित्यादिसमुदायस्य घटकर्मकानयेत्यादिविग्रहत्वम्। कुम्भं करोतीत्यादीनां तु कर्त्तृलाक्षणिकानामेव न्यायनये कुम्भकारादिविग्रहत्वम्। प्रकृते च राजपूरुष इत्यादित्वस्य राज्ञः पुरुष इति वाक्ये अक्षतत्वान्न तस्य विग्रहत्वानुपपत्तिरिति।
*अन्यथेति* समानाऽर्थकत्वाभावे इत्यर्थः। *तस्मात्* विग्रहवाक्यात्। *न स्यादिति* तत्समानाऽर्थकवाक्यस्यैव तच्छक्तिनिर्णायकत्वादिति भावः। सम्बन्दलक्षणाकल्पं दूषयति-*नान्त्य इति* नीलोत्पलादिसमास संग्रहाय समानविभक्तिकेत्यपहायोक्तम्-*विरुद्धविभक्तिरहितेति* विरुद्धविभक्तिकधातुप्रातिपदिकार्थयोः `स्तोकं पचति' इत्यादावभेदाऽन्वयदर्शनादाह-*प्रतिपदिकार्थयोरिति* तथाचाभेदसंसर्गावच्छिन्नप्रातिपदिकार्तनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति विरुद्धविभक्तिरहितपदजन्योपस्थितेर्हेतुतया तस्या राजपुरुष इत्यादिसमासोत्तरपदार्थे पुरुषादौ सत्त्वादभेदाऽन्वयो दुर्वार इति भावः।
ननु विलुद्धविभक्तिराहित्यं व्याससमाससाधारणम्, न विशेष्यवाचकपदस्य विशेषणवाचकपदाऽप्रकृतिकविभक्त्य प्रकृतित्वम्, नलिघटमानयेत्यादावभावात्। नापि विशेषणवाचकपदस्य विशेष्यवाचकपदाप्रकृतिकवविभक्त्यप्रकृतित्वम्, विशेष्यपदाप्रकृतिकत्वस्य नदनुत्तरत्वस्य तदुत्तरत्वेनाऽप्रतिसन्धीयमानत्वस्य वा नीलो घट इत्यादौ नीलपदोत्तरविभक्तौ घटादिपदोत्तरविभक्तिभिन्नायां सत्त्वेन तत्राभेदान्वयानुपपत्तेरिति चेत्,
अत्र केचित्-विशेषणपदे विशेष्यवाचकपदप्रकृतिकविभक्तसजादीयभिन्नविभक्त्यप्रकृतिकत्वमेव विरुद्धविभक्तिराहित्यम्। साजात्यञ्च प्रथमात्वादिना सुत्वादिना वा, नीलो घट इत्यादौ विशेषणविभक्तेर्विशेष्यविभक्तिभिन्नत्वेऽपि तत्सजातीयभिन्नत्वा भावेनोक्तविरुद्धविभक्तिराहित्यस्य तत्राक्षतत्वादिति।
वस्तुतस्तु विशेषणविभक्तेः साधुत्वामात्रर्तकत्वमिति मते विशेषयवाचकपदोत्तरविभक्तिविरुद्धत्वं स्वार्थभिन्नार्थकत्वम्। नीलो घट इत्यादौ विशेषणविभक्तेर्निरर्थकतया तत्र विशेष्यविभक्तिविरुद्धार्थकविभक्तिर्द्वितीयादिरूपैव, तदप्रकृतित्वस्य, विशेषणवाचकपदे सत्त्वान्न तदसंग्रहः। एवं नीलघटमानयेत्यादिसम्स्तस्थले विशेषणविभक्तेरेवाभावेन तादृशविभक्त्यप्रकृतित्वं विशेषणवाचकपदस्याव्याहतम्। अत एव चैत्रस्य सुतस्य धनमित्यादौ नाभेदान्वयाऽऽकाङ्क्षा। तत्र विशेषणविशेष्यविभक्त्योर्विभिन्नसम्बन्धार्थकत्वात्। नापि स्तोकमत्तीत्याद्यङग्रहः। पूर्वकल्पे तु विशेषणवाचकविभक्तेस्तिङ्विजातीयत्वेनोक्ताकाङ्क्षायास्तत्रासत्त्वेन तदसङग्रहः स्पष्ट इव।
सारे, प्रातिपदिकार्थयोरिति प्रकृताभिप्रायेणैव। तथाचोक्तविरुद्धविभक्त्यप्रकृतिप्रातिपदिकार्थनिष्ठाभेदसंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्देन शाब्देबोधे धातुप्रातिपदिकान्यतरजन्योपस्थितिः कारणमित्यरथः फलित इति।
ननु पूर्वनुरुक्तविरुद्धविभक्तिराहित्यस्याभेदान्वयबोधाकाङ्क्षत्वे चैत्रस्य सुतस्य धनमित्यादौ तदापत्तिरत आह-*प्रपञ्चितमिति* विभक्त्यर्थमन्तर्भाव्य नामार्थान्वय एवोक्तव्युत्पत्तिरिति तत्रोक्तम्। तस्यापि सार्थकविभक्त्यप्रकृतित्वमपि विशेषणवाचकपदे निवेशनीयमत्र तात्पर्य्यम्। मीमांसकैरपि विशिष्टशक्तिपक्षाऽभ्युपेय इत्याह-*अत एवनेति* समासे एकार्थिभावस्य सर्वसम्मतत्वादेत्यर्थः। *भक्षमुद्दिश्येति* "ऋत्विजो हविःशेषान् भक्षयन्ति" इति बिहतभक्षणभनूद्येत्यर्थः।
*एकाप्रसरताभङ्गापत्तेरित* उद्देश्यविधेयभावेनान्वये पृथगुपत्थितेर्निंयामकत्वेन तदनुरोधेन तदभ्युपगमे विशिष्टऽर्थोपस्थितिजनकत्वरूपैकप्रसरताभङ्गापत्तेरित्यर्थः। तैर्विंशिष्टशक्त्यनभ्युपगमेऽपि विशिष्टलक्षणाया अभ्युगमेनैकप्रसरतायास्तन्मतसिद्धत्वात्। नचोद्देश्यतयाऽन्वये यच्छब्दयोगप्राथम्यादीनाम्, विधेयतयावये च तच्छब्दयोगादीनां तन्त्रतया तत्र तदभावात् कथं तदापादानमिति वाच्यम्, सति तात्पर्य्ये प3थमो भक्षः, पण्डितो ब्राह्मण इत्यादावुद्देश्यविधेयभावेन बुद्धेरानुभविकतया यच्छब्दयोगादीनां प्रायिकत्वात्। तादृशशाब्दबोधे असमस्तपदजन्योपस्थितेर्हेतुता तु न, दामोदरः पूज्यः, राजपुरुषः सुनादर इत्यादितस्तथाबोधानुपपत्तेः, तत्र च प्राथम्यविशिष्टं भक्षणान्तरमेव विधीयते शब्दवृत्त्या, ततश्च प्राप्ताप्राप्तविवेकेन प्राथम्यविधिः पर्यवस्यतीसि सिद्धान्तादिति भावः।
*त्र्यङ्गैरिति*। तत्र हीत्याशेषभूतत्रित्त्वविशिष्टयत्किञ्चिदङ्गविधानम्, किं वा त्रित्वविशिष्टशेषाङ्गविधानमिति संशये प्रकृताविज्यासेषेण पुरोडाशेन स्विष्टकृतो हुतत्वादत्रापि शेषभूतत्रित्वविशिष्टङ्गैरेव रिवष्टकृद्हवनं युक्तमिति पूर्वपक्षे, शेषभूतानि कानिचदङ्गान्यनुद्य त्रित्वविधाने एकप्रसरताभङ्गपत्तिस्तस्मात् कल्पसूत्रोक्तत्रित्वविशिष्टाङ्गान्तरविधानमिति निर्णितं दशमाध्यायस्य तृतीये पादे इत्यर्थः। कल्पसूत्रोक्तानि हृदयाद्येकादसाङ्गानि तु-हृदयम् 1, जिह्वा 2, वक्षः 3, यकृत् 4, वुक्णौ 5, सव्यं दोः 6 7, उभे पार्श्वे 8।9 दक्षिणा श्रोणिः 10, गुदम् 11, इति। तत्र त्रीणि-दक्षिणोंऽसः, सव्या श्रोणिः, गुदं तृतीयमिति।
नन्वेकप्रसरत्वम्-न विशिष्टार्थोपस्थितिजनकत्वम्, कुन्तु समासघटकपदयोरुद्देश्यविधेयभावेनान्वयाबोधकत्वमिति व्युत्पत्तिस्तद्भङ्गापत्तेरिति तदर्थः, नतु विशिष्टार्थोपस्थितिजनकत्वाभङ्गापत्तिरिति। तादृशव्युत्पत्तिशरीरं तु समासघटकपढार्थविष्ठविधेयतानिरूपितोद्देश्यतासम्बन्धेन शाब्दबुद्धिं प्रति समासघटकपदजन्योपस्थितिः प्रतिबन्धिकेति।
नच तादृशप्रतिबध्यप्रतिबन्धकभावकल्पने गौरवमिति वाच्यम, सर्वत्र विशिष्टशक्तिकल्पनापेक्षया क्वचित् प्रतिबध्यप्रतिबन्दकभावकल्पने एव लाघवात्।
वस्तुतस्तु यत्रोद्देश्यविधेयभावेनान्वयबोधस्तत्पदार्थोपस्थितिसमवहिततत्तदानुपूर्वोविरहादेव तथान्वयासम्भवान्नोक्तप्रतिबध्यप्रतिबन्धककल्पनाऽपि। एकप्रसरता तु प्रथमपदार्थन्वितभक्षविशेष्यकबोधाऽनुभव एवेति नोक्तयुक्त्या मीमांसकैर्विशिष्टशक्तिरभ्युपेयेत्यत आह-*सङ्गच्छते चेति*। *वाक्याद् भेदेति* नच तस्य वाक्यपदेन प्रकरणे निवेशोऽपि सम्भवति। आमूर्त्तत्वेन क्रियभिः कारकत्वेन द्रव्यैः सममपि सम्बन्धासम्भवात्। नच तृतीयया ज्योतिष्टोमकरणीभूतप्राकरणिकद्रव्याण्यनूद्य यत् कर्त्तव्यं तदारूण्यगुणकेनेति परिच्छेदकत्वेन तदन्वयो नासम्भावित इति वाच्यम्, तथा सति `शक्तिः `कारकम्' इति सिद्धान्तभङ्गपत्तेरित्यपि बोध्यम्। तदेवाह-प्रपाञ्चितमिति। उपसंहरति-*तस्मादिति*। जैमिनियैरिति वदता नैयायिकमतस्य सयुक्तिकत्वं ध्वन्यते (1-35)
(1-36) *समानार्थत्वानुरोधादिति* समानार्थत्वत्र्च व्यास-समासयोः समानविशेष्यप्रकारकबोधजनकत्वं तदनुरोधादित्यर्थः। उक्तविग्रहवाक्यान्तर्गतराजशब्दस्य सम्बन्धिनि लाक्षणिकत्वान्न विग्रहत्वक्षतिः सम्बन्धार्थकषष्ठयन्तस्य तु सम्बन्धप्रकारकबोधजनकत्वान्न विग्रहत्वमेव चित्रा गावो यस्येत्यादेरपीत्याशयं प्रकाशयति-यद्यपीत्यादि मीमांसका इत्यन्तेन। *सूत्राल्लभ्यते इति* तेन हि "शेषो बहुव्रीहिः (पाo सूo 2-2-23) इत्यधिकारात् प्रथमात्रिकस्य द्वितीयाश्रितेत्यादिनाऽनुक्तस्य समासो विधीयते। यद्यपि "विशेषणं विशेष्येण (पाo सूo 2-1-57) इत्यादिना तस्यापि समास उक्त एव तथापि नासौ प्रथमाशब्देनोल्लिखित इति तत्त्रिकस्य शेषत्वमविकलमिति भावः।
*उक्तस्यैवेति*। चित्राणां गवामयमित्यादेरेवेत्यर्थः। एवकारेण प्रथमान्तचित्रादिपदघटितस्य व्यवच्छेदः। उपदर्शकपदस्य विवरणम्-*अर्थबोधकमिति*। *आख्यातम्=तिङन्तम्। तत्र तिङन्तघटिते विवरणे इत्यर्थः। व्यत्यासमेवाह-*तथाहित्यादि*।
ननु तत्रापि तिपः कर्त्तृलक्षकतयाऽक्षकरणव्यापाराश्रय इति बोधन्न समानार्थकत्वभङ्गोऽत आह-*कृत्प्रत्यये इति*। कारकाणाम्=कर्त्रादीनाम्। *प्राधान्यम्* मुख्यविशेष्यत्वम्। कारकाणां प्राधान्यम्, "प्रकृतिप्रत्ययार्थयोः" इति न्यायेन, भावनायास्तु "भावप्रधानमाख्यातम्" इति निरूक्तादिति भावः (1-36)
(1-37) *शक्तिमत्त्वाविशेषादिति* शक्तिमत्त्वमेकार्थोभावः। *सिद्धान्तसिद्धिरिति* सिद्धान्तस्य=मीमांसितार्थस्य सिद्धिः=अनुष्ठानोपयोगार्हत्वमित्यर्थः। तथाहि-"निषादस्थपतिं याजयेत्" इति श्रुयते। तत्र निषादस्थपतिशब्दः किं षष्ठीतत्पुरुष, बहुव्रीहिर्वा, उत कर्मधारय इति संशये, कर्मधारयेऽपूर्वविद्याध्ययनकल्पनागौरवाद् बहुव्रीहौ वाक्यलक्षणायां गौरवाल्लाघवात् षष्ठीतत्पूरुष एवेति पूर्वपक्षे, तत्पुरुषस्यापि पूर्वपदलाक्षणिकतया कर्मधारयाऽपेक्षया गौरवाल्लाघवात् कर्मधारय एव। अपूर्वविद्याध्ययनस्योत्तरकालकल्प्यत्वेन तादृशगौरवस्य फलमुखतया अदोषत्वादिति सिद्धान्तितम्, तद् विरुध्द्येत, भवन्मते तत्पुरुषस्वीकारेऽपि गौरवानवकाशादिति भावः।
*तदानीन्तनेति* तादृशवाक्यजन्यशाब्दबोधाव्यवहितप्राक्क्षणवृत्तिशक्तिग्रहनिष्ठान्तरङ्गवहिरङ्गभावचिन्तनप्रयुक्तलाघवमादायेत्यर्थः। निषादसम्बन्दिस्थपतावित्यर्थः। तत्र षष्ठयर्थसम्बन्धान्तर्भावेणैकार्थीभावाब्युपगमात्। *निषादस्वामिक इति* स्थपतिशब्दस्य स्वाम्यर्थकतया निषादाभिन्नस्वामिके पुंसीत्यर्थः। तत्रान्यपदार्तन्तर्भावेण समुदायशक्तिस्वीकारात् `नानार्थ' इत्यस्य वृत्त्यानेकार्थोपस्थितौ जातायामिति शेषः। `न्यायेन' इत्यस्य क्व तात्पर्य्यमिति मन्देहे सति। तत्कल्पनायाम्=तात्पर्य्यकल्पनायाम्। *पूर्वोपस्थितार्थ एवेति*। समासघटकप्रत्येकपदशक्त्युपस्तापितार्थमात्रविषयककर्मदारयीयसक्तिग्रहस्यान्तरङ्गत्वेन प्रथमोपस्थितार्थ एवोपस्थितिर्लाघवान्निषादस्थपतिशब्दस्य तात्पर्य्यमवसीयते तेन विशेषावगतिः। नतु बहुर्भूतपदार्थविषयकशक्तिग्रहोपस्थापिते, तदुपस्तिर्लाम्बितत्वादित्याखण्डलार्थः।
निरुक्तव्यपेक्षेव सामर्थ्यं मुलकृदभिप्रेतमित्यर्थे इदमपि प्रमाणम्। अन्यथा जहत्स्वार्थवृत्तिपक्षे पदानामानर्थक्यात् प्रत्येकपदवृत्त्याऽर्थोपस्थितेरसम्भवेन क्व तन्मूलकशक्तिग्रह इति तस्यान्तरङ्गत्वकथनमसङ्गतमेव स्यादिति बोध्यम्। *तत्* तात्पर्यम्। *कल्प्यते*-अवधार्य्यते।
ननु "संयोगो विप्रयोगश्च" इत्यादिना हरिणा संयोगादीनां विशेषावगतिहेतुत्वं बोध्यते, तत् कथं तात्पर्य्यस्य विशेषणवगतिहेतुत्वमिति चेन्न, नानासक्त्युपस्थितानेकेषु संयोगादिनैकस्तिमन्नवधारिते तात्पर्य्य विशेषावगतिरिति सब्दार्थस्यानवच्छेद इति भावार्थस्य वक्ष्यमाणत्वात्। संयोगादीनां तात्पर्य्यग्राहकतायामेवोपयोगेन तात्पर्य्यस्य विसेषवगतिहेतुत्वं सर्वसम्मतमेवेति भावः।
ननु प्रत्येकपदवृत्तिपक्षेऽनायासेनैवाधिकरणसिद्धान्तापपत्तौ विशिष्टशक्तिपक्षे तादृशसिद्वान्तसमर्थने क्लेशो दुष्परिहर एवेत्यत आह-*परेषामपीति*। *प्रवेशयेतिवदिति* तात्पर्य्यस्यैव लक्षणानियामकतया तत्सत्त्वे वाक्यलक्षणया समासान्तरबोधस्य दुर्वारतया तात्पर्य्याभावेनैव तदवगतेर्वारणीयत्वादित्यर्थः।
ननु "निषादस्थपतिं याजयेत्" इत्यत्र स्थपतिशब्दः स्वामिपर्य्यायः, श्रेष्ठपर्यायो वा। उभयथाऽप्यसौ गुणवचनः। तस्य च जातिवचननिषादपदेन कर्मधारये तत्र गुणवचनस्यैव पूर्वनिपातनियमेन स्थपतिनिषादमिति प्रसज्जयेत, नतु निषादस्थपतिमिति स्यात्। किञ्च उभयथापि स्थपतिशब्दार्थस्य नित्यसम्बन्धिसापेक्षत्वेन षष्ठीसमास एव नयाय्यः, नतु कर्मधारय इति कथमुक्तसिद्धान्तसङ्गतिः प्रकृतेऽपीत्यत आह-*दिगिति* तदरथस्त्वत एवास्वरसात् "लिङ्गदर्शनाच्च" इति सूत्रं हेत्वन्तरोपसङ्ग्राहकं प्रणीतं महर्षिणा। तच्च शबरस्वामिना, `कूटं हि निषादानामेवोपकारकम्, नार्याणाम् एवञ्च तन्निषादानामेव स्वम्" इति भाष्ये व्याख्यातम्। तथाच कूटदक्षिणालिङ्गत् कर्मधारयत्वे निर्णिते स्थपतिशब्दस्य राजदन्तादित्वात् परनिपातो बोध्यः, सम्बन्धाकाङ्क्षानिवृत्तिरप्यर्थतो निषादानां स्वत्बलाभादुपपद्यते। एवं लाघवादिविचारस्तु कथञ्चित् सम्भवमात्रेणेति सर्वमनवद्यम् (1-36)
इति वैयाकरणभूषणसारदर्पणे समासशक्तिनिरूपणम्।
*****
(1-37) *प्रसङ्गादिति* "समासे खलु भिन्नैव शक्तिः" इति ग्रन्तेन स्मृतायः शक्तोरनुपेक्षणीयत्वादिति भावः। अगृहीतवृत्तिकात् पदात् पदार्थोपस्थितेः शाब्दबोधस्य चादर्शनात्तद्धर्मावच्छिन्नविषयकशाब्दबुद्धिं प्रति तद्धर्मावच्छिन्नार्थनिरूपितवृत्तिविषयकपदज्ञानं करणम्, वृत्त्या पदजन्यपदार्थोतिर्व्यापारः, तां विना तदनुत्पत्तेः नतु वृत्तिमत्त्वेन ज्ञानं पदम्, अतीतानागतशब्दानुसन्धानाच्छाब्दबोधानुदयप्रसङ्गात्।
वृत्तिश्च-शक्तिलक्षणाभेदाद् द्विविधा। तत्रार्थे पदसङ्केतः शक्तिः। स चेदंपदमिममर्थ बाधयतु इति पदविशष्यकेश्वरेच्छात्मकः। `अस्मात् पदादयमर्थो बोध्यः' इत्याकारपदार्थविशेष्यकेश्वरेच्छारूपो वा, विनिगमकाभावात्। तया चार्थबाधकं पदं पाचकमिति व्यवह्रियते। शास्त्रकारादिसङ्केतः परिभाषा। तया चार्थबोधकं पदं पारिभाषिकमिति व्यवह्रियते, यथा-नदीवृद्धयादिपदम्। लभणा तु शक्यसम्बन्धः। तत्कल्पिका च मुख्यार्थबाधोन्नीततात्पर्यानुपपत्तिः।
तथाहि-`गङागायां घोषः' इत्यत्र गङ्गापदस्य घोषाभाववत्वाहार्थक्तवेन तीरतात्पर्य्यकत्वे उन्निते तात्पर्यविषयतीरस्मृतिं विनाऽनुपपद्यमानेन तीरशाब्दबोधेन तत्स्मृतिराक्षिप्यते। सा च गङ्गापदवृत्तिं विनानुपपद्यमाना तज्ज्ञानमाक्षिपति। तद्विषयो गङ्गापदनिरूपिता वृत्तिर्न शक्तिः, तस्यात्राभावादतस्तीरस्मारिका काचिदन्यैव वृत्तिः कल्प्यते। सा च गङ्गापदशक्यसामीप्यरूपैव तेन रूपेण गृह्यमाणा तीरं स्मारयत्यनुभावयचति च। शक्यादशक्योपस्तितिस्तु न लक्षणा, उपस्थितिहेतोस्तस्यास्तत्त्वासम्भवात्। नापि स्वबोध्यसम्बन्धः, समासशक्तिनिरूपणोक्तयुक्तेः।
नन्वीश्वरेच्छायाः शक्तित्वासम्भवः, घटपदस्यापि पटे शक्तत्वप्रसङ्गात् `घटपदात् पटो बोद्धव्यः' इतीच्छाया विषयतया पटेऽपि सत्त्वात्। यदि चेश्वरेच्छीयघटपदजन्योबोधविषयत्वप्रकारतानिरूपितविशेष्यत्वं शक्तिरिति न पटपदेऽतिप्रसङ्गः, तद्विषयत्वेऽपि तादृशवि,यटत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वस्य तत्रानभ्युपगमादित्युच्यते, तदापि गङ्गापदात् तीरबोधस्यापि जायमानत्वेन सन्मात्रविषयकेश्वेरेच्छीयगङ्गापदजन्यबोधविषयत्वप्रकारतानिरूपितविशेष्यत्वस्य तीरे सत्त्वाच्छक्त्यैव निर्वाहे कृतं लक्षणयेति चेन्न, गङ्गपदवाच्यत्वव्यवहारस्य तीरादावसत्त्वेन गङ्गापदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वसम्बन्धेन ईश्वरेच्छीयगङ्गादिपदानां प्रवाहादौ शक्तिः, तीरादिनिष्ठविशेष्ठविशेष्यतायाश्च गङ्गादिपदजन्यबोधविषयत्वप्रकारतानिरूप्यत्वेऽपि न तस्याः तादृशविषयतात्वेन तादऋसप्रकारतानिरूपितत्वम्, आपि तु शुद्धविषयतात्वेनैवेत्यभ्युपगमान्न तया लक्षणाऽन्यथासिद्धिः, नापि विषयत्वलक्षणसम्बन्धस्य पदे जन्यजनकभावे च सत्त्वेऽपि तत्रातिप्रसङ्गः।
तत्र लक्ष्योपस्थितिनियामकः सादृस्यात्मकः सम्बन्धो गौणी, तदतिरिक्तस्तु शुद्धलक्षणेति व्यवह्रियते। शुद्धाप्युपादानलक्षणभेदेन द्विविधा। तत्र मुख्यसंसृष्टा यार्थोपस्थापकत्वमुपादानत्वम्। शक्याविषयकलक्ष्यार्थोपस्थितिजनकत्वं लक्षणत्वम्। `यष्टीः प्रवेश्य,'गङ्गायां घोषः' इत्यचादिके यथायथमुदाहरणे। तत्राप्याद्याऽजहत्स्वार्था, अन्त्या च जहत्स्वार्थेत्युच्यते। तद्भेदान्तराणि त्वन्यतोऽबधार्य्याणीति नैयायिका आहुः।
मीमामकास्तु उक्तयुक्त्या लाक्षणीक पदस्य वाचकत्वपरिहारेऽपि नेश्वरेच्छायाः शक्तित्वम्, ईश्वरस्यैवानभ्युपगमात्। नन्विच्छाया ईश्वरीयत्व नुपादेयमेवञ्चाऽऽधुनिकसङ्केतज्ञानादपि शाब्दवोधोदयेन तादृशसङ्केतस्य वृत्तितानिर्वाहः। आधुनिकसङ्केनत्वेन तात्पर्य्यस्याऽपि वृत्तित्वप्रसङ्गस्तु न, पदार्थोपस्थितिनियामकसङ्केतस्यैव वृत्तित्वेन तस्याऽतत्त्वात्। तज्ज्ञानस्य साक्षादेव शाब्दधीजनकतया पदार्थोपस्थित्यातमकव्यापारानपेक्षणाद् वृत्त्युपस्तापितार्थ एव प्रकरणादिना तदवधारणात्।
आधुनिकसङ्केतितडित्थादिपदेषु त्वाधुनिकसङ्केतस्य प्रागवधारितस्य डित्थादिव्यटक्तिशाब्दधीजनकपदार्थोपस्थितौ नियामकत्वेन तद्वृत्तित्वस्य पदार्थानुपस्तापकत्वाद् वृत्तित्वानिर्वाहात्। तस्मात् पदपदार्थयोर्वाच्यवाचकभावनियामकः सम्बन्धः पदार्थान्तरमेव। नाप्यसौ समवेतः, अभावादावपि सत्त्वात्। किन्तु वैशिष्टडयाख्येन सम्बन्दन्तरेण वर्त्तते इत्याहुः।
वाच्यत्वं यथा न समवायि तथा वक्ष्यत इति वदता दीधितिकृतापि तन्मतमेवानुसृतम्। तदेतन्नानामतानि निराकर्त्तुमादौ तत्स्वरूपप्रदर्शनमित्याशयेन मूलमवतारयति-*तस्याः स्वरूपमिति* तस्या-शक्तेः। निर्विषयाणां तेषां कथं घटादिर्विषयोऽत आह-*चाक्षुषेति* तथाचौपचारिकविषयत्वं न विरुद्धमिति भावः। चाक्षुषपदं त्वाचादिप्रत्यक्षस्याप्युपलक्षणाम्। इन्द्रियनिष्टचाक्षुषादिकारणतायामनादित्वम्-इन्द्रियजन्यपूर्वपूर्वबोदध्वंसकालिकत्वम्। चक्षुष्ट्वादिव्यापकत्वं पुरुषप्रत्यत्नानपेक्षत्वं वा, न त्वजन्यत्वम्, अव्यवर्त्तकत्वात्। शब्दनिष्ठबोधकारमतायां तु स्वाजन्यबोधसमानाकारपूर्वबोधध्वंसवत्त्वम्। *तद्बोधकारणता*=अर्थबोधकत्वम्।
ज्ञायमानं पदं करणमभिप्रेत्येदम्। अन्यथा विषयतायां तादृशहेतुताऽवच्छेदकतेत्यर्थो बोध्यः। सङ्केज्ञानं विनोक्तशक्तिग्रहासम्भवेनावश्यापेक्षणीयतया तस्यैव शक्तित्वमस्तु, "तद्धेरोरेव" इति न्यायादित्याशङ्केते-*नन्विति* तस्या शक्तित्वे हेतुराधुनिकेत्यादि। आधुनिके=एतत्कालिकसङ्केतविशिष्टे। *तदभावात्*=निरुक्तानादित्वविशेषणविशिष्टबोधकारणत्वाभावादित्यर्थः। विशेष्यसत्त्वेऽपि प्रकृते विशेषणाभावप्रयुक्तविशिष्टाभावसत्त्वेन तदप्रतियोगित्वरूपकारणात्वं न सम्भवतीत्यर्थः।
नन्वनादिभूतेतिप्रसिद्धिप्रदर्शनमात्रार्थकम्, नतु तच्छक्तिशरीरे प्रविष्टं येन तद्रूपेण तस्य हेतुता सम्भाव्येत। किन्तु बोधकारणत्वत्वेनैव प्रकृते तेन रूपेण तज्ज्ञाने बादकाभाव इति चेत्स्यादेवं यदि सङ्केतग्रहमन्तरेणैव तद्रहो भवेन्न तत् सम्भवतीत्याह-*अन्यथेति* सङ्केतनिरपेक्षस्यैव तस्य शाब्दबोधहेतुत्वे इत्यर्थः। *लाक्षणिकेति* तत्राप्यनादिभूतस्यापि बोधजनकत्वस्थ सत्त्वादिति भावः। *आपश्यकत्वादिति* अवश्याऽपेक्षणीयज्ञानविषयत्वादित्यर्थः। *स एव*=सङ्केत एव। एवकारेण बोधकत्वव्यपच्छेदः, सङ्केतस्य स्वरूपतः कारणत्वं ज्ञातस्य वा, तस्यापि सामान्यतो विशेषरूपेण वा हेतुत्वमभिमतमिति विकल्पं दूषयति-*उच्यत इति*। *स्वरूपेणेति* स्वस्य यद्रूपमिति व्युत्पत्त्या स्वासाधारणधर्मेण सङ्केतत्वेनेत्यर्थः। दण्डत्वेन घटे दण्ड इव ज्ञानाविष्य एव संकेतः सङ्केतत्वेन हेतुरिति यावत्। *अगृहीतशक्तिकादिति* अज्ञातसङ्केतादित्यर्थः। *अर्थबोधप्रसङ्गादिति* सङ्केतस्य तत्र विद्यमानत्वादिति भावः।
*सामान्यत इति* जनकाजनकसाधारणरूपेणेत्यर्थः। *सङ्केतत्वेनेति* ईश्वरीयसङ्केतत्वादिना विसेषधर्मेणेत्यर्थः। *तज्ज्ञानशीन्यानामिति* सङ्केते ईश्वरीयत्वमविदुषामित्यर्थः। *लौकिकमीमासकानामिति* वैदिकानां तेषां कथञ्चिदीश्वरबोधसम्भवादुक्तम्-*लौकिकेति*। अथवा लौकिकानां व्यावहारिकपदार्थमात्रविषयकज्ञानवतां पामराणामिति यावत्, मीमांसकानां चेत्यर्थः। *बोधोदयेनेति* सङ्केतत्वेन तज्ज्ञानमात्राद् गबाद्यर्थबोधोदयेनेत्यर्थः।
यद्यपि सङ्केतत्वेन सङ्केतज्ञानकारणतावादिमते नेश्वरीयत्वादेर्निवेशस्तथापि गवादाविश्वरस्येति तद्ग्रन्थालोचनायेश्वरीयत्वादेर्निवेशस्तदभिमत इत्यभिप्रेत्य दूषितमिति ध्येम्। तत्दर्थधीजनकत्वग्रहवतामेवेत्येवकारेण निरुक्तसङ्केतज्ञानवत्त्वव्यवच्छेदः। स च तज्ज्ञानशून्यानामित्यस्यैवानुवादः। एवशून्यपाठस्तु सुगमः। इदञ्च शक्तिग्रहरूपकारणप्रदर्शकम्। *तज्ज्ञानम्*=सङ्केतज्ञानम् *तथा*=हेतुः। सङ्केतितपदयैवार्थधीजनकत्वेन पदनिष्ठजनकतायां सङ्केतस्यावच्छेदकत्वादिति भावः।
*ततोऽपीति* अर्थधीजनकतानिरूपितविषयतासम्बन्धाऽवच्छिन्नऽवच्छेदकल्वस्याऽवच्छेदकत्वाऽपेक्षयार्थधिजनकतात्वेन हेतुताया औचित्येन वैयाकरणेष्टसिद्धिरित्यर्थः, सङ्केतज्ञानस्येदं पदमर्थधीजनकताऽवच्छेदकदित्याकांरकस्याऽर्थधीजनकताऽवच्छेदकत्वाऽवच्छिन्नप्रकारताकज्ञानत्वेन हेतुत्वे गौरवादिदं पदमर्थधीजनकमिति ज्ञानस्यैवार्थधीजनकतात्वावच्छिन्नप्रकारताकज्ञानत्वेन हेतुत्वमुचितम्, लाघवादिति भावः।
वस्तुतस्तु तन्मते सङ्केतत्वेनैव हेतुतेति नोक्तविकल्पावसर इति बोध्यम्। सङ्केतज्ञानादेवेत्येवेनाऽर्थधीजनकत्वग्रहव्युदासः। अस्य=बोधकत्वग्रहस्य, व्यभिचारो व्यतिरेके। *तत्रापि*=सङ्केतमात्रादर्थबोधस्थलेऽपीत्यर्थः। *इच्छाग्रह इति* इदम्पदविशेष्यकैतदर्थबोधकत्वप्रकारकेच्छाग्रहे इत्यर्थः। *अवगाहनेनेति* विषयीकरणेनेत्यर्थः। ज्ञानेच्छादिविषयकज्ञानस्य तद्विषयकत्वनियमादिति भावः। *स्वातन्त्र्येति* इतराविसेषमत्वेनेत्यर्थः। प्रकृते चेच्छांशे विषयितया विशेषणीभूतबोधकस्वस्यैव तज्ज्ञानेन विषयीकरणादिति भावः।
*अन्यथेति* पारतन्त्र्येणापि बोदकताज्ञानस्य साब्दधीहेतुत्व इत्यर्थः। इष्टापत्तिनिरासायाह-*नेदं तद्धीजनकमितीति*। *अस्माच्छब्दादिति* एतच्छब्दजन्यैतदाशयकबोधविषयोऽयमर्थ इत्याकारकवर्त्तमानग्रहवत इत्यर्थः। पदविशेष्यकार्थधीजनकत्वबोधग्रहे विद्यमाने तदंशेऽर्थधीजनक्तवावगाहिनः `इदं पदमेतदर्थधीजनकत्वेन बुद्धमनेन' इति ग्रहस्यासम्भवात्तदपहायास्मादित्याकारकबोधग्रह उक्तः। एतस्मिंस्तु न तस्य प्रतिबन्धकता, ग्राह्यभावानवगाहित्वादिति भावः।
*तद्ग्रहापत्तेरिति* घटादिशाब्दबोधापत्तेरित्यर्थः। उक्तज्ञानस्य विषयविषयकत्वेऽपि न तेन पदांशेऽर्थबोदकत्वं विषयीक्रियते येन तस्य शक्तिग्रहत्वं स्यात्। किन्तु तत्पदजन्यत्वस्यार्थशे तादृशबोदविषयत्वभेव तथा, तेन तुल्घवित्तिवेद्यतया पदांशेऽर्थबोधकत्वमप्यवगाह्यत इति तु दुर्वचम्, तुल्यवित्तिवेद्यत्वे मानाभावात्, तत्प्रतिबन्धकस्य ग्राह्याभावावगाहिनो नेदं तद्धीजनकमिति ज्ञानस्य जागरूकत्वाच्च।
नच पदननिष्ठार्थधीजनकत्ववदर्थनिष्ठपदजन्यबोधविषयत्वमपि शक्तिर्विनिगमनाविरहात्, उभयविधज्ञानाच्छाब्दबोधस्य सर्वानुभसिद्धत्वाच्च, कार्य्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेसाच्च न परस्परजन्यशाब्दबोधे व्यभिचारः। एवञ्च द्वितीयशक्तिग्रहरूपात् तस्माच्चाब्दबोधापत्तिः सुकरेति वाच्यम्, तथा सति नेदमर्थधीजनकमिति ग
्राह्याभावानवगाहिनोऽप्रतिबन्धकग्रहस्योपन्यासवैयर्थ्यात्। ग्राह्याभावानवगाहित्वेप्युभयविधशक्तिं प्रत्यन्वयव्यतिरेकाभ्यां प्रतिबन्धकत्वोपगमेन तदुपन्यासस्य सार्थक्यसम्पादने तुक्तज्ञानस्यासम्भव एवेत्याशयेन दूषयति-*नेदं तद्धीजनकमिति*-अर्थविशेष्यकपदजन्यबोदविषयत्वग्रहसम्भवादित्यर्थः। *अन्यथेति* बाधग्रहेऽपि जायमानस्य रजतं बुद्धमनेनेति ग्रहस्य, इदं विशेष्यकरजतप्रकारकग्रहत्वे। `भ्रन्तिज्ञास्य' इत्यनेन दोषाभाववत्त्वमपि सूच्यते *भ्रान्तत्वापत्तेरिति* तदभाववति तदवगाहिज्ञानवत एव तत्त्वादिति भावः।
अत्रेदञ्चिन्त्यम्-यत्रेदं पदमेतदर्थ बोधयत्विति सङ्केतज्ञानमात्राच्छाब्दबोधस्तत्र बोधकताश्कतिज्ञानस्य हेतुतावादिमते व्यभिचारो दुरुद्धर एव। नच तत्र सङ्केतज्ञानमेव बोधकताज्ञामित्युक्तमेवेति वाच्यम्, सविषयकज्ञानस्य तद्विषयविषयकत्वेऽपि तद्विशेष्याऽशे तत्प्रकारो न तेन विषयीक्रियते। `घटमहं जानामि' इत्यनुव्यवसायेन ज्ञानांशे घटत्वप्रकारकत्वघटविशेष्यकत्वयोरेव विषयीकरणात्। अन्यथा भ्रान्तिज्ञस्य भ्रन्तत्वापत्तिरनिवार्य्यैव स्यात्।
अत एव शब्दचिन्तामणौ तात्पर्य्यविषयसंसर्गज्ञानपूर्वकत्वस्य पदपक्षकानुमानेन सिद्धावपि नेतरपदार्थेऽभिमतापरपदार्थसंसर्गसिद्धिः, तादृशसंसर्गज्ञानपूर्वकत्वानुमानेन तत्पदार्थे इतपदार्थतात्पर्य्यविषयसंसर्गस्याविषयीकरणादित्यस्वरसात् पदार्थपक्षकानुमानमवतारितं पभधरमिश्रैरिति।
शक्तिग्रहकमाह-*इद़ञ्चेति* शक्तित्वेनाभ्युपेतं बोधकत्वत्र्चेत्यर्थ-. पित्रादित्यादिनाप्तपरिग्रहः। *गृह्यत इति* कार्यतावच्छेदककोटौ स्वातन्त्र्यनिवेशान्न संकेतज्ञानाजन्ये संकेतज्ञानात्मकवाधकताज्ञाने व्यभिचार इति भावः। पूर्वोक्तां लाक्षणिकोच्छेदापत्तिमिष्टत्वेन परिहरति-*नापीति*
*शक्तिग्राहकेति* शक्य शक्तिग्राहकव्यवहारादेर्लक्ष्येऽपि तुल्यत्वादित्यर्थः।
ननु शक्यलक्षयव्यवहारानुपपत्त्या लक्षयव्यावृत्तैव सा वाच्या। तथाच लक्ष्योपस्थितये लक्षणावृत्तेरावश्यकत्वेन कथमुक्तापत्तेरिष्टत्वमत आह-*किञ्चेति* शाब्दबोधानङ्गत्वादिति* घटादिपदेऽगृहीतशक्तिकस्य प्रत्यक्षाद्युपस्थितघटादेर्घटादिपदाच्छाब्दबोधानुदयादन्वयव्यभिचारेण प्रत्यक्षाद्युपस्थितेः शाब्दबोधानकत्वादित्यर्थः।
नन्वनायत्त्या तादृशगौरवं सौढव्यमत आह-*अपिचेति*। व्यभिचारो व्यतिरेक बोध्यः। तमेवोपपादयति-*शक्तिजन्योपस्थितिमिति*। अव्यवहिरोत्तरत्वेति* तच्च-स्वध्वंसाधिकरणक्षणानुत्पत्तिकत्वे सति स्वाधिकरणध्वंशादिकरणक्षणोत्पत्तिकत्वम्। अत्र स्वपदम्-शक्तिज्ञानजन्योपस्थितिपरम्। लक्षणाज्ञानजन्यपदार्थोपस्थितिप्राग्वर्त्तिशक्तिज्ञानजन्यपदार्थोपस्थिजिजन्यशाब्दबोदे व्यभिचारवारणाय विशेष्यम्। शक्यशाब्दबोधानन्तरभाविलक्षणाज्ञानजन्योपस्थिति जन्यशाब्दबोधे व्यभिचारवारणाय सत्यन्तम्। प्रकृते लक्ष
णाज्ञानजन्योपस्थितिजन्यशाब्दबोधे उक्तसम्बन्धेन शक्तिज्ञानजन्योपस्थितिवैशिष्टयाभावेन तत्कार्य्यतावच्छेदकाक्रान्तत्वान्न व्यभिचार इति भावः।
*अनन्तेति* स्वत्वस्य तत्तद्व्यक्तिविश्रान्तत्वेनाननुगतताया तद्घटिताव्यवहितोत्तरत्वसम्बन्देनोपस्थितिमत्त्वस्य कार्य्यतावच्छेदककोटौ निवेशे कार्य्यकारणभावानन्त्यमिति भावः। न्यायसाम्यादाह-*किञ्चेति* प्राग्वदेवेति* शक्तिज्ञानं विनाऽपिलक्षणाज्ञानात् पदार्थोपस्थितेः, एवं लक्षणाज्ञानं विनाऽपि शक्तिज्ञानात्पदार्थोपस्थितेस्तयोरुपस्थितिहेतुतायां परस्परं व्यभिचारः, अव्यवहितोत्तरत्वसम्बन्धेन तत्तत्कारणवैशिष्टयस्य कार्य्यताऽवच्छेदकको निवेशे च गौरवं तद्वदेवेत्यर्थः।
ननु बोधकत्वशक्तिवादिनोऽपि गङ्गापदं प्रवाहबोदकमिति शक्तिग्रहाल्लक्ष्यार्थोपस्थिति-शाब्दबोधधयोरापत्तिवारणाय कारमतावच्छेदककुक्षौ तत्तदर्थनिवेश आवश्यकः, तथाच लक्षणावादिमते क्व गौरवमित्याशङ्कय निराचष्टे-*नचेति*। *परस्परेति* गङ्गापदनिष्ठतीरबोधकत्वग्रहं विनाऽपि तीरादिपदनिष्ठतादृशशक्तिग्रहेण तीरबोधात्तयोः परस्परजन्यबोधे व्यभिचारप्रतिरोधायेत्यर्थः।
*शक्तिभ्रमानुरोधेनेति* गङ्गापदस्य तीर शक्तिभ्रमदशायां तीरोपस्तित्यादेः सर्वमतसिद्धतया तवापि तत्तत्कारणतावच्छेदककोटौ तत्तत्पदत्तदतर्थनिवेशस्यावश्यकत्वादित्यर्थः।
*तवेति* लक्षणास्वीकर्तुरित्यर्थः। शक्तिज्ञानकारणतायां शक्तेश्शक्तित्वेन निवेशे स्यादेवोक्तदोषः किन्तु वृत्तित्वेनेति न तत्सम्भावनेत्याशङ्केते-*अथेति*। *वाच्यमिति* शक्तिजन्योपस्थिताविव लक्षणाजन्योपस्थितावपि शक्तिलक्षणासाधारणवृत्तित्वावच्छिन्नजन्यत्वसत्त्वादिति भावः।
*शक्तिलक्षणेति* शक्तिभिन्नत्वे सति लक्षणाभिन्नं यत्तद्भित्वस्येत्यर्तः। *शाब्दबोधेति* शाब्दबोधजनिका या पदार्थोपस्थितिः पदवृत्तिज्ञानज्योपस्थितिस्तदनुकूलेत्यर्थः, कारणताऽवच्छेदकत्वे उभयसाधारणं दूषणमाह-*गुरुवादिति* अस्मदभिमतशक्तित्वमपेक्ष्य निरुक्तान्यतरत्वादेगुर्रूत्वादित्यर्थः। द्वितीये दूषणान्तरमाह-*शाब्दबोधहेत्विति*। शाब्दबोधानुकूलत्वस्य तज्जनकत्वस्य कारणाताऽवच्छेदकोपस्थित्यधीनत्वेन तस्य च पदवृत्तिज्ञानज्योपस्थितित्वात्मकतया तज्ज्ञानस्य स्वघटकवत्तित्वज्ञानं विना असम्भवेन कार्य्यकारणभावग्रह एव दुर्शट इत्यर्थः। तथाच वृत्तित्वग्रहे शाब्दवोधपदार्थोपस्थित्योः कार्य्यकारणभावग्रहस्तद्ग्रहे च निरुक्तपदपदार्थसम्बन्धत्वरूपवृत्तित्वग्रह इत्यन्योन्याश्रयेणोक्तस्य वृत्तित्वासम्भव इति भावः।
वस्तुतस्तु विजातीयपदार्थोपस्थितिजनकपदपदार्थयोः सम्बन्धः शक्तिः। वैजात्यस्य निवेशाच्च नाकाशोपस्थितिजनकसमवायादावत्तिव्याप्तिः। तादृशवै3जात्यपरिचायकञ्च शाब्दबोधानुकूलेति। नतु तेन लक्षणाज्ञानस्यापि शक्तिज्ञानत्वेनैव हेतुत्वेन लक्षणाज्ञानजन्यलक्ष्यार्थोपस्थित्यादौ शक्तिज्ञानस्य हेतुतायां व्यभिचार इत्यर्थः। विषयमनिवेश्यैव यदि शक्तिज्ञानपदार्थोपस्थित्योः कार्य्यकारणभावः सम्भवेत् तदा स्यादप्युक्तप्रकारः, स एव न सम्भवतीत्याह-*शक्तिज्ञानेति*। *आवश्यकत्वादिति* तदर्थविषयकोपस्थितिं प्रति तदर्थनिरूपिततत्पदनिष्ठशक्तिज्ञानत्वेन हेतुताया अवश्यकल्प्यत्वादित्यर्थः। आवस्यकत्वमेवाह-*अन्यथेति* शक्तिज्ञानपदार्थोपस्थित्योः कार्य्यकारणभावे समानविषयत्वानिवेशे इत्यर्थः। सम्बन्धाग्रहवत इत्युत्तया लक्षणाज्ञानासत्त्वं बोधितम्।
*गङ्गापदेति* प्रवाहरूपार्तनिरूपितबोधकत्वशक्तिं गङ्गापदे जानत इत्यर्थः *तीरबोधप्रसङ्ग इति* तीरोपस्थितेस्तद्द्वारकशाब्दबोधस्य चापत्तिरित्यर्थः।
ननूक्तापत्तिवारणाय वृत्तिज्ञानजन्योपस्थितिशाब्दबोधयोरेव कार्य्यकारणभावे समानविषयकत्वं निवेश्यताम्, कृतं वृत्तिज्ञान-पदार्थोपस्थित्योः कार्य्यकारणभावे तन्निवेशेनेत्यत आह-*अपिचेति* हस्तिपकस्मृतेक्वृत्तिज्ञानजन्यत्वसम्पत्तये हस्तिनोऽपि वाक्यात् स्मृतीविषयता दर्शिता। समूहालम्पनेत्यत्रालम्बनपदं विषयपरम्। *वृत्तिजन्योपस्थितिरिति* तद्विषयकत्वावच्छिन्नवृत्तिज्ञाननिष्ठकारणतानिरूपितकार्य्यतावच्छेदकधर्मवच्छिन्नोपस्थितिरित्यर्थः। उक्तस्थले हस्तिपकोपस्थितेर्वृत्तिज्ञानजन्यत्वेऽपि न तन्निष्ठा जन्यता हस्तिपकविषयत्वेनाऽवच्छिद्यते। नापि वृत्तिज्ञाननिष्ठजनकतायां हस्ती विषयत्वेनावच्छेदकः, वृत्तिज्ञाने धर्मित्वेनाभानादिति नोक्तापत्तिरिति भावः। प्रकृतोपयोगिनमर्थमाह-*एवञ्चेति* वृत्तिज्ञानोपस्थितिशाबोधानां समानविषयकत्वेन हेतुहेतुमद्भावः फलतीती भावः। *असम्भवदुक्तिकमिति* लक्षणाज्ञानस्य शक्तिविषयकत्वेऽपि तीरविषयकशक्तिग्रहात्मकत्वस्याभावादिति भावः।
*एतेनेति* द्विविधवृत्तिज्ञानस्यैकरूपेण हेतुत्वासम्भवेन, वक्ष्यमाणदूषणेन वेत्यर्थः। *असम्भवदुक्तिकमिति* लक्षणाज्ञानस्य शक्तिज्ञानाधीनत्वेन तज्जन्योस्थितौ शक्तिप्रयोज्यत्वसत्त्वान्न लक्षणावादिमते हेत्वन्तरकल्पनोत्यर्थः। *अंनतिप्रसक्त्स्येति*। जन्यजन्यत्वस्य लक्षणाज्ञानजन्योपस्थिताविव विशेषणतावच्छेदकप्रकारकनिर्णयविधया शक्तिज्ञानजन्यघटपदशक्यवान् देश इत्याकारकविशिष्टवैशिष्टयावगाह्यनुव्यवसायात्मकोपस्थितावपि सत्त्वात्तद्विषयस्यापि शाब्दबोधापत्ति, साक्षाज्जन्योपस्थितेरसंग्रहश्च, साक्षाज्जन्यत्वस्य तत्त्वे तु लक्षणाज्ञानजन्योपस्थित्यसंग्रहः, इत्युभयसाधारणस्य तस्य निर्वक्तुमशक्यत्वात् स्वरूपसम्बन्धरूपस्य तस्याननुगतस्योभयसाधारण्यं तु सुतरामसम्भावितमिति भावः। अन्थासिद्धिनिरूपकतानवच्छेदकशक्तिज्ञाननियतोत्तरवर्तितावच्छेदकधर्मवत्त्वरूपं शक्तिप्रयोज्यत्वमुभयसाधारणं सुवचमित्यपि केचित्। अधिकमग्रे वक्ष्यते।
अत्र वदन्ति-अर्तबोधजनकत्वस्य वस्तुतः पदनिष्ठस्य वाच्यवाचकव्यवहारनियामकशक्तित्वसम्भव एवोक्तकार्य्यकारणभावे गौरवलाघवादिचर्च्चा, नतु तस्य तद्रूपत्वसम्भवः। तथाहि-शाब्दबोधं प्रति वृत्तिज्ञानस्य हेतुतेति निर्विवादम्। सा च भवदुक्तार्थधीजनकत्वस्य वृत्तित्वे न सम्भवति, तद्रूपायास्तस्याः ज्ञाननिष्ठशाब्दधीजनकतायामनवच्छेदकत्वात्। आत्माश्रयेण स्वस्यैव स्वावच्चेदकत्वासम्भवात्।
किञ्च प्रयोज्यप्रयोजकव्यवहारद्रष्टृप्रयोज्यप्रवृत्त्यनुमिते प्रयोज्यघटानयनादिज्ञाने उपस्थितत्वाच्छाब्दस्यैव हेतुतायामवधार्य्यमाणायामसम्बद्दस्य कारणत्वानुपपत्त्या कल्प्यमानसम्बन्धस्य जनकत्वात्मकत्वासम्भवः, स्वयमनुपपद्यमानत्वेन गृहीतस्य ग्रहीतुमशक्यत्वात्। तस्मान्न `बोधकत्वं शक्तिः'। एवं न्यायमताभ्युपेतास्मात् पदादेतदरथविशेष्यकवोधो भवत्वित्याकारकश्वरेच्छाविषयत्वस्यापि सङ्केतीयगङ्गापदजन्यत्वप्रकारतानिरूपितबोधत्वावच्छिन्नोद्देश्यताकनिरूपितविशेष्यत्ववृत्त्यवच्छेदकताधेयतासम्बन्धावच्छिन्नावच्छेदकत्वपर्य्यवसितस्य न शक्तित्वम्, लक्षणोच्छेदापत्तेः।
गङ्गापदात्तीरबोधेदयेन गङ्गापदात् तीरविशेष्यकबोधो भवत्वितीच्छाया अपि भागवत्या सम्भवात्, तादृशेच्छीयनिरुक्तावच्छेदकताया लक्ष्ये तीरेऽपि सम्भवात् तादृशावच्छेदकतात्वेन शक्तिज्ञानस्य शाब्दबोधे कारणताकल्पने गौरवाच्च। तीरादिनिष्ठावच्छेदकतायाः पूर्वोक्तविशेष्यत्ववृत्त्यवच्छेदकतानिरूपितत्वेऽपि न विशेष्यवृत्त्यवच्छेदकतात्वेन तन्निरूप्यत्वम्, किन्तु शुद्धावच्छेदकतामात्रेणेति न तादृशशक्तिस्तीरे इति तु शिष्यप्रतारणामात्रम्। इच्छाविषयत्वम्, ज्ञानविषयत्वं वा शक्तिरिति विनिगमनाविरहाच्चेत्यधिकमग्रे वक्ष्यते। तस्मात् पदपदार्थयोर्वाच्यवाचकभावव्यवहारनियामक सम्बन्धः पदार्थान्तरमेव।
तस्य च लक्ष्यव्यावृत्तस्यैव धर्मिग्राहकमानसिद्धत्वाल्लक्ष्यबोधार्थं सक्यसम्बन्धरपलक्षणावृत्तेरपि स्वीकार आवश्यकः। तज्ज्ञानस्यट शाब्दबोधे हेतुत्वान्तरकल्पनप्रयुक्तगौरवन्तु फलमुखत्वान्न दोषावहम्, अन्यथाऽनुपपत्तेश्च। अत एव शक्यलक्ष्यव्यवहारः स्वरसतः सङ्गच्छते।
अथवा शक्तिलक्षणाज्ञानयोः शाब्दरूपं प्रत्येकरूपेणैव हेतुता। तथाहि-तच्छाद्वं प्रति शक्तित्वावच्छिन्नसांसर्गिकविषयतानिरूपिपदनिष्ठप्रकारतानिरूपिततदर्थविशेष्यताकज्ञानत्वेन हेतुता। शक्तिसम्बन्धेन, शक्यसम्बन्धेन वा पदप्रकारकज्ञाने शक्तः संसर्गत्वात्। शक्तित्वनिष्ठावाच्छेदकतायां पर्य्याप्तेरनिवेशेन शक्यसम्बनधप्रकारकज्ञानस्यापि तेन क्रोङीकरणात्। परन्तु पदनिष्ठप्रकारतानिरूपिततादृशसांसर्गिकविषयतायामर्थविशेष्यतानिरूपितत्वानभ्युपगमान्न शक्तिसम्बन्धेन पदाभावप्रकारकबुद्धिप्रतिबध्यत्वं लक्षणाज्ञानस्य।
"इन्द्रियाम्" इत्यादिरिपद्यस्य त्वयमर्थः-इन्द्रियाणां चाक्षुषादिविषयेषु=घटादिषु पुरुषप्रयत्नानपेक्षा यथा योग्यता=तदीयचाक्षुषादिकारणातावच्छेदकरूपाऽस्ति तथाऽर्थैः साकमपि पदानां सम्बन्धो योग्यता=तच्छाब्दबोधजनकताऽवच्छेदकधर्मः, नतु जनकत्वमेव, उक्तयुक्तेः, इति न तद्विरोधोऽपीति सर्वमनवद्यम्। तद्ग्राहकञ्च-व्याकरणस्मृत्यादि। तदुक्तम्-
शक्तिग्रहं व्याकरमोपमानकोशाप्तवाक्याद् व्यवहारतश्च।
वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः।। इति।
तत्र व्याकरमादिकं लाघवसहकृतमेव शक्तिग्राहकमिति नैयायिकमतम्। यतो लाघवसहकृतेन "लः कर्मणि" (पाo सूo 3-4-69) इति सूत्रेण कृतावेव शक्तिः परिच्छिद्यते, नतु कर्त्तरीति यत्थैतत्तथोक्तम्। "गुणे शुक्लादयः" इति कोशेनापि लाघवसहकृतेन गुणे एव शक्तिर्नर्धार्य्यते, नतु गुणिनि, गौरवात्। गुणिबोधस्तु शक्लदपदेभ्यो निरूढलक्षणैवेति च तदुक्तेः। निरूढत्वाञ्च प्राङ्निरुक्तम्।
उपमानस्य तु सादृश्यज्ञानत्मकस्यातिदेशवाक्यार्थस्मृतीद्वारा गवयादिर्गवयादिपदवाच्च इति शक्तिपरिच्छेदकत्वम्। इदमेतद्वाचकमित्याकाराऽऽप्तवाक्यादपि तद्ग्रहः। आप्तत्वत्र्च-तदर्थविषयकयथार्थज्ञानवत्त्वम्। व्यावहारात्-यथा प्रयोजकवृद्धेन घटमानयेत्युक्ते प्रयोज्यवृद्धेनाऽनीते घटे पार्श्वस्थो घटकर्मकानयनादिकार्थ घटकर्मकानयनादिज्ञानस्ध्यमित्यनुमिमीते, व्यावहारे व्यवहर्त्तव्यज्ञानस्य हेतुत्वात्। अन्तरं तद्धेतुजिज्ञासायामुपस्थितं तद्वाक्यमेव तद्धेतुत्वेनावधारयति। तस्य चार्थासम्बद्धस्य तद्धेतुत्वानुपपत्त्याऽर्थेन साकं पश्चाद् वाक्यस्य सम्बन्धमवधारयति। सैव शक्तिरिति व्यटवह्रियते।
यदपि प्रथमं तेन वाक्यस्यैव वाक्यार्थेऽवधारितः सः, तथापि घटं नय' `गामानय' इत्यावापोद्वापाभ्यां पश्चाज्जातप्रत्येकपदशक्तिग्रहेण प्राग्जातवाक्यशक्तिग्रहे चन्द्रादेर्ज्योतिःशास्त्राध्ययनजन्यशतयोजनादिपरिमाणग्रहेण पाश्चात्येन प्राथमिकाल्पपरिमाणग्रह इवाप्रामाण्यं गृह्यते इति नैयायिकाः। प्रत्येकपदशक्तिग्रहेणैवाकाङ्क्षादिसहकृतेन वाक्यार्थबोधोपपत्तेरिति तदाशयः।
अन्ये तु वाक्यार्थशक्तिग्रहस्यट प्रत्येकपदशक्त्युपजीव्यत्वात्तेनैतद्बाधासम्भवेन प्राग्जातशक्तिग्रहस्यैव बलवत्त्वमित्याहुः। वाक्यशेषात्तु-"यवैर्जुहोति"इत्यत्र यवपदस्य दीर्घशूकविशिष्टे आर्याणां प्रयोगात् कङ्गौ म्ल्च्छानां प्रयोगात् क्व शक्तिरिति सन्देहे "यत्रान्या ओषधयो म्लायन्ते अथैते मोदमाना इवोत्तिष्ठनिति" इति वाक्यशेषेण दीर्घशूकविशिष्टे तन्निर्णयः। विवरणस्य यथा शक्तिग्राहकत्वं तथा धात्वर्थनिरूपणे उक्तम्। "इह सहकारतरौ मधुरं पिको रौति" इत्यादौ प्रसिद्धसहकारादिपदसन्निधानात् पिकादिपदानां कोकिलादौ शक्तिपरिच्छित्तिरिति। सौषा शक्तिर्नानार्तेषु सं योगादिना नियम्यते। तदुक्तं काव्यप3काशे-
संयोगो विप्रयोगश्च साहचर्त्य विरोधिता।
अर्थः प्रकारणं लिङ्गं शब्दस्यान्यस्य सन्निधिः।।
सामार्थ्यमौचिति देशः कालो व्यक्तिः स्वरादयः।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ।। इति।।
शब्दार्थस्यानवच्छेदे=सन्देहे तन्निरासद्वारा विशेषनिर्णयस्य जनकाः संयोगादय इति तदर्थः। शक्योपस्थितानामनेकेषामेकतरमात्रार्थतात्पर्य्निर्णयद्वारा तत्तदर्थबोधजनकत्वं तेषामिति भावः।
तत्र सवत्सा धेनुरवत्सा धेनुरिति क्रमेण संयोगविप्रयोगयोरुदाहरणे। साहचर्यम्=सादृश्यम्, सदृशयोरेव प्रायशः सह प्रयोगात्, एवञ्च `रामलक्ष्मणौ इत्यादावुभयोर्नामार्थयोर्युगपदेव साहचर्य्यग्रहाधीनतात्पर्यग्रहेण विश्षावगतिरिति नान्योन्याश्रयः।`रामार्जुनगतिस्तयोः' इत्यादौ विरोधेन सा। `अञ्जलिना जुहोति' `अञ्चलिनाऽदित्यमुपत्तिष्ठते' इत्यादौ `तेजो वै घृतम्' इत्यादिस्तुतिरूपाल्लिङ्गादक्तपदस्य घृतसाधनाञ्जने तात्पर्यावगतिः। `रामो जामदग्न्यः' इत्यादौ जामदग्न्यपदसन्निधानेन रामपदस्य परशुरामपरता। एवम् `अभिरूपाय कन्या देया' इत्यत्राबिरूपतर्येति सामर्थ्यादवगम्यते। `यच्चनिम्बं परशुना' इतयत्रौचित्यात् परशुपदस्य छेदनार्थत्वम्। `भत्यत्र परमेश्वरः' इत्यत्र राजधानीरूपदेशात् परमेश्वरपदस्य राजपरत्वम्।
`चित्रभानुर्भाति' इत्यत्र चित्रभानुपदं रात्रौ वह्नेर्दिवा सूर्य्यस्य बोधकम्। `मित्रो भाति' इत्यादौ व्यक्तेः=लिङ्गादाद्ये सुहृदोऽन्त्ये सूर्य्यस्य बोधकं मित्रपदम्। `स्थुलपृषतीमनड्वाहीम्' इत्यत्र स्वरात् तत्पुरुषबहुव्रीह्यर्थनिर्णयः। आदिपदात् षत्वाणखादि, यथा-`सुसिक्तम्' इत्यत्र सुशब्दस्य कर्मप्रवचनीयस्य पूजार्थकत्वम् सुषिक्तमित्यत्रोपसर्गस्यान्यार्थकत्वम्। एवम्-`प्रणयकः' इत्यत्र णत्वात् प्रणयनकर्त्तृबोधः। `प्रनायकः' इत्यत्र तदभावात् प्रगतनायकबोध इत्याद्यूह्यम्।
यत्तु-पदपदार्थयोर्योऽर्थः स शब्दो य शब्दः सोऽर्थ इतीतरतराध्यासमूलकं तादात्म्यं भेदव्यापृक्तमस्ति। तस्य वाचकः प्रणवादि। `ओमित्येकाश्ररं ब्रह्म' इति भेदाभेदयोर्दर्शनात्। आद्ये भेदस्योद्भूत्वविवक्षया षष्ठी, अभेदस्योद्भूतत्वविवक्षया त्वन्त्ये प्रातिपदिकार्थे प्रथम्। स एव सम्बन्धः पदतदर्थयोर्वाच्यवाचकभाव्यवहारनियामकः।
शक्तिस्तु सङ्केतः, पदार्थान्तरं वेति भट्टानुयायिमतम्। तत्तु न साधीयः, अध्यासमूलकस्यासतस्तस्य सम्बन्धत्वासम्भवात्, भेदाभेदयोः परस्पराभावरूपतया विरुद्धत्वेनैकत्रासम्भवाच्च कस्यचिद् तथाऽध्याससम्भवेऽपि सर्वैषां तथाऽध्यासे मानाभावात्, घटपदनाशेऽपि घटस्योपलभ्यमानतया तयोस्तादात्म्यस्यासम्भवदुक्तिकत्वाच्च।
नच पाकरक्ते प्राक् शयमेऽपि पाकोत्तरम् `अयमिदानीं न शयामं' इति प्रतीतेर्बेदाभेदौ न विरुद्धाविति वाच्यम्, अव्याप्यवृत्तीनां तेषामेकावच्छेदेन विरोधानपायात्। अत एव तत्र देशकालावच्छेदकभेदेनैव `अयभिदानीं न शयामं' `वृक्षो मूले न कपिसंयोग,' `इति, नतु तदनवगाहिनी घटोऽयं नश्यामो वृक्षो न कपिसंयोगीति प्रतीतिः, किन्त्वभेदवादे घटपदनाशे घटनाशापत्तिरेवं शब्दवदर्थस्यापि श्रोत्रेन्द्रियग्राह्यतायाः शब्दस्य चक्षुरादीन्द्रियग्राह्यतायाश्चापत्तिरिति बहुव्याकोपः। शब्दस्य यथा न वित्यत्वं तथा वक्ष्यते।
नचातद्यन्तभेदे घटः पटोऽत्य ताऽभेदे घटो घट इति सामानाधिकरण्यादरशनाद् भेदाभेदवादोपपत्तिरिति शङ्कयम्' इत्यादौ त्वक्षरपदस्य तत्प्रतिपाद्ये निरूढलक्षणया सामानाधिकरण्योपपत्तेस्तद्वाक्यस्योपासनाकाण्डस्थतया भेदेऽप्यभेदोपासनपरतयोपपत्तेस्चेत्यन्यत्र विस्तरः।
सा च शक्तिस्त्रिधा-योगः, रूढिः, योगरूढिश्चेति। प्रकृतिप्रत्ययनिरूपिता तत्तदर्थे या शक्तिः स योगस्तन्मात्रेणार्थबोधकं पदं यौगिकमिति व्यवह्रियते। यथा पाचकादिपदाम्, तद्धटकधातुप्रत्ययोः पाकादौ, कर्त्रादिकारके च व्युत्पन्नत्वात्। अवयवार्थाप्रतीतौ केवलसमुदायस्य तत्तदर्थे या शक्तिः सा रूढिः, तयाऽर्थबोधकं पदं रूढम्। यथा-मणीनूपुरादि। अश्वगन्धादिपदात्तु कदाचिदोषधिनिष्ठसमुदायचनिरूपितशक्त्योषधिबोधः। कदाचित्तु अश्वस्य गन्धोऽस्यामिति व्युत्पत्त्या वाजिशालादिबोधोऽवयवशक्येति यौगिकूढिः पृथङ्नोक्ता, उक्तयोरेवान्तर्भावात्।
"रूढिर्योगापहारिणी" इति तु प्रकारणाद्यभावे। लाक्षणिकं तद् वाजिशालाबोधे इत्यपरे। यत्रावयवार्थसहकृता समुदायशक्तिरर्थबोधिका सा योगरूढिस्तयाऽर्थबोधकं पदं योगरूढम्। यथा-पङ्कजादिपदम्। तत्र पङ्गधिकरणकोत्पत्त्याश्रयपद्म्तवाविशिष्टबोधाद् अनुपपत्तिप्रतिसन्धानं विनापि पद्मबोधान्न तत्र लक्षणावसर इत्यादि प्रपञ्चितं पूर्वमेव।
`गङ्गायं घोष' इत्यादौ गङ्गापदस्य तीरे शक्यसामीप्यपूपलक्षणाग्रहे तदाऽऽहीतसंस्कारजन्यतीरादिस्मृत्या तीराधिकरणकघोषशाब्दवुद्धिः। लक्ष्यव्यवहारान्यथानुपपत्त्या लक्षणाया अप्यवश्यम्भ्युपेयत्वात्। अन्वयाऽनुपपत्तिप्रतिसन्धानं च तत्कल्पने बीजम्। यथोक्त क्वचिन्निरागाङक्षत्वम्पि तद्वीजम्। यथा "वदनं तस्या वदनं मुखममुखं भाति चान्यासाम्" इत्यत्र तादात्म्यम्बन्धावच्छिन्नवदनत्वावच्छिन्नप3कारतानिरूपितवदनत्वाव्चचिन्नविसेष्यताको बोधो न सम्भवति, तादात्म्यसम्बन्धावच्छिन्नतादृशप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धौ विधेयताऽवच्छेदकभेदस्य तन्त्रत्वात्, इति वदनत्वावच्छिन्नार्थकवदनपदनिरूपिताकाङ्क्षा न वदनपदेऽतस्तत्र पदनपदं लक्षणयाऽऽह्लादकपरम्। तदुपस्थिताह्लादकत्वावच्छिन्नस्याभेदान्वयो वदने अनुशासनबोधितनैराकाङ्क्षयमपि क्वचित्तथा। यथा-
कृतसीतापरित्यागः स रत्नाकरमेखलाम्।
बुभुजे पृथिवीपालः पृतिवीमेव केवलाम्।।
इत्यत्र बुजिधातोरवनवाचकस्यात्मनेपदनिराकाङ्क्षतया वाच्यर्थबुद्धौ प्रतिबद्धायां तद्धातुना स्वार्थपालनसन्बन्धिशासनं लक्ष्यते। आत्मनेपदसमभिव्याहृतभुजित्वाव्चचेदेनाऽऽख्यातवोध्यकर्त्रन्वितपालनबोधस्वरूपायोग्यत्वरूपनैकाङ्क्षयस्य, "भुजोऽनवने" (पाo सूo 1-3-66) इति सूत्रेण बोधनात्। तत्र केवलपदेन तत्कालिकरामभिन्नपृथिवीपालकर्त्तकभोगकर्मनिष्ठान्योन्याभावप्रतियोगिताऽनवच्छेदकैकत्वयोगिनी व्यक्तिरभीधीयते। एवकारेण पृथिव्यन्ययोगव्यवच्छेदः।
एवञ्च तत्कालिकरामाभिन्नवृथिवीपालकर्त्तृकभोगकर्मनिष्ठान्योन्याभावप्रतीयोगितानवच्चेदकैकत्वविशिष्टाभिन्नवृथिवीकर्मकभोगकर्त्त वृथिव्यन्यस्त्रीकर्मकभोगाकर्त्ता रामाभिन्नः पृथिवीपाल इति न्यायनये वाक्यार्थबोधः। `द्विरेफो मधुरं रौति,' `पिकः कूजति कानने' इत्यादौ तु मुख्यार्थबाध एव लक्षणावीजम्। किन्तु सा लक्षितलक्षणेत्युच्यते, लक्ष्यसमासार्थरेफद्वयविशिष्टघटितत्वात्तस्याः।
तथाहृयेन पुरुषेम द्विरेफादिपदस्य प्राणिविशे, रूढिर्न गृहीता, किन्तु रेफौ यत्रेति व्यत्पतद्तद्या रेफद्वयसम्बन्धिभ्रमरपदे शक्यसम्बन्धरूपलक्षणा गृहीता तस्य प्राणिविशेषविशेष्यकमधुरारावकर्तृत्वशाब्दबोधस्य तात्पर्य्यविषयस्यानुपपत्त्याद्विरेफपदात् स्वलक्ष्यरेफद्वयघटितपदवाच्यत्वलक्षणयोपस्थिते प्राणिशेष मधुरऽऽरावकर्तृत्वान्वय इति द्विरेफपदेन भ्रमरपदमुपस्थाप्यते। तेन च प्राणिविशेषोपस्थिरिति तु न सम्यक्, `प्रत्ययानाम्' इति व्युतद्पत्तेस्तत्र प्रत्ययार्थान्वयासम्भवात्। भ्रमरपदे लक्षणायामपि न तेन तदुपस्तितिः, उच्चरीतस्यैवार्थेप्रत्यायकत्वादित्यपयाहुः। एवम् "पिकः कूजति कानने" इत्यादावपि बोध्यम्।
एवम्-
गङ्गा हरति वै पुसां दृष्टा पीताऽवगाहिता।
इत्यत्र पीता गङ्गा पापं हरतीति वाक्ये गङ्गापदात् स्वशक्यप्रवाहावयवावयविभावसम्बन्धरूपलक्षणाग्रहाऽहितसंस्कारसहकृतादुपस्थितोद्धृतजले पानकर्मत्वाऽनवयः। तात्पर्य्यनुपपत्तिरेव वा सर्वत्र लक्षणाबीजम्। तदुन्नायकत्वेनैवोक्तनैराकाङक्षयादीनामुपयोगः। अत एव `यष्टीः पैवेशय' इत्यादौ यषटयादिपदानां तद्धारणकर्त्तरि लक्षणा, यष्टिषु प्रवेशकर्मत्वान्वयानुपपत्त्यभावेऽपि भोजनादिप्रकारणोन्नीततात्पर्य्यविषयभोजनकप्रवेशकर्मत्वानुपपत्तेस्तत्र जागरूकत्वात्। एवम् `कुन्ताः प्रवीशन्ति' `छत्रिणो यान्ति' इत्यादीष्वप्यूह्यम्।
ननु छत्रिशब्दस्य पदद्वयघटितत्वेन वाक्यतया न्यायनये कथं तस्य लक्षणा, शक्याप्रसिद्धेः। किञ्चात्र नैकसार्थगन्तृत्वं लक्ष्यताऽबच्छेदकम्, `यान्ति' इत्यस्यानन्वयापत्तेः, गन्तृत्वेनोपस्थितस्य गमनाकाङ्क्षाविरहादिति चेत् सत्यम्, सम्बन्दिशक्तमतुप एव तत्रैकसार्थसम्बन्धिलक्ष्यकत्वाभ्युपगमेनोक्तदोषद्वयस्याप्रस्क्तेः। नच छत्रपदवैयर्थ्यम्, तस्य तात्पर्य्यग्राहकत्वेन सार्थक्यात्। `लक्षिणकं पदं नानुबावकम्' इति सम्प्रदायः। स्वशक्यानुभवं प्रत्येव पदानां कारणत्वम्। इतरपदार्थेन सह स्वशक्यानुभाकत्वेन कलृप्ताद्घोषादिपदादेव तीरानुभवोपपत्तेर्न शक्यादशक्योपस्थिलिर्लक्षणेत्यभ्युपगच्छतां मते स्वजन्योपस्थितिसम्बन्धेनैव पदस्यानुभावकतया तस्याश्च तीरादावभावात्तस्याननुभावकत्वमिति तन्मूलम्। नच तत्सम्भवति, शक्योपस्थिताच्चीरादेरप्रकृत्यर्थतया तत्र प्रत्ययार्तान्वयासम्भवात्।
वस्तुतस्तु लाक्षणिकं पदमुद्देश्यविदेयभावेनान्वयाजनकमित्येव तदर्थः, उद्देश्यविधेयभावेनान्वये शक्तिमत्त्वस्यैव तन्त्रत्वात्। अत एव "न विधो परः शब्दार्थः" इति सङ्गच्छते। किञ्च तन्तुसंयोगस्य पटसंयोगहेतुत्वतात्पर्य्यके `तन्तुः पटं जनयति' इति सर्वलक्षणिकवाक्येऽन्वयानुभवापलापाऽपत्तेर्लाक्षणिकपदस्यानुभावकत्वमेव न्याय्यम् गङ्गापदात्तीरमनुभवामि' इति प्रतीतेश्च तादृशप्रवादे नाभिनिवेष्टव्यम्।
ननु `स्वायत्ते शब्दप्रयोगो किमित्यवाचकं पदं प्रयोक्ष्यामहे' इति न्यायात्तीरद्यवाचकगङ्गादिपदाभिधानमनुचितम्। प्रयोजनजिज्ञासायां पावनत्वादिप्रतिपत्तये तदीति यदि, तर्हि वृत्तिं विना तस्य शाब्दे भानासम्भवात्तदर्थ व्यञ्जनावृत्तिरपि तृतीयाऽङगीकरणीया। अत एव--
इत्यत्र अशक्तानां श्रियमपदृत्य पुंश्चल्यो जलवाहकैः साकं रमन्ते इत्यातात्पर्य्यविषयरूढयर्थानालिङ्गितार्थान्तरस्यापि प्रतीतिः। सा चार्थद्वारिकाऽपि-
"भ्रम धार्मिक विस्त्रब्धं सोऽवयश्वा मारितस्तेन।
गोदातीरनिकुञ्चप्रतिष्ठितनिसर्गदृप्तसिंहेन।।"
इत्यादौ प्रतिभाजुषां सहृदयानां वक्तुबोद्धव्यवैशिष्टयस्फूर्तौ सिंहप्रतीत्यनन्तरं गोदातीरे श्वभीरुभ्रमणायोग्यत्वप्रत्ययादिति इत्यादौ लूढयर्थानालिङ्गतार्थस्य केवलयोगेन प्रतीत्यसम्भवेऽपि लक्षणया तस्याः सूपपादत्वात्। पावनत्वादिप्रतीतिर्विशिष्टलक्षणयाऽपि सुद्धलक्षणयैवानुपपत्तिपरिहारे विशिष्ट तदभ्युपगमे बीजाभाव इति तु न, `नष्टीः प्रवेशय' इत्यत्रापि तदनापत्तेः, वाच्यार्थवैयञ्जनिकबुद्धरेनुमानेनापि गातार्थत्वाच्च।
वस्तुतस्तु गालिप्रदानादेरिवेतोऽपितथा तात्पर्य्यमेबोन्नीयते,न त्वान्वयबोधः, अनुमितिर्वा, बोधे व्भिचारपक्षधर्मतयोः, सन्देहे वा तयोरसम्भवात्तत्रैव तैर्व्यढ्जनोल्लासाभ्युपगमादित्यन्यत्र विस्तरः (1-37)
(1-38) यदि पुनरानुभाविको लोकानां स्वरसवाही शब्दादमुमर्थ प्रत्येमिति प्रत्ययस्तदा व्यञ्जनावडत्तिरप्रत्यूहैवेति स्वोक्तनिष्कृष्टमतमवलम्ब्य ममूलमवतारयति-*नन्विसि* एवम्-बोधकत्वस्यैव सक्तित्वे *तत्रापि*=अपर्भ्रशात्मकभाषायामपि। *स्यादिति* तस्या अपि बोधकत्वात्। ईश्वेरेच्छादीनां शक्तित्ववादिनां तु नायमतिप्रसङ्ग इति भावः। इष्टापत्तावाह-*तथाचेति*। "नापभ्रंशितवै" इत्यादिनिषधविधिविषयत्वानापत्त्येष्टापत्तेः कर्तुमशक्यत्वादिति भावः।
- द्विधेति* अपभ्रंशानामुक्तशक्तिमत्त्वाभावव्यवस्थापनेन साधुत्वस्याऽन्यथानिर्वाचनेन चेत्यर्थ। मूले *अनुमानेन वाचक इति* अनुमानमत्र स्मृतिः। अनु=पश्चान्मानम्=मितिरिति व्युत्पत्तेः, नतु व्याप्तिज्ञानम्, तच्छून्यानामपि शाब्दबोधदर्शनात्। गाव्याद्यपभ्रंशानां गवादिशब्दविकृतित्वेनोद्बोधकविधया झटिति प्रकृतिस्मारकत्वादित्याशयेन व्याचष्ट-*अनुमानेन साधुशब्दमिति*। *अनुमायेति* स्मृत्वेत्यर्थः। वक्ष्यति च -`तेषां साधुस्मरणे एवोपयोग' इति। अपभ्रंशानं साक्षाद् बोधकता तु न, शब्दजनकसाधुत्वस्याभावादसाधुत्वज्ञानस्य प्रतिबन्धकत्वाद्वेति भावः। तत्र हरिसम्मतिमाह-*उक्तं हीति*। ते=अपभ्रंशाः। *`साधुषु* इति विषयसप्तमी, साधुविषयकस्मरणेनेत्यर्थः। *प्रत्ययेति* गवाद्यर्थबोधकारणानीत्यर्थः। पक्षान्तरमाह-*तादात्म्यमिति* साधुगवादिशब्दतादात्म्यप्रकारकज्ञानविषयतामापाद्य वेत्यर्थः। एवकारो वाऽर्थे। गोपदे उच्चारणीये कारणापाटवेन गावीत्युच्चारितम्, वस्तुतो गोपदमेवेदमिति तादात्म्येन भासमाना गाव्यादिशब्दा गावादिरूपार्थस्य प्रकाशका इत्यर्थः। नच वक्ष्यमाणकल्पाभेदः, तत्रापभ्रंशगतानुपूर्व्या एव शक्ततावच्छेदकत्वात्। अत्र तु साधुगतायास्तस्यास्तत्त्वमिति भेदादिति भावः।
यत्तु-शब्दार्थयोस्तादात्म्यं शक्तिरिति स्वोक्तार्थें तादात्म्यमित्यादिहरिकारिकार्द्धस्योपष्टम्भकतयोपन्यसनम्, तन्मुधैव, तादात्म्यस्य शक्तित्वेऽपि शब्दनिष्ठतादात्म्यज्ञानस्यार्थाबोधकत्वेन तस्य शक्तित्वासम्भवात्। उपक्रमोपसंहारपर्य्यालोचनया साधुशब्दतादात्म्यभ्रान्त्याऽपभ्रंशानामर्थबोधकजनकत्वमिति पक्षान्तरपरतयैव तद्वयाख्यानस्यौचित्यादिति।
अवाचकत्वे युक्तिमाह-*न शिष्टैरिति* यतस्तेऽपभ्रंशाः साधवः पर्य्याया इव शिष्टैः स्मृत्यादिना न प्रतिपाद्यन्तेऽतो न वाचका इत्यर्थः। ते साधुष्वित्याद्युक्तमर्थ। *तेन* साधुविकृत्यपभ्रंशश्रवणेन। *व्यक्ते* अपभ्रंशप्रकृतिसाधुशब्दे। अस्य स्मृते सतीति शेषः। *निर्णायः* तदर्थशाब्दबोधो भवतीत्यर्थ-। *एवमिति* इत्त्थमेवेत्यर्थः *साधौश*=गवादिशब्दे। *अपभ्रंशः*=गाव्यादिः।
*तेन*=असाधुशब्देन। *साधुव्यवहितः*=साधुस्मृतिद्वारकः। *किश्चित्*=प्रसिद्धोऽम्बादिरूपः। *एकत्वादिति* एकजातीयत्वादित्यर्थः। *तथा* एकजातीयत्वम्, येन तत्रापि विनिगमकाभावाच्छक्तिकल्पना स्यादिति भावः।
*अन्यथेति* एकजातीयत्वस्य शक्तिकल्पनायामतन्त्रत्वे शक्तिमत्त्वाविशेषात् साधुनामिवापभ्रंशानमपि कोशादौ प्रतीपादनं प्रसज्येतेत्यर्थः। *तन्मतेनैवोति* ते साधुष्वनुमानेनेत्याद्युक्तहरिमतेनैवेत्यर्थः। अपभ्रंशाद् बोधस्योक्तरीत्योपपादितत्वात् तत्र शक्तिकल्पनं स्वाग्राहकमूलकमित्याशङ्कां निराचिकीर्षुस्तत्रोक्तप्रकारासम्भवं दर्शयति-*अयम्भाव इति*। *तानिति* साधुशब्दानित्यर्थः। अज्ञाने हेतुमाह-* पामराणामिति*। *बोधादिति* व्यावहारेण तेषां बोधानुमानादित्यर्थः।
तथाचानधीतशास्त्राणां तेषां साधुत्पप्रकारकशब्दज्ञानासम्भवेन न तत्र साधुशब्दस्मृतिकल्पनया शाब्दबुद्धिरुपपादयितुं शक्येति भावः। किञ्च साधुशब्दस्मृतिकल्पना कथञ्चित् सम्भवेदपि यदि प्रत्यक्षश्रुतसाधुशब्दात्तेषां बोधोदयः स्यात्। स एव नास्तीत्याह-* तेषां साधोरिति। *शक्तिभ्रमादिति* अर्थनिरूपितायाः साधुशब्दनिष्ठायाः शक्तेरपभ्रंशेभ्रमादित्यर्थः।
किं बोधकत्वरूपशक्तिभ्रमात् तत्र बोध उपपद्यते, उतेश्वरेच्छारूपशक्तिभ्रमात्। तत्र नाद्यः कल्प इत्याह-*बोधकत्वस्येति*। द्वितीये त्वाह-* ईश्वरेच्छेति।*सन्मात्रेति* मात्रपदं कृत्स्नार्थकम्। अपभ्रंशाद् बोधस्य सर्वानुभवचसिद्धत्वेन बोदकत्वेनेश्वरेच्छाया अपि तत्राबाधेन तामादायापि न शक्तिज्ञानस्य भ्रमत्वसम्पत्तिः। प्रतीतेर्भ्मत्वे विषयबाधस्यैव तन्त्रत्वादिति भावः।
ननु लाक्षणिक इवापभ्रंशेऽपि वाचकव्यवहाराभावेन तद्व्यावृत्त्येश्वरेच्छारूपशक्लेस्तत्र भ्रमे बाधकाभावोऽत आह--*शक्तेरिति*। * भ्रमासम्भवाच्चेति* तत्पदविशेष्यकतदर्थबोधजनकत्वप्रकारकेच्छायास्तत्पदविशेष्यकत्वेन गृहीताया पदान्तरविशेष्यकत्वासम्भवेन तद्भ्रममासम्भवादित्यर्थः। यथाश्रुताभिप्रायेणेदम्। परिष्कृतविशेष्यत्वरूपायास्तत्सम्बन्धावच्छिन्नावच्छेदकत्वरूपायाः पदार्थान्तररूपाया वा शक्तेस्तत्र भ्रमे बाधकाभावादिति बोध्यम्। तथाच भ्रमेणापि बोधस्य दुरूपपादत्वेन भाषायां शक्तिरावशियकेति भावः।
अस्मिन्नपि पक्षे हरिसम्मतिमादर्सयति-*उक्तञ्चेति*। *पारम्पर्य्यादिति* स्वार्थे ष्यञ्। *विगुणेषु इति* हेतुगर्भ विशेषणम्। वैगुण्यञ्च करणापादवरूपम्, अभिधातृवैगुणयस्यापभ्रंशनियामकत्वात्। तथाच विगुणेष्वभिधातृषु सत्सुपरम्परया येष्वर्थेषु प्रसिद्धिमागता इत्यर्थः। *दैवीति* संस्कृतरूपेत्यर्थः। *अशक्तेः*=करणापाटववद्भिः *व्यवकीर्णा*=उच्छिन्नानुपूर्वोका कृतेत्यर्थः। *अनित्यदर्शिनाम्* शब्दनित्यत्ववादिनाम्। *अस्मिन्वादे*-शक्तिविवादे इत्यर्थः।
ननु `तेषां साधुरवाचकः' इत्यनुपपन्नम्, यस्मिन्नर्थेऽपभ्रंशाः प्रयुज्यन्ते तद्वाचकत्वस्य साधुषु सर्वसम्मतत्वादतो व्याचष्टे-*अबोदक इति* व्यवहितः सधुर्न तत्र बोधकः, किन्तु साक्षादपभ्रंशा एव तत्तदानुपूर्वोसत्त्वेन वाचका इति भावः।
नन्विय अपभ्रंशरूपा वाग् अभिधातृबैगुण्येनोच्छिन्नानुपूर्वोकाऽपि दैर्व संस्कृतरूपैव। नैयायिकानां त्वस्या अबोध कत्वे भ्रम एव। पारम्पर्य्यादित्युपपादनात् साधुतादात्म्यभ्रान्तिमूलकशक्तिभ्रमेण बोधकत्वसम्भवादित्य्रथकम् `दैवीवागव्यबकीर्णेयम्, इत्यपि पूर्वोक्तान्तिमकल्पस्यैवोपोद्वलकम्। नचैवं `तेषां साधुरवाचक्' इत्यनुपपन्नम्, तत्कल्पे आरोपितसाधुत्वाकाद्यपभ्रंशानां बोधकत्वेन साधुस्मरणाद् बोधानभ्युपगमात्। तेषामित्यादेः साधुतादात्म्यारोपविषयास्त एव प्रसिद्धार्थानां बोधकाः, नतु तत्तदानुपूर्वोमत्त्वेन बोधका इत्यर्थात्तस्मान्नोक्तयुक्त्याऽपभ्रंशानां तत्त्वेन वाचकतासिद्धिरत आह-*किञ्चेति*। *तासाम्*=भाषाणाम्। *दोष इति* तथाच गौरवात् तत्र शक्तिरित्यर्थः।
सकलदेशाशिष्टपरिगृहीतत्वमेव विनिगमकमत आह-*अवच्छेदिकेति* बोधजनकताऽवच्छेदिकेत्यर्थः *तयोरिति* साध्वापभ्रंशयोरित्यर्थः। सकलशिष्टपरिगृहीतत्वन्तु न विनिगमकम्, "शवतिर्गतिकर्मा कम्बोजेषु प्रयुज्यते। विकारे एवैनमार्य्या भाषान्ते" इति भाष्यात्तत्तद्देशनियतसंस्कृतेषु शक्तिसिद्धयानापत्तेः, वाचकस्य व्यञ्जकतायामालङ्कारिकाणां प्राकृतभाषोदाहरणस्यासङ्गतत्वापत्तेश्च। अत एव तत्तद्देशीयशिष्टानां तत्तद्भाषासु निस्सन्दिग्धशक्तत्वप्रत्ययः सङ्गच्छते। नचासौ भ्रमः, बोधकाभावादिति भावः। उपसंहरति-*तथाचेति*। *एवम्*=अपभ्रंशानामपि शक्तत्वे *तेषाम्*=अपभ्रंशानाम्। *साधुता स्यादति* शक्तत्वस्यैव साधुत्वादिति भावः। *साधुभिर्भाषितत्वमिति* साधूनेव प्रयुञ्जतेत्यादिरूपश्चेत्य्रथः। *नासाधुभिरिति* "नापम्रंशितवै न म्लेच्छितवै" इत्यादिनिषेधाविधिरित्यर्थ-। *योग्यत्वम्*-जनकताव्चछेदकधर्मवत्त्वम्। *तत्र*=सादुशब्दे।*जातिरिति*
तत्र प्रमाणन्तु "एकः शब्दः साम्यगा ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके च कामधुग् भवति" इति "एक पूर्वपरयोः" (पाo सूo 6-2-64) इत्यत्र भाष्यपठीतश्रुतिः। सम्यग् ज्ञातः=साधुत्वेन ज्ञातः। `यदिह परिनिष्ठिनतं तत् साधु' इत्यर्थापत्तिलभ्यवाक्येन च तत्। शास्त्रान्वितिः=शास्त्रव्युत्पादनमार्गेणभिसंहितः। सुप्रयुक्त-=शिक्षद्युक्तमार्गेण प्रयुक्त इति तदर्थः, "ते हेऽलय इति कुर्वन्तः पराबभूवुः" इति श्रुतिश्च। यदि च कत्वादिना साङ्कर्य्यान्न तस्य जातित्वमिति विभाव्यते तदास्तुपाधिरिति भावः।
*तज्ज्ञापकमिति* तदभिव्यञ्जकमित्यर्थः। यथैतत्तथोक्तम्। व्याकरणादिपदाच्छिष्टप्रयुक्तत्वपरिग्रहः। *एवमेवेति* तत्तदर्थपूरस्कारेम तत्तच्छब्दानां साधुत्वर्य्यवसानलाभेनैवेत्यर्थः। *फलाजनकत्ववदिति* क्षत्रियाधिकारिकृतस्यैव तस्य फलश्रवणादिति भावः। *साधुत्वमिति* गवाद्यर्थपूरस्कारेणैव गवादिशब्दानां प्रयोगे पुण्यनजकत्वरूपं साधुत्वमित्यर्थः। नन्वाधुनिकदेवदत्ताद्यर्थपूरस्कारेणदेवदत्तादिशब्दानां शास्त्रेऽव्युत्पादनात् तेषां देवदत्तादौ साधुता न स्यादत आह-*आधुनिकेति*। *द्वयक्षरमिति* "घोषवदाद्यन्तरन्तःस्थं द्वयक्षरं चतुरक्षरं वा पूरुषस्य नाम कृतं कुर्य्यान्नतद्धितम्' इति भाष्यस्थस्मृत्येत्यर्थः। तत्तद्देशभाषाऽनुसारेण क्रियमाणानां नाम्नां तु शास्त्राव्युत्पन्नत्वादसाधुत्वमेवेति भावः। *गौणानामिति* शुक्लादिशब्दानामित्यर्थः। गुणे=स्वशक्ये शुक्लादिरूपे।
*व्यत्पादनादिति* "गुणवचनेभ्यो मतुपो लुक्" इति स्मृत्या "गुणे शुक्लादयः पुंसि" इत्यादिकोशेन चेत्यत्यादिः। तत्पुरस्कारेण=नीलाद्यर्थपुरस्कारेमेत्यर्थः *प्रवृत्तौ*=गुणिनि प्रयोगे। शक्यार्तस्य बाधे अन्वयानुपपत्तिप्रतिसन्धानात्तैर्लक्ष्यार्थोपस्थापनेऽपि शक्यार्थमादाय तेषां सादुत्वं नानुपपन्नम्। शक्यार्थपुरस्कारेण तषां शास्त्रव्युत्त्पन्नत्वादिल्यर्थः। गौणपदस्य निरूढलाक्षणिकपदोपलक्षणत्वाच्च न गङ्गायं घोष इत्यादौ गङ्गादिपदानामसाधुत्वमिति भावः। *आधुनिकानामिति* एच्छिकयत्किञ्चित्सम्बन्धेन शास्त्रकृत्तात्पर्याविषये प्रयुक्तानामित्यर्थः (1-38)
(1-39) ननु शक्तिग्राहकयोः कोशव्याकरणयार्विद्यमानत्वाच्छक्तिग्रहोपायकथनं व्यर्थमत आह *अतिरिक्तेति* कोशव्याकरणाभ्यामतिरिक्तो यः शक्तिग्रहोपायस्तमित्यर्थः। तथाचानधीतव्याकरणानां तेन शक्तिग्रहसम्भवात् तदर्थं व्यवहाररूपमप्युपायमाहेतिपर्य्यसानान्न वैयर्थ्यमिति भावः। एतेन ग्रन्थकृतातिरिक्तशक्तेरनङ्गीकारेण तद्ग्रहोपायप्रदर्शनं व्यर्थमित्याशङ्कापि समाहिता। विषयपदाध्याहारेण मूलं व्याचष्टे-*सम्बन्दो विषय इति*।
तथाचायमेतत्सम्बन्धीति व्यवहारे सम्बन्धो विषयः। *योग्यतां प्रति*--इदमत्र योग्यमिति योग्यताव्यवहारे योग्यताविषयोः यतोऽतः समयात् तद्व्यवहाराद्योग्यताया बोधकतारूपशक्तेः संवित्=ज्ञानं भवतीत्यर्थः।
तत्र दृष्टान्तः*मातापूत्रादियोगवदिति* यथाऽयमेतत् सम्बन्धीति व्यवहारस्तयोर्जन्यजनकभावनिश्चायकस्तद्वदित्यर्थः।
अन्ये त्विदं हरिपद्यमित्त्थं व्याचक्षते-*सम्बन्दिशब्दे*=अयमेतत्सम्बन्धीति व्यवहारे। *योग्यतांमिति*=अर्थबोधजनकताऽवच्छेदकधर्मवत्त्वरूपयोग्यताव्यवहारनिरूपितो यस्तादात्म्यलक्षणोऽन्यो वा सम्बन्धः स एव योग्यताऽपरपर्य्यायो विषय इति शेषः। स चानादिः, वृद्धव्यवहारापरपर्य्यायोऽस्मदादिसमयान्निश्चीयते, नतु बोदजनकत्वमेव शक्तिः, एतद्बोदजननेऽयं योग्य इति व्यवहारात्। अत एवैतच्छेषे-
सति प्रत्ययहेतुत्वं सम्बन्ध उपपद्यते।
शब्दस्यार्थे यतस्तस्मात् सम्बन्धोऽस्तीति गम्यते।।
इत्यन्तेनोक्लार्थः स्पष्टीकृत इति। अधिकमन्यतोऽवधार्थम् (1-39)
इति वैयाकरण भूषणसारदर्पणे शक्तिस्वरूपनिरूपणम्।। 6 ।।
(1-40) `समासे खलु भिन्नैव' इत्यत्र पङ्कजशब्दवदिति वदता सम्से तद्घटकप्रत्येकशक्तिसहकृतसमुदायशक्तेर्व्यपेक्षात्वमङ्गीकृतम्। तच्चानुपपन्नम्, यत्र समासघटकप्रत्येकपदस्यानर्थकत्वं तत्र प्रत्येकशक्तिसाचिव्यासम्भवात्। यथा नञ्चसमासघटकनञः।
तयोरर्थाभिधाने हि व्यापारो नैव विद्यते। इत्युक्तेः।
एवञ्च जहत्स्वार्थावाद इवेदृसस्थले उत्तरपदार्थादिप्राधान्यस्य स्वरसतोऽनुपपत्तिरपीतीमां शङ्कां परिहर्त्तु नञर्थनिसूपणमित्याह-*नञर्थमिति*। मुले *नञ्समास* इति।
अयं भावः-`घटो न पटः, `घटो नास्ति' इत्यादावभावशाब्दबोधस्य सार्वजनीनप्रसिद्धसिद्धित्वानानञोऽभावार्थकत्वमावस्यकम्। तथाचोत्तरपाद्थप्राधान्यदिव्यवस्था सूभा। यद्यपि `घटो न' इत्यादावभावविशेष्यक एव बोधः, तथापि `असर्वः' इत्याद्यनुरोदेनारोपितत्वार्थकत्वमपि नञोऽङ्गीकरणीयमिति शेषपूरणेन व्याच्ष्टे सारे-* सिध्यतीति* अत एवेति* प्राधान्यानुपपत्तेरेवेत्यर्थः।
ननु नञस्तत्राभावार्थकत्वे कथं प्राधान्यनुपपत्तिरित्यतोभावार्थमाह-*अयम्भाव इति*। *अन्यथा* आरोपितत्वार्थकत्वानभ्युपगमे, भेदार्थकत्व इति यावत्। *सा*=सर्वनामसंज्ञा। *न स्यादिति* `असर्वः' इत्यत्र नञोऽभेदार्थकत्वे तत्र प्रतियोगितया सर्वपदार्थस्योपसर्जनत्वेन संज्ञोपसर्जनानां सर्वादिबहिर्भूतत्वेन अतिसर्व' इत्यादाविव तदप्रवृत्तेरिति भावः। ननु `भेदप्रतियोगी सर्वः' इति तत्र बोधाभ्युगपमान्नोत्तरपदार्थस्य प्राधान्यहानिरत आह-*घटो नास्तीत्यादाविति *तस्य* नञर्थस्य। नञर्थाभाववत्त्वस्य विशेष्यतायां तन्त्रात्वादिति भावः।
ननु तवापि `अघटः पटः' इत्यतो `घटभिन्न पटः' इति सर्वसिद्धप्रतीत्यनुपपत्तिरत आह-*अस्मद्रीत्येति* *सः*-भेदबोधः। *आर्थ इति* अर्थात्=उपस्थितिविषयादागत इत्यर्थ-। *मानस इति* तत्र शाब्त्वप्रत्ययस्त्वसिद्ध एवेति भावः। नन्वसर्वशब्दस्य सर्वनामत्वाभावे का क्षतिरत आह-*तथाचेति* अत्र चेति* आरोपितत्वं नञ्वाच्यमिति कल्पे चेत्यर्थः। *निषकर्ष इति* विषयत्वस्य संसर्गमर्य्यादयैव लाभादनन्यलभ्यारोपस्यैव नञर्थत्वम्, नत्वारोपविषयत्वस्य, गौरवादिति भावः। नन्वारोपस्य वाच्यत्वभ्युपगमे द्यतकताप्रतिपादकमूलविरोधोऽत आह-*द्योत्यत्वोक्तिरिति* वाच्यस्यापि तस्य विशेषणतैव, नाभाववद्विशेष्यतेति सूचयितुमेव तथोक्तिरिति भावः (1-40)
(1-41) *घटो नास्तीति* यद्यपि समासयोग्यनञ एवारोपार्थकत्वंम मूले उक्तम्, तथापि `घटो नास्ति' इत्युक्तिरत्रेव तत्राप्यारोपाननुभव इति दृष्टान्तार्थेत्वाधेयम्। `नञद्योत्यम्' इत्यत्र नञो विशेषणतया व्यवधानेन चोपस्थितत्वेऽपि त्यदादीनां बुद्धिस्थपरामर्शकत्वात्तदा तत्परामर्शो नानुचित इत्याह-*तदर्थ इति*। *साधारण्येनेति* प्रकृतेऽर्थपदस्य तज्जन्यबोधविषयपरतया पक्षद्वयस्य संग्रहः। तत्रासति बाधके वाचकत्वमेव। सति तु तस्मिन् द्योतकताऽपीति भावः। *नञवाच्यत्वादिति*
यद्यप्युत्तरपदार्थप्राधान्येन नञ्तत्पुरुषस्य, ब्राह्मणस्यऽनयनं प्राप्नोति। नञः प्रयोगान्नञर्थविशिष्टस्यानयनं भविष्यति। कः पुनसौ नञ र्थो? निवृत्तपदार्थकः। ब्राह्मणदृष्टस्य गौरत्वादेर्दर्शनाद् दृष्टोपदेशाद्वा पूर्वं ब्राह्मणोऽयमित्यध्यवस्यति। ततः पश्चादुपलभते-`नायं ब्राह्मणः' इति ततोऽब्रह्मणोऽयमिति प्रयुङ्क्तो। आतश्च तद्दृष्टगुणदर्सनाद् दृष्टोपदेशाद्वा ब्रह्मणत्वाद्यध्यवसायपूर्वकमेव नायं ब्राह्मण इति ज्ञानम्। नह्ययं कालवर्णमापणेदृष्ट्वाऽध्यवस्यति ब्राह्मणोऽयमिति। यथास्थितं वस्तुतत्त्वं तस्य निर्ज्ञातं भवति" इति नञ्सूत्रभाष्यपर्य्यलोचनया कैयटोक्तार्थस्यैव साधुत्वं लभ्यते। तथापि तद्भाष्यस्य सेदप्रत्यक्षे क्वचिद् यो यानुपलब्धेर्हेतुत्वप्रदर्शनपरतयैवोपपत्तेर्नञ आरोपवाचकत्वे तदुपष्टम्भकत्वाभावात्।
अन्यथाऽत्यन्तासदृशे उक्तयुक्त्या तदारोपासम्भवेन तत्र नञर्थस्तदर्थकत्वासम्भवात् `अघटः पदः' इत्यनापत्तेः। `प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमौ' इति तान्त्रिकोक्ते नीलो घटः' इत्यादौ तादात्म्येन घटांशो नीलपदार्थभानान्नञ्समभिव्याहारे तादात्म्यसम्बन्धावच्छिन्ननीलाभाववोधस्य सर्वानुभवसिद्धस्य ऩञोऽभावार्थकत्वं विनाऽनुपपत्तेर्नेदं रजतमिदं रजतमिति वाक्यजन्यबोधयोस्तत्त्दभावानवगाहितया परस्परप्रतिबन्द्यप्रतिबन्धकभावानापत्तेश्च नञो भेदार्थकत्वमावस्यकम्।
नचं नञोऽभेदार्थकत्वे `अब्राह्मणमानय' इत्यादितो ब्राह्मणभिन्नलोष्टादेरपि बोधाऽऽपत्तिः। नचेष्टापत्तिः, नह्मब्राह्मणमानयेत्युक्ते लोष्टमानीय कृती भवति' इति भाष्यविरोधादिति वात्यम्, घटत्वेन घटार्थकघटपदात् सन्निहितव्यक्तिबोधवत् प्रकारणादिना ब्राह्मणभिन्नमात्रार्थकाद् ब्राह्मणपदात् क्षत्रियादेरेव बोधसम्भवात्। तस्मादघटो न पद इत्याद्यसम्स्ते नञो भेदे एव शक्तिः, भेदत्वस्याखण्डोपाधितया तस्य शक्यताऽवच्छेदकत्वे लाघवात्। समासघटकस्य तस्य तु उत्तरपदस्य तद्भिन्ने लक्षणायां तात्पर्य्यग्राहकत्वमेव। नच "न ब्राह्मणैरेतैरुपद्रूतम्" इत्यादौ नञो भेदार्थकत्वे तत्प्रतियोग्यनुयोगिवाचकपदयोः समानविभिक्तिकत्वाऽनुपपत्तिः, सामानाधिकरण्याभावादिति वाच्यम्, प्रतियोग्यनुयोगिनोरभेदान्वयबोधौपयिकाकाङ्क्षायां सत्यामेव नञा भेदबोधनेन तयोः समानविभक्तिकत्वस्य तदुपजीव्यत्वात्। एवञ्च नञा भेदबोधने प्रतियग्यनुयोगिवाचकपदयोः समानविभिक्तिवचनत्वं नियामकमत एव `भूतले न घटः' इत्यादौ न भेदबोधः।
दृश्यते च-"यजतिषु ये यजामहं कराति नानुयाजेषु" इत्यत्र नञा पर्य्युदासबोधः। उक्तवाक्ये यजतिशब्दो यगस्वरूपवचनः। तथाच अनुयाभिन्नेषु यागेषु ये यजामहशब्दवन्मन्त्रं कचोति=उच्चारयतीत्यर्थः। अत एवात्रानुयाजभिन्नेषु यजतिषु ये यजामहपदवन्मन्त्रप्रयोगरूपैकार्थविधानादेकविवेयार्थकत्वरूपैकवाक्यत्वमुपपद्यते। अन्यता यागेषु ये यजामहपदवन्मन्त्रविधआनमनुयाजेष निषधविधानमिति विधेरद्वयार्थकत्वरूपवाक्यभेदापत्तेः, ये यजामहपदानुषङ्गकल्पने गौरवाच्चेति भावः।
अन्ये तु-शास्त्रविहितप्रतिषिद्धत्वात्, षोडशिग्रहणाग्रहणवद्विकल्पापत्तेर्नानुयाजेष्वित्यत्र नञः प्रतिषेधार्थकत्वम्। तथाहि-क्रियायाः कारकसाकाङ्क्षत्वाद् विनिगमनाविरहेण सकलकारकविशिष्टां प्रतियोगिभूतां भावनामुद्दिश्यभावविधिस्तत्र वाच्यः। एवञ्चोद्देश्यस्य प्रसिध्द्यर्थे तत्प्राप्तिरपेक्षिता। प्राप्तिसापेक्षात्वात् प्रतिषेधस्य। प्राप्तिश्च क्वचिद्रागतः, यता-"न कलञ्जं भक्षयेत्" इति। तत्र कलञ्जभक्षणादेरागत इष्टसाधनत्वावगत्या प्रसक्तायाः कलञ्जभक्षणभावनाया निषेधशास्त्रेण निवृत्तिनिश्चयत्वेऽवगतेऽर्थात् तद्वि,यकलञ्जभक्षणस्यानिष्टसाधनत्वाक्षेपात् ततो निवृत्तिः। प्रकृते तु ये यजामहङ्करोतीति शास्त्रादेव सा। एवञ्च निषेधस्य शास्त्रविषयत्वेन प्राबल्यवद् विधिशास्त्रस्याप्युपजीव्यत्वेन प्राबल्यान्निषेधेन विधेरत्य न्यबाधायोगाद् विकल्प एव प्राप्नोति।
विकल्पे च "व्रीहिभिर्जुहोति" "यवैर्वा जुहोति" इत्यादौ प्रथमं व्रीह्यनुष्ठाने वेदस्य विपर्य्यासमिति जनकत्वासम्भवाद्यवशास्त्रस्याप्राप्तप्रामाण्यस्वीकारः, प्रतीतप्रामाण्यपरित्यागश्चेति दोषद्वयम्। प्रयोगान्तरे यवोपादाने यवशास्त्रस्य स्वीकृताप्रामाणअयपरित्यागः, परित्यक्तप्रामाण्योपादानञ्चेति दीषंद्वयम्। चतुर्थे यवोपादाने व्रीहिशास्त्रस्यास्वीकृताप्रामाण्यस्वीकारः, स्वीकृताप्रामाण्यत्यागश्चेति दोषद्वयमिति चत्वारोऽन्येऽपीत्यष्टदोषविकल्पापत्त्या नञनुयाजपदाभ्यामनूयाजभेदो बोध्यते। सोऽयं पर्य्युदासः। अस्मिंश्च पक्षे ये यजामहो न कर्त्तव्यतया प्रतीयते, `य-तिषु ये यजामहङ्करोति' इत्यनेनैव तद्विधानात् किन्तु सामान्यशास्त्रविहितयेयजामहमनूद्य तस्यानुयाजव्यतिरिक्तविषयता बोध्यते।
तथाच सामान्यशास्त्रसय् विसेषविधिसापेक्षत्वान्नानुयाजेष्वित्यनेनानुयाजव्यतिरिक्तविषसमर्पणादनुयाजव्यतिरिक्तेषु ये यजामहः कर्त्तव्यतया प्रतीयतेऽनुयाजेषु तु नच कर्त्तव्यतया प्राप्तः, नापि प्रतिषिद्धः स इति न विकल्पः। नच नञा निषेधबोधनेऽपि पदशास्त्रेणाऽऽहवनीयसास्त्रस्येव नानुयाजेष्विति विशेषशास्त्रेण यजतिषु ये यजामहङ्करोतीति सामान्यशास्त्रस्य बाधान्न विकल्प इति वाच्यम्,
परस्परनिरपेक्षतोर्हि बाध्यबादकभावः पदशास्त्रेण्ऽऽहवनीयशास्त्रस्यानपेक्षणात् स उचितः। निषेशास्त्रस्य तु प्रतियोगिप्रसिद्धयर्थमस्त्यपेक्षा विध्यर्थस्य। "प्रसक्तं हि प्रतिषिद्धयते' इति न्यायेन न तद्बाधः, असम्भवात्। किन्तूक्तयुक्तया विकल्प एव। तथाच द्विरदृष्कल्पनाप्रसङ्गोऽपि। विधेर्ह्येवं ज्ञायते। यदनुयाजेषु ये यजामहकरणे न कश्चनोपकारो भवति निषेधाच्च तदकरणादनृतवदनाकरणादिव दर्शपूर्णमासयोः स चोपकारोऽदृष्टरूप एवेत्यतोऽपि विकल्पो न युक्तं इत्याहुः।
अत्र केचित्-निषेधशास्त्रानालोचनेन सामान्यशास्त्रालोचनमात्रेण भ्रमात्मकप्रतियोगिप्रसिद्धयाभाववोधनसम्भवेन विकल्पाप्रसक्तेः, विश्षनिषेधे सामान्यविधेस्तदितरपरत्वस्य `ब्राह्मणेभ्यो दधि दातव्यम्' कौण्जिन्याय न दातव्यम्' इत्यादौ व्युत्पत्तिसिद्धत्वाच्च।
नच तत्रापि पर्य्युदास एव नञा बोध्यते, नञा पर्य्युदासबोधेन विशिष्यविशेषणवाचकदयोः समानविभक्तित्वास्येव तयोः समानवचनस्यपि तन्त्रत्वात्, तस्य प्रकृतेऽभावात्। अन्यथा न महतो राज्ञ इत्यादाविव, न महतां राज्ञ इत्यादावपि महद्भेदप्रतीयापत्तिः। एको न द्वावितिवत् कथञ्चित् कथञ्चित् समर्थनेऽपि द्वितीयस्य दातव्यमित्यस्य नैरर्थक्यप्रसङ्गश्च, `बाह्मणेभ्यो दधि दातव्यं कौणिडिन्यभिन्नब्राह्मणोद्देश्यकदधिदानबोधसम्भवादित्याहुः।
विकल्पप्रसक्तिरूपदोषभावेऽपि वाक्यभेदाऽऽपत्तेर्जागरूकतया समानविभक्तिकत्वादेस्तद्बोधनियामकस्य सत्त्वे, च नञः पर्य्युदासाद्थकत्वमेव, नानुयाजेष्वित्यत्रोचितमिति तु परे।
प्रकृतमनुसरामः-*अन्यथेति* लाघवानादरेणाऽऽरोपितत्वस्य नञ्वाच्यत्वाभ्युपगमे इत्यर्थः। *सादृश्यादेः* इत्यादिना पठिष्यमाणाल्पत्वादेः सङ्ग्रहः। `अब्राह्मणसदृशः, पापाभावः, अश्वभिन्न, अल्पोदरा, गवाश्वेतराः पशवोऽप्रशस्ताः, धर्मविरुद्ध इत्यादिक्रमेणार्थः। ननु सादृशयादेरवाच्यत्वे कथं ततस्तद्बोधोऽत आह-*तत्त्विति* तत्पठनं त्वित्यर्थः। *अभिप्रेत्येति* भेदप्रतियोगित्वप्रकारकब्राह्मणादिबोधानन्तरभाविमानसबोधमभिप्रेत्येत्यर्थः।
ब्राह्मणादिबोधस्य तत्तत्पदादेव सम्भवाद्भेदप्रतियोगित्वेन ब्राह्मणादिबोधनाय यदब्राह्मणादिपदोपादानं तत्सादृश्यादिना क्षत्रियादिबोदनार्थमित्यूहमूलकक्षत्रियादिबोधस्य भेदप्रतियोगी ब्राह्मण इत्यादिशक्यार्थबोधोत्तरमेव सम्भवादिति भावः। तद्बोधे शाब्दत्वप्रत्ययस्यानुभावाल्लक्षणयैव सादृश्यादिना ब्राह्मणादिबोध इति त्वन्ये। विशेषणस्य विशेष्यसाकाङ्क्षत्वादाह-*प्रतियोगिनीति* एवञ्च `अब्राह्यणः' इत्यादैः प्रतियोगितया भेदविशिष्टो ब्राह्मण इत्याद्याकारको बोध इति भावः। भेदस्य प्रतियोगितयोत्तरपदार्थान्वये उपपत्तिमाह-*तथाचेति*।
*सर्वनामता* चेत्यादि-प्रथमान्तचुष्टयस्य `उपपद्यते' इत्यनेनान्वयः। सर्वनामता=सर्वनामसंज्ञा। तदन्तविधिनेति शेषः। अन्यथा संज्ञोपसर्जनानां सर्वदित्वाभावे तद्रथस्य नञ्रथविशेषणत्वे ततसंज्ञानुपपत्तिरिति भावः। *अनेकम्* इत्यादावेकभिन्नमिति बोधे स्वीक्रियमाणे एकप्रतियोगिकभेदवति द्वित्वस्य बहुत्वस्य वाऽवश्यम्भावेन ततस्तद्बोधकद्विवचनबहुवचनयोरापत्तिः, एकत्वार्थस् तस्य तत्र बाधात्तद्बोधकैकवचनस्यानुपपत्तिश्चेति भावः।
*तत्पुरुषत्वमिति* भेदेविशेषणत्वे तदनुपपत्तिः स्यात्। *पूरुषेति* तविबादित्रिकसङ्केतितपुरुषेत्यर्थ-। *वचनेति* एकवचनत्वादिरूपेत्यर्थः। "अयुवां भवथ" इत्यादौ युष्मदस्मदर्थाभावविशेष्यकबोधे अभवे द्वित्वाद्यर्थस्य बाधाद् द्विवचनाद्यनुपपत्तिः। `भावना।टन्वयिन्येव सङ्खयाऽन्वयः' इति त्वदभ्युपकमेनान्यार्थगतसङ्खयामादाय द्विवचनाद्युपपादनस्य कर्तुमशक्यत्वादिति भावः।
*अन्यथेति* नञर्थाभावस्योत्तरपदार्थविशेषणत्वे तद्विशेष्यत्व इति यावत्। *पूरुषव्यवस्थेति* "युष्म्द्युपपदे" (पाo सूo 1-4-204) इति सूत्रद्वयाविषयतया "शेषे प्रथमः"(पाo सूo 1-4-107) इतयस्य प्रवृत्त्या प्रथमपुरूषस्यैवापत्तेरित्यर्थः। *नानुपपन्नमिति*। तथाचोक्तव्यवस्था सुलभेति भावः। ननु नञर्थभेदस्य प्रतियोगितयोत्तरपदार्थान्वये 'अघटमानय' इत्यात्र स्वभेदप्रतियोगित्वस्य घटे सत्त्वात्तद्बोधानन्तरं घटानयस्याप्यापत्तिरत आह-मूले-*विशेष्यो वेतिः। विशेषणाकाङ्क्षायामाह-सारे *प्रतियोगिनीति* उत्तरपदार्थरूपप्रतियोगिनीत्यर्थः।
निरूपितत्वं सप्तम्य्रः। उत्तरपादार्थरूपप्रतियोगिनिष्ठविशेसणतानिरूपितविशेष्यताश्रयो नञर्थ इति यावत्। ननु तर्हि उत्तरपदार्थाप्राधान्ये पूर्वोक्तदूषणगणो दुष्परिहरोऽपि आह-*अयम्भाव इति*। *गौणत्वेऽपीति* नञ्समासघटकैतदाद्यर्थस्य नञर्थविशेषणत्वेऽपीत्यर्थः। *ज्ञापकादिति*। तत्सूत्रस्थानञ्समासग्रहणाज्ज्ञापकादित्य्रथः। ज्ञापकतामेव प्रपञ्चयति-*असः चशिव इति*।
"एतत्तदोः" (पाo सूo 3-1-132) इत्यनेन परस्परसाहचर्य्यात् सर्वनामैतत्तद्भायां परस्य सोर्हलि लोपो विधीयते। नञ्तत्पुरुषानातर्गतैतत्तदोरुपसर्जनतया सर्वनामत्वाभावादेनानतिप्रसङ्गे व्यर्थं सदनञ्समासग्रहणं नञ्समासे गुणीभीतार्थस्यापि सर्वादेः सर्वनामताज्ञापनेन चरितार्थमिति भावः। साहचर्य्यज्ञापकत्वस्यासार्वत्रिकत्वं सूचयन् सूत्रे सर्वनाम्नोरेव ग्रहणे मानान्तरमाह-
*अकोरिति* असर्वनाग्नः सर्वनामविहिताकजसम्भवेन तत्पर्य्युदासात् सर्वनाम्नोरेव तयोर्ग्रहणं निश्चीयत इत्यर्थः। एतत्कल्पे एतत्तदुत्तरस्य सोर्हलि इति सूत्रार्थः। अर्थद्वारकसम्बन्धाश्रयणेन व्याख्यानं तु पूर्वकल्पाभिप्रायोणोत्तरपदलक्षणाभिप्रायेण वेति भावः। *विशेष्यानुरोधादिति*। असति विशेष्यनुशासने विशेषणवाचकपदस्य विशेष्यवाचकपदसमानवचनत्वनियमादिति भावः।
ननु विशेषणस्य विशेष्यसङ्खयाविरुद्धसंख्यावत्त्वेऽपि विशेषणवाचकपदात्तद्वचनमित्यत्र प्रमाणाभावोऽत आह-*किञ्चेति*। नन्वेनेकशब्दोपादानादेव द्वयोर्बहूनां वा तत्सिद्धेर्द्धिव चनबहुवचनयोरपि समयपरिपालनार्थत्वसम्भवादेकवचनोपादानं व्यरथमेवेत्यत आह-*औत्सगिकं वेति*। "एकवचनमुत्सर्गतः करिष्यते" इति, "न केवलाः" इति नियममूलवचनविहितमित्यर्थः। सति तात्पर्ये क्वचित, सार्थकमप्येकवचनमिष्यत एवेत्याह-*प्रत्येकमिति* एकभिन्नत्वेनोपस्थितासु योषासु प्रत्येकं सेवनान्वयबोधायेत्यर्थः। उपसंहरति-*नत्विति*। *अत एवेति* अनेकशब्दस्यैकभिन्नार्थकत्वादेत्यर्थः।
*सूपपादमिति*। भेदप्रतियोग्येकार्थकत्वे तु दुरूपपादं स्यात्, एकशेषेण समर्थनं त्वगतिकगतिरिति भावः। भाष्योदाहृते "नैकस्तिष्ठति' इति प्रयोगे `जनः' इत्यध्याहार्य्यम्। प्रत्येकं स्थित्यन्वयबोधार्थञ्च तत्रैकवचनम्। `अनेकोजनः' इति त्वसाध्वेव। उत्तरपदार्थप्रादान्यादिव्यपदेशस्तु प्रायिक इत्याद्यपि बोध्यम्। `अत्वं भवसि' इत्यादिना `अनहम्भवामि' इत्यादिर्हृह्यते। युष्मद इत्यस्मदो।टप्युपलक्षणम्। एवम् `त्वद्भिन्नः' इत्यत्रापि लक्षणोति तु नैयायिकाद्यनुसारेण, स्वमते तदनभ्युपगमात्। `अत्वम्भवसि' इत्यादावारोपादिबोधस्य सर्वानुबवविरुद्धत्वान्नत्र्समासे सर्वत्रोत्तरपदस्य स्वार्थभिन्नलाक्षणिकत्वमेव युक्तमिति भावः।
प्रसज्यप्रतिषेधार्थकनञो व्यवस्थामाह-*एवं न त्वं पचसीत्यादि* नत्रर्थे युषमदर्थान्वये तु प्रकृते पुरुषव्यवस्था न सिद्ध्येदिति सूचयितुं पचसीति मध्यमपूरुषनिर्द्देशः। अधिकं त्वादावेवोक्म्। इदमुपलक्षणम्-`घटौ नस्तः' इत्यादौ द्विवचनाद्यनुपपत्ते। क्रियाप्रतियोगिकाभावविशेष्यकबोधे हेतुमाह-*असमस्तेति* व्याख्यानात् *नञः* तदर्थस्य प्रसज्यप्रतिषेधस्य तादृशनञर्थाभावनिष्ठविशेष्यतानिरूपितप्रकारतासम्बन्धेन बोधे धातुजन्योपस्थितेर्भावनात्वावच्छिन्नविशेष्यतासम्बन्देन हेतुत्वस्य पूर्वमुक्तत्वादिति भावः।
नन्वभावस्य केन रूपेण शक्यता। न तावदभावत्वेन। `चैत्रो न पचति' भेदबोधापत्तेः। प्रसज्यप्रतिषेधत्वेन शक्यत्वेऽपि स एव दोषः, भेदस्यापि योग्यानुपलब्धिजन्यप्रत्यक्षविषयत्वात्। तदनुपस्थितावपि नञोऽभावबोधाच्चेत्यत आह-*स चेति* अभावश्चेत्यर्थः। तथाच नञोऽन्योन्याभावत्वेनात्यन्ताभावत्वेन वाऽभावे शक्तिकल्पनान्न दोषः।
*अत्यन्ताभावत्वेति* अन्तम्=स्वप्रतियोगिनिष्ठाभावप्रतियोगित्वमतिक्रान्तः=व्यभिचरितोऽत्यन्तः। स चासावभावश्चेति विग्रहः। तस्य भावस्तत्त्वम्। स्वप्रतियोगिनिष्ठस्वसदृशाभावप्रतियोगित्वव्यभिचार्यभावत्वमिति यावत्। `अन्तो जघन्यं चरमम्' इत्यमरेणान्तशब्दस्य जघन्ये वृत्तिबोधनात् जघन्यत्वञ्चोक्तार्थस्य जघनवृत्तिबोध्यत्वात्। घटात्यन्ताभावस्य स्वप्रतियोगिनिष्ठात्यन्ताभावप्रतियोगित्वाभाववति घटवृत्तिधर्मे सत्त्वात्तत्त्वं तत्राक्षतम्। घटान्योन्याभावस्य तु स्वप्रतियोगिनिष्ठान्योन्याभावप्रतियोगित्वव्यापकत्वात्तद्व्यावृत्तिः। व्युत्पत्तिप्रदर्शनं चेदम्। लक्षणं त्वत्यन्ताभावस्य तादात्म्येतरसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वम्। *अन्योन्याभावेति* अन्योन्यस्मिँस्तादात्म्येनाभावः=अभवनमिति व्युत्पत्त्या तादात्म्यसम्बन्दावचिछिन्नप्रतियोगिताकाभावत्वमन्योन्याभावत्वम्। ताभ्यां शक्य इत्यर्थः।
वस्तुतस्तु अत्यन्ताबावस्याभावत्वेनैव शक्यता, नतूक्तरूपेण, गौरवात्, तेन रूपेण बोधस्याननुभवाच्च। अत एव "तत्सादृश्यमभावश्च" इत्यत्राभावत्वेनैवात्यन्ताभावोपादानम्।
नच नञ संयोगादिसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वादिनाऽभावे शक्तयनभ्युपगमे `भूतले न घटः" इति वाक्यजबोधस्य संयोगसम्बन्धेन भूतलविशेष्यकघटविशिष्टबुद्धेःविरोधित्वानापत्तिस्तत्संसर्गावच्छिन्नातद्विशिष्टबुद्धौ अभावांशे तत्संसर्गावच्छिन्नप्रतियोगिताकत्वावगाहिन्या एव तदभावबुद्धेः प्रतिबन्दकत्वादिति वाच्यम्,
निरूक्ताभावत्वेन शक्तावपि संयोगादीनां लक्षणे तादात्म्येतरसम्बन्धत्वेनानुगतपरूपणैव निवेश्नीयतया नञ्पदशक्तयाऽप्यभावे विशिष्यसंयोगावचिछिन्नप्रतियोगिताकत्वभानासम्भवात्, प्रतिबन्धकत्वानुपपत्तितादवस्थ्यात्। तादृशविशिष्टबुद्धिविरोधित्वानुरोधेनाकाङ्श्राबलादेव तादृशप्रतियोगिताकत्वस्य विशिष्यप्रतियोग्यभावयोः सम्बन्धविधया भानस्योपगन्तव्यत्वात्।
नन्वन्योन्याभावसाधारणाभावत्वस्य नञ्पदप्रवृत्तिनिमित्तत्वेऽन्योन्याभावे त6 पृथक्शक्तिकल्पनानर्थक्यम्। नचाऽन्योन्याभावत्वप्रकारकबोधानुरोधात्तस्यापि शक्यतावच्छेदकत्वकल्पनमावश्यकम्, अन्यथा तादात्म्यसम्बन्धेन प्रतियोगिबुद्धिविरोधित्वात्। घटाभाववानिति बुद्धेरपि तद्विरोधित्वापत्तेश्चेति वाच्यम्,
तत्राभावत्वस्य नञ्पदाशक्त्या तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकत्वस्य समानविभक्तिकप्रतियोग्यनुयोगिवाचकपदयोः समभिव्याहाररूपाकाङ्श्राबलेन लाभेन तादात्म्यसम्बन्धावच्छिन्नप्रतिगिताकाभावत्वरूपान्योऽन्याभावत्वावगाहितयैव तत्तद्बुद्धेः प्रतिबन्धकत्वोपपत्तौ तेन रूपेण शक्तिकल्पनस्याकिञ्चित्करत्वात्।
नच नास्त्येव तदवच्छिन्ने शक्तिः, पृथगुपादानं त्वभावसामान्यस्य नञर्थत्वालाभायैवेति वाच्यम्, तथा सति "नञर्थाः षट् प्रकिर्तिताः" इत्यस्यासङ्गत्यापत्तेरिति चेत्, स्यादेव, यद्यन्योन्याभावत्वम्=तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वरूपं निर्वक्तुं शक्येत, तदेव न, संयोगितादात्म्यस्य संयोगरूपतया संयोगात्यन्ताभावेऽतिव्याप्तेः। सम्बन्धविधया तादात्म्यनिष्ठावच्छेदकतानिवेशेऽपि संयोगसम्बन्धावच्छिन्नसंयोगधर्मवच्छिन्नप्रतियोगिताकात्यन्ताभावातिव्याप्तितादवस्थात्। तादात्म्यत्वावच्छिन्नतादात्म्यसंसर्गतां निवेश्य परिष्कृतस्य तस्य वाच्यतावच्छेदकत्वे तु `घटस्तादात्म्येन न पटः' इति प्रयोगानुपपत्तिः। एवञ्च तादात्म्यस्यान्योन्याभावप्रतियोगितावच्छेदकसम्बनधत्वमपि प्रामाणिकम्। इह संयोगेन घटो नास्तीतिवत् `अयं तादात्म्येनन घटः इत्यादिप्रत्ययात्। एवञ्च तादृशानुयोगिताविशेषप्रकारताकत्वमेवाभेदसम्बन्धेन प्रतियोगिप्रकारकधीविरोधित्वे तन्त्रमिति तदनुरोधन नञः पृथगन्योन्याभावे शक्तिरावशियकेति।
ननु नञोऽविशेषणात्यन्ताभावबोधकत्वे `भेतले न घटः' इत्यादिवाक्यजबोधेऽत्यन्ताभावभानापत्तिः। नच नञ्पदजन्यात्यन्ताभावबोधेऽनुयोगिवाचकपदोत्तरसप्तमीसमभिवाहारज्ञानस्य हेतुत्वान्नोक्तापत्तिरिति वाच्यम्, `चैत्रो न पचति' इत्यादिवाक्यजभावनात्यन्तभावबोधे व्यभिचारेणोक्तकार्यकारणभावस्यैवासम्भवादिति चेत्,
अत्र वदन्ति-यत्र नञ्समभिव्याहारे प्रतियोग्यनुयोगिनोराधाराधेयभावचसंसर्गबोधौपयिकाकाङ्क्षा तत्रैव नञोऽत्यन्ताभावार्थकत्वोपगमेन नोक्तस्तले तद्बोधापत्तिः, त6 नञ्समभिव्याहारे तादृशबोधौपयिकाकाङ्श्राविरहात्। `न पचति चैत्रः, `नेदं चैत्रस्य' इत्यादौ नञ्समभिव्याहारे तिङर्थस्य कृत्यादेः प्रथमान्तपदोपस्थापितचैत्रादौ षष्ठयर्थस्वत्वस्येदंपदार्थे आधाराधेयभावबोधौपयिकप्रथमान्तपदादिसम्भिव्याहाररूपाकाङ्क्षायाः सत्त्वेन तत्र नञा कृत्याद्यभावबोधनसम्भवात्।
एवञ्च यत्र प्रतियोग्यनुयोगिनोराधाराधेयभावबोधः सप्तमीं विनाऽनुपपन्नस्तत्रानुयोगिवाचकपदात् सप्तम्यप्यपेक्ष्यते। यथा-`भूलते न घटः' इत्यादौ। तदुक्तं दीधितिकृता-"वस्तुतो न पचति चैत्रो नेदं मैत्रस्येत्यादौ विभक्तयर्थकृतिसम्बन्धादेभावस्य बोधने नञा सप्मी नापेक्ष्यते, अपेक्ष्यते च प्रातिपदिकार्थस्येति" इति।
नच चैत्रो न पचतीत्यादौ नञाख्यातार्थभावनाभावबोधने चैत्रौ न पचतश्चैत्रा न पचन्तीत्यादौ द्विवचनाद्यनुपपत्तिः, भवन्मते भावनाऽन्वयिनि सङ्खयान्वयनियमेन भावनान्वयिन्यभावे द्वित्वाद्यभावेन द्विवचनादिना तस्य बोधयितुमशक्यत्वात्। वैयाकरणमते तु तत्र धात्वर्थक्रियाभावस्यैव नञा बोधनेन द्वित्वादिविशिष्टचैत्रकर्तृकक्रियाभाव इति बोधाभ्युपगमेन तादृशानुपपत्त्यभावादिति वाच्यम्,
नञ्समभिव्याहारे भावनाभावान्वयिनि तिङर्थसङ्खयान्वय इति व्युत्पत्त्यन्तराभ्युपगमेन द्विवचनाद्युपपत्तेः। त्वन्मतेऽपि यच्चैत्रकर्तृकः पाकोऽप्रसिद्धस्तत्र चैत्रो न पचतीति प्रयोगानुपपत्त्या क्रियाप्रतियोगिकाभावस्य नञा प्रत्ययितुमशक्यत्वाच्च।
नच तत्र नञा भेद एव बोध्यते। प्रतियोगितया चैत्रादिविशिष्टस्य तस्याऽऽख्यातार्थकर्त्तर्य्येवान्वयान्न तादृसप्रयोगानुपपत्तिरिति वाच्यम्, तथा सति प्रतियोगितासम्बन्धावच्छिन्नधात्व्रथप्रकारकबोधे असमस्तनञ्पदजन्योपस्थितेर्हेतुत्वस्यात्रैव व्यभिचारेण त्वत्सिद्धान्तव्याघातात्। नञ्समभिव्याहारे आख्यातार्थभावनान्वय्यर्थकत्ववत् तत्समभिव्याहारे भावनान्वय्यर्थकत्वरूपसामानाधिकरण्यस्य युष्मदादौ सत्त्वान्न न त्वं पचसीत्यादौ मध्यमादिपुरुषानुपपत्तिः।
यद्वा नञ्समभिव्याहारे स्वबोधकर्तृत्वबोधकत्वम्। तत्समभिव्याहारे तु भूतपूर्वं तदादाय पुरुषोपपत्तिरिति। इदं त्ववधेयम्-`नञ्समभिव्याहारे प्रतियोग्यनुयोगिनोर्थः सम्बन्धो भासते तत्समभिव्याहारे तत्सम्बन्धावच्छिन्नतदभावस्तदनुयोगिनि भासते' इति व्युत्पत्तेर्न भूतले न घट इत्यादावन्योन्याभावबोधस्तन्नियामकं त्वादावेवोक्तम्। परन्तु घटत्वादिविशिष्टोपस्थापकपदसमभिव्याहृतनञादिपदस्य घटत्वावच्छिन्नप्रतियोगितासम्बन्धेन घटप्रकारकाभावशाब्दत्वस्य, तथा नीलादिसाकाङ्श्रघटाद्युपस्थापकपदसमभिव्याहृतनञ्पदस्य नीलघटत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन नीलघटादिप्रकारकशाब्दवुद्धित्वस्य च कार्य्यतावच्छेदकत्वोपगमान्न नीलघटो न घट इत्यादिप्रयोगप्रसक्तिः, भवति च पीतो घटो न नीलघट इत्यादिप्रयोगोपपत्तिरित्याद्यन्यतोऽवधार्य्यमित्याशयवानाह-*इत्याद्यन्यत्र इति* (1-41)
इति वैयाकरणभूषणसारदर्पणे नञर्थनिरूपणम् ।। 7 ।।
*****
(1-42) प्रसङ्गिकं नीपातोपसर्गार्थनिरूपणमित्याशयेन मूलमवतारयति-*प्रादयो द्योतका इति* द्योतकतारूपशक्तिमन्त इत्यर्थः। अत एव `प्रजति' इत्यादौ न प्रकर्षद्यर्थस्य विशेष्यतेति भावः। मतान्तरे तु तात्पर्य्यग्राहकत्वं द्योतकत्वं वक्ष्यति। तत्र येनेत्यत्र यच्छब्दो नोत्तरार्द्धपठितहेतुमात्रपरामर्शकः, किन्तु हेत्वन्तरपरामर्शकोऽपि इत्याह-*अयं भाव इति*। *न धात्वर्थ इति* न तत्प्रयोगान्तर्गतधातुशक्य इत्यर्थः। *आपत्तेरिति* अनुभवादिप्रतीत्यापत्तेरित्यर्थः। *नोपसर्गार्थ इति* न तद्धातुसमभिव्याहृतप्रादिशक्य इत्यर्थः। *अनन्वयापत्तेरिति* एतच्छानुभवादिमात्रप्रतीतिमभ्युपेत्य। वस्तुतस्तथास्वीकारेऽक्रियार्थकत्वेन अनुभवादेर्धातुत्वानापत्तेरिति बोध्यम्।
नन्वनुभवार्थकत्वेऽपि तस्य फलस्थानीयत्वेन तदन्वयिव्यापारसामान्यार्थकान्वादेर्न धातुत्वानुपपत्तिरत आह-*अनुगच्छतीत्यादाविति* अत्रानोरनूभवार्थकत्वे तदनुरोधेन गमेरपि व्यापारसामान्यार्थकताया एवाभ्युपेयतया तथा प्रतीतिर्थुर्वारा स्यादित्यर्थः।
वस्तुतस्तु संयोगावरुद्धव्यापारेऽन्वर्तानुभवस्य बाधेनान्वयासम्भवान्नानोरनुभवार्थकत्वसम्भावनेति भावः। *गौरवादिति* विशिष्टानुपूर्व्याः शक्तातावच्छेदकत्वे गौरवादित्यर्थः। *तथाचेति* धातूपसर्गविशिष्टानां प्रत्येकं प्रतीयमानानुभवार्थप्रतिपादकत्वासम्भवादतिति समुदितार्थः। विद्यमानत्वादीत्यादिनोत्पत्तिर्गृह्यते। लक्षमेत्यस्यानुभवादिरूपेऽर्थे इति शेषः। लक्षणाकल्पिकायास्तत्पर्य्यानुपपत्तेस्तात्पर्य्यग्रहाधीनतया तस्य चोपसर्गसमभिव्याहाराद्यायतत्वादित्यर्थः।
नन्वेतावतोपसर्गस्य तात्पर्य्यग्राहकत्वमेव समायातम्, न द्योतकत्वमत आह-*तथाचेति* तात्पर्य्यग्राहकत्वमेवेत्येवकारेम द्योतकत्वस्य वृत्त्यन्तरत्वव्यवच्छेदः। अनुभवादिफले धातोस्तात्पर्य्यग्राहकत्वस्योपसर्गसमभिव्याहाराधीनत्वात् "उपसर्गाः क्रियायोगे" (पाo सूo 1-4-59) इत्यत्रापि क्रियाविशेषणीभूतार्थतात्पर्य्यग्राहकत्वमेवोपसर्गाः क्रियायोगे इत्यनेन विविक्षितमिति भावः। एतत्तत्त्वमग्रे वक्ष्यते। *तत्रेति* द्योतकत्व इत्यर्थः। सकर्मकत्वस्येत्यनापत्तेरित्यनेनान्वितम्।
ननु मास्तु सकर्मकत्वमत आह-*तत इति*। उपोपसृष्टास्धातोरित्यर्थः। तथाचोपास्यते रहिरित्यादिप्रयोगानुपपत्तिरिति भावः। *तृतीये त्विति* धातुमात्रार्थ इति कल्पे त्वित्यर्थः. *आगतमिति* कर्तृक्तान्तम्। उपाद्यसमभिव्याहारे विना शक्तिं गम्धातोस्तादृसबोधादर्शनात्त्स्येतरार्थपरतायामुपसर्गस्य नियामकत्वलाभादिति भावः (1-42)
(1-43) *तच्चादिष्विति* तत=द्योतकत्वम्। *तत्तदर्थेति* तत्तदर्थबोदकत्वमित्यर्थः।
*अमीषामिति* चादिनिपातानामपीत्यर्थः। *अस्त्येवेति* `घट क्रियते' इत्यादौ कर्मणि लकारदर्शनात् कृञः न सकर्मकत्वानुपपत्त्या साक्षात्कारे लक्षणेति भावः।*एष्विति* साक्षात्कारादिरूपार्थेष्वित्यर्थः। *अन्यथेति* क्वचिदर्थान्तरमादाय कृञः सकर्मकस्य सर्वत्र तत्त्वाङ्गीकारे इत्यर्थः।
*वायुर्विकुरुत इति* विकारानुकूलव्यापारावाचकस्यापि सकर्मकतापत्त्या "अकर्मकाच्च' (पाo सूo 1-3-35) इति विहितात्मनेपदानुपपत्तिरिति भावः। उपास्येत गुरुरित्यादावुपाद्युपसर्गाणामुपासनाद्यर्थवाचकत्वेऽपि पूर्वोक्तसकार्मकत्वानुपपत्ति परिहरति-*अथेति*। *इदमिति* सकर्मकत्वानुपपत्तिरूपमित्यर्थः। *साधकम्*=द्योतकत्वसाधकम्। व्युत्पत्तौ निपातातिरिक्तत्वरिशेषणान्नेयमापत्तिरत आह-*किञ्चेति*। *इत्यपि स्यादिति* अभ्युच्चयवादोऽयं चाद्युपस्थाप्यसमुच्चयस्य नित्यं समुच्चेयसाकाङ्क्षतया समुच्चयार्थकपदप्रयोगं विना चादिप्रयोगासम्भवात्। शब्दशक्तिस्वाभाव्येन नित्यं धातुपरतन्त्रोपसर्गै स्वार्थस्य धात्वर्थविशेषणतयैव बोधनेन दतसमभिव्याहारे तत्प्रयोगस्याप्यसम्भवात्। अत एव वक्षयति-*तुल्यसमाधेयत्वादिति*।
ननु निपातानां वाचकत्वे "चार्थे द्वन्द्वः" (पाo सूo 2-2-29) इत्यादिसूत्रमेव मानम्। प्रादिनां वाचकत्वे तु मानानुपलम्भाद् द्योतकतैवोचितेति चेत्, तत् किम् `ईषद्दुः सुषु कृच्छाकच्छ्रार्थेषु खल्" (पाo सूo 3-3-126) इत्यादिसूत्रात्मकं मानं पाणिपिहितमिति विभावय। षष्ठयादिकमित्यादिपदेन तदर्थविहितद्वितीयादिपरिग्रहः। अभेदातिरिक्तसम्बन्धावच्छिन्नप्रातिपदिकार्थप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दत्वावच्छिन्नं प्रति विशेष्यतया विभक्तिजन्योपस्थितेर्हेतुतया प्रकृति तदभावेन भेदान्वयासम्भव इत्यर्थः। *अन्यथा*=उक्तकार्यकारणभावानभ्युपगमे। *आपत्तेरिति*। भेदेनान्वयबोधापत्तेरित्यर्थः।*आदीति* भेदान्वयसङ्ग्राहकमादिपदमित्यर्थः (1-43)
(1-44) *भेदान्वयेति*। `प्रातिपदिकार्थयोरभेदान्वयः' इति पाठस्तु तादृसान्वयबोधे विभक्तिजन्योपस्थितेर्हेतुत्वस्य केनाऽप्यनभ्युपगमादप्रकान्तत्वाच्च चिन्त्यः। *नि पातातिरिक्तेति*। तथाच समुच्चयाद्यर्थस्य निपातार्थत्वेन न तेन साकं पदार्थान्तरस्य भेदान्वयानुपपत्तिरित्यर्थः। सदृक्शब्दस्य समाना दृगितिव्युत्पन्नस्योपादानेऽनन्वयापत्त्या प्रकृते तुल्यरूढस्य, "तमिवेमं पश्यन्ति जनाः" इति भाष्ये कर्तृकर्मव्युत्पन्नस्य वा तस्य ग्रहणमित्यभिप्रेत्य व्याचष्टे-*सदृशेनेति* तुल्येनेत्यर्थः।
ननु विरुद्धविभक्तिकस्यापि नामत्वादिना तुल्यत्वात् तेनाभेदेनान्वयापत्तिरत आह-*समानाधिकरणेनेति* तथाच समानविभक्तिकपदोपस्थाप्यत्वेन सादृश्यस्य विविक्षणान्नोक्तदोष इति भावः। एवञ्च मूलेऽन्वेतीत्यन्तरमभेदेदनेतीति शेषः. `स्तोकम्पचति' इत्यादौ विभिन्नविभक्तिपदोपस्थाप्यत्वादसदृशेनाप्यभेदान्वयादाह-*असमानाधिकारणेनेति* विशेषवाचकपदप्रकृतिकविभक्तिविरुद्धार्थकविभक्तिप्रकत्युपस्थाप्येनेत्यर्थः।
ननु वाचकतावादिनोक्तव्युत्पत्तेर्निपातातिरिक्तत्वेन सङ्कोचनीयेत्युक्त्यैवाक्षेपव्रौव्ये मूले समानाधिकरणेत्यादिव्युत्पत्तिकथनेऽर्थान्तरमत आह-*अयमर्थ इति* स चेत्थम्-"विभागेन कदाचन" इत्यनेन व्यधिकरणयोरभेदान्वयं व्यपच्छिन्दता नामार्थयोर्भेदनान्वय इति व्युत्पत्तिरेव प्राधान्येन प्रदर्श्यते, नतु समानाधिकरणयोरिति व्युत्पत्त्यन्तरं तथा। कितु दृष्टान्तविधया तदुपन्यसनमिति नोक्तदोषः।
तथाच प्रधानीभूतव्युत्पत्तावेव निपातेतरसङ्कोचोत्कीर्त्तनमिति सर्व सुस्थम्।
ननु नामार्थयोरभेदान्वयबोधे समानविभक्तिकपदजन्योपस्थितिहेतुतायां पदांशे निपातातिरिक्तत्वं निवेशानीयमिति नोक्तदोष इत्यवतरणं तु सध्रीचीनम्। नच तादृशब्युत्पतेरप्रक्रान्तत्वात् कथमेतदिति वाच्यम्, मूलोक्तादिपदेनैव षष्ठयादिकमन्तरेण भेदेनान्वयासम्भवं प्रतिपादयता समानविभक्तित्वेन धवश्चेत्यादावबेदान्वयापादानस्यापि कुक्षिकृतत्वात्तदेव च सामानाधिकरण्यं व्युत्पत्तौ निविष्टमिति यथाकृतमूलसङ्गमनादिति।
ननु तदंन्वयानुपपत्तिरेव मानमत आह-*गौरवञ्चेति*। ननु तवापीदं तूषणं समानमत आह-*अस्माकमिति* द्योतकतावादिनामित्यर्थः। *द्योतकत्वादिति* चादीनां समभिव्याहृतपदसमुचिततत्तदर्थरूपलक्ष्यार्थे तात्पर्य्यग्रहकत्वादित्यर्थः। *नास्तीति* समुच्चयादेस्तन्निरूपकत्वादेश्च समभिव्याहृतपदेनैव लाभात्तस्य पृथगुपस्थित्यभावेनान्वयस्यैवाभावेनोक्तस्थलस्य तादृशव्युत्पत्त्यविषयत्वादिति भावः। *अत एवेति*। व्युत्पत्तौ निपातातिरिक्तत्वविशेषणप्रवेशादेवेत्यर्थः। *लाक्षणिकमिति*। व्युत्पत्तेस्तद्घटितत्वे तु तत्र लक्षणानुसरणं व्यर्थमेव स्यादिति भावः।
नैयायिकास्तु नञो वाचकताया भाष्यसम्मतत्वात् `घटो न पटः' चैत्रो न पचति' इत्यादौ नञर्थभावस्य विशेषणतया घटचऐत्रादिष्वन्वयानुरोधादुक्तव्युत्पत्तौ व्यभिचारवारणाय निपातातिरिक्तत्वविशेषणमावश्यकम्। एवञ्च घटश्च पटश्चेत्यादौ विभक्तिजन्योपस्थिति विनाऽपि चार्थस्य घटादिष्वन्वयः सुलभः।
नच घटो नेत्यत्र घटस्य नामार्थत्वाद्विभक्तिजन्योपस्थितिं विना तत्प्रकारकप्रतियोगितासंसर्गकनञर्थचिशेष्यवोधानुपपत्तिर्दुष्परिहरैवेति वाच्यम्, एतद्भियैव घटादिपदानां तत्प्रतियोगिके लक्षणाऽभ्युपगमात् निपातातिरिक्तनामार्थयोः साक्षाद्भेदेनान्वयोऽव्युत्पन्न इत्यत्र द्विवचनस्वारस्येन निपातातिरिक्तनामार्थनिष्ठभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितनिपातार्थावृत्तिविशेष्यतासम्बन्देन बोधे, विशेष्यतासम्बन्देन विभक्तिजन्योपस्थितेर्हेतुत्वकल्पनाद्वा सामञ्जस्यादित्याहुः (1-44)
(1-45) उक्तव्युत्पत्तेर्निपातातिरिक्तविषयत्वेन पूर्वोक्तदोषपरिहारेऽपि स्थलान्तरे तन्मतेऽन्वयानुपपत्तिर्दुर्वारैवेत्याशयेन मूलमवतारयति-*अपिचेति*। *इत्यर्थ इति* इत्यन्वयबोधः सर्वसम्मत इत्यर्थः। *अयञ्चेति* उक्तार्थान्वयबोधश्चेत्यर्थः। *अन्यथेति* निपातानां वाचकत्वाभ्युपगम इत्यर्थः। व्युत्पत्तिविरोदं व्यक्तीकरोति-(*अत*=उदीचोद्धरणे) *तथाहीत्यादि*।
नन्विवशब्दोत्तर लप्ततीयार्तकरण एवेवार्थान्वयः सुलभोऽत आह-*इवशब्दस्येति*। *असत्त्वार्थकतयेति*। लिङ्गद्यनन्वय्यर्थकतयेत्यर्थः। निपातत्वादिति यावत्। एव़ञ्च कारकानन्वयितावच्छेदकरूपेणोपस्थितेऽर्थे नैराकाङ्क्षयात् कारकान्वयासम्भवेंन तदर्थकत़तीयाया असम्भवादिति भावः। *सम्भवे वेति*। वाकारोऽनास्थायाम्। अव्यये वशब्दस्य क्वाप्यदृष्टत्वात्तदभ्युपगमे तु ततो विभक्तेस्तच्छ्रवणस्य च दुर्निवार्य्यतैव स्यादिति दूषणान्तरमाह-*उस्त्रपदोत्तरेति*। *अनन्वयप्रसङ्गादिति* वाचकतावादिमत इति शेष-।
इदमुपलक्षणम्, तृतीयाऽनुपपत्तेः। उस्त्रस्येवार्थसदृशान्वये उद्धरणकरणत्वस्य तत्राभावात्। अस्मन्मते तूस्त्रसदृशरूपोस्त्रार्थस्य करणत्वान्न तदनुपपत्तिरिति भावः। तदुत्तरं सुब्व्यतिरिक्तप्रत्ययश्रवणत्वापाद्यत्वासम्भवेन समुच्चेयासम्भवामाशह्कय चकारस्यान्यत्रापकर्ष इत्याह-*सुपां श्रवणञ्चेति*। चकारममुच्यं दर्शयति-*उस्त्रपदोत्तरतृतीयेति। तृतीयायास्तदर्थस्य अनन्वयमेव स्पष्टयति-*उस्त्रसदृसेत्यादि*-तत्तत्पदार्थानामित्यर्थः। *भेदेनान्वयेति* सामानादिकरण्यं नामार्थयोरित्युक्तदव्युत्पत्तेरिति भावः।
ननु तर्ह्यभेदान्वयस्तत्र स्यादत आह-*बाधादिति* सादृश्यस्य भेदघटितत्वादिति भावः। अत्रेदं बोध्यम्-वाचकतावादिना इवादिना सादृश्यादिबोधेने पर्य्युदासमञिवानुयोगिप्रतियोगिवाचकपदयोः समानविभक्तिकत्वस्य-
लिङ्गङ्खयाविभेदेऽप्यस्त्युपमानोपमेयता।
विभक्तिः पुनरेकैवमुपमानोपमेययोः।।
इति अनुशासनसिद्धाया नियामकताया अभ्युपगमेन प्रकृते उस्त्रनिरूपितसादृश्याश्रयशरकरणकोद्धरणबोधः सूपपादः। भेदाभेदयोर्विकल्पस्योपन्यासस्तु सारकारोक्तश्चिन्त्य एवेति (1-45)
(1-46) *उत्तरपदार्तप्राधान्याभावादिति* प्राधान्यस्यान्यनिरूपितत्वनियमात्। *द्योत्यार्तमिति* द्योतकतावृत्त्युपस्थापितार्थमित्यर्थः। *तमेवेति*। द्योत्यमेवेत्यर्थः। *अर्थवत्त्वादिति* अयं भावः-द्योतकताया अपि वृत्तित्वेन तयाऽर्थवत्त्वस्य द्योतकेऽप्यक्षतत्वान्न तन्निबन्दनप्रातिपदिकसंज्ञानुपपत्तिः। नहि शक्तिलक्षणान्यतरदेवार्थेपस्थापकमिति वचनमस्तीति।
ननु शब्दादुपस्तितसामान्यस्य विशेषे पर्य्यवस्थापकत्वं द्योतकत्वम्, नतु तदुपस्थापकत्वमेवेति न तदादायार्थवत्त्वसम्भवोऽत आह-*वस्तुतस्त्विति*। *ज्ञापकादिति* द्योतकतावादे तेषामनर्थकत्वादेव सुबपावे लुग्विघानमनर्थकं सदुक्तार्थे ज्ञापकमिति भावः।
ननु स्वारादीनां सत्त्वावचनानामपि सत्त्वात्तद्विहितसुब्लुग्विधानेन चरितार्थस्य तस्य न ज्ञापकत्वमत आह-*निपातस्येति*। तद्वार्त्तिकप्रत्याख्याने त्वाह-कृत्तद्धितेति*। *संग्रह इति* अनर्थकस्यापि निपातस्य प्रातिपदिकत्वमित्यर्थः। उपसंहरति-*तस्मादिति*। एतत्कल्पे मीमांसकसम्मतिमाह-*उक्तञ्चेति*। *चतुर्विध इति* नामाख्यातोपसर्गनिपातभेदेन चतुःप्रकार इत्यर्थः। *पदे*-सुप्तिङन्तरूपे। *द्विविधस्य*=नामाख्यातस्वरूपस्य। अर्थनिरुपणे हेतुमाह-*संशयोत्पत्तेरिति*। नामार्थो जातिः, किं वा व्यक्तिः। धात्वर्थो व्यापार उत फलम्, किं वोभयमिति सन्देहे तन्निरूपमस्योचित्यादिति भावः। *तयोः*-निपातोपसर्गयोः। *व्यापारः*-शक्तिलक्षणान्यतररूपः। *तौ*-उपसर्गनिपातौ। *यदर्थद्योतकौ*-यदर्थविषयकतात्पर्यग्रहजनकौ। *स*-नामाख्यातात्मकः शब्दः। तस्य च तिङ्कृत्तिद्धितघटितत्वात्तदर्थोऽपि विचार्य्यत इत्यर्थः।
यद्यपि स्वाद्यन्तत्वनिबन्धनं नामात्वमुपसर्गनिपातयोरपीति तयोः पार्थक्येन निर्द्देसोऽनुचितः। तथापि लिङ्गसङ्ख्यानिष्ठप्रकारतानिरूपितविशेष्यताशाल्यर्थकत्वरूपपारिभाषिकनामत्वमादाय तथोक्तम्। उपसर्गाणां निपातत्वेऽपि तदुपादानन्तु `ब्राह्मणवसिष्ठ' न्यायेनेति बोध्यम्। ननु `उपसर्गेण धात्वर्थः' इत्यत्र निपातत्वव्याप्योपसर्गत्वेन प्रादीनामुपादानात् कथं तच्चादीनां द्योतकत्वे उपष्टम्भकमत आह-*उपसर्गपदमिति*। *पदान्तरेति*`--चन्द्र इव मुखम्' इत्यादावर्थवत्त्वेन चन्द्रादिनामोपलक्षकमित्यर्थः। एवञ्च न तदूलान्निपातानां वाचकत्वमिति भ्रमितव्यमिति भावः (1-46)
(1-47) इदानीं वाचकतापक्षं परिष्करोति-*नन्विति*। *अन्वयव्यतिरेकाभ्यामिति*। चन्द्र इव मुकम्' इत्यादाविवादिनिपातसत्त्वे सादृश्याद्यर्थप्रतीतेस्तदसत्त्वे तदप्रतीतेश्च निपातानां घटादिपदवद्वाचकत्वमेव युक्तमित्यर्थः। नन्विच्छादिरूपशक्तेरभावात् कथं तेषां वाचकत्वमत आह-*बोधकतारूपेति* तथाच तदर्थबोधकत्वमेव तद्वाचकत्वमिति तेषामपि घटादिपदवद्वाचकत्वमेवेत्यर्थः।
नन्वन्वयव्यतिरेकयोस्तदर्थतात्पर्य्यग्रहे उपयोगस्य प्रागाभिहितत्वान्न तयोर्वाचकताप्रयोजकत्वमत आह-*किञ्चेति*। *उक्तरीत्येति* अनन्यलङ्यस्यैव शब्दार्थतया `प्रजयति' इत्यादौ प्रकृष्टजयस्य लक्षणया जिधातोरेवोपस्थितौ न पदीनां प्रकर्षाद्यर्थकत्वम्, तेषां तात्पर्य्यग्राहकतयैवोपयोगादित्युक्तरीत्येत्यर्थः। *तिङादेः स्यादिति* तत्रान्वयव्यतिरेकाभ्यां कर्त्रादिवाचकत्वावधारणे तु प्रादीनामपि वाचकत्वविधृतिरिति भावः। परे तु "अजर्घाः" "अचकात्" इत्यादौ धातुमात्रात् कर्त्रादिबोधेन तिङा द्योतकत्वे इष्टैवापत्तिः।
नच तत्र लुप्तविभक्तिस्मरणाद् बोधः। लोपमजानतोऽपि बोधात् प्रत्ययलक्षणस्य लोपफलत्वं वदता भाष्यकृता लुप्तविभक्तिस्मरणाद् बोधस्यानभ्युपगमाच्च। यत्र प्रत्ययस्य वाचकता तत्रैव प्रकृतिप्रत्ययार्थयोः, इति नियमावकाशः। यथा-`पाचकः' इत्यादिकृदन्ते। "ल कर्मणि" (पाo सूo 3-4-69) इत्यादौ कर्मकर्तृविषयाद्धातोरित्यर्थान्न तद्विरोधः, "भावे" इत्यस्य सर्वैस्तर्थैव व्याख्यानात्।
नच सर्वत्रैव धातोर्भावनाविषयत्वात्तत्रैव लकारः स्यादिति शङ्कयम्, `भावविषयात्' इत्यस्य केवलक्रियामात्रबोधकादित्यर्थेनादोषात्। अत एव "भावकर्मणोः" (पाo सूo1-3-13) "शेषात् कर्त्तरि परस्मैदम्" (पाo सूo 1-3-79) "द्वयेकयोः" (पाo सूo 1-4-22) इत्यादीनां नियम इति भाष्यकृदुक्तिसङ्गतिः। तेषामनिर्दिष्टार्थत्वेन " अनिर्दिष्टार्थाः स्वार्थे भवन्ति" इति न्यायेन सर्वत्र सिद्धत्वादित्याहुः।
तच्चिन्त्यम्, `व्यतिसे' इत्यादौ धातुं विनापि कर्तृबोधेनाद्ययुक्तेः शैथिल्यात्, तुल्ययुक्त्या सुपामपि द्यातकतापत्तेर्द्धातोर्द्विवचनाद्यनुपपत्तेश्च, प्रत्ययलक्षणस्य लोपफलत्वेऽपि लुप्तविभक्तिस्मरणजन्यबोधस्य फलात्वाभ्युपगमे बाधकाभावाच्च। स्वोत्तरतिङ्वाच्यकर्त्रादिगतद्वित्वारोपेण द्विवचनादिरिति स्वोक्तिविरोधाच्च।
भवदुक्तरीत्यैव कर्त्तृविशिष्टभावनावाचकात्, कर्मविशिष्टभावानावाचकात्, केवलभावनावाचकाच्च धातोर्लकारा भवन्तीत्यर्थे लः कर्मणीत्यर्थपर्य्यवसानेन `अनिर्दिष्टार्थाः' इति न्यायेनापि तत्तत्कारकादिविशिष्टभावनार्थकानां तिङां सर्वत्र सिध्द्यसम्भवेन नियमस्यान्यथैव सङ्गमनीयत्वादित्यन्यत्र विस्तरः।
ननु निपातानां वाचकत्वे `घटो न पटः' इत्यादौद घटादेः प्रतियोगितया नञर्थाभावे तस्य चाऽश्रयतया घटादावन्वयोऽनुपपन्नः। भेदसम्बन्धेन प्रातिपदिकार्थप्रकारकबोधे विशेष्यतया प्रत्ययजन्योपस्थितेर्हेतुतायाम् "नामार्थयोर्भेदनान्वयः" इति व्युत्पत्तिसिद्धत्वात्, एवं "समानाधिकरणनामार्तयोः" इति व्युत्पत्तेरभेदान्वयापत्तिश्चेत्यत आह-*एवञ्चेति*। *विधिवैयर्थ्यमिति* तादृशवार्त्तिकेन प्रातिपदिकसंज्ञाविधानवैयमित्यर्थः।
(*अनर्थकस्येति*) *व्यर्थमिति* व्यभिचाराभावेन तस्य विशेषणत्वायोगादिति भावः। *प्रत्याख्यातत्वादिति* "कृत्तद्धित" (पाo सूo 1-2-46) इत्यत्र चशब्देनैव तदर्थस्य समुच्चितत्वादिति भावः।
वक्ष्यमाणास्वरसादाह-*किञ्चेति* प्रकरणादित्यनेन द्योतकताया वृत्तित्वाभावो ध्वन्यते। *अस्माकमिति* पक्षद्वयाभ्युपगन्दॄणामित्यर्थः। *कार्य्यकारणभाव इति* समुच्चितघटादिशाब्दबोधे घटपदनिरूपितलक्षणाज्ञानत्वेन हेतुतेत्याकारक इत्यर्थः। *शक्तिग्रहस्यापीति* घटाद्यर्थबोधे घटद्यर्थबोधे घटशाक्तिज्ञानस्य, समुच्चयादिबोधे तच्छक्तिज्ञानस्य हेतुतेत्याकारकः कार्य्यकारभावोऽप्यावश्यक इत्यर्थः।
*कल्प्यान्तराभावेनेति* द्योतकतापक्षे वाचकतापक्षेऽपि तत्तत्पक्षक्लप्ताधिककल्पनीयाभावेनेत्यर्थः।
*अत एवेति* कल्प्यपक्षद्वये युक्तिसाम्यादेवेत्यर्थः *स वाचक इति* उपसर्ग प्रक्रम्येदम्, `प्रतिष्ठते' इत्यत्र "गतिनिवृत्तिवाचकः स्थाधातुः, उपसर्गस्तदभावरूपगतिवाचकः" इति पुञ्जराजेन तदर्थस्य कथनात्। `वाचकत्वमेव इत्यस्य निपातानामित्यादिः, एवं `द्योतकत्वमेव' इत्यस्योपसर्गाणामित्यादिः। *मतमेवेतीति*। *वा*=अथवा, अन्वयव्यतिरेकतो निपातानां वचकत्वं युक्तम्। *नः*=अस्माकं मते परेषां यदेकस्य वाचकत्वमपरस्य द्योतकत्वमिति मतम्, तदेव तु न युक्तमिति मूलयोजना (1-47)
(1-48) ननु "चादयोऽसत्त्वे" (पाo सूo 1-4-57) इत्यत्र `असत्त्वे' इति प्रसज्यप्रतिषेधाश्रयणेऽसमर्थसमासापत्तिः, वाक्यभेदापत्तिश्चेति पर्य्युदास एवाश्रयणीयः। तथाचोक्तलक्षणस्याश्रयणेऽनर्थके तस्मिन्नव्यप्तिः। तावदन्यतमत्वस्य निवेशेतु गौरवमत आह-*शक्तिसम्बन्धेनेति*। तस्य लक्ष्यताऽवच्छेदकमभिप्रेत्याह-*जातिरिति*। निपातपदशक्यतावच्छेदकतया च तस्मिद्धिरिति भावः।
ननु हत्वादिना साङ्कर्य्यान्न निपातत्वं जातिः. तथाहि-निपात्वाभाववति हत्वम्, धात्वादिहकारे हत्वाभाववति निपातत्वम् निपातात्मकचकारे तयोरेकत्र हकारे सम्वेशात्। तद्दूषकताबीजं तु स्वसामानाधिकरण्य-स्वभावसामानाधिकरण्योभयसम्बनधेन जातिविसिष्टजातित्वावच्छेदेन स्वसमानादिकरणाभावाप्रतियोगित्वनियमभङ्ग एव। निरुपाधिसहचारग्रहश्च तादृसनियमेऽनुकूलस्तर्कः। अन्यथा तन्मात्रबलप्रवृत्तानां `सात्तावान् जातेः' इत्याद्यनुमानानां विलयप्रसङ्गत्। अत एव `भूतत्वं न जातिः' इति साम्प्रदायिका।
हत्वादिव्याप्यनिपातत्वस्य नानात्वाभ्युपगमेन साङ्कर्य्यस्य परिहारेऽपि सकलचादिसाधरण्याभावेनाननुगततया तस्यैवासिद्धिर्निष्प्रमाणत्वात्। किञ्च कार्यतावच्छेदकत्वादीनां जातित्वसाधकानां तत्राभावादपि न सा जीतिः। शक्यतावच्छेदकत्वं तु न तत्साधकम्, अभावत्वविभुत्वादीनामपि जातित्वापत्तेः। अत एव गुणदीधितौ गुणत्वस्य गुणत्वस्य जातित्वं दीधितिकृता खण्डितमत आह-*उपादिर्वेति*। *सामान्ये*=व्यापकधर्मे। इत्यर्थः।
अयं भावः-उपसर्गेषूभयमतेऽपि द्योतकत्वे, वाचकत्वे वा कल्पनीये त र्मिवृत्तितयोपस्तितोपसर्गत्वनिपातत्वायोरुभयोर्धर्मयोर्मध्ये द्योतकत्वादिकमुपसर्गत्वावच्छेदेन कल्प्यम्, उत निपातत्वाच्छेदेनेति संशये अवच्छेदकनिर्णिनीषायां व्यापकतया निपातत्वावच्छेदनैव तत् कल्प्यते, सङ्ग्रहकलाघवात्। अत एवेश्वरानुमाने कर्तृजन्यत्वं घटत्वादिनाऽवच्छिद्यते, उत कार्यत्वेन, इत्यवच्छेदकजिज्ञासायामुक्तलाघवात् कार्य्यत्वेमेव तदवच्छेदकम्, नतु घटत्वादिकमिति न्यायसिद्धान्त इति।
अत्र वदन्ति-प्रमाणानां सामान्यधर्मस्यावच्छेदकतायां तत्र पक्षपातः, यत्र च बहूनां धर्मामामवच्छेदकत्वकल्पनाप्रयुक्तं गौरवम्। यथा कर्त्तृजन्यत्वानुमाने कृतिजन्यतायां घटत्वाद्यपेक्षया कार्य्यत्वस्य। यत्र तु विशेषोऽप्येक एव तत्रोक्तयुक्तिविरहात्, तस्यैवावच्छेदकत्वम्। अत एव व्यापारस्याधिकसंग्राहकत्वेऽपि कृतित्वस्यैवाख्यातशक्यतावच्छेदकत्वं स्वीकृतत्र्यच मीमांसकैरपि। द्रव्यप्रत्यक्षत्वं विहाय द्रव्यचाक्षुषत्वस्यैव रूपकार्य्यतावच्छेदकत्वम्। प्रकृते व्यापकत्वान्निपातत्वाधिकसंग्रहकत्वेऽपि व्यापकोपसर्गत्वस्याप्येकत्वेन तस्यैवावच्छेदकत्वमुचितम्। निपातत्वास्याद्योतकेऽवाचके पादपूरणमात्रार्थके वृत्तित्वेनातिप्रसक्तत्वात्, प्रादयो द्योतकाः, उपसर्गत्वात्' इत्यनुमानाच्च।
नच प्रादीनां द्योतकता निपातत्वलिङ्गेनैव सेत्स्यतीति वाच्यम्, तस्योपसर्गत्वरूपोधिमत्ततया तदसाधकत्वात्। नच चेष्टादौ साध्याव्यापकत्वान्न तस्योपाधित्वमिति वाच्यम्, शुद्धसाध्ययाव्यापकत्वसम्भवात्। अस्ति हि निपातत्वावच्छिन्नं द्योतकत्वं यत्र तत्रोपसर्गत्वम्, यत्र निपातत्वं नञादौ तत्र तदभावात्। ननु प्रकर्षद्यर्थः, तदन्वयव्यतिरेकानुविधायिशाब्दधीविषयत्वात्। यत्र यदन्वयव्यतिरेकानुविधयिसाब्दधीविषयः स तद्वाच्य इति सामान्यव्याप्तौ घटादिदृष्टान्तः।
नचानन्यलभ्यत्वमुपाधिः, तस्य वाच्यत्वरूपसाध्यव्यापकत्वात् कर्त्रादौ आख्यातान्वयव्यतिरेकानुविधायिशाब्दधीविषये साधनाव्यापकत्वादिति वाच्यम्, उक्तहेतुघटकशाब्दबुद्धेराक्षेपाद्यजन्यत्वेन विशेषणेनानन्यलभ्यत्वस्य साधनव्यापकत्वेनोपाधित्वायोगात्।
नच स्वरूपासिद्धिः, धातोरेव प्रकृष्टजयारथकत्वेनोपसर्गस्य तात्पर्यमात्रग्राहकत्वादिति वाच्यम्, धातोः प्रकृष्टजयार्थकत्वस्य ग्रन्थकृतैव खण्डनात्। नापि लक्ष्यता तस्य, प्रोत्तरत्वादेर्लक्षमतावच्छेदककोटिप्रवेशे गौरवात्। तस्माज्जयत्यादि धातोः शक्यतावच्छेदकम्, प्रकर्षत्वादिकं तूपसर्गस्येति वाच्यम्। तथाच क्व देत्वसिद्धिः। किञ्चार्थस्य धातुलक्ष्यत्वे जिपूर्वप्रत्वेनापि विनिकमनाविरहाल्लक्षकतावच्छेदककोटौ निवेशापत्तिः। नापि तदर्थस्य धात्वर्थेन साकमनन्वयप्रसङ्गः, निपातातिरिक्तत्वस्योक्तव्युत्पत्तौ विशेषणात्। एवञ्च `प्रतिष्ठते' इत्यादौ धातोर्गत्यभावोऽर्थः, तदभावश्चोपसर्गार्थः।
तथाच ततो गत्यभावाभाववानिति धीः, गमनत्वप्रकारकबोधस्तूत्तरकालिको मानस एवेति चेन्न,`प्रत्ययानाम्' इति व्युत्पत्तेर्जागरूकतया गमनाभाववानिति बोधस्यापि गगनकुसुमायमानत्वात्।
किञ्च तथाबोधाङ्गीकारे तादृशस्थले प्रादीनामुपसर्गत्वमपिं दुर्घटम्, क्रियाया अविशेषकत्वात्। क्रिया ह्यत्रोपसर्गाभावविशेषिका, नतूसर्गार्थो क्रियाभावविशेषकः। स्वादीनां द्योतकताव्यवस्थापनोक्तरीत्याप्युपसर्गाणां साऽवसेयेति। निपातानान्तु केषाञ्चिद् वाचकत्वम्। तत्र नञर्थो निरूपितः। चार्थस्च समुच्चयादिभेदेन चतुर्विध इति "चार्थे द्वन्द्वः" (पाo सूo 2-8-89) इत्यत्राकरेषु व्यक्तमेव।
इवार्थस्तु सादृश्यम्। तच्च तद्भिन्नत्वे सति तद्रतधर्मवत्वम्। यत्तु-सादृश्यं न बेदघटितमिति, तन्न तावतपि "नञिवयुक्तम्" इति परिभाषणेन तस्येवार्थत्वानपायात्। तद्बोधकानुयोगिप्रतियोगिवाचकपदयोः समानविभक्तिकत्वं नियामकम्। नातश्चन्द्र इव मुखमित्यर्थे चन्द्रेणेव मुखमिति साधु।
एवकारस्य त्वन्ययोगव्यवच्छेदः, अयोगव्यवच्छेदः, अत्यन्तायोगव्यवच्छेदश्चार्थः। तत्र विशेष्यगतैवस्थले-`पार्थ एव धनुर्द्धरः' इत्यादावन्यतादात्म्यव्यवच्छेदोऽर्थः। अन्यत्वञ्च-समभिव्याहृतपदार्थापेक्षिकम्। तथाच पार्थान्यतादात्म्याभाववद्धनुर्द्धराभिन्न, पार्थ इति बोधः। `पृथिव्यामेव गन्धः' इत्यत्र पृतिव्यन्यसमवेतत्वाभाववान् पृथिवीसमवेतस्च गन्धः' इति बोधात्तादृशबोधे सप्तमीरूपविशे,णविभक्तिसमभिव्याहारोऽपि नियामकः। अत्र भावान्वयबोधानुपगमे पृथिव्यामेवाक्रासमित्यपि प्रसज्येत। एवञ्चैवकारेणान्ययोगव्यवच्छेदबोधे विशेष्यवाचकपदविशेषणवाचकसप्तम्यन्तान्यतराव्यवहितोत्तरैवशब्दो हेतुः। विशेषणसङ्गतैवस्थलेऽयोगव्यवच्छेदः। `शङ्ख पाण्डुर एव' इत्यादौ शङ्खत्वावच्छेदन पाण्डुरवत्त्वसमावायाभावव्यवच्छेदबोधात्। `नीलं सरोजं भवत्वयेव' इत्यादौ क्रियासङ्गतैवस्थलेऽत्यन्तायोगव्यवच्छेदोऽर्थः।
अत्र केचित्-अयोगे आत्यन्तिकत्वं व्यवच्छिद्यते। तच्चान्वयितावच्छेदकव्यापकत्वम्। खण्डशश्च तत्र शक्तिः। तथाचोक्तस्थले सरोजनिष्ठाभावप्रतियोगिनीलभवनाभाव इति बोध इति वदन्ति।
वस्तुतस्तु अन्ययोगव्यवच्छेदायोगव्यचव्चछेदयोरेवैवकारस्य शक्तिः। अन्वयितावच्छेदकावच्छेदेनायोगव्यवच्छेदबोधग्रहणाध्ययनार्थकधानुसमभिव्याहारस्यापि नियामकत्वात् `ज्ञानमर्थ गृह्णात्येव' इतिवन्न ज्ञानं रजतं गृह्णात्येवेत्यादिप्रयोगः। क्रियान्तरसमभिव्याहारे तु प्रायः सामानाधिकरण्येन तद्भानम्। इत्थञ्चान्वयितावच्छेदकसामानाधिकरण्येनान्ययोगव्यच्छेदोऽत्यन्तायोगव्यवच्छेदोऽन्वयितावच्छेदेन त्वयोगव्यवच्छेद इति व्यवह्रियते। विस्ततरस्त्वन्यतोऽवधार्य्यः।
`क्वेव भोक्ष्यसे' इत्यादावसम्भावनाऽपि तदर्थः। एवमन्येषामपि सार्थकानां निपातानामर्था ऊह्याः। वैयाकरणमते त्वेवकारस्य वाचकत्वासम्भवादवधारणात्मकज्ञानविशेषद्यतकत्वेमेव। स च समभिव्याहृतपदार्थानुरोधादनेकविधः। यथा ज्ञानमर्थं गृह्णात्येव, इत्यत्रावच्छेदकावच्छेदेनार्थग्रहणाभावानधिकरणज्ञानप्रकारकज्ञानविषयो ज्ञानकर्तृकमर्थकर्मकं ग्रहणमिति बोधादुक्तपदार्थघटितः सः। परन्त्वनेकघात्वादीनां तत्तदर्थे वृत्तिकल्पनापेक्षयैवकारस्यैव सोचितेत्यन्ये।
यद्यप्युपसर्ग प्रकम्य-
स वाचको विशेषणां सम्भवाद् द्योतकोऽपि च।
इति हरिमा पक्षद्वयमविशेषेणोक्तम्। ग्रन्थकृता च तदेवानुसुतम्। तथाऽपि
क्वचित् सम्भविनो भेदाः केवलैरनिदर्शिताः।
उपसर्गेम सम्बन्धे व्यज्यन्ते प्रसरादिना।।
इति तदुक्तोपसंहृतिपर्य्यालोचनयोपसर्गाणां द्योतकत्वमेवावसीयते।
अत्रेदं बोध्यम्-उपसर्गत्वाद्यजानतोऽपि `प्रजयति' इत्यादौ प्रकृष्टजयबोधात् नैव तेषां द्योतकत्वम्। निपातानामपि चत्वादिनैव वाचकता, यत्र न वाचकतामन्तरेम निर्वाहः। क्वचिद् द्योतकत्वमप्युक्तयुक्तयनभ्युपगमे। यथा "शरैरुस्त्रैः" इत्यादौ। क्वचिन्नोभयम्। यथा पादपूरणमात्रार्थके त्वादौ। तदुक्तम्-
निपाता द्योतकाः केचित् पृथगर्थाभिधायिनः।
आगमा इव केऽपि स्युः सम्भूयार्थस्य वाचकाः।। इति।
केचिदित्युभयान्वयी। नतूपसर्गत्वेन प्रादीनाम्, निपातत्वेन चादीनां द्योतकता वाचकता चेति स्थिते; उपसर्गत्वावच्छेदन द्योतकता, न निपातत्वावच्छेदेनेति विवादः सिद्धान्तानालोचनमूलक एव। कर्मप्रवचनीयानान्तु नोपसर्गवत् क्रियाविशेषकत्वम्, किन्तु क्रियागतसम्बन्दविशेषकत्वम्, कर्म=क्रियां प्रोक्तवन्तः `कर्मप्रवचनीयाः' इत्यन्वर्थसंज्ञानात्। अधिपर्य्योस्तु सूत्रारम्भसार्थ्यादेव सा। `जपमनुप्रावर्षत्' इत्यत्र हेतुभूतजपनिरूपितलक्ष्यलक्षणभावसम्बन्धस्य वर्षणक्रियानिष्ठस्यानुना द्योतनात्। एवमन्यत्रापि ज्ञेयम्। अत एव न तेषामुपसर्गात्वम्। क्रियःगतविशेषद्योतको ह्युपसर्गः। उत्तञ्च हरिणा-
क्रियाया द्योतको नां सम्बन्धस्य न वाचकः।
नापि क्रियापदाऽऽक्षेपी सम्बन्धस्य तु भेदकः।। इति।
तदर्थस्तु-कर्मप्रवचनीयसंज्ञकोऽन्वादिः, `प्रजयति' इत्यादावुपसर्गवन्न क्रियागतविशेषस्य द्योतकः। विभक्त्येवोक्तत्वाच्च न सम्बन्धस्य वाचकः। नापि `प्रादेशं विलिखति' इत्यादौ विशब्दवत् क्रियाक्षेपकः, तत्र विना मानक्रिया क्षेपात्। तथा सति तत्तत्क्रियानिबन्धना कारकविभक्तिरेव स्यात्। किन्तु विशिष्टक्रियाजनितो यः सम्बन्धो विभक्त्यर्थ इति तद्द्योतकः। `प्रादेशं विमाय लिखति' इत्यर्थप्रतीतेरित्यधिकमन्यतोऽवधार्य्यम् (1-48)
इति बैयाकरणभूषणसारदर्प्पणे उपसर्गनिपातार्थनिरूपणम् ।। 8 ।।
*****
(1-49) प्रक्रान्ते नामार्थनिरूपणे नामघटककृत्तद्धितानामर्थमुपोद्धातसङ्गत्या निरूपयिष्यन्नादौ प्रकृत्यर्थप्रकारत्वाद्भावप्रत्ययार्थनिरूपणमित्याशयेनाह-*भावेति* ष्यञ्वुञादेरपि सम्बन्धरूपभावबोधकत्वात् तत्संग्रहार्थमाह-*त्वतलोरिति*। *भावप्रत्ययेति* भावविहिततद्धितप्रत्ययेस्यर्थः। रहिवाक्यं विवृणोति-*अयमर्थ इत्यादिना*। `इत्युक्तम्' इत्यस्य समासशक्तिनिरूपणावसर इति शेषः। *सम्बन्धमिति* उत्तरपदार्थे पूर्वपदार्थसम्बन्धस्यैव धर्मत्वेन भासमानत्वादिति भावः।
- भेदपक्ष इति* तत्पक्षे हि `राजपूरुषः' इतयत्र `अराजकीयभिन्नः पुरुषः' इति बोधेन पुरुषांशे राजसम्बन्धाभानादिति भावः। *उपग्वपत्यसम्बन्ध इति* उपग्वपत्ययोर्जन्यजनकभावात्मकः स्बन्द इत्यर्थः। *अन्वयबोध इति* तत्तत्पदोत्तरभावप्रत्ययस्य तत्तत्सम्बन्धवाचकत्वादिति भावः।
*अव्यभिचरितसम्बन्धे त्विति* अव्यबिचरितसम्बन्धरूपजात्यैव भानोपगमे त्वित्यर्थः। तुशब्दसूचितारुचिबीजन्तु "तस्यापत्यम्' (पाo सूo 4-1-82) इत्यनेन षष्ठीप्रकृत्यर्थोपग्वादिसम्बन्धेऽपत्येऽणादीनां विधानेन षष्ठयर्थसम्बन्दान्तर्भावेणैव तत्रैकार्थोभावस्योपगन्तव्यतया तत्रापत्याद्यंशे संसर्गस्यैव प्रकारतया तस्यैव तदुत्तरभावप्रत्ययार्थत्वेन जातेरतद्वाच्यत्वासम्भवादिति। *अर्थान्तरवृत्तिरिति* धात्वर्थघटितार्थवृत्तिराक्षिकाद्यन्तर्गतष्ठगादिरित्यर्थः। तदर्थेकर्त्रादौ देवनादिरूपक्रियायाः क्रियाकारकभावसम्बन्धस्य प्रकारतया भानादित्याशयः।
* रूढेरिति* कथमप्यवयवयोगादर्थविशेषप्रसिद्धादित्यर्थः। *अभिन्नरूपादिति* प्रत्ययान्तत्वेऽपि प्रत्ययलुका प्रकृतिसमानाऽऽकारात् `शिष्यमाणं लुप्यमानार्थाभिधायि' इति न्यायेन प्रकृत्यर्थान्वितप्रत्ययार्थाभिधायिन इत्यर्थः। *अव्यभिचरितसम्बन्धेभ्य इति* अव्यभिचरितो व्यक्तिनिष्ठात्यन्ताभावाप्रतियोगी सम्बन्धः समवायात्मको यस्य जात्यादेस्तद्विशिष्टवाचकेभ्य इत्यर्थः। नातः पाकादिना नाशेन स्वाश्रयनिष्ठाभावप्रतियोगिनां तत्त्वम्। *उक्तेति* तद्वितान्तत्वेऽपीत्यपिना तदुत्तरभावप्रत्ययेन सम्बन्धाभिधानं प्राप्नोतीति सूचितम्। *अभेदप्रत्ययादिति* इदञ्च षष्ठयर्थे विहितस्य मतुपः सम्बन्धार्थकत्वाशङ्कानिरासाय। `तृतीयम्' इत्यस्योदाहरणं यथेति शेषः।
*सत इति * सच्छद्बजन्यबोधे सत्रर्थकर्त्रशे सत्तायाः प्रकारतया भानात्तदुत्तरभावप्रत्ययेनापि सैवाभिधीयते इत्यर्थः। तथाचोक्तस्थलेषु भावप्रत्ययान्तात् सम्बन्धाभानादुक्तवाक्ये अन्यत्रेत्युपात्तमिति भावः।
ननु `शुक्लत्वं सत्त्वम्' सतोऽपि शौक्ल्यादिसम्बन्धस्य भावप्रत्ययेनानभिधानवत् `राजपुरुपषः" इत्यत्रापि तदनभिधानं स्यात्, तत्रापि राजादीनां पुरुषादिपदार्थे स्वत्वादिसम्बन्धेन प्रकारतेत्यस्यापि शक्यत्वादित्यत आह-*दिगिति* तदर्थस्तु निर्वक्ष्यमाणभावे "तस्य भावः" (पाo सूo 5-1-11) इति सूत्रेण त्वतलादयो विधीयन्ते।
ननु जातित्वादिना जातावेव सम्बन्ध एवेति नियमः। तथाच `यत्प्रकृतेर्यद्धर्मप्रकारबोधः शास्त्रकृत्सम्मतः स एव धर्मस्त्वाद्यभिधेयः' इति रुढयादिभिन्नप्रकृतेः कृदन्तादितोऽपि सम्बन्धप्रकारकबोधस्य भाष्यसम्मतत्वात् तस्यैव भावप्रत्ययेनाभिधानमुचितमिति नोक्तेषु भावप्रत्ययस्य जात्याद्यभिधायकत्वमिति (1-49)
(1-50) `प्रकृत्यर्थविशिष्टद्रव्यमात्रवचनता' इति पाठः। मात्रपदेन सम्बन्धव्यवच्छेदः। *तद्धितस्यैति* इन्यादेरित्यर्थः। *सम्बन्धानभिधायकत्वेनेति* प्रकृतिजन्यबोधे तस्याप्रकारत्वादिति भावः।
ननु प्रकृतीजन्यबोदविषयत्वे सति प्रकृत्यर्थवृत्तित्वं भावत्वम्। तच्च दण्डसम्बन्धस्याक्षमिति भावप्रत्ययेन तदभिधानं भविष्यतीत्यत आह-*प्रकृतिजन्यबोध इति* उक्तार्थस्य भावत्वे तु `दामोदरत्वम्' इत्यादौ जातिगुणसम्बन्दस्यापि भावार्थता प्रसज्येतेति भावः। क्रमेणदलद्वयव्यावर्त्त्यमाह-*अन्यथेति* एकतरदलमात्रोपादाने इत्यर्थः। *तदुत्तरेति* घटदण्डिपदोत्तरेत्यर्थः. तथाच `घटत्वम्' इत्यादौ द्रव्यत्वस्येव त्वन्मते दण्डीत्यादौ दण्डसम्बन्धस्याप्यपदार्थतयाऽप्रकारत्वादभावत्वेन न तस्य प्रत्ययार्थत्वसम्भव इति भावः।
वस्तुतस्त्वन्त्यदलोपादानं व्यर्तम्, मतुबादीनां सम्बनध्यर्थकतया दण्डीत्यादिवाक्यजन्यबोधे सम्बन्धस्यैव प्रकारत्वेन दण्डादीनां प्रकृत्यर्थेऽप्रकारत्वादेवानतिप्रसङ्गात्। मीमांसकैकदेशिमते मत्वर्थोयानां सम्बन्धवाचकत्वेऽपि तदाक्षिप्ताश्रयनीयम्। *सम्बन्धः प्रकार इति* अस्य येन तस्य त्वादिप्रत्ययवाच्यता स्यादिति शेषः।
मीमांसकमतमुपन्यस्यति-*यत्त्विति*। * अत्र* दणिडित्वमित्यादौ। *स्वसमवेतः*--त्वादिप्रकृत्यर्थसमवेतः। नीलत्वामित्यादौ नीलादिगुणवन्न सम्भवति यतोऽतः सम्बन्धस्यैव भावप्रत्ययवाच्यत्वमाश्रितमित्यर्थः। दण्डादेः प्रकृत्यर्थाशे प्रकारत्वेऽपि प्रकृत्यर्थासमवेतत्वेनाभावत्वादिति भावः।
*सम्बन्धिवाचकत्वेनेति* "तदस्यास्त्यस्मिन्" (पाo सूo 5-2-94) मतुपः सम्बन्धे विधानेऽपि, 'दण्डी पुरुषः" इति सामानाधिकरण्यानुपोधात् सम्बन्धिवाचकत्वस्यावश्यकत्वादिति भावः। *गत्यभावाभावादिति* सम्बन्धस्यैव भावत्वसम्भवादिति भावः। *आदावेवेति* एवम् `वैश्वदेवी' इत्यादिसामानाधिकरण्यस्योक्तरीत्यैवोपपत्तेरित्यन्तग्रन्थेन भूषणे इत्यर्थः। *तवापीति* वैयाकरणस्यापीत्यर्थः। *इदम्*-क्वचिज्जात्यादिवाचकत्वम् क्वचित् सम्बन्धवाचक्तवमित्येवं रूपं वैषंम्यमित्यर्थः।
ननु प्रकृतिजन्योबोधप्रकारकत्वेनैवोपाधेः संग्रहे तस्य पृथगुपादानं व्य्रथम्त आह-*प्रकृतिजन्योति*। स च प्रकृत्यर्थवृत्तिरसाधारणो धर्मस्तस्मिन्नसाधारणत्वम्-तदितरावृत्तित्वे सति सकलतद्वृत्तित्वम्। सत्यन्तोपादाने द्रव्यत्वादेर्घटासाधारण्यम्, विशेष्योपादानाच्च तद्वयक्तित्वादिनिरासः। तेन रूपेण धर्मो भावप्रत्ययवाच्यः। तत्र तत्पदार्थस्य घटादेस्त्वादिप्रकृत्यैव लाभादनन्यलभ्य इतरावृत्तित्वादौ भावप्रत्ययस्य शक्तिः। तत्रापीतरवृत्तित्वमभावः। साकल्यं वृत्तिमच्च विशकलितमर्थः। इतरवृत्तित्वप्रतियोगिकाभावस्यातिप्रसख्तत्वादितरवृत्तित्वत्ववच्छिन्नप्रतियोगिताकाभावस्याप्रसिद्धत्वाद् घटत्वादौ बाधाच्च विशिष्टस्य शक्य्तवासम्भवात्। अत्र च प्रकृतिजन्योबोदे येन सम्बन्धेन प्रतिपाद्यतावच्छेदकधर्मस्य प्रकारता तेन सम्बन्धेनेतरावृत्तित्वं वृत्तिमत्त्वञ्च बोध्यम्। नातः कालादौ कालिकादिस्बन्धेन घटत्वस्य वृत्तावपि क्षतिः। नवा घटत्वमित्यादौ कम्बुग्रीवादिमत्त्वस्य भानम्। प्रमेयत्वमित्यादौ त्वतारावृत्तित्वांशो न भासते, अप्रसिद्धत्वात्, किन्तु सकलप्रमेयवृत्तित्वमात्र्। एवम् `एकत्वम्' इत्यत्र साकाल्यांशोऽपि। नच विशिष्टस्यानतिरिक्तत्वमते गुणान्यत्वविशिष्टसत्त्वमित्यादौ विशिष्टसत्त्वे विशिष्टसदितरावृत्तित्वस्य महत्त्वामित्यादौ सकलमहद्वृत्तित्वस्य महत्परिमाणादौ चासम्भव इति वाच्यम्, तदितरत्वव्यापकात्यन्ताभावप्रतियोगितावच्छेदकतद्वृत्त्यत्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वे दलद्वयतात्पर्य्ये णादोषात्। तत्राद्यदलं घटत्वमित्यादौ द्रव्यत्वादेरसाधारण्यवारणायेति भावः (1-50)
(1-51) *प्रयोग इति* शब्दप्रवृत्तावित्यर्थः। *निमित्तमिति* यद्धर्मवत्त्वेन ज्ञातेऽर्थे यश्शब्दः प्रयुज्यते स धर्मस्तच्छब्दप्रवृत्तौ निमित्तमित्यर्थः। स दामोदरत्वमित्यादौ जातिः, शुक्लत्वमित्यादौ गुम एवेति। * प्रकारत्वादिति* घटत्वासाधारणवर्मत्वादित्यर्थ। *लघुगुर्विति* अयं भावः-धर्मस्यासाधारणधर्मत्वेन वाच्यत्वेऽप्येकत्वमित्यादौ परिमाणादेर्भानापत्तिः, उक्तासाधारण्यस्य परिमाणे सत्त्वात्। नच प्रकृत्यर्थतावच्छेदकनिरूपितत्वविशिष्टसमावायसम्बन्धेन तदितरावृत्तित्वं तद्वृत्तित्वञ्च विवक्षित। नच तेन सम्बन्धेन परिमाणं तत्र वृत्तीति नोक्तदोष इति वाच्यम्, तथा सत्यनन्तशक्तिकल्पनावश्यकत्वे तत्तद्धर्मत्वेनैव धर्मे शक्तिरस्तु, किमितरावृत्तित्वादिगौरवसहिष्णुतया।
तदुक्तं गुमदीधितौ-पृथक्त्वमित्यादौ प्रकृत्यर्थतावच्छेदकगुणान भावप्रत्ययः प्रपिपादयति। प्रतीतुस्तु ताद्रुप्येण धर्मत्वेन वेत्यभिप्रेत्याह मूले-*धर्ममात्रमिति*-अस्य तत्तद्रूपेण, धर्मत्वेन वेति शेषः। एतेन भावशक्तत्वादिप्रत्ययेन कम्बुग्रीवादिमत्त्वमित्यादौ गुरोरपि धर्मस्य कम्बुग्रीवादिमत्त्वस्य बाधनेन तद्वद् घात्वमित्यादावपि गुरोर्धर्मस्य त्वप्रत्ययेन बोधनसम्भवादाशङ्का निःसारेत्यपास्तम्। धर्मस्य भावप्रत्ययवाच्यत्वे सम्मतिमाह-*तत्तद्व्यक्तीति* तत्तद्व्यक्त्युपलक्षितेत्यर्थः। *घटत्वघटत्वत्वादिरूपत्वात्* घटघटत्वपदोत्तरत्वप्रत्ययार्थत्वादित्यर्थः। जातेरुक्तसत्तात्मकत्वे भावप्रत्ययार्थत्वे च मानमाह-*सम्बन्धिबेदादिति*। `जाति पदार्थः' इति कल्पे साधकमिदम्। स्मबन्धिभेदात्-अनुयोगिभेदात्, भिद्यमाना=गवेतरासमवेतत्वे सति सकलगोसमवेतत्वादिना तद्व्यक्त्युपरागेण वा पार्थक्येन प्रतीयमानां गवादिनिंष्ठा ब्राह्मसत्तैव जातिरित्युच्यते। तस्यां सर्वे शब्दा वाचकत्वेन व्यवस्थिता इत्यर्थः। तदेव व्यक्तीकरोति-*तामिति* तां तत्तद्व्यक्त्युपरक्तां सत्तामित्यर्थः।
*धात्वर्थमिति* आकृत्याधिकरणन्यायेन, "जातिमन्ये क्रियामाहुः" इति पक्षाभिप्रायेण वा। महानित्यात्मविशेषणम्। क्वचिज्जात्यादिः, क्वचित् सम्बन्दार्त इत्युक्तार्थे वार्त्तिकं प्रमाणयति-*उक्तञ्चेति* गुणशब्दस्य वैशेषिकाणां रूपादिष्वेव प्रसिद्धेः। प्रकृतोपयुक्तार्थपरतामाह-*विशेषणतयेति*। रूपादीत्यादिना रसादेः, गुणपरशुक्लादेश्च सङ्ग्रहः। *बोधजनकत्व इति* बोधजनकत्वमत इत्यर्थः। व्यपेक्षावादे क्रियाकारकभावसम्भन्धेन कृदर्खकर्त्रादौ धात्वर्थस्यैव प्रकारतया भानोपगमादिति भावः।
स्वसिद्धान्तमनुसुत्याह-*संसर्गप्रकारकेति*। *सूपपादेति* भावप्रत्ययो जातावेवेत्याद्यनियमादिति भावः। *तत्रेति* जांत्यादिवाचकभावप्रत्ययेषु मध्ये इत्यर्थः। *जातिवाचकानामिति* अर्थनिष्ठशक्तेरिति शेषः।
गुणाद्यत्मकभाववननानां शुक्लत्वादिशब्दानां जातेः शक्यतावच्छेदकत्वसम्भवादाह-*जातिवाचकानामिति*भावप्रत्ययानामिति शेषः। *अवच्छेदिका इति* उपस्थितत्वाद् घटत्वादिजातिनिष्ठशक्तेः स्वेतरावृत्तित्वावच्छिन्ननिखिलस्ववृत्तित्वरूपाधेयत्वादिसम्बन्धेनावच्छेदिका इत्यर्थः। तेन न द्रव्यत्वादिजातिनिष्ठशक्तेर्घटावच्चछिन्नत्वम्। अवच्छेदकानुगमकञ्च घट्तवादिकमेवेति भावः। पर्य्यवसितबोधमाह-*घटवृत्तिरिति*। *पक्षान्तरमिति* तत्तच्छब्द एव भावप्रत्ययवाच्य इति मतान्तरमित्यर्थः। "तत्सूचनप्रयोजनकोऽपीति* यद्वा शब्दघटितोक्तवार्तिकसूचनप्रयोजनकोऽपीत्यर्थः। अपिना पक्षान्तरसङ्ग्रहः। वार्त्तिके "स्वेनार्थेन भवन्तीत्यत्र स्वशब्दस्यात्मीयवचनतया आत्मीयार्थेन जात्यादिन प्रवर्तते इत्यर्थात् कथं पक्षान्तरपरता, कथं वार्थावृत्तेर्धर्मस्य शब्दस्य भावत्वञ्चेत्यस्य आशयं प्रकाशयति-
*अयं भाव इति*। जात्याद्यर्थस्य द्रव्यांशे विशेषणतायाः प्रसिद्धत्वात्तद्दृष्टान्तेन शब्दस्यातपि तां साधयति-*अर्थवदिति* जात्यादिवदित्यर्थः। शब्दस्यार्थविशेषतायामसाधारणस्थलमाह-*हरिहरेति*। `कश्चिदासीत्' इत्यनेन जात्यादिप्रकारकबोधास्मभवो ध्वन्यते। हर्य्यादौ सन्निकर्षाभावेनानुपस्थितहरित्वाद्यवच्छेदेन। शक्तिग्रहाभावेन तद्धर्मप्रकारकशाब्दबोदासम्भवादुपस्थितपदस्यैव विशेषणत्वमभ्युपगम्य शाब्दबोध उपपादनीयः। यथाच वृत्त्या तदुपस्थितिस्तथोपपादितं नामार्थनिरूपण इति भावः।
*अन्यथेति* अर्थांशे शब्दस्य प्रकारत्वानब्युपगम् इत्यर्थः। आरण्यकानां सन्निकर्षेण जातिधर्मिंतावच्छेदकशक्तिग्रहसम्भवादुक्तम्-*नागरिकानिति*। *एवमेवेति* पदप्रकारेणैवेत्यर्थः। *अप्रसिद्धेति*। अगृहीतजातित्वादिविशिष्टशक्तिकपदेष्वित्यर्थः। *जात्यादिभेदेनेति* तद्विसेषेणेत्यर्थः। क्वचित्तु जात्यादिरूपेणैवेत्येव पाठः। *उभयमिति*। जात्यादिरूपं पदञ्चेत्यर्थः। *अवच्छेदकमिति* शक्त्यवाच्छेदकमित्यर्थः।
ननु जात्याद्यनुपस्थितिदशायाम् `अयमर्थ एतत्पदवान्' इति शक्तिग्रहोऽप्यसम्भवदुक्तिकोऽत आह-*पदाप्रकारक इति*। *विशिष्येति* घटपदत्वादिरूपेणेत्यर्थः। यद्यपि `सर्वे भावाः' इति सर्वशब्दोपादानादेतत्कल्पे शब्दस्येव सर्वशब्दप्रवृत्तिनिमित्तत्वमवगम्यते। तथापि घटत्वादिना गृहीतशक्तिकघटादिपदाद् घटत्वप्रकारकवोधस्य सार्वजनीनप्रसिद्धिसिद्धस्यापह्नोतुमशक्यतया प्रायशः प्रसिद्धार्थकस्थले शब्दाप्रकारबोधस्याननुभवेन तैतत्कल्पेऽपि जात्यादीनां शब्दप्रवृत्तिनिमित्तत्वमङगीकरणीयमेव।
वार्त्तिकंन्तु भावशब्दस्याप्रसिद्धार्थकशब्दपरतया योज्यम्, तत्र निमित्तान्तराभावेन वार्तिकबलाच्छब्दस्यैव शब्दप्रवृत्तिनिमित्तत्वावधारणात्। यथा-कादिपञ्चकशक्तकुपदे। अत एव "अनुदात्तङिङतः" (पाo सूo1-3-12) इति सूत्रेऽनुदात्तङितौ द्वावर्थः" इति तत्र "सङ्खयातानुदेशः प्राप्नोति" इति यथासङ्खयसूत्रे भाष्यकृदुक्तं सङ्गच्छते। अन्यथा नवानां तङर्थत्वेनात्मनेपदवत्त्वेन बोधे सर्वेषामेकत्वेन तत्र च द्वावित्यस्यानुपपत्तिः स्पष्टैव। अत एव सारकृताऽपि `उभयमवच्छेदकम्' इत्युपसंहृतम्-क्वचिच्छब्दोऽपीति तदाशय इति। कथं-तर्हि तत्र शक्तिग्रहोऽत आह-*कित्त्विति*। *क्वचिच्छक्तमिति* किञ्चिन्नष्ठशक्तिनिरूपकमित्यर्थः। तथाच नृपादिवर्मनप्रस्तावे नृपत्वादिनोपस्थितनलादीनां सक्त्यंशे भाने उपस्थितत्वान्नलादिपदानामपि तदर्थे भानमविरुद्धम्' इदमेतच्छक्यम्' इत्याकारकार्थशक्तिग्रह एव विशेषरूपेणोपस्थितेस्तन्त्रत्वादिति भावः। *तथैव बोध इति* पदवाच्यत्वप्रकारक एवेत्यर्थः। एवकारेण जात्यादिप्रकारकबोधव्यवच्छेदः। इदञ्च कश्चिदर्थो नलादिपदाशक्यः, अर्थत्वादित्यानुमानिकशक्तिग्रहाभिप्रायेँण। उक्तोपनीतपदशक्तिग्रहे त्वर्थविशेष्यकबोधानुपपत्तिरेव। शक्तिज्ञानपदार्थोपस्थितिशाब्दबोधानां समानप्रकारकत्वनियमादित्यवधेयम्।
नैयायिकास्तु-नलादिपदानामपि विशिष्य शक्तिग्रहो नानुपपन्नः, यत्र नलत्वादिसम्बन्धेन यत्किञ्चिद्धर्मवत्त्वधीस्तद्विषयीभूतनलत्वादेः शक्तिग्रहे धर्मितावच्छेदकतया भाने बाधकाभावात्। यद्वा यत्र `प्रमेयत्वेन प्रमेयवान्' इत्याकारानलत्वादिविसिष्बुद्धिः। ततश्च प्रमेयत्वांशे मोषदशायां स्वरूपतो नलत्वादिप्रकारकनलविशेष्यकस्मरणे बाधकाभावात्तद्विषयनलत्वादिना विशिष्य नलादौ नलादिपदशक्तिग्रहेम तत्तद्रुपेण नलादिपदान्नलादिबोधस्य सुलभत्वात्। नच प्रमेयत्वांशे मोषकल्पने मानाभावः, अनुभूयमानतत्तद्धर्मप्रकारकशाब्दबोधानुपपत्तेरेव मानत्वात्। कथमन्यथाऽनुभवात्मकसमूहालम्बनादेकपदार्थोद्वोधकासमवधानेऽन्यपदार्थस्मृतिः। अक्लृप्तस्यार्थांशे पदविशेषणत्वस्य कल्पनापेक्षया तादृसस्मृतौ प्रमेयत्वांशे मोषकल्पनस्यैव न्याय्यत्वात्, पदस्यार्थदर्मत्वाभावेन तस्य पदांशे विशेषणत्वसम्भवाच्च, तस्य पदस्य तस्मिन् पदे शक्तिरित्यर्थस्यालौकिकत्वेन पदप्रकारकबोधस्य सार्वत्रिकत्वासम्भवाच्चेत्याहुः (1-51)
इति वैयाकरणभूषणसारदर्पणे भावप्रत्ययार्थनिरूपणम् ।। 9 ।।
*****
(1-52) ननु देवताया इन्द्रादिपदाल्लाभेन तदन्तर्भावेण तद्धितशक्तिकल्पनमनर्थकमत आह-*देवतात्वोपस्थापकेति* इन्द्रत्वेन रूपेण देवतोपस्थितावपि देवतात्वेन रूपेण तदुपस्थापकाभावादित्यर्थः। *तेन रूपेणेति*-देवतात्वेन रूपेणेन्द्रोपस्थितये इत्यर्थः। अन्यथा-
तद्वितेन चतुर्थ्या वा मन्त्रलिङ्गेन वा पुनः।
देवतासङ्गतिस्तत्र दुर्बलं च परं परम्।।
इति मीमांसकसिदधान्तासङ्गतिरिति भावः। द्रव्यस्य देवतासम्बन्धित्वञ्च तदुद्देश्यकत्यागाकर्मत्वं त्यागेद्देश्यत्वमपि वेदबोधिताबाधितद्रव्यस्वामित्प्रकारेणेच्छाविषयत्वम्। तदेव च देवतात्वम्। नातो घृतादिसम्प्रदानब्रह्मणस्य त्यागोद्देश्यत्वेऽपि देवतात्वम्। तस्य तत्स्वामित्वाबाधात् `एन्द्रो मन्त्रः' इत्यादौ मन्त्रस्य तद्देवताकत्वञ्च न तदुद्देश्यकत्यागकरणत्वम्। विनाऽपि मन्त्रमिच्छाविशेष-मृकत्यागोत्पत्त्याऽव्यभिचारात्। किन्तु त्यागाह्गोच्चारयणकत्वम्। वञ्च देवतासम्बन्धी प्रत्ययार्थः, नतु तद्देवताकत्वम्, `ऐन्द्रं हविः' इति सामानाधिकरण्यानुपपत्तेः। स चामिक्षादिपदसम्भिव्याहारे तत्त्द्द्रव्येम प्रतीयते। `देयं प्रत्ययार्थः' इति तु तस्यामिक्षादिपदसमभिव्याहारे दानकर्मत्वेनापि प्रतीतेरित्यभिप्रेत्योक्तमिति भावः। उक्तार्थे सम्मतिमाह-*अत एवेति* देवतासम्बन्धिनः प्रत्ययार्थत्वादेवेत्यर्थः। *सान्निध्यादिति* सा=आमिक्षा वैश्वदेवीत्यत्रामिक्षापदसमभिव्याहारादित्यर्थः। *विषयार्पणमिति* आमिक्षात्मकद्रव्यस्यैव देवतोद्देश्यकत्यागकर्मत्वप्रतीतिरित्यर्थः। *केवलादिति* सोमादिपदासमभिव्याहृतात्। अग्नेः-अग्निशब्दात्, समुच्चरन्=प्रत्ययत्वात् अग्निशब्दात् पुरः प्रादुर्भवत्। 'अग्नेयोऽष्टाकपालो भवत्यमावास्यायाम्" इत्यादौ। *नान्येति* सोमादिसाहित्यापन्नाग्निदेवतोद्देश्यकत्यागविषयं द्रव्यं प्रतिपादयितुं किन्तु तद्देवताकमेवेति तद्भावः। तथाच देवताविशिष्टदेयस्य तद्धितार्थत्वं तेषामपि सम्मतमिति भावः।
*प्रकृत्यर्थेति* `पदार्थः पदार्तेनान्वेति' इति व्युत्पत्तेरिति भावः। अस्मिन् कल्पे च प्रकृत्यर्थस्याभेदसम्बन्धेन देवतारूपतद्धितार्थेऽन्वयः। तस्य च स्वोद्देश्यकत्यागकर्मत्वसम्बन्धेन द्रव्यरूपतद्धितापरपदार्थे इति बोध्यम् (1-52)
(1-53) *द्योतकत्वनय इति* वाचकत्वनये प्रकर्षस्योपसर्गार्थत्वेन तद्विशिष्टे धातोर्लक्षणाया अकल्पनेन दृष्ठान्तत्वासम्भवादिति भावः। *प्रकृष्टजयवदिति* प्रकृत्यंशमात्रमादाय दृष्टान्तत्वं बोध्यम्।
*लाभादिति* समभिव्याहृतदध्यादिपदेन देवतारूपसम्बन्दिभानादित्यर्थः। *कुतः पुनरिति* " अनन्यलभ्यो हि शब्दार्थः" इति न्यायात्। किन्तु सम्बन्धार्थकत्वमेवोचितमिति भावः। *तत्प्रतीतेरिति* देवतासम्बन्धिप्रतीतेरित्यर्थः। तथाच तदनुपपत्त्या तद्धितस्य तदर्थकत्वमावश्यकमिति भावः।
पदान्तराश्रवणे सम्बन्धिप्रतीतेरप्यर्थनिर्णेयत्वादाह-*एन्द्रं दधीति* सम्बन्धमात्रार्थकत्वे सामानाधिकरण्यानुपपत्तिरित्यर्थः। *अन्यथेति* उक्तानुपपत्त्स्तदसाधकत्वे इत्यर्थः। `पच्यते तण्डुलः' इत्यात्र सामानाधिकरण्यानुपपत्तिर्हि कर्त्रादिवाचित्वसाधिकेति भावः। वैयाकरणान् प्रतीयमापत्तिः। मीमांसकान् कटाक्षीकृत्याह-*मीमासकानामिति* तन्मते तत्तद्द्वताकत्वरूपप्रत्ययार्थेन धर्मिण आक्षेपाल्लाभेन सामानाधिकरण्योपपत्तिरिति भावः। `पदान्तरात्' इत्याक्षेपस्याऽप्युपलक्षणम्। *वाच्यं मास्त्विति* आख्यातस्य कर्त्तेवं तद्धितस्य द्रव्यं वाच्यं मास्त्वित्यर्थः। इष्ठापत्तौ `आमिक्षां देवतायुक्ताम्' इति त्वत्सिद्धान्तभङ्ग इति भावः।
ननु तेषां कर्तुरनन्यलभ्यत्वान्न प्रत्ययवाच्यम्, किन्तु प्राधान्यापत्तेरेव तत्त्वमत आह-*दिगिति*। दर्थस्तु "प्रकृतिप्रत्ययार्थयोः" इति न्यास्य सङ्खयादौ व्यभिचारेण तेन प्राधान्यापत्त्यभावात्। "भावप्रधानमाख्यातम्" तद्धितेन चुर्थ्या वा" इति न्यायस्य सर्वसिद्धस्यानुपपत्तिः। नच तद्धितस्य तदर्थकत्वेऽपि कथं तदपेक्षया चतुर्थ्या जघन्यत्वम्, त्यागोद्दश्यकरूपदेवताबोधकत्वस्योभयत्राविशिष्टत्वादिति वाच्यम्, नहि देतासम्बन्धिदेयमात्रं तद्धितार्थः। किन्तु वेदबोध्यदेवतात्वघटितः। एवञ्च तद्धितार्थेन यागस्य देवतात्वांशे वेदबोध्यत्वावगाहित्वेन तदंशे अप्रमाण्यशङ्काया अनुदयात्तदिति विनियोजकतया बलवत्त्वं चतुर्थ्या तु तदंशे वेदबोध्यत्वानवगाहिवोधस्यैव जननेन तत्राप्रामाण्यशङ्कानिरासार्थमुपायान्तर स्यापेक्षणाज्जघन्यतवम्।
यद्वा तद्धितेन देवतात्वेन रूपेम देवताबोधे "साऽस्य देवता' (पाo सूo 4-2-24) स्मारणमस्ति। चतुर्थ्यास्तु देवतात्वे न स्मरणम्, "चतुर्थो सम्प्रदाने" इति (पाo सूo 2-3-13) इति सम्प्रदान एव तत्स्मरणात्। सम्प्रदानत्वञ्च-त्यज्यमानद्रव्योद्देश्यकत्वे सति प्रतिग्रहीतृत्वम्। एवञ्च ततः सम्प्रदानत्वघटकतया देवतात्वप्रतीतावपि तद्धितादिव मुख्यतया देवतात्वानधिगमात् तस्यास्तद्धितापेक्षया जघन्यत्वम्। एवं मन्त्रवर्णादधिष्ठानप्रतीतावपि देवतात्वस्य साक्षादप्रतीतेर्मन्त्रवर्णस्य चतुर्थ्यपेक्षया जघन्यत्वम्। एवं मन्त्रवर्णादधिष्ठानप्रतीतावपि देवतात्वस्य साक्षादप्रतीतेर्मन्त्रवर्मस्य चतुर्थ्यपेक्षया जघन्यत्वं बोधयम्। तद्धितस्य देवतार्थकत्वानभ्युपगमे तु तदसङ्तिः स्पष्टैवेति।
नन्विन्द्रादिपदाच्छक्त्यैव देवतालाभे त6 लक्षणाऽभ्युपगमो व्यर्थोऽत आह-*देवतात्वेन रूपेणेति*। तथाच "शक्यादन्येन रूपेण ज्ञाने भवति लक्षणा" इति वृद्धोक्तेर्देवताया इन्द्रस्वरूपायाः शक्यत्वेऽपीन्द्रभिन्नदेवतात्वेन तद्भानार्थं सोचितैवेति भावः। अनुपपत्तिज्ञानपूर्वोकायामपि तीरनिष्ठगङ्गापदलक्षणायां निरूढत्वव्यवहारादाह-*अनादिति* एतत्तत्त्वमभिहितं प्राक् (1-54)
(1-55) एकदेशान्वयप्रसङ्गमाशङ्क्याह-*प्रहरणक्रीडेति* व्युत्पत्तिवैचित्र्यादेकपदोपस्थितयोरपि तयोः परस्परमन्वय इति भावः। प्रहरमस्यापि प्रकृत्यैव लाभमभिप्रेत्याह-*क्रडामात्रञ्चेति* क्रीडारूपसम्बन्ध्येवेत्यर्थः। मात्रपदेन तत्प्रहरणस्य तद्धितार्थत्वव्यवच्छेदः। तथाच दण्डाभिन्नप्रहरसाधनविशिष्टा क्रीडेति बोधः। *सोऽस्येति* एतत्सूत्रविहितप्रत्ययस्य निवासः सम्बन्धी चार्थः। अत्र निवासशब्दोऽधिकरणघञन्तः-निशब्देन च वासे नैरन्तर्य्यरूपातिशयः प्रत्याय्यते। स च प्रकरणादिना तत्तत्कालघटितो ग्रह्यः। तथाच स्त्रु ध्नाभिन्ननिवासाधिकरणसम्बन्धीति बोधः। निवासश्च प्रत्यासत्त्या प्रत्ययार्थसम्बन्धिकर्तृक एव। अत एव कादाचित्कस्त्रु ध्ने वासकर्तरि न तथाप्रयोगः।
*साऽस्मिन्निति* सूत्रविहिततद्धितस्य तु पौर्णमासीघटटितत्वावच्छिन्नोऽर्थ-। नक्षत्रनुक्तकालविहिताणाद्यन्तपौष्यादिशब्दानां पुष्याद्यभिन्ननक्षत्रकर्मकशशिभोगाश्रयकालोऽर्थः। तस्योक्तार्थैकदेशपौर्णमास्यामभेदेनान्वयः। तथाच `पौषोमासः' इत्यादौ पुष्याद्यभिन्ननक्षत्रकर्मकशशिभोगाश्रयकालाभिन्नपौर्णमासीघटितो मास इत्यादिबोधः। पौषादिपदञ्च न केवलयोगिकम्, `पौषः पश्रः' इति व्यवहारविरहात्, किन्तु रूढमपि। एतद्बोधनायैव सूत्रे संज्ञाग्रहणम्। रूढिनिरूपकताऽवच्छेदकञ्च न त्रिंशत्तिथिसमुदायत्वरूपमासत्वमात्रम्। यत्किञ्चित्तिथ्यवधिकत्रिंशक्तिथिसमुदाये मासादिव्यवहारेऽपि चाद्रसौरपौषादिबहिर्भूतपौष्यादिघटितत्रंशत्तिथ्यन्तर्गततिथिषु पौषादिव्यवहारविरहात्, किन्तु शुक्लप्रतिपदादिर्शान्ततिथिसमुदायत्वमतो नोक्तदोष इत्याद्यन्यत्र विस्तरः।
"तदस्यास्त्यस्मिन्" (पाo सूo 5-2-14) इति सूत्रेण प्रथमान्तादस्त्यर्थोपाधिकात् सम्बन्दिन्याधिकरणे च मत्वर्थोयो विधीयते। यद्यप्यस्येत्युक्तेः षष्ठयर्थसम्बन्द एव मनुबादिविधानमाभाति तथाऽपि `गोमाँश्चैत्रः' इति सामानाधिकरण्यानुरोधात् सम्बन्धिवाचकतैवेत्युक्तं प्राक्। एवञ्च `गोमान्' इत्यादौ गोनिरुपितस्वामित्वसम्बन्धवानित्याद्यन्वयबोधः। नच-
भूमनिन्दाप्रशंसासु नित्ययोगेऽतशायने।
सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः।
इति सम्बन्धसमकक्षतया भूमाद्यर्थानामप्युपादानात् तेषामपि मतुबादिशक्यत्वामिति शङ्कयम्, स्यादेवं यदि तेष्वर्थेषु मतुवादीनां विधायकं सूत्रादिकमुपलभ्यते, किन्तु प्रयोगोपवित्वमेव तेषाम्, अस्त्यर्थवत्, गावादिपदानां बहुत्वादिविशिष्टलाक्षणिकतयैव भूमादिप्रतीतिसौलभ्याच्च। अन्ये त्वस्तिशब्दान्मतुबर्थं तद्ग्रहममित्याहुरित्यन्यत्र विस्तरः।
इत्यादिकमित्यादिपदात् `तस्यापत्यम्' "तेन रक्तं रागात्" "संरकृतं भक्षाः" इत्यादिसङ्ग्रहः। तत्र 'गार्गिः' इत्यादौ तद्धितार्थापत्यस्य जन्यपुरुषस्यैकदेशे जन्यत्वे-प्रकृत्यर्थगर्गादेर्निरूपकतयाऽन्वयात् 'गर्गनिरूपितजन्यताश्रयः पुमान्' इत्यादिबोधः। `गार्ग्यः' इत्यादौ तु जन्यपुरुषजन्यपुरुषाद्यात्मकगोत्रापत्यर्थैकदेशे जन्यत्वे प्रकृत्यर्थान्वयः। `गार्ग्यायणः' इत्यादौ तद्धितार्थयुवापत्यैकदेशे गोत्रप्रत्ययान्तार्थस्य निरूपकतयाऽन्वयः। परन्तु "जीवति तु वंस्ये युव"। इति परिभाषणाद् गर्गजीवनसमानकालिकत्वमपि प्रधानप्रत्ययार्थ विशेषणम्, तस्यापि प्रत्ययशक्यत्वात्। एवञ्च, गर्गजीवनसमानकालिको गर्गगोत्रापत्यनिरूपितजन्यतावानयं पुमानिति बोधः।
"ने रक्तम्" इति विहितप्रत्ययस्य तत्सम्पबन्धाधीनतदीयरूपारोपविषयोऽर्थः। तादृशारोपविषयत्वम्व तेन रक्तत्वम्। `शङ्खः पीत.' इत्यारोपमादाय शङ्खादेरारोप्यपीतिमाश्रयहरितालादिना रक्तत्ववारणायाधीनान्तमारोप्रविसेषणम्। माञ्जिष्ठपटादेश्चक्षुरादिना रक्तत्ववारणाय तदीयत्वरूपविशेषणम्। अत्र च रागकरणस्य मञ्जिष्ठादेः प्रकृत्यर्थस्य तद्धितार्थ स्यैकदेशसम्बन्धे प्रतियोगितया रूपे चाधेयतयाऽन्वयः। तथाच मञ्जिष्ठासम्बन्धाधीनो यो मञ्जिष्ठानिष्ठरूपारोपस्तद्विषयताश्रय इति `माञ्जिष्ठः' इत्यतो बोध-. "शूल्यम्," "उख्यम्" इत्यादौ "सस्कृतं भक्षाः" (पाo सूo4-2-19) इति सूत्रविहिततद्धितार्थैकदेशे पाकादिसंस्कारे शूलोखादेः प्रकृत्यर्थस्याधिकरणत्वेनान्वयः। अनयैव रीत्या तद्धितान्तराद् बाध ऊहनीयः।
तद्धितानां क्वचित्प्रकृत्यर्थे स्वार्थैकदेशस्य, क्वचित् स्वार्थेस्यैवान्वयबोधकत्वादिति जहत्स्वार्थवृत्तिपक्षमावलम्ब्य मूलमवतारयति *वृत्तिमात्र इति* तथाच तत्पक्षे पदानामानर्थक्यात् तदर्थनिरूपणे सिद्धान्तप्रञ्युतिरिति भावः।
*तद्रीत्यैवेति* सास्त्रान्तरीयरीत्यैवेत्यर्थः। ननु वैयाकरणमते जहत्स्वार्थवृत्त्याश्रयणे "न पूजनात्" "तेन रक्तं रागात्" इत्यादिसूत्राणां का गतिरत आह-*आरोपितेति*। *विशिष्टसक्त्यैवेति*। विशिष्टार्थस्येति शेषः। वृत्तौ पक्षद्वयाभ्युपगमेन जहत्स्वार्थपक्षे तद्घटकपदार्थपूपणस्यानुपयागेऽप्यज त्स्वार्थपक्षे विशिष्टशक्तिग्रहस्य प्रत्येकशक्तिनिरूपणापजीवकतया तन्निरूपणास्यौचित्यमेव। एतत्सूचनायैव मूलेऽतीवेत्युपात्तमिति तु रहस्यम् (1-55)
इति वैयाकरणभूषणसारदार्पणे देवताप्रत्ययार्थनिरूपणम् ।। 10 ।।
*****
(1-56) ननु प्रक्रान्ते प्रातिपदिकघटकप्रत्ययार्थनिरूपणेऽभेदैकत्वसङ्खयानिरूपणमसङ्गतमत आह-*पृत्तिप्रसङ्गादिति* तथाच वृत्तिनिरूपणे क्रियमाणे स्मृतिपथप्राप्ततद्धर्मोपेक्षाऽनुचितेति प्रसङ्गसङ्गतिसत्त्वान्नोक्तदोष इति भावः। यद्यपि वक्ष्यमाणक्त्वाद्यन्तेऽपि कृद्वृत्तिसत्त्वादत्तदनन्तरमेव सङ्खयानिरूपयितुमुचिता, तथापि तत्प्रकृत्यर्थे सङ्खयाया अभानादाकाङ्क्षाविच्छेदः स्यादित्यत्रैव तन्निरूपितमिति बोध्यम्। अभेदैकत्वसङ्खयापदार्थेः. मतभेदेन द्विधा-निर्वक्ति-* सङ्खया विशेषाणामिति* एकत्वत्वाद्यवच्छिन्नानामित्यर्थः। अविभागेत=अभेदेन-अविरोधेनेति यावत्। उक्तार्थे हरिवाक्यं प्रमाणयति-*उक्तञ्चेति*। *आहितशक्तयः* आहिता=समर्पिता तत्तद्दोषविभेदनिवन्धना विरोधरूपा शक्तिर्यैरित्यर्थः। त्यक्तविरोधा इति यावत्। अत एव अविभागेन=अविरोधेनेत्यर्थः। ताम्=अभेदैकत्वसङ्खयाम्। ताददृशीं=मधुनिष्ठरसस्थितितुल्यामित्यर्थः। नन्वेकत्वद्वित्वादीनामेकत्र सत्त्वमनुपपन्नम्। नहि द्वावेकत्वेन व्यवहणियते, नाप्येको द्वाविति, "नहि द्विषुत्रः" इति भावष्यात्। किञ्च दृष्टान्तोऽपि न समञ्जसः, तत्तद्रसवदारब्धेऽवयविनि माक्षिकेऽवयवसजातीयरसान्तरस्यैबोत्पादाभ्युपगमादत आह-*परित्यक्तेति* वाशब्दः पक्षान्तरे। अगृहीतीविसेषधर्मकं स्ख्यामात्रमित्यर्थः। पूर्वकल्पे उक्तास्वरसाभिसन्धिकं वाक्यपदीयं तत्पक्षेऽपि प्रमाणत्वेनोपन्यस्यति-*भेदानामिति* भेदानाम्=एकत्वत्वद्वित्वत्वादिविशेषधर्मणां परित्यागाद्=अग्रहात्। इदञ्च व्यापारपदार्थेअभेदेनान्वयि। संख्यात्मा-संख्यास्वरूपः। सः=एकत्वादिः। तथाविधः=अभेदैकत्वव्यपदेश्य इत्यर्थः।
तदेव विशदयति-* जातिभागस्येति* एकत्वत्वादेरित्यर्थः।
*भेदापोहेनेति* भेदस्य विशेषमस्य योऽपोहोऽग्रहरूपो यो व्यापारो विशेषणाऽत्मा ततो वर्त्तत इत्यर्थः। "भेदापोहो न वर्त्तते" तथाचैकत्वत्वादेर्जातिविशेषस्य भेदाग्रहरूपो यो व्यापारो विशेषणाऽत्मा ततो वर्त्तत इत्यर्थः। "भेदापोहो न वर्त्तते" इति वा पाठे तु भेदरूपो योऽपोहोऽतद्व्यावृत्तं स न वर्त्तते=न भासते इत्यर्थोऽवसेयः। पद्यान्तरावलोकनेनैतत्पाठस्यैव हरिसम्मतत्वमध्यवसीयते। द्वित्वत्वाद्यग्रहकालिसङ्खयात्वप्रकारकप्रतीतिगौचरः सङ्खयापदार्थोऽभेदैकत्वपदव्यपदेश्यो भवतीति समुदितार्थः। तत्र दृष्टान्तरमाह-*अगृहीतविशेषेणेति* शुक्लत्वादिप्रकारकग्रहासमानकालिकरूपत्वप्रकारकप्रतीतिविषयेण शुक्लादिनैव यथा घटादी रूपवानिति प्रतीयते। शुक्लादेर्या भेदरूपोऽपोहः शुक्लत्वादिरतद्व्यावृत्तिरूपः स तु न प्रतीयते। तद्वद्राजपूरूष इत्यादौ राजादिपदार्थझ सङ्खयावानिति प्रतीयते, न तत्र सङ्खयांऽशेएकत्वत्वादि भासते इत्यर्थः।
तादृशसङ्खयाभानस्य परानभ्युपेतत्वात् कथमियं स्थितिरतः शेषरूरणेन व्याचष्टे-*वैयारणानामिति*। ननु तादृशसङ्कयाया वृत्तौ भाने किं प्रमाणमत आह-अयं भाव इति*। *सामान्यज्ञानपूर्विकेति* तद्धेतुकेत्यर्थः। *आवश्यकीति* तां विनोक्तजिज्ञासाया अभावादिति भावः। सा च संख्यापूर्वोत्तरादार्थयोः सम्बन्धवद् वृत्तिसक्यैव अजहत्स्वार्थावृत्तिक्षे पूर्वपदस्य संख्याविशेषवाचकत्वे गमकाभावे, तेन `द्विपुत्रः', `मौद्रिकः' `मासजातः' `तावकीनः' `भाद्रिरामवसर' इत्यादौ वृत्तावभेदैकत्वसंख्याया अभानेऽपि न क्षतिः।
आद्यो-संख्याविशैषस्यैव पूर्वपदार्थत्वात्। द्वितीये-एकमुद्रस्य क्रयकरणायोग्यत्वाद् बहुत्वावगतिः। तृतीये-विशिष्टकालांवगमाय मासपदप्रयोगात् संख्याऽध्यवसायः. चतुर्थे-तवकाद्यादेशादेकत्वावगातिः। पञ्चमे-प्रकरणाद् द्वित्वावगतिः। एवम्-`कारकमध्ये' इत्यादावप्यूह्यम्, एकस्य मध्यासम्भवात्। सति प्रकारणे `राजपूरुषः' इत्यादावपि संख्याविशेषप्रकारेणैव भानम्। तदा तत्रापि न तस्य वृत्त्यर्थत्वमिति भेदो भेदसहिता द्वित्वादिसंख्या, तदभावसहितमेकत्वम भेदैकत्वमिति व्युत्पत्त्या संख्यात्वेनैकत्वमेवोपसर्जनपदार्थे भासते। तथा-"एकवचनमुत्सर्गतः करिष्यते" इति वचनात् `राजन् अस्-चित्रगुरित्यादौ, चित्रा-अस्-गो-अस्-इत्यभिप्रेत्योत्तरग्रन्थमवतारयति-*तस्या इति* वृत्तिघटकपदार्थोपसर्जननव्यक्तरित्यर्थेः। *प्रतीताविति* संख्यात्वावच्छिन्नैकत्वप्रकारतानिरूपितविसेष्यत्वेन बोध इत्यर्थः। उपसर्जनपदार्थे संख्यात्वेनैकत्वमेव प्रतीयते, न द्वित्वादीत्यत्र दृष्टान्तमाहेति यावत्। *गणनायामिति* बहुत्वविशिष्टानेकसंख्याने इत्यर्थः। "कपिञ्जलानालभेत" इति वाक्येन बहुत्वव्याप्यसंख्याविशिष्टकपिञ्जलालम्भनं विधीयते। तत्र त्रयाणाम्, चतुरादीनां वाऽऽलम्भमिति संशेये बहुत्वव्याप्यत्वस्य त्रित्वादिषु सर्वैष्वप्यविशिष्टत्वाद्यथाप्राप्तमेवालब्धव्यमिति पूर्वस्य चतुरादीनामालमभनम्, "मा हिंस्यात्" इति सामान्यशास्त्रविहितनिषेधस्यालभ्यतावद्व्यक्तीतरपरत्वरूपतात्पर्यसंकोचकल्पने गौरवाद् गणनायां प्रथमोपस्थितत्रित्वपरतयाऽपि वचनस्य चारितार्थ्याल्लाघवाच्च बहुत्वव्याप्यत्वेन त्रित्वमेव बहुवचनार्थ इति सिद्धान्तितम्। तन्न्यायादत्रापि संख्यात्वेनैकत्वस्यैव वृत्त्यर्थत्वम्, नतु द्वित्वादिनामप्रतीयमानविशेषधर्मकैकत्वमभेदैकत्वमिति व्युत्पत्तेरिति भावः। "निजां त्रयाणाम्" (पाo सूo 7-4-75) इत्यादिनिर्द्देशैरस्मिन् व्याकरणे व्याप्तिन्वायस्यैवाश्रयणेन प्रकृते संख्यात्वेनैकत्वप्रतीतिर्हि दुरुपपादेत्यपि केचित्।
ननु जिज्ञासायां शाब्दमेव सामान्यधर्मप्रकारकज्ञानदर्शनमपेक्षितमिति न नियमः आम्रादिफलदर्शनेनापि तद्रसा स्वादनेच्छाया व्यभिचारात्। नचैवं सामान्यधर्मप्रकारकज्ञानस्यैव हेतुत्वं विलीयेतेति वाच्यम्, आम्रदर्शनस्योद्बोधकतया तद्रसस्मरणेन तदुपपत्तेः। प्रकृते तस्या अशक्यत्वेऽपि तदव्यभिचरितद्रव्यत्वेनानुमानिकतद्बोधसम्भवात् तादृशजिज्ञासाया अननुभवाच्च नोक्तयुक्तिर्वृत्तिरेभेदैकत्वसख्यार्थत्वसाधिकेत्यभिप्रेत्याह-*वस्तुत इति* जिज्ञासैवेति-`राजपुरुषः' इत्यादौ पूर्वपदार्थे एकत्व-द्वित्वादिप्रकारकजिज्ञासैवेत्यर्थः। *अनुभवसिद्धेति*। अस्य येन तदनुरोधेन सामान्यधर्म प्रकारकज्ञानिस्यावश्यकता स्यादिति शेषः। `अभेदैकत्वसंख्याया वृत्तौ भानम्' इति मूलं तु प्राचीनग्रन्थानुवाद एवेति भावः।
अनुभवसिद्धत्वस्य शपथनिर्णेयत्वं मत्वाऽऽह-*तथात्वे वेति* वाशब्दोऽनास्थायाम्, अनुभवसिद्धत्वे वेत्यर्थः। *समानप्रकारकत्वेनैवेति*। एवकारेण विभिन्नप्रकारकत्वव्यवच्छेद। तद्धर्म्मप्रकारकेच्छाम्प्रति तद्धर्म्मप्रकारकत्वज्ञानस्य हेतुताया सुखादीच्छास्थले कलृप्तत्वात्। प्रकृते विशेषधर्मप्रकारकजिज्ञासायाः सविषयविषयकत्वेन ज्ञानप्रकारीभूतविशेधर्मप्रकारकत्वस्यावश्यकत्वेन तत्पदार्थविशेषधर्मप्रकारकज्ञानकार्य्यताऽवच्छेदकाक्रान्तत्वादिति मावः।
*तत्तद्रूपेणैवेति* एकत्वत्वादिविशेषरूपेणेवेत्यर्थः। एवकारेण संख्यासामान्यधर्म्मव्यवच्छेदः। इष्ठापत्तिस्तु न, तथा सति शब्दादेव विशेषधर्मावगतौ तत्र जिज्ञासाया असम्भवादिति भावः।
अत्र वदन्ति, तद्धर्मप्रकारकज्ञानस्य कार्य्यतावच्छेदककोटौ स्वातन्त्र्येण तद्धर्मप्रकारकत्वं सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकजिज्ञासाजनकत्वानुरोदान्निवेशनीयम्। अन्यथा सामान्यधर्मप्रकारकज्ञानस्योक्तजिज्ञासां प्रति हेतुत्वं विलीयते।
नच तत्र मानाभावः, "जायते च कार्य्ये कारणे वा ज्ञाते कार्यं कारणं वा" इति दीधितिकृद्वाक्यस्यैव मानत्वात्। प्रकृते विशेषधर्मस्य पारतन्त्र्येणैवेच्छां से प्रकारत्वात्तद्धर्मप्रकारकज्ञानं विनापि सामान्यधर्मप्रकारकज्ञानत् तादृशजिज्ञासाया)ः सूपपादत्वात्। सामान्यधर्मप्रकारकज्ञानं तु विशेषर्धमपुप्रकारकत्वावच्छिन्नविशेष्यकेच्छात्वमिति न गुणत्वसामान्यज्ञानात् सुखादीच्छाप्रसक्तिरधिकमन्यत्रानुसन्धेयम्। तथाचात्र जिज्ञासायाः सर्वसिद्धात्वे तदुपपत्तयेऽभेदैकत्वे वृत्तेर्वृत्तिरावशियका। एवञ्च "अभेदैकत्वसंख्याया वृत्तौ" इति मूलस्य सङ्गतिः। एतेन भेदस्य तत्सहचरितद्वित्वादेरेकत्वस्य च या प्रतीतिस्तदभाव इत्यर्थपरतया व्याख्यानं परास्तमिति (1-57)
इति वैयाकरमभूषणसारदर्पणे अभेदैकत्वसंख्यानिरूपणम् ।। 11।।
(1-58) सङ्खयाविवक्षाऽविवक्षानिरूपणे सङ्गतिं दर्शयति-*प्रसङ्गादिति*। अभेदैकत्वसङ्खयानिरूपणे `कपिञ्जलानालभेत' इत्यत्र विधेयविशेषणतया त्रित्वसङ्खयाविवक्षायाःस्मृतत्वात् उपेक्षानर्हत्वाच्चेत्यर्थः। *आविवक्षितमितीति* तद्विवक्षणे यज्ञीययावत्पात्राणां मार्जनालाभ इति भावः। *धातोरितीति* प्रत्ययविधौ "धातोः" (पाo सूo 3-1-87) इति सूत्रस्थधातुपदार्थविशेषणीभूतैकत्वादेरेतच्छास्त्रे अविवक्षणादित्यर्थः। अस्यमच्छास्त्रे तु उद्देश्यगतविशेषणस्याविवक्षा मीमांसकानामपि सम्मतेत्याह-*उत्पद्येतेति*। *विशेष्येतेति*। तदा स प्रत्ययार्थः। सर्वैर्धात्वर्थैर्विशिष्येतेत्यर्थः।
ननु नेयं युक्तिर्विवक्षासाधिका, तादृशसमुदायस्य क्रियावचनत्वाबावेन ततः प्रत्ययोत्पत्तेर्गगनकुसुमायमान्तवेन स्वत एव विवक्षासत्त्वादत आह-* आर्द्धधातुकस्येङ्वलादेरितीति*। *विवक्षितत्वाच्चेति*। अन्यथा तदुपादानवैयर्थ्यापत्तेरिति भाव-. *एवमिति* अनुवाद्यविशेषमविवक्षितमेव। नियमानाश्रयणवादित्यर्थः। `पशुना यजेत' इत्यत्र यज्यर्थयागस्य करणाकाङ्क्षायां साधनत्त्वेन पशुर्विधीयते। एवञ्च पशुशब्दस्य विधेयसमर्पकतया तदुपस्थितानां केषाञ्चिद्, ग्रहणे, केषाच्छित् परित्यागे मानाभावेन पशुत्वपंुस्त्वादिवदेकत्वमपि यागसाधनत्वेन विवक्षितम्। तेन नानेकपशुकरणयागाददृष्टसिद्धिः। एवमन्यत्रापि विधेयविशेषणं विवक्षितम्। अत्राविवक्षाकारणविरहादिति मीमांसकपरिशीलिता सरणिस्तदनुसरणानियमो नास्माकमित्यः। एतच्छास्त्रे तदाश्रयणेऽनिष्टं प्रदर्शयति-*रदाभ्यामिति*। *विधानानापत्तेरिति* `न' इत्येकवचनोपस्थितैकत्वस्यापि विधेयविशेषणतया तद्ववक्षायां नकारद्वयविधानं न स्यादित्यर्थः। ननु मास्तु नद्वयविधानमत आह-*तथाचेति* इतञचैकवाक्यतया विधानममिप्रेत्य, वाक्यभेदेन विधानपक्षे त्वाह-*आद्गुण इत्यादाविति*। * एकात्वविवक्षयैवेति* विधेयगुमगतैकत्वविवक्षयैवेत्यर्थः। तथाचैकग्रहणमेवोक्तार्थेज्ञापकमिति भावः।
ननु पश्वेकत्वादिविवक्षाहेतूनां जैमिनिसम्मतत्वान्न तदाश्रयणस्यानाकरत्वमित्याशङ्कामपाकरिष्यन् योजनाप्रदर्शन मिषेणाऽकरपादार्थ व्याचष्टे-*शब्दार्थस्त्वित्यादिः*। *पश्वेकत्वाधिकरणोक्तहेतूनामिति* `पशुना यजेत्' इत्यत्र विधेयगतैकत्वस्याविवक्षणे पश्वन्तरालम्भे प्रयोगप्रांशभावबाधेन यागवैगुण्यापत्तिः, गुणानुरोधेन यागाऽऽव़त्तौ प्रधानत्वभङ्गापत्तिर्यावत्पसुकरणकयागासम्भवश्चेत्वेवमादयो दीषा हेतवस्तेषामित्यर्थः। *सिद्धान्तसिद्धमिति* सिद्धान्तार्थप्रतिपादकमहाभाष्यादिसिद्धमित्यर्थः (1-57)
(1-58) *आदेशभेदवारणायेति*। वस्तुतस्यु नैकग्रहणं विधेयगविशेषणाविवक्षायां तन्त्रम्, `अन्योः पूलयोः कटं कुरु' इत्यादाविव `आद् गुणः' इत्यादावपि `पूर्वपरयोः' इति द्वन्द्वनिर्देशेनैकवाक्यतयैवोभयोः स्थाने एकविधानसम्भवात्स्थानिभेदान्नानेको गुण इत्येकग्रहणस्य भाष्ये प्रंत्याख्यानादिति रहस्यत्।
*वाक्यभेदादिरिति* `प्राजापत्या नवग्रहाः' इति वाक्यविहितग्रहोद्देशेन सम्मार्गो विधईयते ग्रहं सम्मार्ष्टित्यनेन। तत्रानुवाद्यग्रहैकत्वविवायामुत्पत्तिवाक्यगतसङ्खयाया विरोधाद् वाक्यस्य यचो भेदो विभिन्नबिशेष्यकबोधजनकत्वं तादपाया दीत्यर्थः। अन्ये तु-`ग्रहं समार्ष्टि' तञचैकम्' इत्याकारकवाक्यभेदापत्तिमाहुः। आदिपदेनोत्पत्तिवाक्यगतनवत्वसङ्खयया ग्रहपदार्थस्य परिच्छिन्नत्वात्परिच्छेदकाङ्क्षाभावस्य `ग्रहम्' इति द्वितीयया संस्कार्य्यत्वलक्षणप्राधान्यबोधानात् `प्रतिप्रधानं गुणावृत्तिः' इति न्यायाद्विनिगमनाविरहात् सोमावसेकनिराकफलकसम्मार्गस्य सर्वैर्ग्रहैपेक्षणाद्विधेयपश्वादिविशेषणवत् क्रियाङ्गत्वाभावेन तद्वैकल्यप्रयुक्तक्रियावैकल्याप्रसक्तेश्च तद्विवक्षाविरहवीजस्य च संग्रहः, *अनाकरमिति* पूर्ववत्। `इडागमादेः' इत्यादिना-`उदीचामातः स्थाने यकपूर्वायाः', इति विहतेत्वसंग्रहः। तत्राऽऽकारस्थानिकाऽतमुद्दिस्येत्वविधानात्। अत एवेण्निषेधविधायकैकाजिति सूत्रे `अचः' इत्येकत्वविवक्षादरेणानेकाच्कोपदेशव्यावृत्तिर्ग्रन्थः कृद्भिर्व्याख्याता। वस्तुतस्तु ग्रहैकत्वदृष्टान्तेनात्राप्यनुवादविशेषणनाम्, सङ्ख्यादीनां कचिदविवक्षाऽस्तु, तदितरविशेषणानां वाक्यादेवावगमेनानुषङ्गिकत्वादविवक्षायुज्यते। प्रकृते तु न तथेति बोध्यम् (1-59)
इति वैयाकरणभूषणसारदर्पणे सङ्खयाविवक्षाऽदिनिर्णयः ।। 12 ।।
(1-60) अवसरसङ्गति क्त्वाद्यर्थनिरूपणे दर्शयति-*क्त्वाप्रत्ययादेरिति*। प्रकृत्यर्थेत्वस्य फलेऽपि सत्त्वादाह-*भाव इति* तत्रापि सत्त्वभूते व्यापारे एव, नतु पूर्वकालादावित्यर्थ-। `पाकः' इत्यादाविव `पक्तुम्' पक्त्वेत्यादिजन्यबोधे भावांशे वैक्ष्यस्याननुभवादिति भावः। वस्तुतस्तु पक्त्वा इत्यादिजन्योबोधे भावे लिङ्गसङ्खयानन्वयित्वं तदनुभूयत एव। एवं `पक्तुम्' इत्यादौ फलार्थकतुमुना साध्यत्वेन तद्बोधाच्चेत्युक्तप्रायमिति।
*का गतिरिति* तत्र `पूर्वकाले' इत्याद्युपादानात् पूर्वकालादीनां वाच्यता प्रतीयते। भावमात्रार्थकत्वे तु तदनुपपत्तिरिति भावः। *समानकर्त्तृकत्वादीति*। तथाच समानकर्त्तकयोर्धात्वर्थयोर्मध्ये पूर्वकालसम्बन्धी योऽर्थस्तद्वाचकात् क्त्वेत्यर्थेऽर्थाकाङ्क्षायाम् `कर्तरि कृत्' इत्यस्य प्रसक्तौ तद्बाधनार्थ वार्त्तिकारम्भेण भावस्यैव वाच्यता निर्धार्य्यते। कर्त्तुः प्रत्ययविशेषणत्वे तु समानकर्त्तरीत्येवे ब्रूयात्। सूत्रोपात्तानां तु द्योत्यत्वमेव, वर्त्तमानत्वादिवदिति भावः। वस्तुतस्तु न द्योत्यतायामपि निर्भरः, संसर्गमर्यादयैव तद्भानसम्भवादित्याह-*अयं भाव इति*।
`समानकर्त्तृकयोः' इत्यादिसूत्राणां धातुसम्बन्धधिकारीयात्वादिति भावः। *अनुपपन्नेति* विशेष्यविशेषणत्वयोः संसर्गविषयतानूरूप्यत्वेन सम्बन्धं विना विशिष्टबुद्धेरेवासम्भवात्सम्बन्धभानं तद्वाच्यतां विनाप्युपपन्नमिति भावः। *अन्यथेति* विशेष्यविशेषणभावमन्तरेणाप्येकवाक्यताभ्युपगमे इत्यर्थः। *सामानाधिकरण्यमिति* एकाऽश्रयवृत्तित्वमित्यर्थः। पूर्वोत्तरभावः=स्वोत्तरसम्योत्पत्तिकत्वम्, स्वपूर्वसमयवृत्तित्वं वा। व्याप्यत्वम्=अविनाभावित्वम्। तुमुनाद्यन्ते साब्दबोधिशमाह-*तथाचेति*।
*भोजनजनिकेति* जनकत्वस्यात्र संसर्गतेति स्फुटीकर्त्तुमियमुक्तिः। बोधाकारस्तु भोजनविशिष्टेत्येव, जनकत्वस्यापदार्थतयाऽप्रकारत्वात्। क्रिययोः जन्यजनकभावस्यापि सम्बन्धत्वे युक्तिमाह-अत एवेति। जन्यत्वस्य संसरगत्वाभ्युपगमादेवेत्यर्थः। `जलपानान्तर्यस्य' इत्यनेन पूर्वोत्तरवाक्यसम्बन्धसत्त्वं बोध्यते। तज्जन्यत्वविवक्षाया नतु प्रयोग इष्ट एवेति भावः। सामानाधिकरण्यस्य प्रकृतपदवृत्तिग्रहाविषयतया संसर्गताभ्युपगमस्तु यत्र पूर्वापरीभावापन्नभोजनतृप्त्योर्वैयधिकरण्यं तत्र भुक्त्वा तृप्यति' इतिप्रयोगवारणाय। अव्यवहितोत्तरत्वस्य तु-दिनान्तरितपूर्वकालवृत्तिसमानाधिकरणभोजनादिक्रियामादाय क्त्वावारणाय। व्यवधानञ्च-तात्पर्यवशाद्दण्डमुहूर्त्तादिना ग्राह्यम्, अतो भोजनानन्तरं दण्डादिव्यवधानेऽपि न तादृशप्रयोगानुपपत्तिरिति बोध्यम्।
ननु पूर्वोत्तरभावस्य सम्बन्दताभ्युपगमेऽध्ययनकाले `अधीत्य तिष्ठति' इति प्रयोगानुपपत्तिः, स्थितावध्ययनानन्तर्य्याभावात्। एवम् `मुखं व्यादाय स्वपिति' इति न स्यात्, ओष्ठपुटविभागारूपव्यादानकाले एव स्वापादिसत्त्वे तादृशप्रयोगस्येष्ठत्वेन व्यादानास्य स्वापपूर्वकत्वाभावादत आह-*अधीत्य तिष्ठतीत्यादि*। *कालविशेषेति* विभिन्नकालिकयोः कालिकसम्बन्धघटितव्याप्यव्यापकभावाभावेन तत्सम्बन्धावच्छिन्नव्याप्यत्वस्यापि संसर्गतोपगन्तव्या। न केवलं तत्र व्याप्यत्वस्यैव संसर्गता, किन्तु सामानाधिकपरण्यस्यापीत्याह-*सामानाधिकरण्यञ्चेति* नातो विभिन्नकर्त्तृकैककालिकाध्ययनादिकमादायोक्तप्रयोगापतितिः। एवञ्च `समानकर्तृकयोः' इति सूत्रविहितक्त्वान्तस्थले समानकर्तृकत्वरूपसामानाधिकरण्यसंसर्गस्य शाब्दबोधविषयता सार्वत्रिकि। जन्यत्वादीनां तु तात्पर्य्यवशात् क्वाचित्की सेति भावः।
अन्येतु-सामानाधिकरण्यस्यैव पूर्वोत्तरभावस्यापि क्त्वान्तजबोदविषयता सार्वत्रिकी, `मुखं व्यादाय' इत्यादौ `सुप्त्वा मुखं व्यादत्ते' इत्यत्रेव व्यादानोत्तरमपि स्वापानुवृत्तेस्तथा पौर्वापर्य्यमादाय प्रयोगोपपत्तिः। एवञ्चोक्तसम्बन्धद्वयातिरिक्तसम्बन्धभानस्यैव क्वाचित्क्तवमित्याहुः। नच `अवजानासि मां यस्मादतस्ते न भविष्यति। मत्प्रसूतिमनाराध्य प्रजेति त्वां शशापसा'।। इत्यत्र मत्प्रसूतिमनाराध्य ते प्रजा न भविष्यतीत्यर्थाद्विभिन्नकर्तृकादपि क्त्वादर्शनात् समानकर्तृकत्वस्यापि क्त्वान्तजन्यबोधविषयता न सार्वत्रिकीति वाच्यम्, सूत्रस्वारसात्तादृशस्थले स्थित्यादिक्रियामध्याहृत्याऽनाराध्य स्थितस्यैति बोधस्याभ्युपगमेन सार्वत्रिकत्वाक्षतेरिति। *अन्यलभ्यत्वादिति* आकाङ्क्षानियम्यत्वाद्वाक्यसक्तिलभ्यत्वाद्वेत्यर्थः।
*क्रिययोः संसर्ग इति* प्रकृत्यर्थविशेषकत्वरूपस्य तस्यासम्भवेऽपि निरुक्तं तदिह बोध्यमित्यर्थः। *अत एवेति* क्त्वः समानकर्तृकत्वादिद्योतकत्वादेवेत्यर्थः। *भाष्यप्रतीकमिति* `इह कस्मान्न भवति-`पूर्वं भुङ्क्ते पश्चाद् व्रहति' इति, स्वशब्देनोपात्तत्वात्' इति भाष्यम्। तत्र समानकर्तृकत्वेन पूर्वकालत्वेन, च क्त्व आपादनम्। *नतु विषय इति* नतु प्रयोगघटकयत्किञ्चित्पदबोध्य इत्यर्थः, `उक्तार्थानामप्रयोगः' इति न्यायादिति भावः। तथाच `समानकर्तृकयोः' इति निर्द्धारणे षष्ठी, `पूर्वकाल' इति च षष्ठयर्थे बहुव्रीहिरिति कैयटाशयः। वाक्यार्थस्यु पूर्वमेवोक्तः। नच पूर्वकालस्य पूर्वादिशब्देनाभिधाने क्त्वोऽसाधुत्वे `पूर्व भुक्त्वा पश्चाद् `व्रजति' इत्यत्र क्त्वोऽनुपपत्तिस्तदवस्तैवेति वाच्यम्, भाष्यकृतैव तत्समाधानात्। तथाव भाष्यम्-`नैतत् क्रियापौर्वकाल्यम्, किं तर्हि कर्तृपौर्वकाल्यमेतत्-पूर्वमसौ भुक्त्वान्येभ्योः व्रजितृभ्यः पश्चाद् व्रजतीति। अनयेभ्यो भोक्तृभ्यः पूर्व भुक्त्वाऽपरेभ्यो गन्तृब्यः पश्चाद् व्रजतीत्यर्थे साधनान्तरक्रियाऽपक्षं पौर्वकाल्यमादाय-`विभाषा ग्रह' इति क्त्वः सम्भव इति तदाशयः। नव्यास्तु-`पूर्वकाल' इति कर्मधारयः, भूत इति तु नोक्तम्, पर्यायशब्दत्वात्, तेन रूपेण बोधाननुभवाच्च। तथाच समानकर्तृकयोर्थयोर्मध्ये पूर्वकाल विशिष्टार्थवृत्तिधातोः क्तवेति सूत्रार्थः। तथाच पूर्वकालः क्त्वार्थो धात्वर्थप्रकार एव। अत एव समानकर्तृकत्वेन `पूर्वभुङ्क्ते पश्चाद् व्रहति' इत्यत्र क्त्वाप्रत्ययमाशङ्कय-`स्वशब्देनोपात्तत्वान्न' इति परिहृतं भाष्ये। पूर्वशब्दस्य पूर्वकालोऽर्थः, नतु धातोस्तत्र वृत्तिरिति तदर्थो नतूक्तार्थानामप्रयोग इति। अत एव इह कस्मान्न भवत्यास्यते भोक्तुम्' इत्यग्रिमशङ्कासङ्तिः। अन्यथा फलार्थकतुमुना पूर्वकालत्वस्यासिक्रियायां द्योतनात्तदसङ्कति स्पष्टैव। पूर्वकालत्वस्य ततोऽप्रतीतौ तु कथं क्तव आपादनम्, वाऽसरूपन्यायेन लटा साधितमित्यन्यत्। एवञ्च षष्ठयाः सम्बन्धवाचकत्ववदमीषामपि सम्बन्धवाचकत्वं सुवचमित्याहुः।
अत्रेदं चिन्त्यम्-नतु धातेस्तत्र वृत्तिरित्यर्थे-`आस्यते भोक्तुम्' इत्यग्रिमशङ्कानुपपत्तेरुपष्ठम्भक्तेवनोपन्यसनं शिथितम्, यतः कैयटमतेऽपि प्रतीयमानस्यार्थे पूर्वकालसम्बन्धित्वस्य केनचिदनभिधानेनोक्तार्थनामप्रयोग इति न्यायानवतारादाशङ्कोत्थानसम्भवात्। प्रत्ययवाच्यस्य कृत्प्रत्ययस्थले धात्वर्थविशेष्यताया नव्यानामपि स्मतत्वेन `पूर्वकालः क्त्वार्थो धात्वर्थप्रकार एव' इति पूर्वग्रन्थविरोधाश्च। नच द्योयतकत्वाभ्युपगमादुक्तसङ्गतिः, षष्ठायाः सम्बन्धवाचकत्ववदमीषामपि सम्बनधवाचकत्वम्' इत्युत्तरग्रन्थविरोधात्। नच तदपि सुवचम्, समानकर्तृकत्वादीनां वाच्यतायाः सूत्रादलाभात्। तस्मात् कर्मपचनीयवत् क्रियासम्बन्धविशेषकत्वमेव क्त्वादीनामिति कैयटोक्तमेव सम्यगिति।
मतान्तरं दूषयितुमुपन्यस्यति-*यत्त्विति*।*क्त्वावाच्यमिति* `सम्नकर्तृकयोः पूर्वकाले'इत्युभयोः पदयोर्बहुव्रीहित्वाविशेषेण पूर्वकालस्य वाच्यत्वमितराथस्य द्योत्यत्वमिति वैषम्ये बीजाभावादिति भावझ। वैषम्ये बाधकमाह-*अन्यथेति* तस्य क्ताप्रत्ययावाच्यत्वे इत्यर्थः। *तृतीयाप्रसङ्गश्चेति* क्त्वाप्रत्ययेन कर्तुरनभिधानादिति भावः। ननु `अनभिहिते' इति सूत्रे नञः प्रसज्यप्रतिषेधार्थकतया प्रकृते कर्तुराख्यातेनाभिधानान्न तृतीयापत्तिरित्याशङ्कयनिराचष्टे-*नचेति* `अनभिहिते' इति न प्रसझ्यप्रतिषेधः, वाक्यभेदादिदोषात्। नचानुपपत्त्वा तत्स्वीकारः, वक्ष्यमाणभाष्यविरोधात्। तथाचैकेनाबिधानेप्यन्येनानभिधाना तृतीया दुर्वारेत्यभिप्रायेणाह-*पापक्रियाकर्तुरित्यादिं* *तदभावादिति* अभिहितभिन्नत्वादित्यर्थः। *अत एवेति* तत्सूत्रस्थनञः पर्युदासार्थकत्वादेवेत्यर्थः। `भाष्पे' इत्यस्यानभिहितसुत्रस्थे' इति शेष। तस्येति* समानकर्तृकत्वस्येत्यर्थः। द्विवचनप्रकृतबहुव्रीहिणा समानकर्तृकत्वस्य धात्वर्थविशेषणतैव इत्यर्थः। *समानेति* तदुपादानाच्च कर्तृद्वयस्यैक्यलाभः। *न्यासः स्यादिति* `कर्त्तरि कृत्' इतिवत्। वस्तुतस्तु न तथा सम्भवति, `कर्त्तरि कृत्' इति सूत्रेणैव गतार्थत्वात्, `अव्ययकृतो भावे' इति वार्त्तिकविरोधाच्चेति भावः। उक्तापत्तिं निरस्यति-*तृतीयापादनं त्विति*। *आख्यातार्थक्रियाया इति* क्रियाद्वयनिरूपितकर्तृशक्त्योरनेकत्वेऽपि प्रधानतिङन्तार्थक्रियानिरूपितकर्तृशक्तोराख्यातेनाभिधाने तत्र कृदन्तार्थक्रियानिरूपिततच्छक्तरनभिहिताया अप्यभिहितत्वातिदेशस्य, अनभिधाने त्वनभिहितत्वातिदेशस्य चोक्तभाष्यप्रामाण्येनाभ्युपगमान्न तृतीयापत्तिः प्रकृते इति भावः। *प्रधानेतरयेरिति* गुणप्रधानक्रियनिरूपितशक्तिः प्रधानक्रियानिरूपितशक्तिधर्ममनुरूणद्धीत्यर्थः। उक्तातिदेसेऽपि तत्सम्मतिमाह-*प्रधानविषयेति* प्रधानम्-विषयः=निरूपकं यस्याः सा शक्तिर्यदा तिङाऽभिधीयते। तदा गुणक्रियावाचकधातूत्तरप्रत्ययेनानभिहिताप्यभिहितवात् प्रतीयते इत्यर्थः। इदमुपलक्षणम्--अभिहिताया अपि अनभिहितत्वप्रतीतेः। तत्र `प्रासादे आस्ते' इत्युदाहार्य्यम्। अवश्यं चेत्थमभ्युपेतव्यम्-अन्यथा कर्तुः क्त्वार्थत्वाभ्युपगमेनोक्तस्थले तृतीयापत्तिवारयणेऽपि `पक्त्वौदनो मया भुज्यत्' इत्यत्रोदनपदोत्तरं द्वितीयाऽऽपत्तिर्दुर्वारा। तत्र पाकक्रियानिरूपितकर्मत्वशक्तेः कृतानभिधानादुक्तरीतेरसम्भवादित्याह-*किञ्चेति* अत्रेदं बोध्यम्-यदौदने पाकक्रियानिरूपितकर्मत्वस्यैव शाब्दविषयत्वमभिप्रेतम्, नतु प्रधानक्रियानिरूपिताकर्मत्वस्यापि, तदा `ओदनं पक्त्वा भुज्यते' इत्यपि साधु, ओदनस्य भोजनकर्मताया आर्थिकत्वात्। यदा तूभयकर्मत्वस्यैव शाब्दविषयत्वमभिप्रेतं तदौदनपदाद् द्वितीया असाध्वेव, उक्तव्यवस्थितेः। परन्त्वाख्यातवाच्यक्रियायाः प्राधान्यात्तां प्रत्येव क्त्वान्तोपस्थिताः सर्वाः क्रिया गुणीभवन्ति, नतु तासां परस्परं विशेष्यविशेषणभावः, `गुणानाञ्च परार्थत्वात्' इति न्यायात्। एवञ्च `स्नात्वा पीत्वा भुक्त्वा व्रजति' इत्यविशेषण प्रयोगाः। तुमुनस्तादर्थ्यरूपमुद्द्स्यत्वमपि द्योत्यम् `क्रियार्थायां क्रियायाम्' इत्युक्तेः। तन्निष्कर्षस्च पूर्ववदेव। तुम्प्रकृत्यर्थोपपदार्थयोस्तादर्थ्यवत्समानकरतृकत्वादिकमपि सम्बन्धः। तथाच,-`हरिं द्रष्टुं याति' इत्यतो हरिकर्मकभविष्यद्दर्शनोद्देश्यकं दर्शनकर्तृकर्तृकं यानमिति साब्दधीः। अनयैव दिशा `एधानाहारको व्रजति' इति बोध ऊहनीयः (1-60)
इति वैयाकरणभूषणसारदर्पणे कत्वाद्यर्थनिरूपणम्
(1-61) इत्त्थं व्याकरणादिना गृहीतशक्तिकपदसमुदायादनासमुदायादनासन्नादगृहीतार्थतात्पर्य्यकादयोग्यादनाकाङ्क्षाच्च शाब्दबोधादर्शनादासत्त्यादिकमपि शक्तिज्ञानजन्यपादार्थपस्थित्या बोधे जननीये सहकारि। आसत्तिश्च-प्रकृतबोधानुकूलपदव्यवधानम्। अस्ति च `पर्वतो वहिमान्' इत्यत्र तादृशपदाव्यवधानम्, नतु `गिरिर्भुक्तं वह्रिमान् देवदत्तेन' इति न ततो बोधः। अत एव "स्थाल्यां तण्जुलं पचति" इत्यत्र तण्डुलकर्मकस्थाल्याधिकरणकक्रियेति बोधे नानासन्नता, तद्घटकसर्वेषां पदानां तादृशबोधानुकूलत्वात् `स्थाल्यां पचति' इत्येतावन्मात्रबोधे तु तदनासम्नमेव। श्लोकादौ तु योजनावाक्यादेव बोधः। द्भ्रमेणानासंन्नाद् बोधधर्शनात्तज्ज्ञानमेव हेतुरिति सम्प्रदायः। नव्यास्तु-मौनिश्लोकादन्वयबोधानुदयप्रसङ्गान्नोक्ताव्यवधानमासत्तिः, आकाङ्क्षादिसत्त्वे, तात्पर्य्यज्ञाने च सति व्यवहितादव्यवहिताच्च बोधदर्शनात्तज्ज्ञानविलम्बेम शाब्दाविलम्बाच्छ। किन्त्विदं पदमेतत्पदेन सम्भूयान्वयबोधं जनयत्विस्याकारकपदतात्पर्य्यरूपाभिसन्धापयित्रिच्छा सा, नतु वक्त्रिच्छा, मौनिश्लोकादौ दोषतादवस्थ्यात्। शुकवाक्ये तु भगवत्तात्पर्य्यमादायैव गतिरित्याहुः। वस्तुतस्तु सत्यर्थतात्पर्य्यज्ञाने पदतात्पर्य्यज्ञानविलम्बेन शाब्दबोधाविलम्बात् `वृत्त्या पदजन्यपदार्थानामव्यवधानेनोपस्थितिरेवासत्तिः' स्वरूपसत्यन्वयबोधे हेतुः नहि पदार्थानामनुपस्थितान्वयधीः केनाप्यनुभूयते इति। अर्थतात्पर्य्यं त्विदं पदर्मेतस्मिन्नर्थेऽपदार्थान्वयं बोधयत्वित्यभिसन्धापयित्रिच्छा। संवादिशुकवाक्ये तु भगवत एव सा। विसंवादिनि तु शिक्षयितुरेव। अस्य संशये व्यतिरेकनिश्चेये चान्वयाबोधात्, तद्भ्रमेणान्वयबोधदर्शनाच्च तज्ज्ञानमप्यन्वयबोधे हेतुः। अधिकमग्रे वक्ष्यते।
`शाब्दबोधे योग्यताया ज्ञानं कारणम्' इति बहवः। सा चैकपदार्थेऽपरपदार्थस्य यादृशसंसर्गवत्त्वं तादृशसंसर्गवत्तैव, प्रकृतशाब्दबोधविषयसंसर्गबत्त्वमिति यावत्। अस्ति च `पयसा सिञ्चिति' इत्यत्र सेके पयःकरणत्वस्य संसर्गः। अत एव करकाभिप्रायप्रयुक्तपयसा सिञ्चतीति वाक्यं न योग्यम्, पयःपदार्थकरकायां सेककरणत्वाभावात्। यादृशेति विशेषमाच्च `आकाशं शब्दः' इति वाक्यं समवायसंसर्गमादाय नाभेदान्वये योग्यम्। अयोग्येऽप्येतद्भ्रमेणान्वयदर्शनादेतज्ज्ञास्यापि हेतुता। ननु संसर्गस्य वाक्यार्थत्वेन तद्बोधात् प्रागनुपस्थित्या कथं तद्बोधस्य तत्र सत्त्वमिति चेत्, नहि योग्यताज्ञानस्य शाब्दबोधे निश्चयत्वेन हेतुतां ब्रूमः, येनोक्तदोषोऽवकाशमासादयेत्। किन्तु संशयनिश्चयसाधारणज्ञानत्वेन, तस्य च न दौर्लभ्यम्, पयसा सिञ्चतीत्यादौ सेकः पयःकरणको न वेति संशयात्मकस्य भूतले घटोऽस्तीत्यादौ च प्रात्यक्षिकनिश्चयरूपस्यापि तत्प्राक्सौलभ्यात्। स्वजनन्यशाब्दबोधस्यैवान्वयबोधप्रतिबन्धकतयोक्तबोधात्तत्सम्भवात्। केचित्तु-लौकिकसन्नकर्षाजन्यदोषविशे,जन्यतद्वत्ताबुद्धित्वावच्छिन्नम्प्रति तदभाववत्ताज्ञानाभावस्य हेतुतया शाब्दबोधस्यापि तत्कार्य्यतावच्छेदकाक्रान्ततया अयोग्यताज्ञानसत्त्वे तदभावादेव शाब्दबोधवारणे कृतं योग्यताज्ञानस्य तद्धेतुतया। कार्यतावच्छेदककोटौ प्रत्यक्षान्यत्वनिवेशेनैव लौकिकप्रत्यक्षनिरासेऽपि घटाद्युपनीतभानसंग्रहाय तद्विहायाजन्यान्तद्वयनिवेशः।
नच बाधनिश्चयाभावत्वापेक्षयाभावत्वापेक्षया संशयनिश्चयसाधारणयोग्यताज्ञानत्वेन हेतुत्वे लाघवमिति वाच्यम्, स्यादेवं यदि बाधाभावस्य शाब्दत्वं कार्य्यताऽवच्छेदकं कल्प्येत, किन्तु शाब्दबोदस्य बाधाभावकार्य्यतावच्छेदकाक्रान्ततया तद्दशायां तं प्रतिषेधामः। अत एव `घटोऽभिधेयः' इत्यादावुक्त्बाधाप्रसिद्धावपि न क्षतिः, तत्संसर्गावच्छिन्नतत्प्रकारकतद्विशेष्यकबुद्धित्वस्यैव तत्कार्य्यताऽवच्छेदकत्वात्, घटाभावेऽभिधेयत्वप्रतियोगिकत्वभ्रमदशामादाय तदभावस्यापि प्रसिद्धश्चेत्यहुः।
अत्र वदन्ति-नहि तद्विशिष्टबुद्धिसामान्ये बाधाभावः कारणम्, किन्तु बाधावतारे इच्छसत्त्वे आहार्य्यप्रत्यक्षोदयादिच्छाया उत्तेजकत्वानुरोधेन प्रत्यक्षत्वस्यैव प्रतिबन्ध्यताऽवच्छेदकत्वावश्यकतयोपनीतभानसाधारणप्रतिबन्द्यतायाः शाब्दबोधेऽसम्भवात्। नच तथाप्यनुमितिसाधारणप्रतिबन्ध्यतायाः शाब्दबोधसाधारण्यं शङ्कयस, तत्साधारणस्य प्रत्यक्षान्यज्ञानत्वस्य प्रतिबन्ध्यतावच्छेकत्वे प्रत्यक्षान्यत्वज्ञानत्वयोर्मिथो विशेष्यविशेषणभावे विनिगमनाविरहेणानेकप्रतिबन्ध्यप्रतिबन्धकभावापत्तेः, प्रतिबन्ध्यतावच्छेदकगौरवापत्तेश्च, अनुमितित्वस्यैव तदवच्छेदकत्वस्याङ्गीकरणीयत्वात्। अतो बाधाभावस्य स्वातन्त्र्येणैव शाब्दबोधं प्रति हेतुता वाच्या। तत्र तोक्तगौरवेण संसर्गरूपयोग्यताज्ञानस्यैव हेतुत्वमुचितम्। अपिच शाब्दबोधे तद्वन्योन्याभावतदभावव्याप्यवत्ताज्ञानादीनां प्रतिबन्धकत्वकल्पनाऽपेक्षया लाघवाद् योग्यताज्ञानस्यैव हेतुत्वमुचितम्। किञ्च `पयसा सिञ्चति' इति शाब्दसामग्रीकाले सेकः पयःकरणकत्वाभाववानिति मानसवारणाय तत्रशाब्दबोधसामग्न्याः प्रतिबन्धकत्वकल्पने गौरवम्। मन्मते तत्र योग्यताज्ञानस्याऽवश्यतया विपरीतज्ञानोत्तरप्रत्यक्षे विशेषदर्शनस्य हेतुतया तदभावादेव तद्वारणात्। विशेषदर्शनसत्त्वे तु तदभावव्याप्यवत्तानिर्णयरूपप्रतिबन्धकसत्त्वेन शाब्दसामाग्नाय एवाभावेन तथा मानसे इष्ठापत्तेः।
नच निर्णयं प्रत्येव विशेषदर्शनस्य हेतुतया शाब्दसामग्रीकाले मानससंशयवारणाय शाब्दसामग्नयाः प्रतिबन्धकत्वे कल्पनीये संशयत्वमनिवेश्य सेकत्वावच्छिन्नविशेष्यकपयःकरमत्वाभावप्रकारकमानसत्वमेव तत्प्रतिबन्ध्यतावच्छेदकमिति नातिरिक्तप्रतिबन्ध्यप्रतिबन्धकभावकल्पनेति वाच्यम्, सेकत्वावच्छिन्नविशेष्यकपयःकरणकत्वप्रकारकमानसे शाब्दसामग्रीप्रतिबन्धकत्वान्तरस्योमयकल्प्यतया तेनैव संशयवारणे तत्संशये प्रतिबन्धकत्वन्तराकल्पनात्। नच विपरीतज्ञानोत्तरप्रत्यक्षे विशेषदशर्नस्य हेतुत्वसिद्धावेव योग्यताज्ञानस्य हेतुत्वसिद्धिरिति वाच्यम्, गुरूभूतशाब्दसामग्रीप्रतिबन्धकत्वकल्पनापेक्षया तद्धेतुत्वकल्पनाया एवोचितत्वादनयैव दिशेष्टसाधनत्वादिज्ञानानां प्रवृत्तौ हेतुतासिद्धिरित्यलं परमतानुवर्णनेन।
`घटः कर्मत्वम्' इत्याधाराधेयभावेनान्वये निराकाङ्क्षवाक्याद् घटीया कर्मतेति बोधानुदयादाकाङ्क्षाऽपि सहकारिणी। सा च यत्पेदे यत्पदसमभिव्याहारप्रयुक्तं यद्विशेष्यकयत्संसर्गकयत्प्रकारकबोधजनकत्वं तत्पदे तत्पदनिरूपिताकाङ्क्षा। यथा `घटमानयति' इत्यत्र घटपदे कर्मताविशेष्यकाधेयतासंसर्गकघटीया कर्मतेति बोधोपयिकाम्पदनिरूपिताकाङ्क्षा, तां विना घटः कर्मत्वमित्यत्र घटपदेन तादृशबोधाजननात्। एवं धातुपदेऽप्याख्यातनिरूपिताकाङ्क्षोह्या। अत एवानयनं कृतिरित्यत्र नानयानुकूला कृतिरिति बोधः, धातावाख्यातासमभिव्याहारात्। इयमेवाकाङ्क्षा व्याकरणेन प्रतिपाद्यते। तथाच तत्तपदे तत्तत्पदपूर्वापरीभावरूपसम्भिव्याहारः सेति फलति, तां विना यद्यप्युक्तानाकाङ्क्षे कर्मत्वपदेऽम्पदत्वभ्रमदशायां घटीयातत्तत्पदपूर्वापरीभावरूपसमभिव्याहारः सेति फलति, तां विना यद्यप्युक्तानाकाङ्क्षे कर्मत्वपदेऽम्पदत्वभ्रमदशायां घटीया कर्मतेति बोधोदयेन तज्ज्ञानं हेतुर्नतु स्वरूपसती सा। नच जनितान्वयबोधाद्वाक्यात् पुनरपि तादृशबोधापत्तिः, उक्ताकाङ्क्षयास्तादानीमप्यविकल्त्वादिति वाच्यम्, प्रकृतान्वयबोधसमानाकारबोदानुपहितत्वस्यापि स्वरूपसत आकाङ्क्षात्वैन जनितान्वयबोदस्थले तदभावेनापत्त्यसम्भवात्, तात्पर्य्यविषयत्वरूपप्रकृतत्वेन बोधविशेषणाच्च। बोधद्वयं जायतामिति तात्पर्य्यसत्त्वेन जनितान्वये बोदस्य द्वितीयबोधे निराकाङ्क्षत्वं स्वसमानेत्युक्तेश्च न जनितावान्तरबोधस्य महावाक्यार्थबोधे तत्त्वम्। अत एव "अयमेति पुत्रोराज्ञः पिरुषोऽपसार्य्यतामा" इत्यादौ राज्ञः पुरूषेण सहान्वयबोधजनने सर्वदा निराकाङ्क्षत्वम्।
नव्यास्तु-यत्पदस्य यत्पदव्यतिरेकप्रयुक्ततात्पर्य्यविषयीभूतान्वयाननुभावकत्वं तेन सह तस्याकाङ्क्ष। `अयमेति पुत्रो राज्ञः पुरुषः' इतिवाक्ये राजपुरुषसंसर्गप्रतीतिच्छयोच्चरिते राज्ञ इत्यस्य पुरुषेण साकाङ्क्षत्ववारणायान्वयबोधे तात्पर्य्यविषयत्वं विशेष्यणम्। पूरुषेणान्वये तात्पर्य्यसत्त्वे तु साकाङ्क्षत्वमपि, एवञ्च न तात्पर्य्यज्ञानस्य शाब्दबोधे पृथग्धेतुता अनुगृहीतार्थतात्पर्य्यके निरूक्ताऽकाङ्क्षाज्ञानाभावादेवान्वयबोदापत्त्याभावादित्याहुः। एवञ्च शाब्दबोधात् प्रागवश्यक्लृप्ततत्तत्पदसमभिव्याहाररूपाकाङ्श्रयैवान्वयरूपवाक्यार्थभानोपपत्तौ वाक्यस्य तत्र शक्तिर्निष्प्रमाणेति नैयायिका वदन्ति।
मीमांसकादयस्तु वाक्यस्य तत्र लक्षणैव, नतु तत्र शक्तिरिति तन्मतं खण्डयितुं स्फोदनिरूपणमित्याशयेन मूलमवतारयति-*सिद्धान्तेति*। यद्वा ननूक्तरीत्या व्याकरणस्य प्रकृतीप्रत्ययेषु तत्तदर्थबोधकत्वशक्तिप्रतिपादकत्वमनुपपन्नम्, प्रकृतिप्रत्यानां क्रमिकाशुविनासिनानावर्णाऽत्मकतयाऽस्थिरत्वेन अप्रत्यक्षतया तत्र शक्तिग्रहस्य कथमप्यसम्भवेन तत्प्रतिपादकस्यास्य शास्त्रस्याप्रामाण्यप्रसङ्घ इत्याशङ्कानिराकरणाय स्फोदनिरूपणमित्याशयेन मूलमवतारयन्नाह-
*सिद्धान्तनिष्कर्षमिति* तथाचोपोद्धातसङ्गरिरत्रेत्यवधेयम्। तत्त्न्मतनिराकरणन्तु मूल एव सुव्यक्तम्। अष्ठानां स्फोदामामाकरसि तया तद्व्यावृत्त्यालाभ इत्याशयेनाह-*अनर्थकमिति* निष्प्रयोजनकमित्यर्थः। *दुरर्थकमिति* तदुपादाने वाक्यातिरिक्तानामसंग्रहापत्तेरिति भावः। समाधत्ते-*तथापीति। *अन्येषाम्* वर्णादिपञ्चस्फोदानामित्यर्थः।
तत्र स्फोटत्वं स्फुटति=अभिव्यक्तीभावत्यर्थोऽस्मादिति व्युत्पत्त्याऽर्थप्रकाशकत्वम्, प्रकाशश्च-ज्ञानम्। तथाचार्थनिष्ठविषयताप्रयोजकशक्तिमत्त्वं पर्य्यवस्यति, वर्णस्यैव तत्त्वाभ्युपगमे वर्णस्फोटः। पदादीनां तत्त्वाभ्युपगमे तु पदादिस्पोट इति व्यवहारः। *अवास्तवत्त्वेति* वर्णस्फोटादीनामाकाङ्क्षानिवर्त्तकत्वाभावादवास्तवत्वं शास्त्रीयप्रक्रियानिर्वाहाय परं सिद्धान्ते तत्स्वीकारः। पारमार्थिकत्वन्तु वाक्यस्फोटस्यैवेति भावः। *विप्रतिपत्तिरिति* संशयीययावत्कोटयुपस्थापकं वाक्यमित्यर्थः। नतु संशयजनकं वाक्यमेव सा। परोक्षं ज्ञानं निश्चयात्मकमेवेति प्राचीनप्रवादेन संशयजनकत्वस्य वाक्ये असम्भवात्। वस्तुतस्यु संशयजनकवाक्यत्वमेव विप्रतिपत्तित्वम्। तत्तदभावसहचरितधर्मवद्धर्बिज्ञानस्येव समानानेकेति सूत्रेण विप्रतिपत्तेरप्याहत्येव संशयहेतुत्वोत्कीर्त्तनादित्यवधेयम्। मूले आसाधुशब्दान्तर्गतवर्णवाचकताविचारस्याप्रस्तुतत्वं मत्वा-*साध्विति* अत्र साध्वन्तर्गतवर्णत्वसामानाधिकरण्येन वाचकत्वादिसाधने तद्वाक्यस्य विप्रतिपत्तित्वासम्भवः नैयायिकैरपि साध्वन्तर्गतानां केषाञ्चिद् वाचकत्वाभ्युपगमात्। तादृशवर्णत्वावच्छेदेन वाचकत्वादिसावने तु वैयाकरणानां परेषां विकारणेषु बाधश्चेत्यत आह-*तत्स्मृता इति*। ननु यथाश्रुते साधुशब्दान्तर्गता वाचकस्तदन्तर्गतवर्णस्मारिता नेत्यर्थलाभादेतद्वाक्यस्य विभिन्नधर्मिबोधकत्वाद्विप्रतिपत्तित्वस्यैवासम्भवः, एकधर्मिकविरुद्धकोटिकसंशयजनकस्यैवतत्त्वा दतो व्याचष्टे सारे-*साधुशब्दान्तर्गता इति* साध्वन्तर्गतवर्णस्मारिति इत्यर्थः। यथाश्रुते साध्वनन्तर्गतविरपरीतानुपूर्वोकवर्णानां वाचकत्वस्य केनाप्यनभ्युपगमाद् बाधसिद्धसाधनयोरापत्तेः। तत्स्मारितत्वञ्च-शास्त्रबोधितादेशादेशिभाव-निमित्तनिमित्तिभावान्यतरसम्बन्धेन। तेन अस्यापत्यम् `इ' `इयान्' इत्यादेर्नासंग्रहः। *विधिकोटिरिति* समुच्चयव्यावृत्ता काटिताख्या विषयता संशये आवश्यकीति सूचनायोक्तम्-कोटिरिति। अन्येषाम्-नैयायिकानाम्। तैः "लः कर्मणि" `स्वौजसमौट्" इत्यादिविहितप्रत्ययानामेव वाचकत्वम्, तिब्विसर्गादीनां त्वादेशिस्मृतिद्वारा बोधकत्वमेव लिपिवदित्यभ्युपगमात्। तथाच साध्वन्तर्गतवर्णस्मारितवर्मत्वावच्छेदेन मतभेदेनोभयसाधनान्नौक्तदोष इति भावः। यथुश्रुतमूलोक्तविप्रतिपत्तिमनुसुत्याह-*साधुशब्द इत्यादि*। ननु साध्वन्तर्गतवर्णानां बोधकत्वसाधनेऽपिन वाचकत्वसिद्धिरत आह-*बोधक वाचका इति*। *तस्यैवेति* बोधकत्वस्यैवेत्यर्थः। *प्रागिति*। शक्तिनिरूपणावसर इत्यर्थः। नत्विति-बोधकत्वसिद्धौ च तदन्यथानुपपत्त्या पदार्थान्तररूपा शक्तिरपि सिद्ध्येत्, तदभावे तु साऽपि नेति वाचकत्वसामान्याभावसिद्धिरिति भावः (1-61) नैयायिकमतं दूषयितुमुपन्यस्यति-*ये त्विति*। वाचकत्वाभावे प्रयोजकमाह-*तेषामिति*। *बहुत्वेन-इत्युपलक्षणम्-अनुगमकधर्माभावस्यापि, तिङ्त्वसुप्त्वादीनामे कवचनत्वादिवदनुगमकत्वासम्भवात्तिङ्त्वाद्युपस्थिति विनाऽपि कृत्याद्यर्थोपस्थितेर्व्यभिचारेण शक्ततानवच्छेदकत्वाच्चेति बोध्यम्। ननु तिबाद्य देशिनामपि तत्तदनुबन्धभेदेन नानात्वान्नोक्तिरीत्या तेषां वाचकत्वमत आह-*एधामिति*। अनुप्रयुज्यमानधातुत्तरैधादिनापि तदर्थबोदोपपत्तेर्नौक्तदोषोऽत आह-*ब्रह्मेति*। आदिना `अद्य तिष्यो लिङ्धुक्' इत्यादिसंग्रहः। लुगादेरित्यादिना, लुब्लोपयोः सः *तैरिति* आदेशैरित्यर्थः। उक्तदोषमाशङ्क्याह-*लत्वस्येति*। *जातिरूपतयेति* लडादिलेषु ल-इत्यानुगतप्रतीत्या तत्सिद्धिरित्यभिमानः
नव्यास्तु-शक्ततावच्छेदकतया न तत्सिद्धिः। सर्वलकारसाधारणलत्वस्यातिप्रसक्तत्वाद्दशलकारमात्रवृत्तेस्तु शक्तिग्रहात् पूर्वमनुपसथितेः पचन्नित्यादौ कृतिबोधापत्त्या तस्य शक्तत्वाऽवच्छेदकत्वासम्भवाच्च तित्पत्वतस्त्वादिकमेव तदवच्छेदकमित्याहुः। तथाचोक्तविप्रतिपत्तौ प्राचीनैः सह विहाद एवेति बोध्यम्।
*अव्यभिचाराच्चेति* लत्वावच्छिन्नशक्तिग्रहस्य कृतिबोधात् पूर्व नियमेव सत्त्वात् तिप्त्वादीनां शक्यतवाच्छेककत्वे तु तदवच्चिन्नशक्तिग्रहं विनाऽपि तसादिशक्तिग्रहवत् कृतिबोधेनाऽदेशवाचकतावादिमते व्यभिचारो दुर्वार इति भावः। ननु कार्य्यतावच्छेदककोटावव्यवहितोत्तरत्वनिविशान्नेयमापत्तिरत आह-*लः कर्मणीतीति*। *इत्याहुरिति* तथाचादेशिनामेव वाचकत्वं सप्रमाणमिति तद्भावः। *स्वसाधकेति* श्वमातपरिपोषकेत्यर्थः। व्यवस्थितेरित्यादिपञ्चम्यन्तत्रयस्य पूर्वकारिकास्थबोधकपदार्थेऽन्वयं प्रदर्शयन्नादौ व्यवसथितेरित्येतद्विवृणोति-*व्यवस्थानुरोधादिति* `प्रमाणेन पदर्थनिर्द्धारणं व्यवस्था' तदन्यथाऽनुपपत्तेरित्यर्थः। *शक्तिभ्रमादिति* लत्वावच्छिन्ननिष्ठवाचकत्वस्य तत्रारोपादित्यर्थः। *मानाभावादिति* विषयबाधस्यैव भ्रमत्वे तन्त्रतया प्रकृते बोधकत्वशक्तेस्तत्राबाधादिति भावः।
नन्वादेशानां बहुत्वमेव तत्र शक्तिस्वीकारे बाधकमत आह-*आदेशिनामपीति*। *वैयाकरणैः*-शाकटाय नप्रभृतिभिः-*व्यवस्थेति*, इदमेव वाचकमिति निर्द्धारणानुपपत्तेरित्यर्थः, अनुशासनस्य सर्वत्रापि सत्त्वादिति भावः। सर्वैषामित्यस्य विनिगमकाभावादित्यादिः। ननु तथाप्यादेशापेक्षयाऽऽदेशिनामल्पत्वेन तत्प्रयुक्तलाघवादादेशिष्वेव वाचकत्वं सेत्स्यतीत्यत आह-*व्यभिचारश्चेति*। ननु विनिगमनाविरहादेवादेशिनां वाचकतासिद्धिरत आह-*आदेशानामिति* तथाच गौरवादिदोषस्य तत्परिहारस्य चोभयोः साम्येऽप्यादेशिस्मरणकल्पनाविरहप्रयुक्तलाघवसहकृतप्रयोगनैयत्यंमेवोदेशानां वाचकत्वे विनिगमकमित्याख्ण्डलार्थः। ननु बोधकतायाः शक्तित्व एव भवदुक्तव्यवस्थोपपत्तिः। नच बोधकत्वस्य शक्तित्वं तन्मतसिद्धम्, किन्तु सङ्केतस्य पदार्थन्तरस्य वा तत्त्वम्। तथाचानुशासनेन यत्र सा प्रतिपाद्यते तत्रैव तदङ्गीकारेण कथं तिबादिषु तत्सिद्धिः। स्मरणकल्पनागौरवं तु प्रामाणिकत्वादपि नदुष्टमित्यस्वरसात् प्रयोगे श्रुयमाणानां तिबादीनां वाचकत्वे साधाकान्तरमुपन्यस्यतीत्याह-*साधकान्तरमिति*। *मुख्य इति* मुख्यत्वञ्च-तस्मिन् शक्तिग्राहकान्तरनिरपेक्षत्वम्, व्याकरणादिना शक्तिग्रहे नियमेन तद्ग्राहकान्तरपेक्षणात्।
*सचेति* व्याहारजन्यशक्तिग्रहश्चेत्यर्थः *तिङादिष्वेवेति* व्यवहारेण पूर्व वाक्ये तद्ग्रहेऽप्यावाषोद्वापाभ्यामं पश्चात्तद्घटकतिङादिष्वेव तन्निर्णयादिति भावः। ननु प्रयोगान्तर्गतवर्णेषु सर्वसिद्धव्यवहारेण शक्तिग्रहे `घटमानय' इत्याद्यन्तर्गतशबादीनामपि वाचकत्वापत्तिः। नच सेष्टा, विकरणानां नैर'र्क्यमिति सिद्धान्तव्याकोपात्। किञ्चानयनादिव्यवहारस्य लोङाद्यन्तप्रयोगं विनाऽऽसम्भवेन तादृशप्रयोगान्तर्गतवर्णानां तेन तत्त्वासिद्धावपि तद्रहितवाक्यान्तर्गतवर्णेषु वाचकत्वमनुशासनेनैवेष्टव्यम्। तथाच तत्रादेशिनां वाचकत्वसिद्धावन्यत्राप्यादेशिषु सा कल्प्येत्यस्वरसादाह-*किञ्चेति*। *तद्धेत्विति* "तद्धेतोरेव तत्त्वे किं तेन" इति लाघवमुलकश्चायं न्यायः। उभयोर्हेतुत्वे गौरवात्तं सङ्गमयति-*लकारस्येति*। *बोधापत्तिरिति* भवनकर्तृबोधापत्तिरित्यर्थः. न केवलेति न्यायात् कवललकारस्य प्रयोगानर्हत्वात् `भ' इत्युक्तम्। लकारदाशायां शपोऽसम्भवान्न भवतीत्युपात्तम्। तथाच `भवति इत्यत्रानुसंहिताल्लकाराद्यथा कर्तृबोधस्तथा प्रत्यक्षश्रुतलकारादपि कर्त्तृ बोधापत्तिरिति भावः।
नचासाधुत्वज्ञानं प्रतिबन्धकम्, शक्तत्वरूपसाधुताया अपि सत्त्वादपभ्रंशादपि बोधोदयेन तदीयज्ञानस्याप्रतिबन्धकत्वाच्चेति भावः। *तादृशेति* आपादितकर्तृबोधे इत्यर्थः. समभिव्याहार इति* पूर्वापरीभावापन्नवर्णसमुदाय इत्यर्थः, आवश्यकत्वात्तं विना लकारेणापि बोधाजननेनोक्तसमभिव्याहारस्यापेक्षत्वादित्यर्थः। *वाचकत्वशक्तिरिति* अर्थबोधकत्वरूपा शक्तिरित्यर्थः. नचाप्राप्तकालता, वर्मस्फोटोपयोगित्वात् तस्या इति भावः। वाचकत्वानभ्युपगमे आदेशिशक्तिवादिमते गौरवं प्रदर्शयति-*अन्यथेति* उक्तसमभिव्याहारस्य वाचक्तानभ्युपगमे इत्यर्थः। *गौरवमिति* यद्यप्यादेशवाचकतावादिमते `भूति' इत्यातो विद्यमानभवनकर्तृबोधवारणाय तादृशबोधे `भवति' इति समभिव्याहारस्य हेतुताया अवश्यकल्प्यत्वाद्, गौरवसाम्यमेव, तथाप्यादेशिस्मृत्यकल्पनप्रयुक्तलाघवमक्षुण्णमेवेति भावः। नन्वेतावता समभिव्याहारस्य वाचकंत्वमायातम्, न प्रयोगान्तर्गतधातुप्रत्ययघटकानां वर्णानामत आह-*तथाचेति* विनिगमनाविरहादिति* नच वर्णानां बाहुल्यमेव विनिगमकम्, उक्तानुपूर्व्यास्तदनुगमकत्वादिति भावः। वस्तुतस्तु समभिव्याहारस्य वाचकत्वे तत्घटकनानावर्णानामवच्छेदकतायां गौरवम्, वर्णानां वाचकत्वे तूक्तानुपूर्व्या एकस्या एव तत्त्वमिति लाघवस्यैव विनिगमकत्वमिति बोध्यम्। ननु प्रयोगान्तर्गतवर्मस्मारतवर्मत्वावच्छेदेन वाचकत्वसिद्धौ प्रकृतायां पाचकत्वाभावसाधनाय `भूल्' इत्यतो भवनक्रियाकर्त्तृबोधापादनमनुचितम्, तादृशलकारस्य प्रयोगान्तर्गतवर्मास्मारितत्वात्। तथाच नोक्तयुक्तिः समभिव्याहारस्य वाचकत्वसाधिका नाप्यत्र तद्धेतुन्यायावकाशः, समभिव्याहारस्य लवाचकताग्रहोपयोगितया शाब्दबोधे हेतुत्वेऽपि तद्वाचकताया मानाभावेन तेन तदन्यथासिद्ध्यसम्भवात्। लकारस्य वाचकत्वे त्वनुशासनस्यैव मानत्वादित्यपरितोषान्मूलमवतारयति-*अपिचेति*। *न स्यादिति* स्थानिनो लकारस्योभयत्रैक्यादिति भावः। नव्यनैयायिकन्ये तु नेयमापत्तिः, तैः प्रयोगान्तर्गततिबादीनामेव वाचकताया अभ्युपगमात्। धातुप्रत्ययलोपस्थले तत्तदर्थबोधोपपादनन्तुभयोः समप्रयत्नकमित्यवधेयम्। *इत्यस्त्विति* तथाच तदुभयशक्तयैव कर्तृलाभः। कृत्याश्रयस्यैव कर्तृत्वादिति भावः। *अन्येति* अनाकाङ्क्षेऽपि शास्त्रप्रवृत्तावित्यर्थः। शक्ततावच्छेदकभेदस्य तत्रापि सत्त्वादिति भावः (1-62)
(1-63) *सामानाधिकरण्यानुरोधादिति* शानचः कृतिवाचकत्वे सर्वानुभवसिद्धाभेदान्वयबोधानुपपत्तेरित्यर्थः। लङादेसत्वबोधनफलं धात्वर्थे वर्त्तमानत्वप्रतीतिरेवेति बोध्यम्। *पचतिकल्पमिति* इदञ्च स्वाद्यन्तं नामेति मतमनुसृत्य। `सत्त्वप्रधानानि नामानि' इति निरुक्तात् द्रव्यविशेष्यकबोधजनकत्वं नामत्वम्। तदेव च नामार्थयोरिति व्युत्पत्तिघटकम्। अत एव निपातार्थस्य भेदान्वय इति मतेनेदं दूषणमिति तु परे। लक्षणेत्यस्य लस्येति शेषः।
*आपत्तेरिति* नच सा तवेष्टेति भावः। नन्वादेशानां वाचकत्वे आदेशिशक्तिप्रतिपादक `लः कर्मणि' इत्यादित्राणां वैयर्थ्यमत आह-*लः कर्मणीति*। *उक्तमिति* आख्यातशक्तिनिरूपणावसर इति शेषः। एवञ्च प्रयोगे श्रुयमाणप्रकृतिप्रत्ययघटकवर्णेषु शक्तिर्वर्णस्फोटमिति पर्य्यवसन्नम् (1-63) इति वर्णस्फोटनिरूपणम् ।। 13 ।।
(1-64) पदस्फोटनिरूपणे उपजीव्योपजीवकभावस्यापि सङ्गतित्वं सूचयन् मूलमवतारयति-*एवमिति* उक्तरीत्येत्यर्थः। आदेशानामपि केषाञ्चित् प्रयोगान्तर्गतत्वादाह-*तिब्विसर्गादय इति* प्रयोगान्तर्गतवर्णा इति यावत्। ननु तादृशयावद्वर्णानां वाचकत्वे कथं पदस्फोटसिद्धिरतो भावार्थमाह-*अयमिति* समभिव्याहृतं तूक्तार्थम्। *सिद्ध इति* आनुपूर्वोविशिष्टतावतां वर्णानामवाचकत्वे आनुपूर्वोरूपपदस्य वाचकत्वाशा दुराशेति भावः। ननु समुदायस्य प्रत्येकानतिरिक्तत्वेन वाचकतायाः प्रत्येकवर्णे विश्रामो वाच्यः, तथाच कथं समुदिततादृशवर्मरूपपदस्य वाचकतेत्यतः प्रत्येकवर्मवाचकतां निरस्यति-*प्रतिवर्णमिति*। *अनुभवविरुद्धत्वादिति* घटशब्दादमुमर्थं प्रत्येमीत्येव प्रतीतेरित्यर्थः। बाधकान्तरमप्याह-*प्रत्येकमिति*। *अर्थवत्त्व इति* तदभ्युपगम इत्यर्थः। नलोपादीत्यादिना जश्त्वादि परिग्रहः।
तथाच समुदितानामेव तेषां वा चकत्वमभ्युपेयम्। तत्र चोक्तयुक्त्या तत्समुदायस्य वाचकत्वं निरावाधम्। स एव चास्माकं पदशब्दव्यपदेश्य इति भावः। ननु प्रत्येकवर्णानां वाचकत्वस्य गौरवपराहतत्वादेवासम्भवात्समुदायस्यैव तत् सेत्स्यतीत्यादेशा वाचकाश्चेति समभिव्याहृतवर्णानां वाचकताया हेतुत्वोपन्यासो विफलः, उन्मत्तप्रलपितत्वशङ्काया अपसरेणैव निरासादित्यत आह-*एतच्चेति* समभिव्याहृतवर्णानां वाचकत्वोपन्यसनञ्चेत्यर्थः। *चरमवर्ण एवेति* पदान्ते श्रूयमाणवर्णे एवेत्यर्थः। एवकारेण पदघटकतत्प्राक्तनवर्णव्युदासः। तत्र हेतुमाह-*शक्तेरिति* स्वरूपसम्बन्धात्मिकायांबोधकारणतायां पर्य्याप्तत्वासम्भवाच्चरमवर्णादेव बोधोदयेनान्यत्र तत्सत्त्वे मानाभावादिति वार्थः।
ननु तस्यैव वाचकत्वे तन्मात्रश्रवणादर्थबोधापत्तिरत आह-*पूर्वपूर्ववर्णेति* तत्पदघटकपूर्वपूर्ववर्णेत्यर्थः। *मतान्तरेति* समभिव्याहृतवर्मानामवाचकत्वे तत्समुदायरूपपदस्य सुतरामवाचकत्वमिति यन्मतान्तरं तत्खण्डनायेत्यर्थः। उक्तमित्यस्य मूल इति शेषः। वस्तुतस्तु नेयमापत्तिः। उद्बोधकतत्कल्पे दूषणान्तरमप्याह-*रामोऽस्तीत्यादि*। *अर्थबोधापत्त्येति* उद्बोधकसमवधानस्य फलानुमेयत्वेन तादृशस्थले फलाभावेनोद्बुद्धसंस्काराभावादिति बोध्यम्।
ननु समभिव्याहारो न समूहः, वर्णानां क्रमिकाणामाशुविनाशिनाञ्च तदसम्भवादत एवाव्यवहितोत्तरत्वसम्बन्धेन न पूर्वपूर्ववर्णवत्त्वम्, तस्यैवाभावात्। नापि वर्णसमवेतं पदार्थान्तरम्, मानाभावात्, अन्यथा तादृशशधर्मानुगतीकृतवर्णानां वाचकत्वेनैवोपपत्तौ पदस्फोदस्य निरालम्बनताऽऽपत्तेः, पदप्रयुक्तकार्याणां वर्णेष्वेव दर्शनाच्छेति कथं पदस्फोटसिद्धिरित्यत आह-*दिगिति* तदर्थस्तु वर्मसमुदायः पदम्, न वर्ण इति प्रतीतेर्वर्णातिरिक्तपूर्वापरीभूततत्समुदायात्मकपदस्वीकार आवस्यकः। अत एव `पदे वर्णः इति व्यवहारोऽपि स्वरसतः सङ्गच्छेते। नित्याश्च वर्णास्तेषु पौर्वापर्य्यञ्च-पूर्वपूर्ववर्णानुसन्धानस्याव्यवहितोत्तरत्वसम्बन्धेनोत्तरवर्णानुसन्धाने वाक्यस्फोवक्ष्यमाणरीत्या सत्त्वात्तेन स्वविषयकानुसन्धानविशिष्टानुसन्धानविषयत्वरूपमिति नानुपपत्तिरिति। यथा चैतत् तथा वाक्यस्फोटनिरूपणे वक्ष्यत इति। तथाच `वर्णसमुदायो वाचकः' इति पदस्फोटपक्षे पर्य्यवस्यति (1-64)
(1-65) *पारिभाषिकेति* पाणिन्यादिसङ्केतितेत्यर्थः। पूर्वे तु आदेशस्मारितवर्णानां बोधकत्वनिरासेन प्रकृतिघटकवर्णसमुदायरूपस्य, प्रत्ययघकवर्णसमुदायरूपस्य च तस्य वाचकतोक्ता। इदानीन्तूभयघटकवर्णसमुदायस्यैव सेति भेदः। `घट्' इति प्रकृतिः, एनेति प्रत्यय इति प्रकृतिप्रत्यययोर्विभागस्य ज्ञानासम्भवादिति योजनीयम्। *सर्वे सर्वपदेति* वर्णनित्यताप्रतिपादकं भाष्यमेतत्। वस्नसादेरपि पक्षत्वादाह-*व्याजेनेति* तथाच निश्चितसाध्यवत्त्वस्यैव दृष्टान्तत्वे तन्त्रत्वेन तस्य पक्षभिन्नत्वाभावेऽपि न दृष्टान्तत्वमनुपपन्नमिति भावः। *तत्र*=वस्नसादिस्थले। *विभाग*=प्रकृतिप्रत्यययोः पार्थक्येन निर्णय इत्यर्थः। अस्य वैयाकरणानामपीति शेषः। परे तु आमादौ प्रत्ययत्वस्यदृष्टत्वेन वामित्यादावामो व इत्यादेर्वसादेः प्रत्ययत्वमितरांशस्य प्रकृतित्वमनुमातुमशक्यमित्युक्तरीत्या न प्रकृतिप्रत्ययसमुदायूपपदस्य वाचकत्वसिद्धिः। घटेनेत्यत्र तु नशब्दस्य टादेशत्वं भाष्यकृतैवोक्तमिति न तत्र विभागासिद्धिः। `अजर्घाः,अचकात्' इत्यादौ त्वगत्या 'शिष्यमाणं लुप्यमानार्थाभिधायि" इति न्यायात् प्रकृतेरेव वाचकता। अस्तु वा तत्रापि लुप्तप्रत्ययानुसन्धानाद् बोधः। प्रकृतेरेव वा स्वार्थविशिष्टप्रत्ययार्थे लक्षणा। सर्वे सर्वपदादेशाः" इत्यापि वर्णानित्यत्ववादिनां मते दूरापस्तमित्याहुः (1-65)
(1-66) युक्तेरैक्तयात् क्रमप्राप्तं वाक्यस्फोटनिरूपणमित्यासयेन मृलमवतारयति-*सुप्तिङन्तेति*। *तत्* वाचकत्वम्। *समुदाय इति* पदसमुदायरूपे वाक्य इत्यर्थः। *एवमिति* वाक्यशक्तिवदित्यर्थः। विशिष्य=सूत्रोपात्तरूपेण। अज्ञायमानेष्वित्यनेन तन्निष्ठबोधकत्वज्ञानासम्भवः। सूच्यते-समुदायव्यत्पत्त्येति* समुदायस्य वाचकत्वग्रहेणेत्यर्थः। बोधात्=प्रकृत्यर्थविशिष्टप्रत्ययार्थबोधादित्यर्थः। तत्रापि=सुप्तिङन्तरूपपदेऽपि *शक्तिरिति* तत्कल्पनेत्यर्थः। ननु `घटेन' इत्यादिमूलेन समयुक्तिकस्फोटद्वयोपादानात् कथं पदस्फाटे साध्ये वाक्यस्फोटस्य दृष्टान्तत्वम्। किञ्चप्रथमं पदस्फोटासिद्धो तदर्थसम्बन्धरूपवाक्यार्थाप्रसिद्धया क्व वाक्यार्थशक्तिकल्पनावसर इत्याद्योटपरितोषात् पदस्फोटमेवदृष्ठकृत्य वाक्यशक्तिं साधयति-*वस्तुत इति* तथाच तत्र पदेष्वेव पदार्थशक्तिग्रहात् पदोपस्तित्या पदशक्तिग्रहसम्भवस्तत्र पदशक्त्यैव वाक्यार्थबोधः। यत्र तदसम्भवो हरेऽवेत्यादौ, तत्रानायत्त्या वाक्यशक्त्यैतद्बोध इति। यद्यपि व्यवस्थिताविति पदमहिम्ना पक्षद्वयं व्यवस्थितमिति लभ्यते, तथापि आवश्यकवाक्यस्फोदेनैवोपपत्तौ पदस्फोटकल्पनं नावश्यकमिति सिद्धान्ते वाक्यस्फोट एव पर्य्यवस्यतीति बोध्यम्। व्क्यस्फोटस्यावश्यकतामेव दर्शयति-*अन्यथेति* वाक्यशक्त्यनभ्युपगमे इत्यर्थः। *तादृशेति* वाक्यार्थबोधजनकत्वपूपवाक्यशक्तिज्ञानरहितस्यापीत्यर्थः। तत्सत्त्वे तु तत्रापि बोध इष्ट एवेति भावः। *बोधप्रसङ्गः*=घटकर्मकानायनानुकूलकृतिबोधापत्तिः। पदवृत्तिज्ञानजन्यपदार्थोपस्थितेः सत्त्वादिति भावः। *घटमानयेत्यत्रेवेति*। अत्र तादृशब्युत्पत्तिरहितस्यैत्यनुषज्यते। ननु शाब्दबोधकारणार्थतात्पर्य्यज्ञानरूपसहकार्यन्तराभावादेव न बोधोऽत आह-*सत्यपीति*। *बोधाभावादिति* तादृशबोधाभावादित्यर्थ। तथाच यद्भावात् कार्याभावस्तस्त तद्धेतुतया वाक्यशक्तिरावशियकेति भावः। एतेन व्यतिरेकसहचारकारणताग्राहकः प्रदर्शितः। अन्वयं प्रदर्शयन् वाक्यशक्तिं व्यवस्थापयति-*तत्रैवेति* घटमानयेत्यत्रैवेत्यर्थः। बोधादित्यनेन स्वरूपसतो हेतुत्वस्य व्यवच्छेदः। तादृशसाकाङ्क्षज्ञाननिष्ठबोधहेतुत्वास्मन्मते वाक्यशक्तित्वेनाकाङ्क्षाशक्तिरिति परिभाषाभेदेऽपि वाक्यस्फोटसिद्धिनिराबाधेत्यशेयनाह-*तर्हिति*। ननु शाब्दबोधहेत्वर्थोपस्थितिजनकत्वं शक्तित्वम्। तत्तु पदे एव न वाक्ये, तन्निष्ठबोधकतायास्तादृसोपस्थित्यजनकत्वादत आह-*अर्थोपस्थापकेति*। *शब्दवृत्तिति* शब्दनिष्ठं यद्बोधकारणत्वमित्यर्थः। तथाचोपस्थितौ शाब्दहेतुत्वनिवेशे एतत्कल्पे प्रयोजनाभावेन तज्ज्ञानस्य तादृशोपस्थित्यजनकत्वेऽपि शक्तित्वाऽक्षतेः। बोधकशब्दस्य शब्दत्वेन निवेशाच्चापभ्रंशस्यापि संग्रह इति भावः। ननु वाक्यशक्तिवादिमते संसर्गरूपवाक्यार्थस्य नानात्वात्तद्भेदेन शक्त्यानन्त्यम्। किञ्चि पदवृत्त्या वाक्यशक्तिं विनाऽपि वाक्यार्थबोधजननाद्वाक्यशक्तिग्रहस्य तद्धेतुतायां व्यभिचारः। अखण्डवाक्यपक्षस्तु नेदानीं प्रक्रान्तः। कार्य्यताव्चछेदकेऽव्यवहितोत्तरत्वनिवेशेन तद्वारणेऽप्यनुपस्थितसंसर्गे वाक्यशक्तिग्रहस्य शाब्दबोधात् प्रागसम्भवेन कथं तद्ग्रहस्य शाब्दबोधकारणतेति चेत् सत्यम्, संसर्गस्य विशिष्यानुपस्थितावपि तदादिवत् कारकविभक्तिविशिष्टधातुपदं कारकविशिष्टक्रियाबोधकमिति सामान्यतस्तद्ग्रहात्। तात्पर्य्यग्रहस्य त्वयाऽप्येवमेव वाच्यत्वात्। अनन्तरं पदविशेषसमभिव्याहारेण तात्पर्य्यवशात् संसर्गविशेषेण तत्कारकविशिष्टतत्क्रियाभानम्। नापि संसर्गाऽऽनन्त्यप्रयुक्तशक्त्यानन्त्यम्, सम्बन्धस्यानुगमकस्य नियामकताप्युभयोः समैवेति तन्मतनिष्कर्षः। ननु स्यादेवोक्तप्रकारो यदि वाक्यनिष्ठबोधकतायाः शक्तित्वं सप्रमाणं स्यात्, तदेव तु नेत्यत आह-*युक्तं चैतदिति*। *एतद्* वाक्यनिष्ठबोधकत्वस्य शक्तित्वम्। युक्तिमेवाह-*विषयतेति* शाब्दबोधमात्रे तत्सामान्य इत्यर्थः। *वृत्तिज्ञानस्येति* वृत्तिज्ञानजन्योपस्थितिरित्यर्थः। विषयतासम्बन्धेनेत्यनुषज्यते। *लाघवेनेति* अन्यथा घटपदशक्तिमविदुषस्तत्पद ज्ञानवतो यत्कञ्चिद्वृत्तिज्ञानवतो घटमानयेति वाक्याद् बोधापत्त्या घटशाब्दबोधे घटार्थकपदवृत्तिज्ञानजन्योपस्थितित्वेन हेतुता वाच्येत्यर्थभेदेनानन्तकार्य्यकारणभावकल्पेन गौरवम्। अस्मन्मते तु विषयतासम्बन्धेन घटवृत्तिज्ञानजन्योपस्थितेर सत्त्वान्न शाब्दे तस्य भानामित्येक एव कार्य्यकाररणभावः कल्प्यत इति लाघवेनेत्यर्थः। ननु घटघटत्वयोर्विशेष्यविशेषणभावे विपरीत्युत्पन्नस्य घटमानयेत्यतो घटत्वविशिष्टबोधवारणाय घटत्वविशिष्टबोधे उपस्थितेर्घटपदवृत्तिज्ञानजन्यघटत्वविशिष्टाया हेतुताया अवश्यवाच्यतया तत एवानतिप्रसङ्गे उक्तकार्य्यकारणभावे मानभावोऽत आह-*विवेचेतञ्चैतदिति* पदपदार्थभेदेनानन्तकार्य्यकारणभावेषु वृत्तिप्रवेशमपेक्ष्य उपस्थितेः पदज्ञानजन्यत्वेनैव शाब्दसामग्रीकुक्षो प्रवेश उचितः। तथा सति समावायेनाकाशस्य जनकतयोपस्थितस्य देवदत्तादेश्च शाब्दे भानावारणाय विषयतया शाब्दसामान्येवृत्तिजन्योपस्तितेर्विषयतया हेतुत्वं वाच्यम्। एवञ्च संसर्गस्य शाब्दे भानानुरोधेन संसर्गेऽपि वृत्तिकल्पनमावश्यकम्। तथाच पदैः पदार्थानां वाक्येन वाक्यार्थस्य बोधादिति वृत्तिज्ञानस्येति यथाश्रुतार्थकमेव तत्र विवेचितम्। वस्तुतस्यु वृत्तिज्ञानपदं यथाश्रुतार्थकमेव। वृत्तिज्ञानस्यैत्यनन्तरम् अनुषक्तविषयतासम्बन्धेनेत्यस्य वृत्तिज्ञानविषयबोधकत्वघटकबोधीयविषयतासम्बन्धेतेत्यर्थः। अन्यथा वाक्यवृत्तिज्ञानजन्योपस्थितेरेव शाब्दबोधत्वेन तस्मिँस्तेन सम्बन्धेन तद्धेतुत्वासम्भवेन वाक्यशक्तेर्गर्भस्त्रावादिति बोध्यम्। अत्र वदन्ति-पदजन्यपदार्थोतिमन्तरेण शाब्दबोधानुदयात्तदृसपदार्थोपस्थितेः शाब्दबोधे हेतुतेति तावन्निर्विवादम्। पदस्य च प्रकृत्याद्यत्मकस्यार्थे सम्बन्धं विना तदुपस्थापकत्वाशम्भवात्तस्मिन् वृत्त्यात्मकसम्बन्धोऽप्यावश्यक एव, नतु तत्समुदायरूपपारिभाषिकपदत्य तत्समूहरूपवाक्यस्य विशिष्ठार्थे सः, तं विनाऽपि तेभ्य आकाङ्क्षादिरूपकारणसमवधानादेव विशिष्टबोधोपपत्तेः। एकपदार्थविशिष्टापरपदार्थशाब्दत्वस्यैव तत्कार्य्यतावच्छेदकत्वात्। यत्तु लाघवाद् वृत्तिज्ञानजन्योपस्थितोर्वषयतासम्बन्धेन हेतुत्वमेव वाक्यशक्तौ प्रमाणमिति, तन्न, स्वातन्त्र्येण तद्धेतुत्वस्यैवासिद्धेः। तथाहि-तादृशकार्य्यकारणभावे वृत्तित्वेन पदवृत्तेर्निवेशः। किं वाक्यवृत्तेः, किं वा वृत्तिसामान्यस्य?। न तावदद्यः, पदृवत्तिज्ञानजन्योपस्थितेः शाब्दवोधहेतुत्वस्य सर्वैंरेवाभ्युपगमात्। न द्वितीयः, वाक्यवृत्तेस्ततः प्रागसिद्धेः। अत एव न तृतीयः, किञ्चि तव मते वाक्यशक्तिजन्योपस्थितेः शाब्दबोधात्मकत्वेन तस्तिंस्तद्विषयत्वासम्भवादपि नोक्तरीतिः-साधीयसी। अपिच वाक्यवृत्तिज्ञानस्य शाब्सामान्ये न स्वातन्त्र्येण हेतुत्वं यदा कदाचिद्विपरणादिता घ टादिपदशक्त ज्ञानजन्यपदार्थोपस्थितिदशायां घटमानयेति वाक्यशक्तिमविदुष आकाङ्क्षादिवशाच्छाब्दबोधोदयेन व्यभिचारात्। यदपि समभिव्याहाररूपाकाङ्क्षैव वाक्यमिति तदपि न,तथा सति `घटीया कर्मता' इत्यादिबोधे घटमानयेति वाक्यं साकाङ्क्षम्। निराकाङ्क्षञ्च-घटः कर्मत्वमिति सर्वसिद्धव्यवाहारानुपपत्तिः।?तथाच समभिव्याहारस्य शाब्दबोधहेतुत्वेऽपि वाक्यस्य तत्त्वं दुरुपपादमेवेति क्व वाक्यसक्तिसिद्धिः। सम्भिव्याहारनिष्ठबोधजनकत्वग्रहवतो बोधे तज्ज्ञानं हेतुरित्यपि रिक्तं वचः। अन्वयव्यतिरेकाभ्यां समभिव्याहरज्ञानस्यैव शाब्दधीहेतुत्वेन तन्निष्ठबोधजनकत्वज्ञानस्य हेतुताया एवाभावात्। नच तदपि सम्भवति, शाब्दबोधात् प्राक्संसर्गस्यैवानुपस्थितेः। सामान्यतस्तदुपस्थितावपि विशेषरूपेण भानार्थं तात्पर्य्यज्ञानाद्यपेक्षणे च मूलशैथिल्यात् तव वाक्यशक्तेरेवासिद्धयापत्तिः। वक्ष्यमाणरीत्या शाब्दबोधात् प्राक् तदुपस्थित्यभ्युपगमे वाक्यवृत्तिज्ञानजन्योपस्थित्यनन्तरं शाब्दबोधाभ्युपगमे वा शाब्दप्रामाण्यभङ्गापत्तिः, अनधिगतार्थग्रहकारणस्वैय प्रमाणत्वात्। अत एव सूत्रकृता "कृत्तद्धितसमासाश्च" इत्यत्र समासग्रहणं कृतम्। वाक्यशक्तौ तु तद्वैयर्थ्य स्पष्टमेव। "सामायिकः शब्दादर्थप्रत्ययः" इति कणादोक्लेर्वाक्यशक्तिग्राहकानुशासनादेरभावेन तद्ग्रहासम्भवाच्चेति वाक्यस्फोट आपातरमणीय एवेति पूर्वोक्तरशक्तिग्रहप्रकारस्य शैथिल्यं मनसि निधाय तस्मिन् प्रकारान्तरं वक्तुमग्रिमग्रन्थ इत्याशयेनाह-*नन्विति*। *अपूर्वत्वात्*-शाब्दबोधात् प्रागनुपस्थितत्वात्। ननु शाब्दबोधात् पूर्व पदे प्रत्यक्षाद्युपस्थितपदार्थनिरूपितशक्तिग्रहः सुलभ एवेति पदे सममिति मूलमनुपपन्नमत आशयं प्रकाशयति-*पदे एवेति* पदानामेबान्वितपदार्थे शक्तिः, अन्वयश्च-सामान्यरूपेम ज्ञानमः, अत एव घटादिपदादन्वितघटाद्युपस्थितौ नियमेन तत्प्रतियोग्याकाङ्क्षा भवति-किमन्वितो घटः किमन्वितं कर्मत्वमित्याद्याकारा, सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकजिज्ञासाजनकत्वात्। विशेष रूपेण भाने त्वमादिपदसमभिव्याहारो नियामकोऽत एव तस्य शाब्दे भानम्, पदवृत्तिविषयत्वात्, अशक्यस्यापि भानेऽति प्रसङ्गात्। नचैवं घटमानयेत्यत्रेतरान्वितं कर्मत्वमितिरीत्याऽनेकधा संसर्गस्य भानापत्तिः, तत्तत्पदेभ्यस्तथार्थोपस्थितावप्याकाङ्क्षावशादेकधैव तद्भानप्रसङ्गत्। नचाकाङ्क्षायास्तद्भाननियामकत्वावश्यकत्वेन तत्र वृत्तिकल्पनाऽपार्थेति वाच्यम्, अशक्यभानाभियैव तदभ्युपगमात्। तथाच पदशक्त्यैव संसर्गभानोपपत्तौ तत्र न वाक्यशक्तिः, पदत्वापेक्षया वाक्यत्वस्य गुरुत्वाच्चेति तन्मतम्। तथाचानिविताभिधानमतेऽपि पदे वाक्यार्थशक्तिग्रहासम्भवः समान इत्यर्थः। *ज्ञातेति* पदार्थानां प्रागुपस्थित्या तत्र पदार्थशक्तिग्रहसम्भवादिति भावः। *अज्ञातैवेति* वृत्त्यभ्युपगमस्तु शाब्दे भानानु पपत्त्यैवेति भावः। *पदार्थवदिति* सप्म्यन्ताद्वतीः, उपमेये सप्तमीदर्शनात्। *वाक्यार्थेऽपि* संसर्गेऽपीत्यर्थः। इदञ्च बोध्यत्वं शक्तिरित्यभिप्रेत्य *तद्गाहः*=शक्तिग्रहः। लक्षणशब्दस्य चिह्नादौ प्रसिद्धेः प्रकृतोपयोगयर्थपरतया त व्याचष्टे-* लक्ष्यत इति*। मूले *अर्थे इति* निरूपितत्वं सम्पम्यर्थः। तच्छब्दार्थे शक्तिज्ञानेऽन्वेतीत्यभिप्रेत्य व्याचष्टे-*पदेऽपीत्यादि* *तद्ग्रह इति* वाक्यार्थनिरूपितशक्तिग्रह इत्यर्थः। अयं भावः-घटमानयेत्यादिवृद्धव्यवहाराद्यस्य पदे पदार्थशक्तिनिर्णयस्तस्य तद्वाक्यश्रवणे पदैः पदार्थेपस्थित्यादिसम्बधाने मासा तत्संसर्गौपस्थितिर्नानुपपन्ना। परन्तु मानसस्य प्रायः संशयात्मकस्यापि सम्भवात्तिन्निश्चयार्थ शब्दांऽऽदरः। तत्र शक्तिग्रहहेतुलङ्गादेर्निर्णायकस्य सत्त्वेन संशयकत्वासम्भवादिति। ननु शब्दनिष्ठशक्तिनिर्मयस्यैव शाब्दबोधे हेतुताऽवधारणेन तस्य शाब्दबोधात् प्रागुक्तरीत्याऽसम्भवेन वाक्यशक्तेः शाब्दबोधहेतुत्वं दुर्घटमेवेत्यत आह-*वस्तुतस्त्विति*।
*तद्ग्रहः* विशिष्टवाक्यार्थशक्तिग्रहः। तथाच च शक्तिग्राहकशिरोमणिना व्यवहारेण पूर्वं वाक्ये एव शक्तिग्रहेणं तस्यैव शांब्दबोधहेतुत्वावधारणात्तादृशवृत्तेश्च-स्वाश्रयविषयकत्व-स्वविषयकोद्बुद्धसंस्कारसामानाधिकरण्योभयसम्बन्धेन बैशिष्टयस्येदानीन्तनवाक्यज्ञानेऽप्यक्षतत्वान्न वृत्तिज्ञानस्य शाब्दबोधे हेतुतायां व्यभिचापरॉः, मध्ये वाक्यार्थोपस्थितेरनपेक्षणाच्च नोक्तदोषावसर इति भावः। ननु तर्हि पदस्फोटस्य निरालम्बनतापत्तिरत आह-*आवापोद्वापाभ्यामिति* आनयनापसारणाभ्यामेकपदोपादानापरापदानुपादानाभ्यामित्यर्थः। *तद्ग्रहः*=प्रत्येकपदे प्रत्येकपदार्थशक्तिग्रहः। तथाच प्रत्येकपदशक्तिसाचित्वयेनाऽऽकाङ्क्षादिवशात् पदाद्वाक्यार्थशाब्दबोदस्तदा पदस्फोटः, यदा तु तन्निरपेक्ष्यैव सा बोधं जनयति तदा वाक्यस्फोट इति मतद्वयं पर्य्वस्यतीति भावः। केचितु-उपस्थिताः पदार्थस्तदुपस्थितिर्वा शाब्दबोधहेतुनतु पदज्ञानमपि, तद्विनाऽपि शाबद्बोबोदयेन व्यभिचारात्। तदुक्तम्-`पशयतः स्वेतमारूपं ह्रेषाशब्दञ्च श्रृण्वतः। खुरविक्षेपशब्दञ्च श्वेतोऽश्वो धावतीति धीः' इति, तन्न, शब्दं विना जायमानस्य घटादिचाक्षुषस्यापि शाब्दत्वापत्तेः। तत्र पश्यामि, न शाब्दयामीत्यनुव्यवसायान्न शाब्दत्वं यदि तदा प्रकृतेऽपि समम्, उक्तप्रतीतेरनुमानेनैव निर्वाहात्, तत्र शाब्दप्रत्ययस्त्पसिद्ध एवेत्यादि स्वयमुह्यम् (1-66)
(1-67) *उपलक्षणमिति* त्वन्मते `गभीरायां नद्यां घोषः' इत्यादौ प्रत्येकपदशक्त्या। स्वशक्यसम्बन्धरूपलक्षणया वचोक्तदिशाऽभीप्सितार्थन्वेय बोधासम्भवात् स्बबोध्यसम्बन्धस्य लक्षणत्वाभ्युपगमेन वाक्यार्थमात्रे वाक्यलक्षणाङ्गीकारादिति भावः। *पक्षद्वयमिति* पदवाक्यभेदेन व्यवस्थितं स्फोटद्वयमित्यर्थः। अनुपपत्तिभेवाह-*उत्पन्नामनामिति* वर्णानित्यतावादिमते वर्णानां योग्यविभुविशेषगुणत्वेन स्वोत्तरोत्पन्नगुणनास्यत्वादेकदाऽवस्थानासम्भवः। तन्नित्यतावादिमते त्वाह-*अभिव्यक्तानामिति* वर्णा नित्याः किन्तु तदभिव्यक्तिरेवानित्या, वर्णोत्पादकत्वेनान्याभिमतानामेव कण्ठाद्यभिघातादीनां तदभिव्यञ्चकत्वाभ्युपगमात्, युगपदवस्थानासम्भव एवेत्यर्थः। नन्वस्तु वर्णानां गयुगपदनवस्थानां किमस्माकमनिष्टमत आह-*वर्णासमूहेति*। वाक्यस्फोटकल्पेऽपि तदाह-*तथाचेति*। *ज्ञानासम्भव इतीति* आशुविनाशिनां क्रमीकाणां मेलकासम्भवादन्तिमवर्णोत्पत्तिकाले, तदभिव्यक्तिकाले वा पूर्वपूर्ववरणानां तावदभिव्यक्तानां वाऽवस्थानासम्भवेन तत्समूहरूपपदस्य, वाक्यस्य वा तादात्म्येन प्रत्यक्षकारणस्याभावात् प्रत्यक्षस्यैवाऽसम्भवेन तत्रोक्तशक्तिग्रहस्य गगनकुसुमायमानत्वादित्याखण्डलार्थः। अभिव्यक्तिपक्षमादाय समाधत्ते-*उत्तरवर्णप्रत्यक्षेति*। *अव्यवहितोत्तरेति* एतन्नये वर्णानां नित्यत्वेन सर्वेषामेव वर्णानामव्यवधानेन स्वाधिकरणक्षणोत्तरकालवृत्तित्वादव्यवस्थापत्त्या स्वस्वाभिव्यक्तिगतमेवाव्यवहितोत्तरत्वं वाच्यम्। तदारोपादेव वर्मेष्वव्यवहितोत्तरत्वव्यवहारः। अत एव तत्रोपस्थितेर्विशेषणतया निवेशः। तच्चाव्यवहितत्वे सत्युत्तरत्वम्। अव्यवहितत्वञ्च-स्वध्वंसानधिकरमक्षणसम्बन्दित्वम्। ते `घटित घट' इत्यादौ न शीधुभागस्य पदत्वम्। अन्यनिरूपिताव्यवधानादेरन्यसम्बन्धत्वाभावेन स्वतव्सय परिचायकतया प्रवेशान्नानुगमशङ्काऽपि, उत्तरोत्तरवर्णेपस्थितेः पूर्वपूर्ववर्णोपस्थितिध्वंसानधिकरणसम्यसम्बन्धित्वात्तदधिकरणक्षणध्वंसाधिकरणत्वाच्च निरूक्तसम्बन्धेन तद्वत्त्वमविकलम्। इत्थञ्च पूर्वपूर्ववर्णाऽशेऽलौकिकसाय चरमवर्णाऽसे लौकिकप्रत्यक्षस्य सम्भवात्तत्रार्थे बोधकत्वरूपशक्तेः सुग्रहत्वादुक्तपदवाक्यस्फोटसिद्धिर्निराबाधेति भावः (1-67)
इति पदवाक्यस्फोटनिरूपणम् ।। 18 ।।
(1-68) अखण्डस्फोदनिरूपणेऽवसरस्य सङ्गतित्वं सूचयन्नाह-*इदानीमिति* सखण्जस्पोटनिरूपणानन्रकमित्यर्थः। *अखण्डेति* पदवाक्ययोरखण्डत्वञ्च-अविद्यमानावयवकत्वम्। वर्णानामवयवाघटितत्वस्यापि सिषाधयिषितत्वादाह-*दृष्टान्तेति* कृष्टान्तवाक्यस्येवादिघटितत्वनियमेन तदभावात् कथं वर्मेष्वित्यदेस्तत्त्वमित्याशङ्कय यथाशब्दान्तर्भावेण मूलं व्याचष्टे-*यथेति*। *इवेतीति* अवयवा इवेत्यर्थः। तथाच यथाश्रुतस्यैव दृष्टान्तत्वं नानुपपन्निमिति। `विचिर्पृथग्भावे' इति प्रव्युपसृष्टघञन्तभावसाधनप्रविवेकशब्दार्थः। भेदे पर्य्यवस्यतीत्याशयेनाह-*भेद इति* ननु पदादिप्रतीतै तदवयवानां वर्णानामुपलभ्यमानत्वात् कथं तदसत्त्वमत आह-*अयम्भाव इति* अखण्डमेवेति* व्याख्यातार्थमेवकारव्यवच्छेद्यं स्पष्टयति-*नत्विति* अनन्तेति* अनेकेत्यर्थः। ननु `ककारः `गकारः' इति प्रतीतिरेव वर्णकल्पने मानम्। यदि च वर्णाभिव्यञ्जकत्वेनोत्पादकत्वेन वाऽभिमतवायुसंयोगविशेषभिव्यक्तस्फोटे एव कत्वादिना तादृशप्रतीतिविषय इति विभाव्यते, तदापि `उत्पन्नः ककारः, नष्टः ककारः' इत्यादिप्रतीत्यनुपपत्तिः। स्फोटातिरिक्तककारादीनां त्वयाऽनभ्युपगमात्। तस्य च नित्यत्वात् व्यञ्जकनिष्ठाया उत्पत्तेस्तद्विषयत्वे सुखादीनामपि नित्यताऽऽपत्तिरत आह-*तत्तद्वर्णोत्पादकत्वेनेति* वैजात्ये प्रमाणं दर्शयति-*वर्णाजनकताया इत्यादि* तथाच तादृशवैजात्यं समवायेन स्फोटांशे आदाय आरोप्योक्तप्रतीतिवैलक्षण्योपपत्तौ न तदनुपपत्तिरतिरिक्तककारादिवर्णसाधिका। नाऽप्युपन्नः क इत्यादिप्रतीतिस्तथा, `सो-यं कः' इत्याभेदप्रत्यभिज्ञारूपबाधकसत्त्वेन तादृशप्रतीतेभ्रमत्वात्। नापि सुखादीनां नित्यताऽऽपत्तिः, तन्नाशकस्य स्वोत्तरवर्त्तियोग्यात्मकविसेषगुणस्य जागरूकत्वादिति भावः। *भामत्याम्*=तन्नामकवाचस्पतिग्रन्थे। *आरोप्यत इतीति* एतदनुरोधेनेवादायेति पदमारोपपरतया व्याख्यातम्। मतान्तरन्तु वक्ष्यते-*एवेति। *वायुसंयोग एवेति*-कष्टताल्याभिघातज्वायुसंयोग एवेत्यर्थः। एवकारेम वर्णात्मकस्फोटव्यवच्छेदः, समवायस्यानारोपितस्य वाचकतावच्छेदकत्वे लाघवात्। तथापि स योगस्यैव काद्यात्मकत्वमस्त्विस्यर्थः। समाधत्ते-*प्रत्यक्षेति* अयमाशयः-कादिवर्मानामुक्तसंयोगात्मकत्वेऽतीन्द्रियताऽऽपत्तिः। नच सेष्टा, अनुभवविरोधात्,। नचोक्तकत्वस्या तीन्द्रियधर्मत्वेन कथं साक्षात्कारविषयत्वमिति वाच्यम्, सुरभि चन्दनमिति प्रतीतौ चक्षुरयोग्यस्यापि सौरभादेश्चाक्षुषविपयत्ववत्तस्यापि श्रात्रग्रनृह्यत्वसम्भवात्। विषयबाधेन परं स्फोटांऽशे कत्वप्रतीतेर्भ्रन्तित्त्वमिति। अन्ये तु-कादिप्रतीतिर्यदि स्फोटांशे कत्वादिकं समव्यैनावगाहेत तदा तस्याभ्रन्तत्वसम्भावना, किन्तु स्वाश्रयाभिव्यङ्गयत्वसम्बन्धेनै। तदंशे वैजात्यम्। नच स्वाक्षयाऽभिवयङ्गयत्वस्य सम्बन्धत्वे प्रमाणाभावः, कादिप्रतीतेरेव मानत्वात्। विशिष्टप्रतीतिनिंयामकविशेषो हि सम्बन्धः। अत एव `लोहितः स्फटिकः' इति बुद्धेः स्वश्रयसंयोगस्य सम्बन्धतामामनन्ति। नच समवायविषयैव सा भ्रान्तिः। यथाकथञ्चित् प्रतीतेः प्रमात्वोपपत्तौ भ्रमत्वकल्पनाया अन्याय्यत्वात् अधिकमग्रे वक्ष्यत इत्याहुः। उपसंहरति-*तथाचेति* वाचकत्वानुपपत्त्येति* पदवाक्ययोर्वर्णसमूहरूपत्वे उक्तरीत्या वर्णानां युगपदवस्थानासम्भवेन वाचकत्वग्रहानुपपत्त्येत्यर्थः। चेत्यर्थः। उक्तरीत्या कथञ्चिच्छक्तग्रहोपपादनेऽप्यवर्णघटितपदवाक्ययोरनित्यतया प्रत्यभिज्ञाऽनुपपत्तिर्दुष्परिहरैवेति भावः। *एतेनेति* `अपास्तम्' इत्यन्वयि, प्रत्यभिज्ञानुपपत्तिसिद्धाखण्डस्फोटस्य वाचकत्वव्यवस्थापनेनेत्यर्थः। *अननुभवादिति*
तथाच तत्रैव प्रमाणाभावेन वाचकत्वं दूरपराहतमिति भावः। *तेषाम्* गकारादिवर्णानाम् *स्फोटातिरिक्तेति* गत्वप्रकारकप्रतीतिविषयगादिस्फोटस्यैवास्माभिर्वाचकत्वाभ्युपगमादिति भावः। आशुतरविनाशिनां सहोत्पन्नानां समुदायासम्भवादुक्तम्-*क्रमवतामिति*। क्रमिकाणामपि स्थआयिनां सहावस्थानादुक्तम्-*आशुतरेति* तृतीयक्षणवृत्तिध्वंसप्रतियोगिनामित्यर्थः। *असम्भाव्यमिति* प्रत्यक्षे तादात्म्येन विषयस्य हेतुतया समूहरूपविषयस्वैवाभावादिति भावः। *पूर्वपर्वेति* ननु वर्णानित्यतावादिमते तृतीयक्षणवृत्तिध्ंवंसप्रतियोगिनां तेषां प्रत्यक्षस्यैवासम्भवात् कथं तज्जन्यसंस्कारस्य सहकारितासम्भवः। तथाहि-कादिप्रतीतिः ककारादौ विशेषणतया कादित्वमवगाहते। विशिष्टबुद्धौ विशेषणज्ञानस्य हेतुतया ककाराद्युत्पत्तिर्द्वितीयक्षणे निर्विकल्पकमभ्युपेत्य तृतीयक्षणे विशिष्ज्ञानं वाच्यम्, तच्च न सम्भवति, `सम्बद्धं वर्तमानञ्च दृस्यते चक्षुरादिना' इति वृद्धोक्तेः। प्रत्यक्षे विषयस्य कार्य्यसहभावेन हेतुतय तृतीयक्षणे तद्वर्णरूपविषयस्याभावात्। नच ककारगाद्युत्पत्तिक्षणोत्पन्नकत्वादिस्मृत्यैव द्वितीयक्षणे एव सविकल्पसम्भव इति वाच्यम्, एवमपि प्राथमिकविशिष्टबुद्धेर्दुरुपपादत्वादिति चेत्। अत्र वदन्ति-संसारस्यानादितया बालस्य स्तनपानप्रवृत्तिहेत्विष्टसाधनत्वस्मृतेरिव प्राथमिककत्वादिविशिष्टबुद्धिजनकस्मृतेः सम्भवान्न तदनुपपत्तिः। ककाराद्यत्पत्त्यनन्तरं ककारो गकार इति विशिष्टबुद्धेरेव च तादृशकल्पने मानमिति। अन्ये सामान्यतस्तादृशविशेषगुणस्य कारणता स्यात्त्दा ककारादिप्रत्यक्षानुपपत्तिः प्रसज्येत अप, सैव न, अन्तिमशब्दनाशे सुषुप्तिप्राक्कालोत्पन्नज्ञानादिनाशे च व्यभिचारात्। किन्तु विजादीयगुमनाशे बैजात्यं चरमशब्ददादिव्यावृत्तमिति प्रथमिकविशिष्टबुद्धिविषयवर्णव्यावृत्तमपि। नच तादृशवैजात्ये माना भावः, नाश्यताऽवच्छेदककाटिप्रविष्टतयैव तत्सिद्धेः। तथाचान्तिमशब्दनाशे तद्द्वितीयक्षणस्यैव तादृशवर्णनाशेऽपि न तत् तृतीयक्षणस्थतद्व्यक्तित्वेन हेतुत्वकल्पनान्न तृतीयक्षणस्थायिनस्तस्य प्रत्यक्षानुपपत्तिरुक्तहेतुमद्भावस्वीकारेऽपीत्याहुः। *अतिप्रसङ्ग इति* सरश्शब्दघटकसकाराकाररेफविसर्गानुभवजन्यसंस्कारै रसबोधापत्तिरित्यर्थः। *अखण्डः*=वर्णाघटितः। *नादाभिव्यङ्य इति* ध्वन्यतर्गतवर्णाभिव्यङ्गय इत्यर्थः। उपपादितत्वादित्यस्य सखण्डस्फोटनिरूपणावसर इति शेषः। तादृशप्रत्यक्षस्यान्तिमवर्णोंशे लौकिकस्यातीतवर्णांशेऽलौकिकस्य सरो रस इत्याप्नतिप्रसक्तस्योपपादितत्वादित्यर्थः। अतिरिक्तत्य वाचकत्वे दूषणमाह-*वर्णानामिति*। *विकल्पग्रासादिति*। प्रत्येकव्यञ्जकत्वे आद्यवर्णादेव तदभिव्यक्तिसम्भवे इतरोच्चारणवैयर्थ्यापत्तेरतिप्रसङ्गाच्च। समुदायस्य तक्तरीत्या दुरुपपादकत्वेन तद्वयञ्ज कत्वस्याप्यसम्भवदुक्तिकत्वादित्यर्थः। कैयटानुयायिनस्तु-पूर्वपूर्ववर्णकाले चेद् द्वितीयादिवर्णेत्पत्तिः सम्भवेत् तदा स्यादपि कथञ्चिद्भवदुक्तंरीत्या पदवाक्यप्रत्यक्षनिर्वाहः, सैव न, किन्तु, `यावद्रकारे वाग् वर्तते न तावदौकारे तेनैव यत्नेनैको वर्ण उच्चार्य्यते। तेनैव विच्छिन्ने तस्मिन् वर्णे उपसंहृत्य तं यत्नमन्यमुपादाय द्वितीयः प्रवर्त्तते" इति "परः सन्निकर्षः" (1-4-104) इति सूत्रस्थभाष्यप्रामाण्यात् पूर्ववर्णविनाशानन्तरं यत्नान्तरेण द्वितीयवर्णाभ्युपगमात्। किञ्च भवन्मते वर्णप्रत्यक्षस्यैवानुपपत्तिः, तेषामुच्चरितप्रध्वंसितत्वेन तदुत्पत्तेरभिव्यक्तेर्वा क्षणिकत्वेनातीन्द्रियक्षणावच्छिन्नत्वात्। तथाच "इको यणचि" इत्यादिसूत्रोपयोगिनोऽयं पूर्वोऽयं पर िति प्रत्यक्षविषयार्थकेदंशब्दाभिव्यज्यमानपौर्वापर्य्यव्यवहारस्यासम्भवः। एवं नष्टविद्यमानयोः सम्बन्धिनोरव्यवहितोत्तरत्वस्य सम्बन्धतया वक्तुमशक्यतयाऽपि पूर्वोक्तरीत्या पदप्रत्यक्षानुपपत्तिः। अपिच गृहीतशक्तिकस्यैव बोधकत्वमिति नियमेनोच्चारणभेदाद्भिर्न्नषु शक्तिग्रहासम्भवः। आनुपूर्व्यास्तत्तत्कालघटिताव्यवहितोत्तरत्वघटितत्वेनाननुगमकत्वाच्छक्ततावच्छेदकत्वासम्भावत्। अखण्ढस्फोटाङ्गीकारे तु तत्तद्वर्णोपाद्यवच्छिन्ने तस्मिन् पौवापर्य्यादिव्यवहारविषयत्वस्य सूपपादत्वान्नोक्तानुपपत्तः। तस्य चाऽनुपूर्व्यन्तर्गतसमस्तवर्णा एव यद्यप्यभिव्यञ्जकास्तथापि चरमवर्णाभिव्यक्त एव स बोधहेतुरिति नोक्तविकल्पस्याप्यवसर इत्याहुः। ननु वायुसंयोगानां प्रत्येकमभिव्यञ्जकत्वाभ्युपगमेऽपि गौरित्यत्र घत्वेन टत्वेन च स्फोटोऽभिव्यज्यतेत्यत आह-*परन्त्विति* तथाच विलक्षणवायुस्योगस्य गत्वप्रकारकस्पोटाभिव्यत्र्जकत्वाभ्युपगमान्नोक्तदोष इति भावः। *अत एवेति* विलक्षणवायुसंयोगस्य तत्तद्रुपेण स्पोटाबिव्यञ्जकत्वाभ्युपगमादेवेत्यर्थः। *तदतिरेकास्वीकार इति* तत्तत्संयोगादैव कत्वादिप्रकारकककारप्रतीत्युपपत्तौ स्फोटातिरिक्ततत्कल्पने मानाभावादिति भावः। ननु सरो रस इत्यादावतिप्रसङ्गस्तदवस्थ एव, सत्वादिरूपेणाभिव्यत्र्जकवायुसंयोगानामुभयत्र तोल्यादात आह-*एवञ्चेति *घवत्वमिति* तथाचौपाधिकभेदमादाय तस्मिन्नेव टाकरात्मके घत्वप्रकारकप्रतीतिविषयाव्यवहितत्वग्रहविषये यथा घटपदव्यवहारविषयता तथा रात्मकेस्फोटे सत्वप्रकारकप्रतीतिविषयाव्यवहितत्वग्रहे सरःपदव्यवहारविषयतेति न सरआत्मकस्फोटस्य रसरूपतेति भावः। ननु तव मते गकारादिवर्मस्य नित्यस्फोटरूपतया नित्यत्वेन तद्ध्वंसादिकरणक्षणानुत्पत्तिकत्वविशिष्यतदधिकरणक्षणात्वत्तिकत्वरूपा व्यवहितोत्तरत्वासम्भवात् कथमुक्तप्रकारसम्भवोऽत आह-*परन्त्विति* तथाच वर्णानं नित्यत्वेऽपि तदभिव्यक्तेर नित्यत्त्रस्य सांख्यानामपि सम्मतत्वेन तदव्यवहितोत्तरत्वस्य वर्णान्तरिभिव्यक्ताववाधेन तदादाय घटादिपदप्रत्ययापपत्तिरिति भावः। *अत एवेति* अभिव्यक्तिनिरूपिताव्यवहितोत्तरत्वस्यानुपूर्वाव्यवहारनियामकत्वादेवेत्यर्थः। नवीनैस्तथानब्युपगमादाह-*वृद्धेति*। *एतेनेति* आनुपूर्ववच्छिन्नवर्णात्मकस्फोटस्य वाचकत्वव्यवस्थापनेनेत्यर्थः। अपास्तमित्यनेनान्वयि। *स्फोट इति* वाचकत्वेनाभिमतेऽख्ण्डपदार्थ इत्यर्थः। *नाद्य इति* नैक इर्यर्थः। तत्पक्षे दूशषणमाह-*घटपद इति* घट इत्यानुपूर्व्यवच्छिन्नस्फोटे गृहीतशक्तिकस्यैत्यर्थः। कलशपदादित्यस्यागृहीत तदवच्छिन्नस्फोटशक्तिकादित्यादिः। *होधप्रसङ्गादिति* घटवोधकलृप्तकारणताककलश इत्यानुपूर्व्यवच्छिन्नस्फोटस्य तदानीं सत्त्वान्नित्येकरूपत्वात् तस्य वर्णसमुदायरूपपदस्य वाचकत्वे तु नोक्तदोष इति भावः। *अर्थधीहेतुरिति* उक्तस्थले च स्फोटस्य कलशरूपपर्य्ययाभिवव्यक्तयवच्छिन्नशक्तिग्रहविषयत्वाभावान्न अर्थबोधप्रसङ्ग इति भावः। *एवमिति* तत्पर्य्यायजन्यशाब्दबोधे तत्पर्य्यायाभिव्यक्तयवच्छिन्नशक्तिग्रहस्य हेतुत्वाभ्युपगम इत्यर्थः। *शक्तिग्रहावश्वम्भावेनेति* नागृहीतविशेषणन्यायेन तत्पर्य्याये शक्तिग्रहस्यावश्यमभछ्युपेयत्वादिति भावः। *उचितत्वादिति* औचित्यमेवाह्-*तथा सतीति*। शक्तिग्रहत्वेनेति* तत्पर्य्यायगतशक्तिग्रहत्वेनेत्यर्थः। *लाघवादिति* उक्तरूपापेक्षयैतस्य कारणतापच्छेदकत्वे लाघवादित्यर्थः। चो हेतौ। पूर्वकल्पे गौरवं प्रकाशयति-*अन्थेति* उक्तिवैचित्र्यमेतत्। *न द्वितीय इति* पर्य्यायस्थले स्फोटनानात्वमित्यपि पक्षो नेत्यर्थः। *अन्थेति* प्रतिपर्य्यायभिन्नानां स्फोटामांकल्पनामित्यर्थः। *शक्तिमिति* तत्तद्भेदभिन्नानन्तशक्तिकल्पनानापदेष्वित्यर्थः। *अनेकेति* पर्य्यायभेदभिन्नेत्यर्थः। *सर्वसिद्धत्वादिति* तथाच पर्य्यायेषु नानाशक्तिकल्पना नापूर्वेति न दोषः। अयमाशयः-वर्णा स्फोटाऽऽभिव्यत्र्जका इति स्वीकारे भवदुक्तदूषणस्यावसरः, ननु स्फोटस्य वर्णानतिरेकपक्षे, तत्र पृथक्शक्तिकल्पनायाय अभावेन गोरवासम्भवात्। पर्य्यायशक्तिग्रहकार्य्यताऽवच्छेदककोटावव्यवहितोत्तरत्वनिवेशेन व्यभिचारवारणन्तूभयोः सममिति। ननु त्वन्मते स्फोटानपिरेकेण वर्णानां नित्यत्वादुत्पत्तिघटिताव्यवहितोत्तरवर्णेषु पूर्वपूर्ववर्णवत्त्वरूपशक्ततावच्छेदकानुपूर्व्यसम्भवोऽत आह-*तदवच्छेदकेति* शक्ततावच्छेदकेत्यर्थः। *प्रागिति* स्वाभिव्यक्त्यधिकरणक्षणोत्पत्तिकाभिव्यक्तिविषयत्वमिति ग्रन्थेनेति शेषः। ननु वर्णानां नित्यत्वाभ्युपगमे नित्यवर्णैरेव स्फोटकार्येत्पत्तौ स्फोटस्यौवासिद्धिः। तथाह-प्रानुपूर्व्या भवद्भिरेबोपपादितत्वात्तद्विशिष्टानामेव तेषां पदत्वेन तत्प्रत्ययस्य सौलभ्येन शक्तिग्रहस्य सूपपादत्वात्तदेवेदं पदं वाक्यमिति प्रत्यभिज्ञोपपत्तेश्चेत्यत आह-*दिगिति* तदरथस्तु यदि स्वतन्त्रा नित्या वर्णाः स्युस्तदा स्यादेव तैः स्फोटान्यथासिद्धिः। किन्तु कत्वादिना प्रतीयमानः स्फोट एव ककारादिवर्म इत्यभ्युपगमेनोक्तान्यथासिद्धयसम्भवादत एव नानावर्णकल्पनाप्रयुक्तगौरवशङ्कापि नेति। ननु कोऽसौ स्फोटो यदनतिरिक्ता वर्णा इति चेद्त्राहुः-ईश्वरसिसृक्षात्मकमायाबिन्द्वपरपर्य्यायत्रिगुणात्मकाव्यक्तप्रभवः शब्दब्रह्मापरनामा चेतनाधिष्ठितोऽनभिव्यक्तवर्णविशेषो रवः परादिशब्दैर्व्यवह्नियमाणो नादः स्फाट इत्युच्यते। स च सर्वगतोऽपि पुरूषस्य ज्ञातार्थविवक्षाधीनप्रयन्ताधिष्ठितमूलाधारस्थपवनेनाभिव्यक्तः। परेति व्यवह्रियते। नभिपर्य्यन्तमागच्छाता तेनाभिव्यक्तः। पश्यन्तीति। पुनर्हृदयमागच्छता तेनैवाभिव्यक्तस्तत्तदर्थोल्लेखिज्ञानविषयः परश्रोत्राग्राह्यत्वात् सूक्ष्मो मध्यमा वागिति। वक्त्रातु कर्णपिधाने सूक्ष्मतरवाय्वभिघातेनोपांसुशब्दप्रयोगे च श्रूयते। स एव चाऽऽस्यपर्यन्तमागच्छता तेन वायुना कण्ठदेशे गत्वा मूर्द्धानमाहत्य पारवृत्त्य तत्तत्स्थानेष्वभिव्यक्तः परश्रोत्रेणापिं ग्रहीतुं शक्यो वैखरीति व्यवह्रियते। उक्तार्थे प्रमाणञ्च--`चत्वारि वाक्परिमिति (नि) पदानि, तानि विदुर्ब्राह्मणा ये मनीषिणः, गुहा त्रीणि निहिता नेङ्गयन्ति, तुरीयं वाचो मनुष्या वदन्ति" इति श्रुतिः, `बिन्दोस्तस्माद्भिद्यमानाद्रवोऽव्यक्तात्मकोऽभावत्। स एव श्रुतिसम्पन्नः शब्दब्रह्येति गीयते' इति पूराणवाक्यञ्च। भागवतेऽप्येकादशस्कन्धादौ स्फुटोऽयमर्थः। शिक्षायामपि-आत्मा बुध्द्या समेत्यार्थान्मनो युङ्क्ते विवक्षया। मनः कायाऽग्निमाहन्ति स प्रेरयति मारूतम्। सोदीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारूतः। वर्णान् जनयते-इत्यनेन। तथाचत हृदयावच्छिन्नमध्यमायां यो नादांश आन्तरप्रणवरूपः स एव वाचकः। "ओंकार एव सर्वा वाक् सेषा स्पर्शोष्मभिर्व्यज्यमाना नानारूपा भवति" इति श्रुतेः। सर्वप्राणिहृद्देशत्थत्वाच्व ब्रह्मपदव्यवहार्यर्थेऽपीत्यन्यत्र विस्तरः। *इति प्रतीतेरिति* अन्यथा वर्णपरम्परारूपमालायास्तत्समूहरूपपदानतिरिक्ततयाऽऽधाराधेयभावागाहिप्रतीत्यनुपत्तिरिति भवः। *अन्यथेति* प्रतीतेः पदार्थासाधकत्व इत्यर्थः। `कपाले घटः' इति प्रतीत्या भेदावगाहिन्या तस्तिद्धिः, प्रतीतेस्तदसाधकत्वे तु घटाद्यसिद्धः स्पष्टैव। कपालतत्संयोगानादायैव तादृशप्रतीत्युपपत्तेरिति भावः। कौसेतुभे त्विति तुशब्देनारुचिः सूचिता। तद्बीजन्तु वर्णातिरिक्तस्फोटानङ्गीकारेऽपि नोक्तप्रतीत्यनुपपत्तिः। आनुपूर्व्यवच्छिन्नवरणानां मालापदार्थत्वेन तत्रानुपर्वोरूपदस्याधाराधेयभावसम्भवात्। घटकपालादीनां विजातीयकारणजन्यत्वेन तद्भेदस्यापलपितुमशक्तयत्वेनोक्तातिप्रसङ्गाभावाच्चेति। अन्ये तु-न वर्मानां स्फोटात्मकत्वम्। किन्तु स्फोटस्य वर्णाभिव्यङ्गयत्वमेव। नच प्रत्येकव्यञ्जकत्वपक्षोक्तदोषः, प्रयोगान्तर्गतसकलवर्णानां तद्व्यञ्जकरूपप्रतिबिम्बजन्यतद्रूपारूषितस्यैव प्रतीत्या नानात्वेन प्रतीतिरौपाधिकी एकस्यैव मुखस्य कृपाणदर्पणाद्यभिव्यञ्जकवशाद्दैर्ध्यवर्त्तु लत्वादिप्रतीतिवत्। अत एवानुगमार्थं न तत्र जातिकल्पनाऽपि। वर्णभिन्नव्यञ्जकाभावाच्च न कदाचिदपि वर्णराहित्येन तत्प्रतीतिस्तत्प्रतिबम्बसमर्पकाश्च संस्कारा एव। ते च येन क्रमेण चित्तस्थास्तेनैव क्रमेण व्यञ्जकरूपरूषितता तस्यैत्यभ्युपगमच्च न सरो सर इत्यनयोरविशेषः। व्यञ्जकरूपरूषितस्यैव तस्यार्थे शक्तिग्रहाच्च न घटादिपर्य्यायाभिव्यक्तस्फोटे गृहीतशक्तिकस्याप्रसिद्धपदश्रवणेऽर्थबोधापत्तिः, अत एवेदमेकं पदमेकं वाक्यमिति व्यवहारः स्वरसतः सङ्गच्छत इत्याहुः (1-68)
(1-69) *एवमिति* अखण्डस्फोटस्यैव वाचकत्वे इत्यथः। अप्रामाण्यप्रसङ्गमेवोपपादयति-*पदस्येति* वाक्यस्याप्युपलक्षणमिदम्। *अखण्डत्वादिति* प्रकृतिप्रत्ययविभागाशून्यवादित्यर्थः। तथाभूतस्यैव वाचकताया भवद्भिरुपपादितत्वादिति भावः। *शास्त्रस्य* व्याकरणात्मकस्य। *प्रकृतिप्रत्ययाभ्यामिति* ताभ्यां यद् व्युत्पादनम्=शक्तिबोधनं तन्मात्रप्रयोजनत्वादित्यर्थः। तथाच प्रकृतिप्रत्ययविभागेन पदार्थवाचकत्वबोधकस्यास्य शास्त्रस्य पदस्याखण्डत्वेऽप्रामाण्यापत्तिरिति भावः। *उपेयप्रतिपत्यर्थेति* वचनविपरिणामेन उत्तरत्राप्यन्वेति। उपेयस्य=बोधनीयस्य प्रतिपत्तये एषा कल्पना श्रिता=स्वीकृता मुनिनेति शेषः, पृष्टवान् स उपाचान्नं ब्रह्म" इति तस्यापि तथात्वं बुद्ध्वा पृष्टः "मनो ब्रह्म" इति। तस्याऽप्यशितमतन्नं त्रेधा भवति-"प्राणो ब्रह्म" इति तस्यापि तथात्वं बुद्ध्वा पृष्टः "मनो ब्रह्म" इति। तस्याऽप्यशितमन्नं त्रेदा भवति-"यत्स्थूलं तत्पुरीषम्, यन्मध्यमं तन्मासं यदणीयस्तन्मनः" इति श्रवणादनित्यत्वमबधार्प्य पुनः पृष्टः, "विज्ञानं ब्रह्म" इति तस्यापि वृत्त्युपहितत्वं ज्ञात्वा पुनः पृष्टेनोपदिष्टम्-"आनन्दो प्रह्मेति व्यजानात्"। ततो वस्तुत्त्वं प्राप्य स्थित इति प्रतिपादितम्। ननु नेयं वल्ली पञ्चकोशप्रतिपादिका। पञ्चमस्यानुपायत्वादकोशत्वातस्यैवव तत्र प्रह्णत्वबोधनादित्याशङ्क्यानन्दवल्लीस्थिपञ्चकोशोदाहरणमाह-*यथा वेति* तत्रत्या हि पञ्चकोशा उपाया एव, उपदिष्टाञ्चमानन्दकोषस्यापि वैषयिकतयाऽनित्यत्वेनाब्रह्मत्वात् किन्तु `बह्म पुच्छं प्रतिष्ठा" इत्यत्र श्रूयमाणब्रह्मपदस्यैव मुख्यब्रह्मपरत्वम्। अत एवाऽधारार्थंकः पुच्छशब्दोऽप्युपपद्यते, तस्य लाङ्गूलरूपमुख्यार्थस्य बाधत्। एवञ्चानन्दवल्लयां यथा पञ्पनकोशाः सर्वाधरकब्रह्मबोधनायापायतयोपात्तः, तेषां वास्तवब्रह्मत्वम्, तथेहाप्यवास्तवप्रकृति-प्रत्यया वाचकत्वत्युत्पादान वास्तव्सफोटनिष्ठवाचकत्वबाधनायेत्वाखण्डलार्थः। *श्रवणादित इति* आदिना मननादिपरिग्रहः।
*न शास्त्रमिति* एतच्छास्त्रं विनाऽपि श्रवणाऽदिना व्यभिचारादिति भावः। उपायस्योपायान्तरादूषकत्वे सदृष्टान्तां युक्तिमाह-*तथाचेति* व्याकरणाध्ययनस्य स्फोटज्ञानत्वं न कार्य्यतावच्छेदकम्, किन्तु तादृशज्ञानगतवैजात्यम् तदवच्छिन्नञ्व नोपायान्तरादिति न व्यभिचारः। वैजात्यस्य प्रागनुपस्थितावपि कारणताग्रहो विधिवादोक्तदिशाऽवसेय इति भावः। *मन्त्रजनयमिवेति* मन्त्रजन्यताऽवच्छेदकमिवेत्यर्थः। एवमग्रेऽपि। ननु पुरुषार्थासाधकस्य तस्य सम्पादनवैयर्थ्यमत आह-*तस्य चेति* स्फोटज्ञानस्य चेत्यर्थः। *यज्ञादीनामिति* कामनापरित्यागेन विधीयमानानां तेषामित्यर्थः। यज्ञादीत्यादिना `तमेत वेदानुवचनेन ब्रह्मणा विविदिषन्ति यज्ञेन दानेन तसाऽनाशकेन' इति श्रुत्युक्तदानादिपरिग्रहः। शरीरादीत्यादिना वागिन्द्रियपरिग्रहः। ननु शरीरादिशुद्धेरप्यपूरुषार्थतया तदुद्देशेनापि प्रवृत्तिदुर्घटेत्यत आहृ-*साक्षादिति* स्वर्गादीत्यादिना।टपवर्गपरिग्रहः। साक्षात्स्वर्गहेतुत्वम्, परम्परयाऽपवर्गहेतुत्वञ्चेत्यर्थः। स्वरगहेतुत्वे "चैकः शब्दः" इति भाष्यपठितश्रुतिः, परम्परया मोक्षहेतुत्वे च, 'द्वे ब्रह्मणी बेदितव्ये" इति स्मृतिः प्रमाणम्। परम्पराघटकं चात्मतत्त्वज्ञानम् "तमेव विदित्वा" इति श्रुत्या तदतिरिक्तस्य साक्षान्मोक्षहेतुत्वव्यवच्छेदबोधनादिति बोध्यम्। उक्तार्थ हरिसम्मतिमाहृ*तदुक्तमिति*। तत्=नादात्मकस्फोटप्रतिपादकं शास्त्रम्। *अपवर्गस्येति* मोक्ष्सयेत्यर्थः। *द्वारमिति* तदुपयोगीत्यर्थः। हेतुगर्भविशेषणमाह-*वाङ्मलानामिति*।
*चिकित्सितमिति* अपनयनार्थकसन्नन्तात् कितेः क्तप्रत्यये वाङ्मलकर्मकापनयनसाधनं यतस्ततो मोक्षद्वारमित्यर्थः। पनः शुद्धौ यज्ञादीनामिव वाक्शुद्धावेव तस्योपयोगादिति भावः। यतः सर्वविद्यानां मध्ये पवित्रमतोऽधिविद्यम् विद्यासु प्रकर्षेण दीप्यत इत्यर्थः. तथोचोक्तम्-"तेषां च सामर्ग्यजुषां महर्षयो व्याकरणं निराहुः" इति। *इदमिति* सिद्धसोपानपर्वणां इदं प्रथमं पदस्थित्यधिकरणमित्यर्थः। *अत्र*=स्फोटे' अतीतविपर्य्यासः *=भ्रान्तिशून्य एतत्तत्त्वज्ञानवानिति यावत्। *केवलाम्* पराख्याम्। * योगजधर्मेण प्रत्यक्षीकरोतीत्यर्थः। तथाच योगित्वासिद्धो किमवशिष्यते तत्त्वशिष्यते तत्त्वज्ञान इत्यर्थः तदुक्तं भागवते द्वादशे नादनिरूपणान्तरं-
यदुपासनया ब्रह्म योगिनो मलमात्मनः। द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम्।
इति भावः। *अलीकत्वासिद्धेरिति*।। पञ्चकोशादिवत् प्रकृतिप्रत्ययविभागस्यापि मायिकत्वेन नात्यन्ता सच्छशश्रृङ्गादिवदलीकत्वमिति वक्ष्यमाणप्रायत्वादित्यर्थः। अवास्तवत्वेऽपि मणिप्रभाप्रतिबम्बस्य मणिप्राप्ताविवैतस्यापि परमात्मदर्शने उपयोगसम्भवादतिति भावः। *आदिपदेनेति* पञ्चकोशादिवदित्यत्रोपात्तेनादिशब्देनेत्यर्थः। न्यायस्तु समासवादे प्रपञ्चितः (1-69)
(1-170)उत्पत्तिविनाशप्रतीतिसाक्षिकं वर्णानामनित्यत्वं तादृशवर्णात्मकस्फोटाभ्युपगमे तस्याप्यनित्यत्वप्रसङ्ग इत्याशङ्कासमाधानपरतया मूलमवतारयति-*नन्विति* *वर्णजातीनामिति* वर्णानामः तद्वृत्तिकत्वादिजातिनाञ्चेत्यर्थः। *न स्यादिति* अयं भावः-`उत्पन्नो नष्टो वा कारः" इत्यादिप्रतीतिः ककारादिवर्णात्मकः स्फोटस्तद्वृत्तिजातिर्वोत्पत्त्यादिमत्त्वेन विषयो वाच्यः। तथाच न सम्भवति, द्वयोरेव नित्यत्वाज्जायमानायास्तस्या विषयबाधेन भ्रमत्वापत्तेरिति तादृशप्रतीतेर्भ्रन्तत्वे इष्टापत्तावाह-*वायुसंयोगेति*। *कादिप्रतीतीनाम्, *=ककारो गकार इत्यादिबुद्धीनाम्। *भ्रमत्वापत्तिरिति* यथाश्रुताभिप्रायेणेदम्, पूर्वोक्तान्तमकल्पे भ्रमत्वाप्रसङ्गात्। नच त्वन्मतेऽपि कत्वादीनां लौकिकाविषयत्वानुपपत्तिस्तद्व्यञ्जकश्रत्रसमवेतसमवायस्य लौकिकसन्नकर्षस्याभावादिति वाच्यम्, तन्मते कत्वादीनां वायुसंयोगवृत्तिवर्मत्वेन `कत्वं साक्षात्करोमि' इति प्रतीत्या स्वसमवेतव्यञ्जकसमावायस्यैव संसर्गतोपगमेन लौकिकविषयत्वानपायात्। तादृशानेकप्रतीतीनां भ्रमत्वकल्पनापेक्षया एतत्कल्पनाया एवोचित्यात्। `आरोपे सति निमित्तानुसरणम्' इति न्यायात्। मूलं तु तन्मते इत्थमवतारणीयम्, ननु स्वसमवेताभिव्यञ्जकगतसमवायस्य सम्बन्धता न केनाप्यादृतेत्यत आह-*कल्पितानामिति* कल्पितानां समवायसम्बन्धेन तदवृत्तीनामप्युक्तसम्बन्धेन तत्र कल्पितानां वायुसंयोगगतधर्मविशेषणामुपाधित्वमुदात्तवादिप्रऐकारप्रतीतिजनकत्वमित्यर्थः। अधिकं त्वग्रे वक्ष्यते। दृष्टान्तस्फुटीकरणाय मीमांसकमतमाह-*उदात्तत्वादीति* आदिनाऽनुदात्तत्वपरिग्रहः। उदात्तत्वानुदात्तत्वयोः परस्परविरोधाद्वर्णभेदेन तत्सत्ता वाच्या। वर्णभेदश्च तदनित्यत्वे, अनेकत्वे वा स्यात् वा स्यात्, तदेव तु न सम्भवतीत्याह-*तस्यैकत्वादित्यादि* नित्यत्वे प्रमाणमाह-*तच्वेति* नित्यत्वम्, एकत्वञ्चेत्यर्थः। *त्यागायोगादिति* अविषयत्वायोगादित्यर्थः। *बाधिकेति* व्यक्त्यभेदे प्रतीतिर्बाधकेत्यर्थः। *प्रागसत्त्वे सतीत्यादि* स्वाधिकरणसमयध्वंसवत्त्वसम्बन्दावच्छिन्नप्रतियोगिताकाभाववत्त्वावच्छिन्न कालिकविशेषयणतासम्बन्धरूपाया इत्यर्थः। द्वितीयादिभणसम्बन्धस्य निरुक्तसम्बन्धेन स्ववत्त्वान्न तत्रातिप्रसङ्गः।
*अत एवेति* अनुभवविरुद्धत्वादेवेत्यर्थः। *प्रत्ययः*=ज्ञानम्। *व्यवहारः*=शब्दप्रयोगः। ननुच्चारणमपि तदुत्पत्त्यनुकूलो व्यापार एव। तथाच सर्वप्रतीतिर्वर्णानित्यत्वसाधिकेत्यत आह-*उच्चरितत्वञ्चेति* अभिव्यक्तिविशिष्टत्वं तद्विषयत्वम्। तथाच तादृशप्रत्ययाभिव्यक्तिनिष्ठं पर्णानिरूपितविषयित्वमेव विषयीक्रियते, नतूत्पात्तनिष्ठ वर्णवृत्तित्वामति न साऽनित्यत्वसाधिकेति भावः। ननु वर्णाभिव्यक्तिजकः कण्ठताल्वाद्यभिघात एवोच्चारणपदार्थः, नतु वर्णोत्पत्तिजनक इत्यत्र किं प्रमाणम्। किञ्चि वर्णानित्यत्ववादिनामुत्पद्यते वर्णो वर्णंमुत्पादयतीत्यादिप्रयोगा इष्ठा एवेति नानुभविरोधोऽपीत्यत आह-*किञ्चेति* उत्पत्त्यादेरित्यादिना `विनष्टो वर्णः' इति प्रतीतिसाक्षिकविनाशः परिगृह्यते। *परम्परया*=स्वा?यध्वनिव्यङ्गयत्वरूपया।*नातिरिक्तेति*-वर्णानित्यत्वसाधिकेत्यर्थः। नतु स्फोटातिरिक्तेति तदर्थः, तैः स्फोटानङ्गीकारात्। नन्वेवं ध्वन्युत्पत्त्यादेस्तादृशप्रतीत्या वर्णोष्ववगाहने भ्रान्तत्वापत्तिरत आह-*परम्परया वर्णोति* स्वाश्रयसंयोगावगाहिन्या `लोहितः स्फटिकः' इति प्रतीतेर्यथा न भ्रमत्वम्, तथाऽस्या अपिति भावः। *अवशिष्यते* इत्यस्योत्पन्नो वर्ण इति प्रतीतेरिति शेषः। ननु तादृशप्रतीतेर्नियमेन परम्परासम्बन्वविषयत्वकल्पने गौरवमत आह-*परन्त्विति*। *अतिरिक्तेति* अधिकेत्यर्थः। तथाचानेकवर्णतद्ध्वंसादिकल्पनापेक्षया तत्प्रतीतेर्नियमतस्तदृससम्बन्धावगाहित्वकल्पनैव लघीयसीति भावः। यदि वर्णस्थले ध्वनिनैयत्यं स्यात् स्यादेव तदोत्पत्तेस्तद्घटितपरम्परासम्बन्धेन वर्णनिष्ठता। तत्रै3व च मानाबाव इत्यशङ्कय निराचष्टे-*नचेति*वर्णपार्थक्येन ध्वनेरननुभवादिति भावः। हेत्वसम्बधानादपि तत्सत्त्वं न घटत इत्याह-*तदुत्पादकेति* शङ्खौष्ठाभिघातजवायुसंयोगादेरित्यर्थः। *वर्णानुत्पत्तेरिति* वर्णानभिव्यक्तेरित्त्यर्थः। *दर्शनादिति* दृशिर्ज्ञानसामान्यार्थः। सत्तवादिति-तथाच पर्थक्येनानुबूयमानायाः प्रतीतेजिह्वाभिघाटजकण्ठवायुसंयोगादेर्हेतोश्च सत्त्वान्न वर्णाभिव्यक्तिस्थले धनन्यनैयत्यमित्युक्तसम्बन्दविषयकप्रतीतिर्निराबाधेति भावः। *तवैवेति* वर्णस्थले ध्वन्यसत्त्ववादिन एवेत्यर्थः। विपरीतगौरवमिति* स्वकारमवचलाज्जायमाने ध्वनौ वर्णोत्पादकसामाग्र्याः प्रतिबन्धकत्वकल्पनाध्वंन्यकल्पनाप्रयुक्तलाघवापेक्षया विपरीतगौरवग्रस्तेति यावत्। तेषामिति वर्णनित्यतावादिनां मीमांसकानामित्यर्थः। *एवञ्चेति* उत्पत्त्यादीनां वर्णावृत्तित्व इत्यर्थः।
*प्रतिबन्द्यैवेति* पराभिमतमाधिसमादेयम् प्रतिपादकमुत्तरं प्रतिबन्दस्तयेत्यर्थः। तथाच तत्र मीमांसकैरुत्पत्त्यादि प्रतीते प्रमात्वे यः समाधिराश्रितः स एवास्माबिरप्यनुसर्त्तव्य इति भावः। तथाचाखण्डवाक्यस्फोटस्वीकारे न किञ्चिद् बाधकमिति फलितम्। नन्वेतत्कल्पे पदानामसत्त्वेन मीमांसकसिद्धान्तविरोधः। तथाहि-`व्रीहिभिर्यजेत' इत्यत्र यागेन द्रव्यमात्रक्षेपे व्रीहिश्रतिर्नियमार्था-`व्रीहिभिरेव नान्यैइति। तत्र ब्रीह्यभावे नित्यकर्मणः, प्रारव्धकाम्यकर्मणश्च लोपो मा भूदिति प्रतिनिधिरुपादीयते। ब्रीहित्वस्य शक्त्युपलक्षणत्वेन प्रतिनिधेरपि श्रौतत्वात्। भवन्मते तत्र प्रतिनिध्युपादाने तद्वाक्याखण्डार्थाननुष्ठानान्नित्यादेर्विलोपापत्तिः।, नीवारकरणकक्रियाया अन्यत्वात्। `क्रिया न प्रतिवनधीयते, द्रव्यन्तु प्रतिनिधीयते एव' इत् परिभाषाया उच्छेदश्च। एवम् "व्रीहिभिरेव नान्यैइति। तत्र व्रीह्यभावे नित्यकर्मणः, प्रारव्धकाम्यकर्मणश्च लोपो मा भूदिति प्रतिनिधिरुपादीयते। ब्रीहित्वस्य शक्त्युपलक्षणकक्रियाया अन्यत्वात्। `क्रिया न प्रतिनिधियते, द्रव्यन्तु प्रतिनिधीयते एव' इति परिभाषाया उच्छेदश्च। एवम् "श्वेतं छागमालभेत" इत्यत्र क्रियायाश्छागद्रव्येण सम्बन्धः श्रौतः, द्वितीयाश्रुत्या तस्य साक्षात्प्रतिपादनात्। श्वेतगुणस्य तु वाक्यीयः सः। तत्सामानादिकरण्यात्तस्य निर्गुणस्य द्रव्यस्य निरविकरणस्य गुणस्य चासम्भवात् । श्वेतगुणस्य छागसम्बन्धमुपचीव्यैव क्रियायम्बन्धाच्छुतिप्रतिपादितद्रव्यसम्बन्धात् वाक्यप्रतिपादितगुमसम्बन्धस्य दुर्बलत्वात्, श्वेतगुणस्य छागसम्बन्धमुपजीव्यैव क्रियासम्बन्धाच्छुतिप्रतिपादितद्रव्य सम्बन्धाद् वाक्यप्रतिपादितगुणसम्बनधस्य दुर्बलत्वात्, श्वेतच्छागाभावेऽन्यगुणकश्छाग आलभ्यते, नतु श्वेतगुणयुक्तो मेषः, श्रुतिबाधापत्तेः, तस्य चाखण्डपक्षे असम्भवात्। एवमेव इतरपदार्थनिबन्धनमीमांसान्यायासम्भवो।ऽपि। अखण्डस्फोटस्यैव भवन्मते अखण्डार्थत्वेन केन कस्य बाधो भवेदिति चेत्, अत्राहुः-अखण्जवाक्यादखण्डतत्तदर्थाच्च रेखागवयन्यायेन पदपदार्थावापोद्वापाभ्यां कल्पितपदपदार्थमादाय प्रतिनिध्युपादनत्योपपत्तिः, ऋषीणां तत्त्वार्थवबोधेऽपि तत्त्वभूतेन वस्तुना व्यवहारासम्भवाद् ध्यवहारकालेऽनिर्द्धारिततत्त्वासदृसौस्तैर्नानाप्रकारेः पदतदर्थानां व्यवह्रियमाणत्वान्न तद्वचोभिः पदपदार्थानां वास्तवस्त्यत्वम्, वाक्यार्थस्यापि तदापेक्षिकमेव, परमार्थदशायां सर्वस्यापि व्यावहारिकस्यासत्वयत्वादिति। नैयायिकास्तु-सर्वमिदं वर्णानां नित्यत्वे चसम्भवेत्। तत्रैव तु प्रमाणाभावः, शद्व्मात्रस्यकाशसमवायिकारणकत्वात्। भेरीदण्डसंयोगादीनां ध्वन्यात्मकशब्द प्रतीव कण्ठादिस्थानावाय्वभिघातस्यापि वर्णात्मकशब्दं प्रत्यन्वयव्यतिरेकभ्यां निमित्तत्वाधारणाच्च। एवञ्च तादात्म्यसम्बन्धेन जन्यभावस्य प्रतियोगितासम्बन्धेन ध्वंसत्वावच्छिन्नं प्रति हेतुतयोच्चरितवर्णस्य क्षणान्तरितस्याप्रतीतेर्नष्टो वर्म इत्येव प्रतीतेश्च, स्वाव्यवहितोत्तरवर्मस्यैव नाशकताकल्पने प्रतियोगितासम्बन्धेन योग्यविभुविसेषगुणनाशम्प्रति स्वसामानाधिकरण्य-स्वाव्यवहितोत्तरवर्णस्यैव नाशकताकल्पने प्रतियोगितासम्बन्धेन योग्यविभुविशेषगुणनाशम्प्रति स्वसामानाधिकरण्य-स्वाव्यवहितपूर्ववर्तित्वोभयसम्बन्धेन योग्यविभुविशेषगुणस्य हेतुताया ज्ञानादिस्थले क्लृप्तत्वाच्च। कण्ठताल्वाद्यभिघातस्य च कत्वादिकमेव न गौरवमिति वाच्यम्, तथा सति कोलाहलप्रत्यक्षप्रसङ्गात्। नहि कोलाहलप्रत्यक्षं कत्वादिविषयकम्, येन तल्लौकिकविषयितायाः कार्य्यताऽवच्छेदकघटकता सम्भव्येत। किञ्च घटाद्युत्पादकदण्डारेरपि तदभिव्यक्तित्वस्यैव कार्यताऽवच्छेदकत्वापत्तौ घटादीनामपि नित्यत्वापत्तिरिति बहुव्याकोपः। नच सत एवाभिव्यक्तिरिति साङ्खयमताश्रयणादुक्तापत्तिरिष्टैवेति वाच्यम्, तन्मतस्याप्यापातमनोरमत्वात्। तथाहि-अभिव्यक्तिः सती, असती वा । नद्याः, घटानुत्पत्तिदशायां घटस्येव तस्या अपि सत्त्वाद् घट इति प्रतीत्यापत्तेः। अभिव्यक्तेरप्यभिव्यक्त्यङ्गीकारे तु तस्या अपि कार्य्यत्वेन सत्त्वादुक्तदोषो दुरुद्धर एव। अन्त्ये-स्वसिद्धान्तव्याघातः, युक्तितौल्येन पदार्थान्तरस्याप्युत्पत्तिसिद्धेरिति। किञ्चोत्पन्नो घटो नष्टो घट इति प्रतीत्या घटादीनामनित्यत्ववदुत्पन्नः ककारो नषटः स इत्यविलक्षणप्रतीत्या ककारादीनामनित्यत्वमेवावधार्य्यते। कत्वादीनां सयोगधर्मत्वन्तु दुरुपपादमेव। वर्णासमेवतत्वेन श्रोत्राग्राह्यत्वप्रसङ्गत्। न चोक्तसन्निकर्षादेव तत्प्रत्यक्षोपपत्तिः, तथा सति शब्दत्वादिप्रत्यक्षानापत्तेः। नच तत्सम्बन्धस्य ककारं श्रृणोमीति प्रतीतो भाने प्रमाणमस्ति, शब्दं श्रृणोमीति प्रतीतेः समवायविषयकत्वदुक्तप्रतीतेरपि तद्विषयकत्वेनोपपत्तेश्च। समवायांशे सर्वत्र तादृशप्रतीतिनां भ्रमत्वमित्यपिन वर्णसमवेतत्वस्य तत्राभ्युपगमेन विषयवाधात्। एवञ्चवर्णनामनेकत्वेन तत्रोदात्तत्वादिप्रतीतिरपि स्वरसतः सङ्गच्छेत इति दृष्टान्तदौर्मिक्ष्यमेव। एव़ञ्च वर्मप्रागभावध्वंसांनां प्रमाणसिद्धानामपलपितुमशक्यत्वान्न तत्कल्पनागौरवमपि। नच वर्णानित्यतावादिमते सोऽयं गकार इति प्रत्यभिज्ञानुपपत्तिः, तस्यास्तज्जातीयत्वविषयत्वेनोपपादने तु तज्जातीयोऽयमित्याकारः, तत्र तु स्वरूपेण९तत् तत्र सोऽप्यमित्याकार इत्यभ्युपगमात्, तज्जातीयाभेदावगाहिन्यास्तदेबोषधमित्याकारायाः प्रत्यभिज्ञायाः सर्वसिद्धत्वाच्च। तस्माद् वर्णात्मकस्फोटस्य वाचकतव्मसम्भवदुक्तिकमेव। स्फोटस्य ध्वन्यतिरिक्तत्वाभावाच्च योगशास्त्रादौ तस्य निरूपणं तूपासननार्थमेवेति प्रागुक्तप्रायम्। सखण्डस्फोटस्तु प्रागेव निरस्त इत्यानुपूर्वव्यवच्छिन्नवर्णानां वाचकत्वमूह्यमिति वदन्ति। *इत्यमिति* पूर्वोक्तप्रकारैरित्यर्थः। *पञ्चधेति* वर्णपदंवाक्याख्ण्डपदाखण्वाक्यभेदभिन्न इत्यर्थः (1-70)
।। इति भूषणसारदर्पणे व्यक्तिस्फोटनिरूपणम्।।
(1-71) क्रमप्राप्तं जातिस्फोटं निरूपयति-*शक्यत्व इवेति* ननुक्तरित्या स्फोटातिरिक्तवर्णानामसत्त्वात्तद्रतजातेर्वाचकत्विचारः काकदन्तपरीक्षासमोऽत आह सारे-*अयम्भाव इति* हकारगकारयोरभेदे साधकमाह-*स्फोटस्यैकत्वादिति* तदभिन्नाभिन्नस्य तदभिन्नत्त्वानियमेन हकारात्मकस्फोटाभिन्नगकारे तदभेदावगाहिबुद्धेःप्रमात्वापत्तिरित्यर्थः। *अनापत्तेश्चेति* अभेदादेव च तदादृशभेदावगाहिबुद्धेः प्रमात्वानुपपत्तेरित्यर्थ। ननु वर्णात्मकस्फोटस्यैकत्वेऽपि गत्वादिविरुद्धधर्मत्यासमूलकभेदप्रतीतेर्नानुपपत्तिः। प्रमाण्यन्तु तस्या वर्णैक्यवादिमते दूरापास्तमेवेत्यत आह-*किञ्चेति* उपाधित्वाभिमतगत्वादीत्यर्थः। *आद्ये*-स्फोटे गत्वाभ्युपगमपक्षे। *तदेव*=गत्वमेव। ननु गत्वादेर्वर्णधर्मतया भेदेन कथं तस्य तदात्मकत्वम्त आह-*वर्णानित्यतावादिभिरिति* मीमांसकादिभिरित्यर्थः। *अतिरिक्तेति* धर्मधर्मिणोरभेदाभ्युपगमादित्यर्थः। *गौरवमिति* गकारादिप्रतीतिनां गत्वादिविशिष्टगकारादिविषयक्तेवनोपपत्तिसम्भवादिति भावः। *अन्त्ये* स्फोटे गत्वाद्यनभ्युपगमकल्प इत्यर्थः। *विरोध इति*। गादिप्रतीत्यनुपपत्तिरित्यर्थः। गत्वस्यान्यधर्मस्य स्फोटावृत्तित्वेन तद्विशिष्टविषयकप्रतीत्यनुपपत्तिरिति भावः। वायुसंयोगावृत्तीति*-स्वमते *ध्वनिवृत्तीति*-मतान्तरे। पूर्वोक्तरीत्या तादृशवैजात्यारोपेण प्रतीतेः सूपपादत्वादाह-*आरोप्येति*। *भ्रमत्वायोगादिति* साक्षात्सम्बन्वेन प्रमात्वोपपत्तावारोपितसम्बन्धविषयकत्वे प्रमाणाभावादिति भावः। नन्वतिरिक्तानेकवर्णकल्पनापेक्षया तादृशप्रतीतीनां भ्रमत्वमेव न्याय्यमत आह-*अस्तु वेति* तथाच प्रतीतेः प्रामाण्यनिर्बहेऽले स्फोटकल्पनयेति भावः। *तस्य*=संयोगस्य। *अतीन्द्रियत्वमिति* लौकिकविषयताशून्यत्वमित्यर्थः। *दोष*=वबाधकमित्यर्थः। प्रतिबन्द्योत्तरयति-*धर्मवदिति* यथा अतीन्द्रियमात्रवृत्तिधर्मत्वस्य साक्षात्काराविषयत्वव्याप्यत्वं त्वया न स्वीक्रियते, तथाऽतीन्द्रियसंयोगगतविशेषस्य मयाऽपीत्यर्थः। यद्यतीन्द्रियस्येवैन्द्रियकत्वमत्यन्तासम्भवदुक्तिकं तदा तादृशवैजात्यस्य स्फोटधर्मवत्त्वमपि, तथैव प्रत्यक्षानुपपत्तेरिति भावः। ननु कत्वादिधर्मणामतीन्द्रियत्वेऽपि ज्ञानलक्षणया कादिप्रतीतौ तद्भाने बाधकाभाव इति चेन्न, ककार इति प्रत्यये, कत्वं साक्षात्करोमीत्यनुव्यवसाये कत्वांशे लौकिकविषयत्वावगाहेनीक्तप्रकारोऽसम्भवात्। `शङ्खः पीतः' इति ज्ञानानन्तरोत्पन्नः पीतत्वं पश्यामीति प्रत्ययस्तु भ्रम एव। दोषविशेषस्य तादृशविषयतानियामकत्वकल्पने गौरवादिति विभावनीयम्। उपसंरति-*सन्त्येवेति* त्वभिमतस्फोटातिरिक्ता वर्णाः सन्त्येवेत्यर्थः। *परमिति* किन्त्वित्यर्थः। *गौरवादिति* तत्तद्वर्णभेदभिन्नानन्तशक्तिकल्पने गौरवादित्यर्थः। ननु तावदूर्णगतपदत्वादिजात्यनुगतीकृतेष्वेकस्या एव सक्तेरभ्युपगमान्न नानात्वप्रयुक्तगोरवमत आह-*आकृत्यधिकरणेति*। न्यायस्तु नामार्थ निरूपणे प्रपञ्चितः। ननु तादृसजातौ मानाभावाऽत आह-*हरिपदमिति* अनुगतधर्म विना सकलतादृशपदेष्वेकाकारतादृशप्रतीत्यनुपपत्तेरिति भावः। नन्वनुगतप्रतीतिमात्रस्य जातिसमाधकत्वे विभुत्वादेरपि जातित्वापत्तिरतः कारणतावच्छेदकत्वादिनैव तत्सिद्धिर्वाच्या, तदभावात् प्रकृते कथं तस्य जातित्वमत आह-*अवश्येति* अन्यथा तावत्पदानां तत्तद्व्यक्तित्वेन हेतुतया व्यभिचारेयणासम्भवादिति भावः। *प्रतीत्यवच्छेदकत्वयोरिति* अनुगतप्रतीत्यवच्छेदकत्वयोरित्यर्थः। *वर्णानुपूर्व्येति* तादृशजात्यभिव्यञ्जकत्वेनावश्यकल्प्यया तयेत्यर्थः। * निर्वाह इति* तथावश्यकलॄप्तनियतपूर्ववृत्तिताऽवच्छेदकतानुपूर्व्यैवानुगतप्रतीतिकारणतावच्छेदकत्वयोः सम्भवेन तद्रूपविशिष्टपदापस्थितित्वेन हेतुत्वमन्यथासिद्धिरिति भावः। *अन्यथासिद्धयापत्तेरिति* न च सेष्टा, प्रत्यक्षाऽदिप्रमाणविरोधादिति भावः। ननु जातेः शक्तंत्वे जातित्वं शक्ततावच्छेदकं वाच्यम्, तस्य च तदितरावृत्तित्वाविशिष्टसकलतद्वृत्तित्वरूपतया तत्त्वासम्भवो गौरवादत आह-*तादात्म्येनेति* अभेदेनेत्यर्थः। तथाच नोक्तदोष इति भावः। एतत्तत्त्वमभिहितं प्राक्। *जात्योरिति* तयोः पदयो रेफाकारसकारविसर्गघटितत्वाविशेषाद्रसत्वविशिष्टोपस्थापकतावच्छेदकसरस्त्वविशिष्टोपस्थापकतावच्छेदकजात्योरेकतरस्या एव सत्ताया विनिगमकाभावांत्ततो विलक्षणार्थबोधानुपपत्तिरित्यर्थः। वाशब्दस्य पक्षान्तरपरत्वभ्रमं निराकारोति-*वा त्वर्थ इति* अवधारणे इत्यर्थः। *भेद इति* तथाच तत्र वर्णतौल्येऽप्यानुपूर्वोवैलक्षण्येन रसत्वविशिष्टोपस्थापकतावच्छेदकजातेर्निरुक्ताव्यवहितोत्तरत्वसम्बन्धेन रविशिष्ठसत्त्वादिरूपानुपूर्व्या एव व्यञ्जकतया तदभावेन न सरः-पदाद्रसत्वविशिष्ठबोधापत्तिः, एवमप्यत्रापीति भावः। मूले तारमन्दवदित्यत्र तारमन्दशब्दौ धर्मपरौ। तथाच यथा वर्णानां नित्यैकत्वमते विजातीयवायुताल्वाद्यभिघातसत्त्वे तारत्वादिना भेदप्रतीतिस्तद्वदित्यर्थः (1-71)
(1-72) वर्णजातिस्फोटमभिप्रेत्य शङ्कते सारे-*नन्विति*। *जातेरिति* अर्थबोधकजातेरित्यर्थः। *प्रत्येकमिति* पदान्तर्गततत्तदूर्णेष्वित्ययः। एवमग्रेऽपि। *अर्थबोधापत्तिरिति* तदभिव्यञ्जकवर्णसत्त्वादिति भावः। *योगार्थतयेति* स्फुटत्यर्थोऽस्मादिति वक्षयमाणावयवव्युत्पत्त्येत्यर्थः। *एतेनेति*-तत्पदघटकयावद्वर्णाभिव्यक्तजातेर्वाचकत्वाङ्गीकारेणेत्यर्थः। *सर्वदा*=पदाश्वणेऽपि। *अपपास्तमिति* जातेःसनातनत्वेऽप्युक्तस्थले व्यञ्जकासमवधानात्तदभिव्यक्त्यभावेनबाधस्यापादयितुमशक्यत्वादिति भावः। ननुवर्णजातिस्फोटपक्षे पदवटकयावद्वर्मगतजातीनामेवार्थबोधकत्वमुपगन्तव्यम्। तत्र जान्यवर्णगतजातेरन्यवर्णानभिवयङ्गयत्वात्तत्तद्वर्ण एवाभिव्यञ्जको वाच्यः। तथाचोक्तदोषस्तदवस्थ एवेत्यत आह-*अयम्भाव इति*। *उक्तदोष इति* तथाच दुष्टत्वात् स पक्षो नाश्रयणीय इति भावः। *तत्रेति* पेद वाक्ये च *तस्याः *=पदत्वादिजातेः। *व्यसज्यवृत्तित्वस्येति*। पर्य्याप्त्याख्यविलक्षणसम्बन्धेन वृत्तित्वस्येतत्यर्थः। ननु जातेः समवेतत्वस्यैव सार्वत्रिकतया कथमेतस्याः पर्य्याप्तत्वमत आह-*धर्मिग्राहकेति* धर्मवती जातिस्तद्ग्रहकं मानं पदत्वस्य वाक्यत्वस्य वा वाचकत्वानुपपत्तिस्तत्सिद्दत्वादित्यर्थः। प्रत्येकवर्णविश्रान्तजातेर्वाचकत्वस्योक्तदूषणकबलितत्वेनासम्भवाद्वाचकत्वानुपपत्त्या कल्प्यमाना पदत्वादिजाति र्यदि पुनः प्रत्येकं विश्रान्ता स्यात् तदा तत्सिद्धिरेव न स्यात्, वाचकत्वानुपपत्तेरपरिहारादतस्यत्साधाकमेव तत्पर्याप्तत्वासाधकमेव चानेकव्यक्त्यभिव्यङ्ग्येत्यस्यानेकव्यक्तिपर्य्याप्तेत्यर्थ इति भावः। वस्तुतस्तु घटादिप्रत्येकव्यक्त्यैक्ये घट इति सर्वासिद्धप्रतीत्या व्यवहारेण च सिद्ध्यतु घटत्वादेः प्रत्येकमात्रवृत्तित्वम्। न ह्योकवर्णे घटपदादिव्यवहारो येन पदत्वादेः प्रत्येकवृत्तिता स्यात् किन्तु पदशब्दः पदं न प्रकार इति वैपरीत्यमिति विभावनीयम्। इदं पुरिहावधेयम्। पदत्वं न पर्याप्तम्, जातित्वादित्यनुमानं त्वप्रयोजकमनुकूलतर्गाभावादिति विभावनीयम्। इदं पुनरिहावधेयम्। अनेकव्यक्त्यभिव्यङ्ग्येत्यत्यस्यानुपूर्व्यवच्छिन्नवर्णाभिव्यङ्गयेः। नातः सरो रस इत्यादौ अर्थभेदबोधानुपपत्तिः। एवञ्च पूर्वोक्तार्थस्यैवायं प्रपञ्चः। आनुपूर्वोवर्मयोर्विशेषणविशेष्यभावव्यत्यासः परं व्यतिरिच्यते। अत एवाग्रिमग्रन्तसङ्गतिरिति। व्यझ्यतेऽनयेति व्युत्पत्त्या व्यक्तिपदार्थो वर्ण इत्यभिप्रेत्याह-*ध्वनिवर्णयोरिति* वर्णानां ध्वनिनैयत्यादभेदोपचारोऽत एव पस्पशायां "अथ गौरित्यत्र कः शब्द" इति प्रश्ने "लोकेऽर्थबोधकत्वेन गृहीतो ध्वनिवर्णत्मकः समूह" इत्यर्थकम्। "अथवा पतीतपदार्थको धवनिः शब्द" इत्युक्तमिति भावः। *शेषार्थ इति* प्रकृतकारिकोत्तरार्द्धार्थ इत्यर्थः। वर्णषु ध्वनिव्यवहारे सम्मतिमाह-*उक्तं हीति*। *काव्यप्रकाश इति* `इदमुत्तममतिशयिनि व्यङ्गये वाच्याद् ध्वनिर्बुधैः कथितः"। इति वृत्तिव्याख्यासर इति शेषः। *स्फोटव्यङ्ग्येति* स्फोटरूपं यद् व्यङ्ग्यं तद्व्यञ्जकवर्णात्मकशब्दस्येत्यर्थः (1-72)
(1-73) नन्वेतावता प्रबन्धेन पदत्वादेर्जातित्वस्य, तद्वाचकत्वस्य च व्यवस्थापनमफलम्, पुरूषार्थानपयोगित्वादित्याशङ्क्य समाधानपरतया मूलमवतारयति-*ननु का सेति*। सा=वाचकत्वेनाबिभता जातिः केति योजना। *सत्यांश इति* सत्यत्वम्=कालत्रयाबाध्यत्वम्, तद्विपरीतमसत्यात्वम्। पर्य्यवसितार्थमाह-*तद्व्यक्तीति* तद्व्यक्त्युपलक्षितमित्यर्थः, परमार्थब्रह्यणा व्यक्तीनां वैशिष्ट्यासम्भवात्। अत एव जगत्कर्त्तुत्वादीनां तदुपलक्षणत्वमामनन्तीति बोध्यम्। *जातिरिति* तद्व्यवहारविषय इत्यर्थः। *असत्योपाधीति* व्यक्तीनामुपाधित्वञ्च, वस्तुत एकस्या अपि नानाप्रतीतिजनकत्वं तदवच्छिन्नम्=तदुपलक्षितमित्यर्थः। *द्रव्यशब्देति* गवादिशब्देत्यर्थः। गुणगतजातेरनङ्गीकारादथवा द्रव्यात्मको यश्शब्दस्तद्वाच्यमित्यर्थः। मीमांसकैः शब्दस्य द्रव्यत्वोपगमात्। *शब्दस्वरूपतयेति* श्रुत्यात्मकशब्दरूपतयेत्यर्थः। `द्वे ब्रह्मणी वेदितव्ये' इति श्रुतेः। अयमाशयः-"तस्मादेतस्माद्वा आत्मत आकाशः सम्भूतः" इत्यादितैत्तिरीयकश्रुतो ब्रह्मणो जगदुपादानत्वश्रवणादुपादेयस्य चोपादानाभिन्नत्वस्य लोकप्रसिद्धत्वान्नामार्थयोरपि स्वाभिन्नोपादानाभान्नत्वे न परस्पराभिन्नत्वे सुस्थे पृथक्प्रतीयमानजगतः `नेह नानाऽस्ति' इति श्रुत्या बाधे दृढे बाधितार्थप्रतीतेरधिष्ठानसत्तैकनियम्यत्वेनावशिष्यमाणब्रह्मणः सद्रूपस्य साक्षाज्ज्ञातुमशक्यतयोपलक्षणीभूतरूपनामनिरूपणद्वारा तज्ज्ञानाय सास्त्रस्योपयोग इति। *कथमिति* सङ्गच्छतामित्यनेनान्वितम्, पूर्वापरविरोधादिति भावः। मिथ्याज्ञानरूपायास्तज्जन्यसंस्काररूपाया वा जातित्वासम्भवादाह-*आपिद्यक इति* अविद्याकल्पित इत्यर्थः। *धर्मविशेष इति* अत्र वृत्तिवारणाय धर्मेति तद्व्यक्तित्वादिवारणाय विशेषेति *पक्षान्तरमिति* तथाच मतभेदेनार्थद्वयस्याप्याकरस्थितत्वान्न पूर्वापरविरोध इति भावः। वस्तुतस्तु गवाद्युपाध्यवच्छिन्नसत्तात्वमेव गोत्वादिव्यवहारनियामकम्, अद्वैतदर्शने च गवादेरवच्छेदकस्याभावान्न सत्ताया विसिष्टसत्तात्वम् तदानीं निर्द्धर्मत्वेनैवावस्थानादित्यर्थपरतयाऽपि विरोधः सुपरिहर इति बोध्यम् (1-73)
(1-74) यद्यप्यविशेषण वाक्यविषयेऽखण्डवाक्यतजपज९तिरूपस्फोटद्वयमुक्तम्, तथापि नादात्मकस्फोटकल्पे शास्त्रस्य पुरूषार्थे परम्परयोपयोगित्वमन्तिमकल्पे तु साक्षादेवेति तस्यैव मुख्यत्वमित्यासयेन मूलमवतारंयति-*तभेवेति*। "अयमात्मा" "तत्सत्यम्" इत्यादि श्रुतिसिद्धं यत्स्तयं तत्र सा जातिरित्यनेनोक्तमेवेत्यर्थः। मूले *इत्थमिति* पूर्वोक्तप्रकारेण अध्यस्तवाचकत्वेभ्यः प्रकृत्यादिभ्यः पृथक्क्रियमाणम्। अत एव *निरञ्जनम्*=उपाधिविनिर्मुक्तम्। अत एवाक्षरम्=अविनाशि। `यस्य सर्वेषु भूतेषु नश्यत्सु न विनस्यति' इति स्मृतेः, सोपाधिकस्यैव विनाशप्रतियोगित्वात् *शब्दतत्त्वम्* शब्दपदं रूपस्याप्युपलक्षणम्। तेन नामरूपोपादानं यत्तद् ब्रह्मेवेति विशेषणसङ्गतैवकारेण ब्रह्मतादात्म्याभावरूपे विशेषणाबोगत्ववच्छेदे शब्दतत्त्वरूपानवयितावच्छेदकव्यापकत्वं बोध्यत *प्रहुः*=प्रकर्षेण कथयन्ति। ब्रह्माभेदेन जानन्तीति यावदिति तदर्थः। तत्र नामरूपोपादानं बोध्यते *प्रहुः*=प्रकर्षेण कथयन्ति। ब्रह्माभेदेन जानन्तीति यावदिति तदर्थः। तत्र शब्दोपादानत्वस्य तन्त्रान्तरेगगनादौ प्रसिद्धेः कथं ब्रह्मणस्तदुपादानत्वमित्याशङ्कायामाह-*अयमर्थ इत्यादि*। *नामरूपेति* 'अनेन जीवेनात्मनानुप्रविश्य नामरूपेव्याकरवाणि" इति श्रुतिसिद्धेत्यर्थः। *द्वयीति* नामरूपात्मकद्व्यवयवसमूहरूपेत्यर्थः। *तत्रेति* सुष्टिद्वयमध्ये *रुपस्येवेति* अकाशाद्यत्मकार्थम्येवेत्यर्थः। *नाम्न इति* तद्वाचकशब्दस्यापीत्यर्थः। *तदेव*=ब्रह्मेव *तत्त्वम्*=उपादानमित्यर्थः. `तस्मादेतस्माद्वा आत्मनः" इत्यादिश्रुतेः। शब्दतन्मात्राकाशोपादानत्वे पर्य्यवसानाद्द्वयोरप्युपादानं ब्रह्मैव। अत एव तयोः परस्परमभेदसिद्धिः, स्वोपादानब्रह्माभिन्नत्वात्। नच ब्रह्मणो जगदुपादानत्वे विकारित्वाऽपत्तिः, `जगदेतद्विवर्त्तते' इति वदता मूलकृतैव समाहितत्वात्। तथाच व्यावहारिकप्रातिभासिकपदार्थनिरासेन श्रुत्या ब्रह्मव परिशेषीक्रियते इति प्रागुक्त एवार्थः। ननु नानात्वस्य सर्वथैव मिथ्यात्वे कथं स प्रत्ययो लोकानामत आह-*प्रक्रियांशस्त्विति* प्रकृतिप्रत्ययपञ्चकोशादिव्यवहारांशस्त्वित्यर्थः। *अविद्येति* मलिनसत्त्वाज्ञानविलास एवेत्यर्थः। तथाच ब्रह्मातिरिक्तत्वेसतानामपि तेषां पार्थक्येन प्रतीतिरधिष्ठानाज्ञानकृतैवेति न यावदधिष्ठानाज्ञानं तावत् नान्नवृत्तिरिति भावः। ननु तादृशब्रह्मज्ञाने कथं शास्त्राणामुपयोगाऽत आह-*प्रक्रियांश इति* प्रकृतिप्रत्ययादिव्युत्पादनं त्वित्यर्थः। *अविद्येति* तथाच पञ्चकोशादिन्यायेन शास्त्राणामुपयोगः, नतु तज्ज्ञाने साक्षादुपयोग इति भावः। *अविद्यैवोपवर्ण्यते इति* वाक्यपदीयानन्तरम्-`उपायाः शिक्ष्यमाणानां बालानामुपलालनाः। असत्ये वर्त्मनि सिथित्वा ततः सत्य समीहत्' इति श्लोकः। "समारम्भस्तु भावानामित्यस्य" पूर्वार्द्धन्तु-घटाटिदर्शनाल्लोकः परिच्छिन्नोऽवसीयते।।इति।। तदर्थस्तु यथा घटादिकं दृश्वा लोका विस्वप्रपञ्चः परिच्छिन्नः किञ्चिन्निष्ठकारणतानिरूपककार्य्यतावत्त्वेनाऽनुमीयते, एवं भावानाम्=आकाशादीनाम् *समारम्भस्त्विति*=सम्यगारम्भः=जननं यस्मात्। भावप्रधानश्च निर्द्दशः, तदुत्पत्तिहेतुत्वादित्यक्षरार्थः, बावोपादानत्वादिति यावत्। तादात्म्यन वा हेतुः। *समारम्भादिति*शाश्वतं नित्यमपि ब्रह्म आदिमत्सकाराणकमिवावसीयत इत्यनुषज्यते। परिणाम्युपादानत्वे तस्मिन्नभ्युपगम्यमाने विकारित्वप्रसङ्गशङ्का। वस्तुतो न तत्प्रसक्तिः, विवर्त्तापादनतया तदेवाङ्गीकाराद्रज्ज्वादौ प्रातिभासिकभुजङ्गस्येवेति भावः। `अनादि ब्रह्मसाश्वतम्। इति पाठस्त्वन्यतरविसे,णोपादनवैयर्थ्यमत आह-*ब्रह्मवेति* तथाच प्रकृते ब्रह्मपदस्य स्वप्रकाशरूपब्रह्मपरत्वान्नोक्तानुपपत्तिरितित भावः। "तमेव भान्तम्" इत्यस्य-"न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्यतो भान्ति कुतोऽयमग्निः" इति पूर्वाद्धम्। श्रुतीत्युपलक्षणम्-यदादित्यगतं तेजो जगद्भासयतेऽखिलम्, इत्यादिस्म़तेरपि। *स्वपरप्रकाशत्वमिति* तत्र परप्रकाशकत्वे मामुक्तम्। स्वप्रकाशकत्वञ्च-स्वभिन्नाप्रकाश्यत्वे सति प्रकाश्यत्वम्, स्वात्मकनित्यज्ञानिविषयत्वमिति यावत्। "नित्यं विज्ञानमानन्दं ब्रह्म" इति श्रुत्या ब्रह्मणो नित्यं विज्ञानमानन्दं ब्रह्म" इति श्रुत्या ब्रह्मणो नित्यज्ञानानन्दस्वरूपत्वप्रतिपादनात् प्रकृतश्रतिः 'त्वयमेवात्मनात्मानं वेस्ति त्वं पुरुषोत्तम्' इति स्मृतिश्च स्वप्रकाशत्वे पराप्रकाश्यत्वे च " न तद्भासयते सूर्य्यः" इत्यादि स्मृतिश्च मानम्, अधिकमन्यत्रानुसन्वेयम्। *सूचयतीति* स्फोटस्वप्रकाशपदयोः पर्य्यायत्वं बोधयतीत्यर्थः। तथाच जातिस्फोटवादिमते उपाधिनिरासद्वारा सब्दब्रह्मणः स्वप्रकाशत्वरूपेण पुरुषार्थोपयोगिनि ज्ञाने व्याकरमस्योपयोग इति सिद्धम्। नादस्फोटवादिमते यथोपयोगस्तथोपपादितं प्राक्। *निर्विध्नेति* अप्रतिबद्धस्वग्रन्थप्रचारार्थमित्यर्थः। *अन्ते*=ग्रन्थावसाने। *मङ्गलमिति* नत्यात्मकं तदित्यर्थः। "मङ्गलादीनि मङ्गलान्तानि मङ्गलामध्यानि च शास्त्राणि प्रथन्ते" इति भाष्यकारोक्श्रुतेरिति भावः। पूर्णत्वमखण्डान्दत्वमप्रतिहतेच्चत्वं वा तेन रूपेण तन्नतिश्च स्वीयग्रन्थप्रचारेच्छाविषयसिद्ध्य इति बोध्यम् (1-74)
ज्ञात्वा श्रीफणिवाक्यजालमतुलं नैयायिकोक्तीरपि मीमासानयमाकलय्य च मया सम्यक्कृते दर्पणे।
अस्मिन् भूषणसारतां बुधजनः सोत्पण्ठसमालोकतां यन्निश्वासमलीमयो न मुकुरस्तत्त्वार्थबोधक्षमः ।। 1 ।।
आसीत् कुर्मगिरौ धरासुरवरः श्रीवल्लभः कोविदो देदान्तेषु विनोदमञ्जरिरिति ख्याताऽस्ति यन्निर्मतिः।
तत्सूनुर्हरिवल्लभः समकरोत्सद्युतिमण्युज्बलं श्रीमद्भूषणसारदर्प्पणमिमम्मोदाय विद्यावताम् ।। 2 ।।
उत्प्रेक्षितार्थोहि न मोदहेतवेऽभ्यस्तो भृशं साऽपिबुधां तथैव। इत्याकल्य्योमयमत्र युक्तिप्रमाणसिद्धं समुदाहृतं मया ।। 3 ।।
सर्वोऽप्यर्थो बुधैः स्पृष्टो यद्यपीह तथापि मे। सत्समन्दर्भाशविततता ममता केन वार्य्यते ।। 4 ।।
इति श्रीमत्कूर्मचलाभिजनोत्प्रभातीयोपनामकश्रीवल्लभाऽऽत्मजहरिवल्लभविरचिते भूषणसारदर्प्पणे स्फोटवादः समाप्तः।